मुण्डकोपनिषद्भाष्यम्

विकिस्रोतः तः
मुण्डकोपनिषद्भाष्यम्
[[लेखकः :|]]

मुण्डकोपनिषद्
ॐ भद्रं कर्णेभिः श्रृणुयाम देवा भद्रं पश्येमाक्षिभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्ताक्र्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
ॐ ब्रह्मा देवानामित्याद्याथर्वणोपनिषत्। अस्याश्च विद्यासम्प्रदायकर्तृपारम्पर्यलक्षणसमेबनेधम् आदावेवाह स्वयमेव स्तुत्यर्थम्। एवं हि महद्भिः परमपुरुषार्थसाधनत्वेन गुरुणायासेन लब्ध्वा विद्येति श्रोतृबुद्धिप्ररोचनाय विद्यां महीकरोति। स्तुत्या प्ररोचितायां हि विद्यायां सादराः प्रवर्तेरिन्निति।
प्रयोजनेन तु विद्यायाः साध्यसाधनलक्षणसम्बन्धम् उत्तरत्र वक्ष्यति "भिद्यते हृदयग्रन्थिः"(मु.उ.2/2/8) इत्यादिना अत्र चापरशब्दवाच्यायामृग्वेदादिलक्षणायां विधिप्रतिषेधमात्रपरायां विद्यायां संस्कारकारणाविद्यादिदोषनिवर्तकत्वं नास्तीति स्वयमेवोक्त्वा परापरविद्याभेदकरणपूर्वकं "अविद्यायामन्तरे वर्तमानाः"(मु.उ.1/2/8) इत्यादिना तथा परप्राप्तिसाधनं सर्वसाधनसाध्यविषयवैराग्यपूर्वकं गुरुप्रसादलभ्यां ब्रह्मविद्यामाह - "परीक्ष्य लोकान्"(मु.उ.1/2/12) इत्यादिना। प्रयोजनं चासकृद्ब्रवीति "ब्रह्म वेद ब्रह्मैव भवति"(मु.उ.3/2/9) इति "परामृताः परिमुच्यन्ति सर्वे" (मु.उ.3/2/6) इति च।
ज्ञानमात्रे यद्यपि सर्वाश्रमिणाम् अधिकारस्तथापि संन्यासनिष्ठैव ब्रह्मविद्या मोक्षसाधनं न कर्मसहितेति "भैक्षाचर्यां चरन्तः"(मु.उ.1/2/11) "संन्यासयोगात्"(मु.उ.3/2/6) इति च ब्रुवन् दर्शयति।
विद्याकर्मविरोधाच्च। न हि ब्रह्मात्मैकत्वदर्शनेन सह कर्म स्वप्नेपि सम्पादयितुं शक्यम् विद्यायाः कालविशेषाभावादनियतनिमित्तत्वात्कालसङ्कोचानुपपत्तिः।
यत्तु गृहस्तेषु ब्रह्मविद्यासम्प्रदायकर्तृत्वादि लिङ्गं न तत्स्थितन्यायं बाधितुमुत्सहते। न हि विधिशतेनापि तमःप्रकाशयोरोकत्र सद्भावः शक्यते कर्तुं किमुत लिङ्गैः केवलैरिति।
एवमुक्तसम्बन्धप्रयोजनाया उपनिषदोल्पाक्षरं ग्रन्थविवरणमारभ्यते। य इमां ब्रह्मविद्यामुपयन्त्यात्मभावेन श्रद्धाभक्तिपुरःसराः सन्तस्तेषां गर्भजन्मजरारोगाद्यनर्थपूगं निशातयति परं वा ब्रह्मा गमयत्यविद्यादिसंसारकारणं चात्यन्तमवसादयति विनाशयतीत्युपनिषत्, उपनिपूर्वस्य सदेरेवमर्थस्मरणात्।
1.1.1
ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता। स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ।।1.1।।
ए.1.1.1
ब्रह्मा परिवृढो महान्धर्मज्ञानवैराग्यैश्वर्यैः सर्वानन्यानतिशेत इति। देवानां द्योतनवतामिन्द्रादीनां प्रथमो गुणैः प्रधानः सन् प्रथमोग्रे वा सम्बभूवाभिव्यक्तः सम्यक्स्वातन्त्र्येणेत्यभिप्रायः। न तथा यथा धर्माधर्मवशात् संसारिणेन्ये जायन्ते। "योसावतीन्द्रियोग्राह्यः......"(मनु.1/8) इत्यादिस्मृतेः।
विश्वस्य सर्वस्य जगतः कर्तोत्पादयिता। भुवनस्योत्पन्नस्य गोप्ता पालयितेति विशेषणं ब्रह्मणो विद्यास्तुतये। स एवं प्रख्यातमहत्त्वो ब्रह्मा ब्रह्मविद्यां ब्रह्मणः परमात्मनो विद्यां ब्रह्मविद्यां येनाक्षरं पुरुषं वेद सत्यम् (मु.उ.1/2/13) इति विशेषाणात्परमात्मविषया हि सा ब्रह्मणा वाग्रजेनोक्तेति ब्रह्मविद्या तां सर्वविद्यावेद्यं वा वस्त्वनयैव विज्ञायत इति येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातम् (छा.उ.6/1/3) इति श्रुतेः। सर्वविद्याप्रतिष्ठामिति च स्तौति। विद्यामथर्वाय ज्येष्ठपुत्राय प्राह। ज्येष्ठश्चासौ पुत्रश्चानेकेषु ब्रह्मणः सृष्टिप्रकारेष्वन्यतमस्य सृष्टिप्रकारस्य प्रमुखे पूर्वमथर्वा सृष्ट इति ज्येष्ठस्तस्मै ज्येष्ठपुत्राय प्रहोक्तवान्।।1.1।।
1.1.2
अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम्। स भारद्वजाय सत्यवहाय प्राहभारद्वाजोङ्गिरसे परावराम् ।।1.1.2।।
ए.1.1.2
यामेतामथर्वणे प्रवदेतावदद्ब्रह्मविद्यां ब्रह्मा तामेव ब्रह्मणः प्राप्तामथर्वा पुरा पूर्वमुवाचोक्तवानङ्गिरेङ्गिर्नाम्ने ब्रह्मविद्याम्। स चाङ्गिर्भारद्वाजाय भरद्वाजगोत्राय सत्यवहाय सत्यवहाय सत्यवहनाम्ने प्राह प्रोक्तवान्। भारद्वाजोङ्गिरसे स्वशिष्याय पुत्राय वा परावरां परस्मात्परस्मादवरेण प्राप्तेतिपरावरा परावरसर्वविद्याविषयव्याप्तेर्वा तां परावरामङ्गिरसे प्राहेत्यनुषङ्गः।।1.1.2।।
1.1.3
शौनको ह वै महाशालोङ्गिरसं विधिवदुपसन्नः पप्रच्छ। कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति।।1.1.3।।
ए.1.1.3
शौनक शुनकस्यापत्यं महाशालो महागृहस्थोङ्गिरसं भारद्वाजशिष्यमाचार्यं विधिवद्यथाशाश्त्रमित्येतत्च उपसन्न उपगतः सन्पप्रच्छ पृष्टवान् शौनकाङ्गिरसोः सम्बन्धादर्वाग् विधिवद्विशेषणादुपसदनविधेः पूर्वेषामनियम इति गम्यते। मर्यादाकरणार्थं मध्यदीपिकान्यायार्थं वा विशेषणम्; अस्मदादिष्वप्युपसदनविधेरिष्टत्वात्।
किमित्याह-कस्मिन्नु भगवो विज्ञाते तु इति वितर्के भगवो हे भगवन्सर्वं यदिदं विज्ञेयं विज्ञातं विशेषेण ज्ञातमवगतं भवतीति एकस्मिञ्ज्ञाते सर्वविद्भवतीति शिष्टप्रवादं श्रुतवाञ्शौनकस्तद्विशेषं विज्ञातुकामः सन्कस्मिन् न्विति वितर्कयन्पप्रच्छ। अथवा लोकसामान्यदृष्ट्या ज्ञात्यैव पप्रच्छ। सन्ति लोके सुवर्णादिशकलभेदाः सुवर्णत्वाद्येकत्वविज्ञानेन विज्ञायमाना लौकिकैः। तथा किं न्वस्ति सर्वस्य जगद्भेदस्यैकं कारणम्, पदेकस्मिन्विज्ञाते सर्वं विज्ञातं भवतीति। नन्वविदिते हि कस्मिन्निति प्रश्नोनुपपन्नः। किमस्ति तदिति तथा प्रश्नो युक्तः। सिद्धे ह्यस्तित्वे कस्मिन्निति स्यात्, यथा कस्मिन्निधेयमिति। नः अक्षरबाहुल्यादायसभीरुत्वात्प्रन्नः सम्भवत्येव कस्मिन् न्वेकस्मिन्विज्ञाते सर्ववित्स्याद् इति।।1.1.3।।
1.1.4
तस्मै स होवाच। द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ।।1.1.4।।
ए.1.1.4
तस्मै शौनकायाङ्गिरा आह किलोवाच। किमित्युच्यते। द्वे विद्ये वेदीतव्ये इत्येवं ह स्म किल यद्ब्रह्मविदो वेदार्थाभिज्ञाः परमार्थदर्शिनो वदन्ति। के ते इत्याह - परा च परमात्मविद्या। अपरा धर्माधर्मसाधनतत्फलविषया।
ननु कस्मिन्विदिते सर्वविद्भवतीति शौनकेन पृष्टं तस्मिन्वक्तव्येपृष्टमाहाङ्गिरा द्वे विद्ये इत्यादिना।
नैष दोषः, क्रमापेक्षत्वात् प्रतिवचनस्य। अपरा हि अविद्या सा निराकर्तव्या। तद्विषये हि विदिते न किञ्चित्तत्त्वतो विदितं स्यादिति। निराकृत्य हि पूर्वपक्षं पश्चात्सिद्धान्तो वक्तव्यो भवतीति न्यायात्।।1.1.4।।
1.1.5
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोथर्ववेद शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरमधिगम्यते।।1.1.5।।
ए.1.1.5
तत्र कापरेत्युच्यते - ऋग्वेदो यजुर्वेदः सामवेदोथर्ववेद इत्येते चत्वारो वेदाः शिक्षाः कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमित्यङ्गानि षडेषापरा विद्या।
अथेदानीमियं परा विद्या उच्यते यथा तद्वक्ष्यमाणविशेषणम् अक्षरमघिगम्यते प्राप्यते; अधिपूर्वस्य गमेः प्रायशः प्राप्त्यर्थत्वात्। न च परप्राप्तेरवगमार्थस्यभेदोस्ति। अविद्याया अपाय एव हि परप्राप्तिर्नार्थान्तरम्।
ननु ऋग्वेदादिबाह्या तर्हि सा कथं परा विद्या स्यान्मोक्षसाधनं च। "या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः"। (मनु.12/6) इति हि स्मरन्ति। कुदृष्टित्वान्निष्फलत्वादनादेया स्यात्। उपनिषदां च ऋग्वेदादिबाह्यत्वं स्यात्। ऋग्वेदादित्वे तु पृथक्करणमनर्थकम् अथ परेति।
न; वेद्यविषयविज्ञानस्य विवक्षितत्वात्। उपनिषद्वेद्याक्षरविषयं हि विज्ञानमिह परा विद्येति प्राधान्येन विवक्षितं नोपनिषच्छब्दराशिः। वेदशब्देन तु सर्वत्र शब्दराशिर्विवक्षितः। शब्दराश्यधिगमेपि यत्नान्तरमन्तरेण गुर्वभिगमनादिलक्षणं वैराग्यं च नाक्षराधिगमः सम्भवतीति पृथक्करणं ब्रह्मविद्यायाः परा विद्येति कथनं चेति।।1.1.5।।
यथा विधिविषये कर्त्राद्यनेककारकोपसंहारद्वारेण वाक्यार्थज्ञानकालाद् अन्यत्रानुष्टेयोर्थोस्ति अग्निहोत्रादिलक्षणे न तथेह परविद्याविषये; वाक्यार्थज्ञानसमकाल एव तु पर्यवसितो भवति। केवलशब्दप्रकाशितार्थज्ञानमात्रनिष्ठव्यतिरिक्ताभावात् तस्मादिह परां विद्यां सविशेषणेन अक्षरेण विशिनष्टि यत्तदद्रेश्यम् इत्यादिना। वक्ष्यमाणं बुद्धौ संहृत्य सिद्धवत्परामृश्यते - यत्तदिति।
1.1.6
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्। नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः।। 1.1.6।।
ए.1.1.6
अद्रेश्यमदृशं सर्वेषां बुद्धीन्द्रियाणामगम्यमित्येतत्। दृशेर्बहिः प्रवृत्तस्य पञ्चेन्द्रियद्वारकत्वात् अग्राह्यं गोत्रमन्वयो मूलमित्यनर्थान्तरमगोत्रमनन्वयमित्यर्थः। न हि तस्य मूलमस्ति येन अन्वितं स्यात्। वर्णयन्त इति वर्णा द्रव्यधर्माः स्थूलत्वादयः शुक्लत्वादयो वा। अविद्यमाना वर्णा यस्य तदवर्णमक्षरम्। अचक्षुऋश्रोत्रं चक्षुश्च श्रोत्रं च नामरूपविषये करणे सर्वजन्तूनां ते अविद्यमाने यस्य तदचक्षुःश्रोत्रम्, "यः सर्वज्ञः सर्ववित्"इति चेतनावत्त्वविशेषणात् प्राप्तं संसारिणामिव चक्षुःश्रोत्रादिभिः करणैरर्थसाधकत्वं तदिहाचक्षुःश्रोत्रमिति वार्यते "पश्यत्यचक्षुः स श्रृणोत्यकर्णः"(श्वे.उ.3/19)इत्यादिदर्शनात्।
किं च तदपाणिपादं कर्मेन्द्रियरहितमित्येतत्। यत एवमग्राह्यमग्राहकं चातो नित्यम्, अविनाशि, विभुं विविधं ब्रह्मादिस्थावरान्तप्राणिभेदैर्भवति इति विभुम्। सर्वगतं व्यापकमाकाशववत्सुसूक्ष्मं शब्दादिस्थूलत्वकारणरहितत्वात्। शब्दादयो ह्याकाशवाय्वादीनामुत्तरोत्तरं स्थूलत्वकारणानि तदभावात् सुसूक्ष्मम्। किं च तदव्ययमुक्तधर्मत्वादेव न व्यतीत्यव्ययम्। न हि अनङ्गस्य स्वाङ्गापचयलक्षणो व्ययः सम्भवति शरीरस्येव। नापि कोशापचयलक्षणो व्ययः सम्भवति राज्ञ इव। नापि गुणद्वारको व्ययः सम्भवत्यगुणत्वात्सर्वात्मकत्वाच्च।
यदेवं लक्षणं भूतयोनिं भूतानां कारणं पृथिवीव स्थावरजङ्गमानां परिशिष्यन्ति सर्वत आत्मभूतं सर्वस्याक्षरं पश्यन्ति धीरा धीमन्तो विवेकिनः। ईदृशमक्षरं यया विद्ययाधिगम्यते सा परा विद्येति समुदायार्थः।।1.1.6।।
भूतयोन्यक्षरमित्युक्तम्। तत्कथं भूतयोनित्वमित्युच्यते प्रसिद्धदृष्टान्तैः -
1.1.7
यथोर्णनाभिः सृजते गृह्यते च यथा पृथिव्यामोषधयः सम्भवन्ति। यथा सतः पुरुषात्केशलोमानितथाक्षरात्सम्भवतीह विश्वम्।।1.1.7।।
ए.1.1.7
यथा लोके प्रसिद्धम् - ऊर्णनाभिर्लूताकीटः किञ्चित्कारणान्तरमनपेक्ष्य स्वयमेव सृजते स्वशरीराव्यतिरिक्तानेव तन्तून्बहिप्रसारयति पुनस्तानेव गृह्यते च गृह्णाति स्वात्मभावमेवापादयति। यथा च पृथिव्यामोषधयो व्रीह्यादिस्थावरान्ता इत्यर्थः। स्वात्माव्यतिरिक्ता एव प्रभवन्ति। यथा च सतो विद्यमानाञ्जीवतः पुरुषात्केशलोमानि केशाश्च लोमानि च सम्भवन्ति विलक्षणानि।
यथैते दृष्टानातास्तथा विलक्षणं सलक्षणं च निमित्तान्तन्तरानपेक्षाद्यथोक्तलक्षणादक्षरात्सम्भवति समुत्पद्यत इह संसारमण्डले विश्वं समस्तं जगत्। अनेकदृष्टान्तोपादानं तु सुखार्थप्रबोधनार्थम्।।1.1.7।।
यद्ब्रह्मण उत्पद्यमानं विश्वं तदनेन क्रमेणोत्पद्यते न युगपद्बदरमुष्टिप्रक्षेपवदिति, क्रमनियमविवक्षार्थोयं
मन्त्र आरभ्यते -
1.1.8
तपसा चीयते ब्रह्म ततोन्नमभिजायते। अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम्।।1.1.8।।
ए.1.1.8
तपसा ज्ञानेनोत्पत्तिविधिज्ञतया भूतयोन्यक्षरं ब्रह्म चीयत उपचीयत उत्पिपादयिषदिदं जगदङ्कुरमिव बीजमुच्छूनतां गच्छति पुत्रमिव पिता हर्षेण।
एवं सर्वज्ञतया सृष्टिस्थितिसंहारशक्तिविज्ञानवत्तयोपचितात् ततो ब्रह्मणोन्नमद्यते भुज्यत इत्यन्नमव्याकृतं साधारणं संसारिणां व्याचिकीर्षितावस्थारूपेण अभिजायत उत्पद्यते। ततश्च अव्याकृताद्व्याचिकीर्षितावस्थातः अन्नात्प्राणो हिरण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठितजगत्साधारणोविद्याकामकर्मभूतसमुदायबीजाङ्कुरो जगदात्माभिजायत इत्यनुषङ्गः।
तस्माच्च प्राणान्मनो मन आख्यं सङ्कल्पविकल्पसंशयनिर्णयाद्यात्मकमभिजायते। ततोपि संकल्पाद्यात्मकान्मनसः सत्यं सत्याख्यमाकाशादि भूतपञ्चकम् अभिजायते। तस्मात्सत्याख्याद्भूतपञ्चकाद् अण्डक्रमेण सप्तलोका भूरादयः। तेषु मनुष्यादिप्राणिवर्णाश्रमक्रमेण कर्माणि। कर्मसु च निमित्तभूतेष्वमृतं कर्मजं फलम्। यावत्कर्माणि कल्पकोटिशतैरपि न विनश्यन्ति तावत्फलं न विनश्यति इत्यमृतम्।।1.1.8।।
उक्तमेवार्थमुपसंजिहीर्षुर्मन्त्रो वक्ष्यमाणार्थमाह -
1.1.9
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते।।1.1.9।।
ए.1.1.9
य उक्तलक्षणोक्षराख्यः सर्वज्ञः सामान्येन सर्वं जानातीति सर्वज्ञः। विशेषेण सर्वं वेत्तीति सर्ववित्। यस्य ज्ञानमयं ज्ञानविकारमेव सार्वज्ञ्यलक्षणं तपोनायासलक्षणं तस्माद्यथोक्तात् सर्वज्ञादेतदुक्तं कार्यलक्षणं ब्रह्महिरण्यगर्भाख्यं जायते। किं च नामासौ देवदत्तो यज्ञदत्त इत्यादिलक्षणम्, रूपमिदं शुक्लं नीलमित्यादि, अन्नं च व्रीहियवादिलक्षणं जायते पूर्वमन्त्रोक्तक्रमेण, इत्यविरोधो द्रष्टव्यः।।1.1.9।।
इति प्रथमः खण्डः
अथ द्वितीयः खण्डः
साङ्गा वेदा अपरा विद्योक्ता ऋग्वेदो यजुर्वेद इत्यादिना। यत्तद्रेश्यम् इत्यादिना नामरूपम् अन्नं च जायत इत्यन्तेन ग्रन्थेन उक्तलक्षणमक्षरं यथा विद्यया अधिगम्यत इति परा विद्या सविशेषणोक्ता। अतः परमनयोर्विद्ययोर्विषयौ विवेक्तव्यौ संसारमोक्षावित्युत्तरो ग्रन्थ आरभ्यते।
तत्रापरविद्याविषयः कर्त्रादिसाधनक्रियाफलभेदरूपः संसारोनादिः अनन्तो दुःखस्वरूपत्वाद्धातव्यः प्रत्येकं शरीरिभिः सामस्त्येननदीस्रोतोवदव्यवच्छेदस्वरूपसम्बन्धः।
तदुपशमलक्षणो मोक्षः परविद्याविषयोनाद्यनन्तोजरोमरोमृतोभयः शुद्धः प्रसन्नः स्वात्मप्रतिष्ठलक्षणः परमानन्दोद्वयः इति।
पूर्वं तावदपरविद्याया विषयप्रदर्शनार्थमारम्भः। तद्दर्शने हि तन्निर्वेदोपपत्तेः। तथा च वक्ष्यति - "परीक्ष्य लोकान्कर्मचितान् (मु.उ.1/2/12)" इत्यादिना। न ह्यप्रदर्शिते परीक्षोपपद्यत इति तत्प्रदर्शयन्नाह -
1.2.1
तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि। तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके।।1.2.1।।
ए.1.2.1
तदेतत्सत्यमवितथम्। किं तत्? मन्त्रेष्वृग्वेदाद्याख्येषु कर्माणि अग्निहोत्रादीनि मन्त्रैरेव प्रकाशितानि कवयो मेधाविनो वसिष्ठादयो यान्यपश्यन्दृष्टवन्तः। यत्तदेतत्सत्यमेकान्तपुरुषार्थसाधनत्वात्। तानि च वेदविहितान्यृषिदृष्टानि कर्माणि त्रेतायां त्रयीसंयोगलक्षणायां हौत्राध्वर्यवौद्गात्रप्रकारायामधिकरणभूतायां बहुधा
बहुप्रकारं सन्ततानि प्रवृत्तानि कर्मिभिः क्रियामाणानि त्रेतायां वा युगे प्रायशः प्रवृत्तानि।
अतो यूयं तान्याचरथ निर्वर्तयत नियतं नित्यं सत्यकामा यथाभूतकर्मफलकामाः सन्तः। एष वो युष्माकं पन्था मार्गः सुकृतस्य स्वयं निर्वर्तितस्य कर्मणममो लोके फलनिमित्तं लोक्यते दृश्यते भुज्यत इति कर्मफलं लोक उच्यते; तदर्थं तत्प्राप्तय एष मार्ग इत्यर्थः। यान्येतानि अग्निहोत्रादीनि त्रय्यां विहितानि कर्माणि तान्येष पन्था अवश्यफलप्राप्तिसाधनमित्यर्थः।।1.2.1।।
तत्राग्निहोत्रमेव तावत्प्रथमं प्रदर्शनार्थमुच्यते सर्वकर्मणां प्राथम्यात्। तत्कथम्?
1.2.2
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने। तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत्।।1.2.2।।
ए.1.2.2
यदैवेन्धनैरभ्याहितैः सम्यगिद्धे समिद्धे हव्यवाहने लेलायते चलत्यर्चिस्तदा तस्मिन्काले लेलायमाने चलत्यर्चिष्याज्यभागावाज्यभागयोरन्तरेण मध्य आवापस्थान आहुतीः प्रतिपादयेत्प्रक्षिपेद्देवतामुद्दिश्य। अनेकाहप्रयोगापेक्षयाहुतीरिति बहुवचनम् ।।1.2.2।।
एष सम्यगाहुतिप्रक्षेपादिलक्षणः कर्ममार्गो लोकप्राप्तये पन्थास्तस्य च सम्यक्करणं दुष्करम्। विपत्तयस्त्वनेका भवन्ति। कथम्?
1.2.3
यस्याग्निहोत्रमदर्शमपौर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जितं च। अहुतमवैश्वदेवमविधिना
हुतमासप्तमांस्तस्य लोकान्हिनस्ति।।1.2.3।।
ए.1.2.3
यस्याग्निहोत्रिणोग्निहोत्रमदर्शं दर्शाख्येन कर्मणा वर्जितम्। अग्निहोत्रिणोवश्यकर्तव्यत्वाद् दर्शस्य। अग्निहोत्रसम्बन्ध्यग्निहोत्रविशेषणमिव भवति। तदक्रियमाणमित्येतत्। तथा पौर्णमासम् इत्यादिष्वप्यग्निहोत्रविशेणत्वं द्रष्टव्यम्, अग्निहोत्राङ्गत्वस्य अविशिष्टत्वात्। अपौर्णमासं पौर्णमासकर्मवर्जितम्, अचातुर्मास्यं चातुर्मास्यकर्मवर्जितम्, अनाग्रयणमाग्रयणं शरदादिकर्तव्यं तच्च न क्रियते यस्य, स्वयं सम्यगग्निहोत्रकालेहुतम्, अदर्शादिवदवैश्वदेवं वैश्वदेवकर्मवर्जितम्, हूयमानमप्यविधिना हुतं न यथाहुतमित्येतद् एवं दुःसम्पादितमसम्पादितम् अग्निहोत्राद्युपलक्षितं कर्म किं करोतीत्युच्यते।
आसप्तमान्सप्तमसहितांस्तस्य कर्तृलोकान्हिनस्ति हिनस्तीव आयासमात्रफलत्वात्। सम्यक्क्रियमाणेषु हि कर्मसु कर्मपरिणामानुरूपेण भूरादयः सत्यान्ताः सप्त लोकाः फलं प्रापयन्ते। ते लोका एवंभूतेनाग्निहोत्रादिकर्मणात्वप्राप्यत्वादिं्धस्यन्त इव। आयासमात्रं त्वव्यभिचारीत्यतो हिनस्तीत्युच्यते।
पिण्डदानाद्यनुग्रहेण वा सम्बन्ध्यमानाः पितृपितामहप्रपितामहाः पुत्रपौत्रप्रपौत्राः स्वात्मोपकाराः सप्त लोका उक्तप्रकारेणाग्निहोत्रादिना न भवन्तीति हिंस्यन्त इत्युच्यते।।1.2.3।।
1.2.4
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा। स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ।।1.2.4।।
ए.1.2.4
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः। काल्याद्या विश्वरुच्यन्ता लेलायमाना अग्नेर्हविराहुतिग्रसनार्था एताः सप्त जिह्वाः।।1.2.4।।
1.2.5
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन्। तं नयन्त्येताः सूर्यस्य रश्मयोयत्र देवानां पतिरेकोधिवासः।।1.2.5।।
एतेष्वग्निजिह्वाभेदेषु योग्निहोत्री चरते कर्माचरत्यग्निहोत्रादि भ्राजमानेषु दीप्यमानेषु। यथाकालं च यस्य कर्मणो यः कालस्तत्कालं यथाकालं यजमानमाददायन्नाददाना आहुतयो यजमानेन निर्वर्तितास्तं नयन्ति प्रापयन्त्येताः आहुतयो या इमा अनेन निर्वर्तिताः सूर्यस्य रश्मयो भूत्वा रश्मिद्वारैरित्यर्थः। यत्र यस्मिन्स्वर्गे देवानां पतिरिन्द3 एकः सर्वानुपरि अधि वसतीत्यधिवासः।।1.2.5।।
कथं सूर्यस्य रश्मिभिर्यजमानं वहन्तीत्युच्यते -
1.2.6
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति। प्रियां वाचमभिवदन्त्योर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ।।1.2.6।।
ए.1.2.6
एह्येहीत्याह्वयन्त्यः सुवर्चसो दीप्तमत्यः किं च प्रियाम् इष्टां वाचं स्तुत्यादिलक्षणामभिवदन्त्य उच्चारयन्त्योर्चयन्त्यः पूजयन्त्यश्चैष वो युष्माकं पुण्यः सुकृतः पन्था ब्रह्मलोकः फलरूपः एवं प्रियां वाचमभिवदन्त्यो वहन्तीत्यर्थः। ब्रह्मलोकः स्वर्गः प्रकरणात्।।1.2.6।।
एतच्च ज्ञानरहितं कर्मैतावत्फलमविद्याकामकर्मकार्यमतोसारं दुःखमूलमिति निन्द्यते -
1.2.7
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो येभिनन्दन्ति मूढाजरामृत्युं ते पुनरेवापि यन्ति।।1.2.7।।
ए.1.2.7
प्लवा विनाशिन इत्यर्थः। हि यस्मादेतेदृढा अस्थिरा यज्ञरूपा यज्ञस्य रूपाणि यज्ञरूपा यज्ञनिर्वर्तका अष्टादशाष्टादश संख्याकाः षोडशÐत्वजः पत्नी यजमानश्चेत्यष्टादश, एतदाश्रयं कर्मोक्तं कथितं शास्त्रेण, येष्वष्टादशास्ववरं केवलं ज्ञानवर्जितं कर्म; अतस्तेषामवरकर्माश्रयाणामष्टादशानामदृढतयाप्लवत्वात्प्लवते सह फलेन तत्साध्यं कर्म कुण्डविनाशादिव क्षीरदध्यादीनां तत्स्थानां नाशः।
यत एवमेतत्कर्म श्रेयःकरणमिति येभिनन्दन्त्यभिदृष्यन्त्यविवेकिनो मूढा अतस्ते जरां च मृत्युं च जरामृत्युं किञ्चित्कालं स्वर्गे स्थित्वा पुनरेवापि यन्ति भूयोपि गच्छन्ति।।1.2.7।।
1.2.8
अविद्यायामन्तरे वर्तमानास्वयं धीराः पण्डितंमन्यमानाः। जङ्घन्यमानाः परियन्ति मूढाअन्धेनैव नीयमाना यथान्धाः।।1.2.8।।
ए.1.2.8
अविद्यायामन्तरे मध्ये वर्तमाना अविवेकप्रायाः स्वयं वयमेव धीरा धीमन्तः पण्डिता विदितवेदितव्याश्चेति मन्यमाना आत्मानं सम्भावयन्तस्ते च जङ्घन्यमाना जरारोगाद्यनेकार्थव्रातैः हन्यमाना भृशं पीड्यमानाः परियन्ति विभ्रमन्ति मूढाः। दर्शनवर्जितत्वादन्धेनैवाचक्षुष्केणैव नीयमानाः प्रदर्श्यमानमार्गा यथा लोकेन्धा अक्षिरहिता गर्तकण्टकादौ पतन्ति तद्वत्।।1.2.8।।
किञ्च -
1.2.9
अविद्यायां बहुधा वर्तसानावयं कृतार्था इत्यभिमन्यन्ति बालाः। यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाच्च्यवन्ते।।1.2.9।।
ए.1.2.9
अविद्यायां बहुधा बहुप्रकारं वर्तमाना वयमेव कृतार्थाः कृतप्रयोजना इत्येवमभिमन्यन्त्यभिमानं कुर्वन्ति बाला अज्ञानिनः। यद्यस्मादेवं कर्मिणो न प्रवेदयन्ति तत्त्वं न जानन्ति रागात्कर्मफलरागाभिभवनिमित्तं तेन कारणेन आतुरा दुःखार्ताः सन्तः क्षीणलोकाः क्षीणकर्मफलाः स्वर्गलोकाच्च्यवन्ते।।1.2.9।।
1.2.10
इष्टापूर्ता मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः। नाकस्य पृष्ठे ते सुकृतेनुभूत्वेमं
लोकं हीनतरं वा विशन्ति।।1.2.10।।
ए.1.2.10
इष्टं यागादि श्रौतं कर्म, पूर्तं वापीकूपतडागादि स्मार्तं मन्यमाना एतदेवातिशयेन पुरुषार्थसाधनं वरिष्ठं प्रधानमिति चिन्तयन्तोन्यदात्मज्ञानाख्यं श्रेयः साधनं न वेदयन्ते न जानन्ति, प्रमूढाः पुत्रपशुबन्ध्वादिषु प्रमत्ततया मूढाः। ते च नाकस्य स्वर्गस्य पृष्ठ उपरिस्थाने सुकृते भोगायतनेनुभूत्वानुभूय कर्मफलं पुनरिमं लोकं मानुषमस्माद्धीनतरं वा तिर्यङ्नरकादिलक्षणं यथाकर्मशेषं विशन्ति।।1.2.10।।
1.2.11
तपश्रद्धे ये ह्युपवसन्त्यरण्येशान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः। सूर्यद्वारेण ते विरजाः प्रयान्तियत्रामृतः स पुरुषो ह्यव्ययात्मा।।1.2.11।।
ए.1.2.11
ये पुनस्तद्विपरीता ज्ञानयुक्ता वानप्रस्थाः संन्यासिनश्च तपः श्रद्धे हि तपः स्वाश्रमविहितं कर्म श्रद्धा हिरण्यगर्भादिविषया विद्याः ते तपःश्रद्धे उपवसन्ति सेवन्तेरण्ये वर्तमानाः सन्तः शान्ता उपरतकरणग्रामाः, विद्वांसो गृहस्थाश्च ज्ञानप्रधाना इत्यर्थः। भैक्ष्यचर्यां चरन्तः परिग्रहाभावादुपवसन्त्यरण्य इति सम्बन्धः सूर्यद्वारेण सूर्योपलक्षितेनोत्तरायणेन पथा ते विरजा विरजसः क्षीणपुण्यपापकर्माणः सन्तः इत्यर्थः, प्रयान्ति प्रकर्षेण यान्ति यत्र यस्मिन्सत्यलोकादावभृतः स पुरुषः प्रथमजो हिरण्यगर्भो ह्यव्ययात्माव्ययस्वभावो यावत्संसारस्थायी। एतदन्तास्तु संसारगतयोपरविद्यागम्याः।
ननु - एतं मोक्षमिच्छन्ति केचित्।
न, "इहैव सर्वे प्रविलीयन्ति कामाः" (मु.उ.3/2/2) "ते सर्वगं सर्वतः प्राप्य धीरा युक्तत्मानः सर्वमेवाविशन्ति" (मु.उ.3/2/5) इत्यादिश्रुतिभ्यः अप्रकरमाच्च। अपरविद्याप्रकरणे हि प्रवृत्ते न ह्यकस्मान्मोक्षप्रसङ्गोस्ति। विरजस्त्वं त्वापेक्षिकम्। समस्तमपरविद्याकार्यं साध्यसाधनलक्षणं क्रियाकारकफलभेदभिन्नं द्वैतम् एतावदेव यद्धिरण्यगर्भप्राप्त्यवसानम्। तथा च मनुनोक्तं स्थावराद्यां संसारगतिमनुक्रामता "ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च। उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः"(मनु. 12/50) इति।।1.2.11।।
अथेदानीमस्मात्साध्यसाधनरूपात्सर्वस्मात्संसाराद्विरक्तस्य परस्यां विद्यायामधिकारप्रदर्शनार्थमिदमुच्यते -
1.2.12
परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्।।1.2.12।।
ए.1.2.12
परीक्ष्य यदेतद्दृग्वेदाद्यपरविद्याविषयं स्वाभाविक्यविद्याकामकर्मदोषवत्पुरुषानुष्ठेयमविद्याविषयं स्वाभाविक्यविद्याकामकर्मदोषवत्पुरुषानुष्ठेयमविद्यादिदोषवन्तमेव पुरुषं प्रति विहितत्वात्तदनुष्ठानकार्यभूताश्च लोका ये दक्षिणोत्तरमार्गलक्षणाः फलभूताः ये च विहिताकरणप्रतिषेधातिक्रमदोषसाध्या नरकतिर्यक्प्रेतलक्षणास्तानेतान्परीक्ष्य प्रत्यक्षानुमानोपमानागमैः
सर्वतो याथात्म्येनावधार्य लोकान् संसारगतिभूतान् अव्यक्तादिस्थावरान्तान्व्याकृताव्याकृतलक्षणान् बीजाङ्कुरवदितरेतरोत्पत्तिनिमित्ताननेकानर्थशतसहस्र सङ्कुलान्कदलीगर्भवदसारान् मायामरीच्युदकगन्धर्वनगराकारास्वप्नजलबुद्बुदफेनसमान्प्रतिक्षणप्रध्वंसान्पृष्ठतः कृत्वाविद्याकामदोषप्रवर्तितकर्मचितान्धर्माधर्मनिर्वर्तितानित्येतत्। ब्राह्मणस्यैव विशेषतोधिकारः सर्वत्यागेन ब्रह्मविद्यायामिति ब्राह्मणग्रहणम्। परीक्ष्य लोकान्किं कुर्यात् इत्युच्यते निर्वेदम्। निःपूर्वो विदिरत्र वैराग्यार्थे वैराग्यमायात्कुर्यादित्येतत्।
स वैराग्यप्रकारः प्रदर्श्यते। इह संसारे नास्ति कश्चिदप्यकृतः पदार्थः। सर्व एव हि लोकाः कर्मचिताः कर्मकृतत्वाच्चानित्याः, न नित्यं किञ्चिदस्तीत्यभिप्रायः। सर्वं तु कर्मानित्यस्यैव साधनम् यस्माच्चतुर्विधमेव हि सर्वं कर्म कार्यमुत्पाद्यमाप्यं संस्कार्यं विकार्यं वा, नातः परं कर्मणो विशेषोस्ति। अहं च नित्येन अमृतेनाभयेन कूटस्थेनाचलेन ध्रुवेणार्थेनार्थी न तद्विपरीतेन। अतः किं कृतेन कर्मणायासबहुलेनानर्थसाधनेनेत्येवं निर्विण्णो ब्राह्मणो गुरुमेवाचार्यं शमदमदयादिसम्पन्नमभिगच्छेत्। शास्त्रज्ञोपि स्वातन्त्र्येण ब्रह्मज्ञानान्वेषणं न कुर्यादित्येतद् गुरुमेवेत्यवधारणफलम्।
