मृगेन्द्रतन्त्रम्
मृगेन्द्रतन्त्रम् [[लेखकः :|]] |
परमेशं नमस्कृत्य भरद्वाजमृषिं ततः ।
हरादिन्द्रक्रमायातं ज्ञानं शृणुत सुव्रताः ॥ १,१.१ ॥
नारायणाश्रमे पुण्ये भरद्वाजादयो द्विजाः ।
तेपुः शिवं प्रतिष्ठाप्य तदेकाहितमानसाः ॥ १,१.२ ॥
अथ तान्भावितान्मत्वा कदाचित्त्रिदशाधिपः ।
तदाश्रमपदं भेजे स्वयं तापसवेषभृत् ॥ १,१.३ ॥
स तैः संपूजितः पृष्ट्वा तांश्च सर्वाननामयम् ।
प्रोवाच चोदनाधर्मः किमर्थं नानुवर्त्यते ॥ १,१.४ ॥
त ऊचुर्नन्वयं धर्मश्चोदनाविहितो मुने ।
देवताराधनोपायस्तपसाभीष्टसिद्धये ॥ १,१.५ ॥
वेदेऽस्ति संहिता रौद्री वाच्या रुद्रश्च देवता ।
सान्निध्यकरणेऽप्यस्मिन् विहितः काल्पिको विधिः ॥ १,१.६ ॥
इत्युक्तेऽपि परं भावं जिज्ञासुः प्रहसन्प्रभुः ।
तानाह मिथ्या ज्ञानं वः शब्दमात्रं हि देवता ॥ १,१.७ ॥
शब्देतरत्वे युगपद्- भिन्नदेशेषु यष्टृषु ।
न सा प्रयाति सांनिध्यं मूर्तत्वदस्मदादिवत् ॥ १,१.८ ॥
न च तत्साधकं किंचित्प्रमाणं भात्यबाधितम् ।
वाक्यं तदन्यथासिद्धं लोकवादाः क्व साधवः ॥ १,१.९ ॥
इत्यनीशवचोवारि- वेलानुन्नोऽब्धिनेव सः ।
शक्रेण न चचालैषां धीशैलः सारगौरवात् ॥ १,१.१० ॥
न जातु देवतामूर्तिरस्मदादिशरीरवत् ।
विशिष्टैश्वर्यसम्पन्ना सातो नैतन्निदर्शनम् ॥ १,१.११ ॥
अथास्त्वेवं घटे न्यायः शब्दत्वादिन्द्रशब्दवत् ।
नादत्ते घटशब्दोऽम्भश्चन्द्रशब्दो न राजते ॥ १,१.१२ ॥
अथान्यविषयं वाक्यमस्तु शक्रादिवाचकम् ।
कर्मरूपादिशब्दानां सार्थकत्वं कथं भवेत् ॥ १,१.१३ ॥
प्रवादोऽप्यखिलो मिथ्या समूलत्वान्न युक्तिमत् ।
न चेदमूलं भूतानां हताः सर्वाः प्रवृत्तयः ॥ १,१.१४ ॥
उपमन्युर्हरं दृष्ट्वा विमन्युरभवन्मुनिः ।
कथं तस्य वचो मिथ्या यस्य वश्यः पयोनिधिः ॥ १,१.१५ ॥
क्रोडीकृतोऽहिपाशेन विषज्वालावलीमुचा ।
हुङ्कृत्य मोचितः पत्या दृष्टः श्वेतो धनैर्जनैः ॥ १,१.१६ ॥
इति वादानुषङ्गेण हरशंसाप्रहर्षितान् ।
साश्रुगद्गदवाचस्तान् वीक्ष्य प्रीतोऽभवद्धरिः ॥ १,१.१७ ॥
स्वं रूपं दर्शयामास वज्री देवः शतक्रतुः ।
तरुणादित्यसंकाशं स्तूयमानं मरुद्गणैः ॥ १,१.१८ ॥
ते तमृग्भिर्यजुर्भिश्च सामभिश्चास्तुवन्नताः ।
सोऽब्रवीदुच्यतां कामो जगत्सु प्रवरोऽपि यः ॥ १,१.१९ ॥
ते वव्रिरे शिवज्ञानं श्रूयतामिति सोऽब्रवीत् ।
किंत्वेकोऽस्तु मम प्रष्टा निखिलश्रोतृसम्मतः ॥ १,१.२० ॥
अथ तेषां भरद्वाजो भगवानग्रणीरभूत् ।
वाग्मी प्रगल्भः पप्रच्छ न्यायतः सुरपूजितम् ॥ १,१.२१ ॥
कथं महेश्वरादेतदागतं ज्ञानमुत्तमम् ।
किं च चेतसि संस्थाप्य निर्ममे भगवानिदम् ॥ १,१.२२ ॥
सृष्टिकाले महेशानः पुरुषार्थप्रसिद्धये ।
विधत्ते विमलं ज्ञानं पञ्चस्रोतोऽभिलक्षितम् ॥ १,१.२३ ॥
तद्वर्तिवाचकव्रात- वाच्यानष्टौ महेश्वरान् ।
सप्तकोटिप्रसंख्यातान्मन्त्रांश्च परमेऽध्वनि ॥ १,१.२४ ॥
अष्टादशाधिकं चान्यच्छ्रुतं मायाधिकारिणाम् ।
मन्त्रेश्वराणामूर्ध्वाध्व- स्थितेशोपमतेजसाम् ॥ १,१.२५ ॥
तेषु व्यक्तः स भगवानिदं योग्येषु सिद्धये ।
प्रकाशयत्यतोऽन्येषु योऽर्थः समुपपद्यते ॥ १,१.२६ ॥
शिवोद्गीर्णमिदं ज्ञानं मन्त्रमन्त्रेश्वरेश्वरैः ।
कामदत्वात्कामिकेति प्रगीतं बहुविस्तरम् ॥ १,१.२७ ॥
तेभ्योऽवगत्य दृग्ज्योतिर्ज्वालालीढस्मरद्रुमः ।
ददावुमापतिर्मह्यं सहस्रैर्भवसंमितैः ॥ १,१.२८ ॥
तत्रापि विस्तरं हित्वा सूत्रैः सारार्थवाचकैः ।
वक्ष्ये निराकुलं ज्ञानं तदुक्तैरेव भूयसा ॥ १,१.२९ ॥
अथानादिमलापेतः सर्वकृत्सर्वविच्छिवः ।
पूर्वव्यत्यासितस्याणोः पाशजालमपोहति ॥ १,२.१ ॥
त्रिपदार्थं चतुष्पादं महातन्त्रं जगत्पतिः ।
सूत्रेणैकेन संहृत्य प्राह विस्तरशः पुनः ॥ १,२.२ ॥
जगज्जन्मस्थितिध्वंस- तिरोभावविमुक्तयः ।
कृत्यं सकारकफलं ज्ञेयमस्यैतदेव हि ॥ १,२.३ ॥
तेन स्वभावसिद्धेन भवितव्यं जगत्कृता ।
अर्वाक्सिद्धेऽनवस्था स्यान्मोक्षो निर्हेतुकोऽपि वा ॥ १,२.४ ॥
चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा ।
सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥ १,२.५ ॥
सदप्यभासमानत्वात्तन्निरुद्धं प्रतीयते ।
वश्योऽनावृतवीर्यस्य सोऽत एवाविमोक्षणात् ॥ १,२.६ ॥
प्रावृतीशबले कर्म मायाकार्यं चतुर्विधम् ।
पाशजालं समासेन धर्मा नाम्नैव कीर्तिताः ॥ १,२.७ ॥
इति वस्तुत्रयस्यास्य प्राक्पादकृतसंस्थितेः ।
चर्यायोगक्रियापादैर्विनियोगोऽभिधास्यते ॥ १,२.८ ॥
विनियोगफलं मुक्तिर्भुक्तिरप्यनुषङ्गतः ।
परापरविभागेन भिद्येते ते त्वनेकधा ॥ १,२.९ ॥
वेदानसांख्यसदसत्- पादार्थिकमतादिषु ।
ससाधना मुक्तिरस्ति को विशेषः शिवागमे ॥ १,२.१० ॥
प्रणेत्रसर्वदर्शित्वान्न स्फुटो वस्तुसंग्रहः ।
उपायाः सफलास्तद्वच्छैवे सर्वमिदं परम् ॥ १,२.११ ॥
वेदान्तेष्वेक एवात्मा चिदचिद्व्यक्तिलक्षितः ।
प्रतिज्ञामात्रमेवेदं निश्चयः किंनिबन्धनः ॥ १,२.१२ ॥
अथ प्रमाणं तत्रात्मा प्रमेयत्वं प्रपद्यते ।
यत्रैतदुभयं तत्र चतुष्टयमपि स्थितम् ॥ १,२.१३ ॥
अद्वैतहानिरेवं स्यान्निष्प्रमाणकतान्यथा ।
भोगसाम्याविमोक्षौ च यौ नेष्टावात्मवादिभिः ॥ १,२.१४ ॥
सांख्यज्ञानेऽपि मिथ्यात्वं कार्ये कारणबुद्धितः ।
अकर्तृभावाद्भोक्तुश्च स्वातन्त्र्यादप्यचित्त्वतः ॥ १,२.१५ ॥
इह सप्त पदार्थाः स्युर्जीवाजीवास्त्रवास्त्रयः ।
संवरो निर्जरश्चैव बन्धमोक्षावुभावपि ॥ १,२.१६ ॥
स्याद्वादलाञ्छिताश्चैते सर्वेऽनैकान्तिकत्वतः ।
तदेव सत्तदेवासदिति केन प्रमीयते ॥ १,२.१७ ॥
सदन्यदसदन्यच्च तदेवं सिद्धसाध्यता ।
असज्जघन्यं सच्छ्रेष्ठमित्यपि ब्रुवते बुधाः ॥ १,२.१८ ॥
नैकत्र तदपेक्षातः स्थितमेवोभयं ततः ।
अथ चेत्सदसद्भावः सदायुक्ततरो मतः ॥ १,२.१९ ॥
तत्कर्मसंकरभयादव्यापित्वं च ते जगुः ।
सामान्येतरसम्बन्ध- ज्ञानाभावादचेतसः ॥ १,२.२० ॥
यः प्रागव्यापकः सोऽन्ते कथमन्यादृशो भवेत् ।
स विकासादिधर्मा चेत्ततो दोषपरम्परा ॥ १,२.२१ ॥
षट्पदार्थपरिज्ञानान्मिथ्याज्ञानं निवर्तते ।
रागद्वेषौ ममत्वं च तद्विशेषगुणास्ततः ॥ १,२.२२ ॥
क्रमशो विनिवर्तन्ते देहसंयोगजा यतः ।
सा मुक्तिर्जडतारूपा ततो मुक्तः शवो न किम् ॥ १,२.२३ ॥
चिद्व्यञ्जकस्य कर्मादेः क्षणिकत्वान्मुहुर्मुहुः ।
व्यज्यते जायमानैव क्षणिकेति मता परैः ॥ १,२.२४ ॥
तदसत्कर्मणो भोगादतीतानुभवस्मृतेः ।
स्थितिर्निरन्वये नाशे न स्मृतेर्नापि कर्मणः ॥ १,२.२५ ॥
विनाशलक्षणोऽपैति न मुक्तावप्युपप्लवः ।
न चास्त्यनुभवः कश्चिद्भवावस्था वरं ततः ॥ १,२.२६ ॥
इत्याद्यज्ञानमूढाणां मतमाश्रित्यदुर्धियः ।
अपवर्गमभीप्सन्ति खद्योतात्पावकार्थिनः ॥ १,२.२७ ॥
यत्कैवल्यं पुंस्प्रकृत्योर्विवेकाद्यो वा सर्वं ब्रह्म मत्वा विरामः ।
या वा काश्चिन्मुक्तयः पाशजन्यास्तास्ताः सर्वा भेदमायान्ति सृष्टौ ॥ १,२.२८ ॥
शैवे सिद्धो भाति मूर्ध्नीतरेषां मुक्तः सृष्टौ पुनरभ्येति नाधः ।
विश्वानर्थान्स्वेन विष्टभ्य धाम्ना सर्वेशानानीशितः सर्वदास्ते ॥ १,२.२९ ॥
अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् ।
कर्तारमस्य जानीमो विशिष्टमनुमानतः ॥ १,३.१ ॥
वैशिष्ट्यं कार्यवैशिष्ट्याद्दृष्टं लोकस्थितावपि ।
ठिस्लस्थल्-लिने अप्पेअर्सस्पर्तो थे चोम्मेन्तर्य्(एद्प्.१०४, लिनेस्४--५)
बुतित्प्रोबब्ल्य्बेलोन्ग्स्तो थे तेतन्दिसॄउओतेदस्पर्तो इत्
इन् ट्रिलोचनऽस्षिद्धान्तार्थसमुच्चय (ईড়् ंष्ट्.२०६, प्.६२ अन्द्ट्.२८४, प्.१३३).
यद्यथा यादृशं यावत्कार्यं तत्कारणं तथा ।
नित्यं कालानवच्छेदाद्द्वैतत्यान्न प्रदेशगम् ॥ १,३.२ ॥
क्रमाक्रमसमुत्पत्तेः क्रमाद्युत्पत्तिशक्तिमत् ।
तस्यास्ति करणं येन दृष्टा नाकरणा कृतिः ॥ १,३.३ ॥
अनागामि च तज्ज्ञेयं कार्यस्यानादिसंस्थितेः ।
करणं च न शक्त्यन्यच्छक्तिर्नाचेतना चितः ॥ १,३.४ ॥
विषयानियमादेकं बोधे कृत्ये च तत्तथा ।
कार्यं न स्थितिजन्मादि बीजस्य प्रकृतेरणोः ॥ १,३.५ ॥
पारिशेष्यान्महेशस्य मुक्तस्य शिव एव सः ।
सम्बन्धाग्रहणे बाधा मानस्याभ्येति कस्यचित् ॥ १,३.६ ॥
सा परस्यापि धूमोऽन्यो गिरौ माहानसाद्यतः ।
लोके वपुष्मतो दृष्टं कृत्यं सोऽप्यस्मदादिवत् ॥ १,३.७ ॥
मूलाद्यसम्भवाच्छाक्तं वपुर्नो तादृशं प्रभोः ।
तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ॥ १,३.८ ॥
ईशतत्पुरुषाघोर- वामाजैर्मस्तकादिकम् ।
ईष्टे येन जगत्सर्वं गुणेनोपरिवर्तिना ॥ १,३.९ ॥
स मूर्धसमदेशत्वान्मूर्धा नावयवस्तनोः ।
तस्य तस्य तनुर्या पूस्तस्यामुषति येन सः ॥ १,३.१० ॥
तत्त्राणाद्व्यञ्जनाच्चापि स तत्पुरुषवक्त्रकः ।
हृदयं बोधपर्यायः सोऽस्याघोरः शिवो यतः ॥ १,३.११ ॥
परिग्रहस्य घोरत्वाद्घोरोक्तिरुपचारतः ।
वामस्त्रिवर्गवामत्वाद्रहस्यश्च स्वभावतः ।
वामं धाम परं गुह्यं यस्यासौ वामगुह्यकः ॥ १,३.१२ ॥
सद्योऽणूनां मूर्तयः सम्भवन्ति यस्येच्छातस्तेन सद्योऽभिधानः ।
सद्यो मूर्तीर्योगिनां वा विधत्ते सद्योमूर्तिः कृत्यशैघ्र्यान्न मूर्तेः ॥ १,३.१३ ॥
इत्थं शक्तिः कुर्वती देहकृत्यं देहाभावादुच्यते देहशब्दैः ।
तस्या भेदा येऽपि वामादयः स्युस्तेऽपि प्रोक्ताः कृत्यभेदेन सद्भिः ॥ १,३.१४ ॥
स इत्थंविग्रहोऽनेन करणेनाहतौजसा ।
करोति सर्वदा कृत्यं यदा यदुपपद्यते ॥ १,४.१ ॥
तत्रादौ केवलाणूनां योग्यानां कुरुतेऽष्टकम् ।
वामादिशक्तिभिर्युक्तं सप्तकोटिपरिच्छदम् ॥ १,४.२ ॥
तेषामनन्तः सूक्ष्मश्च तथा चैव शिवोत्तमः ।
एकनेत्रैकरुद्रौ च त्रिमूर्तिश्चामितद्युतिः ॥ १,४.३ ॥
श्रीकण्ठश्च शिखण्डी च राजराजेश्वरेश्वराः ।
ईषदप्राप्तयोगत्वान्नियोज्याः परमेष्ठिनः ॥ १,४.४ ॥
सर्वज्ञत्वादियोगेऽपि नियोज्यत्वं मलांशतः ।
परस्परं विशिष्यन्ते मन्त्राश्चैवमधः स्थिताः ॥ १,४.५ ॥
ते च मन्त्रेश्वरव्यक्त- शिवशक्तिप्रचोदिताः ।
कुर्वन्त्यनुग्रहं पुंसां यदा येषां स युज्यते ॥ १,४.६ ॥
प्रयोक्तृदेहसापेक्षं तदर्धमखिलेऽध्वनि ।
कृत्वाधिकारं स्थित्यन्ते शिवं विशति सेश्वरम् ॥ १,४.७ ॥
विनाधिकरणेनान्यत्प्रधानविकृतेरधः ।
कृत्वाधिकारमीशेष्टमपैति स्वाध्वसंहृतौ ॥ १,४.८ ॥
ततोऽनन्ताद्यभिव्यक्तः पतीनां ग्रन्थितत्त्वतः ।
कलाद्यारब्धदेहानां करोत्यष्टादशं शतम् ॥ १,४.९ ॥
तानप्याविश्य भगवान् साञ्जनान् भुवनाधिपान् ।
येभ्यः सर्वमिदं येषां शक्तिः कर्मनिबन्धना ॥ १,४.१० ॥
प्रणेतॄण्पशुशास्त्राणां पशूंस्तदनुवर्तकान् ।
स्वसाध्यकारकोपेतान् कालधामावधिस्थितान् ॥ १,४.११ ॥
स्थितौ सकारकानेतान् समाक्रम्य स्वतेजसा ।
युनक्ति स्वार्थसिद्ध्यर्थं भूतैरनभिलक्षितः ॥ १,४.१२ ॥
भोगसाधनमाक्षिप्य कृत्वा कारणसंश्रयम् ।
तच्च सात्मकमाक्रम्य विश्रमायावतिष्ठते ॥ १,४.१३ ॥
भविनां भवखिन्नानां सर्वभूतहितो यतः ।
स्वापावसानमासाद्य पुनः प्राग्वत्प्रवर्तते ॥ १,४.१४ ॥
स्वापेऽप्यास्ते बोधयन्बोधयोग्यान् रोध्यान्रुन्धन्पाचयन् कर्मिकर्म ।
मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् पश्यन्सर्वं यद्यथा वस्तुजातम् ॥ १,४.१५ ॥
तमःशक्त्यधिकारस्य निवृत्तेस्तत्परिच्युतौ ।
व्यनक्ति दृक्क्रियानन्त्यं जगद्बन्धुरणोः शिवः ॥ १,५.१ ॥
यान्विमोचयति स्वापे शिवाः सद्यो भवन्ति ते ।
संहृतौ वा समुद्भूतावणवः पतयोऽथवा ॥ १,५.२ ॥
रुद्रमन्त्रपतीशान- पदभाजो भवन्ति ते ।
स्थितौ याननुगृह्णाति गुरुमास्थाय चिद्वतः ॥ १,५.३ ॥
येषां शरीरिणां शक्तिः पतत्यपि निवृत्तये ।
तेषां तल्लिङ्गमौत्सुक्यं मुक्तौ द्वेषो भवस्थितौ ॥ १,५.४ ॥
भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासके विधौ ।
अनेनानुमितिः शिष्ट- हेतोः स्थूलधियामपि ॥ १,५.५ ॥
पशुदृग्योगसिद्धानां कर्मव्यक्तिद्वयं समम् ।
ज्येष्ठादिफलयोग्यानां साधिकारासु मुक्तिषु ॥ १,५.६ ॥
उपायादरवैशिष्ट्यान्मृग्यते तत्त्रयं पुनः ।
द्वयोर्व्यक्तिकरः कश्चिच्च्युतिसिद्धिविलक्षितः ॥ १,५.७ ॥
ईषदर्धनिवृत्ते तु रोधकत्वे तमःपतेः ।
भवन्त्येतानि लिङ्गानि किंचिच्छिष्टे च देहिनाम् ॥ १,५.८ ॥
योग्यतात्रयमप्येतत्समतीत्य महेश्वरः ।
स्वापेऽनुमनुगृह्णाति साधिकारमिदं यतः ॥ १,५.९ ॥
सर्गमूले तृतीयायां स्वापवद्भूतसंहृतौ ।
स यद्व्यपास्य क्रियते तद्विधो योऽणुरुच्यते ॥ १,५.१० ॥
तथा बीजं शरीरादेः पाचयत्यानिवेशनात् ।
न योग्यताङ्गमभजत्सद्यः स्यादौषधादिवत् ॥ १,५.११ ॥
पाकार्हमपि तत्पक्तुं नेशत्यात्मानमात्मना ।
धर्मसामान्य एवायं सर्वस्य परिणामिनः ॥ १,५.१२ ॥
सर्वज्ञः सर्वकर्तृत्वात्साधनाङ्गफलैः सह ।
यो यज्जानाति कुरुते स तदेवेति सुस्थितम् ॥ १,५.१३ ॥
तच्चास्यावृतिशून्यत्वान्न व्यञ्जकमपेक्षते ।
तन्न सांशयिकं तस्माद्विपरीतं न जातुचित् ॥ १,५.१४ ॥
यानि व्यञ्जकमीक्षन्ते वृतत्वान्मलशक्तिभिः ।
व्यञ्जकस्यानुरोधेन तानि स्युर्व्याहतान्यपि ॥ १,५.१५ ॥
नाध्यक्षं नापि तल्लैङ्गं न शाब्दमपि शाङ्करम् ।
ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुषु ॥ १,५.१६ ॥
तदेकं विषयानन्त्याद्भेदानन्त्यं प्रपद्यते ।
कर्तृत्वं तदभिन्नत्वात्तद्वदेवोपचारतः ॥ १,५.१७ ॥
सत्तस्वरूपकरणार्थविधेयदृग्भिर्लेशोदिताभिरिति ये विदुरीशतत्त्वम् ।
ते मोचयन्ति भविनो भवपङ्कमग्नान्नो विस्तरेण पुरुषाः पशुपाशरूपम् ॥ १,५.१८ ॥
अथ विश्वनिमित्तस्य प्राप्तं लक्षणमात्मनः ।
तदीशोक्तौ गतप्रायं तथाप्युद्देश उच्यते ॥ १,६.१ ॥
कार्यं क्षित्यादि कर्तेशस्तत्कर्तुर्नोपयुज्यते ।
न स्वार्थमप्यचिद्भावान्नानर्थ्यं कर्तृगौरवात् ॥ १,६.२ ॥
पारिशेष्यात्परार्थं तत्क्षेत्रज्ञः स परस्तयोः ।
परो देहस्तदर्थत्वात्परार्थाः क्ष्मादयो ननु ॥ १,६.३ ॥
कायोऽप्यचित्त्वादान्यार्थ्यं सुतरां प्रतिपद्यते ।
चेतनश्चेन्न भोग्यत्वाद्विकारित्वाच्च जातुचित् ॥ १,६.४ ॥
भोग्या विकारिणो दृष्टाश्चिद्विहीनाः पटादयः ।
यस्मिन्सति च सत्त्वाद्वा न सत्यपि शवे चितिः ॥ १,६.५ ॥
परिणामसय्वैशिष्ट्यादस्ति चेत्न स्मृतिस्तदा ।
नाप्येवं सुप्रतीतत्वात्स्मर्ता कायेतरोऽस्त्यतः ॥ १,६.६ ॥
नाव्यापको न क्षणिको नैको नापि जडात्मकः ।
नाकर्ता भिन्नचिद्योगी पाशान्ते शिवताश्रुतेः ॥ १,६.७ ॥
अथाविद्यादयः पाशाः कथ्यन्ते लेशतोऽधुना ।
येषामपाये पतयो भवन्ति जगतोऽणवः ॥ १,७.१ ॥
पाशाभावे पारतन्त्र्यं वक्तव्यं किन्निबन्धनम् ।
स्वाभाविकं चेन्मुक्तेषु मुक्तशब्दो निवर्तते ॥ १,७.२ ॥
बन्धशून्यस्य वशिता दृष्टा बद्धस्य वश्यता ।
एतावती ते बद्धत्व- मुक्तत्वे बद्धमुक्तयोः ॥ १,७.३ ॥
तत्पारतन्त्र्यं बद्धत्वं तस्मिन्नित्ये चिदादिवत् ।
मुक्तिसाधनसंदोहो व्यर्थोऽलमनया धिया ॥ १,७.४ ॥
नित्यव्यापकचिच्छक्ति- निधिरप्यर्थसिद्धये ।
पाशवं शाम्भवं वापि नान्विष्यत्यन्यथा बलम् ॥ १,७.५ ॥
तदावरणमस्याणोः पञ्चस्रोतसि शाङ्करे ।
पर्यायैर्बहुभिर्गीतमदृष्टं पशुभिः सदा ॥ १,७.६ ॥
पशुत्वपशुनीहार- मृत्युमूर्च्छामलाञ्जनैः ।
अविद्यावृतिरुग्ग्लानि- पापमूलक्षपादिभिः ॥ १,७.७ ॥
तदेकं सर्वभूतानामनादि निबिडं महत् ।
प्रत्यात्मस्थस्वकालान्ता- पायिशक्तिसमूहवत् ॥ १,७.८ ॥
तदनादिस्थमर्वाग्वा तद्धेतुस्तदतोऽन्यथा ।
रुणद्धि मुक्तानेवं चेन्मोक्षे यत्नस्ततो मृषा ॥ १,७.९ ॥
तदेकं बहुसंख्यं तु तादृगुत्पत्तिमद्यतः ।
किन्तु तच्छक्तयोऽनेका युगपन्मुक्त्यदर्शनात् ॥ १,७.१० ॥
तासां माहेश्वरी शक्तिः सर्वानुग्राहिका शिवा ।
धर्मानुवर्तनादेव पाश इत्युपचर्यते ॥ १,७.११ ॥
परिणामयत्येताश्च रोधान्तं कार्कचित्त्विषा ।
यदोन्मीलनमाधत्ते तदानुग्राहिकोच्यते ॥ १,७.१२ ॥
शम्भोश्चिदाद्यनुग्राह्यं तद्विरोधितया मिथः ।
युगपन्न क्षमं शक्तिः सर्वानुग्राहिका कथम् ॥ १,७.१३ ॥
कथं भूतोपकारार्थं प्रवृत्तस्य जगत्प्रभोः ।
अपकारकमाविश्य युज्यते तुन्नतोदनम् ॥ १,७.१४ ॥
न तोदनाय कुरुते मलस्याणोरनुग्रहम् ।
किन्तु यत्क्रियते किञ्चित्तदुपायेन नान्यथा ॥ १,७.१५ ॥
न साधिकारे तमसि मुक्तिर्भवति कस्यचित् ।
अधिकारोऽपि तच्छक्तेः परिणामान्निवर्तते ॥ १,७.१६ ॥
सोऽपि न स्वत एव स्यादपि योग्यस्य वस्तुनः ।
सर्वथा सर्वदा यस्माच्चित्प्रयोज्यमचेतनम् ॥ १,७.१७ ॥
यथा क्षारादिना वैद्यस्तुदन्नपि न रोगिणम् ।
कोटाविष्टार्थदायित्वाद्दुःखहेतुः प्रतीयते ॥ १,७.१८ ॥
सर्वगत्वान्महेशस्य नाधिष्ठानं विहन्यते ।
न च यत्रास्ति कर्तव्यं तस्मिन्नौदास्यमेति सः ॥ १,७.१९ ॥
धर्मिणोऽनुग्रहो नाम यत्तद्धर्मानुवर्तनम् ।
न सोऽस्ति कस्यचिज्जातु यः पत्या नानुवर्तते ॥ १,७.२० ॥
गताधिकारनीहार- वीर्यस्य सत एधते ।
पशोरनुग्रहोऽन्यस्य तादर्थ्यादस्ति कर्मणः ॥ १,७.२१ ॥
बोद्धृत्वपरिणामित्व- धर्मयोरनुवर्तनम् ।
मलस्य साधिकारस्य निवृत्तेस्तत्परिच्युतौ ॥ १,७.२२ ॥
इत्येवं यौगपद्येन क्रमात्सुघत एव हि ।
मायायाः साधिकारायाः कर्मणश्चोक्त एव सः ॥ १,७.२३ ॥
अथेन्द्रियशरीरार्थैश्चिद्योगस्यानुमीयते ।
निमित्तमागामिभावाद्यतो नागाम्यहेतुमत् ॥ १,८.१ ॥
तस्य प्रदेशवर्तित्वाद्वैचित्र्यात्क्षणिकत्वतः ।
प्रतिपुंनियतत्वाच्च सन्ततत्वाच्च तद्गुणम् ॥ १,८.२ ॥
ईशाविद्याद्यपेक्षित्वात्सहकारि तदुच्यते ।
कर्म व्यापारजन्यत्वाददृष्टं सूक्ष्मभावतः ॥ १,८.३ ॥
जनकं धारकं भोग्यमध्यात्मादित्रिसाधनम् ।
तत्सत्यानृतयोनित्वाद्धर्माधर्मस्वरूपकम् ॥ १,८.४ ॥
स्वापे विपाकमभ्येति तत्सृष्टावुपयुज्यते ।
मायायां वर्तते चान्ते नाभुक्तं लयमेति च ॥ १,८.५ ॥
इति मायादिकालान्त- प्रवर्तकमनादिमत् ।
कर्म व्यञ्जकमप्येतद्रोधि सद्यन्न मुक्तये ॥ १,८.६ ॥
अथ सर्वज्ञवाक्येन प्रतिपन्नस्य लक्षणम् ।
कथ्यते ग्रन्थिपाशस्य किञ्चिद्युक्त्यापि लेशतः ॥ १,९.१ ॥
तदेकमशिवं बीजं जगतश्चित्रशक्तिमत् ।
सहकार्यधिकारान्त- संरोधि व्याप्यनश्वरम् ॥ १,९.२ ॥
