सामग्री पर जाएँ

मीमांसाश्लोकवार्त्तिकम्

विकिस्रोतः तः
एतावद् एव जिज्ञास्यं तत्त्व-जिज्ञासुनात्मनः ।
अन्वय-व्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥
मीमांसाश्लोकवार्त्तिकं
सुचरितमिश्रप्रणीतया
काशिकाख्यया टीकया समेतम् ।
(तृतीयो भागः)
प्रत्यक्षाव्यभिचारित्वादेवंलक्षणकं च यत् ।
प्रसिदध्दमनुमानादि न परीक्ष्यं तदप्यतः ॥ ५,४.१ ॥
अत्र भाष्यकारेण विज्ञानवादान्ते"अतो न व्यभिचरति प्रत्यक्षम्"इति प्रत्यक्षाव्यभिचारित्वमुपसंहृत्यऽनुमानं ज्ञातसम्बन्धस्येः त्यादिनानुमानलक्षणं प्रणीतम् ।
तस्य तात्पर्य दर्शयति-प्रत्यक्षेति ।
अयमर्थः ।
वृत्तिकारग्रन्थे हिऽतेन व्यभिचरति प्रत्यक्षम् ।
तत्पूर्ववकत्वाच्चानुमानाद्यपिः इति प्रत्यक्षव्यभिचारपूर्वकमनुमानादीनामपि व्यभिचारात परीक्ष्यत्वमुक्तम् ।
तत्र प्रत्यक्षाव्यभिचारित्वे प्रतिपादिते व्यभिचारिकरणप्रभवत्वेन तावद् व्यभिचारशङ्का प्रयुक्ता ।
यदि परं स्वरूपाश्रयो व्यभिचारः सम्भवति ।
सोऽपि वक्ष्यमाणलक्षणकेषु नाशङ्कनीय एव ।
न हि प्रतिबुद्धदृशः प्रतिबन्धकसंविद्विदितव्यभिचारः ।
सकलव्यवहारोच्छेदप्रसङ्गात् ।
एवमितरेष्वपि यथास्वमवसरे वक्ष्यामः ।
तस्मादनुमानाद्यपि लोकप्रसिद्धं न परीक्षितव्यमिति॥
इयं च सर्ववक्ष्यमाणप्रमाणलक्षणभाष्यतात्पर्यव्याख्या साधारणी वार्तिककारेण कृता ।
सर्ववक्ष्यमाणप्रमाणप्रपञ्चस्य हीदमेव साधारणं स्थानम् ।
अनेन च श्लोकेन समर्थितारम्भावसरः प्रपञ्चो विशेषतो व्याख्यास्यत इति ।
तदेतदुक्तं भवति ।
नात्र नैयायिकादिवदलोकिकं प्रमाणानां स्वरूपमुपदर्शयितुं लक्षणानि प्रणीतानि ।
लोकप्रसिद्धप्रमा(णा) व्यभिचारित्वान्मीमांसकानाम् ।
किन्तु शङ्कितव्यभिचारापादितपरीक्षाप्रत्याख्यावनार्थं लोकप्रसिद्धमेव स्वरूपमुपदर्श्यते ।
अतो नप्रमाणलक्षणे सङ्गतिः प्रत्यक्षादिलक्षणस्याशङ्कितव्येति ॥१ ॥ इदानीं लक्षणभाष्यव्याख्यानावसरे प्राथम्यादनुमानलक्षणमनुसन्धास्यति ।
तत्र चऽज्ञातसम्बन्धस्येऽत्युच्यते ।
तत्र न विद्मः को ज्ञातसम्बन्धसमासार्थ इति ।
न तावत पुरुषः सम्बन्धी समुदायो वा ।
अनुपादानात् ।
न ह्यनुपात्तान्यपदार्थको बहुव्रीहिर्भवति ।
ननु बुद्धिसम्बन्धोपस्थापितः पुरुषः समुदायिद्वयाक्षिप्तः समुदायो वा विशेष्यते ।
बुद्धिर्हि स्वशब्दादवगता तद्वन्तमन्तरेणात्मानमलभमानोपस्थापयति स्वाश्रयमिति नानुपादानदोषः ।
नैतदेवम् ।
गम्यमानस्याविशेषात् ।
न खलु धूमशब्दार्थाविनाभावादवगतोऽग्निर्ज्वलतीति विशेष्यते ।
वक्ष्यति च-
गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् ।
इति ।
स्यान्मतम् ।
सत्यम् ।
अनुपात्तं न विशेष्यते ।
उपात्त एव त्विह सम्बन्धी ।
तथाहि अयमत्र पदान्वयः ।
अनुमानमेकदेशदर्शनादेकदेशान्तरे बुद्धिरिति ।
अतः कस्यैगदेशस्येत्याकाङ्क्षायां स एवैकदेशो ज्ञातसम्बन्धस्येति विशेष्यते ।
ननु दर्शनोपसर्जनत्वादेकदेशो न विशेषणमर्हति ।
न ह्युपसर्जनं पदं पदान्तरेण सम्बध्यते ।
न हि भवति पुरुषं प्रत्युपसर्जनीभुतस्य राज्ञः ऋद्धस्य राजपुरष इति विशेषणम् ।
उच्यते ।
कनोपसर्जनत्वदसम्बन्धः ।
क आकाङ्क्षितं हि पूरणसमर्थमुपसर्जनेनापि सम्बध्यत एव ।
अत्रैकदेशदर्शनादित्युक्तेऽस्ति कस्यैकदेशस्येत्याकाङ्क्षा ।
अर्थसम्बन्धेऽप्याकाङ्क्षैव हेतुः ।
उपसर्जनसंज्ञा तु"उपसर्जनं पूर्वम्(२-२-३०) इति ।
पूर्वेप्रयोगसिद्ध्यर्थैव ।
अत एव हि कस्य गुरुकुलमिति व्यवहारोपपत्तिः ।
तत्र हि कुलोपसर्जनस्यैव गुरोः कस्येति विशेषणम् ।
अपि च दर्शनक्रियाकर्मणो दृश्यस्यैकदेशस्य प्राधान्यमप्राधनस्य सापेक्षस्यापि पदान्तरेण सम्बन्धो दृष्टः , यथा राजपुरुषऽशोभन इति ।
अत उपपन्नं ज्ञातसम्बन्धस्यैकदेशदर्शनादिति ।
नोपपन्नम् ।
उक्तं हि गुरुणैव-"नोपसर्जनं पदं पदान्तरेण समबध्यते ऋद्धस्य राजपुरुष इतिवत्"इति ।
न च परिहृतम् उपसर्जन ।


प्रमाता ज्ञातसम्बन्ध एकदश्यथवोच्यते ।
कर्मधारयपक्षो वा सम्बन्धिन्येकदेशता ॥ ५,४.२ ॥
विशेषणे हि ऋद्धी राजानं विशिष्यात् ।
यत्तूक्तम्- आकाङ्क्षा सम्बन्धे हेतुः इति तदयुक्तम् ।
आकाङ्क्षावतोऽप्ययोग्यत्वमुक्तम् ।
अथोच्येत एकवाक्यतायामयं दोषः एकदेशदर्शनाद एकदेशान्तरे बुद्धिरनुमानम् ।
अतः पर्यवसिते वाक्ये कस्यैकदेशस्येत्याकाङ्क्षायां वाक्यगतमेकदेशस्येति पदं ज्ञातसम्बन्धस्येति विशेष्यत इति ।
तन्न ।
आकाङ्क्षावाक्यस्याश्रवणात् ।
स एवानुपात्तान्यपदार्थदोषः ।
यत्र तूपादानं तत्रोपसर्जनत्वादयोग्यत्वमुक्तम् ।
अपि च वाक्यभेद
एवात्र दोषः ।
यच्च दर्शनं दृश्यप्रधानमित्युक्तं तदप्ययुक्तम् ।
उत्तरपदार्थप्रधानत्वात् तत्पुरुषस्य ।
न च वास्तवं गुणप्रधानभावमाश्रित्य पदान्तरसम्बन्धो दृष्टः ।
राजपुरुषेऽदर्शनात् ।
ननु शाब्दमेवैकदेशस्य प्राधान्यं गम्यते ।
कृद्योगलक्षणा हीयं कर्मणि षष्ठी ।
न ।
अश्रवणात् ।
नहि समासे षष्ठी श्रूयते ।
न चाश्रूयमाणा स्वार्थमभिधत्ते ।
किन्तु निषादस्थपतिवल्लक्षणया तदर्थोऽवगम्यते ।
श्रुत्या तु दृश्यावच्छिन्नं दर्शनमेव प्रधानतयावगम्यते ।
उत्तरपदार्थप्रधानानुशासनमप्यत एव ।
समासात् तथैवावगतेः ।
नच वास्तवं प्राधान्यमुपसर्जनस्य पदान्तरसम्बन्धे सापेक्षसमासे वा हेतुः ।
कस्य गुरुकुलमिति नित्यसापेक्षत्वाद् गुरुशब्दस्य नासामर्थ्यं दोषः न ह्यनन्तर्भाव्य प्रतिसम्बन्धिनं गुर्वर्थोऽवगम्यते ।
सम्बन्धिशब्दत्वात् तस्य ।
अतोऽपेक्षितार्थान्तर एवासौ वृत्तावनुप्रविशतीति न दोषः ।
न त्वेवमेकदेशशब्द इति वैषम्यम् ।
अतो दुरधिगमो ज्ञातसम्बन्धसमासार्थः ।
अत आह-प्रमातेति ।
अयमभिप्रायः - सत्यम् ।
एकदेशो नान्यपदार्थः ।
किन्तु प्रमातैव बुद्धिसम्बन्धोपस्थापितो ज्ञातसम्बन्ध इति निर्दिश्यते ।
गम्यमानमपि चाव्यभिचारिणा चिह्नेनोपस्थापितं विशेष्यत एव ।
न हि नमः पिनाकपाणय इत्यनयपदार्थानुपादानं दोषाय ।
अपि च ऐन्द्रवायवं गृह्णातीति बहुव्रीहिसमासार्थो देवतातद्धितः कथमाहृत्यानुपात्ते सोमरसे वर्तते ।
अथ सोमं क्रीणाति अभिषुणोति पावयतिधारया गृह्णातीति प्रकरणवगतः सोमरसोऽन्यपदार्थ इत्युच्यते ।
इहापि बुद्ध्यविनामावावगतस्य प्रमातुर्बहुव्रीह्यर्थत्वं नानुपपन्नम् ।
पूर्वपक्षस्थितेन वार्तिककृता गम्यमानं न विशेष्यत इति यदुक्तं तदेव दुर्लभलब्धमिवमन्वानैः कैश्चिद्वल्गितमित्युपेक्षणीयमेव ।
सिद्धान्ते हि गम्यमानाया एव व्यक्तेर्गावौ गावः शुक्लो गौरिति च विभक्त्या शब्दान्तरेण च विशेषणं भविष्यति ।
मञ्चाः क्रोशन्तीति च ।
आह च-
जातेरस्तित्वनास्तित्वे न हि कश्चिद विवक्षति ।
नित्यत्वाल्लक्ष्यमाणाया व्यक्तेस्ते हि विशेषणे॥
इति ।
धूमोऽयं ज्वलतीति न भवति ।
अनभिधानात् ।
न हि लोकः पर्यनुयोक्तुमर्हति ।
यस्तु वैयात्याद् धूमशब्देनाग्निं लक्षयित्वा तथा प्रयुयुङ्क्षति न तं निवारयामः ।
नन्वेवं प्रमातरि ज्ञातसम्बन्धे सति नैकदेशो विशेषित इति व्यापककैकदेशदृशो व्याप्यस्मृतिरनुमानमापद्येत ।
न त्वेतदिष्टम् ।
व्याप्याद्धि व्यापकज्ञानमनुमानम् ।
ज्ञातसम्बन्धस्यैकदेशस्येति सम्बन्धे स्यादपि विशिष्टैकदेशलाभः ।
तत्र हि ज्ञातसम्बन्धस्यैकदेशस्येति षष्ठ्या व्याप्य एव सम्बन्धी प्रतिपाद्यते ।
सर्वत्र हि व्याप्य एव हि षष्ठी दृष्टा ।
उच्यते ।
उक्तमस्माभिर्नेदमलोकिकं किञ्चित् प्रमाणानां स्वरूपमुपवर्ण्यते ।
लोकप्रसिद्धमेव त्वपरीक्षाप्रतिपादनार्थं स्वरूपमनूद्यते लोके हि नियाम्यैकदेशदर्शन एव नियामकैकदेशज्ञानमनुमानमिति प्रसिद्धमिति ।
असत्यपि हि विशेषणे विशिष्टैकदेशो लभ्यते ।
अपि चासन्निकृष्टेर्ऽथ इति वदति ।
न चव्यापकदृशः साहचर्यमात्रात् व्याप्यस्म-तिरसन्निकृष्टविषया ।
पूर्वप्रमाणानधिकार्थाविषयत्वात् स्मतेः ।
व्याप्यादेव त्वनुभूतपूर्वनियमाद् व्यापकविशिष्टः पर्वतादिरवगम्यते ।
अत उपपन्नो विशिष्टैकदेशलाभ इति ।
यत्तु ज्ञातसम्बन्धस्यैकदेशस्येत्यत्र षष्ठ्या विशेषप्रतिपादनमुक्तम् ।
तदयुक्तं व्यापकादपि षष्ठ्युत्पत्तेः ।
भवति हि कृतकत्वमनित्यताया हेतुरिति व्यवहारः ।
व्यापिका चानित्यता कृतकत्वस्य ।
तस्मादविशेषितोपादानेऽपि व्याख्यानतः सम्बन्धविशेषा(देक)देशविशेषलाभो नानुपपन्नः ।
भवति हिऽव्याख्यानतो विशेषप्रतिपत्तिर्न तु सन्देहादलक्षणम्ः इति सूक्तं प्रमाता ज्ञातसम्बन्ध इति ।