समित्पाणिः समिद्भारगृहीतहस्तः श्रोत्रियमध्ययनश्रुतार्थसम्पन्नं ब्रह्मनिष्ठं हित्वा सर्वकर्माणि केवलेद्वये ब्रह्मणि निष्ठा यस्य सोयं ब्रह्मनिष्ठो जपनिष्ठस्तपोनिष्ठ इति यद्वत्। न हि कर्मिणो ब्रह्मनिष्ठता सम्भवति कर्मात्मज्ञानयोर्विरोधात्। स तं गुरुं विधिवदुपसन्नः प्रसाद्य पृच्छेदक्षरं पुरुषं सत्यम्।।1.2.12।।
1.2.13
तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय। येनाक्षरं पुरुषं वेद सत्यंप्रोवाच तां तत्त्वतो ब्रह्मविद्याम्।।1.2.13।।
ए.1.2.13
तस्मै स विद्वान् गुरुर्ब्रह्मविद् उपसन्नायोपगताय सम्यग्यथाशास्त्रमित्येतत्, प्रशान्तचित्ताय उपरतदर्पादिदोषाय शमान्विताय बाह्येन्द्रियोपरमेण च मुक्ताय सर्वतो विरक्तायेत्येतत्। येन विज्ञानेन यया विद्यया परयाजक्षरमद्रेश्यादिविशेषणं तदेवाक्षरं पुरुषशब्दवाच्यं पूर्णत्वात् पुरि शयनाच्च सत्यं तदेव परमार्थस्वाभाव्यादक्षरं चाक्षरणादक्षतत्वादक्षयत्वाच्च वेद विजानाति तां ब्रह्मविद्यां तत्त्वतो यथावत् प्रोवाच प्रब्रूयादित्यर्थः। आचार्यस्याप्ययं नियमो यन्न्यायप्रप्तसच्छिष्यनिस्तारणमविद्यामहोदधेः।।1.2.13।।
समाप्तमिदं प्रथमं मुण्डकम्

द्वितीयः मुण्डकः - प्रथमः खण्डः
अपरविद्यायाः सर्वं कार्यमुक्तम्। स च संसारो यत्सारो यस्मान्मूलादक्षरात् सम्भवति यस्मिंश्च प्रलीयते तदक्षरं पुरुषाख्यं सत्यम्। यस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवति तत्परस्या ब्रह्मविद्याया विषयः स वक्तव्य इत्युत्तरो ग्रन्थ आरभ्यते -
2.1.1
तदेतत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाःसहस्रशः प्रभवन्ते सरूपाः। तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ति।।2.1.1।।
ए.2.1.1
यदपरविद्याविषयं कर्मफललक्षणं सत्यं तदापेक्षकम्। इदं तु परविद्याविषयं परमार्थसल्लक्षणत्वात्। तदेतत्सत्यं यथाभूतं विद्याविषयम्, अविद्याविषयत्वाच्चानृतमितरम्। अत्यन्तपरोक्षत्वात्कथं नाम प्रत्यक्षवत्सत्यमक्षरं प्रतिपद्येरन्निति दृष्टान्तमाह -
यथा सुदीप्तात्सुष्ठु दीप्ताद् इद्धात्पावकादग्नेर्विस्फुलिङ्गा अग्न्यवयवाः सहस्रशोनेकशः प्रभवन्ते निर्गच्छन्ति सरूपा अग्निसलक्षणा एव तथोक्तलक्षणाद् अक्षराद्विविधा नानादेहोपाधिभेदमनुविधीयमानत्वाद्विविधा हे सोम्य भावा जीवा आकाशादिव घटादि परिच्छिन्नाः सुषिरभेदा घटाद्युपाधिप्रभेदमनुभवन्ति, एवं नानामरूपकृतदेहोपाधिप्रभवमनुप्रजायन्ते तत्र चैव तस्मिन्नेवाक्षरेपि यन्ति देहोपाधिविलयमनुलीयन्ते घटादिविलयमन्विव सुषिरभेदाः।
यथाकाशस्य सुषिरभेदोत्पत्ति प्रलयनिमित्तत्वं घटाद्युपाधिकृतमेव तद्वदक्षरस्यापि नामरूपकृतदेहोपाधिनिमित्तमेव जीवोत्पत्तिप्रलयनिमित्तत्वम्।।2.1.1।।
नामरूपबीजभूतादव्याकृताख्यात्स्वविकारापेक्षया परादक्षरात्परं यत्सर्वोपाधिभेदवर्जितमक्षरस्यैव स्वरूपमाकाशस्येव सर्वमूर्तिवर्जितं नेति नेतीत्यादिविशेषणं विवक्षन्नाह -
2.1.2
दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः।।2.1.2।।
ए.2.1.2
दिव्यो द्योतनवान्स्वयंज्योतिष्टवात्। दिवि वा स्वात्मनि भवोलौकिको वा। हि यस्मादमूर्तः सर्वमूर्तिवर्जितः
पुरुषः पूर्णः पुरिशयो वा, दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरः सह बाह्याभ्यन्तरेंण वर्तत इति। अजो न जायते कुतश्चित्स्वतोन्यस्यजन्मनिमित्तस्य चाभावात्; यथानभः सुषिरभेदानां घटादि। सर्वभावविकाराणां जनिमूलत्वात् तत्प्रतिषेधेन सर्वे प्रतिषिद्धा भवन्ति। सबाह्याभ्यन्तरो ह्यजोतोजरोमृतोक्षरो ध्रुवोभय इत्यर्थः।
यद्यपि देहाद्युपाधिभेददृष्टीनामविद्याद् देहभेदेषु सप्राणः समनाः सेन्द्रियः सविषय इव प्रत्यवभासते तलमलादिमदिव आकाशं तथापि तु स्वतः परमार्थदृष्टीनामप्राणोविद्यमानः क्रियाशक्तिभेदवांश्चलनात्मको वायुर्यस्मिन्नसावप्राणः। तथामना अनेकज्ञानशक्तिभेदवत्सङ्कल्पाद्यात्मकं मनोप्यविद्यमानं यस्मिन्सोयममनाः। अप्राणो ह्यमनाश्चेति प्राणादिवायुभेदाः कर्मेन्द्रियाणि तद्विषयाश्च तथा च बुद्धिमनसी बुद्धीन्द्रियाणि तद्विषयाश्च प्रतिषिद्धा वेदितव्यः। तथा श्रुत्यन्तरे - "ध्यायतीव लेलायतीव" (बृ.उ.4/3/7) इति।
यस्माच्चैवं प्रतिषिद्धोपाधिद्वयः तस्माच्छुभ्रः शुद्धः। अतोक्षरान्नामरूपबीजोपाधिलक्षितस्वरूपात्सर्वकार्यकरणबीजत्वेनोपलक्ष्यमाणत्वात्परं तदुपाधिलक्षणमव्याकृताख्यमक्षरं सर्वविकारेभ्यः। तस्मात्परतोक्षरात्परो निरुपाधिकः पुरुषः इत्यर्थः।
यस्मिंस्तदाकाशाख्यमक्षरं संव्यवहारविषयमोतं प्रोतं च कथं पुनरप्राणादिमत्त्वं तस्येत्युच्यते। यदि हि प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वेनात्मना सन्ति तदा पुरुषस्य प्राणादिना विद्यमानेन प्राणादिमत्त्वं भवेन्न तु ते प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वेनात्मना सन्ति तदा, अतोप्राणादिमान्परः पुरुषः, यथानुत्पन्ने पुत्रेपुत्रो देवदत्तः।।2.1.2।।
कथं ते न सन्ति प्राणादय इत्युच्यते, यस्मात् -
2.1.3
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । स्वं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी।।2.1.3।।
ए.2.1.3
एतस्मादेव पुरुषान्नामरूपबीजोपाधिलक्षिताज्जायत उत्पद्यतेविद्याविषयविकारभूतो नामधेयोनृतात्मकः प्राणः "वाचारम्भणं विकारो नामधेयम्" (छा.उ.6/1/4) "अनृतम्" इति श्रुत्यन्तरात्। न हि तेनाविद्याविषयेणानृतेन प्राणेन सप्राणत्वं परस्य स्यादपुत्रस्य स्वप्नदृष्टेन पुत्रेण सपुत्रत्वम्।
एवं मनः सर्वाणि चेन्द्रियाणि विषयाश्चैतस्मादेव जायन्ते। तस्मात्सिद्धस्य निरुपचरितमप्राणादिमत्त्वमित्यर्थः। यथा च प्रागुत्पत्तेः परमार्थतोसन्तस्तथा प्रलीनाश्चेति द्रष्टव्याः। यथा करणानि मनश्चेन्द्रियाणि तथा शरीरविषयकारणानि भूतानि स्वमाकाशं वायुरन्तर्बाह्य आवहादिभेदः, ज्योतिरग्निः, आप उदकम्, पृथिवी धरित्री विश्वस्य सर्वस्य धारिणी एतानि च शब्दस्पर्शरूपरसगन्धोत्तरोत्तरगुणानि पूर्वपूर्वगुणसहितान्येतस्मादेव जायन्ते।।2.1.3।।
संक्षेपतः परविद्याविषयमक्षरं निर्विशेषं पुरुषं सत्यं दिव्यो ह्यमूर्त इत्यादिना मन्त्रेणोक्त्वा पुनस्तदेव सविशेषं विस्तरेण वक्तव्यमिति प्रववृते; संक्षेपविस्तरोक्तो हि पदार्थः सुखाधिगम्यो भवति सूत्रभाष्योक्तिवदिति। योपि प्रथमजात्प्राणाद्धिरण्यगर्भाञ्जायतेण्डस्यान्तर्विराट् स तत्त्वान्तरितत्वेन लक्ष्यमाणोप्येतस्मादेव पुरुषाञ्जायत एतन्मयश्चेत्येतदर्थमाह। तं च विशिनष्टि -
2.1.4
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्यपद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा।। 2.1.4 ।।
ए.2.1.4
अग्निर्द्युलोकः "असौ वाव लोको गौतमाग्नि" (छा.उ.5./4/1) इति श्रुतेः, मूर्धा यस्योत्तमाङ्गं शिरः। चक्षुषी चन्द्रश्च सूर्यश्चेति चन्द्रसूर्यौ यस्येति सर्वत्रानुषङ्गः कर्तव्यः, अस्येत्यस्य पदस्य वक्ष्यमाणस्य ग्रस्येति विपरिणामं कृत्वा। दिशः श्रोत्रे यस्य। वाग्विवृता उद्घाटिताः प्रसिद्धा वेदा
यस्य। वायुः प्राणो यस्य। हृदयमन्तःकरणं विश्वं समस्तं जगदस्य यस्येत्येतत्। सर्वं ह्यन्तःकरणविकारमेव जगन्मनस्येव सुषुप्ते प्रलयदर्शनात्। जागरितेपि तत
एवाग्निविस्फुलिङ्गवद्विप्रतिष्ठानात्। यस्य च पद्भ्यां जाता पृथिवी। एष देवो विष्णुरनन्तः प्रथमशरीरी त्रेलोक्यदेहोपाधिः सर्वेषां भूतानामन्तरात्मा।।2.1.4।।
स हि सर्वभूतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्वकारणात्मा पञ्चाग्निद्वारेण च याः संसरन्ति प्रजास्ता अपि तस्मादेव पुरुषात्प्रजायन्त इत्युच्यते -
2.1.5
तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम्। पुमान्रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्सम्प्रसूताः।।2.1.5।।
ए.2.1.5
तस्मात्परस्मात्पुरुषात्प्रजावस्थानविशेषरूपोग्निः। स विशेष्यते, समिधो यस्य सूर्यः समिध इव समिधः। सूर्येण हि द्युलोकः समिध्यते। ततो हि द्युलोकान्निष्पन्नात् सोमात्पर्जन्यो द्वितीयोग्निः सम्भवति। तस्माच्च पर्जन्याद् ओषधयः पुरुषाग्नौ हुताभ्यः उपादानभूताभ्यः। पुमानग्नी रेतः सिञ्चति योषितायां योषिति योषाग्नौ स्त्रियामिति। एवं क्रमेण बह्वीर्बह्व्यः प्रजा ब्राह्मणाद्याः पुरुषात्परस्मात्सम्प्रसूताः समुत्पन्नाः।।2.1.5।।
किं च कर्मसाधनानि फलानि च तस्मादेवेत्याह; कथम्?
2.1.6
तस्माद्दृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च। संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः।।2.1.6।।
ए.2.1.6
तस्मात्पुरुषाद्दृचो नियताक्षरपादावसाना गायत्र्यादिच्छन्दोविशिष्टा मन्त्राः। साम पाञचभक्तिकं च साप्तभक्तिकं च स्तोभादिगीतविशिष्टम्। यजूंषि अनियताक्षरपादावसानानि वाक्यरूपाण्येवं त्रिविधा मन्त्राः। दीक्षा मौञ्ज्यादिलक्षणा कर्तृनियमविशेषाः। यज्ञाश्च सर्वेग्निहोत्रादयः। क्रतवः सयूपाः दक्षिणाश्चैकगवाद्यपरिमितसर्वस्वान्ताः। संवत्सरश्च कालः कर्माङ्गः। यजमानश्च कर्ता। लोकास्तस्य कर्मफलभूतास्ते विशेष्यन्ते; सोमोयत्र येषु लोकेषु पवते पुनाति लोकान्यत्र येषु सूर्यस्तपति च ते च दक्षिणायनोत्तरायणमार्गद्वयगम्या विद्वदविद्वत्कर्तृफलभूताः।।2.1.6।।
2.1.7
तस्माच्च देवा बहुधा सम्प्रसूताःसाध्या मनुष्याः पशवो वयांसि। प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च।।2.1.7।।
ए.2.1.7
तस्माच्च पुरुषात्कर्माङ्गभूता देवा बहुधा वस्वादिगणभेदेन सम्प्रसूताः सम्यक्प्रसूताः। साध्या देवविशेषाः। मनुष्याः कर्माधिकृताः। पशवो ग्राम्यारण्याः। वयांसि पक्षिणः। जीवनं च मनुष्यादीनां प्राणापानौ व्रीहियवौ हविरर्थौ। तपश्च कर्माङ्गं पुरुषसंस्कारलक्षणं स्वतन्त्रं च फलसाधनम्। श्रद्धा यत्पूर्वकः सर्वपुरुषार्थसाधनप्रयोगश्चित्तप्रसाद आस्तिक्यबुद्धिस्तथा सत्यमनृतवर्जनं यथाभूतार्थवचनं चापीडाकरणम्। ब्रह्मचर्यं मैथुनासमाचारः विधिश्चेतिकर्तव्यता।।2.1.7।।
2.1.8
सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधः सप्त होमाः। सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त।।2.1.8।।
ए.2.1.8
सप्त शीर्षण्याः प्राणास्तस्मादेव पुरुषात्प्रभवन्ति। तेषां च सप्तार्चिषो दीप्तयः स्वविषयावद्योतनानि। तथा सप्त समिधः सप्त विषयाः; विषयैर्हि समिध्यन्ते प्राणाः। सप्त होमास्तद्विषयविज्ञानानि "यदस्य विज्ञानं तज्जुहोति" (महानारा.25/1) इति श्रुत्यन्तरात्।
किं च सप्तमे लोका इन्द्रियस्थानानि येषु चरन्ति सञ्चरन्ति प्राणाः। प्राणा येषु चरन्तीति प्राणानां विशेषणमिदं प्राणापानादिनिवृत्यर्थम्। गुहायां शरीरे हृदये वा स्वापकाले शेरत इति गुहाशयाः, निहिताः स्थापिता धात्रा सप्त सप्त प्रतिप्राणिभेदम्।
यानि चात्मयाजिनां विदुषां कर्माणि कर्मफलानि चाविदुषां च कर्माणि तत्साधनानि कर्मफलानि च सर्वं चैतत्परस्मादेव पुरुषात्सर्वज्ञात्प्रसूतमिति प्रकरणार्थः।।2.1.8।।
2.1.9
अतः समुद्रा गिरयश्च सर्वेस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः।अतश्च सर्वा ओषधयो रसश्चयेनैष भूतैस्तिष्ठते ह्यन्तरात्मा।।2.1.9।।
ए.2.1.9
अतः पुरुषात्समुद्राः सर्वे क्षाराद्याः, गिरयश्च हिमवदादयोस्मादेव पुरुषात्सर्वे। स्यन्दन्ते स्रवन्ति गङ्गाद्याः सिन्धवो नद्यः सर्वरूपा बहुरूपा अस्मादेव पुरुषात् सर्वा ओषधयो व्रीहियवाद्याः। रसश्च मधुरादिः षड्विधो येन रसेन भूतैः पञ्चभिः स्थूलैः परिवेष्टितस्तिष्ठते तिष्ठति ह्यन्तरात्मा लिङ्गं सूक्ष्मं शरीरम्। तद्ध्यन्तराले शरीरस्यात्मनश्चात्मवद्वर्तत इत्यन्तरात्मा।।2.1.9।।
एवं पुरुषात्सर्वमिदं सम्प्रसूतम्। अतो वाचारम्भणं विकारो नामधेयमनृतं पुरुष इत्येव सत्यम्। अतः -
2.1.10
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्। एतद्यो वेद निहितं गुहायां सोविद्याग्रन्थिं विकिरतीह सोम्य।।2.1.10।।
ए.2.1.10
पुरुष एवेदं विश्वं सर्वम्। न विश्वं नाम पुरुषादन्यत्किञ्चिदस्ति। अतो यदुक्तं तदेवेदम् अभिहितं "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति"। एतस्मिन्हि परस्मिन्नात्मनि सर्वकारणे पुरुषे विज्ञाते पुरुष एवेदं विश्वं नान्यदस्तीति विज्ञातं भवतीति।
किं पुनरिदं विश्वमित्युच्यते कर्माग्निहोत्रादिलक्षणम्। तपो ज्ञानं तत्कृतं फलमन्यदेतावद्धीदं सर्वम्। तच्चैतद्ब्रह्मणः कार्यम्। तस्मात्सर्वं ब्रह्म परामृतम् अहमेवेति यो वेद निहितं स्थितं ग्रन्थिमिव दृढीभूतामविद्यावासनां विकिरति विक्षिपति नाशयतीह जीवन्नेव न मृतः सन् हे सोम्य प्रियदर्शन।।2.1.10।।
इति प्रथमः खण्डः
द्वितीयः खण्डः
अरूपं सदक्षरं केन प्रकारेण विज्ञेयमित्युच्यते -
2.2.1
आविः संनिहितं गुहाचरं नाम महत्पदमत्रैतत्समर्पितम्। एतत्प्राणन्निमिषच्च यदेतञ्जानथ सदसद्धरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम्।।2.2.1।।
ए.2.2.1
आविः प्रकाशं संनिहितं वागाद्युपाधिभिर्ज्वलतीति श्रुत्यान्तराच्छब्दादीनुपलभमानावदवभासते। दर्शनश्रवणमननविज्ञानाद्युपाधिधर्मैराविर्भूतं सल्लक्ष्यते हृदि सर्वप्राणिनाम्। यदेतदाविर्ब्रह्म संनिहितं सम्यक् स्थितं हृदि तद्गुहाचारं नाम गुहायां चरतीति दर्शनश्रवणादिप्रकारैर्गुहाचरमिति प्रख्यातम्। महत्सर्वमहत्त्वात्। पदं पद्यते सर्वेणेति सर्वपदार्थास्पदत्वात्।
कथं तन्महत्पदमित्युच्यते। यतोत्रास्मिन्ब्रह्मण्येतत्सर्वं समर्पितं प्रवेशितं रथनाभाविवाराः। एजच्चलत्पक्ष्यादि, प्राणत्प्राणिति प्राणापानादिमन्मनुष्यपश्वादि, निमिषच्च यन्निमेषादि क्रियावद्यच्चानिमिषच्चशब्दात्समस्तमेतदत्रैव ब्रह्मणि समर्पितम्।
एतद्यादास्पदं सर्वं जानथ हे शिष्या अवगच्छथ तदात्मभूतं भवतां सदसत्स्वरूपम्। सदसतोर्मूर्तामूर्तयोः स्थूलसूक्ष्मयोस्तद्व्यतिरेकेणाभावात्। वरेण्यं वरणीयं तदेव हि सर्वस्य नित्यत्वात्प्रार्थनीयम्। परं व्यतिरिक्तं विज्ञानात्प्रजानामिति व्यवहितेन सम्बन्ध। यल्लौकिकविज्ञानागोचरमित्यर्थः। यद्वरिष्ठं वरतमं सर्वपदार्थेषु वरेषु तद्ध्येकं ब्रह्मातिशयेन वरं सर्वदोषरहितत्वात्।।2.2.1।।
किं च -
2.2.2
यदर्चिमद्यदणुभ्योणु च यस्मिंल्लोका निहिता लोकिनश्च। तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि।।2.2.2.।।
ए.2.2.2
यदर्चिमद्दीप्तमत्, दीप्त्या ह्यादित्यादि दीप्यत इति दीप्तिमद्ब्रह्म। किं च यदणुभ्यः श्यामाकादिभ्योप्यणु च सूक्ष्मम्। च शब्दात्स्थूलेभ्योप्यतिशयेन स्थूलं पृथिव्यादिभ्यः। यस्मिंल्लोका भूरादयो निहिताः स्थिताः, ये च लोकिनो लोकनिवासिनो मनुष्यादयः चैतन्याश्रया हि सर्वे प्रसिद्धाः। तदेतत्सर्वाश्रयमक्षरं ब्रह्म स प्राणस्तदु वाङ्मनो वाक्च मनश्च सर्वाणि च करणानि तदन्तश्चैतन्यं चैतन्याश्रयो हि प्राणेन्द्रियादिसर्वसंघातः "प्राणस्य प्राणम्" (बृ.उ. 4/4/18) इति श्रुत्यन्तरात्।
यत्प्राणादीनामन्तश्चैतन्यमक्षरं तदेतत्सत्यमवितथमतोमृतमविनाशि। तद्वेद्धव्यं मनसा ताडयितव्यम्। तस्मिन्मनःसमाधानं कर्तव्यमित्यर्थः। यस्मादेवं हे सोम्य विद्ध्यक्षरे चेतः समाधत्स्व।।2.2.2.।।
कथं वेद्धव्यमित्युच्यते -
2.2.3
धनुर्गृहीत्वौपनिषदं महास्रंशरं ह्युपासानिशितं सन्धयीत। आयम्य तद्भावगतेन चेतसालक्ष्यं
तदेवाक्षरं सोम्य विद्धि।।2.2.3।।
ए.2.2.3
धनुरिष्वासनं गृहीत्वादयौपनिषदमुपनिषत्सु भवं प्रसिद्धं महास्त्रं तदस्त्रं च महास्त्रं धनुस्तस्मिञ्शरम्; किंविशिष्टम् इत्याह - उपासानिशितं सन्तताभिध्यानेन तनूकृतं संस्कृतमित्येततम्, सन्धयीत सन्धानं कुर्यात्। सन्धाय चायम्याकृष्य सेन्द्रियम् अन्तःकरणं स्वविषयाद्विनिवर्त्य लक्ष्य एवावर्जितं कृत्वेत्यर्थः। न हि हस्तेनेव धनुष आयमनमिह सम्भवति। तद्भावगतेन तस्मिन् ब्रह्मण्यक्षरे लक्ष्ये भावना भावः तद्गतेन चेतसा लक्ष्यं तदेव यथोक्तलक्षणमक्षरं सोम्य विद्धि।।2.2.3।।
यदुक्तं धनुरादि तदुच्यते -
2.2.4
प्रणवो धनु शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेति।।2.2.4।।
ए.2.2.4
प्रणव ओङ्कारो धनुः। यथेष्वासनं लक्ष्ये शरस्य प्रवेशकारणं तथात्मशरस्याक्षरे लक्ष्ये प्रवेशकारणमोङ्कारः। प्रणवेन ह्यभ्यस्यमानेन संस्क्रियमाणस्तदालम्बनोप्रतिबन्धेनाक्षरेवतिष्ठते, यथा धनुषास्त इषुर्लक्ष्ये। अतः प्रणवो धनुरिव धनुः। शरो ह्यात्मोपाधिलक्षणः पर एव जले सुर्यादिवदिह प्रविष्टो देहे सर्वबौद्धप्रत्ययसाक्षितया। स शर इव स्वात्मन्येवार्पितोक्षरे ब्रह्मण्यतो ब्रह्म तल्लक्ष्यमुच्यते। लक्ष्य इव मनःसमाधित्सुभिः आत्मभावेन लक्ष्यमाणत्वात्।
तत्रैवं सत्यप्रमत्तेन बाह्यविषयोपलब्धितृष्णाप्रमादवर्जितेन सर्वतो विरक्तेन जितेन्द्रियेणैकाग्रचित्तेन वेद्धव्यं ब्रह्म लक्ष्यम्। ततस्तद्वेधनादूर्ध्वं शरवत्तन्मयो भवेत्। यथा शरस्य लक्ष्यैकात्मत्वं फलं भवति तथा देहाद्यात्मप्रत्ययतिरस्करणेनाक्षरैकात्मत्वं फलमापादयेदित्यर्थः।।2.2.4।।
अक्षरस्यैव दुर्लक्ष्यत्वात्पुनः पुनर्वचनं सुलक्षणार्थम् -
2.2.5
यस्मिन्द्यौः पृथिवी चान्तरिक्षःमोतं मनः सह प्राणैश्च सर्वैः। तमेवैकं जानथ आत्मानमन्यावाचो विमुञ्चथामृतस्यैव सेतुः।।2.2.5।।
ए.2.2.5
यस्मिन्नक्षरे पुरुषे द्यौः पृथिवी चान्तरिक्षं चोतं समर्पितं मनश्च सह प्राणैः करणैरन्यैः सर्वैस्तमेव सर्वाश्रयमेकद्वितीयं जानथ जानीत हे शिष्याः। आत्मानं प्रत्यक्स्वरूपं युष्माकं सर्वप्राणिनां च ज्ञात्वा चान्या वाचोपरविद्यारूपा विमुञ्चथ विमुञ्चत परित्यजत तत्प्रकाश्यं च सर्वं कर्म ससाधनम्; यतोमृतस्यैष सेतुरेतदात्मज्ञानममृतस्यामृतत्वस्य मोक्षस्य प्राप्तये सेतुरिव सेतुः संसारमहोदधेः उत्तरणहेतुत्वात् तथा च श्रुत्यन्तरं "तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेयनाय"(श्वे.उ.3/8,6/15) इति।।2.2.5।।
किं च -
2.2.6
अरा इव रथनाभौ संहता यत्र नाड्यः स एषोन्तश्चरते बहुधा जायमानः। ओमित्येवं ध्यायथ आत्मानंस्वस्ति वः पाराय तमसः परस्तात्।।2.2.6।।
ए.2.2.6
अरा इव, यथा रथनाभौ समर्पिता अरा एवं संहताः सम्प्रविष्टा यत्र यस्मिन्हृदये सर्वतो देहव्यापिन्यो नाट्यस्तस्मिन्हृदये बुद्धिप्रत्ययसाक्षिभूतः स एष प्रकृत आत्मन्तर्मध्ये चरते चरति वर्तते; पश्यञ्श्रृण्वन्मन्वानो विज्ञानन्बहुधानेकधा क्रोधहर्षादिप्रत्ययैर्जायमान इव जायमानोन्तःकरणोपाध्यनुविधायित्वाद्वदन्ति लौकिका हृष्टो जातः क्रुद्धो जात इति। तमात्मानम् ओमित्येवमोङ्कारालम्बनाः सन्तो यथोक्तकल्पनया ध्यायथ चिन्तयत।
उक्तं वक्तव्यं च शिष्येभ्य आचार्येण जानता। शिष्याश्च ब्रह्मविद्याविदिषुत्वान्निवृत्तकर्माणो मोक्षपथे प्रवृत्ताः। तेषां निर्विघ्नतया ब्रह्मप्राप्तमाशास्त्याचार्यः। स्वस्ति निर्विघ्नमस्तु वो युष्माकं
पाराय परकूलाय। परस्तात्कस्मादविद्यातमसः। अविद्यारहितब्रह्मात्मस्वरूपगमनायेत्यर्थः।।2.2.6।।
योसौ तमसः परस्तात्संसारमहोदधिं तीर्त्वा गन्तव्यः परविद्याविषय इति स कस्मिन्वर्तत इत्याह -
2.2.7
यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि। दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठिताः।। मनोमयः प्राणशरीरनेता प्रतिष्ठितोन्ने हृदयं सन्निधाय। तद्विज्ञानेन परिपश्यन्ति धीराआनन्दरूपममृतं यद्विभाति।।2.2.7।।
ए.2.2.7
यः सर्वज्ञः सर्वविद्व्याख्यातः तं पुनर्विशिनष्टि;यस्यैष प्रसिद्धो महिमा विभूतिः। कोसौ महिमा? यस्येमे द्यावापृथिव्यौ शासने विधृते तिष्ठतः। सूर्याचन्द्रमसौ यस्य शासनेलातचक्रवदजस्रं भ्रमतः। यस्य शासने सरितः सागरश्च स्वगोचरं नातिक्रामन्ति। तथा स्थावरं जङ्गमं च यस्य शासने नियतम्। तथा चर्तवोयने अब्दाश्च यस्य शासनं नातिक्रामन्ति। तथा कर्तारः कर्माणि फलं च यच्छासनात्स्वं स्वं कालं नातिवर्तन्ते स एष महिमा भुवि लोके यस्य स एष सर्वज्ञ एवं महिमा देवो दिव्ये द्योतनवति सर्वबौद्ध प्रत्ययकृतद्योतने ब्रह्मपुरे, ब्रह्मणोत्रचैतन्यस्वरूपेण नित्याभिव्यक्तत्वाद्ब्रह्मणः पुरं हृदयपुण्डरीकं तस्मिन्यद्व्योम तस्मिन्व्योम्न्याकाशे हृत्पुण्डरीकमध्यस्थे, प्रतिष्ठित इवोपलभ्यते। न ह्याकाशवत्सर्वगतस्य गतिरागतिः प्रतिष्ठा वान्यथा सम्भवति। स ह्यात्मा तत्रस्थ मनोवृत्तिरेव विभाव्यत इति मनोमयो मनउपाधित्वात्, प्राणशरीरनेता प्राणश्च शरीरं च प्राणशरीरं तस्यायं नेता स्थूलाच्छरीराच्छरीरान्तरं प्रति। प्रतिष्ठितोवस्थितोन्ने भुज्यमानान्नविपरिणामे प्रतिदिनमुपचीयमानेपचीयमाने च पिण्डरूपान्ने हृदयं बुदिं्ध पुण्डरीकच्छिद्रे संनिधाय समवस्थाप्य। हृदयावस्थानमेव ह्यात्मनः स्थितिर्न ह्यात्मनः स्थितिरन्ने।
तदात्मतत्त्वं विज्ञानेन विशिष्टेन शास्त्राचार्योपदेशजनितेन ज्ञानेन शमदमध्यानसर्वत्यागवैराग्योद्भूतेन परिपश्यन्ति सर्वतः पूर्णं पश्यन्त्युपलभन्ते धीरा विवेकिन आनन्दरूपं सर्वानर्थदुःखायासप्रहीणममृतं यद्विभाति विशेषेण स्वात्मन्येव भाति सर्वदा।।2.2.7।।
अस्य परमात्मज्ञानस्य फलमिदमभिधीयते -
2.2.8
भिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे।।2.2.8।।
ए.2.2.8
भिद्यते हृदयग्रन्थिरविद्यावासनाप्रचयो बुद्ध्याश्रयः कामः "कामा येस्य हृदि श्रिताः" (क.उ.2/3/14, बृ.उ.4/4/7) इति श्रुत्यन्तरात्। हृदयाश्रयोसौ नात्माश्रयः भिद्यते भेदं विनाशमायाति। छिद्यन्ते सर्वज्ञेयविषयाः संशया लौकिकानामामरणात्त गङ्गास्रोतोवत्प्रवृत्ता विच्छेदमायान्ति। अस्य विच्छिन्नसंशयस्य निवृत्ताविद्यस्य यानि विज्ञानोत्पत्तेः प्राक्तनानि जन्मान्तरे चाप्रवृत्तफलानि ज्ञानोत्पत्तिसहभावीनि च क्षीयन्ते कर्माणि। न त्वेतज्जन्मारम्भकाणि प्रवृत्तफलत्वात्। तस्मिन्सर्वज्ञेसंसारिणि परावरे परं च कारणात्मनावरं च कार्यात्मना
तस्मिन्परावरे साक्षादहमरमीति दृष्टे संसारकारणोच्छेदान्मुच्यत इत्यर्थः।।2.2.8।।
उक्तस्यैवार्थस्य संक्षेपाभिधायका उत्तरे मन्त्रास्रयोपि -
2.2.9
हिरण्ये परे कोशे विरजं ब्रह्म निष्कलम्। तच्छØभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः।।2.2.9।।
ए.2.2.9
हिरण्ये ज्योतिर्मये बुद्धिविज्ञानप्रकाशे परे कोशे कोश इवासेः, आत्मस्वरूपोपलब्धिस्थानत्वात्; परं तत्सर्वाभ्यन्तरत्वात् तस्मिन् विरजमविद्याद्यशेषदोषरजोमलवर्जितं ब्रह्म सर्वमहत्त्वात् सर्वात्मत्वाच्च। निष्कलं निर्गताः कला यस्मात्तन्निष्कलं निरवयवम् इत्यर्थः।
यस्माद्विरजं निष्कलं चातस्तच्छुतभ्रं शुद्धं ज्योतिषां सर्वप्रकाशात्मनामग्न्यादीनामपि तज्ज्योतिरवभासकम्। अग्न्यादीनाम् अपि ज्योतिष्ट्वमन्तर्गतब्रह्मात्मचैतन्यज्योतिर्निमित्तगित्यर्थः। तद्धि परंज्योतिर्यदन्यानवभास्यम् आत्मज्योतिस्तद्यदात्मविद आत्मानं खं शब्दादिविषयबुद्धिप्रत्ययसाक्षिणं ये विवेकिनो विदुर्विजानन्ति त आत्मविदस्तद्विदुरात्मप्रत्ययानुसारिणः। यस्मात्परं ज्योतिस्तस्मात्त एव तद्विदुर्नेतरे बाह्यार्थप्रत्ययानुसारिणः।।2.2.9।।
कथं तज्ज्योतिषां ज्योतिरित्युच्यते -
2.2.10
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति।।2.2.10।।
ए.2.2.10
न तत्र तस्मिन्स्वात्मभूते ब्रह्मणि सर्वावभासकोपि सूर्यो भाति। तद्ब्रह्म न प्रकाशयति इत्यर्थः। स हि तस्यैव भासा सर्वमन्यदनात्मजातं प्रकाशयति इत्यर्थः। न तु तस्य स्वतः
प्रकाशनसामर्थ्यम्। तथा न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निरस्माद्गोचरः।
किं बहुना; यदिदं जगद्भाति तत्तमेव परमेश्वरं स्वतो भारूपत्वाद्भान्तं
दीप्यमानमनुभात्यनुदीप्यते। यथा जलोल्मुकाद्यग्निसंयोगादग्निं दहन्तमनुदहति न स्वतस्तद्वत्तस्यैव भासा दीप्या सर्वमिदं सूर्यादि जगद्विभाति।
यत एवं तदेव ब्रह्म भाति च विभाति च कार्यगतेन विविधेन भासातस्तस्य ब्रह्मणो भारूपत्वं स्वतोवगम्यते। न हि स्वतोविद्यमानं भासनमन्यस्य कर्तुं शक्नोति। घटादीनामन्यावभासकत्वादर्शनाद्भारूपाणां चादित्यादीनां तद्दर्शनात्।।2.2.10।।
यत्तज्ज्योतिषां ज्योतिर्ब्रह्म तदेव सत्यं सर्वं तद्विकारम् वाचारम्भणं विकारो नामधेयमात्रमनृतमितरदित्येतमर्थं विस्तरेण हेतुतः प्रतिपादितं निगमनस्थानीयेन मन्त्रेण पुनरुपसंहरति।
2.2.11
ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण। अधश्चोर्ध्वं च प्रसृतं
ब्रह्मैवेदंविश्वमिदं वरिष्ठम्।।2.2.11।।
ए.2.2.11
ब्रह्मैवोक्तलक्षणमिदं यत्पुरस्तादग्रे ब्रह्मैवाविद्यादृष्टीनां प्रत्यवभासमानं तथा पश्चाद्ब्रह्म तथा दक्षिणतश्च तथोत्तरेण तथैवाधस्तादूर्ध्वं च सर्वतोन्यदिव कार्यकारेण प्रसृतं प्रगतं नामरूपवदभासमानम्। किं बहुना ब्रह्मैव इदं विश्वं समस्तमिदं जगद्वरिष्ठं वरतमम्। अब्रह्मप्रत्ययः सर्वोविद्यामात्रो रज्ज्वामिव सर्पप्रत्ययः। ब्रह्मैवेकं परमार्थसत्यमिति वेदानुशासनम्।।2.2.11।।
समाप्तमिदं द्वितीयं मुण्डकम्
तृतीय मुण्डक - प्रथमः खण्डः
परा विद्योक्ता यया तदक्षरं पुरुषाख्यं सत्यमधिगम्यते। यदधिगमे हृदयग्रन्थ्यादिसंसारकारणस्यात्यन्तिकविनाशः स्यात्। तद्दर्शनोपायश्च योगो धनुराद्युपादानकल्पनयोक्तः। अथेदानीं तत्सहकारीणि सत्यादिसाधनानि वक्तव्यानीति तदर्थमुत्तरारम्भः। प्राधान्येन तत्त्वनिर्धारणं च प्रकारान्तरेण क्रियते अत्यन्तदुरवगाह्यत्वात्कृतमपि। तत्र सूत्रभूतो मन्त्रः परमार्थवस्त्ववधारणार्थमुपन्यस्यते -
3.1.1
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्धत्त्यनश्नन्नन्यो अभिचाकशीति।।3.1.1।।
ए.3.1.1
द्वा द्वौ सुपर्णा सुपर्णौ शोभनपतनौ सुपर्णौ पक्षिसामान्याद्वा सुपर्णौ सयुजा सयुजौ सहैव सर्वदा युक्तौ सखाया सखायौ समानाख्यानौ समानाभिव्यक्तिकारणौ एवं भूतौ सन्तौ समानमविशेषवुपलब्ध्यधिष्ठानतयैकं वृक्षं वृक्षमिवोच्छेदनसामान्याच्छरीरं वृक्षं परिषस्वजाते परिष्वक्तवन्तौ सुपर्णाविवैकं वृक्षं फलोपभोगार्थम्।
अयं हि वृक्ष ऊर्ध्वमूलोवक्शास्त्रोश्वत्थोव्यक्तमूलप्रभवः क्षेत्रसंज्ञकः सर्वप्राणिकर्मफलाश्रयस्तं परिष्वक्तौ सुपर्णाविवाद्याकामकर्मवासनाश्रयलिङ्गोपाध्यात्मेश्वरौ। तयोः परिष्वक्तयोरन्य एकः क्षेत्रज्ञो लिङ्गोपाधिवृक्षमाश्रितः पिप्पलं कर्मनिष्पन्नं सुखदुःखलक्षणं फलं स्वाद्वनेकविचित्रवेदनास्वरूपं स्वाद्वत्ति भक्षयत्युपभुङ्क्तेविवेकतः। अनश्नन्नन्य इतर ईश्वरो नित्यशुद्धबुद्धमुक्तस्वभावः सर्वज्ञः सर्वसत्त्वोपाधिरीश्वरो नाश्नाति। प्रेरयिता ह्यासावुभयोर्भोज्यभोक्त्रोर्नित्यसाक्षित्वसत्तामात्रेण। स त्वनश्नन्नन्योभिचाकशीति पश्यत्येव केवलम्। दर्शनमात्रं हितस्य प्रेरयितृत्वं राजवत्।।3.1.1।।
तत्रैवं सति -
3.1.2
समाने वृक्षे पुरुषो निमग्नोनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः।।3.1.2।।
ए.3.1.2
समाने वृक्षे यथोक्ते शरीरे पुरुषो भोक्ता जीवोविद्याकामकर्मफलरागादिगुरुभाराक्रान्तोलाबुरिव सामुद्रे जले निमग्ने निश्चयेन देहात्मभावमापन्नोयमेवाहममुष्य पुत्रोस्य नप्ता कृशः स्थूलो गुणवान्निर्गुणः सखी दुःखीत्येवंप्रत्ययो नास्त्यन्योस्मादिति जायते म्रियते संयुज्यते च सम्बन्धिबान्धवैः।
अतोनीशया न कस्यचित् समर्थोहे पुत्रो मम विनष्टो मृता मे भार्या किं मे जीवितेनेत्येवं दीनभावोनीशा तया शोचति सन्तप्यते मुह्यमानोनेकैरनर्थप्रकारैरविवेकतया चिन्तामापद्यमानः।
स एवं प्रेततिर्यङ्मनुष्यादियोनिष्वाजवं जवीभावमापन्नः कदाचिदनेकजन्मसु शुद्धधर्मसञ्चितनिमित्ततः केनचित्परमकारुणिकेन दर्शितयोगमार्गोहिंसासत्यब्रह्मचर्यसर्वत्यागशमदमादिसम्पन्नः समाहितात्मा सन् जुष्टं
सेवितमनेकैर्योगमार्गैः कर्मभिश्च यदा यस्मिन्काले पश्यति ध्यायमानोयं वृक्षोपाधिलक्षमाद्विलक्षणमीशमसंसारिणमशनायापिपासाशोकमोहजरामृत्य्वतीतमीशं सर्वस्य जगतोयमहमस्म्यात्मा सर्वस्य समः सर्वभूतस्थो नेतरोविद्याजनितोपाधिपरिच्छिन्नो मायात्मेतिविभूतिं महिमानं त जगद्रूपमस्यैव मम परमेश्वरस्येति यदैवं द्रष्टा तदा वीतशोको भवति सर्वस्माच्छोकसागराद्विप्रमुच्यते कृतकृत्यो भवतीत्यर्थः।।3.1.2।।
अन्योपि मन्त्र इममेवार्थमाह सविस्तरम् -
3.1.3
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान्पुण्यपापे विधूयनिरञ्जनः परमं साम्यमुपैति।।3.1.3।।
ए.3.1.3
यदा यस्मिन्काले पश्यः पश्यतीति विद्वान्साधक इत्यर्थः पश्यते पश्यति पूर्ववद्रुक्मवर्णं स्वयंज्योतिःस्वभावं रुक्मस्येव वा ज्योतिरस्याविनाशि कर्तारं सर्वस्य जगत ईशं पुरुषं ब्रह्मयोनिं ब्रह्म त तद्योनिश्चासौ ब्रह्मयोनिं ब्रह्मणो वापरस्य योनिं स यदा चैवं पश्यति तदा स विद्वान्पश्यः पुण्यपापे बन्धनभूते कर्मणि समूले विधूय निरस्य दग्ध्वा निरञ्जनो निर्लेपो विगतक्लेशः परमं प्रकृष्टं निरतिशयं साम्यं समतामद्वयलक्षणम्। द्वैतविषयाणि सामान्यतोर्वाञ्च्येवातोद्वयलक्षणमेतत्परमं साम्यमुपैति प्रतिपद्यते।।3.1.3।।
किं च -
3.1.4
प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन्विद्वान्भवते नातिवादी। आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः।।3.1.4।।
ए.3.1.4
योयं प्राणस्य प्राणः पर ईश्वरो ह्येष प्रकृतः सर्वैर्भूतैर्ब्रह्मादिस्तम्बपर्यन्तैः, इत्थंभूतलक्षणे तृतीया, सर्वभूतस्थः सर्वात्मा सन्नित्यर्थः, विभाति विविधं दीप्यते। एवं सर्वभूतस्थं यः साक्षादात्मभावेनायमहमस्मीति विजानन्विद्वान्वाक्यार्थज्ञानमात्रेण स भवते भवति न भवतीत्येतत् किमतिवाद्यतीत्य सर्वानन्यान् वदितुं शीलमस्येत्यतिवादी।
यस्त्वेवं साक्षादात्मानं प्राणस्य प्राणं विद्वानतिवादी स न भवतीत्यर्थः। सर्वं यदात्मैव नान्यदस्तीति दृष्टं तदा किं ह्यसावतीत्य वदेत्। यस्य त्वपरमन्यद् दृष्टमस्ति स तदतीत्य वदति। अयं तु विद्वानात्मनोन्यत्र पश्यति नान्यच्छृणोति नाम्यद्विजानाति। अतो नातिवदति।
किं चात्मक्रीड आत्मन्येव च क्रीडा क्रीडनं यस्य नान्यत पुत्रदारादिषु आत्मक्रीडः। तथात्मरतिरात्मन्येव च रती रमणं प्रीतिर्यस्य स आत्मरतिः। क्रीडा बाह्यसाधनसापेक्षा, रतिस्तु साधननिरपेक्षा बाह्यविषयप्रीतिमात्रमिति विशेषः। तथा क्रीयावाञ्ज्ञानध्यानवैराग्यादिक्रिया यस्य सोयं क्रियावान्। समासपाठ आत्मरतिरेव क्रियास्य विद्यत इति बहुवीहिमतुबर्थयोरन्यतरोतिरिच्यते।
केचित्त्वग्निहोत्रादिकर्मब्रह्मविद्ययोः समुच्चयार्थमिच्छन्ति। तचचैष ब्रह्मविदां वरिष्ठ इत्यनेन मुख्यार्थवचनेन विरुध्यते। न हि बाह्यक्रियावानात्क्रीड आत्मरतिश्च भवितुं शक्तः, कश्चिद्बाह्यक्रियाविनिवृत्तो ह्यात्मक्रीडो भवति बाह्यक्रियात्मक्रीडयोर्विरोधात्। न हि तमःप्रकाशयोर्युगपदेकत्र स्थितिः संभवति।
तस्मादसत्प्रलपितमेवैतदनेन ज्ञानकर्मसमुच्चयप्रतिपादनम्। "अन्या वाचो विमुञ्चथ" (मु.उ.2य2/5) "संन्यासयोगात्" (मु.उ.3/2/6) इत्यादिश्रुतिभ्यश्च। तस्मादयमेवेह क्रियावान्यो ज्ञानध्यानादिक्रियावानसंभिन्नार्यमर्यादः संन्यासी। य एवंलक्षणो नातिवाद्यात्मक्रीड आत्मरतिः क्रियावान्ब्रह्मनिष्ठः स ब्रह्मविदां सर्वेषां वरिष्ठः प्रधानः।।3.1.4।।
अधुना सत्यादीनि भिक्षोः सम्यग्ज्ञानसहकारीणि साधनानि विधीयन्ते निवृत्तिप्रधानानि -
3.1.5
सत्येन लभ्यस्तपसा ह्येषा आत्मासम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्। अन्तःशरीरे ज्योतिर्मयो हि शुभ्रोयं पश्यन्ति यतयः क्षीणदोषाः।।3.1.5।।
ए.3.1.5
सत्येनामृतत्यागेन मृषावदनत्यागेन लभ्यः प्रप्तव्यः। किं च तपसा हीन्द्रियमनएकाग्रतया "मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः" (महा.शा.250/4) इति स्मरणात्। तद्ध्यनुकूलमात्मदर्शनाभिमुखीभावात्परमं साधनं तपो नेतरच्चान्द्रायणादि एष आत्मा लभ्य इत्यनुषङ्गः सर्वत्र।
सम्यग्ज्ञानेन यथाभूतात्मदर्शनेन ब्रह्मचर्येण मैथुनासमाचारेण नित्यं सर्वदा। नित्यं सत्येन नित्यं तपसा नित्यं सम्यग्ज्ञानेनेति सर्वत्र नित्यशब्दोन्तर्दीपिकान्यायेन अनुषक्तव्यः। वक्ष्यति च "न येषु जिह्रमनृतं न माया च"(प्र.उ.1/16) इति।
कोसावात्मा य एतैः साधनैर्लभ्य इत्युच्यते। अन्तःशरीरेन्तर्मध्ये शरीरस्य पुण्डरीकाकाशे ज्योतिर्मयो हि रुक्मवर्णः शुभ्रः शुद्धो यमात्मानं पश्यन्त्युपलभ्यन्ते यतयो यतनशीलाः संन्यासिनः क्षीणदोषाः क्षीणक्रोधादिचित्तमलाः। स आत्मा नित्यं सत्यादिसाधनैः संन्यासभिर्लभ्यते। न कदाचित्कैः सत्यादिभिः लभ्यते। सत्यादिसाधनस्तुत्यर्थोयमर्थवादः।।3.1.5।।
3.1.6
सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः। येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्।।3.1.6।।
ए.3.1.6
सत्यमेव सत्यवानेव जयति नानृतं नानृतवादीत्यर्थः। न हि सत्यानृतयोः केवलयोः पुरुषानाश्रितयोर्जयः पराजयो वा सम्भवति। प्रसिद्धं लोके सत्यवादिनानृतवाद्यभिभूयते न विपर्ययोतः सिद्धं सत्यस्य बलवत्साधनत्वम्।
किं च शास्त्रतोप्यवगम्यते सत्यस्य साधनातिशयत्वम्। कथम्? सत्येन यथाभूतवादव्यवस्थया पन्था देवयानाख्यो विततो विस्तीर्णः सातत्येन प्रवृत्तो येन यथा ह्याक्रमन्ति क्रमन्त ऋषयो दर्शनवन्तः सर्वतो यत्र यस्मिंस्तत्परमार्थतत्त्वं सत्यस्योत्तमसाधनस्य सम्बन्धि साध्यं परमं प्रकृष्टं निधानं पुरुषार्थरूपेण निधीयत इति निधानं वर्तते तत्र च येन पथाक्रमन्ति स सत्येन वितत इति पूर्वेण सम्बन्धः।।3.1.6।।
किं तत्किं धर्मकं च तदित्युच्यते -
3.1.7
बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति । दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ।।3.1.7।।
ए.3.1.7
बृहन्महच्च तत्प्रकृतं ब्रह्म सत्यादिसाधनं सर्वतो व्याप्तत्वात्। दिव्यं स्वयंप्रभमनिन्द्रियगोचरत एव न चिन्तयितुं शक्यतेस्य रूपमित्यचिन्त्यरूपम्। सूक्ष्मादेकाशादेरपि तत्सूक्ष्मतरम्, निरतिशयं हि सौक्ष्म्यस्य सर्वकारणत्वात्, विभाति विविधमादित्यचन्द्राद्याकारेण भाति दीप्यते।
किं च दूराद्विप्रकृष्टदेशात्सुदूरे विप्रकृष्टतरे देशे वर्ततेविदुषामत्यन्तागम्यत्वात्तद्ब्रह्म। इह देहेन्तिके समीपे च विदुषामात्मत्वात्। सर्वान्तरत्वाच्चाक शस्याप्यन्तरश्रुतेः। इह पश्यत्सु चेतनावत्स्वित्येतन्निहितं स्थितं दर्शनादिक्रियावत्त्वेन योगिभिर्लक्ष्यमाणम्। क्व?गुहायां बुद्धिलक्षणायाम्। तत्र हि निगूढं लक्ष्यते विद्वद्भिः। तथाप्यविद्यया संवृतं सन्न लक्ष्यते तत्रस्थमेवाविद्वद्भिः।।3.1.7।।
पुनरप्यसाधारणं तदुपलब्धिसाधनमुच्यते -
3.1.8
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा। ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः।।3.1.8।।
ए.3.1.8
यस्मान्न चक्षुषा गृह्यते केनचिदप्यरूपत्वान्नापि गृह्यते वाचानभिधेयत्वान्न चान्यैर्देवैरितरेन्द्रियैः। तपसः सर्वप्राप्तिसाधनत्वेपि न तपसा गृह्यते। तथा वैदिकेनाग्निहोत्रादिकर्मणा प्रसिद्धमहत्त्वेनापि न गृह्यते। तथा वैदिकेनाग्निहोत्रादिकर्मणा प्रसिद्धमहत्त्वेनापि न गृह्यते। किं पुनस्तस्य ग्रहणे साधनमित्याह -
ज्ञानप्रसादेन। आत्मावबोधनसमर्थमपि स्वभावेन सर्वप्राणिनां ज्ञानं बाह्यविषयरागादिदोषकलुषितमप्रसन्नमशुद्धं सन्नावबोधयति नित्यं संनिहितमप्यात्मतत्त्वं मलावनद्धमिवादर्शनम्, विलुलितमिव सलिलम्। तद्यदेन्द्रियविषयसंसर्गजनितरागादिमलकालुष्यापनयनादादर्शसलिलादिवत्प्रसादितं स्वच्छं शान्तमवतिष्ठते तदा ज्ञानस्य प्रसादः स्यात्।
तेन ज्ञानप्रसादेन विशुद्धसत्त्वो विशुद्धान्तःकरणो योग्यो ब्रह्म द्रष्टुं यस्मात्ततस्तस्मात्तु तमात्मानं पश्यते पश्यत्युपलभते निष्कलं सर्वावयवभेदवर्जितं ध्यायमानः सत्यादिसाधनवानुपसंहृतकरण एकाग्रेण मनसा ध्यायमानश्चिन्तयन्।।3.1.8।।
यमात्मानमेवं पश्यति -
3.1.9
एषोणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश। प्राणैश्चित्तं सर्वमोतं प्रजानांयस्मिन्विशुद्धे विभवत्येष आत्मा।।3.1.9।।
ए.3.1.9
एषोणुः सूक्ष्मश्चेतसा विशुद्धज्ञानेन केवलेन वेदितव्यः। क्वासौ?यस्मिञ्शरीरे प्राणो वायुः पञ्चधा प्राणापानादिभेदेन संविवेश सम्यक्प्रविष्टस्तस्मिन्नेव शरीरे हृदये चेतसा ज्ञेय इत्यर्थः।
कीदृशेन चेतसा वेदितव्य इत्याह - प्राणैः सहेन्द्रियैश्चित्तं सर्वमन्तःकरणं प्रजानामोतं व्याप्तं येन क्षीरमेव स्नेहेन काष्ठमिवाग्निना। सर्वं हि प्रजानामन्तःकरणं चेतनावत्प्रसिद्धं लोके यस्मिंश्च चित्ते क्लेशादिमलवियुक्ते शुद्धे विभवत्येष उक्त आत्मा विशेषेण स्वेनात्मना विभवत्यात्मानं प्रकाशयतीत्यर्थः।।3.1.9।।
य एवमुक्तलक्षणं सर्वात्मानमात्मत्वेन प्रतिपन्नस्तस्य सर्वात्मत्वादेव सर्वावाप्तिलक्षणं फलमाह -
3.1.10
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान्। तं तं लोकं जायते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद् भूतिकामः।।3.1.10।।
ए.3.1.10
यं यं लोकं पित्रादिलक्षणं मनसा संविभाति संकल्पयति मह्यमन्यस्मै वा भवेदिति विशुद्धसत्त्वः क्षीणक्लेश आत्मविन्निर्मलान्तःकरणः कामयते यांश्च कामान्प्रार्थयते भोगांस्तं तं लोकं जयते प्राप्नोति तांश्च कामान्संकल्पितान्भोगान्। तस्माद्विदुषः सत्यसंकल्पत्वादात्मज्ञानेन विशुद्धान्तःकरणं ह्यर्चयेत् पूजयेत्पादप्रक्षालनशुश्रूषानमस्कारादिभिर्भूतिकामो विभूतिमिच्छुः। ततः पूजार्ह एवासौ।।3.1.10।।
इति प्रथमः खण्डः
द्वितीयः खण्डः
यस्मात् -
3.2.1
स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम्। उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ।।3.2.1।।
ए.3.2.1
स वेद जानातीत्येतद्यथोक्तलक्षणं ब्रह्म परममुत्कृष्टं धाम सर्वकामानामाश्रयमास्पदं यत्र यस्मिन् ब्रह्मणि धाम्नि विश्वं समस्तं जगन्निहितमर्पितं यच्च स्वेन ज्योतिषा भाति शुभ्रं शुद्धम् तमप्येवमात्मज्ञं पुरुषं ये ह्यकामा विभूतितृष्णावर्जिता मुमुक्षवः सन्त उपासते परमिव सेवन्ते ते शुक्रं नृबीजं यदेतत्प्रसिद्धं शरीरोपादानकारणामतिवर्तन्त्यतिगच्छति धीरा धीमन्तो न पुनर्योनिं प्रसर्पन्ति "न पुनःक्वचिद्रतिं करोति" इति श्रुतेः। अतस्तं पूजयेदित्यभिप्रायः।।3.2.1।।
मुमुक्षोः कामत्याग एव प्रधानं साधनमित्येतद्दर्शयति -
3.2.2
कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र। पर्याप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः ।। 3.2.2 ।।
ए.3.2.2
कामान्यो दृष्टादृष्टेष्टविषयान् कामयते मन्यमानस्तद्गुणांश्चिन्तयानः प्रार्थयते स तैः कामभिः कामैर्धर्माधर्मप्रवृत्तिहेतुभिर्विषयेच्छारूपैः सह जायते तत्र तत्र। यत्र यत्र विषयप्राप्तिनिमित्तं कामाः कर्मसु पुरुषं नियोजयन्ति तत्र तत्र तेषु तेषु विषयेषु तैरेव कामैर्वेष्टितो जायते।
यस्तु परमार्थतत्त्वविज्ञानात् पर्याप्तकाम आत्मकामत्वेन परिसमन्तत आप्ताः कामा यस्य तस्य पर्याप्तकामस्य कृत्वात्मनोविद्यालक्षणादपररूपादपनीय स्वेन परेण रूपेण कृत आत्मा विद्यया यस्य तस्य कृतात्मनस्विहैव तिष्ठत्येव शरीरे सर्वे धर्माधर्मप्रवृत्तिहेतवः प्रविलीयन्ति विलयमुपयान्ति नश्यन्तीत्यर्थः। कामस्तज्जन्महेतुविनाशान्न जायन्त इत्यभिप्रायः।।3.2.2।।
यद्येवं सर्वलाभात्परम आत्मलाभस्तल्लाभाय प्रवचनादाय उपाया बाहुल्येन कर्तव्या इति प्राप्त इदमुच्यते -
3.2.3
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्।।3.2.3।।
ए.3.2.3
योयमात्मा व्याख्यातो यस्य लाभः परः पुरुषार्थो नासौ वदेशास्त्राध्ययनबाहुल्येन प्रवचनेन लभ्यः। तथा न मेधया ग्रन्थार्थधारणशक्त्या। न बहुना श्रुतेन नापि भूयसा श्रवणेनेत्यर्थः।
केन तर्हि लभ्य इत्युच्यते - यमेव परमात्मानमेवैष विद्वान्वृणुते प्राप्तुमिच्छति तेन वरेणेनैष परमात्मा लभ्यः। नान्येन साधानान्तरेण नित्यलब्धस्वभावत्वात्।
कीदृशोसौ विदुष आत्मलाभ इत्युच्यते। तस्यैव आत्माविद्यासञ्छन्नां स्वां परां तनुं स्वात्मतत्त्वं स्वरूपं विवृणुते प्रकाशयति प्रकाश इव घटादिर्विद्यायां सत्यामाविर्भवतीत्यर्थः तस्मादन्यत्यागेनात्मलाभप्रार्थनैवात्मलाभसाधनमित्यर्थः।।3.2.3।।
आत्मप्रार्थनासहायभूतान्येतानि च साधनानि बलाप्रमादतपांसि लिङ्गयुक्तानि संन्याससहितानि। यस्मात् -
3.2.4
नायमात्मा बलहीनेन लभ्योन च प्रमादात्तपसो वाप्यलिङ्गात्। एतैरुपायैर्यतते यस्तु विद्धांस्तस्यैष आत्मा विशते ब्रह्मधाम।।3.2.4।।
ए.3.2.4
यस्मादयमात्मा बलहीनेन बलग्रहीणेनात्मनिष्ठाजनितवीर्यहीनेन न लभ्यो नापि
लौकिकपुत्रपश्वादिविषयसङ्गनिमित्तप्रमादात्, तथा तपसो वाप्यलिङ्गाल्लिङ्गरहितात्। तपोत्र ज्ञानम्; लिङ्गं संन्यासः। संन्यासरहिताज्ज्ञानान्न लभ्यत इत्यर्थः। एतैरुपायैर्बलाप्रमादसंन्यासज्ञानैर्यतते तत्परः सन्प्रयतते यस्तु विद्वान्विवेक्यात्मवित्तस्य विदुष एष आत्मा विशते संप्रविशति ब्रह्मधाम।।3.2.4।।
कथं ब्रह्म संविशत इत्युच्यते -
3.2.5
संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मनो वीतरागाः प्रशान्ताः। ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति।।3.2.5।।
ए.3.2.5
संप्राप्य स समवगम्यैनमात्मानमृषयो दर्शनवन्तस्तेनैव ज्ञानेन तृप्ता न बाह्येन तृप्तिसाधनेन शरीरोपचयकारणेन कृतात्मानः परमात्मस्वरूपेणैव निष्पन्नात्मानः सन्तो वीतरागाः वीतरागादिदोषाः प्रशान्ता उपरतेन्द्रियाः।
त एवंभूताः सर्वगं सर्वव्यापिनमाकाशवत्सर्वतः सर्वत्र प्राप्य - नोपाधिपरिच्छिन्नेनैकदेशेन, किं तर्हि? तद्ब्रह्मैवाद्वयमात्मत्वेन प्रतिपद्य धीरा अत्यन्तविवेकिनो युक्तात्मानो नित्यसमाहितस्वभावाः सर्वमेव समस्तं शरीरपातकालेप्याविशन्ति भिन्ने घटे घटाकाशवदविद्याकृतोपाधिपरिच्छेदं जहति। एवं ब्रह्मविदो ब्रह्मधाम
प्रविशन्ति।।3.2.5।।
किं च -
3.2.6
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः। ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे।। 3.2.6।।
ए.3.2.6
वेदान्तजनितविज्ञानं वेदान्तविज्ञानं तस्यार्थः परमात्मा विज्ञेयः सोर्थः सुनिश्चितो येषां ते वेदान्तविज्ञानसुनिश्चितार्थाः। ते च संन्यासयोगात्सर्वकर्मपरित्यागलक्षणयोगात्केवलब्रह्मनिष्ठास्वरूपाद्योगाद्यतयो यतनशीलः शुद्धसत्त्वाः शुद्धं सत्त्वं येषां संन्यासयोगात्ते शुद्धसत्त्वाः। ते ब्रह्मलोकेषु - संसारिणां ये मरणकालास्तेपरान्तास्तानपेक्ष्य मुमुक्षूणां संसारावसाने देहपरित्यागकालः
परान्तकालस्तस्मिन्परान्तकाले साधकानां बहुत्वात् ब्रह्मैव लोको ब्रह्मलोक एकोप्यनेकवद् दृश्यते प्राप्यते वा, अतो बहुवचनं ब्रह्मलोकेष्विति ब्रह्मणीत्यर्थः - परामृता परममृतममरणधर्मकं ब्रह्मात्मभूतं येषां ते परामृता जीवन्त एव ब्रह्मभूताः परामृताः सन्तः परिमुच्यन्ति परि समन्तात्प्रदीपनिर्वाणवद् घटाकाशवच्च निवृत्तिमुपयान्ति। परिमृच्यन्ति परि समन्तान्मुच्यते सर्वे न देशान्तरं गन्तव्यमपेक्षन्ते।
"शकुनीनामिवाकाशे जले वारिचरस्य च। पदं यथा न दृश्येत तथाज्ञानवतां गतिः।।" (महा.शा.239/24)। "अनध्वगा अध्वसु पारयिष्णवः" इति श्रुतिस्मृतिभ्यः।
देशपरिच्छिन्ना हि गतिः संसारविषयैव, परिच्छिन्नसाधनसाध्यत्वात्। ब्रह्म तु समस्तत्वान्न देशपरिच्छिदेन गन्तव्यम्। यदि हि देशपरिच्छिन्नं ब्रह्म स्यान्मूर्तद्रव्यवदाद्यन्तवदन्याश्रितं सावयवमनित्यं कृतकं च स्यात्। न त्वेवंविधं ब्रह्म भवितुमर्हति। अतस्तत्प्राप्तिश्च नैव देशपरिच्छिन्ना भवितुं युक्ता। अपि चाविद्यादिसंसारबन्धापनयनमेव मोक्षम् इच्छन्ति ब्रह्मविदो न तु कार्यभूतम्।।3.2.6।।
किं च मोक्षकाले -
3.2.7
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु। कर्माणि विज्ञानमयश्च आत्मापरेव्यये सर्व एकीभवन्ति। ।3.2.7।।
ए.3.2.7
या देहारम्भिकाः कलाः प्राणाद्यास्ताः स्वां स्वां प्रतिष्ठां गताः स्वं स्वं कारणं गता भवन्तीत्यर्थः। प्रतिष्ठा इति द्वितीयाबहुवचनम्। पञ्चदश पञ्चदशसंख्याका या अन्त्यप्रश्नपरिपठिताः प्रसिद्धा देवाश्च देहाश्रयाश्चक्षुरादिकरणस्थाः सर्वे प्रतिदेवतास्वादिषु गता भवन्तीत्यर्थः।
यानि च मुमुक्षुणा कृतानि कर्माण्यप्रवृत्तफलानि प्रवृत्तफलानामुपभोगेनैव क्षीयमाणत्वाद्विज्ञानमयश्चात्माविद्याकृतबुद्ध्युपाधिमात्मत्वेन मत्वा जलादिषु सूर्यादिप्रतिबिम्बवदिह प्रविष्टो देहभेदेषु, कर्मणा तत्फलार्थत्वात्, सह तेनैव विज्ञानमयेनात्मना, अतो विज्ञानमयो विज्ञानप्रायः ; त एते कर्माणि विज्ञानमयश्च आत्मोपाध्यपनये सति परेव्ययेनन्तेक्षये ब्रह्मण्याकाशकल्पेजेरजरेमृतेभयेपूर्वेनपरेनन्तरेबाह्येद्वये शिवे शान्ते सर्व एकीभवन्त्यविशेषतां गच्छन्ति एकत्वमापद्यन्ते जलाद्याधारापनय इव सूर्यादिप्रतिबिम्बाः सूर्ये घटाद्यपनय इवाकाशे घटाद्याकाशः।।3.2.7।।
किं च -
3.2.8
यथा नद्यः स्यन्दमानाः समुद्रेस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्तःपरात्परं पुरुषमुपैति दिव्यम्।।3.2.8।।
ए.3.2.8
यथा नद्यो गङ्गायाः स्यन्दमाना गच्छन्त्यः समुद्रे समुद्रं प्राप्यास्तमदर्शनमविशेषात्मभावं गच्छन्ति प्राप्नुवन्ति नाम च रूपं च नामरूपे विहाय हित्वा तथाविद्याकृतनामरूपाद्विमुक्तः सन्विद्वान्परादक्षरात्पूर्वोक्तात्परं दिव्यं पुरुषं यथोक्तलक्षणमुपैति उपगच्छति।।3.2.8।।
ननु श्रेयस्यनेके विघ्नाः प्रसिद्धाः अतः क्लेशानामन्यतमेनान्येन वा देवादिना च विघ्नितो ब्रह्मविदप्यन्यां गतिं मृतो गच्छति न ब्रह्मविदप्यन्यां गतिं मृतो गन्छति न ब्रह्मैव।
न; विद्ययैव सर्वप्रतिबन्धस्यापनीतत्वात्। अविद्याप्रतिबन्धमात्रो हि मोक्षो नान्यप्रतिबन्धः, नित्यत्वादात्मभूतत्वाच्च।
तस्मात् -
3.2.9
स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्ममवित्कुले भवति। तरति शोकं तरति
पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोमृतो भवति।। 3.2.9 ।।
ए.3.2.9
स यः कश्चिद्ध वै लोके तत्परमं ब्रह्म वेद साक्षादहमेवास्मीति। नान्यां गतिं गच्छति। देवैरपि तस्य ब्रह्मप्राप्तिं प्रति विघ्नो न शक्यते कर्तुम्। आत्मा ह्येषां स भवति। तस्माद्ब्रह्मविद्वान् ब्रह्मैव भवति।
किं च नास्य विदुषोब्रह्मवित्कुले भवति। किं च तरति शोकमनेकेष्टवैकल्यनिमित्तं मानसं सन्तापं जीवन्नेवातिक्रान्तो भवति। तरति पाप्मानं धर्माधर्माख्यम्। गुहाग्रन्थिभ्यो हृदयाविद्याग्रन्थिभ्यो विमुक्तः सन्नमृतो भवतीत्युक्तमेव भिद्यते हृदयग्रन्थिरित्यादि।।3.2.9।।
अथेदानीं ब्रह्मविद्यासम्प्रदानविध्युपप्रदर्शनेनोपसंहारः क्रियते। तदेतद्दृचाभ्युक्तम् -
3.2.10
क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः। तेषामेवैषां ब्रह्मविद्यां वदेतशिरोव्रतं विधिवद्यैस्तु चीर्णम्।।3.2.10।।
ए.3.2.10
तदेतद्विद्यासम्प्रदानविधानमृचा मन्त्रेणाभ्युक्तमभिप्रकाशशितम् -
क्रियावन्तो यथोक्तकर्मानुष्ठानयुक्ताः श्रोत्रिया ब्रह्मनिष्ठा अपरस्मिन्ब्रह्मण्यभियुक्ताः परब्रह्मबुभुत्सवः स्वयमेकर्षिनामानमग्निं जुह्वते जुह्वति श्रद्धयन्तः श्रद्दधानाः सन्तो ये तेषाम् एव संस्कृतात्मनां पात्रभूतानाम् एतां ब्रह्मविद्यां वदेत ब्रूयात् शिरोव्रतं शिरस्यग्निधारणलक्षणम् यथाथर्वणानां वेदव्रतं प्रसिद्धम्, यैस्तु यैश्च तच्चीर्णं विधिवद्यथाविधानं तेषामेव च ।।3.2.10।।
3.2.11
तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोधीते। नमः परमऋषिभ्यो नमः परमऋषिभ्यः।।3.2.11।।
ए.3.2.11
तदेतदक्षरं पुरुषं सत्यमृषिरङ्गिरा नाम पुरा पूर्वं शौनकाय विधिवदुतसन्नाय पृष्टवत उवाच। तद्धदन्योपि तथैव श्रेयोर्थिने मुमुक्षवे मोक्षार्थं विधिवदुपसन्नाय ब्रूयादित्यर्थः। नैतद्ग्रन्थरूपम् अचीर्णव्रतोचरितव्रतोप्यधीते न पठति। चीर्णव्रतस्य हि विद्या फलाय संस्कृता भवतीति।
समाप्ता ब्रह्मविद्या, सा येभ्यो ब्रह्मादिभ्यः पारम्पर्यक्रमेण संप्राप्ता तेभ्यो नमः परमऋषिभ्यः। परमं ब्रह्म साक्षाद्दृष्टवन्तो ये ब्रह्मादयोवगतवन्तश्च ते परमर्षयस्तेभ्यो भूयोपि नमः।
द्विर्वचनमत्यादरार्थं मुण्डकसमाप्त्यर्थं च ।।3.2.11।।
इति द्वितीयः खण्डः
समाप्तमिदं तृतीयकं मुण्डकम्