कर्तानुमीयते येन जगद्धर्मेण हेतुना ।
तेनोपादानमप्यस्ति न पटस्तन्तुभिर्विना ॥ १,९.३ ॥
तदचेतनमेव स्यात्कार्यस्याचित्त्वदर्शनात् ।
प्राप्तः सर्वहरो दोषः कारणानियमोऽन्यथा ॥ १,९.४ ॥
यद्यनित्यमिदं कार्यं कस्मादुत्पद्यते पुनः ।
अव्यापि चेत्कुतस्तत्स्यात्सर्वेषां सर्वतोमुखम् ॥ १,९.५ ॥
यदनेकमचित्तत्तु दृष्टमुत्पत्तिधर्मकम् ।
न तदुत्पत्तिमत्तस्मादेकमभ्युपगम्यताम् ॥ १,९.६ ॥
पटस्तन्तुगणाद्दृष्टः सर्वमेकमनेकतः ।
तदप्यनेकमेकस्मादेव बीजात्प्रजायते ॥ १,९.७ ॥
येषां चिद्धर्मकाद्धेतोरचिदप्युपजायते ।
तेषां धूमेन लिङ्गेन जलं किं नानुमीयते ॥ १,९.८ ॥
भूतावधि जगद्येषां कारणं परमाणवः ।
तेषां पूर्वोदिताद्धेतोर्ज्ञातैव ज्ञानसूक्ष्मता ॥ १,९.९ ॥
शरीरादेः शरीरादि यदि तन्निखिलात्यये ।
का वार्ता नाखिलध्वंसो न सर्वज्ञो मृषा वदेत् ॥ १,९.१० ॥
एकदेशेऽपि यो धर्मः प्रतीतो यस्य धर्मिणः ।
स तस्य सर्वतः केन जायमानो निवार्यते ॥ १,९.११ ॥
कोटिशो मरणं दृष्ट्वा संहतानां शरीरिणाम् ।
सोऽपि प्रतीयते कालो यत्राशेषजनक्षयः ॥ १,९.१२ ॥
तदाधाराणि कार्याणि शक्तिरूपाणि संहृतौ ।
विवृतौ व्यक्तिरूपाणि व्याप्रियन्तेऽर्थसिद्धये ॥ १,९.१३ ॥
तन्त्वादिकारकादानं पटासत्त्वे पटार्थिनः ।
सत्त्वे कारकशब्दोऽपि व्यपैतीति हतं जगत् ॥ १,९.१४ ॥
साफल्यमसदुत्पत्तावस्तु कारकवस्तुनः ।
उत्पादयतु सर्वस्मात्सर्वः सर्वमभीप्सितम् ॥ १,९.१५ ॥
अथाशक्यं यतः शक्यमत्र वः किं नियामकम् ।
न च पश्यामि तत्किंचित्शक्तिश्चेत्सिद्धसाध्यता ॥ १,९.१६ ॥
अन्यथा कारकव्रात- प्रवृत्त्यनुपपत्तितः ।
श्रुतिरादानमर्थश्च व्यपैतीत्यपि तद्धतम् ॥ १,९.१७ ॥
अथास्त्युत्पादिका शक्तिर्न कार्यं शक्तिरूपकम् ।
तयोर्विशेषणं वाच्यं नैतत्पश्यामि किञ्चन ॥ १,९.१८ ॥
तस्मान्नियामिका जन्य- शक्तिः कार[ण]वस्तुनः ।
सान्वयव्यतिरेकाभ्यां रूढितो वावसीयते ॥ १,९.१९ ॥
तद्व्यत्किर्जननं नाम तत्कारकसमाश्रयात् ।
तेन तन्तुगताकारं पटाकारावरोधकम् ॥ १,९.२० ॥
वेमादिनापनीयाथ पटव्यक्तिः प्रकाश्यते ।
यथा कटादिगूढस्य पटादेस्तद्व्युदासतः ।
नासतः क्रियते व्यक्तिः कलादेर्ग्रन्थितस्तथा ॥ १,९.२१ ॥
ग्रन्थिजन्यं कलाकाल- विद्यारागनृमातरः ।
गुणधीगर्वचित्ताक्ष- मात्राभूतान्यनुक्रमात् ॥ १,१०.१ ॥
विधत्ते देहसिद्ध्यर्थं यत्साक्षाद्यत्पदान्तरात् ।
यथा युनक्ति यद्धेतोस्तादृक्तदधुनोच्यते ॥ १,१०.२ ॥
कर्तृशक्तिरणोर्नित्या विभ्वी चेश्वरशक्तिवत् ।
तमश्च्छन्नतयार्थेषु नाभाति निरनुग्रहा ॥ १,१०.३ ॥
तदनुग्राहकं तत्त्वं कलाख्यं तैजसं हरः ।
मायां विक्षोभ्य कुरुते प्रवृत्त्यङ्गं परं हि तत् ॥ १,१०.४ ॥
तेन प्रदीपकल्पेन तदास्वच्छचितेरणोः ।
प्रकाशयत्येकदेशं विदार्य तिमिरं घनम् ॥ १,१०.५ ॥
कल इत्येष यो धातुः संख्याने प्रेरणे च सः ।
प्रोत्सारणं प्रेरणं सा कुर्वती तमसः कला ॥ १,१०.६ ॥
इत्येतदुभयं विप्र संभूयानन्यवत्स्थितम् ।
भोगक्रियाविधौ जन्तोर्निजगुः कर्तृकारकम् ॥ १,१०.७ ॥
एवं व्यक्तक्रियाशक्तिर्दिदृक्षुर्गोचरं दृशः ।
भजत्यनुग्रहापेक्षं स्वयं द्रष्टुमशक्नुवत् ॥ १,१०.८ ॥
तदर्थं क्षोभयित्वेशः कलामेव जनिक्षमाम् ।
तत्त्वं विद्याख्यमसृजत्करणं परमात्मनः ॥ १,१०.९ ॥
तेन प्रकाशरूपेण ज्ञानशक्तिप्ररोचिना ।
सर्वकारकनिष्पाद्यमवैति विषयं परम् ॥ १,१०.१० ॥
तदभिव्यक्तचिच्छक्ति- दृष्टार्थोऽप्यपिपासितः ।
नैति तं जनकं रागं तस्मादेवासृजत्प्रभुः ॥ १,१०.११ ॥
स तेन रञ्जितो भोग्यं मलीमसमपि स्पृहन् ।
आदत्ते न च भुञ्जानो विरागमधिगच्छति ॥ १,१०.१२ ॥
इति प्रवृत्तः करणैः कार्यरूढैः सभौवनैः ।
भोगभूमिषु ना भुङ्क्ते भोगान्कालानुवर्तिनः ॥ १,१०.१३ ॥
तुट्यादिप्रत्ययस्यार्थः कालो मायासमुद्भवः ।
कलयन्ना समुत्थानान्नियत्या नियतं पशुम् ॥ १,१०.१४ ॥
ससाधनस्य भोगस्य कर्मतन्त्रतया जगुः ।
केचिन्नियामकं कर्म यदन्यदतिरिच्यते ॥ १,१०.१५ ॥
भोगोऽर्थः सर्वतत्त्वानां सोऽपि कर्मनिबन्धनः ।
कर्मैवास्तु शरीरादि ततः सर्वमपार्थकम् ॥ १,१०.१६ ॥
अथ देहादिसापेक्षं तत्पुमर्थप्रसाधकम् ।
ततो नियतिसापेक्षमस्तु कर्म नियामकम् ॥ १,१०.१७ ॥
पुंस्तत्त्वं तत एवाभूत्पुंस्प्रत्ययनिबन्धनम् ।
आपूरकं प्रधानादेर्भौवनेरुद्रसंश्रयम् ॥ १,१०.१८ ॥
ततः प्राधानिकं तत्त्वं कलातत्त्वादजीजनत् ।
सप्तग्रन्थिनिदानस्य यत्तद्गौणस्य कारणम् ॥ १,१०.१९ ॥
ततो बुद्ध्याद्युपादानं गौणं सत्त्वं रजस्तमः ।
तद्वृत्तयः प्रकाशाद्याः प्रसिद्धा एव भूयसा ॥ १,१०.२० ॥
त्रयो गुणास्तथाप्येकं तत्त्वं तदवियोगतः ।
एकैकश्रुतिरेतेषां वृत्त्याधिक्यनिबन्धना ॥ १,१०.२१ ॥
न तदस्ति जगत्यस्मिन् वस्तु किञ्चिदचेतनम् ।
यन्न व्याप्तं गुणैर्यस्मिन्नेको वामिश्रको गुणः ॥ १,१०.२२ ॥
बुद्धितत्त्वं ततो नाना- भावप्रत्ययलक्षणम् ।
परं तदात्मनो भोग्यं वक्ष्यमाणार्थसंस्कृतम् ॥ १,१०.२३ ॥
भावा बुद्धिगुणा धर्म- ज्ञानवैराग्यभूतयः ।
सात्त्विका व्यत्ययेनैते रागमुत्सृज्य तामसाः ॥ १,१०.२४ ॥
प्रत्ययास्तदुपादानास्तेऽष्टौ नव चतुर्गुणाः ।
सप्त पञ्च च विख्याताः सिद्ध्याद्या वर्गशो मुने ॥ १,१०.२५ ॥
भावाः सप्रत्ययास्तेषां लेशाल्लक्षणमुच्यते ।
सांसिद्धिका वैनयिकाः प्राकृताश्च भवन्त्यणोः ॥ १,१०.२६ ॥
विशिष्टधर्मसंस्कार- समुद्दीपितचेतसाम् ।
गुणः सांसिद्धिको भाति देहाभावेऽपि पूर्ववत् ॥ १,१०.२७ ॥
लोकधीगुरुशास्त्रेभ्यो भाति वैनयिको गुणः ।
समर्जितो वैनयिको मनोवाक्तनुचेष्टया ॥ १,१०.२८ ॥
प्राकृतो देहसंयोगे व्यक्तः स्वप्नादिबोधवत् ।
स्वर्गो मुक्तिः प्रकृतित्वा- विघातौ योनिक्रान्तिर्निरयावाप्तिबन्धौ ।
रूपेष्वर्था वैनयप्राकृतेषु सम्पद्यन्ते सविघाताः क्रमेण ॥ १,१०.२९ ॥
वश्याक्रान्तिस्तत्परिज्ञानयोगो भोगानिच्छा विघ्नसंघव्यपायः ।
भोगासक्तिर्न्यक्कृतिर्देहलब्धिर्विघ्नश्चार्थास्तेषु सांसिद्धिकेषु ॥ १,१०.३० ॥
अथ सिद्ध्यादिवर्गाणां लेशात्सामान्यलक्षणम् ।
कथ्यते विप्लवो मा भूत्समासोक्तेः प्रभेदशः ॥ १,११.१ ॥
पुंस्प्रकृत्यादिविषया बुद्धिर्या सिद्धिरत्र सा ।
तुष्टिर्नुरकृतार्थस्य कृतार्थोऽस्मीति या मतिः ॥ १,११.२ ॥
अशक्तिः कारकापाये सदर्थाप्रभविष्णुता ।
किञ्चित्सामान्यतोऽन्यत्र मतिरन्या विपर्ययः ॥ १,११.३ ॥
प्रकाशकतया सिद्धिर्व्यक्तादेः सत्त्वभावजा ।
प्रकाशार्थप्रवृत्तत्वाद्रजोंशप्रभवपि च ॥ १,११.४ ॥
तुष्टिर्मिथ्यास्वरूपत्वात्तमोगुणनिबन्धना ।
सुखरूपतया ब्रह्मन् सात्त्विक्यप्यवसीयते ॥ १,११.५ ॥
अशक्तिरप्रवृत्तत्वात्तामसी दुःखभावतः ।
राजस्यपि गुणो दृष्टः कार्ये कारणसंश्रयः ॥ १,११.६ ॥
विपर्ययस्तमोयोनिर्मिथ्यारूपतया स च ।
सामान्यमात्रकाभासात्सत्त्वात्मेति विनिश्चितः ॥ १,११.७ ॥
इति बुद्धिप्रकाशोऽयं भावप्रत्ययलक्षणः ।
बोध इत्युच्यते बोध- व्यक्तिभूमितया पशोः ॥ १,११.८ ॥
बुद्धिर्बोधनिमित्तं चेद्विद्या तद्व्यतिरिच्यते ।
रागोऽपि सत्यवैराग्ये कलायोनिः करोति किम् ॥ १,११.९ ॥
व्यञ्जकान्तरसद्भावे व्यञ्जकं यद्यपार्थकम् ।
मनोदेवार्थसद्भावे सति धीरप्यनर्थिका ॥ १,११.१० ॥
अथैवं ब्रुवते केचित्करणत्वविवक्षया ।
सोऽपि देवैर्मनःषष्ठैः पक्षोऽनैकान्तिकः स्मृतः ॥ १,११.११ ॥
अथैकविनियोगित्वे सत्येकमतिरिच्यते ।
श्रोत्रदृक्पाणिपादादि ततो भिन्नार्थमस्तु नुः ॥ १,११.१२ ॥
न चैकविनियोगित्वं विद्याबुद्ध्योः कथञ्चन ।
विनियोगान्तरद्वारा न दुष्टानेकसाध्यता ॥ १,११.१३ ॥
विद्या व्यक्ताणुचिच्छक्तिर्नुन्नाक्षेशाक्षगोचरान् ।
स्वीकृत्य पुंस्प्रयुक्तस्य करणस्यैति कर्मताम् ॥ १,११.१४ ॥
मतिस्तेनेतरा रागो न गौणस्तद्विधर्मतः ।
तच्च भोग्यत्वमेतद्वा वीतरागस्ततो हतः ॥ १,११.१५ ॥
रागोऽर्थेष्वभिलाषो यो न सोऽस्ति विषयद्वये ।
कर्मास्तु व्यापकं कल्प्यं कल्पितेऽपीतरत्र यत् ॥ १,११.१६ ॥
कर्मणः केवलस्योक्तं नियतावेव दूषणम् ।
दोषः सहानवस्थानो नासाम्याद्द्वेषरागयोः ॥ १,११.१७ ॥
सर्वस्य सर्वदा सर्वा प्रवृत्तिः सुखबुद्धिजा ।
प्रवृत्तस्य सुखं दुःखं मोहो वाप्युपजायते ॥ १,११.१८ ॥
प्रवृत्त्यनन्तरं द्वेषो रागस्तत्पूर्वकालतः ।
द्वेषान्ते स पुनर्येन वीर्यवद्योगकारणम् ॥ १,११.१९ ॥
अथ व्यक्तान्तराद्बुद्धेर्गर्वोऽभूत्करणं चितः ।
व्यापाराद्यस्य चेष्टन्ते शारीराः पञ्च वायवः ॥ १,११.२० ॥
प्राणापानादयस्ते तु भिन्ना वृत्तेर्न वस्तुतः ।
वृत्तिं लेशान्निगदतो भरद्वाज निबोध मे ॥ १,११.२१ ॥
वृत्तिः प्रणयनं नाम यत्तज्जीवनमुच्यते ।
यत्तदूहं मतिः पुंसां भ्रमत्यन्धेव मार्गती ॥ १,११.२२ ॥
तत्कुर्वन्नुच्यते प्राणः प्राणो वा प्राणयोगतः ।
चित्यातिवाहिके शक्तौ प्राणशब्दः कलासु च ॥ १,११.२३ ॥
तथापनयनं भुक्त- पीतविण्मूत्ररेतसाम् ।
कुर्वन्नपानशब्देन गीयते तत्त्वदर्शिभिः ॥ १,११.२४ ॥
समन्ततोऽन्नपानस्य समत्वेन समर्पणम् ।
कुर्वन्समान इत्युक्तो व्यानो विनमनात्तनोः ॥ १,११.२५ ॥
विवक्षायत्नपूर्वेण कोष्ठव्योमगुणध्वनेः ।
वागिन्द्रियसहायेन क्रियते येन वर्णता ॥ १,११.२६ ॥
स उदानः शरीरेऽस्मिन् स्थानं यद्यस्य धारणे ।
जयः फलं वाच्यशेषं पत्या स्कन्धान्तरेरितम् ॥ १,११.२७ ॥
अथ शेषार्थसिद्ध्यर्थं स्कन्धानस्यात एव सः ।
त्रीन्निश्चकर्ष सत्त्वादि- भूयिष्ठानीशशक्तिगः ॥ १,१२.१ ॥
तैजसो वैकृतो योऽन्यो भूतादिरिति संस्मृतः ।
तेभ्यः समात्रका देवा मात्रेभ्यो भूतपञ्चकम् ॥ १,१२.२ ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासा च मनसा सह ।
प्रकाशान्वयतः सात्त्वास्तैजसश्च स सात्त्विकः ॥ १,१२.३ ॥
वाणी पाणी भगः पायुः पादौ चेति रजोभुवः ।
कर्मान्वयाद्रजोभूयान् गणो वैकारिकोऽत्र यः ॥ १,१२.४ ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
गुणाविशिष्टास्तन्मात्रास्तन्मात्रपदयोजिताः ॥ १,१२.५ ॥
प्रकाशकर्मकृद्वर्ग- वैलक्षण्यात्तमोभवाः ।
प्रकाश्यत्वाच्च भूतादिरहङ्कारेषु तामसः ॥ १,१२.६ ॥
देवप्रवर्तकं शीघ्र- कारि संकल्पधर्मि च ।
मनः शब्दादिविषये ग्राहकाः श्रवणादयः ॥ १,१२.७ ॥
वचनादानसंह्लाद- विसर्गविहृतिक्रियाः ।
वागादीनां पदान्यत्वं पदे सत्यप्यतद्गुणाः ॥ १,१२.८ ॥
आत्मेन्द्रियार्थनैकृष्ट्ये सर्वदेवाप्रवृत्तिता ।
प्रवृत्तिकारकास्तित्वं युक्तितोऽप्यवसीयते ॥ १,१२.९ ॥
तत्त्वान्तरोक्तवृत्तिभ्यो वैलक्षण्याद्विलक्षणः ।
संकल्पो बीजमभ्येति मनस्तत्पारिशेष्यतः ॥ १,१२.१० ॥
ज्ञानं तदक्षयोगात्तत्क्रमयोगितया क्रमात् ।
तथाप्याभाति युगपन्नाशुसंचरणादृते ॥ १,१२.११ ॥
नियतार्थतयाक्षाणि नानायोनीनि कस्यचित् ।
गन्धादिव्यञ्जकत्वाच्च तदाधारात्मकान्यपि ॥ १,१२.१२ ॥
शब्दैकग्राहकं श्रोत्रं स्पर्शैकग्राहिणी च त्वक् ।
तथास्तु यदि नादत्ते सगुणं कारणान्तरम् ॥ १,१२.१३ ॥
त्वगिन्द्रियमयुक्तार्थ- ग्राहि युक्तपराङ्मुखम् ।
तेजोवारिमहीद्रव्यं दृगादत्ते सरूपकम् ॥ १,१२.१४ ॥
ततस्त्रिद्रव्यजा सा स्यान्न परेणेष्यते तथा ।
येनोपलभ्यते योऽर्थः स तस्यार्थस्य कारणम् ॥ १,१२.१५ ॥
न प्राप्तमपि कर्मादि सेयं व्यसनसन्ततिः ।
कर्णरन्ध्रविशिष्टं खं शब्दवर्गावभासकम् ॥ १,१२.१६ ॥
नासारन्धविशिष्टं तद्ब्रूत केन निवार्यते ।
तददृष्टावरुद्धं वा तदप्यन्यत्र किं कृतम् ॥ १,१२.१७ ॥
प्राप्तं गृह्णाति नातोद्ये शप्तं केनापि दस्युना ।
युक्त्यगम्येऽपि सद्वाक्यात्प्रतीतिरौपद्रवा ॥ १,१२.१८ ॥
मितार्थादमितार्थस्य ज्यायस्त्वमिति सूरयः ।
व्योमप्रभञ्जनाग्न्यम्बु- भूमयो भूतपञ्चकम् ॥ १,१२.१९ ॥
शब्दाद्येकोत्तरगुणमवकाशादिवृत्तिमत् ।
धूननज्वलनप्लाव- खरत्वावेदिनो गुणाः ॥ १,१२.२० ॥
शब्दा वाय्वादिषु व्योम्नि सवर्णप्रतिशब्दगाः ।
व्यूहोऽवकाशदानं च पक्तिसंग्रहधारणाः ॥ १,१२.२१ ॥
वायुव्योमहुताशाम्बु- धरणीनां च वृत्तयः ।
शब्दः खगुण एवेति तदन्यत्रोपलब्धितः ॥ १,१२.२२ ॥
ब्रुवते भगवन् केचित्सर्वभूतगुणः कथम् ।
क्वान्यत्र श्रवणाकाशे कथमन्यत्र तद्गुणः ॥ १,१२.२३ ॥
परेष्टादाश्रयात्तत्र निर्णेतानुभवो नृणाम् ।
कदाचित्कर्णमूलेऽपि संविदित्यथ मन्यसे ॥ १,१२.२४ ॥
श्रोत्रवृत्तिवदस्यापि परिणामोऽस्तु का क्षतिः ।
आगमाध्यक्षविहता हेतवो नार्थसाधकाः ॥ १,१२.२५ ॥
कालात्ययापदिष्टत्वादिति न्यायविदो विदुः ।
इत्यपि स्थितमेवायं गन्धोऽप्यस्तु नभोगुणः ॥ १,१२.२६ ॥
येन केतकपुष्पादेर्वैकृष्ट्येऽप्युपलभ्यते ।
इति पञ्चसु शब्दोऽयं स्पर्शो भूतचतुष्टये ॥ १,१२.२७ ॥
अशीतोष्णो महीवाय्वोः शीतोष्णौ वारितेजसोः ।
भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा ॥ १,१२.२८ ॥
रूपं त्रिषु रसोऽम्भःसु मधुरः षड्विधः क्षितौ ।
गन्धः क्षितावसूरभिः सुरभिश्च मतो बुधैः ॥ १,१२.२९ ॥
देहेऽस्थिमांसकेशत्वङ्- नखदन्तेषु चावनिः ।
मूत्ररक्तकफस्वेद- शुक्रादौ वारि संस्थितम् ॥ १,१२.३० ॥
हृदि पक्तौ दृशोः पित्ते तेजस्तद्धर्मदर्शनात् ।
प्राणादिवृत्तिभेदेन नभस्वानुक्त एव ते ॥ १,१२.३१ ॥
गर्ववृत्त्यनुषङ्गेण खं समस्तासु नाडिषु ।
प्रयोक्त्र्यादिमहीप्रान्तमेतदण्वर्थसाधनम् ॥ १,१२.३२ ॥
प्रत्यात्मनियतं भोग- भेदतो व्यवसीयते ।
सर्वतो युगपद्वृत्तेरनुत्पादादसर्वगम् ।
भिन्नजातीयमप्येक- फलं दीपाङ्गवस्तुवत् ॥ १,१२.३३ ॥
इत्यातिवाहिकमिदं वपुरस्य जन्तोश्चित्सङ्गचिद्गहनगर्भविवर्ति लेशात् ।
नैतावतालमिति भौवनतत्त्वपङ्क्तिमाधारदेहविषयाभ्युदयाय वक्ष्ये ॥ १,१२.३४ ॥
अथोक्तार्थप्रसिद्ध्यर्थं भुवनादि विनिर्ममे ।
साधारणेभ्यो योनिभ्यः कलादिभ्यो महेश्वरः ॥ १,१३.१ ॥
तानि कालानलादीनि कलाप्रान्तानि मण्डलम् ।
संसारमिति तत्त्वज्ञा भोगस्थानं प्रचक्षते ॥ १,१३.२ ॥
मायायामपि पठ्यन्ते गहनेशादयोऽधिपाः ।
तत्त्वशुद्धिश्च दीक्षायां सर्वं तत्कृतिमस्तके ॥ १,१३.३ ॥
नित्यत्वव्यापकत्वादि- श्रवणादवसीयते ।
दृष्टं पुरादि यद्भोग्यं मूर्तं प्रलयधर्मि च ॥ १,१३.४ ॥
शुद्धाध्वन्यपि मायायाः परस्याः पतयः कृतौ ।
ते तस्यामपि पठ्यन्ते तेऽपि तत्कृतिमस्तके ॥ १,१३.५ ॥
रजो विलोक्यते तिर्यग्- जालाविष्टार्करोचिषाम् ।
तदष्टाष्टगुणस्थाने तृतीये स्यात्कचाग्रकम् ॥ १,१३.६ ॥
लिक्षा यूका यवोऽप्येवमङ्गुलं तत्त्रिसंगुणैः ।
तैरेव गुणितं पाणिर्धनुस्तद्वेदलक्षितम् ॥ १,१३.७ ॥
दण्डो द्वे धनुषी ज्ञेयः क्रोशस्तद्द्विसहस्रकम् ।
द्विक्रोशमाहुर्गव्यूतिं द्विगव्यूतिं च योजनम् ॥ १,१३.८ ॥
कपालमर्बुदं स्थौल्याद्ब्रह्मणोऽण्डस्य योजनैः ।
तस्यान्तः काञ्चनं धाम कालाग्नेस्तावदेव हि ॥ १,१३.९ ॥
यत्रान्तकालतीक्ष्णांशु- कोटितेजास्तथाविधैः ।
रुद्रैरास्ते वृतो देवः कालाग्निरिति विश्रुतः ॥ १,१३.१० ॥
सर्वाध्ववर्तिभूतानां यस्मिन्नुद्वृत्ततेजसि ।
भयमुत्पद्यते शक्त्या संहर्त्र्या चोदिते प्रभोः ॥ १,१३.११ ॥
तस्य स्वभावतो ज्वालाः प्रवृत्ता दशकोटयः ।
योजनानां तदर्धेन धूमः सान्द्रः सुदारुणः ॥ १,१३.१२ ॥
ततः पुटास्त्रयस्त्रिंशद्- दशलक्षोनकोटिकाः ।
तदन्तराणि द्वात्रिंशल्- लक्षकाणि दुरात्मनाम् ॥ १,१३.१३ ॥
स्थानानि यातनाहेतोर्निर्मितान्यध्ववेधसा ।
तानि ते नामभिर्वक्ष्ये द्विजमुख्य निबोध मे ॥ १,१३.१४ ॥
रौरवध्वान्तशीतोष्ण- संतापाब्जमहाम्बुजाः ।
कालसूत्राष्टमा ह्येते नरका इति विश्रुतः ॥ १,१३.१५ ॥
सूच्यास्यतालखड्गाख्य क्षुरधाराम्बरीषकाः ।
कालखड्गाख्य ष्ट्ष्
तप्ताङ्गारा महादाहाः संतापाश्चेति ये मुने ॥ १,१३.१६ ॥
भवन्त्यष्टौ सुबीभत्सा महाशब्दपदानुगाः ।
लाक्षाप्रलेपमांसाद- निरुच्छ्वासनसोच्छ्वासाः ॥ १,१३.१७ ॥
युग्माद्रिशाल्मलीलोह- प्रदीप्तक्षुत्पिपासकाः ।
कृमीणां निचयश्चेति राजानः परिकीर्तिताः ॥ १,१३.१८ ॥
लोहस्तम्भोऽथ विण्मूत्रस्तथा वैतरणी नदी ।
तामिस्रश्चान्धतामिस्रः कुम्भीपाकः सरौरवः ॥ १,१३.१९ ॥
महापदानुगोऽवीची राजराजेश्वरेश्वराः ।
एषां पुटानां नरकैः सार्धं योजनसंख्यया ॥ १,१३.२० ॥
भवन्ति कोटयस्त्रिंशद्द्वे च लक्षे द्विजोत्तम ।
ततस्त्त्रिंशत्सहस्राणि त्यक्त्वा भूर्नवलाक्षिकी ॥ १,१३.२१ ॥
भवत्ययोमय्यर्धेन पूर्वेणार्धेन काञ्चनी ।
योऽप्यधस्तात्पुटस्तस्या मृदर्धं चार्धमायसम् ॥ १,१३.२२ ॥
तत्र द्वात्रिंशतोऽमीषां निरयाणां पतिः स्थितः ।
कूष्माण्ड इति विख्यातः प्रलयार्कानलद्युतिः ॥ १,१३.२३ ॥
करालवदनः क्रुद्धो वृत्तकोटरलोचनः ।
तङ्कपाणिस्तथाभूतैर्भूतैर्भूयोभिरावृतः ॥ १,१३.२४ ॥
अयोरुक्मपुटादूर्ध्वमष्टमीयं वसुन्धरा ।
साहस्राः षट्परा मध्या व्यर्कलक्षत्रिकोटिकी ॥ १,१३.२५ ॥
वसत्यो नवसाहस्राः परा दशसहस्रिकी ।
तदासां सप्तकं सद्भिः ख्यातं पातालसप्तकम् ॥ १,१३.२६ ॥
तन्नामतोऽधिपतित उच्यमानं निबोध मे ।
आभासं परतालाख्यं त्रितलं च गभस्तिमान् ॥ १,१३.२७ ॥
महातलं रसाङ्कं च पातालं सप्तमं मुने ।
सप्तस्वेतेषु दैत्येन्द्र- भुजङ्गक्षणदाचराः ॥ १,१३.२८ ॥
सप्त सप्त समाख्यातास्तानप्यथ निबोध मे ।
दैत्याः शङ्कुश्रुतिः पूर्वे प्रह्लादः शिशुपालकः ॥ १,१३.२९ ॥
कर्कन्धको हिरण्याक्षो बृहद्गर्भो बलिस्तथा ।
काद्रवेयाः कुटिलको वासुकिः कम्बलस्तथा ॥ १,१३.३० ॥
कार्कोटकोऽथ कालाङ्गो दुर्दर्शस्तक्षकस्तथा ।
विकटो लोहिताक्षश्च यमाक्षो विकटाननः ॥ १,१३.३१ ॥
करालो भीमनिर्ह्रादः पिङ्गलश्चेति राक्षसाः ।
तेषामुपरि निशेष- पातालाधिपतीश्वरः ॥ १,१३.३२ ॥
साहस्रे काञ्चने धाम- मण्डले हाटकः स्थितः ।
यं स्तुवन्ति प्रियप्राप्त्यै यता यतिविभूषणैः ॥ १,१३.३३ ॥
दैत्ययक्षासुराधीश- ललना ललितैः पदैः ।
ततः कोटिशतं पृथ्वी नानाजनसमाश्रया ॥ १,१३.३४ ॥
द्वीपशैलसरिद्वारि- निधिमण्डलमण्डिता ।
जम्बूशाककुशक्रौञ्च- शाल्मगोमेधपुष्कराः ॥ १,१३.३५ ॥
लक्षादिद्विगुणा द्वीपाः क्षाराद्यब्धिभिरावृताः ।
ततो हिरण्मयी भूमिर्लोकालोकश्च पर्वतः ॥ १,१३.३६ ॥
तमः परस्ताद्गर्भोदः कटाहश्चेति भूतलम् ।
त्रिशैलसरिद्द्वीपकानन्[अल्]ओदध्यलंकृताम् ॥ १,१३.३७ ॥
पृथ्वीं भगवतीं शक्र श्रोतुमिच्छामि विस्तरात् ।
त्वयि वक्तरि देवेश सर्वप्रत्यक्षदर्शिनि ॥ १,१३.३८ ॥
निष्ठाज्ञप्तिरसाकृष्टं श्रुतौ धावति मे मनः ।
वर्तयिष्ये द्विजश्रेष्ठ प्रस्तुतोक्तिशरीरवत् ॥ १,१३.३९ ॥
द्वीपान्नदीवनान्तांश्च शृणुश्वैकाग्रमानसः ।
जम्बुद्वीपं क्षितेर्नाभिस्तद्वृत्तं लक्षयोजनम् ॥ १,१३.४० ॥
क्षाराब्धिना परिवृत्तं परिवृत्तेन तावता ।
तस्य मध्ये स्थितः शैल- राजराजो हिरण्मयः ॥ १,१३.४१ ॥
तिरस्कृतांशुमज्ज्योतिर्मेरुः सुरनिषेवितः ।
स षोडश सहस्राणि क्षितौ विष्टो महीतलात् ॥ १,१३.४२ ॥
तदूनमुन्नतो लक्षं मूले षोडश विस्तृतः ।
त्रिषु पादान्तरेष्वस्य चतुर्वृद्धेषु पर्वसु ॥ १,१३.४३ ॥
नेमयः कटकाकारा निर्गता दीप्तिमत्तराः ।
एका दशसहस्रा तु मनुसाहस्रिकी परा ॥ १,१३.४४ ॥
नेमिर्या मस्तकोपान्ते लोकपालसमाश्रया ।
चक्रवाटेति तामाहुः सर्वरत्नप्रभावतीम् ॥ १,१३.४५ ॥
सिद्धगन्धर्वमहतां तदधः पर्वसु स्थितिः ।
प्राच्यादिष्विन्द्रमुख्यानां नामतस्तानिबोधत ॥ १,१३.४६ ॥
नानरत्नप्रभाजाल- मण्डलालङ्कृता हरेः ।
सिद्धसाध्यमरुज्जुष्टा रुक्मभूरमरावती ॥ १,१३.४७ ॥
रक्तपीतमणिप्राय- हेमप्राकारगोपुरा ।
वह्नेस्तेजोवती वह्नि- तुल्यभूतनिषेविता ॥ १,१३.४८ ॥
मृत्योः संयमनी तुङ्ग- लोहप्राकारमण्डला ।
कालपाशपितृव्यादि- प्रेतमारिनिषेविता ॥ १,१३.४९ ॥
कृष्णा दैत्यपतेर्मृत्योर्धामवद्दैत्यसेविता ।
नीलरत्नप्रभाजाल- वितानवरभूषणा ॥ १,१३.५० ॥
शुद्धवत्यम्बुनाथस्य स्फटिकोपलनिर्मिता ।
पाण्डुराभ्रोपमैर्यादः- सेविता भाति धामभिः ॥ १,१३.५१ ॥
वायोर्गन्धवती तुङ्ग- श्वेतपीतध्वजाकुला ।
बलवद्भूतसंजुष्टा सर्वरत्नविनिर्मिता ॥ १,१३.५२ ॥
महोदया चन्द्रमसः श्वेता मुक्तादिनिर्मिता ।
द्विजसंघस्तुता भाति पुरैर्हिमगिरिप्रभैः ॥ १,१३.५३ ॥
ज्वलल्ललाटदृग्दग्ध- स्मरमृत्युयशोभृतः ।
पुरी यशोवती सर्व- रत्नजा रुद्रसेविता ॥ १,१३.५४ ॥
इति सर्वर्तुसुखदाश्चक्रवाटार्धविस्तृताः ।
पुर्योऽष्टावनिलोद्धूत- पारिजातरजोरुणाः ॥ १,१३.५५ ॥
वेधसा निर्मिता लोक- पालचक्रानुवर्तिनाम् ।
भूतये स्वर्ग इत्येता गीयन्ते कविभिः क्षितौ ॥ १,१३.५६ ॥
चतुर्दश सहस्राणि योजनानां स्वयंभुवः ।
मध्ये मनोवती नाम पुरी लोकेशवन्दिता ॥ १,१३.५७ ॥
या चकारारुणानुच्चैर्विद्युन्मार्गान्महःश्रिया ।
सावित्र्या स्पर्धमानेव स्वर्गकामातिवर्तिनी ॥ १,१३.५८ ॥
तस्यामुपासते देवा मुनयश्च महौजसः ।
महायोगीश्वरं सिद्ध्यै यमाद्यैर्भूतवेधसम् ॥ १,१३.५९ ॥
तदीशभागे तस्याद्रेः शृङ्गमादित्यसन्निभम् ।
यत्तज्ज्योतिष्कमित्याहुः सदा पशुपतिप्रियम् ॥ १,१३.६० ॥
तस्य सानुषु हैमेषु रत्नचित्रेषु संस्थिताः ।
स्कन्दनन्दिमहाकाल- गणेशादिगणावराः ॥ १,१३.६१ ॥
मूर्ध्नि देवादिदेवस्य स्थानं त्रिपुरविद्विषः ।
रुद्रायुतगणैर्जुष्टं ब्रह्माद्यैश्च सुरोत्तमैः ॥ १,१३.६२ ॥
इति मेरुरधोऽस्यान्ते दिक्षु ये भूधराः स्थिताः ।
तच्छिष्टानि नवद्वीपे वर्षाण्यस्मिन्निबोध मे ॥ १,१३.६३ ॥
निषधो हेमकूटश्च हिमवांश्चाचलोत्तमाः ।
मेरोर्दक्षिणतो नीलः श्वेतः शृङ्गीति वामतः ॥ १,१३.६४ ॥
सहस्रद्वयविष्कम्भा दशोत्सेधा नवान्तराः ।
प्रागायतः सुपर्वाणाः सागराहितकोटयः ॥ १,१३.६५ ॥
तदर्धेनात्तविष्कम्भौ माल्यवद्गन्धमादनौ ।
याम्योत्तरौ प्राक्प्रतीच्योर्मेरुतस्तावदन्तरौ ॥ १,१३.६६ ॥
पश्चान्माल्यवतः प्राच्यां गन्धमादनशैलतः ।
इलावृतं नीलगिरेर्याम्यतो निषधादुदक् ॥ १,१३.६७ ॥
भद्राश्वं माल्यवत्प्राच्यां वर्षं भद्रजनाकुलम् ।
सुकेतनं केतुमालं प्रतीच्यां गन्धमादनात् ॥ १,१३.६८ ॥
निषधाद्धरिवर्षे यद्याम्यतो हेमकूटतः ।
नाम्ना किंपुरुषं ख्यातं भारतं हिमवद्गिरेः ॥ १,१३.६९ ॥
रम्यकाख्यमुदङ्नीलाद्धिरण्यं श्वेतपर्वतात् ।
यदुत्तरे शृङ्गवतः कुरुवर्षं तदुच्यते ॥ १,१३.७० ॥
निष्कम्भशैलाश्चत्वारो मेरोः स्थैर्याय वेधसा ।
लक्षार्धोन्नतः कॢप्तास्[ते] तेषां पूर्वेण मन्दरः ॥ १,१३.७१ ॥
श्वेतो हरिद्राचूर्णाभो याम्यतो गन्धमादनः ।
प्रतीच्यां विपुलो नीलः सुपार्श्वः सौम्यतोऽरुणः ॥ १,१३.७२ ॥
सहस्रयोजनच्छायास्तेषु कल्पद्रुमाः स्थिताः ।
कदम्बजम्ब्वावश्वत्थ- न्यग्रोधौ चोत्तरान्तिकाः ॥ १,१३.७३ ॥
जम्बूफलरसोद्भूता मेरुं पर्येत्य निम्नगा ।
विवेश मूलमेवास्य कनकीकृत्य तां महीम् ॥ १,१३.७४ ॥
तं पीत्वा पक्षिसर्पाखु- मृगशाखामृगादयः ।
बभूवुः काञ्चना ये च सत्त्वास्तस्यां कृताप्लवाः ॥ १,१३.७५ ॥
द्वीपकेतुरभूज्जम्बूः कल्पशाखिषु सत्स्वपि ।
प्रभावातिशयात्ख्यातं जम्बूद्वीपमिदं ततः ॥ १,१३.७६ ॥
प्राच्यां विष्कम्भशैलस्य मूले चैत्ररथं वनम् ।
सरोऽरुणोदकं नाम तत्र हेमाब्जमण्डितम् ॥ १,१३.७७ ॥
याम्याद्रिमूले गन्धर्व- सुरसिद्धाप्सरोवृतम् ।
नन्दनं मानसं तत्र सरो मानसतस्करम् ॥ १,१३.७८ ॥
वैभ्राजं वैपुले मूले सितोदश्च ह्रदोत्तमः ।
देवैर्निषेव्यते छन्नः कमलैरंशुमप्रभैः ॥ १,१३.७९ ॥
सौपार्श्वे धृतिमन्नाम काननं भद्रको ह्रदः ।
सौगन्धिकाम्बुजच्छन्नः सेव्यते पितृभिः सदा ॥ १,१३.८० ॥
त्रयोदशसहस्रायुर्- जम्बूफलरसाशनः ।
मेर्वालोकोपलब्धार्थो जनः सुत्वगिलावृते ॥ १,१३.८१ ॥
वर्षायुतायुर्नीलाब्ज- द्युतिः पनससारभुक् ।
केतुमाले जनो दिव्य- देहबन्धः सुखी बली ॥ १,१३.८२ ॥
चन्द्रबिम्बद्युतिर्नीला- -ब्जाशनो भद्रवाजिनि ।
दशवर्षसहस्रायुर्- दुःखशोकभयोज्झितः ॥ १,१३.८३ ॥
त्रिंशदब्दसहस्रायुः कामवृक्षफलाशनः ।
युग्मप्रसूतिः कुरुषु श्यामापुष्पद्युतिर्जनः ॥ १,१३.८४ ॥
भूतवेदसहस्रौ द्वावेकदिक्संधिलक्षितौ ।
सोमवाय्वाशयोः सिद्ध- मुनिचारणसेवितौ ॥ १,१३.८५ ॥
चन्द्रभद्राकरौ द्वीपौ चन्द्ररक्ताब्जरुग्जनौ ।
ऐलावृतं तयोरायुः फलं मूलं च भोजनम् ॥ १,१३.८६ ॥
अन्तर्भावः कुरुष्वब्धौ सान्निध्यात्कीर्तितौ ततः ।
अध्यर्धानि सहस्राणि द्वादशायुर्हिरण्वति ॥ १,१३.८७ ॥
जनस्येन्दुत्विषो नित्यमश्नतो लाकुचं फलम् ।
नीलनीरजरम्यस्य रम्यके द्वादशस्थितिः ॥ १,१३.८८ ॥
जनस्याब्दसहस्राणि न्यग्रोधफलमश्नतः ।
रजतद्युतिरिक्ष्वादस्तावदायुर्हरौ जनः ॥ १,१३.८९ ॥
रौक्मः किंपुरुषे प्लक्ष- भोजनोऽब्दायुतस्थितिः ।
इति किम्पुरुषादीनि वर्षाण्युक्तानि यानि ते ॥ १,१३.९० ॥
न तेष्ववस्थाभेदोऽस्ति विवर्तिषु कृतादिषु ।
युगानुरूपप्रज्ञायुस्तेजोबलधनप्रजः ॥ १,१३.९१ ॥
कृष्टाकृष्टाशनो दुःख- त्रयार्तो भारते जनः ।
गुण एको यदुद्युक्तो नेष्टं किंचिन्न साधयेत् ॥ १,१३.९२ ॥
सर्वासां फलभूमीनां कर्मभूः कारणं यतः ।
नवाब्धिस्रोतसि द्वीपा नव चात्रार्धकस्थले ॥ १,१३.९३ ॥
इन्द्रद्वीपप्रभृतयो नामतस्तान्निबोध मे ।
इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् ॥ १,१३.९४ ॥
नागद्वीपश्चान्द्रमसो गान्धर्वो वारुणस्तथा ।
कुमारिकाख्यो नवमो नानापर्वतनिम्नगाः ॥ १,१३.९५ ॥
नानाजातिजनाकीर्णा भारताखे प्रकीर्तिताः ।
आग्नीध्रो नाम नृपतिर्जम्बूनाथो मनोः कुले ॥ १,१३.९६ ॥
तज्जातनृपसंज्ञाभिः कथ्यन्ते भारतादयः ।
क्षारक्षीरदधिस्नेह- रसमध्वामृतोदकैः ॥ १,१३.९७ ॥
लक्षादिद्विगुणा द्वीपा जम्बूद्वीपादयो वृताः ।
शाके शाकद्रुमस्त्वङ्गः शाकसंज्ञानिबन्धनः ॥ १,१३.९८ ॥
कुशोऽभूत्काञ्चनः कौशे स्वयंभुवि यियक्षति ।
क्रौञ्चे क्रौञ्चो हतो दैत्यः क्रौञ्चाद्रौ हेमकन्दरे ॥ १,१३.९९ ॥
स्कन्देन युद्ध्वा सुचिरं चित्रमयी सुमायिना ।
स शैलस्तस्य दैत्यस्य ख्यातश्चित्रेण कर्मणा ॥ १,१३.१०० ॥
केतुतामगमत्तस्य नाम्ना क्रौञ्चं तदुच्यते ।
शाल्मले शाल्मलीवृक्षो हैमः साहस्रिकोऽर्कभाः ॥ १,१३.१०१ ॥
प्रियोऽमराणां तत्केतुः स तदाख्यानिबन्धनः ।
गोमेदे गोपतिर्नाम राजाभूद्गोसवोद्यतः ॥ १,१३.१०२ ॥
याज्योऽभूद्वह्निकल्पानामौतथ्यानां मनोः कुले ।
स तेषु हरियज्ञाय प्रवृत्तेषु भृगून् गुरून् ॥ १,१३.१०३ ॥
वव्रे तं गौतमः कोपा- दशपदगमत्क्षयम् ।
यज्ञवाटेऽस्य ता गावो दग्धाः कोपाग्निना मुनेः ॥ १,१३.१०४ ॥
तन्मेदसा मही छन्ना गोमेदः स ततोऽभवत् ।
नदी पुष्करिणी नाम हेमपुष्करमण्डिता ॥ १,१३.१०५ ॥
तया स पुष्करद्वीपः ख्यापितः सुरसेवितः ।
यथा किम्पुरुषाद्येषु कृतावासः सदा जनः ॥ १,१३.१०६ ॥
शाकद्वीपादिषु तथा क्षीरादिकृतभोजनः ।
हिमेन्दुहिमनीलाब्ज- सस्यकस्फटिकद्युतिः ॥ १,१३.१०७ ॥
दशवर्षसहस्रायुर्- नष्टदुःखैककण्टकः ।
सप्तमामुदधेरर्वाक्द्वे कोटी सत्रिकं दलम् ॥ १,१३.१०८ ॥
पञ्चाशच्च सहस्राणि कर्णाद्धेमाद्रिगर्भतः ।
ततो हिरण्मयी भूमिर्नानारत्नद्रुमाचला ॥ १,१३.१०९ ॥
क्रीडार्थं वेधसा सृष्टा देवानां दशकोटिकी ।
लोकालोको बहिस्तस्या लोकालोकनियामकः ॥ १,१३.११० ॥
योजनायुतविष्कम्भस्तुङ्गशृङ्गपरिच्छदः ।
तस्य शृङ्गेषु तीक्ष्णांशोर्भासश्चन्द्रातपोपमाः ॥ १,१३.१११ ॥
न तापयति वैकृष्ट्याद्धामान्याशाभृतां मुने ।
तमः परस्तान्निबिडं लक्षाण्येकोनविंशतिः ॥ १,१३.११२ ॥
चत्वारिंशत्सहस्राणि पञ्चत्रिंशच्च कोटयः ।
सप्तविंशतिलक्षाणि कोटिश्चैका समुद्ररात् ॥ १,१३.११३ ॥
हैमं कटाहकं कोटिर्गर्भादेति समन्ततः ।
तिथिलक्षो भुवर्लोको ध्रुवप्रान्तो महीतलात् ॥ १,१३.११४ ॥
ध्रुवे प्रान्तो ष्ट्ष्;
बुतॄउओतेदद्ष्वच्छन्द १०: ५१६ --५१७ इथ्ध्रुवप्रान्तो, अन्द्
ध्रुवप्रान्तो इस्सुप्पोर्तेद्ब्य्णारयण.
तदूनकोटिस्वर्लोकः स्वर्गिवर्यसमाश्रयः ।
स्वर्लोक<> ष्ट्ष्;
बुतॄउओतेदुप्तो थे एन्दो थिस्पाद अद्ष्वच्छन्द १०:५१६ --५१७ ,
हिछिम्प्लिएस्थत्थिस्ओर्द्स्प्लित्अस्मदे.
महर्द्विकोटिर्यत्रास्ते मरीच्यादिमुनिव्रजः ॥ १,१३.११५ ॥
जनोऽष्टकोट्यवच्छिन्नः पितृजह्नुजनाश्रयः ।
तपोऽर्ककोटिर्यत्रास्ते महायोगी सनन्दनः ॥ १,१३.११६ ॥
ऋभुः सनत्कुमारश्च सनकश्च महातपाः ।
ततः सत्य[म]धिःस्थानं सत्यलोकः स्वयम्भुवः ॥ १,१३.११७ ॥
कामातिशयसम्पन्नः कोटयो नव सप्त च ।
सावित्री मूर्तिमत्यास्ते यत्र वेदाश्च सानुगाः ॥ १,१३.११८ ॥
ततश्चतस्रः षट्चेति मधुत्रिपुरविद्विषोः ।
स्थाने ज्योतिष्मतीचित्रे कोटिरण्डकटाहकः ॥ १,१३.११९ ॥
शतकोटिप्रविस्तीर्ण इति ब्रह्माण्डगोलकः ।
भूयसा तुल्य एवायं सर्वस्रोतःसु मानतः ॥ १,१३.१२० ॥
तस्य प्राचीं दिशं शक्रः पात्यग्निः पूर्वदक्षिणाम् ।
दक्षिणां भूतसंहर्ता राक्षसो दक्षणापराम् ॥ १,१३.१२१ ॥
पश्चिमां वरुणो देवो नभस्वान् पश्चिमोत्तराम् ।
उदीचीं सोमयक्षेशावीशः प्रागुत्तरां दिशम् ॥ १,१३.१२२ ॥
ऊर्ध्वे ब्रह्मा हरिरधः सर्वार्थावहिताः सदा ।
एषामपि नियन्तारो रुद्रा दश दश स्थिताः ॥ १,१३.१२३ ॥
भूमिमन्तोऽप्यमी येषां नोत्क्रामन्ति भयात्पदम् ।
नानारूपैर्महावीर्यैस्तरुणार्कसमप्रभैः ॥ १,१३.१२४ ॥
वृता नानायुधधरैर्नामभिस्तान्निबोध मे ।
बुध्नवज्रशरीराज- कपालीशप्रमर्दनाः ॥ १,१३.१२५ ॥
प्राग्विभूत्यव्ययौ शास्त पिनाकी त्रिदशाधिपः ।
भस्मक्षयान्तकहर- ज्वलनाग्निहुताशनाः ॥ १,१३.१२६ ॥
पिङ्गलः खादको बभ्रुर्दहनश्चाग्निदिग्गताः ।
विधातृधातृकर्त्रीश- कालमृत्युवियोजकाः ॥ १,१३.१२७ ॥
याम्यधर्मेशसंयोक्तृ- हराश्च यमनायकाः ।
निरृतिर्मारणक्रोध- हन्तृधूम्रविलोहिताः ॥ १,१३.१२८ ॥
ऊर्ध्वलिङ्गविरूपाक्ष- दंष्ट्रिभीमाः पलादपाः ।
बलातिबलपाशाङ्ग- श्वेतभूतजलान्तकाः ॥ १,१३.१२९ ॥
महाबलमहाबाहु- सुनाद्यब्दरवाः कपाः ।
लघुशीघ्रमहद्वेग- सूक्ष्मतीक्ष्णक्षयान्तकाः ॥ १,१३.१३० ॥
कपर्द्यब्देशपञ्चान्त- पञ्चचूडाश्च वायुपाः ।
निधीशो रूपवान् धन्य- सौम्यशान्तजटाधराः ॥ १,१३.१३१ ॥
कामप्रसादलक्ष्मीश- प्रकाशाश्चेन्दुयक्षपाः ।
विद्येशसर्वविज्ज्ञान- वेदविज्ज्येष्ठवेदगाः ॥ १,१३.१३२ ॥
विद्याविधातृभूतेश- बलिप्रियसुखाधिपाः ।
शम्भुर्गणाध्यक्षविभु- त्र्यक्षचण्डामरस्तुताः ॥ १,१३.१३३ ॥
विचक्षणनभोलिप्सु- संविवाहाश्च मूर्धनि ।
क्रोधनानिलभुग्भोगि- ग्रसनोदुम्बरेश्वराः ॥ १,१३.१३४ ॥
वृषो विषधरोऽनन्तो वज्रो दंष्ट्री च विष्णुपाः ।
ततोऽम्भःप्रमुखा भोग- भूमयस्तासु संस्थिताः ॥ १,१३.१३५ ॥
पञ्चाष्टका नियोक्तॄणां क्षेत्रावाप्तफलश्रियः ।
भारभूत्याषाढिडिण्डि- लाकुल्यमरपुष्कराः ॥ १,१३.१३६ ॥
प्रभासनैमिषौ चेति गुह्याष्टकमिदं जले ।
श्रीशालजल्पकेदार- भैरवाम्रातकेश्वराः ॥ १,१३.१३७ ॥
हरिश्चन्द्रमहाकालमध्याः सातिपदा रुचौ ।
महेन्द्रभीमविमल- कुरुक्षेत्रगयाखलाः ॥ १,१३.१३८ ॥
सनापदोत्तराः साट्ट- हासाः सनाखलाः खगे ।
स्थाणुस्वर्णाक्षगोकर्ण- भद्रकर्णमहालयाः ॥ १,१३.१३९ ॥
वस्त्रपदाविमुखाह्व- रुद्रकोट्यः खमण्डले ।
पवित्राष्टकमित्याहुर्गर्वे मात्रेन्द्रियगोचरे ॥ १,१३.१४० ॥
स्थाण्वष्टकं द्विजश्रेष्ठ नामतः कथयामि ते ।
माकोटमण्डलेशान- द्विरण्डछगलाण्डकाः ॥ १,१३.१४१ ॥
स्थूलस्थूलेश्वरौ शङ्कु- कर्णकालञ्जरावपि ।
सूक्ष्मामरपुराण्यष्टौ बुद्धौ पैशाचमादितः ॥ १,१३.१४२ ॥
राक्षसं याक्षगान्धर्वं माहेन्द्रं च महर्द्धिमत् ।
सौम्यं प्राजेश्वरं ब्राह्मं दीप्तं परमया श्रिया ॥ १,१३.१४३ ॥
गौणे योगीशधामानि त्वकृतं कृतरैभवम् ।
कृतभैरवम् ष्ट्ष्
ब्राह्मवैष्णवकौमारमौमं श्रैकण्ठमन्ततः ॥ १,१३.१४४ ॥
वीरभद्रस्य रुचिमद्द्धाम योगिवरस्तुतम् ।
स्वपदाधोऽधिकारस्थ- सर्वरुद्राधिकश्रियः ॥ १,१३.१४५ ॥
वामदेवभवानन्त- भीमोमापत्यजेश्वराः ।
सर्वेशानेश्वरावेक- वीरैकशिवसंज्ञितौ ॥ १,१३.१४६ ॥
उग्रः प्रचण्डदृक्चेशो गुणानां मूर्ध्नि संस्थिताः ।
तपसा गुरुणोपास्य क्रोधादीन् गुरुतां मताः ॥ १,१३.१४७ ॥
स्वाधिकारविधौ तीक्ष्णा रुद्राः सर्वार्थदृक्क्रियाः ।
तेभ्यो दशगुणश्रीकान् प्रधानाधिपतीञ्छृणु ॥ १,१३.१४८ ॥
क्रोधेशचण्डसंवर्त- ज्योतिःपिङ्गलसूरगाः ।
पञ्चान्तकैकवीरौ च शिखेद इति ते स्मृताः ॥ १,१३.१४९ ॥
सर्वेन्द्रियः सर्वतनुः सर्वान्तःकरणाश्रयः ।
पुरुषे नियतौ यन्ता काले कलनशक्तिमान् ॥ १,१३.१५० ॥
भुवनेशमहादेव- वामदेवभवोद्भवाः ।
एकपिङ्गेक्षणेशाना- -ङ्गुष्ठमात्राश्च भास्वराः ॥ १,१३.१५१ ॥
परमेशोपमा राग- विद्यागर्भे कलापदे ।
महापुरचतुःषष्टि- मण्डले मण्डलाधिपाः ॥ १,१३.१५२ ॥
अनन्तस्त्रिकलो गोप्ता क्षेमीशो ब्रह्मणः पतिः ।
ध्रुवतेजोधिषौ रुद्रौ गहनेशश्च विश्वराट् ॥ १,१३.१५३ ॥
मायाधिकारिणो रुद्रा मण्डलाधिपतीश्वराः ।
संसारचक्रकारूढ- भूतग्रामविवर्तकाः ॥ १,१३.१५४ ॥
एतावत्येव घोरेयं सर्वभूतभवावनिः ।
सीदन्त्यज्ञानिनो यस्यां पङ्के गाव इवाचलाः ॥ १,१३.१५५ ॥
भृगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा ।
रूपिणी नन्दिनी ज्वाला सप्तसप्तार्बुदेश्वराः ॥ १,१३.१५६ ॥
विद्याराज्ञ्यस्तु कथिता विद्यायां रुद्रसंस्तुताः ।
तासामुपरि दीप्तश्रीर्देवो विद्याधिपः स्थितः ॥ १,१३.१५७ ॥
मन्त्रेशेशचिदाविष्ट- रुद्रव्यूहाष्टकानुगः ।
उच्छुष्माः शम्बराश्चण्डा महावीर्याः पदद्रुहः ॥ १,१३.१५८ ॥
रुद्रा गणाः सदिक्पालाः शास्त्राणि पतयस्ततः ।
ते चानन्तप्रभृतयो गदिता एव नामतः ॥ १,१३.१५९ ॥
स्वस्वरूपाश्च ते विप्र पूर्वं प्रश्नानुषङ्गतः ।
सादाशिवे पवित्राङ्ग- सकलादिपरिच्छदः ॥ १,१३.१६० ॥
देवः सदाशिवो बिन्दौ निवृत्त्यादिकलेश्वराः ।
नादे ध्वनिपतिः शक्तौ सर्वशक्तिमतां वरः ॥ १,१३.१६१ ॥
योनिर्विश्वस्य वागीशाः पतयः परतः शिवः ।
सदाशिवशिवान्ताध्व- कल्पिताणुवपुःस्थितिः ॥ १,१३.१६२ ॥
सर्वातिशयविश्रामस्तदूर्ध्वं पतयः कथम् ।
ईशानतीत्य शान्तान्तं तत्त्वं सादाशिवं स्मृतम् ॥ १,१३.१६३ ॥
भुवनान्यपि नादादि- कला नान्यः पतिः शिवात् ।
किंतु यः पतिभेदोऽस्मिन् स शास्त्रे शक्तिभेदवत् ॥ १,१३.१६४ ॥
कृत्यभेदोपचारेण तद्भेदस्थानभेदजः ।
करोत्युन्मीलनं याभिः शक्तिभिर्नरतेजसः ॥ १,१३.१६५ ॥
ता निवृत्त्यादिसंज्ञानां भुवनानामधीश्वराः ।
निवर्तयति भूतानि यया सास्य निवर्तिका ॥ १,१३.१६६ ॥
निवृत्तिरिति तत्स्थानं तत्रेशोऽपि निवृत्तिमान् ।
निवृत्तस्य गतिर्भूयो यया प्राच्यावलक्षणा ॥ १,१३.१६७ ॥
निषिध्यते प्रतिष्ठा सा स्थानं तवांश्च तत्पतिः ।
त्यक्त्वाप्तगम्यविषयं यया ज्ञानं ददात्यणोः ॥ १,१३.१६८ ॥
सा विद्या स्थानमप्यस्या विद्येशश्च तदीश्वरः ।
सर्वदुःखप्रशमनं ययास्य कुरुते हरः ॥ १,१३.१६९ ॥
सा शान्तिस्तत्पदं चेति तत्कुर्वन् सोऽपि शान्तिमान् ।
ऊर्ध्वाधोविषयालोको महान्यश्च महत्तरः ॥ १,१३.१७० ॥
महत्तमश्च क्रियते चितो याभिर्विमुच्यतः ।
ता इन्धिकाद्यास्तत्स्थानं तद्वानीशस्तिसृष्वपि ॥ १,१३.१७१ ॥
सर्वज्ञत्वादियोगेऽपि नियोज्यत्वं मलांशतः ।
प्रमार्ष्टि तद्यया सास्य मोचिका तत्पदं च यत् ॥ १,१३.१७२ ॥
मोचकस्तत्क्रियाकृच्च ययेशानं करोति तम् ।
सोर्ध्वगा तत्पदं चेति तदीशश्चोर्ध्वगापतिः ॥ १,१३.१७३ ॥
येऽपि तत्पदमापन्नाः शैवसाधनयोगतः ।
ते तत्स्थित्यन्तमाह्लादं प्राप्य यान्ति परं पदम् ॥ १,१३.१७४ ॥
न च सृष्ट्यादि कुर्वन्ति स्वार्थनिष्ठा हि ते यतः ।
इति सादाशिवं तत्त्वं व्याख्यातं लेशतस्तव ॥ १,१३.१७५ ॥
शक्तावप्येवमित्येष सकलः कृत्ययोगतः ।
कृत्यं तदादिविषयं निष्कलोऽन्यत्र सर्वदा ॥ १,१३.१७६ ॥
भूमिप्राधानिकग्रन्थि- विद्याबिन्दुकलादिषु ।
गुणकाराः दशाद्याः स्युर्नादकोटेरधो मुने ॥ १,१३.१७७ ॥
ऊर्ध्वं कलाया विद्याधः श्रूयन्ते गहनाधिपाः ।
तदन्तरालमेतावदिति धीजात्र लक्षणा ॥ १,१३.१७८ ॥
द्वयोरप्यध्वनोरेवं क्रमप्रसवयोगिनोः ।
विलयः प्रातिलोम्येन शक्तितत्त्वद्वयावधिः ॥ १,१३.१७९ ॥
व्यस्तस्याथ समस्तस्य विलयः स कथं कियान् ।
तत्त्वमार्गस्य भगवन् ब्रूहि सर्वार्थदर्श्यसि ॥ १,१३.१८० ॥
महास्वापे समस्तस्य व्यस्तस्यावान्तरो लयः ।
सर्गोऽप्येवं स्थितेः कालः कथ्यमानोऽवधार्यताम् ॥ १,१३.१८१ ॥
चतुर्युगसहस्रान्तमहर्हेमाण्डजन्मनः ।
निशा तावत्यहोरात्र- मानेनाब्दपरार्धके ॥ १,१३.१८२ ॥
विलयो व्युत्क्रमेणैष प्रकृत्यादि निवार्यते ।
तदा रुद्रशतं वीर- श्रीकण्ठौ च प्रधानपाः ॥ १,१३.१८३ ॥
शक्त्याक्रम्य जगत्सूक्ष्मं सूक्ष्मदेहांश्च चिद्वतः ।
प्रकृतिस्थाशयान् कालं तत्स्वापान्तमुपासते ॥ १,१३.१८४ ॥
शिवेष्टमन्त्रभृन्नुन्न- मण्डलाधिपतीरिताः ।
काले जगत्समुत्पाद्य स्वाधिकारं प्रकुर्वते ॥ १,१३.१८५ ॥
कर्म धर्मादिकं तच्च गुणत्वेन मतौ स्थितम् ।
गुणिनो न गुणोऽपैति प्रकृतावुच्यते कथम् ॥ १,१३.१८६ ॥
सत्यं बुद्धिगुणः कर्म नापैति गुणिनो गुणः ।
देहाक्षफलभूमीनां तात्स्थ्यात्तत्रोपचर्यते ॥ १,१३.१८७ ॥
आधारे कारणे कार्ये समीपे चोपकारके ।
धर्माद्यनुकृतौ चेति लक्षणां सूरयो जगुः ॥ १,१३.१८८ ॥
एवं गुणादिसर्गाणां परार्धे गुणकारणम् ।
कला लेढि कलां माया स्वाधिकारपराङ्मुखी ॥ १,१३.१८९ ॥
तन्निवृत्तौ निवर्तन्ते देवास्तदधिकारिणः ।
सर्गस्थित्यादिको यस्मादधिकारस्तदाश्रयः ॥ १,१३.१९० ॥
एवं मन्त्रेशमुख्येषु विशत्स्वभिमतं पदम् ।
विद्यामत्ति सदातत्त्वं तद्बिन्दुर्बैन्दवं ध्वनिः ॥ १,१३.१९१ ॥
नादमत्ति परा शक्तिः शक्तिमीष्टे स्वयं हरः ।
भविनां विश्रमायैवं मायायाश्च परः शिवः ॥ १,१३.१९२ ॥
आकलय्य स्वदृक्शक्त्या स्वापं सृष्ट्यै प्रवर्तते ।
एवं तत्त्वानि भावाश्च भुवनानि वपूंषि च ॥ १,१३.१९३ ॥
शुद्धाशुद्धाध्वनोर्विप्र व्याख्यातानि समासतः ।
विद्या पञ्चाणुदेहाश्च बिन्दुर्नादोऽथ कारणम् ॥ १,१३.१९४ ॥
पञ्चस्कन्धः परो मार्गः क्व भावाः प्रत्ययः स्थिताः ।
नादः सूक्ष्मः कला काल- रागयुग्मे सपूरुषे ॥ १,१३.१९५ ॥
स्थूलः पञ्चकलो नादः पञ्चतत्त्वाश्रयो मुने ।
प्रधानादिचतुर्ग्रन्थि- निधिर्बिन्दुश्चतुष्कलः ॥ १,१३.१९६ ॥
गर्वे मनोमुखा देवा बुद्धौ भावादयः स्थिताः ।
पञ्चमन्त्रतनुर्देवः स्थितस्तन्मात्रपञ्चके ।
सूक्ष्मभूतेषु मन्त्रेशा मन्त्राः स्थूलेषु संस्थिताः ॥ १,१३.१९७ ॥
इति यदणुनिरोधि ध्वान्तबीजाद्यदृष्टं पशुमतसृतदृग्भिः पाशजालं सुभूयः ।
तदुपशमनिमित्तं वक्ष्यमाणक्रियातो रुचदविहतशक्तिः शाम्भवी मन्त्रसम्पत् ॥ १,१३.१९८ ॥
समाप्तश्च विद्यापादः
__________________________
येनाणूनामुषितममलं दृक्क्रियाख्यस्वरूपं यत्सद्भावाद्भवजलनिधौ जन्तुजातस्य पातः ।
दुर्वारं तत्क्षपयति तमो यत्प्रसादस्तमीशं चर्यापादे विवृतिरचनां कुर्महे सम्प्रणम्य ॥ ३.० ॥
अथातो देशिकादीनां सामान्याचारसंग्रहः ।
परश्चावसरप्राप्तः समासेनोपदिश्यते ॥ ३.१ ॥
देशिको मन्त्रवृत्तिश्च पुत्रकः समयी च यः ।
चत्वार एते शैवाः स्युर्व्रतिनोऽव्रतिनोऽपि वा ॥ ३.२ ॥
व्रतिनो जटिला मुण्डास्तेष्वग्र्या भस्मपाण्डराः ।
तिलकैः पुण्ड्रकैः पट्टैर्भूषिता भूमिपादयः ॥ ३.३ ॥
जटा न शूद्रो विभृयान्नाज्ञो नापि प्रमादवान् ।
न योषिन्न वयोन्तस्था न रोगी विकलोऽपि वा ॥ ३.४ ॥
कलातत्त्वपवित्राणु- शक्तिमन्त्रेशसंख्यया ।
विभज्य केशान्सम्पात्य प्रत्यंशं संहिताणुभिः ॥ ३.५ ॥
व्रतेश्वरस्य पुरतो बध्नीयाच्छिवतेजसा ।
मन्त्रिणः साध्यमन्त्रेण हृदा पुत्रकयोग्ययोः ॥ ३.६ ॥
कृमिघ्नद्रव्यमिश्रेण भस्मना त्रैफलेन च ।
सायचूर्णेन वा पुष्टिं नयेत्ता भौतिकव्रती ॥ ३.७ ॥
भौतिकव्रतिनस्ते स्युर्येषां सावधिकं व्रतम् ।
देहपातान्तकं येषां ते निष्ठाव्रतिनः स्मृताः ॥ ३.८ ॥
गुरवः पुत्रका ये च न प्राथमिकसाधकाः ।
पूर्णव्रतावधिः सम्यग्व्रतेशायार्पितव्रतः ॥ ३.९ ॥
न्यस्तव्रताङ्गः सत्पत्नी- परिग्रहविभूतिमान् ।
भौतिकः काम्य इत्युक्तः सत्सान्तानिक एव वा ॥ ३.१० ॥
साधको लोकधर्मी यः पुत्रकः स्नातको गृही ।
समयी प्राग्गृहस्थश्च शैवाः स्युर्व्रतवर्जिताः ॥ ३.११ ॥
तेषां साधारणं कर्म सन्ध्योपासनमर्चनम् ।
स्नानादीनि तदङ्गानि पर्वसु द्विगुणक्रिया ॥ ३.१२ ॥
न्यग्रोधाश्वत्थपत्रेषु वातघ्नाक्षदलेषु च ।
कांस्ये वाभोजनं भैक्षं चातुर्वर्ण्यमकुत्सितम् ॥ ३.१३ ॥
सर्वामरप्रतिष्ठासु सेत्वादीनां निवेशने ।
सीमन्तोन्नयनाद्येषु संस्कारेष्वन्नवर्जनम् ॥ ३.१४ ॥
चरुणा फलमूलैर्वा हविष्येणापरेण वा ।
चतुर्दश्यामथाष्टम्यां पञ्चदश्यां च वर्तनम् ॥ ३.१५ ॥
व्यतीपातदिनध्वंस- मासवृद्ध्ययनादिषु ।
विशेषसंयमः कार्यः शैवानां च प्रतर्पणम् ॥ ३.१६ ॥
मार्गक्षीणे रिपुग्रस्ते रोगार्ते क्षुत्प्रपीडिते ।
सर्वात्मना समुद्धारः कर्तव्यः शिवयोगिनः ॥ ३.१७ ॥
मांसयोषिन्मधुत्यागो व्रतिनः क्षितिशायिता ।
मात्रारक्षणमेकस्य कमण्डलुसहायता ॥ ३.१८ ॥
स्त्रीगीतनर्तितालाप- विलासानामुपेक्षणम् ।
स्त्रिया रहोऽव्यवस्थानं स्रगभ्यङ्गादिवर्जनम् ॥ ३.१९ ॥
कृष्णपक्षे चतुर्दश्यामष्टम्यां सिद्धदर्शने ।
श्राद्धं पर्वसु सर्वेषु विषुवे चाष्टकादिषु ॥ ३.२० ॥
गुरुतत्तुल्यबन्धूनां भ्रातॄणां ज्यायसामपि ।
पूजनं मधुपर्काद्यैः स्वकाले स्त्रीनिषेवणम् ॥ ३.२१ ॥
मङ्गलाचारयोगित्वं गन्धमाल्यादिधारणम् ।
पृथक्पृथक्तथैतेषामाचारोऽपि विधीयते ॥ ३.२२ ॥
महेशशक्तिनुन्नानां गुरुः कुर्यादनुग्रहम् ।
परीक्षाभिः परिज्ञाय वृद्धोक्ताभिः प्रयत्नवान् ॥ ३.२३ ॥
अकृत्वा शिवभक्तानां कृत्वा च व्यभिचारिणाम् ।
प्रायश्चित्ती भवेद्यस्मात्कुर्याद्यत्नमतः परम् ॥ ३.२४ ॥
कर्म संजीवनं कुर्याद्व्यभिचारिणि दीक्षिते ।
सृष्टितः संहिताहोमादधः पूर्णासमन्वितम् ॥ ३.२५ ॥
संजीवनं न दग्धस्य कर्मणोऽस्ति मृषा चितः ।
खेदनापायशमनं प्रायश्चित्तं हि तद्गुरोः ॥ ३.२६ ॥
दर्शनान्तरसंस्थाभ्यश्च्युतानामनुवर्तिनाम् ।
विधायैवं स्वजात्यन्तं दीक्षां कुर्याद्विलोमतः ॥ ३.२७ ॥
न ते मन्त्रप्रयोक्तारः पुनर्भवतया मताः ।
मन्त्रसाधनसंसिद्धेः कुर्यात्तानीतराण्यतः ॥ ३.२८ ॥
व्याकुर्याच्छिवभक्तेभ्यस्तन्त्रार्थं गतमत्सरः ।
न्यायतो न्यायवर्तिभ्यः पालयन् गुरुसन्ततिम् ॥ ३.२९ ॥
नाजीर्णाम्लरसोद्गारे न च विण्मूत्रबाधने ।
न छर्द्यां नातिसारे वा नास्नातः कृतमैथुनः ॥ ३.३० ॥
पूते महीतले स्थित्वा पशुश्रवणवर्जिते ।
परिध्यन्तःस्थितं चेष्ट्वा शिवं प्रणवविग्रहम् ॥ ३.३१ ॥
गणाध्यक्षं गुरुं चैव कारकं च क्रियाश्रयम् ।
पुस्तकं गुप्तसत्सूत्रं विधायोपरि कस्यचित् ॥ ३.३२ ॥
ब्रूयादङ्ग पठस्वेति कृतार्थं प्रागुदङ्मुखः ।
प्रारभेत गुरुर्व्याख्यां सम्बन्धार्थोक्तिपूर्विकाम् ॥ ३.३३ ॥
स्रोतो ब्रूयादनुस्रोतो भेदान् संख्यानमेव च ।
प्रवृत्तये गुरुं स्वं च स्तेयी स्यात्तदकीर्तनात् ॥ ३.३४ ॥
स्रोतांसि कामिकाद्यूर्ध्वमसिताङ्गादि दक्षिणम् ।
सम्मोहाद्युत्तरं प्राच्यं त्रोतलादि सुविस्तरम् ॥ ३.३५ ॥
आप्यं चण्डासिधारादि चण्डनाथपरिग्रहम् ।
शैवं मान्त्रेश्वरं गाणं दिव्यमार्षं च गौह्यकम् ॥ ३.३६ ॥
योगिनीसिद्धकौलं च स्रोतांस्यष्टौ विदुर्बुधः ।
प्रतिस्रोतोऽनुयायीनि तानि ब्रूयाद्विभागशः ॥ ३.३७ ॥
शैवं प्राक्तन्त्रनिर्माणमाज्ञासिद्धमसंशयम् ।
तदीशानैर्गणैर्देवैर्मुनिभिश्च तदिच्छया ॥ ३.३८ ॥
विज्ञाय सम्भृतं स्वोक्त्या तादाख्यं समुपागतम् ।
गुह्यका भुजगा यक्षा दानवाश्च शिवेरिताः ॥ ३.३९ ॥
यदूचुरुपसंहृत्य तत्स्रोतो गौह्यकं स्मृतम् ।
योगिन्यो लेभिरे ज्ञानं सद्यो योगावभासकम् ॥ ३.४० ॥
येनतद्योगिनीकौलं नोत्तीर्णं ताभ्य एव तत् ।
तथान्यदपि संहारो यो मिश्रो मिश्र एव सः ॥ ३.४१ ॥
वादिभेदप्रभिन्नत्वात्तेषां संख्या न विद्यते ।
शैवा रौद्रा महाभेदा दशाष्टादश चोर्ध्वके ॥ ३.४२ ॥
रौद्रा रुद्रैः शिवाविष्टैरुद्गीर्णा न स्वबुद्धितः ।
शैवानां कामिकं पूर्वं योगोद्भवमचिन्त्यकम् ॥ ३.४३ ॥
कारणं ज्ञानमजितं दीप्ताख्यं सूक्ष्मकं परम् ।
साहस्रमंशुमत्संज्ञं सुप्रभिद्दशमं विदुः ॥ ३.४४ ॥
रौद्राणां विजयं पूर्वं निःश्वासं पारमेश्वरम् ।
स्वायम्भुवं तथाग्नेयं वीरभद्रं च रौरवम् ॥ ३.४५ ॥
मकुटं विमलाख्यं च चन्द्रज्ञानाख्यमेव च ।
मुखबिम्बकमुद्गीतं ललितं सिद्धसंज्ञकम् ॥ ३.४६ ॥
सन्तानं चैव शर्वोक्तं किरणं वातुलं परम् ।
तदारभ्य चिरं नाति व्याकुर्यात्प्रथमेऽहनि ॥ ३.४७ ॥
प्रारम्भेऽपि न सम्प्रश्न- प्रतिप्रश्नातिमात्रकम् ।
त्रीणि मूलानि सूत्राणि द्वे तथैकमथापि वा ॥ ३.४८ ॥
विधायोपरमेदूर्ध्वं वदन्विघ्नैर्विरुद्ध्यते ।
यत्र बीज इवारूढो महातन्त्रार्थपादपः ॥ ३.४९ ॥
आभाति मूलसूत्रं तदथशब्दाद्यलंकृतम् ।
तस्योद्देशकमन्यत्स्यात्संख्यासंज्ञादिवाचकम् ॥ ३.५० ॥
तल्लक्षणं स्वरूपोक्तिस्तदन्यो भाष्यसंग्रहः ।
ब्रूते य एवं योऽधीते तावुभौ हतकल्मषौ ॥ ३.५१ ॥
लोके प्राप्य यशो दीप्तं विशेतां धाम शांकरम् ।
अनध्याये स्वतन्त्रोक्त- विधिना शृण्वते मृषा ॥ ३.५२ ॥
शैवं वदन्निहाल्पायुर्मृतः प्रेतत्वमश्नुते ।
नाध्यापयेच्चतुर्दश्यामष्टम्यां पक्षयोर्द्वयोः ॥ ३.५३ ॥
प्रतिपत्पञ्चदश्योश्च चतुर्थ्यामर्कसंक्रमे ।
निर्घातोल्कामहीकम्प- पश्चाच्चापेषु वासरः ॥ ३.५४ ॥
संध्यास्तनितदिग्दाह- परिवेषोपलेषु च ।
नीहारप्राग्धनुर्व्योम- पुरेष्वेतेषु दर्शनात् ॥ ३.५५ ॥
कीलके च रवीन्दुस्थे त्र्यहं स्वर्भानुदर्शने ।
पञ्चरात्रं हरिमखे पवित्रे च मखद्विषः ॥ ३.५६ ॥
बिडालव्यालभेकेषु गतेष्वन्तरतो दिनम् ।
त्र्यहं त्रिफणिनि व्याले दृष्टे द्विफणिनि द्व्यहम् ॥ ३.५७ ॥
अन्तः शवश्रुतौ दाहे शवगन्धे खरानिले ।
तद्विरामं विना ख्यात- जन्तुमृत्यौ च वासरम् ॥ ३.५८ ॥
गुरौ मासं शिवीभूते भ्रातृशिष्यादिके त्र्यहम् ।
शैवे राजनि सप्ताहं त्रिरात्रं पशुधर्मिणि ॥ ३.५९ ॥
स्वकल्पान्वयसिद्धेषु तथान्येष्वपि देशिकः ।
प्राग्व्याख्यानपरामर्श- समाधानेष्टिकृद्भवेत् ॥ ३.६० ॥
समयी पुत्रको वापि ज्ञात्वा किंचिदपूर्वकम् ।
निवेदयेदनुज्ञातो गुरवे पीठवर्तिने ॥ ३.६१ ॥
शृणुयात्स्वाभिषिक्ताद्वा योगपीठेष्टशंकरः ।
बहिः स्थितो बहिःसंस्थात्परसिक्तादपीठगात् ॥ ३.६२ ॥
न यायादनुपानत्कः क्वचिन्नाप्यसहायवान् ।
नातिप्राङ्नातिवेलायां न रात्रौ न खारातपे ॥ ३.६३ ॥
न नीचैः संवसेन्न्नापि वृथा यायाद्गृहाद्गृहम् ।
तथा नोपहसेत्कंचिन्नानुकुर्यान्न पीडयेत् ॥ ३.६४ ॥
नासदाचरितं किंचिदाचरेत्स गुरुर्यतः ।
तदापन्नममान्यत्वं मन्त्र्यादिषु न वार्यते ॥ ३.६५ ॥
पुत्रकः प्रातरुत्थाय समयी च कृताह्निकः ।
कृतप्रणामोऽनुज्ञातो गुरुणा कृत्यमाचरेत् ॥ ३.६६ ॥
अधीत्य शृणुयाच्छास्त्रं गुरुतन्त्रो गुरौ वसन् ।
त्यक्त्वाभिमानमात्सर्य- डम्भव्यसनसन्ततिम् ॥ ३.६७ ॥
कण्ठप्रावृतिनिष्ठीव- कासहासादि सन्निधौ ।
गुरोर्न कुर्यान्नो वादं कैश्चिन्नोत्कृष्टवेषवान् ॥ ३.६८ ॥
उद्वर्तनाङ्गसंस्कार- जृम्भणासनसंस्थितीः ।
समानालापपर्यङ्ग- बन्धध्यानार्चनादिकम् ॥ ३.६९ ॥
न भुञ्जानं समाधिस्थं चङ्क्रमन्तं क्रियोद्यतम् ।
स्थितं गुरुसमीपे वा मतिमान्नाभिवादयेत् ॥ ३.७० ॥
गच्छन्तं पृष्ठतो यायाद्विशन्तमनुसंविशेत् ।
तद्वचो नानुयुञ्जीत शयानं न प्रबोधयेत् ॥ ३.७१ ॥
अनुज्ञातश्चरेद्भैक्षं प्राप्तमद्यान्निवेदितम् ।
शयीत सुप्त इत्यादि कुर्याद्विध्युदितं च यत् ॥ ३.७२ ॥
कामं चरेदनुज्ञातः पुत्रको धाम्नि वा वसेत् ।
समयी प्राग्गृहस्थश्च यत्नेनोपचरेद्गुरुम् ॥ ३.७३ ॥
साध्यकोटेरलब्धत्वात्तल्लाभोऽपि तदाश्रयः ।
न चान्यवृत्तिनिष्ठस्य तस्मात्तत्साधको भवेत् ॥ ३.७४ ॥
साधको गुर्वनुज्ञातः पुण्यक्षेत्रं समाश्रितः ।
साध्यवेषधरो मौनी हविष्यचरुशाकभुक् ॥ ३.७५ ॥
सहायवानप्रमत्तः फलमूलभुगेव वा ।
इष्ट्वा शिवं यजेत्साध्यं जपं कुर्यात्त्रिधोदितम् ॥ ३.७६ ॥
हुत्वा दशांशं तद्याग- कुम्भस्नातः शुभे दिने ।
क्षेत्रस्थः प्रारभेत्कर्म चरन्वा सिद्धिसंश्रयम् ॥ ३.७७ ॥
न कंचिदनुगृह्णीयान्न निषेवेत भर्त्सयेत् ।
नासीत चिरमन्यत्र विना क्षेत्रपरिग्रहात् ॥ ३.७८ ॥
माधूकरीं चरेद्भिक्षां दिनार्थे सवने गते ।
सर्वमन्त्रमुखे पुण्ये परमेशाधिदैवते ॥ ३.७९ ॥
तदनिर्वर्त्य योऽश्नाति सवनं सूरपूजितम् ।
मन्त्रास्तं नाधितिष्ठन्ति योगपीठव्यवस्थिताः ॥ ३.८० ॥
भीक्षां तु चरतो भिक्षां नादद्यान्न विगर्हितात् ।
शैवात्स्वायम्भुवादेश्च कुतश्चिल्लिङ्गिनोऽपि वा ॥ ३.८१ ॥
मिष्टान्नप्रचुरां भीक्षां नादद्यान्नातिसंस्कृताम् ।
परिहासादिचतुरा यत्र नार्यस्ततोऽपि वा ॥ ३.८२ ॥
कृतरक्षः स्मरन्नस्त्रं पर्यटेन्मौनमास्थितः ।
भिक्षामलब्ध्वा नो कोपं कुर्यान्नो विधृतश्चिरम् ॥ ३.८३ ॥
न चाध्वसु प्रधावत्सु नोक्तः केनचिदप्रियम् ।
गुर्वग्निशिवविद्याभ्यः क्षेत्रपालाय चांशकम् ॥ ३.८४ ॥
समुद्धृत्य सहायेन विभज्याद्यात्क्षितौ शुचिः ।
समाचान्तो जपेन्मन्त्रं वैष्णवे समये ततः ॥ ३.८५ ॥
व्यतीते क्षेत्रपालाय स्वाहेत्योंकारपूर्वकम् ।
बलिं च नैरृते दद्याद्गन्धधूपपुरःसरम् ॥ ३.८६ ॥
ततः प्रसार्य सच्चर्म बद्ध्वासनमतन्द्रितः ।
ध्यायन्मन्त्रं जपेद्विद्वान् खिन्नस्तस्मिंल्लघु स्वपेत् ॥ ३.८७ ॥
समुत्थायार्धरात्रे तु कुर्यात्पूजाजपादिकम् ।
ततश्च सवने ब्राह्मे समिदाद्याहरेत्ततः ॥ ३.८८ ॥
शैवानावसथप्राप्तान् परया श्रद्धयार्चयेत् ।
सम्पन्नैः कारकैस्तांश्च ज्ञात्वा लिङ्गैर्यथार्हतः ॥ ३.८९ ॥
न कंचित्प्रणमेद्ब्रूयात्साध्यमन्त्रं न कस्यचित् ।
नाक्षिपेदोषधीर्मन्त्र- गोब्राह्मणतपस्विनः ॥ ३.९० ॥
व्यक्तिस्थानं शिवस्यैते शिवनिन्दैव सा यतः ।
विशिष्टेनोपहारेण यजेत्पर्वसु शंकरम् ॥ ३.९१ ॥
क्षेत्रपालं च साध्याणुं चरुं दद्यान्न कस्यचित् ।
लब्धानुज्ञो मृषा जातु तिष्ठेन्नैकमपि क्षणम् ॥ ३.९२ ॥
गुप्ताक्षसूत्रपूजाङ्गः क्रियाकालविभागवित् ।
क्रमशः सिद्धिमाप्नोति सिद्धिक्षेत्राणि संचरन् ॥ ३.९३ ॥
परिगृह्याथवा क्षेत्रं सल्लिङ्गाधिकृतं वसेत् ।
गणेशवृषभस्कन्द- मातृलोकेशकीलितम् ॥ ३.९४ ॥
दक्षिणोत्तरदिग्द्वारं शिवधामान्यरक्षितम् ।
महाजनाकुलं दूर- समित्पुष्पकुशोदकम् ॥ ३.९५ ॥
सोपद्रवं च संत्यज्य परिग्रहणमाचरेत् ।
बाणे लिङ्गे स्वयंव्यक्ते मुनिसिद्धनिषेविते ॥ ३.९६ ॥
स्वकल्पोक्तेन विधिना स्वयं वा परिकल्पिते ।
शुक्लपक्षे चतुर्दश्यां विशेषेणोत्तरायणे ॥ ३.९७ ॥
कुर्यात्परिग्रहं विद्वानष्टम्यां वा समाहितः ।
यागधाम विधायादा- वस्त्रं माहेश्वरं यजेत् ॥ ३.९८ ॥
जप्त्वा दशसहस्राणि दशांशमनुहोमयेत् ।
भूरिस्रग्बलिधूपाद्यैरिष्टलिङ्गस्थशंकरः ॥ ३.९९ ॥
न्यसेद्दिगीश्वरान्दिक्षु शक्रादीन् शङ्कुविग्रहान् ।
नाडीभूतेन सूत्रेण सन्धाय बहिरालिखेत् ॥ ३.१०० ॥
प्राकारं भस्मना दीप्तमस्त्रं माहेश्वरं जपन् ।
तदन्तरखिलैर्बीजैर्वर्मालब्धैस्तदुच्चरन् ॥ ३.१०१ ॥
प्राकारं कवचं कुर्यात्स्वधाम्नोऽप्येवमेव हि ।
धामशङ्कुषु लोकेशान् प्रदोषे प्रतिवासरम् ॥ ३.१०२ ॥
बाह्यावृतौ तदस्त्राणि यजेदन्तर्घनच्छदम् ।
क्षेत्रपालं स्वदिग्भागे पर्वसु क्षेत्रनेमिगान् ॥ ३.१०३ ॥
क्षेत्रे यन्नस्ति तद्दूरात्सहायोपहृतं भजेत् ।
न सिद्धिक्षेत्रमुत्सृज्य पदमप्यन्यतो व्रजेत् ॥ ३.१०४ ॥
वर्णलक्षजपान्मन्त्रो होमाच दशमांशतः ।
स्वशास्त्रविहितां वृत्तिमास्थितस्य प्रसिद्ध्यति ॥ ३.१०५ ॥
संजातव्युत्क्रमः कुर्यात्प्रायश्चित्तं विधिस्थितम् ।
अकामात्कामतः कुर्यात्तदेव त्रिगुणं सुधीः ॥ ३.१०६ ॥
साधकाह्निकविच्छेदे सद्योजातायुतं जपेत् ।
शतं वा संयतप्राणो वासरं मारुताशनः ॥ ३.१०७ ॥
वामस्यान्नव्यतिकरे हिंसायां बहुरूपिणः ।
वक्त्रस्य स्यन्दने रात्रौ दिवा तद्द्विगुणं जपेत् ॥ ३.१०८ ॥
द्विजाद्युच्छिष्टसंसर्गे वक्त्राद्यन्यतमं गुणम् ।
चतुर्दलाब्जमध्येष्ट्या तत्स्थाने पञ्चमं यजेत् ॥ ३.१०९ ॥
षडहोपोषितो लक्षं जपेद्वन्याशनोऽपि वा ।
जुहुयादयुतं ज्ञाते द्विगुणं शुद्धिकारणात् ॥ ३.११० ॥
जपेन्निर्माल्यसम्पर्के सर्वब्रह्माणि लक्षशः ।
समग्रसंहितालक्षं जपेन्निर्माल्यभोजने ॥ ३.१११ ॥
वामाद्याः पतयः शाक्य- पादार्थिककपालिनाम् ।
अजातोऽधिपतिः प्रोक्तस्त्रयीनैष्ठिकलिङ्गिनाम् ॥ ३.११२ ॥
तदन्नभोजने शुद्धिर्जातिसम्पर्कशुद्धिवत् ।
किंत्वैन्दवव्रतप्रान्ते कापाल्यन्नाशने मतम् ॥ ३.११३ ॥
ईशानस्य जपेल्लक्षं तत्सङ्करविशुद्धये ।
कापालिसङ्करे त्रीणि लक्षाणि कृतसंयमः ॥ ३.११४ ॥
प्रमादाद्धारिते लिङ्गे भ्रष्टे वा साक्षसूत्रके ।
लक्षं जपेन्महेशस्य पुनः कुर्यात्परिग्रहम् ॥ ३.११५ ॥
भ्रंशे वा जनिते भङ्गे दशांशो विहितो मुने ।
तदन्यत्रार्धमूलं वा सहस्रं सुलघीयसि ॥ ३.११६ ॥
तद्वच्च पशुना दृष्टे स्पृष्टे दशगुणं जपेत् ।
हारितार्धं गुणच्छेदे संख्यासूत्रस्य दोषनुत् ॥ ३.११७ ॥
त्यागश्च कफविण्मूत्र- स्पृष्टस्यान्यत्र तैजसात् ।
प्रमादाद्योषितं गत्वा प्राणायामायुतं भजेत् ॥ ३.११८ ॥
द्विपञ्चगुणितं शुद्ध्यै प्रणवोच्चारसंश्रितम् ।
महापातकसंयोगे शिवैकादशिकायुतम् ॥ ३.११९ ॥
जपेद्दशगुणं प्राण- संयमी फलमूलभुक् ।
तत्समेष्वेवमेव स्यात्किं तु प्राणायतिं विना ॥ ३.१२० ॥
पातकेषु तदन्येषु क्रियाव्यतिकरेषु च ।
जपेदेकादशाजातमेकं वा ब्रह्ममध्यगम् ॥ ३.१२१ ॥
न ग्राह्यं कारकं किंचित्सख्या जातांहसाहृतम् ।
आददानोऽपरिज्ञानात्पूर्वोक्तादर्धमाचरेत् ॥ ३.१२२ ॥
बहुदैवसिके योगे तुल्यं साधर्म्ययोगतः ।
ज्ञात्वैवं साधको विद्वान् सहायं सद्गुणं भजेत् ॥ ३.१२३ ॥
सजात्यभिजनोपेतं यवीयांसं गुणाधिकम् ।
पुत्रकं समयस्थं वा सुस्निग्धमपरं ततः ॥ ३.१२४ ॥
साधकोक्तं व्रतं कुर्याद्गुरुरस्ववशो व्रती ।
द्विगुणं स्ववशस्ताव च्चरेदस्ववशो व्रती ॥ ३.१२५ ॥
स्ववशस्त्रिगुणं त्र्यंशं विना तत्पुत्रकश्चरेत् ।
पुत्रकार्धं तु समयी पूर्वोक्तानुक्तपाप्मनाम् ॥ ३.१२६ ॥
कृच्छ्रं वा प्रतिषण्मासं प्रत्यब्दमथवैन्दवम् ।
पराकं तप्तकृच्छ्रं वा मन्त्री सानुचरश्चरेत् ॥ ३.१२७ ॥
निर्विघ्नसिद्धिमन्विच्छन्मुक्त्यर्थमितरे त्रयः ।
सर्वच्छिद्रहरश्चान्यो विधिरेषां निगद्यते ॥ ३.१२८ ॥
यः प्राप्तस्तपसा देवैर्हरात्स्वविधिपुष्टये ।
श्रावणे तदुपान्ते वा नभस्ये वोच्यमानवत् ॥ ३.१२९ ॥
शम्भोः पवित्रमापाद्य पूरयेद्वार्षिकं विधिम् ॥ ३.१३० ॥
तच्चिलालोहमृद्रत्न- दारुजं भौमसाधितम् ।
सर्वज्ञविहितं यावद्बुभुक्.ओरितरस्य वा ॥ ३.आप्प्.१ ॥
एकाङ्गुलं द्विहस्तान्तं रत्नजं न परं ततः ।
लोहादि पाणिषड्ढास्तं दारुभिस्त्रिविधं परम् ॥ ३.आप्प्.२ ॥
________________________________________________________________________________________
अथात्मवतां मत्वा [वा] स्वाधिकारं सुदुष्करम् ।
यतेरन्नत्मवत्तायै देशिकाद्या जिगीषवः ॥ ४.१ ॥
तदात्मवत्त्वं योगित्वं जिताक्षस्योपपद्यते ।
प्राणायामाद्यनुष्ठानाज्जिताक्षत्वं शनैः शनैः ॥ ४.२ ॥
प्राणायामः प्रत्याहारो धारणा ध्यानवीक्षणे ।
जपः समाधिरित्यङ्गान्यङ्गी योगोऽष्टमः स्वयम् ॥ ४.३ ॥
प्राणः प्रागुदितो वायुरायामोऽस्य प्रखेदनम् ।
प्रेरणाकृष्टिसंरोध- लक्षणं क्रतुदोषनुत् ॥ ४.४ ॥
ततः सुखलवास्वादे तेषां वृत्तस्य चेतसः ।
प्रत्याहारो विधातव्यः सर्वतो विनिवर्तनम् ॥ ४.५ ॥
तेनेन्द्रियार्थसंसर्ग- विनिवृत्तेश्चितो मतिः ।
धारणायोग्यतामेति पदे स्वेच्छाप्रकल्पिते ॥ ४.६ ॥
चिन्ता तद्विषया ध्यानं तच्चादिष्टं मुहुर्मुहुः ।
तदेकतानतामेति स समाधिर्विधीयते ॥ ४.७ ॥
जपस्तद्भाषणं ध्येय- संमुखीकरणं मुने ।
ऊहोऽभिवीक्षणं वस्तु- विकल्पानन्तरोदितः ॥ ४.८ ॥
यदा वेत्ति पदं हेयमुपादेयं च तत्स्थितेः ।
तत्पोषकं विपक्षं च यच्च तत्पोषकं परम् ॥ ४.९ ॥
एषु व्यस्तसमस्तेषु कृतयत्नस्य योगिनः ।
विभान्ति शक्तयो विश्वं व्याप्य भानोरिव त्विषः ॥ ४.१० ॥
न तमीष्टे नरः कश्चित्रक्षोदानवमानवाः ।
रोरुचानमतीत्यैतान् दृक्क्रियाप्राणरोचिषा ॥ ४.११ ॥
निवृत्तेर्मनसो हेतुः संसर्गात्प्राणखेदनम् ।
निवृत्तिर्धारणादीनां मूलं सर्वस्य तत्ततः ॥ ४.१२ ॥
विस्तरेण सुरश्रेष्ठ विप्रकृष्टं च यत्स्थितम् ।
यदन्यत्साधनं किंचिद्योगसिद्धेश्च कथ्यताम् ॥ ४.१३ ॥
न शक्यं विस्तराद्वक्तुं तत्प्रसङ्गभयाद्विधेः ।
प्रश्नस्यावश्यवाच्यत्वात्तथाप्युद्देश उच्यते ॥ ४.१४ ॥
मूत्राद्युत्सृज्य विधिवदेकार्धदशसप्तभिः ।
मृद्भिर्लिङ्गगुदासव्य- हस्तयुग्मानि शौचयेत् ॥ ४.१५ ॥
द्विर्व्रती त्रिरपः पीत्वा द्विर्विमृज्याननं स्पृशेत् ।
स्वबाहुनाभिहृत्कानि द्विस्त्रिर्वा शौचिताधरः ॥ ४.१६ ॥
हितजीर्णाशनस्वस्थस्त्रिकुड्यावेष्टिते गृहे ।
बाधाशून्ये वनादौ वा स्वासनस्थ उदङ्मुखः ॥ ४.१७ ॥
नमस्कृत्य महेशानमुमास्कन्दगणाधिपान् ।
ऋजुग्रीवाशिरोवक्षा नासाग्राहितदृग्द्वयः ॥ ४.१८ ॥
पार्ष्णिभ्यां वृषणौ रक्षन् दन्तैर्दन्तानसंस्पृशन् ।
विष्टभदेहो दन्ताग्रे जिह्वामादाय सुस्थितः ॥ ४.१९ ॥
रेचयेच्छक्तिपर्यन्तं पुटेनैकेन मारुतम् ।
स रेचकस्तदभ्यासाद्वेधविक्षिप्तकर्मसु ॥ ४.२० ॥
क्रमशः शक्ततामेति विकृष्टविषयेष्वपि ।
बाह्येन वायुना मूर्तेः शक्तिसीमप्रपूरणम् ॥ ४.२१ ॥
पूरकः स तदभ्यासात्सुगुर्वपि विकर्षयेत् ।
त्यागसंग्रहणे हित्वा निरोधः कुम्भकः स्मृतः ॥ ४.२२ ॥
रोधशक्तिस्तदभ्यासाद्व्यक्तिमेत्यनिवारिता ।
तथास्य चरतो विद्वान् सोमसूर्येशवर्त्मसु ॥ ४.२३ ॥
तद्धर्मयोग्यतां बुद्ध्वा योगी संसाधयेन्मतम् ।
पूरकं कुम्भकं वापि भजेच्चन्द्रपथि स्थिते ॥ ४.२४ ॥
पुष्टिमृत्युजयाद्यर्थं स्वात्मनोऽन्यस्य रेचकम् ।
अनग्निज्वलने वृक्ष- शोषणे बीजनाशने ॥ ४.२५ ॥
स्तोभोन्मादविषोद्दीप्ति- प्रमुखेषु तु रेचकम् ।
ध्यानार्चनजपाद्येषु देहत्यागे च शाङ्करे ॥ ४.२६ ॥
कुम्भको रेचकश्चेष्टो दीक्षासंस्थापनेषु च ।
यवीयान्मध्यमो ज्येष्ठः स तालैर्द्वादशादिभिः ॥ ४.२७ ॥
तालो द्वादशभिर्जानु- परिणाहपरिभ्रमैः ।
सोऽपि ध्यानजपोपेतः सगर्भोऽन्यस्तदुज्झितः ॥ ४.२८ ॥
यथा सगर्भः स्थैर्याय मनसो न तथेतरः ।
प्रातर्निशाकृतं पापं दिनान्ते च दिवाकृतम् ॥ ४.२९ ॥
हन्त्यगर्भोऽपि देवानां प्रचलत्वं प्रधावताम् ।
स्नातो भवति तीर्थेषु सर्वक्रतुषु दीक्षितः ॥ ४.३० ॥
पोतः पितॄणां यः शश्वत्- सगर्भमिममाचरेत् ।
ध्यायेदध्वान्तगं देवं जपेत्तद्वाचकं सदा ॥ ४.३१ ॥
क्षित्यादीन्यथ तत्त्वानि तद्रूपाधिकृतानि वा ।
यस्मान्नाचेतनं तत्त्वं सिद्धमप्युपकारकम् ॥ ४.३२ ॥
शैवं वपुरिति ध्यायेदतो यद्यत्समीहितम् ।
सिद्धये धारणादीनां वृत्तीनामनिलस्य च ॥ ४.३३ ॥
सगर्भं कुम्भकं विद्वानातिष्ठेदविखिन्नधीः ।
अयमर्कगुणं कालं कृतचित्तव्यवस्थितिः ॥ ४.३४ ॥
प्राप्नोति धारणाशब्दं धारणासिद्धिदानतः ।
स्थित्यर्थो धारणाशब्दः स्थानार्थोऽप्युपचारतः ॥ ४.३५ ॥
स्थानं प्राथमिकस्येमान् यवन्यादीनि नेतरत् ।
तानि हेमहिमज्योतिः- कृष्णस्वच्छानि रूपतः ॥ ४.३६ ॥
वेद्यर्धमण्डलत्र्यस्त्र- वृत्तपद्माकृतीनि तु ।
स्थैर्याप्यायनविप्लोष- प्रेरणाशून्यताप्तये ॥ ४.३७ ॥
भवन्ति वज्रकज्वाला- बिन्दुशून्यान्वितानि तु ।
बाधकान्यनुवर्तीनि मध्यस्थान्यवगत्य च ॥ ४.३८ ॥
योगी व्यस्तसमस्तानि बिभृयादिष्टसिद्धये ।
क्व देशे धारणारूपं चिन्तनीयं विपश्चिता ॥ ४.३९ ॥
किं च व्यस्तसमस्तानां फलं ब्रूहि सुरेश्वर ।
हृदि चेतसि विक्षिप्ते धारयेत्क्षितिमर्थवित् ॥ ४.४० ॥
जलं पिपासितः कण्ठे मन्देऽग्नौ जठरेऽनलम् ।
प्राणादिवृत्तिसिद्ध्यर्थं हृत्कण्ठादिषु मारुतम् ॥ ४.४१ ॥
विषाद्यभिभवे व्योम तेषु यत्रोपयोगवत् ।
खं समस्तेषु भूतेषु वारिवायू शिखिक्षिती ॥ ४.४२ ॥
वार्यग्नी भूमिपवनौ वारिक्ष्मे अनलानिलौ ।
मध्यस्थारातिमित्राणि चतुष्के युग्मयुग्मशः ॥ ४.४३ ॥
परिज्ञायेति मतिमान् योजयेदिष्टसिद्धये ।
कानि प्राणादिवृत्तीनां स्थानान्यस्मिन् शरीरके ॥ ४.४४ ॥
जितासु तासु किं च स्यादिति ब्रूहि सुरोत्तम ।
तस्य हृन्नाभ्युरःकण्ठ- पृष्ठदेशेषु धारणात् ॥ ४.४५ ॥
जयः प्रणयनादीनां वृत्तीनां योगिनो भवेत् ।
जितप्रणयनो धत्ते स्वेच्छया देहमात्मनः ॥ ४.४६ ॥
जितापनयनोऽश्नाति शकृदादि जहाति न ।
विजितोन्नयनोऽभ्येति वाग्वशित्वादिकान् गुणान् ॥ ४.४७ ॥
समानवृतीविजयाद्भवेत्त्यक्तजरो वशी ।
वपुर्विहारवशिता भवेद्विनमने जिते ॥ ४.४८ ॥
पङ्काम्बुकण्टकासङ्गो वीर्यमक्षयमद्भुतम् ।
धारणा द्वादश ध्यानं दिव्यालोकप्रवृत्तिदम् ॥ ४.४९ ॥
समाधिरणिमादीनां द्वादशैतानि कारणम् ।
प्राणायामं विनाप्येवं वश्यात्मा चेतसि स्थितः ॥ ४.५० ॥
समभ्यस्यन्नवाप्नोति गुणानुक्ताननन्तरम् ।
यद्यद्वस्तु यथोद्दिष्ट- क्रमयोगात्प्रपद्यते ॥ ४.५१ ॥
तत्र तत्राअस्य चिद्व्यक्तिस्तद्व्याप्तिविषया भवेत् ।
इति बाह्ये स्थिते सर्वमाकलय्य स्वचक्षुषा ॥ ४.५२ ॥
सर्वान् पदर्थान् संत्यज्य शिवतत्त्वं समभ्यसेत् ।
शिवगर्भान् समातिष्ठन् प्राणायामादिकानपि ॥ ४.५३ ॥
जहाति जन्तुर्यः प्राणान् स शिवत्वं प्रपद्यते ।
रूपं परं महेशस्य ध्यातुं शक्यं न जातुचित् ॥ ४.५४ ॥
वैचित्र्यात्कल्पितं भ्रान्त्यै तत्रास्था चेतसः कथम् ।
पार्थिवाप्ये विचित्राङ्के न ध्येये धारणे तदा ॥ ४.५५ ॥
तथाप्यभ्यासतः सिद्धाः श्रूयन्ते योगिनस्तयोः ।
भोगविप्लुतचित्तस्य कथं स्याच्चित्तसंस्थितिः ॥ ४.५६ ॥
नाधिकृत्याविरक्ताणून् प्राहेदं साधनं हरः ।
शक्यते विषयीकर्तुं जगदप्यखिलं शनैः ॥ ४.५७ ॥
किमु चित्रं वपुर्दान्तैर्वैराग्याभ्यासशालिभिः ।
केयं वा रूपकेयत्ता सर्वाधिष्ठानयोगिनः ॥ ४.५८ ॥
सर्वदा सर्वभूतानां सर्वाकारोपकारिणः ।
स्थानरूपप्रमाणानि परिकल्प्य स्वचेतसा ॥ ४.५९ ॥
यत्रोपरमते चित्तं तत्तद्ध्येयं पुनः पुनः ।
तेनास्य चेतसः स्थैर्यं सविशेषगुणः शनैः ॥ ४.६० ॥
उन्मील्य योगसंस्कारं हतविघ्नस्य जायते ।
एवमातिष्ठतः सम्यग्विनैवाकारकल्पनाम् ॥ ४.६१ ॥
अकिञ्चिच्चिन्तकस्यास्य रूपमुन्मीलति स्वकम् ।
सर्वार्थदृक्क्रियारूपमानन्दमव्ययम् [..] ॥ ४.६२ ॥
यत्प्राप्य न पुनर्दुःख- योगमेत्यशिवावहम् ।
एतत्समस्तगुह्यानां गुह्यं सिद्धामरस्तुतम् ॥ ४.६३ ॥
साक्षादालोचनं शम्भोरत्युत्पावनमुत्तमम् ।
नाल्पकालोषितायैतद्देयं नातिप्रमादिने ।
नामेधिने नातपसे यश्च नाभ्यर्चयेच्छिवम् ॥ ४.६४ ॥
अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालैरिष्टान् लोकान् रोरुचानो विहृत्य ।
काले हित्वापास्रवं देहमास्ते स्वात्मन्येवाश्चर्यचर्याधिवासः ॥ ४.६५ ॥