द्वयं वा ज्ञातसम्बन्धमुपलब्धं परस्परम् ।
तस्यैकदेशशब्दाभ्यामुच्येते समुदायिनौ ॥ ५,४.३ ॥
व्याख्यानान्तरमाह- एकदेशीति ।
एकदेशौ हि नैकदेशिनमन्तरेण स्यातामिति आक्षिप्तस्यैकदेशिनो युक्तमन्यपदार्थत्वम् ।
नन्वेवं ज्ञातसम्बन्धस्यैकदेशिनो य एकदेशस्तस्यैकद्देशस्य दर्शनादित्युच्यमाने स एव दर्शनोपसर्जनत्वादेकदेशस्यैकदेशिनः सम्बन्धः सम्बन्धिविशेषापेक्षस्य वा समासदोषः प्रसज्यते ।
भवेदेतदेवम् ।
यद्येकतदपि परम्परया वाजपेयस्य यूप इतिवदेकदेशिनो भवत्येव ।
कः पुनरत्रैककदेशी ज्ञातसम्बन्धः पक्षः सपक्षो वा ।
न तावत् पक्षः ज्ञायमानसम्बन्धसकृद्दर्शननिर्ग्राह्या ।
भूयोभिस्तु दर्शनैः पूर्वपूर्वावगतसकलदेशकालविविक्तधूमवन्मात्रस्याग्निमत्तया व्याप्तिवधारिता ।
न पुनरत्रायामिदानीं वा धूमवानग्निमानिति ।
अतः पक्षैकदेशिनोऽपि सामान्यतो धूमवत्तौपाधिकसम्बन्धो ज्ञात इति स एव ज्ञातसंबन्धः ।
सामान्यतो गृहीतेऽपि देशादि एकदेश्यैकदेशौ चाश्रयाश्रयिणावभिमतौ ।
पुनवयवावयविनाविति द्रष्टव्यमिति ॥१॥
कर्मधारयसमासो वायमित्याह- कर्मधारयेति ।
अयमर्थः - ज्ञातश्चासौ संबन्धश्चेति कर्मधारयोऽयम् ।
अत्र च पक्षे संबन्धिनि गम्ये गमके चैकदेशता ।
कथं सम्बन्ध्याधारस्य सम्बन्धस्य सम्बन्धिनावेकदेशौ ।
न हि भूधराधारस्य धूमस्यैकदेशो
गिरिः ।
आधेयमेव तु धूमस्तदेकदेशतया मन्यते ।
उच्यते ।
भवत्याधारांशेऽप्येकदेशवाचोयुक्तिः ।
यथा अवयव्याधारेष्ववयवेषु च समूहिष्विति निवद्यम् ॥२॥
द्वयं वान्यपदार्थ इत्याह- द्वयं वेति ।
सम्बन्धग्रहणकाले परस्परसम्बन्धमुपलब्धं व्याप्यव्यापकद्वयं ज्ञातसम्बन्धमुच्यते, तस्य च समुदायिनावेकदेशौ ।
यथा चैतदेवं तथा प्रगेवोक्तमिति ।
किं पुनः कर्मधारयपक्षे द्वयान्यपदार्थ्वे वा प्रमेयम् ।
न तावत् सम्बन्धसमुदायावेव ।
तयोः पूर्वमेवावगतत्वात् ।
अधुना च धर्मधर्मिविभागेनानवगमात् ।
न चान्य एकदेशी ।
तस्यानुपादानात् ।
न चैकदेशाभ्यामाक्षेपः ।
सम्बन्धसमुदायनिराकाङ्क्षत्वात् ।
न च स्वतन्त्रैकदेशदर्शनात् स्वतन्त्रैकदेशान्तरे ज्ञानमनुमानं, सिद्धत्वात् ।
वक्ष्यति हि न धर्ममात्रं, सिद्धत्वादिति ।
अत्राभिधीयते- अयमत्रार्थो ज्ञातस्य सम्बन्धस्य ज्ञातसम्बन्धस्य वा द्वयस्य क्वचिदेकदेशदर्शनात् तत्रैवैकदेशान्तरे बुद्धिरनुमानमिति ।
कुत एतत् ।
असन्निकृष्टग्रहणात् ।
न हि स्वतन्त्रैकदेशोऽसन्निकृष्टः ।
क्वचिदेव पर्वतादावेकदेशोऽसन्निकृष्टो भवति ।
तत्रानवगतपूर्वत्वादिति किमनुपपन्नमिति ।
कः पुनरत्र सम्बन्धोऽनुमानाङ्गमिष्यते ।
अविनाभावस्तादात्म्यतदुत्पत्तिनिमित्तक इति केचित् ।
एवं हि तैरुक्तम् ।
"कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥"
इति ।
न हि विपक्षसपक्षयोरदर्शनाद् दर्शनाद्वाविनाभावसिद्धिः ।
तेनानियतस्यापि तत्र वृत्तेः सम्भवात् ।
किञ्चिदविपक्षव्यावृत्त्या च सर्वविपक्षव्यावृत्त्यासिद्धेः ।
सर्वविपक्षाणां च युगपद् ग्रहीतुमशक्तेः ।
किन्तु अग्न्यादौ सति धूमादेर्भावादसति चाभावात् तदायत्तस्वभावो धूमादिरिति विदिते तदविनाभावः सिद्ध्यति ।
तत्कार्यस्य तमन्तरेणात्मलाभाभावात् ।
तदत्राग्नौ दर्शनमितरत्रादर्शनं तदुत्पत्तौ हेतुः ।
ततोऽविनाभावसिद्धिः ।
तादात्म्येऽपि तत्सिद्धिः तं विना भवतस्तादात्म्यानुपपत्तेः ।
नन्वेवंविधान्वयविरहिणो गन्धन्न रूपरसादयोऽनुमीयेरन् ।
न च खलु तस्य रूपमात्मा ।
न च कारणमिति कथं ततस्तत्सिद्धिः ।
श्रूयतां यथा सिद्ध्यति ।
रसादेव हि स्वहेतावग्नाविव धूमादनुमीयमाने समसामग्रीकेन्धनविकारवद्रूपावगतिरिति नानुपपत्तिः ।
यथाहु-
"एकसामग्र्यधीनस्य रूपादे रसतो गतिः ।
हेतुधर्मनुमानेन धूमेन्धनविकारवत् ॥"
इति ।
ननु युक्तेन्धनविकारे तस्य धूमस्य चैकाग्निकारणात्वादवगतिः ।
न तु रूपरसावेककारणकौ ।
कारणरसा हि कार्ये रसमारम्भन्तेकारणरूपाणि च कार्ये रूपम् ।
तत् कुतः समानकारणता ।
नैककारणतयैकसामग्र्यधीनत्वम् ।
किन्तु रसाद् रसहेतुरनुमीयमानः प्रवृत्तिरूपजननश्कतिरूपोपादानकारणसहकृतोऽनुमीयते ।
तथाविधस्यैव कारणत्वात् प्रवृत्तिशक्तिना च कारणेन रूपं जन्यत इति रूपसिद्धिः ।
तदिदमनुपपन्नम् यत् तावत् कार्यं कारणेन विना न भवतीति ततस्तज्ज्ञानमुक्तम् ।
तदयुक्तम् ।
कथं हि कारणेन विना कार्यमेव न भवति इत्येतदेवावसेयम् ।
तद्विना भवतो नित्यं सत्त्वसत्त्वं वा स्यात् ।
ततश्च कार्यतैव हीयेत ।
उक्तं हि तैः -
"नित्यं सत्त्वमसत्त्वं हेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥"
इति ।
अपेक्षातः कादाचित्कत्वमनपेक्षं तु सदसद्वा स्यात् ।
गगनशशविषाणवदिति चेत् ।
यद्येवमन्योऽयं कार्यकारणभावात् स्वभावनियमः यदनपेक्षं तन्नित्यं सदसद्वा भवतीति ।
यच्च रसाद्रूपावगतिरेकसामग्र्यधीनत्वादित्युक्तम् ।
तदप्युक्तम् ।
यद्यपि प्रवृत्तिशक्तिरूपोपादानकारणसहकृतो रसहेतुरवगतः स्वकार्याद्, रूपं तु कुतोऽवगम्यते ।
प्रवृत्तिसामर्थ्यात् कारणादिति चेत् ।
ननु नादो रूपस्य कार्यं नात्मेति कथं तदगमे हेतुः ।
प्रवृत्तिशक्तेः कारणस्य कार्याव्यभिचारदिति चेत् ।
न ।
तर्हि कार्यतदात्मनोरेवाविनाभावः कारणेऽपि (भावाद् ? भवेत् ) भवत्विति चेत् ।
न ।
अग्नेरपि धूमानुमानप्रसङ्गात् ।
अस्त्विति चेत् ।
अतन्त्रं तर्हि कार्यत्वमनुमाने स्यान्मतम् ।
न प्रवृत्तिसामर्थ्यात् कारणाद् रूपानुमानम् ।
अपि तर्हि रूपवद्रूपकारणसहकारिणा रसकारणेन रसो जन्यते ।
सहकारिकारणमपि सविशेषणं कारणमेवेति रसादितरेतरानुगृहीतं
कारणचक्रमनुमास्यत इति ।
तन्न ।
कार्यकारणयोरयौगपद्याद्रूपकारणस्य तद्वतानुपपत्तिः ।
पारिशेष्याद् (दूष्याद्?) रूपमेव सहकारीति वाच्यम् ।
तत्र च वृथा तत्कारणानुमानपरिश्रमः ।
रूपं सहकारीत्यपि
नानिर्णीतरूपरसाविनाभावोऽनुभवितुमुत्सहते ।
प्रागेव तु तन्निर्णये वृथा रूपतद्धेत्वोः सहकारित्वकल्पना ।
सम्बन्धो व्याप्तिरिष्टात्र लिङ्गधर्मस्य लिङ्गिना ॥३॥
अपि चानुभवविरुद्धमेवेदम् ।
न खलु रसमुपलभ्य तद्धेत्वनुमानमुखेन रूपावगतिर्लौकिकानाम् ।
अपि तर्हि रूपरसयोः साहित्यनियमात् सहसैव रसाद् रूपमनुमीयते ।
अपि च कार्यकारणभूतयोरेव बहुलमनुमानव्यवहारो दृश्यते इत्यनादृत्यं कार्यत्वमव्यभचारे ।
तादात्म्यमपि मेयाभावप्रसङ्गाद्धेयमेव ।
किं हि वृक्षात्मनि शिंशपात्वे विदिते मेयमवशिष्यते ।
निर्भागं वस्तु, भागावग्रहाणां देशादिभेदेऽप्यबाधितानां सम्यक्त्वात् ।
काल्पनिकभेदाश्रयत्वाच्चनुमानस्य वास्तवमैकात्म्यमनङ्गम् ।
वृक्षव्यवहारोऽनुमीयत इति चेद् कथमनात्मव्यवहारऽशिंशपात्वादनुमीयते ।
तादात्म्ये वृक्षवदननुमानप्रसङ्गात् ।
व्यवहारयोग्यतायामप्येवमेविति यत् किञ्चिदेतत् ।
एवमेव वैशिषिकादिसमयसिद्धा अपि कार्यकारणभावादयः सम्बन्धप्रकाराः प्रयुक्ता वेदितव्याः ।
तेऽपि ह्यनियताननुमानोत्पत्तिकारणम् ।
अस्तु तर्हि नियमो वानुमानाङ्गम् ।
न ।
प्रमाणाभावादनवगतेः ।
न तावदापातजं प्रत्यक्षमस्यावधारणक्षमम् ।
ईक्षते खल्वयं विस्फारिताक्षः सहसा महानसे धूममग्निना सहितम् ।
न तु जानाति नियतोऽयमनेनेति ।
दुरधिगमो हि सर्वभावानां स्वभावनियमः ।
न तमुन्नेतुमुत्सहन्ते झटिति महान्तोऽपि ।
न हि निर्विकल्पकागोचरे विकल्पः प्रमाणम् ।
तत्पुरः सरत्वात् तस्य ।
स्यादेतत् ।
देशादिभेदेष्वव्यभिचारात् स्वभावनियमोऽवधार्यत इति ।
केनावधार्यते सर्वदर्शनानामन्वयमात्रे व्यापारात् ।
अथ पूर्वपूर्वज्ञानजनितभावनासचिवमन्तिममनेनायं नियत इति भवत्यालोचनाज्ञानम् ।
ततो विकल्पाः प्रवर्तिष्यन्त इति ।
नैतदेवम् ।
इन्द्रियव्यापारसापेक्षं हि प्रत्यक्षम् ।
न च सहभावदर्शनादन्यत्र बहिरिदन्द्रियव्यापारः ।
न च बहिर्विषयवेदने तन्निरपेक्षमन्तऽकरणं प्रवर्तते ।
अपि च निरूपितरूपा अपि भावा देशादिभेदेष्वन्यथाभवन्तोऽनूभूयन्त इति न स्वभावनियमं प्रत्याश्रयितुमुचितं प्रामाणिकानाम् ।
तदाहु-
"देशकालादिरूपाणां भेदाद् भिन्नासु शक्तिषु ।
भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥"


व्याप्यस्य गमकत्वं च व्यापकं गम्यमिष्यते ॥ ५,४.४ ॥
यो यस्य देशकालाभ्यां समोन्यूनोऽपि वा भवेत् ।
स व्यापोव्यापकस्तस्य समोवाभ्यधिकोऽपि वा ॥ ५,४.५ ॥
तेन व्याप्ये गृहीतेर्ऽथे व्यापकस्तस्य गृह्यते ।
न ह्यन्यथा भवत्येषा व्याप्यव्यापकता तयोः ॥ ५,४.६ ॥
इति तस्माद् वक्तव्योऽनुमानाङ्गभूतः सम्बन्धः ।
अत आह-सम्बन्धैति ।
व्याप्तिर्हि साहित्यनियममपदिशति ।
तद्दर्शिनो ह्मेकदेशदेर्शनादेकदेशान्तरे बुद्धिरुत्पद्यते, अतः सामान्यवचनोऽपि सम्बन्धशब्द उपरितनसमभिव्याहारादत्रानुमानलक्षणग्रन्थे
विशेषपरो भवति ।
उपरि चास्यावधारणे प्रमाणं वक्ष्यत इत ॥३॥
यदि ज्ञातसम्बन्धस्यानुमानं स तर्हि सम्बन्धो सम्बनधे द्व्याश्रय इत्युभयानु माने लिङ्गं स्यादत आह-व्याप्येति ॥४॥
अत्र कारणमाह-यो यस्येति द्वयेन ।
सः - समन्यूनदेशकालो हि व्याप्यो भवति ।
पुर्वं तावद् यत्रोभयोरपि धर्मयोर्व्याप्यव्यापकत्वम् ।
यथा परस्तादुदाहरिष्यते ।
उत्तरस्तु यथा धूमादिः , स हि प्रायेणाग्निदेशकालवर्ती भवति ।
सकलतदीयदेशकालाव्याप्तेः ।
व्यापकस्तु समाधिकदेशकालः ।
अत्रापि पूर्वोक्त एव पूर्वः ।
उत्तरस्तु यथाग्निरेव धूमस्य ।
स हि तस्य देशकालौ तावद् व्याप्नोत्येव ।
असत्यपि धूमे भवन् देशकालाभ्यामधिकोऽप्यभिधीयते ।
यतश्चानयोरीदृशं स्वरूपं नान्यथा व्याप्यव्यापकतात्मकता,तेन कारणेन व्याप्य एव गृहीते व्यापकस्य ग्रहणं भवति यदसौ तं विनापि न भवत्येव ।
न ह्यसावग्निरिव धूमस्याग्नेर्देशकालावतिक्रम्यापि भवति ।
येन तं विनापि भवस्तं न गमयेत् ।
अग्निस्त्ववंविध इति नासौ धूमस्य गमको भवति ।
ननु चायं विशेषोज्ञातसम्बन्धशब्दान्नावगम्यते ।


व्यापकत्वगृहीतस्तु व्याप्यो यद्यपि वस्तुतः ।
आधिक्येऽप्यविरुद्धत्वात् व्याप्यं न प्रतिपादयेत् ॥ ५,४.७ ॥
विस्पष्टं दृष्टमेतच्च गोविषाणित्वयोर्मितौ ।
व्याप्यत्वाद् गमिका गावो व्यापिका न विषाणिता ॥ ५,४.८ ॥
स हि सम्बन्धज्ञानमात्रमङ्गतया दर्शयति, न व्याप्यतामिति कुतो विशेषलाभः ।
उक्तमत्र लौकिकलक्षणानुवादेनापरीक्षाप्रतिपादनार्थमिदं भाष्यम् ।
लोके च व्याप्यैकदेशदर्शिन एव व्यापकज्ञानमनुमानमिति सिद्धम् ।
नह्यन्यथेति चापकृष्य पूर्वेण योजयित्वा तेनेति तदुपजीवनेन व्याख्येयमिति ॥६॥
ननु व्यापकादपि व्यापसंवित्तिर्दृष्टा ।
अनित्यत्वादिव कृतकत्वस्य ।
भवति हि भावानामानत्यत्वात् कृतकत्वानुमानम् ।
व्यापकं चानित्यत्वं कृतकत्वस्य ।
अतो व्यापकं गम्यं व्याप्यं गमकमित्यव्यापकमत आह-व्यापकत्वेति ।
अययमभिप्रायः ।
सत्यं व्यापकस्य गमकत्वम् ।
न तु व्यापकत्वगृहीतस्य ।
तेन हि रूपेण गृहीतोऽसौ व्यापाद् देशकालाधिक्येऽपि न विरूध्यते ।
ननु व्याप्यतापि तस्याति ।
अस्तु नामवस्तुततस्तत्तु रूपं न गृहीतमिति कथं गमकत्वम् ।
अवगते तु ताद्रूप्ये तेनैवगमकत्वं न व्यापकतया ।
अतो व्याप्यतैवानुमानाङ्गं न व्यापकतेति सूक्तमिति ॥७॥
व्याप्यत्वमङ्गं न व्यापकत्वमित्येतदेवासङ्कीर्णोदाहरणेन दर्शयतिदुपलक्षितम् ।
यथा व्याप्यं गमकं व्यापकं गम्यमिति ।
गोविषाणित्वयोर्हि व्यापिका हि सा ।
मितौ- अनुमाने ।
गोविषाणित्वयोरयं गम्यगमकविवेको दृष्ट इत्यर्थः ॥८॥


तेन यत्राप्युभौ धर्मौ व्याप्यव्यापकसंमतौ ।
तत्रापि व्याप्यतैव स्यादङ्गं न व्यापिता मितेः ॥ ५,४.९ ॥
तेन धर्म्यन्तरेष्वेषा यस्य येनैव यादृशी ।
देशे यावति काले वा व्यापता प्राङनिरूपिता ॥ ५,४.१० ॥
एवमसङ्करे गम्यकगमकविवेकाद् यत्रापि व्याप्तिसङ्करो भवति तत्रापि व्याप्यत्वमेव गमकत्वे कारणमिति निष्कृष्यत इत्याह- तेनेति ॥९॥
ननु व्याप्तिरनुमानाङ्गमित्युक्तम् ।
कस्य पुनरियं संयोगिनः समवायिनः सम्बन्धिसम्बन्धिनो वा ।
न ह्यत्र व्यवस्थामुपलभामहे ।
सर्वेषामप्यनुमापकत्वात् ।
तद् यदि संयोगी व्याप्यः ।
रसाद्रूपानुमानं न स्यात् ।
अथ समवायी धूमादग्न्यनुमानम्, सम्बन्धिसम्बन्धिनश्च पित्रोर्ब्राह्मणत्वात् पुत्रस्य ब्राह्मणत्वानुमानमित्यादि दर्शयितव्यम् ।
अपि च व्याप्तिरित्यन्वयोऽभिधीयते ।
उपश्लेष इति यावत् ।
न चासौ भूमौ प्रतिष्ठितेनाग्निनागगनगतस्य धूमाग्रस्य सम्भवति ।
नच भूमिष्ठां शङ्कुच्छायां दिवि वर्तमानः ऋक्षोदयोऽवेति ।
व्याप्तिश्च कस्यचित् केनचिद् भवन्ती देशतो वा स्यात् कालतो वा ।
पूर्वस्मिन् कल्पे भाविः सवितुरुदयस्याद्यतनार्कस्यैवोदयात् अष्टौ यामानतिक्रम्यानुमानं न स्यात् ।
परस्मिन् धूमादग्न्यनुमानमित्यादि पर्यनुयोक्तव्यम् ।
अत आह-तेनेति द्वयेन ।
येन कारणेन यस्यैव संयोगादीनामन्यतमस्य, येनैव-तेषामन्यतमेन, यादृशी-उपश्लिष्टेनेतरेण वा व्याप्यता प्रागवगता, सैवानुमाने कारणं भवति ।
नह्युश्लेषो व्याप्तिः ।
उक्तं हि-"सम्बन्धनियमोऽसाव्" इति ।
स चानुपश्लिष्टेनापि भवति ।
यो हि यस्मिन् सति भवति, असति च न भवति, तेन नियम्यत इत्युच्यते ।
किमत्रोपश्लेषेण ।
न चात्र देशादीनामन्यतमविवक्षा ।
यावति हि देशे काले वा वर्तमानस्य यस्य वाप्यता निरूपितपूर्वा, यावद्देशकालभाविना व्यापकेन तस्य व्यापकांशस्य तावत्येव देशादौ वर्तमानस्य स व्याप्यांशस्तादृगेव, गगनादिवर्तिधर्म्यन्तरे दृष्टान्तधधर्म्यपेक्षया साध्यधर्मिणि दृष्टः सन् प्रतिपादको भवति ।


तस्य तावति तादृक् स दृष्टो धर्म्यन्तरे पुनः ।
व्याप्यांशो व्यापकांशस्य तथैव प्रतिपादकः ॥ ५,४.११ ॥
भूयोदर्शनगम्या च व्याप्तिः सामान्यधर्मयोः ।
ज्ञायते भेदहानेन क्वचिञ्चापि विशेषयोः ॥ ५,४.१२ ॥
नियमो ह्यनुमानाङ्गम् ।
स च सर्वेषामविशिष्ट एव किमवान्तरविभागेन ।
देशे यावतीत्यनतिदूरमधिरूढस्य धूमादेर्दूरतरवर्तिनोऽपि नदीपूरस्य व्याप्तिं दर्शयति ।
शङ्कुच्छायायाश्च नितान्त(दूर)वर्तिना ऋक्षोदयेन ।
यावति काल इति
च भाविनः सवितुरुदयानुमानादावपि व्याप्तिं दर्शयतीति ॥११॥
नन्वस्यां व्याप्तौ न किञ्चित् प्रमाणमस्तीत्युक्तमत आह-भूयोदर्शनेति ।
कथं पुनर्भूयोदर्शनगम्या व्याप्तिः ।
किं हि तत्र
प्रत्येकमेव भूयांसि दर्शनानि प्रमाणमाहोस्विद् दर्शनप्रभवम् ।
तत्र न तावत् प्रत्येकसन्दर्शनसमधिगम्या व्याप्तिरित्यवसितमेव ।
नो खल्वस्य सहसाग्नधूमावग्निशरणे विलोकयमानस्याग्निना व्याप्तो धूम इति मतिराविरस्ति ।
न चाननुभूतमविकल्पकेन सविकल्पकेनापि विषयीक्रियते ।
न चानेकर्शनारब्धो दर्शनसमुदायः कश्चिदस्ति, तस्य दर्शनातिरेकेणाभावात् ।
निरुद्धानागतप्रत्युत्पन्नानां चासंहन्यमानत्वात् ।
पुरस्तनानेकदर्शनाहितसंस्कारसहायमन्तिमं तु दर्शनं कतरत् प्रमाणमिति चिन्तनीयम् ।
न तावत् प्रत्यक्षम् ।
तद्धि द्वेधा विभक्तम् ।
आलोचनाज्ञानं तत्प्रभवं च विकल्पसम्भिन्नम् ।
न तावत् पूर्वं व्याप्तेरवधारणे समर्थम् अप्रतिसन्धानात् ।
व्याप्तेश्चायमनेन प्रतिबद्ध इति प्रतिसन्धानात्मकत्वात् ।
नच तदनपेक्षमुत्तरमात्मानं लभते ।
यञ्चेदं संस्काराणां साचिन्यम्, इदमपि न चतुरश्रम् ।
संस्काराः खलु यद्वस्तुरूपोपलम्भसम्भावितात्मानो भवन्ति, तत्रैव स्मृतिमात्रमादधति ।
न पुनरर्थान्तरग्रहणाय कल्पन्ते ।
प्रत्यक्षे च व्याप्तिप्रमाणे कथमतफलेभ्यः पुंविशेषेषु वैदिककर्मानुमानम् ।
न च तत्तत्कर्मनियमस्तस्य तस्य पश्वादेः फलस्यापरोक्षमीक्ष्यते अतीन्द्रियत्वात् ।
यञ्चेदमध्वरेवितते वैदिकादङ्गात् प्रधानाञ्चापूर्वानुमानम्, तदपि न स्यात् ।
व्याप्त्यवधारणे प्रमाणाभावात् ।
मेघाभावाच्च वृष्ट्यभावानुमानमित्यादि दर्शयितव्यम् ।
अतो न तावत् प्रत्यक्षा व्याप्तिः ।
न चानुमानिकी ।
प्रमाणाभावादेव तदधीनात्मलाभस्य तस्यानुपपत्तेः ।
शब्दस्त्वनागतोत्पाद्यभावविषयो न सिद्धव्याप्तिकॢप्तये प्रभवति ।
उपमानमपि प्रमाणान्तरप्रसिद्धवस्तुसादृश्यमात्रविषयं न वस्तुनः सतां प्रमिणोति ।
अर्थापत्तिरप्यन्यथानुपपद्यमानार्थविषया दर्शनप्रभवा ।
न च सहितावधारितयोरसत्यां व्याप्तौ किञ्चिदनुपपन्नं नाम॥
ननु कार्यता नोपपद्यते ।
कथं हि कार्यमसति कारणे भवति ।
भूयोदर्शनसमधिगम्यं च कार्यत्वमिति भूयोदर्शनप्रसूतकार्यत्वावगमान्यथानुपपत्तिप्रमाणिका कारणव्याप्तिसिद्धिः ।
कथमिदानीमकार्यकारणभूतेषु व्याप्तिः सेत्स्यति ।
भूयांसि दर्शनान्येवासत्यां व्याप्तौ नोपपद्यन्त इति चेत्, किं हि तेषां व्याप्तिमन्तरेण न सम्भवति स्वरूपं, तावच्च कारणसामग्रीकं हि वः सिद्धम् ।
स्वगोचरप्रकाशनमपि स्वत एव विषस्यापि स्वप्रमाणपरिच्छन्नस्य न किञ्चिदनपपन्नं पश्यामः ।
न चासौ प्रमाणान्तरेण प्रतिहन्यते ।
यन्नोपपद्येत ।
न च भावस्वरूपा व्याप्तिरभावेन प्रमीयत इति साम्प्रतम् ।
तत्रासावभावप्रमाणिका न स्यादेव॥
स्यान्मतम्-केयमन्या धूमस्याग्निना व्याप्तिरनग्निनिवृत्तेः ।
सा चाभावरूपत्वादभावेन प्रमीयत इति युक्तमेव ।
तन्न ।
वस्तुरूपत्वात् ।
वस्तुरूपो हि स्वभावो धूमादेः केनचिन्नियतः ।
इतरया व्यावर्तते खल्वयं शशविषाणाभावादपीति शशविषाणेनापि नियम्येत ।
कथमसता नियम्यत इति चेत् ।
को दोषः ।
व्यावृत्तिर्हि नियमः , साचास्तीति किं शशविषाषस्य सत्त्वासत्त्वाभ्याम् ।
यदि मतं विपक्षव्यावृतत्परिपन्थी विपक्षः ।
व्याप्यते च शशविषाणेन तदभावान्निवृत्तो धूमैत्यनग्निरिव तदभावोऽपि विपक्ष एव ।
अपि चाशेषविपक्षाणामुपलब्ध्ययोग्यत्वान्न तेभ्यो निवृत्तिरभावेन शक्यतेऽवगन्तुम् ।
योग्यप्रमाणाभावो ह्यभावे प्रमाणमिति वक्ष्यते ।
अतो न किञ्चिद् व्याप्तौ प्रमाणम् ।
मानसमिति चेत् ।
न ।
बहिरस्वातन्त्र्यात् ।
तत्रैतत् स्याद्-यद्यपि बहिरिन्द्रियाण्यतीतानागतादिभिर्भावभेदैर्व्याप्तिं ग्रहीतुमसमर्थानि, मनस्तु सकलातीतादिविषयपरिच्छेदसाधारणं प्रतिबद्धसामर्थ्यं क्वचिदिति तदबलभाविना प्रत्यक्षेण व्याप्तिर्ग्रहीष्यत इति ।
तञ्च नैवं, बहिरस्वातन्त्र्यान्मनसः ।
नो खल्वपि बहिर्विषयबोधे मनः स्वतन्त्रमिति वर्णितम् ।
तथाहि मनसः सार्थमित्यत्र ।
स्वतन्त्रे हि बहिरिष्यमाणे मनसि सर्वः सर्वदर्शी स्यात् ।
संस्कारतो व्यवस्थेति चेत् ।
न ।
स्मृतिहेतुत्वात् ।
तत्रैतत् स्यात्-यद्यपि कवलमस्वतन्त्रं मनो बहिर्विषयावधारणे,तथापि पूर्वपूर्वांनुभवजनितसंस्कारसनाथं बहिरपि वर्तिष्यते चक्षुराद्यनुगृहीतमिव रूपादौ ।
अतो नाव्यवस्था ।
तञ्च नैवम् ।
स्मृतिहेतुत्वात् ।
स्मृतिमात्रहेतवो हि पूर्वानुभवप्रभाविताः संस्कारानत्सहन्ते मनसो बहिरवग्रहेऽनुग्रहमाधातुम् ।
स्मृतिविषयान्तराणामपि ग्रहणप्रसङ्गात् ।
अस्ति हि तत्रापि स्मृतिहेतुः संस्कारः ।
स चेद् ग्रहणे क्वचिन्मनसः सहायी भवतीति किं न स्मृतिविषयान्तराण्यपि ग्राह्यतीति यत् किञ्चिदेतत् ।
यस्तु वदति- साहित्यमग्निधूमयोः सम्बन्धः ।
स च प्रथमसमधिगमसमय एव संविदितः ।
अनवच्छिन्नदेशकालश्चाग्निधूमयोः सम्बन्धो भासते ।
न हीदानीमत्र वा तयोः सम्बन्ध इति भवति मतिः ।
अपि तर्हि सन्निहितवर्तमानयोरेवेदन्तया प्रतिभासमानयोर्देशकालौ सम्बन्धश्च तयोर्विशेषणमिमौ सम्बद्धाविति ।
नेदानीमत्र वा सम्बन्ध
इति ।
तदेवमनवच्छिन्नरूपः स्वाभाविक एव संबन्धः सिद्धो भवति ।
स्वाभाविकत्वे च न व्यभिचाराशङ्कोपपत्तिमती ।
किमिदानिमनङ्गभूतमेव भूयोदर्शनम् ।
नानङ्गम् ।
अङ्गं त्वौपाधिकाशङ्कानिराकरणेन ।
वह्निर्हि धूमेन संयुक्तः संवेदितोऽपि कदाचिद्विधूमो दृश्यते ।
तत्रार्द्रेन्धनादिरूपाधिरनुप्रविशति ।
न तु स्वाभाविकोऽग्नेर्धूमेन संबन्ध इति निश्चीयते ।
तद्दर्शनाच्च धूमेऽपि
भवति शङ्का ।
कदाचिदौपाधिकः पावकेनास्यापि संबन्ध इति ।
सा भूयोदर्शनेन निवर्त्यते ।
बहुशोऽपि दृश्यमानस्य धूमस्य नाग्निसंबन्धे कश्चिदुपाधिरूपलभ्यते ।
प्रयत्नेनापि चान्विष्टो न दृष्ट उपाधिर्नास्तीति निश्चीयते ।
तदेवं धूममात्रानुबन्धग्निरिति सिद्धं भवति ।
ततश्चानौपाधिकस्य न व्यभिचाराशङ्केति ।
स वक्तव्यः किमिदानीं साहित्यमात्रमनुमानाङ्गं तन्नियमो वा ।
यदि साहित्यमात्रं तत्तर्हि प्रथमदर्शन एव समधिगतमिति पुनर्धूमदर्शिनोऽविदितव्याप्तेरप्यनुमानं स्यात् ।
अथ तन्नियमः तस्यैवेदं प्रमाणमनुस्रियते कुतः सिध्यतीति ।
न हि प्रथमदर्शिनोऽयमनेन नियत इति मतिराविर्भवन्ती दृश्यते ।
अनवच्छिन्नदेशकालतयावगतः संबन्धः स्वाभाविको भवति, ततो नियम इति चेत् ।
स तर्हि तथाविधः प्रथममेवावगत इति भूयोदर्शनं नापेक्षेत ।
तथा दृष्टस्याप्यग्नेर्धूमसंबन्धो व्यभिचरति ।
तद्दर्शनाञ्च धूमेऽपि व्यभिचाराशङ्का जायते ।
तन्निराकरणायासकृद्दर्शनापेक्षेति चेत्, यद्यनवच्छिन्नस्यापि देशतः कालतो वा कदाचित् कस्यचित् कस्यचिद् वियोगो दृश्यते ।
कस्तर्हि इतरत्रापि समाश्वासः ।
नन्वियमाशङ्का भूयोदर्शनेन निराक्रियत इत्युक्तम् ।
कथं निराक्रियते ।
यदा शतशोऽपि धूमवानग्रिरवगतो विधूमो दृश्यते ।
न चात्र प्रतिनियमः इयदभिर्दर्शनैरव्यभिचारः सिध्यति इति ।
ननु धूमस्याप्यग्निसबन्धे न कश्चिदुपाधिरुपलभ्यते अग्नेरिव धूमसंबन्धे ।
अतः कथमसौ सत्यपि धूमे न भविष्यति ।
न ।
देशादेरेवोपाधित्वेन शङ्क्यमानत्वात् ।
अग्नौ धूमसंबन्धव्यभिचारमुपलभ्याशङ्कते- कदाचिद् धूमस्याप्यग्निसम्बन्धे देशकालाद्युपाधिः स्यादिति ।
दृष्टं हि क्वचिद् देशे खर्जूराणां पिण्डखर्जूरफलत्वम् ।
वृश्चकदंशनस्य च मरणकारणत्वम् ।
तद्देशान्तरे न भवति ।
तद्वत् धूमोऽपि जातु जायेतान्तरेणापि हुताशनं क्वचिदिति शङ्कमाना न तस्य नियममग्निनाध्यवस्यन्ति शतांशेनापि ।
विपक्षाद् व्यावृत्तिऽशङ्कमाना अनुमानोदयं प्रतिबन्धातीति कतरञ्चेदं प्रमाणम्, अनौपाधिकोऽग्निर्धूममात्रानुबन्धीति ।
न तावत् प्रत्यक्षम् ।
साहित्यमात्रोपक्षीणत्वात् ।
नानुमानम् ।
तस्यासत्यां व्याप्तावसम्भवात् ।
व्याप्तिसिद्ध्यर्तं चापरापरानुमानकल्पनायामनवस्थापातात् ।
प्रमाणान्तराणि निराकृतपूर्वाण्येव ।
अतो व्याख्येयमुनुमानाङ्गसम्बन्धावधारणे प्रमाणम्, तद् व्याख्यायते ।
इदं तावत् प्रमाणाभाववादी वक्तव्यः ।
किं खलु व्याप्तिगोचरं ज्ञानं न जायत एव, सन्दिग्धं वा जायते, विपर्येति वा ।
त्रेधा हि परीक्षकैरप्रामाण्यं विभक्तम् ।
प्रकारान्तरासम्भवात् ।
न तावदाद्यः पक्षः ।
संविदव्यवहारविरोधात् ।
दृश्यते हि बहुलं धूममग्नावुपलमानोऽयमनेन नियत इत्यवधारणपुरः सरं ततोऽग्निमनुमाय तदनुरूपं व्यवहरमाणः ।
तन्नासत्यां व्याप्तिसंवित्तावुपपद्येत ।
व्यवहारदर्शनादेव संशयविपर्ययौ निराकार्यौ ।
ताभ्यामेवंविधव्यवहारासम्भवात् ।
अतो न तावदप्रामाण्यम् ।
प्रामाण्यं तु षोढा विभज्यते ।
तद् यथायोग्यं कस्यचित् कस्याञ्चित् व्याप्तसंवित्तौ व्यवस्थापयामः ।
यथैव तावद् धूमस्याग्निना व्याप्तौ प्रत्यक्षस्य ।
न हीह प्रमाणान्तराणि सम्भवन्तीति वर्णितमेव ।
ननु प्रथमदर्शनेऽनवगमात्प्रत्यक्षासम्भवोऽप्युक्त एव ।
अत एव भूयोदर्शनावगम्यत्वम् ।
ननु तान्यपि विकल्प्य दूषितानि प्रत्येकसाहित्ययोरसम्भवात् ।
सत्यम् ।
न प्रत्येकं व्याप्तिरवगम्यते ।
न च दर्शनानि संहन्यन्ते ।
प्राचीनानेकदर्शनजनितसंस्कारसहाये चरमे दर्शने चेतसि चकास्ति धूमस्य वह्निनियतस्वभावत्वं, रत्नवत्त्वमिव परीक्षमाणस्य, शब्दतत्त्वमिव व्याकरणस्मृतिसंस्कृतस्य, ब्राह्मणत्वमिव मातापितृसम्बन्धस्मरणसहकृतस्य, तैलाद् विविक्तमिव विलीनाज्यं रसगन्धसहकृतेन्द्रियस्य ।
न ह्येतत् सर्वमापातान्न प्रतिभातमिति परस्तादपि भासमानमन्यथा भवति ।
न च प्रमाणान्तरत्वमापादयति ।
ननूक्तं न स्मृतेरन्यत्र संस्कारा व्याप्रियन्त इति ।
केन वा संस्काराणां स्मृतेरन्यत्र व्यापार उपेयते ।
स्मारयन्त एव तु ते पूर्वपूर्वावगतमग्निसम्बन्धं धूमस्य व्याप्तिसंविदं जनयितुमभिप्रवृत्तचस्येन्द्रियस्य सहायीभवन्ति ।
आन्तरालिकस्मृतिव्यवहितमपि चेन्द्रियसम्बन्धानुसारि प्रत्यक्षमिति वर्णितम् ।
इन्द्रियसम्बन्धफलापरोक्षावभासानुसारात् ।
न च यत् सहसा न प्रतिभाति तत्पश्चादपि प्रतिभासमानं प्रत्यक्षतां जहाति ।
यथोदाहृत्येष्वेव ब्राह्मणम् ।
ननु न तावदापातजं प्रत्यक्षं व्याप्तौ प्रमाणमिति भणितम् ।
ततपूर्वकं च सविकल्पकमिति कथं तस्यापि प्रामाण्यम् ।
अस्ति वा ब्राह्मणादिप्रत्यक्षे निर्विकल्पकावस्थायां वृद्धादाविव् नरान्तरविविक्ताकारप्रतिभासः ।
येन परस्तात् सविकल्पकं
प्रवर्तते ।
यथा तु तत्र पिण्डमात्रदर्शिनः स्मृतयोनिसम्बन्धस्य ब्राह्मणोऽयमिति प्रत्यक्षं जायते, एवमिहापि बहुशोऽग्निधूमदर्शिनोऽन्तिमे दर्शने निर्विकल्पवृत्तधूमस्वलक्षणस्याग्निना नियतोऽयमिति धूस्वभावगोचरं प्रत्यक्षम्, एतावदेव स्वविकल्पस्य निर्विकल्पकपूर्वत्वम्, यत्तज्जन्मपूर्विका प्रवृत्तिः , संज्ञादिस्मरणार्थं हि तत् प्रथममर्थ्यते ।
तच्चेह व्यक्तिदर्शन एव पूर्वसंस्कारोदबोधात् सिद्धमिति नावश्यमनयोः समानविषयता ।
अत एव तैलविविक्तविलीनाज्यबोधे तैलमिदमिति विपर्यस्यतो
गन्धसहकृतेन्द्रियस्य (स)विकल्पप्रत्यक्षत्वसिद्धिः ।
न हि तत्रासङ्कीर्णा घृताकारा संविदासीत् ।
तैलमिदमिति विपर्ययात् ।
अतः परस्तादेव सहकारिवशात् निर्विकल्पकोपदर्शितव्यक्तिविषयं घृतमिदमिति सविकल्पकं प्रत्यक्षमीविरस्ति ।
एवमिहापीति न दोषः ।
किं पुनरिह सविकल्पकेन विषयीक्रियते ।
नियतोऽयमनेनेति नियमः ।
अस्य हि बहुलं धूममग्नावुपलभमानस्यानग्नौ च व्यतिरेकमन्ते भवति विमर्शः - अपि स्याद् व्याप्तोऽयमनेनेति ।
कथमपरथा जाङ्गलादिभेदभिन्नानेकदेशपरित्यागेन सायमादिभेदभिन्नानेककालपरिहारेण च तृमदारुगोमयेन्धनादिसमवधानविशेषं प्रत्यनादृतोऽग्निमेवानुधावत्यनग्नौ च न भवति ।
ततः परं च यथाग्निरधूमभास्वरत्वादिपरित्यागेनापि (दु?कु) कूलालातादौ वर्तमानोष्णत्वमजहत् तन्नियतो भवति ।
एवमग्निना धूम इत्यपरोक्षनिश्चयो जायते ।
यत्तु देशान्तरादौ व्यभिचार इति, तन्न तावद् दृष्टपूर्वं नापि श्रुतमिति नाशङ्कामधिरोहति ।
एवमपि तु शङ्कमानस्य सर्वप्रमाणेष्वनाश्वासः क्वचिद् व्यभिचारदर्शनात् ।
यत्त्ववधारितोऽपि स्वभावनियमो देशान्तरादावन्यथा भवति वृश्चिकादेरिति ।
तन्न अवान्तरजातिभेदात् ।
न हि यद् येन नियतमवगतमबाधितं च तदन्यथा भवति ।
अवान्तरजातिभेदात्तु शक्तिसदसद्भावकृता कार्यव्यवस्थेति न क्वचिद् व्यभिचारः ।
ननु अनुमानमेव किं नेष्यते ।
यदौपाधिकं तद् व्यभिचरति ।
अग्निरिव धूमम् ।
न च तथा धूमोऽग्निमित्यनौपाधिक इति ।
भवत्वेवम् ।
अव्यवस्था तूपस्थिता ।
अर्थापत्तिस्तर्हि भवतु ।
इदमेव् चाग्नौ दर्शनमनग्नौ चादर्शनमनुपपद्यमानमग्निना नियमं प्रतिपादयति ।
किमत्र नोपपद्यते ।
दर्शनं तावत् तत्र भवतीत्येतावतैवोपपन्नम्, न हि यदेकत्र भवति तेनान्यत्र न भवितव्यम् ।
अन्यत्र भवतोऽदरशनमनुपपन्नमिति चेत् ।
न ।
विप्रकृष्टानामन्येषामप्यसन्निकर्षाददरशनोपपत्तेः ।
सन्निहितेष्वनग्निष्वदर्शनमनुपपन्नमिति चेद् अभावादुपपत्तेः ।
तेषु ह्यसौ नास्त्येव्, कथमुपल(भ्यते?भ्येत) ।
तत्र सताप्यन्यत्रापि न भवितव्यमेवेति किमत्र प्रमाणम् ।
अतो दर्शनादर्शनसहकृतेन्द्रियस्यैव वस्तुस्वभावावधारणमपरोक्षं जायत इत्येवं समर्थनीयम् ।
नन्वेतदेव न विद्मः ।
कीदृशोऽसौ वस्तुनः स्वभावोऽवधार्यत इति ।
उक्तमसकृद् धूमोऽग्निना नियत इति ।
एतदुक्तं भवति- यदा यत्र धूमस्तदा तत्राग्निरिति ।
ननु सन्निहितवर्तमानदेशकालमात्रसम्बन्धोऽस्तु प्रत्यक्षः ।
अनागतादिसम्बन्धस्तु कथम्, अतिप्रसङ्गो हि तथा (सति) स्यात् ।
न ।
सन्निहितरूपमात्रोपलम्भात् ।
रूपमेव तु तादृशं धूमादीनां यदेवमुन्नीयते, स्थिरमिव रूपं कुड्यादीनाम् ।
अस्ति हि तेषु विद्युदादिविलक्षणकालान्तरस्थायिरूपप्रकाशः ।
सन्निहितावान्तरसम्बन्धो न प्रत्यक्ष इति तद्रूपमप्रत्यक्षं भवति ।
अप्रत्यक्षे हि तस्मिन् नेदं रजतमिति सूर्वानुभूतरजतबाधो न स्याद्, भिन्नविषयत्वात् ।
स्वकाले हि पूर्वविज्ञानेन रजतं विषयीकृतं न भविष्यद्वाधकज्ञानक्षण इति कथं तत्राप्रसक्तं बाध्यते ।
कालान्तरसम्ब्धोऽपि तेन रूपेण पूर्वज्ञानावधारितं भविष्यज्ज्ञानकालमपि व्याप्तोतीति भवति समानविषयतामासाद्य बाधः ।
ननु यद् वस्तुनो रूपं तत्परानपेक्षमवगम्यते, अग्नेरिवोष्णत्वम् ।
न च धूमस्यागृहीतप्रतिसम्बन्धिना तद्रूपमवगम्यत इति कथं वस्तुरूपत्वम् ।
मैवम् ।
सम्बन्धो ह्यसौ, कथमनवगते प्रतिसम्ब्धिन्यवसीयते ।
यथाह-
ऽनियमो नाम सम्बन्धः स्वमतेनोच्यतेऽधुनाऽ
इति ।
अतो यदेतदग्निना धूमस्य नियत्वं भावात्मकमिदं तत्प्रत्यक्षेणावगम्यत इति किमनुपपन्नम् ।
यथा चानग्निनिवृत्तिर्न नियमः तथा वर्णितमेव ।
विपक्षव्यावृत्त्या तु विधिरूप एव नियमः परीक्षकैर्व्याख्याय परेभ्यः प्रतिपाद्यते ।
कृत्तिकोदयमालक्ष्य रोहिण्यासत्तिकॢप्तिवत् ।
ननु नियम्यत्वमपि कर्मकारकत्वं तच्च शक्तिरूपं कथं प्रत्यक्षम् ।
न ।
कारकान्तरप्रत्यक्षवदुपपत्तेः ।
कारकान्तरशक्तयोऽपि हि न प्रत्यक्षाः , अतोऽसत्येव शक्तिप्रत्यक्षत्वे कारकं प्रत्यक्षमेषितव्यम् ।
एवमिहापि नियम्यः प्रत्यक्षो भविष्यतीति
किमनुपपन्नम् ।
अतः सिद्धं तावत् प्रत्यक्षत्वम् ।
आगमिकेषु चार्थेषु तस्य तस्य फलस्य तेन तेन वेदवेद्येन् कर्मणा समन्वयात्, कर्मान्तरान्वयस्य चानवगमाद् अनेनैव कर्मणेदं फलं व्याप्तमिति शास्त्राददगम्यते ।
नियतसाध्यत्वावगमात् ।
मेघाभाववृष्ट्यभावयोश्च स्वतन्त्राभावप्रतीकाशमाकाशस्य वपुः संलक्ष्यते ।
वृष्ट्यभाव इति च पृथिव्या एव
निबिडकठोरपाण्डुरादिभावः ।
तच्च रूपमुभयस्यापि प्रत्यक्षसमधिगम्यमेवेति तदेव तत्र व्याप्तिप्रमाणम् ।
एवमन्यत्रापि दर्शयितव्यमिति ।
भवतु तावदन्यद् व्याख्यास्याम इति समधिगतं तावद् व्याप्तेः स्वरूपं प्रमाणं च ।
इदं तु चिन्तनीयम् ।
कस्य केन व्याप्तिरिति ।
न ह्येकत्र विदितावग्निधूमविशेषौ प्रदेशान्तरे दृश्येते ।
यत् तयोरकस्यैकेनान्वयव्यतिरेकसमधिगम्या व्याप्तिर्भवेत्, अतो वाच्यं व्याप्तेरधिकरणम् ।
अत आह- सामान्येति ।
सत्यं न विशेषयोर्व्याप्तिः , सामान्यात्मनोरेव धूमाकृतिरग्नयाकृत्या नियतेति ।
अतो न कश्चिद् दोष इति ।
इदं तु प्रायिकम्, स्थायिनोस्तु विशेषयोरपि क्वचिद्
व्याप्तिर्भवत्येवेत्याह- क्वचिदिति ॥१२॥
अत्रैवोदाहरणमाह-कृत्तिकोदयमिति ।
यत्र हि कृत्तिकोदयं दृष्ट्वा रोहिण्यासत्तिः कथ्यते- अनन्तरमुदेष्यति रोहिणीति, तस्मिन्ननुमाने विशेषस्यैव विशेषेण व्याप्तिः ।
न हि तयोः सामान्यमस्ति ।
व्यक्तिभेदे प्रमाणाभावात् ।
प्रत्यभिज्ञायते हि सैवेयं कृत्तिका, सैवेयं रोहिणीति ।
कथमन्या भविष्यति ।
अतः सिद्धं विशेषयोरेवात्र व्याप्तिरिति ।
यदि तर्हि व्याप्तिरनुमानाम्, अस्ति खल्वसौ हिंसात्वस्याधर्मत्वेन बाह्यहिंसास्वित्यतः क्रतावपि हिंसात्वादधर्मत्वमनुमीयते ।
तत्र च


व्याप्तेश्च दृश्यमानायाः कश्चिद् धर्मः प्रयोजकः ॥ ५,४.१३ ॥
अस्मिन् सत्यमुना भाव्यमिति शक्त्या निरूप्यते ।
अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः ॥ ५,४.१४ ॥
तैर्दृष्टैरपि नैवेष्टा व्यापकांशावधारणा ।
ये तु तानपि विस्रब्धं साध्यसिद्धै प्रयुञ्जते ॥ ५,४.१५ ॥
दैक्षपशुहिंसादीनामधर्मत्वं प्रसज्येतेत्यत आह-व्याप्तेश्चेति द्वयेन ।
अयमभिप्रायः --- सत्यामापाताद् भवति भ्रमः , यथा किल हिंसात्वमात्रानुबन्ध्यधर्मत्वमिति ।
नत्वेतदेवम् ।
निर्ज्ञातेन ह्यधर्मत्वेन हिंसात्वं व्याप्यते ।
न च शास्त्रादृते तज्ज्ञानोपायः सम्भवति ।
नच हिंसात्वमात्रमनर्थसाधनमिति शास्त्रमस्ति ।
विशेषहिंसाया विहितत्वात् ।
विध्यवरूद्धविषये च प्रतिषेधानवकाशात् ।
प्रतिषेधमन्तरेण चानर्थसाधनत्वज्ञानोपायाभावात् ।
अतः परिहृत्यापवादविषयमुत्सर्गौऽभिनिविशत इति हिंसान्तराणिऽन हिंस्यादिऽति प्रतिषेधोऽवलम्बते ।
एवं च यद्यपि बाह्यहिंसासु हिंसात्वाधर्मत्वयोः साहित्यमवगतं, तथापि न हिंसात्वमधर्मत्वप्रयोजकम् ।
किन्तु निषिद्धत्वम् ।
असत्यपि हिंसात्वे निषिद्धत्वमात्रेण सुरापानादावधर्मत्वसिद्धेः ।
अतो य एवास्मिन् सत्येवास्य भवितुं शक्तिरस्ति इत्यनेन रूपेण निरूप्यते ।
व्याप्यतयावगम्यत इति यावत् ।
स एव धर्मः प्रयोजक इत्युच्यते ।
परप्रयुक्तव्याप्त्युजीविनस्तु हिंसात्वादयः , न तैरधर्मत्वादिव्यापककांशोऽवधारयितुं क्वचिद्विहितानां दैक्षपश्वादिहिंसानामधर्मत्वमिति ॥१४॥
ये त्वेवञ्जातीयकानप्यप्रयोजकान् हेतून् प्रयुञ्जते, ते सुलभैः प्रतिहेत्वादिदौषौश्चिरं भ्राम्यन्ति ।
शक्यते हि प्रतिहेतुर्दर्शयितुं, दैक्षपशुहिंसाधर्मः विहितत्वादग्निहौत्रादिवदिति ।
प्रयोजके हि हेतावेवञ्जातीयका दोषा नास्पदं लभन्ते ।
अप्रयोजके तु सुलभा एव ।
तदेतदाह-येत्विति ।
विस्रब्धमिति क्रियाविशेषणम् ।
यथा विश्वासो भवति तथा प्रयुञ्जत इत्यर्थः ॥१५॥


सुलभैः प्रतिहेत्वादिदौषैर्भ्राम्यन्ति ते चिरम् ।
तेष्वागमविरुद्धत्वं स्वयं चेष्टविघातिता ॥ ५,४.१६ ॥
अलौकिकविवादाश्च वर्ज्यास्ते हैतुकैस्ततः ।
निषिद्धत्वेन हिंसानामधर्मत्वं प्रयुज्यते ॥ ५,४.१७ ॥
तदभावे न तत्सिद्धिर्हिंसात्वादप्रयोजकात् ।
हेतुद्वयप्रयुक्ते च मिथ्यात्वे सर्वबुद्धिषु ॥ ५,४.१८ ॥
ज्ञानत्त्वोत्पत्तिमत्त्वादिसाधको ।
न प्रयोजकः ।
त्रैवर्णिकप्रयुक्ता च यागादेः स्वर्गहेतुता ॥ ५,४.१९ ॥
प्रतिहेत्वादिदोषैर्भ्राम्यन्तीत्युक्तम् तानेव दोषानुपन्यस्यति-तेष्विति ।
प्रतिहेतुस्तावदस्माभिरुक्त एव ।
आगमविरोधोऽप्येवंवादिनामापद्यत एव, आगमैकप्रमाणत्वाद् धर्माधर्मयोः ।
क्वचिदिष्टविघातः क्वचिदलौकिकविवाद इति ॥१६॥
आगमविरोधोदाहरणं तावदाह- निषिद्धत्वेनेति ।
इदं चानागतावेक्षणन्यायेन प्रगेवास्माभिर्व्याख्यातमिति ॥१७॥
इष्टविरोधोदाहरणमाह-हेतुद्वयेति ।
बाधकारणदोषाधीनं हि सर्वत्र मिथ्याबुद्धीनां मिथ्यात्वम्, न च ज्ञानत्वेनोत्पत्तित्त्वेन वा
प्रयुज्यते, सत्यमिथ्यात्वसाधारणत्वादनयोः ।
ज्ञानत्वादेव तन्मिथ्यात्वं साधयतो बौद्धस्येष्टविघातकारी हेतुः , धर्मधर्मिस्वरूपस्वविशेषयोरपि प्रतिक्षेपात् ।
सर्वलोकप्रसिद्धपृथिव्याद्यपलापाच्चालोकिकविवादोऽप्यत्रैव दर्शयितव्यः , न हि सर्वविज्ञानानि मिथ्येत्येवंविधं विवादं लोकिकाः सहन्ते ।
सहसैव ह्येवंविधविवादश्राविणामुद्वेगो जायते ।
यथा--- अचन्द्रः शशीत्यादौ ।
अतोऽयमलोकिको विवादः ।
तथा चोक्तम्---
"सर्वलोकप्रसिद्ध्या च पक्षबाधोऽत्र ते ध्रुवम्" इति ॥१८॥
अपरमप्यागमविरोधस्योदाहरणं दर्शयति-त्रैवर्णकेति ।
सन्ति खलु स्वर्गकामो यजेतेत्येवं विहितानि सोमादीनि कर्माणि ।
तेषु किं


न मनुष्यत्वमात्रेण शूद्रस्थेन प्रयुज्यते ।
कृतसायवयवत्वादिप्रयुक्ता च विनाशिता ॥ ५,४.२० ॥
प्रयत्नानन्तरज्ञानसदृशैर्न प्रयुज्यते ।
चतुर्णां वर्णानामधिकारः , उतापशूद्राणां त्रयाणामिति संशये चतुर्णामिति प्राप्तम्, चत्वारोऽपि हि वर्णाः स्वर्गं कामयन्तर इति स्वर्गकामपदेनाभिधीयन्ते ।
स्वर्गकामश्चात्राधिकारितया ज्ञायत इति प्राप्ते उक्तम्-- अपशूद्राणामधिकार इति ।
विद्याग्निसाध्या हि ते क्रतवः ।
अनग्निरविद्वांश्चान्तिमो वर्णः ।
कथमसौ वैतानिके कर्मण्यधिक्रियते ।
ननु श्रुत्यर्थावगताधिकारसामर्थ्यादेव शूद्रस्याग्निविद्ययोरक्षेपो भविष्यति ।
न ।
अविधानात् ।
त्रैवर्णकस्यैवऽष्टवर्षं ब्राह्मणमवुपनयीतऽऽवसन्ते ब्राह्मणोऽग्नीनादधीतः इत्येवमादिभिरग्निविद्ये विहिते ।
न चानियमेनैव ते शूद्रस्यापि भविष्यतः इति शक्यते वक्तुम् ।
को हि प्रतिलब्धविद्याग्निसम्बन्धस्त्रैवर्णिकाधिकारसम्पादितासु कामश्रुतिषु नियतकालयोवस्थमुपनयनमाधानं वा जघन्यवर्णस्योपकल्पयितुमुत्सहते ।
अतस्त्रैवर्णिकत्वप्रयुक्तमेव यागादीनां स्वर्गहेतुत्वम् ।
न मनुष्यत्वमात्रेण शूद्रमवायिना प्रयुज्यते ।
तद् यदि कश्चदनुमानकुशलः प्रयुङ्क्ते शूद्रकृतो यागः स्वर्गहेतुः मनुष्यकृतत्वात् त्रैवर्णिकाचरितयागवदिति ।
तस्यागमविरोधः ।
नन्वागमविरोध उदाहृत एव, किं पुनस्तदुदाहरणेन ।
उच्यते ।
पूर्वमधर्मत्वानुमानस्य वैदिकहिंसाविषयस्य साक्षादागमविरोधो वर्णितः , व्यक्तमेव दैक्षपशुहिंसा विधीयमानत्वाद् अर्थसाधनमित्येतदवगम्यते, कथमसावधर्मो भविष्यतीति, चोदनालक्षणस्यार्थस्य धर्मत्वात् ।
इह तु शूद्रकृतस्य यागादेः स्वर्गहेतुता न साक्षादागमेन प्रतिक्षिप्यते ।
किन्तु त्रैवर्णिकाधिकारलाभादर्थादितरनिरास इति विशेषः ॥१९॥
अप्रयोजकोदाहरणच्छलेनेदानीं परोपालम्भानार्थमुदाहरणान्तराणि दर्शयति---कृतेतिद्वयेन ।
प्रयत्नानन्तरज्ञानसदृशाः प्रत्ययानवस्थानादयोऽभिमताः तैः शब्दगोचरैस्तस्य विनाशिता न प्रयुज्यते ।
कृतकत्वादिप्रयुक्ता ह्यसौ ।
न च कृतकत्वमेव प्रयत्नानन्तरदर्शनेन साधयितुं शक्यम् ।
आकाशादिभिर्व्यभिचारात् ।
यदि तर्हि सावयवत्वप्रयुक्ता विनाशिता,


जातिमत्त्वेन्द्रियत्वादि वस्तुसन्मात्रबन्धनम् ॥ ५,४.२१ ॥
शब्दानित्यत्वसिद्ध्यर्थं को वदेद् यो न तार्किकः ।
तस्माद् य एव यस्यार्थो दृष्टः साधनशक्तितः ॥ ५,४.२२ ॥
स एव गमकस्तस्य न प्रसङ्गान्वितोऽपि यः ।
उपात्तश्चैकदेशाभ्यां धर्म्यप्यत्रैकदेशवान् ॥ ५,४.२३ ॥
किमिदानीं नश्वराणि भुवनानि भुवनसन्निवेशाश्च महीमहीधरोदधिप्रभृतयः ।
सत्यम् ।
सर्वमेव सावयवं विनाशधर्मकम्, महीमहीधरादयोऽपि समासादितस्वावयवसंयोगाविभागाविशेषा भागशो नश्यन्त्येव ।
निरन्वयं तु विनाशं न कस्यचिदभ्युपगच्छामः ।
एवं महाभूमेरप्यावापोद्वापभेदान्नाशो दर्शयितव्यः ।
तथा यदपि वैशेषिकैर्जातिमत्त्वादैन्द्रियकत्वाच्च शब्दानित्यत्वमनुमितं, तदप्ययुक्तम् ।
एतद्धि जातिमत्त्वादि वस्तुसन्मात्रनिबन्धनमेव नित्यानित्यसाधारणम्, नानेनानित्यता साध्यते ।
किमिदं वस्तुसन्मात्रनिबन्धनमिति, परमार्थसन्निबन्धनमित्युक्तं भवति ।
परमार्थसन्त एव घटाकाशात्मादय
इन्द्रियविषया जातिमन्तश्च, न भ्रान्तिसंविदिताः शशविषाणादय इवेति ॥२१॥
एवमप्रयोजकस्यासाधकत्वमुक्तमुपसंहरति---तस्मादिति ।
अयमर्थः --- य एव निषिद्धत्वादिरर्थो यस्याधर्मत्वदेः साधनशक्तियुक्तत्वेनावगतः ।
अस्मिन् सत्यमुना भवितव्यमितीदृश्या शक्त्यावधार्यत इति यावत् ।
नियम्यशक्तिरेव हि साधनशक्तिरित्याख्यायते, नियतावगतो हि नियामकं शन्कोति (गमयितुं) नान्य इति, (स) नियम्य एव गमको न प्रसङ्गान्वितो हिंसात्वादिः ।
निषिद्धत्वेनान्वेतुमभिप्रवृत्तेनाधर्मत्वेन प्रसङ्गाद्धि हिंसात्वमप्यन्वितमिति प्रसङ्गान्वितं हिंसात्वं नाधर्मत्वस्य गमकं भवतीति ॥२२॥
एवं तावत् सर्वप्रकारोऽनुमानाङ्गभूतः सम्बन्धपदार्थो व्याख्यातः ।
इदानीमेकदेशदर्शनादेकदेशान्तरे बुद्धिरिति व्याख्येयम् ।
तत्र चैतदेव तावद् वक्तव्यम् ।
स्वतन्त्रैकदेशदर्शनात्तथावैधेकदेशान्तरे ज्ञानमनुमानमित्यापद्येति ।
तच्चयुक्तम् ।
स्मरणं हि तत्, कथमनुमानं भवेत् ।
अथैक


अपरार्थे हि धूमादेः स्वरूपैर्नैकदेशता ।
स एव चोभयात्मायं गम्यो गमक एव वा ॥ ५,४.२४ ॥
देशदर्शनादेकदेशान्तरविशिष्ट एकदेश्यनुमानस्य विषय इष्यते ।
तन्न ।
अनुपात्त्तत्वात् ।
न ह्यत्रैकदेशी केनचिच्छब्देनोपात्तः ।
अतस्तदनुपादानान्न्यूनं लक्षणमित्याशङ्क्याह---उपात्तैति ।
यद्यपि स्वशब्देन नैकदेश्युपात्तस्तथाप्येकदेशशब्दाभ्यामेवार्थादाक्षिप्यत इति न न्यूनत्वदोष इति ॥२३॥
अर्थाक्षेपे कारणमाह---अपरार्थैति ।
न हि धूमादिस्वरूपमात्रपरार्थीभूतमेकदेशपदास्पदं भवति ।
न च परस्परापेक्षयैकदेशवाचोयुक्तिरुपपद्यते ।
न ह्यग्न्यैकदेशो धूम इति कस्यचित् प्रतिपत्तिरस्ति ।
न चागृहीतेऽग्नौ तदेकदेशतया धूमोऽवगन्तुं शक्यते ।
गृहीते च तस्मिन्ननुमेयाभावः ।
अत एकदेशत्वानुपपत्त्यैव तदाश्रयः कश्चिदेकदेश्यवगम्यत इति सिद्धमिति ॥२३॥
नन्वाक्षिप्यतामेकदेशशब्दाभ्यामेकदेशी ।
तदेकत्वं तु कुतोऽवगम्यते ।
अतः क्वचिदेव् धूमं दृष्ट्वा क्वचिदेकदेश्यन्तरेऽनुमानं न स्यात् ।
ऐकाधिकरण्यं त्वेकदेशयोर्न सिध्यति, अनुपादानादित्यत आह--स एवेति ।
पूर्वप्रकृतमेकदेशवानिति विवक्षितैकसङ्ख्यमेकदेशिनं प्रत्यवमृशति स एवेति ।
स खल्वेक एवैकदेशी गम्यगमकरूपः उभयात्मकत्वात् ।
तस्य हि तौ नाम वक्ष्यमाणात्मानौ स्तः , यद्द्विरूपत्वमर्हति ।
नन्वेकत्वं नैकदेशिनौऽनुपात्तं लभ्यत इत्युक्तम् ।
न ।
ज्ञातसम्बन्धस्येत्येकवचनेनैवोपादानात् ।
एकदेशिनि ह्यन्यपदार्(थैकस्यैर्?थे ए) कत्वमेकवचनेनोपात्तं , प्रमातृपक्षेऽपि पब्रथमोच्चरितेनैकदेशशब्देन स्वाश्रय एकदेशिन्याक्षिप्ते द्वितीयापेक्षाक्षणेऽपि स एव बुद्धौ विपरिवर्तमानस्तदाश्रयत्वेनावगम्यते नान्यः ।
तत्परित्यागे कारणाभावात्, तथा व्युत्पत्तिदर्शनाच्च ।
यथा देवदत्तस्यैककत्र करे कङ्कणमङ्गुलीयकं करान्तर इति न भिन्नः कराश्रहयोऽवगम्यते ।
अपि तर्हि देवदत्त एक एव ।
अतः सिद्धमेक एवैकदेशी गम्यगमकरूप इति ॥२४॥


असिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः ।
आत्तः पृथगभिन्नो वा प्रयोक्तॄणां विवक्षया ॥ ५,४.२५ ॥
अनित्य कृतको यस्माद् धूमवानग्निमानिति ।
धर्म्यभिन्नमुपादानं भेदोऽत्राग्निरितीदृशऽ१ ॥ ५,४.२६ ॥
उभयात्मा सन् गम्यगमक इत्युक्तम् ।
तावेवोभयात्मानौ दर्शयति--असिद्धेनेति ।
यदि ह्यसावेकदेश्यसिद्ध एव स्यात सिद्धो
वा, तदा न द्विरूपतां लभते ।
स तु धूमवदादिना रूपेण प्रत्यक्षसिद्धोऽग्निमदादिना चासिद्ध इति द्व्यात्मकत्वादुभयोपपत्तिरिति ।
आह--- अस्त्वर्थादुपात्त एकदेशी ।
स चैको गम्यो गमक इति ।
स तु कथं प्रमातृभिरूपादातव्य इति ।
न च तदुपादानप्रकारः कश्चिद्भाष्यकारेणोपात्तः ।
अतः पुनरपि न्यूनत्वमित्यत आह--- आत्त इति ।
तत्र नाम विशेषोपादानमाश्रीयते, यत्र विशेषविवक्ष ।
नत्विह विशेषो विवक्षितः ।
स ह्येकदेशीप्रमातृविवक्षावशेन पृथगभिन्नो वैकदेशशब्दाभ्यामुपात्तो भवतु ।
उभयाथानुमानव्यवहारदर्शनादिति ॥२५॥
तमेवोभयथा व्यवहारं दर्शयति---अनित्यैति ।
निगदव्यख्यातो ग्रन्थः ॥२६॥
एकदेशी गम्यो गमको भेदाभेदाभ्यामुपात्तो इति दर्शितम् ।
कियति पुनरनुमानस्य व्यापार इति भवति संशयः ।
भवति हि विशिष्टार्थप्रतीतावपि विशेषणमात्रपर्यवसायि प्रमाणम् ।
यथा शब्दः ।
स खल्वाकृतिविशिष्टायां व्यक्तौ धियमादधाति, अथ चान्वयव्यतिरेकाभ्यामाकृतिमात्रपर्यवसायीति निश्चीयते ।
तदिहापि यदि तद्वदेव विशेषणमात्रपर्यवसायि प्रमाणमिष्यते, ततः सिद्धसाध्यत्वम् ।
सिद्धं हि सम्बन्धज्ञानकालेऽग्निमात्रम् ।
किं तदनुमानेन ।
यदि तु द्विखण्डदण्ड्यादिशब्दवद्विशिष्टमेवानुमानं गोचरयतीतीष्यते ।
तत्र सम्बन्धग्रहणाभावाद(न)नुमेयत्वम् ।
न ह्यग्निमद्विशेषेण पर्वादिनान्वितो धूमो दृष्टः ।
न च समस्ताग्निमत्साधारणं


एकदेशविशिष्टश्च धर्म्येवात्रानुमीयते ।
नहि तन्निरपेक्षत्वे सम्भवत्यनुमेयता ॥ ५,४.२७ ॥
न धर्ममात्रं सिद्धत्वात् तथा धर्मी तथोभयम् ।
व्यस्तं वापि समस्तं वा स्वातन्त्र्येणानुमीयते ॥ ५,४.२८ ॥
एकदेशस्य लिङ्गत्वं साध्येनानुगमोऽस्य च ।
द्वयं च न स्यादिष्टं सत् पक्षेष्वेषु यथाक्रमम् ॥ ५,४.२९ ॥
सामान्यं किञ्चित्समस्ति ।
तभ्दावेऽपि पुनरपि सिद्धसाध्यतैव ।
अत एवाहुः -
"अनुमामङ्गपङ्केऽस्मिन् निमग्ना वादिदन्तिनः ।
विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता"॥
इत्यत आह--एकदेशेति ।
अयमभिप्रायः --- दण्ड्यदिशब्दवद् विशिष्टविषयमेवानुमानम् ।
न च सम्बन्धग्रहणाभावः ।
सकलोपाधिपरत्यागेन धूमवन्मात्रस्याग्निमत्तया सम्बन्धावगमादित्युक्तमस्माभिः ।
असत्यपि सामान्ये केनचिदेकेनोपाधिनानन्तानामपि भावानां सम्बन्धो गृह्यत एव ।
यद्यपि भूमवानग्निमानिति सामान्यतोऽवगतम्, तथाप्ययमसाविति विशेषरूपेण प्रत्यभिज्ञानात्प्रमाणविषयत्वमप्युपपन्नमित्युक्तमेवेति ।
कस्मात् पुनर्विशेषणमात्रपर्यवसाय्येव प्रमाणं नेष्यते, अत आह--- नहीति ॥२७॥
असम्भवमेव दर्शयति----न धर्मेति ।
धर्ममात्रं हि सम्बन्धग्रहणकाले सिद्धमिति भवतैवोक्तमिति ।
एवमेव धर्मिमात्रानुमाने स्वतन्त्रोभयानुमाने वा सिद्धसाध्यता दर्शयितव्येत्याह--- तथेति ॥२८॥
धर्मधर्म्युभयेष्वेवानुमेयेषु यथासङ्ख्यं दूषणान्तराण्याह---एकदेशस्येति ॥२९॥


अनित्यत्वादयो धर्माः कृतकत्वादयो नहि ।
ध्वनिनानुगमो नैषां नोभयस्योभयेनि वा ॥ ५,४.३० ॥
सम्बन्धोऽप्यनुपादानान्नाम्ना षष्ठ्यपि वा मितौ ।
न चाप्यनुगमस्तेन लिङ्गस्येह निदर्श्यते ॥ ५,४.३१ ॥
एतदेव विवृणोति---अनित्यत्वादयैति ।
पक्षैकदेशो हि लिङ्गं भवति ।
न चानित्यत्वाख्यस्य धर्मस्य स्वतन्त्रपक्षीकृतस्य कृतकत्वं धर्म इति कथमपक्षधर्मो लिङ्गं भविष्यति ।
एवं ध्वनिमात्रेऽपि स्वतन्त्रे कृतकत्वं तत्र तत्र ध्वनिरिति नियमः सम्भवति ।
तथोभयस्य ध्वन्यनितयत्वात्मकस्योभयेन पक्षधर्मत्वानुगमात्मकेन न सम्बन्ध इत्यनागतं सम्बन्धशब्दं पूर्वापराभ्यां सम्बन्ध्य तन्त्रेण व्याख्या कर्तव्येति ।
समधिगतं तावद् धर्मधर्म्युभयेषां व्यस्तसमस्तानां न साध्यत्वमिति ॥३०॥
अथ कस्माद् धर्मधर्मिसम्बन्ध एव साध्यो न भवतीत्यत आह--सम्बन्धैति ।
मितावति साधनवाक्यमपदिशति ।
खलु परीक्षकः साधनवाक्ये सम्नब्धवाचिना केनचिन्नाम्ना षष्ठ्या वा सम्बन्ध उपादीयते ।
न ह्येवं प्रयुज्यते, अग्निपर्वतयोरस्ति सम्बन्धः धूमवत्त्वादिति ।
नापि पर्वतस्याग्निरिति ।
देशमेव त्वग्न्यादिना विशिष्टमनुमिमाना दृश्यन्ते ।
यदेवं प्रयञ्जते, अग्निमान् पर्वत इति ।
सम्बन्धोऽपि नानुमीयत इत्यतीतेन सम्बन्ध इति ।
न परं प्रतिज्ञायां नोपादीयते, उदाहरणेऽपि न तेनानुगमो लिङ्गस्य निर्दिश्यते ।
नहि भवति दर्शनं, यत्र यत्र धूमस्तत्र तत्राग्निसम्बन्ध इति ।
भवति तु यो यो धूमवान् स सोऽग्निमानिति देश एव निदर्शनं, तदेतदाह---न चापीति ।
इहेति मितिं प्रत्यवमृशति ।
एतदुक्तं भवति-- न साधनवाक्ये सम्बन्धः साध्यतयोपादीयते नापि दृष्टान्ततया दिर्दिश्यते न चायथाप्रतिभासं परीक्षकाणां वक्तुमुचितमिति ॥३१॥


न चाकारद्वयं तस्य साध्यसाधनभाग् भवेत् ।
तस्मादर्थगृहीतत्वान्मतुबर्थस्य गम्यता ॥ ५,४.३२ ॥
न स्वातन्त्र्येण मन्तव्या यथा दण्ड्यादिशब्दतः ।
विशिष्टार्थप्रतीतौ स्यात् सम्बन्धोनान्तरीयकः ॥ ५,४.३३ ॥
अपि चायं सम्बन्धः साध्यमानः सन्मात्रतया वा साध्यते, केनचिद् वा धर्मेण विशिष्टः ।
न तावद् वस्तुसत्तामात्रमनुमानस्य विषयः ।
न च पर्वतादिवत्सिद्धसाध्यरूपमाकारद्वयं सम्बन्धो वहति, येनानुमानस्य विषयो भवेत् ।
तस्मान्न कथञ्चित् सम्बन्धः साध्य इत्याह---नचेति ।
कनन्वसति सम्बन्धे विशिष्ट एव साधयितुं न शक्यते ।
नास्ति नाम स प्रकारः , यदसम्बन्ध्यमान एवाग्निना पर्वतस्तद्विशिष्टो भवतीत्यत आह---- तस्मादिति व्यान्तेन ।
न(नु) सत्यमसति सम्बन्धे विशिष्टो न भवति, न त्वेतावता सम्बन्धसाध्यता सिध्यति, विशिष्टसाध्यत्वान्यथानुपपत्त्यैव त्वर्थगृहीता मतुबर्थस्य सम्बन्धस्य साध्यता न पुनः स्वतन्त्रस्येति ।
अत्रैव दृष्टान्तमाह---यथेति ।
दण्ड्यादिशब्दा हि दण्डादिविशिष्टमेवाभिदधानाः सम्बन्धमप्यर्थादुपाददते, नत्वभिदधति ।
तद्वदिहापि पर्वतोऽग्निमानिति साध्यमानेर्ऽथगृहीतोऽग्निसम्बन्धः , न पुनः स एव साध्यते ।
यथा दण्ड्यादिशब्दतो विशिष्टार्थप्रतीतौ सत्यां सम्बन्धो नान्तरीयको भवति, एवमत्रापि विशिष्टे साध्यमानेऽनुनिष्पादी भवतीत्यर्थः ।
इदं तु चिन्तनीयम् ।
कथं दण्ड्यादिशब्दा विशिष्टवचना इति ।
मत्वर्थीयप्रत्ययान्ता हिते ।
स चास्यास्मिन्नस्तीति सम्बन्धे स्मर्यते, अतः सम्बन्ध एवात्र प्रत्ययार्थः ।
स च प्रधानः ।
ऽप्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः प्राधान्येनः इति स्मृतेः ।
इदं हि भेदेनैवोभयरभिधाने प्राधान्यप्रतिपादनार्थं वचनम् ।
प्रधानं च शब्दार्थः ।
अतः सम्बन्धवचना एव दण्ड्यादिशब्दा इति युक्तम् ।
अपि चऽनागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यतः इति विशिष्टाभिधित्सायामवश्यम्भावि प्रथमतरं विशेषणाभिधानमापतति तत एव विशिष्टावगाहसिद्धेर्न तद्यावच्छब्दस्याभिधानशक्तिरुपकल्पयितुं शक्यते ।
अत एवाकृतिविशिष्टव्यक्त्यभिधानमाकृत्यधिकरणे निराकरिष्यते ।
किञ्च---ऽकृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम्ः इति स्मरति ।
कथं च ताभ्यां तद्धितवृत्तौ सम्बन्धोऽभिधीयते ।
यदि तद्धिताभिधेयो न स्यात् ।
अभिधेयनिष्कर्षे हि तयोः स्मरणं,ऽयस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशेः , तदभिधाने त्वतलाविऽति ।
तद् यदि दण्डपुरुषसम्बन्धो दण्डिशब्दस्याभिधेयः , तथा सति तन्निष्कर्षे दण्डित्वं दण्डितेति त्वतलोरनुशासनमुपपद्यते ।
यथा गोशब्दाभिधेयं सामान्यं गोत्वमिति त्वप्रत्ययेन निष्कृष्यते ।
अतः सम्बन्ध एव दण्ड्यादिशब्दानामभिधेय इति साम्प्रतं कथमुच्यते नान्तरीयकः सम्बन्ध इति ।
अत्राभिधीयते--- न तावत् स्मृत्यनुसारेण सम्बन्धवाच्यत्वमध्यवसातुं शक्यते ।
शब्दानुशासनमात्रं हिऽतदस्यास्त्यस्मिन्नि(५-२-९४)ति, न पुनरर्थानुशासनम् ।
अपि च वृत्तिविग्रहयोरन्यथान्यथा गुणप्रधानभावो दृश्यते ।
यथा चित्रगुरिति चित्राभिर्गोभिर्विशिष्टो देवदत्तादिरेव वृत्तौ प्रधानतयावगम्यते ।
विग्रहे तु चित्रा गावो यस्येति गवामेव
देवदत्तादिर्विशेषणतया गुणभूतः ।
ताश्च प्रधानम् ।
वेदेऽपिऽरथन्तरसामा सोमः इति ।
तद् यद्यपि स्मृतिकारेण त(द्द)स्येति विग्रहे सम्बन्धः प्रधानतया षष्ठ्या निर्दिष्टः , तथापि गोमदादितद्धितवृत्तौ तद्वानेव प्रधानं भवति, तथा प्रतीतेः ।
गोमच्छब्दो हि पुरुषप्रधानो भासते न सम्बन्धप्रधानः ।
पाणिनेरपि भगवतः सम्बन्धाभिधानद्वारेण विशिष्टवाच्यतैव प्रतिपादयितुमभिमता ।
वृत्तौ विगृह्यमाणायामवर्जनीय एव षष्ठीप्रयोगः ।
तावता च तदर्थः प्रधानतया वाच्यत्वेन निर्दिष्ट इति भ्रान्तिरुपजायते ।
अतो न तावत् स्मृत्यनुसारेण सम्बन्धस्य वाच्यता ।
यत्तु प्रथमतरं विशेषणमभिधेयमिति ।
सत्यम् ।
न त्विह सम्बन्धो विशेषणम् ।
दण्डो हि दण्डिनो विशेषणं न
सम्बन्धः ।
स च प्रकृत्या प्रथममभिहित एव ।
अत एव नानेकाभिधानशक्तिकल्पनादोषः ।
निर्भागशब्देषु हि गवादिषु विशिष्टप्रतीतावपि विशेषणमात्रमभिधीयत इति युक्तम् ।
तत्र ह्येकस्यैवोभयाभिधानशक्तिकल्पनादोषो भवति ।
दण्ड्यादिशब्दास्तु भागवन्तः ।
तेषु भिन्नाभ्यां प्रकृतिप्रत्ययाभ्यां भिन्नौ विशेषण


विशेषणविशेष्यत्वमापन्नौ द्वाविमावतः ।
गम्यावङ्गाङ्गिभावस्तु कैश्चिदिष्टो विकल्पतः ॥ ५,४.३४ ॥
सर्वथा धर्मिणो धर्मो धर्मेण त्ववगम्यते ।
विशेषणविशेष्यत्वे न विशेषोऽवधार्यते ॥ ५,४.३५ ॥
विशेष्यावभिधीयते इति किमनुपपन्नम् ।
अतः प्रकृत्यभिहितप्रथमतरावगतदण्डविशिष्टः पुरुषो दण्डिशब्देनाभिधीयते ।
नन्वसति सम्बन्धे दण्डोविशेष्टुमेव नरं न शक्नोति ।
सत्यम् ।
न त्वेतावता सम्बन्धो वाच्यो भवति ।
न हि पृथिव्यामनवस्थिता गावो न तद्वन्तं विशिषन्तीति पृथिव्यप्यभिधीयत इति युक्तमभिधातुम् ।
यत एव त्वसति सम्बन्धे विशिष्टावगतिरनपपन्ना, अत एव सम्बन्धोऽप्यर्थादन्तर्भाव्यते ।
न त्वभिधीयते ।
यत्तु सम्बन्धाभिधाने त्वतलोरनुशासनमसति सम्बन्धवाच्यत्वेऽनुपपन्नमिति, तदयुक्तम् ।
न ह्यभिधेयनिष्कर्षे गोमदादिषु भावप्रत्ययानुशासनम्, अपि तर्हि अभिधेयनिष्कर्षे हिऽयस्य गुणस्य हि भावादिऽति त्वभिधेयानिष्कर्षार्थमेव स्मरणम् ।
इतरथा त्वनेनैव गतार्थत्वात् कृत्तद्धितसमासेष्वत्यवचनीयमापद्येत ।
अतः प्राक् प्रतीते एकनिमित्तसम्बन्धिविशिष्टेऽपरस्मिन् सम्बन्धिन्यभिहितेर्ऽथगृहीतः सम्बन्धो नाभिधेयपक्षे निक्षिप्यते ।
सर्वयौगिकानामपि चैषैव दिग् दर्शयितव्या ।
आह च--
सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधीयते ।
न हि सम्बन्धवाच्यत्वं सम्भवत्यतिगौरवात्॥
इति ।
अतोऽनुमेयान्तरासम्भवाद् विशेषणविशेष्यभूतौ धर्मधर्मिणावेवानुमानसमधिगम्याविति ॥३२-३३॥
उपसंहरति---- विशेषणेति गम्यावित्यन्तेन ।
स चायमङ्गाङ्गिभावः कैश्चिद् विकल्पेनाश्रितः ।
एवं हि मन्यन्ते ।
सर्वथा हि धर्ममात्रे धर्मणि वा स्वतन्त्रे प्रमीयमाणे सिद्धसाध्यतादिदोषो भवति कन विशिष्टप्रमायाम् ।
विशिष्टता तु कदाचित् कस्यचिद् यथाभिप्रायं भवतु नाम, न किञ्चिद् दुष्यति ।
सर्वथा तावत् धर्मिण एव पर्वतादेरग्न्यादिधर्मस्तद्धर्मेणैव धूमादिनावगन्तव्यः ।
स तु धर्मो विशेषणभूतो विशेष्यभूतो


अत्रोत्तरं वदन्त्यन्ये यदि धर्मी विशेषणम् ।
हेतुधर्मेण सम्बन्धस्तस्याप्राधान्यतोऽस्फुटऽ१ ॥ ५,४.३६ ॥
प्रधानत्वाद्धि धर्मेण सम्बन्धो वाक्यतो भवेत् ।
तत्रासम्भवतः पश्चात् कल्प्योऽसौ धर्मिणा सह ॥ ५,४.३७ ॥
वावगन्तव्य इति न कश्चिद् विशेषः ।
उभयथापि स्वतन्त्रानुमानाभावादित्याह--- अङ्गेत्यवधार्यतेऽन्तेन ॥३४-३५॥
अत्र दूषणमाह---अत्रेति ।
अयमभिप्रायः --- लौकिकानि हि प्रमाणानि लक्षणकारैरपि यथालोकमेवानुगन्तव्यानि ।
न तु विपरीतम् ।
नह्यग्निः पर्वतविशिष्ट इति लोको बुध्यते ।
अपि तु पर्वतोऽग्निमानिति ।
तथा स्वयमनुमानेन प्रतिपन्निमर्थं तेनैव परं प्रतिपादयन्तो लौकिका धर्मणा विशिष्टमेव हेतुं प्रयुञ्जाना दृश्यन्ते, यथाग्नयनुमानि एव धूमवत्त्वादग्निमानिति ।
तच्चेदमग्नौ देशेन विशिष्टेऽनुमीयमाने नोपपद्यते ।
विशेषणतया हि पर्वतविशिष्टोऽग्निरिति धर्मिण्युपात्ते धूमवत्त्वादिति हेतुधर्मेण तस्य सम्बन्धो न स्फुटं प्रकाशते ।
धर्मधर्मितयावगतस्य हेतुत्वम् ।
न च गुणभावोपात्तो धर्मी हेतुधर्मसम्बन्धमर्हति,
गुणानां परस्परासम्बनधात् ।
अतोऽस्मात् परार्थहेतुप्रयोगविशेषादेव लौकिकानामीदृशी प्रतिपत्तिरुन्नीयते ।
यत् स्वयमपि धर्मविशिष्टमेव धर्मिणं बुध्यते न विपरीतमिति ॥३६ ॥ यदि तर्हि धर्मिणो हेतुधर्मेण सम्बन्धो न स्फुटः केन तर्हि प्रसज्यत इत्यत आह--प्रधानत्वदिति ।
ध्वनिविशिष्टमनित्यत्वं कृतकत्वादित्युच्यमानेऽनित्यत्वाख्येन धर्मेणैव साध्यतया प्रधानभूतेन कृतकत्वादिहेतुः सम्बध्येत न ध्वनिना गुणभूतेन ।
सर्वस्य ह्येकवाक्यगतस्य प्रधानान्वय एव युक्तः ।
प्रधानसम्बन्धे च हेतोरपक्षधर्मत्वम् ।
नहि कृतकत्वम
ध्वनेरित्यथवा वाच्यमनवयस्य तु दर्शने ।
भेदोपात्तस्य धर्मस्य गुणभावो न दुष्यति ॥ ५,४.३८ ॥
नित्यत्वस्य धर्मः , किं तर्हि ध्वनेः ।
अतो धर्म्येव धर्मविशिष्टः स्वयं प्रमातृभिरवगम्यते ।
तथैव परस्मै प्रतिपाद्यत इति युक्तमिति ।
यदि तूच्यते, सत्यं प्रधानतया धर्मेण हेतोः सम्बन्धो वाक्यादवगम्यते, लिङ्गबलीयस्त्वेन तु वाक्यं बाधित्वा धर्मिणैव सम्बन्धः कल्पयिष्यते ।
हेतुधर्मस्य हि धर्मिणैव सम्बन्धयोग्यता न धर्मेण, अतो धर्मसम्बन्धाभावाद् धर्मिणैव सम्बन्धो भविष्यतीत्यत आह--- तत्रेति ।
अयमभिप्रायः -- सत्यमेवं धर्मणा सम्बन्धः सिध्यति ।
किं त्वयमेव क्लेशो यद्वाक्यस्वरसभङ्गो नाम ।
अत एवाह-- कल्प्योऽसाविति ।
अन्यथाप्रतिपन्नस्यान्यथाकल्पनैव दोष इति कभावः ॥३७॥
ध्वनेः कृतकत्वादिति वा पुनर्धर्म्युपादानेन हेतुर्विशेषणीयः , न चैवं प्रयोक्तारः प्रयुञ्जाना दृश्यन्त इत्यभिप्रायेणाह---ध्वनेरिति ।
यस्तु वदति धर्मिण्यपि विशेष्टे साध्येऽन्वयोपदर्शनवेलायां यत्र यत्र कृतकत्वमित्युक्ते ध्वनिरेव प्रधानतया सम्बध्येत नानित्यत्वं गुणभूतत्वादितितं प्रत्याह---अन्वयस्येति ।
अन्वयोपदर्शनकाले हि भेदेनैव धर्ममुपाददते ।
यत्र यत्र कृतकत्वं तत्र तत्रानित्यत्वमिति न तत्र प्रधानसम्बन्धाशङ्का ।
अतः प्रतिज्ञावस्थायां धर्मविशिष्टे धर्मिणि साध्यमाने योगुणभाव आसीत् नासौ दृष्टान्तवाक्ये दुष्यति ।
हेतुस्त्वविशिष्ट एव तार्किकैः प्रयुज्यत इत्युक्तम् ।
तत्राविशेषित एव प्रयुक्ते भवति प्रधानभूतधर्मसम्बन्धाशङ्केति ।
यस्तु वदति षष्ठ्यन्तेन ध्वनिनानित्यत्वं विशेष्यते ध्वनेरनित्यत्वमिति ।
एवं च कृतकत्वादित्यस्याविपरिणतविभक्तिकेन ध्वनिनैव सम्बन्धः स्फुटो भवति ।
धर्मसम्बन्ध एव यथावद् विभक्तिविपरिणामेन स्यात् ।
स चान्याय्य इति स वक्तव्यः ।
निराकृतोऽयं पक्षो वार्तिककृतैव---
"सम्बन्धोऽप्यनुपादानान्नाम्ना षष्ठ्यपि वा मितौ"
इति ।
षष्ठीनिर्देशे हि सम्बन्ध एव साध्यो भवेत् ।
तस्य च साध्यता निराकृतैव ।
विशिष्टसाध्यपक्ष एव स्थित्वा धर्मिविशिष्टता धर्मस्येदानीं


अग्नेर्देशविशिष्टत्वे न चैतत् पक्षलक्षणम् ।
विशिष्टतास्य देशेन भवेदेवंप्रकारिका ॥ ५,४.३९ ॥
योऽग्निः सोऽस्ति क्वचिद्देशे यो दृष्टो यत्र तत्र वा ।
अग्निः पूर्वानुभूतो वा देशमात्रेण सङ्गतः ॥ ५,४.४० ॥
योऽग्निः सोऽनेन युक्तो वा यो दृष्टोऽनेन सोऽथवा ।
योऽयं स देशमात्रेण युक्तः पूर्वेण वाप्ययम् ॥ ५,४.४१ ॥
एतददेशविशिष्टो वा योऽयमग्निरितीह तु ।
पूर्वयोः सिद्धसाध्यत्वं परेषु स्याद् विरुद्धता ॥ ५,४.४२ ॥
व्याप्तिरेतेन देशेन सर्वाग्नीनां न युज्यते ।
नापि पूर्वस्य नाप्येष वह्निः सर्वैर्विशेष्यते ॥ ५,४.४३ ॥
निराक्रियते ।
किमत्र सम्बन्धसाध्यत्वं पुनरुपक्षिप्यते ।
तदलमनेन बालभाषितेनेति ॥३८॥
अपि च अग्नेर्देशविशिष्टत्वे साध्यमाने वक्ष्यमाणसमस्तपक्षप्रकाराणामसम्भवोऽपीत्याह---अग्नेरिति ।
दूषणान्तरसमुञ्चये चकारः ।
एतदिति वक्ष्यमाणलक्षणप्रतिनिर्देश इति ।
तानेव पक्षप्रकारान् वक्तुं संक्षिप्य प्रतिजानीते ॥३८॥
इदानीं विभज्य तानेव दर्शयति---योऽग्निरितीतीत्यन्तेन ।
निगदव्याख्यातो ग्रन्थः ।
विवेकस्तु पक्षाणां प्रणिहितैरवगम्यत इति ।
इहचाद्ययोर्द्वयोः पक्षयोः सिद्धसाध्यता दोषः ।
सिद्धो हि क्वचिदग्निः , दृष्टपूर्वोऽपि पूर्वदेशाधिकरणः सिद्ध एव किं तत् प्र(सा)धानेन ।
परेषु तु पञ्चसु पक्षेषु प्रमाणान्तरविरोध इत्याह--- इह त्विति ।
सिद्धसाध्यता सुप्रकाशैव ॥४०-४२॥
विरोधं प्रपञ्चयति--- व्याप्तिरित ।
यत्तावत् योऽग्निः सोऽनेन युक्त इत्युक्तं तदयुक्तम् ।
नह्यनेन देशेन सर्वाग्नयो व्याप्यन्ते देशस्यावैभवात् सर्वाग्नीनां चात्रासन्निधानात्, तद्भावो ह्यत्राभावेन विरुध्यत इति ॥४२॥


देशैः पूर्वेण वाप्यस्य न देशेन विशेष्यता ।
एतददेशविशिष्टोऽयमित्येतत् कथ्यते कथम् ॥ ५,४.४४ ॥
यदा देशानपेक्षोऽग्निर्नायमित्यवधार्यते ।
अग्नेः पूर्वतरं चात्र देश एवावधार्यते ॥ ५,४.४५ ॥
तज्ज्ञानकालबुद्धश्च न देशः स्याद् विशेषणम् ।
देशस्य पर्वतादेस्तु स्वरुपे पावकादृते ॥ ५,४.४६ ॥
यो दृष्टोऽनेन सोऽथवेति यदुक्तं दूषयति---नापि पूर्वस्येति ।
दृष्टस्याप्यग्नेरनेन देशेन व्याप्तिर्न विद्यत इत्यर्थः ।
योऽयंस देशमात्रेणेत्यत्र दूषणमाह---नापीति देशैरन्तेन ।
न ह्येष पुरऽस्थितो वह्निः सर्वैर्देशैर्विशेष्यते सर्वत्र तस्याभावादिति ।
पूर्वेण वाप्ययमित्यत्र विरोधमाह-- पूर्वेणेति ।
पूर्वेण देशेनास्याग्नेर्विशेष्यता नास्त्येव, पूर्वदेशस्यात्राभावात्, अस्य च तत्र ।
पूर्वानुभूतस्य त्वग्नेर्देशमात्रेण सम्बन्धः पुरऽस्थितवह्नेः सर्वदेशसम्बन्धनिराकरणेनैव तुल्यन्यायतया निराकृत इति न पृथगुपन्यस्य दूषित इति ॥४३॥
एवं सप्तसु पक्षेषु निराकृतेष्वष्टमः पक्षोऽवशिष्यते एतद्देशविशिष्टो वा योऽयमग्निरिति तन्निराकरोति--- एतदिति ।
अयं पुरऽस्थितोऽग्निरनेन देशेन विशिष्टः साध्यत इति स वक्तव्यः ।
स्वदेशकालवर्त्येव स्मरणेन विषयीकृतः कथमसावनेन देशेन विशेष्टुं शक्यः ।
तदेवंवादिना नापि पूर्वस्येत्यपि नालोचितम् ।
अनवच्छिन्नस्मृतावपि च धर्मो धर्मिणो विशेषणमिति नेदं युक्तिसाध्यम् ।
धर्माणां धर्मिविशेषणतयैव सर्वदावगतेरित्यलमनेनेति ।
देश एव तु पूर्वावगतो विशेष्यतामर्हतीत्यभिप्रायेणाह--- अग्नेरिति ॥४४-४५॥
यदि चाग्निर्विशेष्यो भवेत् ततस्तस्यैवायमाद्यो ज्ञानकालो भवेत्, प्रसिद्धस्याप्रसिद्धेन विशेषणात् ।
इह त्वादौ पर्वत एव ज्ञायते ।
कथमसौ पश्चात् प्रत्येष्यमाणस्याग्नेर्विशेषणं भवतीत्याह---तज्ज्ञानेति ।
तदवृत्तेनाग्निं निर्दिशति ।
अग्नेर्ज्ञानकाले हि स एव देशो बुद्धः ,नाग्निः , अतः कस्य


गृहीतेऽग्निविशिष्टस्य पुनर्ज्ञानं न दुष्यति ।
तस्मात् धर्मविशिष्टस्य धर्मिणः स्यात् प्रमेयता ॥ ५,४.४७ ॥
सा देशस्याग्नियुक्तस्य धूमस्यान्यैश्च कल्पिता ।
ननु शब्दवदेव स्यात् लिङ्गगम्यं विशेषणम् ॥ ५,४.४८ ॥
नैवं न ह्यत्र लिङ्गस्य शक्त्यनेकत्वकल्पना ।
न च तस्यानुमेयत्वं विशेष्यश्चावधारितः ॥ ५,४.४९ ॥
देशो विशेषणं भवति ।
प्रमितं हि वस्त्वप्रमितेन धर्मेण प्रमित्सितं भवति ककीदृग्धर्मोऽयमिति ।
तथा चदेश इति स एव प्रमित्स्यते, प्रमीयते च, न पुनरग्निरिति ।
ननु देशोऽपि प्रत्यक्षावगत एवेति ककथमसावनुमानस्यविषयो भविष्यतीत्यत आह--- देशस्येति ।
स्वरूपमात्रमेव हि देशस्य प्रत्यक्षेणावगतम्, अनुमानेन तु पावकादिविशिष्टता तस्यानुमीयत इति न गृहीतग्राहित्वमिति ।
अतो धर्म्येव धर्मविशिष्टः प्रमेयः न धर्मो धर्मिविशिष्ट इत्याह---तस्मादिति ॥४६-४७॥
एवं च देश एवाग्निविशिष्टः प्रमेयोऽवतिष्ठते ।
स हि धर्मी, तदाश्रयत्वादग्नेः ।
न त्वग्निः , अतदाश्रयत्वाद्
देशस्येत्याह---सा देशस्येति ।
अन्ये तु पूर्वावगतधूममप्यग्निविशिष्टमनुमानस्य प्रमेयं मन्यन्ते ।
तदपि साध्वेवेत्यभिप्रायेणाह---धूमस्यान्यैश्च कल्पितेति ।
सा प्रमेयतेति सम्बन्धः ।
अत्र चोदयति--- नन्विति ।
विशिष्टोऽनुमानस्य विषय इत्युक्तम् ।
नागृहीतविशेषणन्यायेन लिङ्गमपि शब्दवद् विशेषणमात्रपर्यवसाय्येव युक्तम् ।
शब्दो हि विशेषणमात्र एव वर्तत इत्याकृत्यधिकरणे वक्ष्यत इति ॥४८॥
परिहरति---नैवमिति ।
कारणमाह---नहीति ।
अनेकशक्तिकल्पनाभयेन हि शब्दस्य विशेषणमात्रपर्यवसानमिष्टम् ।
लिङ्गं तु पूर्वावगतप्रतिबन्धवलेन प्रतिबन्धकधियमुपकल्पयति ।
तद् यावतैव प्रतिबद्धमवगतं धूमवत्त्वं प्रतिबद्धमवगतमित्यग्निमत्त्वमेवानुमापयतीति न कश्चित् दोष इति ।
न च विशेषणमात्रमनुमेयं सिद्धसाध्यत्वादित्युक्तमित्याभिप्रायेणाह---


विशिष्टत्वेन चाज्ञानात् तन्मात्रस्यानुमेयता ।
ननु धूमविशेष्यत्वे हेतोः पक्षैकदेशता ॥ ५,४.५० ॥
नैतदस्तिविशेषे हि साध्ये सामान्यहेतुना ।
धूमतज्ज्ञानसम्बन्धस्मृतिप्रामाण्यकल्पने ॥ ५,४.५१ ॥
फलेन विषयैकत्वं तद्वयापारात् पुरोदितम् ।
प्रमेयधीः प्रमाणं हि भाष्यकारस्तु मन्यते ॥ ५,४.५२ ॥
न चेति विशेष्योऽपि पर्वातदिस्वरूपेणावधारितः सोऽपि नानुमेय इत्याहविशेष्य इति ॥४९॥
अतो विशिष्टत्वेनैव रूपेणाज्ञानात् तस्यैवानुमेयत्वमित्याह---विशिष्टत्वेनेति ।
अत्र चोदयति--- नन्विति ।
धूमोऽप्यग्निविशिष्टोऽनुमीयत इत्युक्तं, तदयुक्तम् ।
प्रतिज्ञार्थैकदेशत्वादिति ।
परिहरति---नैतदिति ।
सामान्यविशेष्यतात्मा हि धूमः , तत्र विशिषात्मना पक्षीकृतस्य सामान्यत्मना हेतुत्वमिति न पक्षैकदेशतेति ।
समधिगतं तावदनुमानस्य विशिष्टो विषय इति, स्वरूपमेव किमस्येति न ज्ञायते ।
तद् यदि धूमतज्ज्ञानादीनामनुमानत्वमिष्यते, ततः प्रमाणफलयोर्विषयभेदः स चायुक्तः ।
अत एव भिक्षुणा एकमेव ज्ञानं प्रमाणफलरूपमिति प्रत्यक्षमुक्त्वा तदेवानुमानेऽप्यतिदिष्टं पूर्ववत् फलमस्येति ।
यदित्वनुमेयज्ञानमेव प्रमाणमिष्यते ततोऽप्यतिरिक्तफलाभावः ।
अतो वक्तव्यमनुमानस्य स्वरूपमित्यत आह--- धूमतज्ज्ञानेति ।
यत्तावत् भिक्षुणा प्रमाण(फल?)मेव फलमित्येकविषयत्वलाभावदाश्रितं, तत् प्रत्यक्षवदिहापि प्रतिषेद्धव्यम् ।
न हि साध्यरसाधनयोरभेदं लौकिका मन्यन्ते ।
को हि वृक्षाच्छिदया सार्धं परशोरेकत्वमातिष्ठते ।
विषयभेदपरिहारस्तु प्रत्यक्षोक्त एवेहाप्यनुसन्धातव्यः ।
यथा हीन्द्रियादिप्रमाणपक्षे यत्र फलं निष्पद्यते तद्विषयव्यापारात् समानविषयत्वमुपपादितम् ।
एवमिहापि धूमादिप्रमाणपक्षे तद्व्यापारादेव पुरोदितं विषयैकत्वमितदेष्टव्यम् ।
अतो धूमस्तज्ज्ञानं वा सम्बन्धस्तत्स्मरणं वा प्रमाणमस्तु, विवक्षाधीनत्वात् प्रमाणफलभावस्येति ।
यत्तु बुद्धेः प्रमाण


प्रत्यक्षानियमोक्तिश्च सर्वत्रैवानुषज्यते ।
अनुमानगृहीतस्य तेनैव प्रतिपादनात् ॥ ५,४.५३ ॥
परेभ्यो वाञ्छता वाच्यऽपूर्वं पक्षो यथोदितः ।
तत्र धर्मिणमुद्दिश्य साध्यधर्मो विधीयते ॥ ५,४.५४ ॥
(फल?)त्वे फलाभाव इत्युक्तम् ।
भाष्यकारो हि बुद्धिरेव प्रमाणमिति दर्शयति यत् कारणमसन्निकृष्टेर्ऽथे बुद्धिरिति वदति ।
न च फलाभावः , हानादेरेव फलत्वात् ।
नच सजातीयमेव फलमिति राजाज्ञा ।
उपयोगाद्धि रकसजातीयमसजातीयं वा फलं भवत्येव ।
अस्तु वा सजातीयमेव फलं हानादिबुद्धिः फलं भविष्यति ।
उपकारादिस्मृतिर्वेस्यभिप्रायेणाह---प्रमेयधीरिति ॥५२॥
यदि भाष्यकारः प्रमयधियः प्रामाण्यं मन्यते, कथं तर्हि धूमादिप्रमाणत्वाभ्युपगमः अत आह---प्रत्यक्षेति ।
उक्तमस्माभिर्विवक्षाधीनं प्रमाणत्वमिति ।
तद् यदा धूमादीनामेव प्रकृष्टसाधनत्वमवगम्यते, तदा तदेव प्रमाणम् ।
भाष्यकारेणापि बुद्धिर्वा जन्म वेत्यादिना प्रत्यक्षनियमं दर्शयता सर्वत्रैवानियमस्तुल्यया दर्शित एव ।
अतो न धूमादिप्रामाण्याभ्युपगमे भाष्यविरोध इति ॥५२॥
तञ्चेदमनुमानं द्वेधा बौद्धा विभजन्ते स्वार्थं परार्थञ्चेति ।
यदाहुः ----
अनुमानं द्विधा स्वार्थं त्रिरूपाल्लिङ्गतोर्ऽथदृक्
परार्थमनुमानं तु स्वदृष्टार्थप्रकाशकम्॥
इति ।
तदिदं द्वैविध्यमनुपपन्नमित्यभिप्रायेणाह---अनुमानेति ।
अस्यार्थः --- गुरुशिष्यसहाध्यायिविरोधिप्रतिवादिभ्यः परेभ्योऽनुमानगृहीतस्यार्थस्य तेनैवानुमानेन प्रतिपादनं वाञ्छता यथा पूर्वमस्माभिः प्रतिपादितः पक्षो विशिष्टो धर्मी प्रमीयत इति स वक्तव्यः ।
इदमत्राकूतम् ।
स्वयमनुमानेन गृहीतमर्थं परं प्रतिपादयितुं साधनवाक्यमेव प्रयुज्यते ।
परस्तु ततो वाक्यात् त्रिरूपं लिङ्गमनुसन्धाय स्वयमेव साध्यं वस्तु बुध्यते, तदस्य स्वार्तमेवानुमानम् ।
वक्तुरपि स्वयमर्थं प्रतिपन्नवतः स्वार्थानुमानमेव, कतरदत्र परार्थानुमानमिति न विद्मः ।
वचनं परार्थमिति चेत् ।
न ।
अननुमानत्वात् ।
वचनं परार्थमिति तु मृष्यामहे ।
यद्वदति दर्शनस्य परार्थत्वादिति, न तु तदनुमानम्, अत्रिरूपलिङ्गजनितत्वादनर्थदृक् च ।
त्रिरूपाल्लिङ्गतोर्ऽथादृगनुमानमिति वः सिद्धान्तः , अतः कथं वचनमनुमानम् ।
अथानमुमानगोचरीकृतार्थप्रतिपादनसमर्थवचनपारार्थ्यादनुमानं परार्थमित्युपचर्यते, ततः प्रत्यक्षप्रतिपन्नमप्यर्थं बोदयद् वचः परार्थमिति प्रत्यक्षमपि परार्थमापद्येत ।
यदि तु स्वलक्षणविषयत्वात् प्रत्यक्षस्य तस्य चाशब्दगोचरत्वान्न प्रत्यक्षं परार्थामित्युच्यते ।
तदयुक्तम् ।
एवं हि प्रत्यक्षगृहीतार्थविपरीताभिधायिनां तद्विरोधोद्भावनवचनं न युज्यते ॥ यो हि प्रत्यक्षविरूद्धमर्थं प्रतिजानीते नाग्निरूपष्ण इति, स वचनेन तं प्रत्यक्षविषयमर्थं प्रतिपाद्य निराक्रियते ।
प्रत्यक्षविषये तु शब्दागोचरे तन्नोपपद्येत,अतः प्रत्यक्षविषयमपि शब्दो वदतीत्यभ्युपगन्तव्यम् ।
एवं च प्रत्यक्षविषयवचनपरार्थतया कः प्रत्यक्षपरार्थतां वारयतीति द्वैविध्यानुपपत्तिः ।
अतो यथोदितः पक्ष एव वाच्य इत्युक्तवान् ।
इदं तु वक्तव्यम्---- कोऽयं पक्षो नाम, तदुच्यते, प्रतिज्ञार्थः पक्षः ।
का प्रतिज्ञा ।
साध्यसमर्पकं वचनम् ।
यदाहुः ---
ऽसाध्यनिर्देशः प्रतिज्ञेऽति ।
अतः साध्यः पक्ष इत्याचक्ष्मह इति वाच्यः पक्ष इत्युक्तम् ।
तद्वचनमिदानीमुपन्यस्यति---तत्रेति ।
तत्र पक्षे धर्मिणं प्रथंमुपद्दिश्य साध्यधर्मोऽग्न्यादिर्विधीयते ।
योऽयं पर्वतः सोऽग्निमानित्युक्तं भवति ।
इदं तु पक्षवचनं प्रतिज्ञापरनामानमेके नानुमन्यन्ते ।
वदन्ति च किमनेनानर्थकेन, अन्तरेणापि पक्षवचनमपेक्षितं सिध्यत्येव ।
हेतुर्हि साध्यसाधकः ।
न पक्षस्य वचनम् ।
नह्ययमागमिकोर्ऽथः , हेतुवचनानर्थक्यप्रसङ्गात् ।
आप्तानुसारेण पक्षवचनाद्रथनिश्चये हेत्वभिधानमनर्थकं स्यात् ।
वक्तृगुणदोषावधारणप्रवण एव प्रतिवादी भवेत् ।
हेत्वधीने तु निर्णये तच्छ्क्तिरेव निरूपयितुमुचिता, किं प्रतिज्ञावचनेन् ।
हेतोश्च सामर्थ्यं साध्यान्वयप्रदर्शनेनैव सिद्धम् ।
अतो यत् कृतकं तदनित्यं शब्दश्च कृतक इत्युदाहरणोपनयमात्रादेव साध्यसिद्धेरनर्थिका प्रतिज्ञा ।
हेतोरेव तु त्रैरूप्यं दर्शयितव्यम् ।
तच्च दृष्टान्तद्वयेनोपनयेन च कथ्यत इति कृतमतिविस्तरेण ।
यदि तु विवादमावेदयितुं प्रतिज्ञावचनमित्युच्यते ।
तन्न ।
अव्यापकत्वात् ।
यो हि मन्यते--- यदा खल्वयं शब्दो नित्य इति प्रतिजानीते तदेतरोऽनित्यवादी व्युत्थितो भवति ततो जल्पः प्रवर्तत इति ।
तच्च नैवम्, अव्यापकत्वात् ।
यो हि मन्यते---यदा खल्वयं शब्दो नित्य इति प्रतिजानिते तदेतरोऽनित्यवादी व्युत्थितो भवति ततो जल्पः प्रवर्तत इति ।
तच्च नैवम्, अव्यापकत्वात् ।
नेदं प्रतिज्ञावचनस्य व्यापकं प्रयोजनम् ।
वादे असम्भवात् ।
शिष्यविषयो हि सः ।
स च तत्त्वमेव बोधयितव्यः , अतो हेतुशक्तिमेव प्रतिपाद्य तत्त्वं बोध्यत इति युक्तम्, किं विवाद आद्रियते, न हि तेन सह विवदितव्यम् ।
जल्पे स्यादिति चेद्, न ।
अन्यथा सिद्धेः ।
तत्रैतत् स्यात्--- जल्पे खलु विवादमाजिहीर्षुः प्रतिज्ञां प्रणयतीति, तच्च नैवम् ।
अन्यथासिद्धेः , असत्यपि हि पक्षवचने लक्ष्यत एव यथा ध्वनिमनित्यमनुमिनोतीति, यत् कारणं यत्कृतकं तदनित्यं यथा घट इत्युक्त्वा कृतकत्वं ध्वनेरुपनयति शब्दश्च कृतक इति ।
ततो जल्पः प्रवर्तिष्यत एव ।
वितण्डा तु यथा तथा वादे दर्शिते प्रवर्तत एव ।
न हि वैतण्डिकस्य किञ्चित् परनिग्रहादन्यद् साध्यमस्ति ।
यदसौ प्रतिज्ञावचनेन क्वचिदर्थे साध्यमाने स्वविपरीतसिद्धिं मन्वानो जातोद्वेगो विवदेत् ।
अतः प्रतिज्ञावचनं कथात्रयेऽप्यनुपयुज्यमानमुपेक्षणीयमित्याक्षिपन्ति ॥ अत्राभिधीयते--- स्वदृष्टार्थप्रकाशनं परार्थमनुमानमिति भवद्भिरेवोक्तम् ।
स्वयं च कुतश्चिद्धेतुविशेषात् किञ्चित् केनचिद् धर्मेण विशिष्टमवगतमिति परस्मा अपि तथैव कथ्यत इति युक्तम् ।
असत्यां तु प्रतिज्ञायामनाश्रयहेत्वादय आकाशपतिता इव भवेयुः ।
ननु नायं पक्षवचनपुरऽसरमज्ञासीत्साध्यमिति कथं परस्मै तथा कथयति ।
मैवम् ।
यद्यपि शब्दोऽनित्य इति स्वप्रतिपत्तौ नोच्चारितं तथापि सविकल्पकत्वादस्या बुद्धेरस्त्येवात्र प्रमातुर्विशिष्टो विकल्पः , उच्चारणं तु परार्थमिति तन्मात्रं स्वप्रतिपत्तौ नासीत् ।
परस्तु नानुच्चारितेन शब्देन प्रतिपादयितुं शक्यत इत्युच्चार्य प्रतिपाद्यत इति शब्दोच्चारणमात्रमधिकम् ।
यत्तु वादेऽनुपयोग
इत्युक्तम्, तन्न, सुतरामुपयोगात् ।
जल्पवितण्डे हि विजिगीषमाणयोर्द्वयोः प्रवर्तत इति परं भ्रामयितुं प्रतिज्ञावचनं न प्रयुज्येत ।
अविवादे तु शिष्यो न व्यामोहनीय इति विशदतरमेव प्रतिज्ञा


नियमस्तद्विरुद्धाच्च कल्प्यते नाविरोधिनः ।
असन्निकृष्टवाचा च द्वयमत्र जिहासितम् ॥ ५,४.५५ ॥
वचनेन साध्यत इति युक्तम् ।
न हि न शब्ददारिद्रयं, यदेनं तत्त्वं बुभुत्समानमुपसन्नमविशदवचनेन परिक्लेशयाम ।
न चैव जल्पेऽनुपयोग इति ।
उक्तमिदमसति हि प्रतिज्ञावचनेऽनाश्रया हेत्वादयो न प्रवर्तेरन्निति ।
गुणभूता हि ते प्रधानभूतसाध्यपेक्षायां सम्बध्यन्ते ।
तच्च नासित साध्यनिर्देश उपपद्यते ।
निर्दिष्टे हि साध्ये कुत इत्यपेक्षायां हेतुः सम्बध्यते ।
ततः कथमयमव्याप्तोऽस्य साधक इत्यपेक्षिते व्याप्तिवचनम् ।
इतरथा त्वैकार्थ्याभावादेकवाक्यतैव न सवर्तेत ।
तथाहि-- यत्
कृतकं तदनित्यमित्युक्ते कृतकत्वमनित्यतया सम्बद्धमित्यनूदितम् ।
पुनश्च शब्दः कृतक इति शब्दस्य कृतकतया सम्बन्धोऽनूदितः ।
परस्परसम्बन्धे तु न प्रमाणम् ।
असम्बद्धमिदं वाक्यद्वयमित्याशङ्क्येत्, कृतकं तावदनित्यं शब्दोऽपि कृतक इति स्वरूपनुवादमात्रमुभयोरिति शङ्का जायेत, अर्थान्तरं वापद्येत ।
यथा चानित्यत्वधर्मा कृतकस्तथा शब्दात्मकोऽपीति, तदत्र सर्वे कृतकाः शब्दात्मान इति साधुसम्पादितमापद्येत ।
अतः प्रधानवाक्यावयवप्रतिज्ञा यदपहनुयते तन्नास्तिकानामेव सर्वापलापवादिनां शोभते नेतरेषाम् ।
सा हि सर्वव्यवहाराणां सारः ।
यदाहु---
"सारं तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तसंस्तामुत्तरो भवेत् ॥"
इति सूक्तो वादिवचनप्रकारो धर्मिणमुद्दिश्य साध्यधर्मो विधीयत इति ॥५३-५४॥
नन्वेवं साध्यविशिष्टे धर्मिणि विधीयमाने केवलसाध्यान्वयावगमाद् धर्मान्तरव्युदासो भवेत् ।
ततश्चानित्यः शब्द इत्युक्ते नित्य एवेत्यवधारणादम्बरगुणत्वादयोऽपि तद्धर्मा न भवेयुः ।
एवं च हेतोरपि प्रतिक्षेपात् साध्यसिद्धिरपि दुर्लभैव ।
असत्यवधारणे नित्योऽपि स्यादिति नेष्टसिद्धिः ।
अथ कथमेको नित्योऽनित्यश्चेत्यर्थात् प्रतिपक्षप्रतिक्षेपः ।
सत्यम्, अत एव तन्निवृत्त्यर्थमवधारणे क्रियमाणे इतरनिवृत्तिरपि भवेदत आह--- नियम इति ।
साध्यधर्मविवक्षापेक्षयैव नियमः कल्प्यते, न पुनरविरोधिनोऽपि धर्मान्तरात् ।
अतोऽग्निमानिति साध्यमानेऽग्न्यभावमात्रमेव निराकृतं भवति, न पुनः धर्मान्तरम् ।
यथा शुक्लः पट इत्युक्ते तद्विरोधिनस्तदभावस्यैव निवृत्तिर्भवति,नाविरोधिनां सूक्ष्मत्वादिधर्माणामिति ।
अत्र चासन्निकृष्टेर्ऽथ इत्युच्यते तस्य कोर्ऽथः ।
यद्यनवगतपूर्वमेवार्थमनुमानं गोचरयतीति, तन्न ।
सम्बन्धज्ञानकाल एव हि यावद्धूमादिभावितयाग्न्यादिसम्बन्धोऽवगत एव ।
अन्यथा नियम एवावधारितौ न स्यात् ।
न चात्र देशकालसम्बन्धोऽधिक इति वक्तव्यम् ।
धूमस्य हि देशादिसम्बन्धो भासते नाग्नेः ।
धूमोपलक्षिताशेषदेशसम्बन्धस्य सम्बन्धसमधिगम एवावसायात् ।
अत एव कैश्चित् स्मरणाभिमाननिरासार्थमसन्निकृष्चपदं व्याख्यातम् ।
स्मरणं हि सन्निकृष्टावमर्शोल्लिखितमेव प्रायशो भवति,स इति हि तत् प्रवर्तते ।
न चैवमनुमानम् ।
अतो नेदं स्मरणम् ।
नन्वसत्यपि तदुल्लेखे स्मरणमुत्पद्यत एव ।
यथा प्रमोषे ।
मैवम् ।
ग्रहणकारणाभावाद्धि तत्रानुभवाकारप्रवृत्तमपि ज्ञानं स्मतिरित्यास्थितम् ।
न ह्यसन्निहितरजताद्यवभासकारणत्वमिन्द्रिययाणां प्राप्यकारिणां सम्भवति ।
स्मृतिहेतुस्तु प्राचीनामुभवप्रभाविता भावना समस्तीति स्मृतिरेव प्रमुषिततदवमर्शा सेत्याश्रितम् ।
इदं तु प्रत्युत्पन्नलिङ्गादिकारणबलादुत्पद्यमानं लैङ्गिकज्ञानमनुभवाकारप्रवृतं न तद्भावादुतारयितुं शक्यम् ।
अनुभूतिश्च नः प्रमाणम् ।
अतः प्रमाणमनुमानमित्याख्यायते ।
यद्येवमस्तु तर्हीदमेवासन्निकृष्टपदस्य प्रयोजनम् ।
न ।
फलाभावेनाप्रामाण्यप्रसङ्गात् ।
अधिकपरिच्छेदफलं प्रमाणं भवति ।
परिच्छेदमात्रस्य तु फलत्वे स्मृतावपि प्रसङ्गः ।
सापि हि स्वगोचरपरिच्छेदात्मिकैव जायते ।
स्यान्मतम्---अनपेक्षं हि नः प्रमाणम् ।
अपेक्षते च स्मरणं ग्रहणम् ।
अतो न प्रमाणमिति ।
तन्न ।
लैङ्गिके प्रसङ्गात् ।
तदपि ह्येकदेशदर्शनादिसापेक्षमेव ।
स्वविषयग्रहणापेक्षं स्मरणं नेदमिति चेन्न ।
इहापि तदपेक्षणात् ।
लैङ्गिकमपि हि प्राचीनाग्निज्ञानसापेक्षमेव ।
न ह्यनवगताग्नेरविदितसम्बन्धस्याग्निरत्रेति मतिराविरस्ति ।
न च ग्रहणं प्रमाणमेवेति राजाज्ञा ।
भ्रान्तावपि प्रसङ्गात् ।
विपरीतावग्रहोऽपि ग्रहणमेव ।
न च प्रमाणम् ।
न चासौ नास्तीति यथार्थायथार्थज्ञानविभागं व्याचक्षाणैरस्माभिरुक्तमेव ।
अपि चऽर्थेऽनुपलब्धः इति सूत्रयता सूत्रकारेण


ताद्रूप्येण गृहीतत्वं तद्विपर्ययतोऽपि च ।
प्रमितस्य प्रमाणे हि नापेक्षा जायते पुनः ॥ ५,४.५६ ॥
ताद्रूप्येण परिच्छिन्ने प्रमाणं निष्फलं परम् ।
सर्वमनुपलब्धार्थविषयमेव प्रमाणमिति सूत्रितम् ।
एतदपि तद्व्याख्यानावसरे वर्णितमेव ।
अतो व्याख्येयमसन्निकृष्टार्थग्रहणमत आह--- असन्निकृष्टेति ।
अस्यार्थः --- द्वेधा हि सन्निकृष्टं भवति तद्रूपप्रमितं विपरीतनिरूपितं वा ।
तदुभयजिहासयेयमसन्निकृष्टवागिति ।
किं पुनस्तन्निराकरणमत आह--- प्रमितस्येति ।
व्यवहारार्थं ह्यप्रमितपरिच्छेदाय प्रमाणमपेक्ष्यते न व्यसनेन ।
स च सकृत्प्रमाणव्यापारादेव सिद्ध इति न प्रमाणान्तरापेक्षेति ॥५५,५६॥
किं पुनः प्रमितस्य प्रमाणान्तरापेक्षा न जायेत ।
अत आह---ताद्रूप्येणेति ।
वर्णितमिदं ---द्वेधा हि प्रमितं भवति ताद्रूप्येण वैपरीत्येनेति ।
तत्र तावत् ताद्रूप्यपरिच्छेदे न परं प्रमाणं फलवत् ।
पूर्वपिरच्छेदादेव तदर्थसिद्धेः ।
वैपरीत्यपरिच्छेदे तु प्रमाणान्तरमनवकाशमेवेति तदुभयनिराकरणार्थमसन्निकृष्टग्रहणमर्थवत् ।
नन्वेवमप्रमाणमेवानुमानं
सन्निकृष्टविषयत्वादित्युक्तमेव ।
न ।
अधिकारविषयत्वात् ।
यद्यपि पूर्वावगतो धर्मः स्मृतिविषयः ।
धर्मी च गिरिरनुभवसिद्धः , तथापि विशिष्टमनुमानेन विषयीक्रयत इति वर्णितमसकृत् ।
नन्वग्निविशिष्टोऽपि सम्बन्धसमय एव संविदितः ।
एवं ह्यनेन व्याप्तिग्रहणकालेऽवगतं धूमवन्मात्रमग्निमदिति ।
तदस्य धूमवन्मात्र एवापेक्षा ।
विदिते तु तस्मिन्नग्निमत्ता प्रमितपूर्वैवानुभूयते ।
सत्यम् ।
किन्तु धूमवानग्निमत्तया प्रितपूर्वोऽपि समप्रत्यनुमानेन प्रत्यभिज्ञायते ।
प्रत्यभिज्ञानं चेदं प्रमाणमेव प्रत्यक्षप्रत्यभिज्ञानवत् ।
पूर्वं हि धूमवत्त्वोपलक्षितेन रूपेणाग्निमत्तया देशो निर्ज्ञातः ।
समप्रत्ययमसावग्निमानिति विशेषतोऽनुमानेन प्रत्यभिज्ञायत इति किमनुपपन्नम् ।
अवश्यं चैवमभ्युपगन्तव्यम्, अन्यथा कथमग्निमानिति विदित्वा व्यवहाराय घटते ।
एष हि पक्तुकामोऽग्निमत्तामनुमायाग्नये धावतीति पश्यामः ।


वैपरीत्यपरिच्छिन्ने नावकाशः परस्य तु ॥ ५,४.५७ ॥
मूले तस्य ह्यनुत्पन्ने पूर्वेण विषयो हृतः ।
प्रत्यक्षादेश्च षटकस्य नैवार्था ह्यवधारितः ॥ ५,४.५८ ॥
तेनैवोत्तरबाधः स्याद् विकल्पादेरसम्भवात् ।
अग्राह्यता तु शब्दादेः प्रत्यक्षेण विरिध्यते ॥ ५,४.५९ ॥
तत् कस्य हेतोः , न यदि पूर्वानुभवादद्य विशेषः , अवागमत् खल्वयं धूमवानग्निमानिति, न चाग्नये धावतीति ।
कथमनाश्रयप्रतिपन्नेऽग्नौ व्यवहरतीति चेत् ।
न ।
प्रागपि धूमवदाश्रयत्वनावगमात् ।
पर्वतमधुना प्रत्यक्षेण विशेषतोऽवगम्याग्न्ये व्यवहरतीति चेत् ।
किमस्याग्न्यर्थिनः पर्वतप्रत्यक्षेण ।
तदयमग्निमत्तया बोध एव पूर्वबोधाद् विलक्षणोऽभ्युपगन्तव्यः ।
यत्कृतो व्यवहारविशेष इत्यगृहीतविषयत्वादनुमानं प्रमाणमिति वक्तव्यम् ।
तदिदमसन्निकृष्टग्रहणेनोक्तम् ।
ये तु स्मृत्याशङ्कानिराकरणमः सय प्रयोजनमाहुः , तेषां बाधितविषयमप्यनुमानमापद्येत ।
न हि तन्निराकरणमवयवान्तरेण लक्षणग्रन्थे कृतमुपलभ्यते ।
अतोऽसन्निकृष्टग्रहणमेवोभयविधसन्निकृष्टार्थनिराकरणार्थमिति साध्वी व्याख्येति ॥५७॥
वैपरीत्यपरिच्छिन्ने परमनवकाशमित्युक्तम् ।
तत्र कारणमाह--- मूल इति ।
व्याप्तिस्मरणादि ह्यनुमानस्य मूलम्, तद्यावदुत्तरं तत्तद्व्यापारव्यग्रतया विलम्बते तावच्छीघ्रभाविना पूर्वेण विषयापहाराद् विप्रकृष्टसाधनस्योत्पत्तिरेव निरुध्यत इत्यनन्तरमेव वक्ष्यत इति कथं पुनरनुमानं बाध्यते ।
तदपि हि प्रमाणं कथं प्रमाणान्तरेण बाधितुं शक्यते ।
बाधे वा न क्वचिदाश्वासो भवेत् ।
आभासो बाध्यत इति चेत्, कथमाभासत्वम् ।
यदि बाधादेवेतराश्रयं तर्ह्यस्तु वा ज्येष्ठप्रमाणेन प्रत्यक्षेणानुमानबाधः ।
नतु ततोऽपि जघन्यैरपरैर्बाध्यते, तत् कस्य हेतोः अत आह---प्रत्यक्षादेरिति स्यादन्तेन ।
अयमभिप्रायः ---न प्रमाणं नाम क्वचित् बाध्यते ।
अवधारणात्मकं ह्येवैतदिति ज्ञानं प्रमाणम् ।
तद् यत्र कस्यचिदर्थस्य केनचिदात्मनावधारणं भवति तत्र तेनोत्पन्नस्योत्पत्स्यमानस्य वा ज्ञानस्य बाधोऽभिधीयेत ।
तद्द्विविधो हि बाधः प्राप्तबाधश्चाप्रताप्तबाधश्चेति ।
प्राप्तबाधो हि यथा--- शुक्तिकारजतज्ञाने ।
तत्र हि पूर्वोपमर्दनेनैवोत्तरमात्मानं लभत इति तत् तस्य बाधकम् ।
उत्तरं च देशादिभेदेऽप्यबाधितं स्वभावतश्च प्रमाणं पूर्वमाभासीकरोति ।
तदेवं प्राप्तबाधे तावद् येनोत्तरेणार्थोऽवधारितः ।
त्रिविधमप्यप्रामाण्यमवधारितपदेन व्युदस्यति ।
न ह्यज्ञातः सन्दिग्धो विपर्यस्तो वार्थोऽवधारितो
भवतीति त्रिविधिमप्यप्रामाण्यं यस्य नास्तीत्युक्तं भवति ।
तदेवमात्मना ज्ञानेन पूर्वमाभासीकृतमिति तत्राभास एव बाध्यत इति नातिप्रसङ्गः ।
अप्राप्तबाधे तु यावत् क्लिष्टसाधनमनुमानं स्वगोचरे सामान्यशास्त्रं वा क्वचिद् विशेषविषये प्रवर्तितुमारभते तावत् प्रत्यक्षेणानुमानेन वा सिद्धसर्वाङ्गकेनागमेन वा विशेषविषयेण शीघ्रजन्मना येनैवार्थोऽवधारितो
भवति तेनैवोत्तरस्योत्पत्तिप्रतिबन्धलक्षणो बाधो भवति ।
न हि बलवता शीघ्रभाविना प्रमाणेन निरुद्धमुखमुत्पत्तुमर्हति ।
तदेवमप्राप्तबाधे परमनुत्पन्नमेव प्राप्तिसम्भावनया तु बाध्यत इत्युच्यते श्रुत्येव लिङ्गमिति न क्वचित् प्रमाणबाधः ।
यत्तु जघन्येन मुख्यबाधो न युक्त इति ।
तन्न ।
न हि प्रत्यक्षादीनां विनियोगप्रमाणानामिव पारदैर्बल्यनियमः ।
यदेव तु शीघ्रभावि पूर्वोपमर्देन वात्मानं लभते तदेव बाधकमभिदध्महे ।
इतरञ्च बाध्यमत एव तेनैव तस्य बाधं ब्रूमः ।
प्राप्तबाध इव प्रत्यक्षस्य तेनैवानुमानेन च सिद्धाङ्गकेन साध्याङ्गकस्य विशेषशास्त्रेण सामान्यशास्त्रस्य ।
अतः सर्वप्रमाणाविरुद्धमेव पक्षमभिधास्यामः ।
न चानाश्वासः ।
आभासबाधात् ।
स्वतः प्रमाणेन चावधारणात्मना ज्ञानेनेतराभासीकरणात् ।
तदिदमवधारितपदेनोक्तमिति ।
ननु च बलवतापि नावश्यं दुर्बलं बाध्यते ।
असति हि सम्भवे बाधः सम्भवति ।
अतो विषयव्यवस्थाया विकल्पेन समुच्चयेन वोभयमुपपादयिष्यते विनात्यन्तिकबोधाश्रयणेन (?), अत आह---विकल्पादेरिति ।
नात्रोक्ता विकल्पादयः सम्भवन्ति ।
न तावत्परस्परविरुद्धं रूपद्वयमेकत्र समुच्चीयते ।
न हि श्रावणोऽश्रावणश्च
नित्योनित्यश्चेति सम्भवति ।
न च विकल्पः ।
विधिनिषेधविषयत्वात् तस्य सिद्धे वस्तुन्यसम्भवात् ।
न च विषयव्यवस्था, वर्णात्मनामेव नित्यानित्यत्वसाधनात् ।
अतोऽसम्भवादेव बाधमभिदध्मह इति ।
एवमुपपादितो बाध उदाहरणैर्दर्शयितव्यः ।
तत्र प्रत्यक्षबाधमेव तावद् दर्शयति अग्राह्यतेति ।
इमं तु प्रत्यक्षबाधं न बुध्यामहे ।
स्वगोचरविपरीतार्थं हि प्रमाणं


तेषामश्रावणत्वादि विरुद्धमनुमानतः ।
नहि श्रावणता नाम प्रत्यक्षेणावगम्यते ॥ ५,४.६० ॥
सान्वयव्यतिरेकाभ्यां गम्यते बधिरादिषु ।
त्रिधा शब्दविरोधः स्यात्प्रतिज्ञादिविभागतः ॥ ५,४.६१ ॥
प्रत्यक्षेण बाध्यत इति युक्तम् ।
न चग्राह्यता प्रत्यक्षविषया ग्राह्यग्रहणसम्बन्धविषयत्वात्तलः ।
तस्य च प्रत्यक्षगोचरत्वात् ।
शब्दो हि प्रत्यक्षः न ग्राह्यता ।
अत एव ह्यश्रावणतापक्षोऽपि न प्रत्यक्षेण विरुध्यत इति वक्ष्यते ।
अत्रोच्यते ।
सत्यम्,
नेन्द्रियविषयो ग्राह्यता, ग्राह्यस्तु तद्विषयः ।
तदिह ग्राह्यपलापस्यैव प्रत्यक्षविरोधो दर्शितः ।
निरालम्बनानुमानस्येति यावत् ।
प्रत्ययस्त्वग्राह्यपरदादुपपन्नस्तस्यैवाभावमभिधत्ते ।
कश्च ग्राह्यस्य भावोऽन्यदतो भावात् ।
इयं हि शशविषाणस्याग्राह्यता यन्न भवति ।
तदभावादेव तत्राग्राह्यताभिदानप्रत्ययौ ।
तदनेन प्रकारेण शब्दाभावपक्षस्यैव प्रत्यक्षविरोध उपदिष्ट इति न किञ्चिदनुपपन्नमिति ॥५८,५९॥
अनुमानविरोधोदाहरणमाह---तेषामिति ।
तेषामेव शब्दादीनामश्रावणत्वाद्यनुमानविरुद्धं यो ह्यश्राणमनित्यं वा शब्दं पक्षमिच्छति तस्यासौ शीघ्रभाविना विपर्ययानुमानेन बाध्यत इति ।
इदं तु प्रत्यक्षवरोधमन्ये मन्यन्ते ।
तान् निरोकरोति--- नहीति ।
शब्दो हि प्रत्यक्षः न तच्छ्रावणता ग्राह्यग्राहकसम्बन्धो हि शब्दस्य श्रावणस्य च त्वतल्भ्यामुच्यते ।
"कृतद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम्"इति स्मृतेः ।
स च न प्रत्यक्षेण समधिगम्यः ।
अपि च अतीन्द्रियं श्रोत्रं,कथं तत्सम्बन्धः शब्दस्य प्रत्यक्षो भविष्यति ।
न ह्यैन्द्रियानैन्द्रियाधारः सम्बन्धः प्रत्यक्षो भवति वायुवनस्पत्योरिव ।
अतोनायं प्रत्यक्षविरोध इति ॥६०॥
किंप्रमाणिका तर्हि श्रावणता ।
अत आह---सेति ।
अबधिरादिषु शब्दोपलब्धेर्बधिरादिषु चानुपलब्धेरन्वयव्यतिरेकौ दृश्येते ।
तथाहि श्रोत्रोपघातमात्रेण चक्षुरादिमतो बधिरस्य शब्दबुद्धिर्न दृश्यते ।
श्रोत्रे च दृढे चक्षुरादिष्वसम्भवेऽपि शब्दग्रहणं दृष्टम्, अत आभ्यामन्वयव्यतिरेकाभ्यामिदं श्रावणत्वं गम्यत इति ।
नन्वेवं कथमनुमानविरोधः , न ह्यन्वयव्यतिरेकावनुमानम्, तत्प्रभवसमतु मानसः श्रावणत्वविकल्पः , अतो मानसप्रत्यक्ष एवायमिति कश्चित् भ्राम्यति स वक्तव्यः ।
न बहिर्विषयबोधे मनः स्वतन्त्रमिति वर्णितमसकृत् ।
यद् यदीयान्वयव्यतिरेकावनुविधत्ते तत्तकारणकमिति सर्वकार्येषु समधिगतम्, अनुविधत्ते च शब्दज्ञानं श्रवणमिति तत्तत्कारणकमिति ।
इदमेव च शब्दस्य श्रावणत्वम् ।
यत्तु ज्ञानस्य श्रवणजन्यत्वमतोऽनुमानमेवेदम् ।
नन्वन्यत्राप्यन्वयव्यतिरेकानुविधायिनः कथं तत्कारणकत्वमवगन्तव्यम्, यन्न मानसं प्रत्यक्षमाश्रीयते, श्रूयताम् ।
पश्यामो हि वयं कुम्भकारव्यापारानन्तरं कुम्भसम्भवमुदीक्षमाणाः कार्यकारणभावं चक्षुषैव ।
इदं हि कुम्भस्य तत्कार्यत्वं या तदनन्तरसम्भूतिः ।
स च कुम्भस्तत्सम्भवश्चोभयं चाक्षुषमेवेति किमत्र मनसा ।
अतो यद् यस्मिन् सति भवति, असति च न भवति, तत्तत्कारणकमिति प्रत्यक्षतो विदितव्याप्तेरनुमामुपपन्नमेव ।
एवं च प्रयोगः --- श्रवणप्रमाणप्रकाश्यः शब्दः तस्मिन्
सत्येवोपलभ्यमानत्वात् ।
यदेवं तत्ततप्रकाश्यं सन्तमस इव घटः प्रदीपप्रकाश्य इति ।
इदं च प्रत्यक्षपूर्वकार्थापत्तिपूर्वकमनुमानं तया श्रावणत्वसिद्धेः ।
इदं च सिद्धसर्वागत्वादश्रावणत्वानुमानाद् बलवत् ।
यावद्धि गुणत्वस्याश्रावणत्वेन व्याप्तिर्ग्रहीतुमिष्यते, तावच्छीघ्रजनमना श्रावणत्वानुमानेन व्याप्तिसंविदं प्रतिबन्धता तस्योत्पत्तिरेव निरुध्यते ।
एवमेवानित्यत्वानुमानमपि ।
यत् कृतकत्वादिहेतुकं तदप्यसिद्धिव्यभिचारादिदोषान्न शीघर्मुपजायत इति सिद्धावयवैः शीघ्रजन्मभिर्नित्यत्वानुमानैर्बाध्यते ।
यथा देशकालादिभिन्ना गोशब्दबुद्धयः समानविषयाः गौरित्यत्पद्यमानत्वात् सम्प्रत्युत्पन्नगोशब्दबुद्धिवद् ह्यस्तनोच्चारितो वा गोशब्दोऽद्याप्यस्ति गोशब्दत्वाद्, अद्योच्चरितगोशब्दवदित्यादिभिरिति ