मुकुन्दमाला (कुलशेखररचिता)

विकिस्रोतः तः
मुकुन्दमाला
कुलशेखरः
१९२९

श्रीकुलशेखरनृपतिविरचिता

मुकुन्दमाला।

वन्दे मुकुन्दमरविन्ददलायताक्षं
कुन्देन्दुशङ्खदशनं शिशुगोपवेषम् ।
इन्द्रादिदेवगणवन्दितपादपीठं
वृन्दावनालयमहं वसुदेवसूनुम् ॥ १॥

जयतु जयतु देवो देवकीनन्दनोऽयं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ २ ॥


मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ ३ ॥

श्रीमुकुन्दपदाम्भोजमधुनः परमाद्भुतम् ।
यत्पायिनो न मुह्यन्ति मुह्यन्ति यदपायिनः ॥ ४॥

नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः
कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।
रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं
भावे भावे हृदयभवने भावयेऽहं भवन्तम् ॥ ५॥

नास्था धर्मे न वसुनिचये नैव कामोपभोगे
यद्भाव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ ६ ॥

दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् ।
अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ ७ ॥

सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमेह चित्त रन्तुम् ।
सुखकरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ ८ ॥

मा भैर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातना
नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं
लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ ९ ॥

भवजलधिमगाधं दुस्तरं निस्तरेयं
कथमहमिति चेतो मा स्म गाः कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिरेका
नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १० ॥

तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले
दारावर्ते सहजतनयग्राहसंघाकुले च ।
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधाम-
न्पादाम्भोजे वरद भवतो भक्तिनावे प्रसीद ॥ ११ ॥

पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघु-
स्तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा
दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ १२ ॥

आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्रव्रतान्यन्वहं
मेदश्छेदपदानि पूर्तविधयः सर्वे हुतं भस्मनि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-
द्वन्द्वाम्भोरुहसंस्तुतिं विजयते देवः स नारायणः ॥ १३ ॥

आनन्द गोविन्द मुकुन्द राम नारायणानन्त निरामयेति ।
वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे ॥ १४ ॥

क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये ।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ १५ ॥

   
वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा-
दौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् ।
सेव्यः श्रीपतिरेव सर्वजगतामेकान्ततः साक्षिणः
प्राह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ १६ ॥

नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
सेव्ये स्वस्य पदस्स दातरि परे नारायणे तिष्ठति ।
यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
सेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥ १७ ॥

भो लोकाः शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां
योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।
अन्तर्योर्तिरमेयमेकममृतं कृष्णाख्यमापीयतां
यत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥ १८ ॥

बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिना-
मस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ॥ १९ ॥

तत्त्वं ब्रुवाणानि परं परस्मादहो क्षरन्तीव सुधां पदानि ।
आवर्तय प्राञ्जलिरस्मि जिह्वे नामानि नारायणगोचराणि ॥ २० ॥

इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसंधि जर्जरम् ।
किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ २१ ॥

श्रीमन्नाम प्रोच्य नारायणाख्यं येन प्राप्ता वाञ्छितं पापिनोऽपि ।
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिंस्तेन प्राप्तं गर्भवासादिदुःखम् ॥ २२ ॥

मा द्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे
मा श्रौषं श्रव्यबद्धं तव चरितमपास्यान्यदाख्यानजातम् ।

मा स्प्राक्षं माधव त्वामपि भुवनपते चेतसापह्नुवानं
मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरेऽपि ॥ २३ ॥

मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि ।
हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ २४ ॥

दारा वाराकरवरसुता तेऽङ्गजोऽयं विरिञ्चः
स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः ।
मुक्तिर्मध्ये जगदविकलं तावके देवकी ते
माता मित्रं बलरिपुसुतस्तत्त्वतोऽन्यन्न जाने ॥ २५ ॥

जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं
पाणिद्वन्द्व समर्चयाच्युतकथां श्रोत्रद्वयं त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं
जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन्नमाधोक्षजम् ॥ २६ ॥

यत्कृष्णप्रणिपातधूलिधवलं तद्वै शिरः स्याच्छुभं
ते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिर्दृश्यते ।
सा बुद्धिर्नियमैर्यमैश्च विमला या माधवध्यायिनी
सा जिह्वामृतवर्षिणी प्रतिपदं या स्तौति नारायणम् ॥ २७ ॥

भक्तद्वेषिभुजंगगारुडमणिस्त्रैलोक्यरक्षामणि-
र्गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः ।
श्रीकान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
श्रेयो ध्येयशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ २८ ॥

शत्रुच्छेदैकमस्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं
संसारोत्तारमन्त्रं समुदितमनसा सङ्गनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसंदष्टसंत्राणमन्त्रं
जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ २९ ॥

व्यामोहोद्दलनौषधं मुनिमनोवृत्तिप्रवृत्यौषधं,
दैत्यानर्थकरौषधं त्रिजगतां संजीवनैकौषधम् ।

    
भक्तार्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं
श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णनामौषधम् ॥ ३० ॥

आश्चर्यमेतद्धि मनुष्यलोके सुधां परित्यज्य विषं पिबन्ति ।
नामानि नारायणगोचराणि त्यक्त्वान्यवाचः कुहकाः पठन्ति ॥ ३१ ॥

लाटीनेत्रपुटीपयोधरघटीरेवातटीदुष्कुटी-
पाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिनं नीयते ।
गोविन्देति जनार्दनेति जगतां नाथेति कृष्णेति च
व्याहारैः समयस्तदेकमनसां पुंसामतिक्रामति ॥ ३२ ॥

अयाच्यमक्रेयमयातयाममपाच्यमाक्षय्यमदुर्भरं मे ।
अस्त्येव पाथेयमितः प्रयाणे श्रीकृष्णनामामृतभागधेयम् ॥ ३३ ॥

यस्य प्रियौ श्रुतधरौ कविलोकगीतौ
मित्रे द्विजन्मपरिवारशिवावमूलाम् ।
तेनाम्बुजाक्षचरणाम्बुजषट्पदेन
राज्ञा कृता स्तुतिरियं कुलशेखरेण ॥ ३४ ॥

इति श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला समाप्ता ।


[सम्पाद्यताम्]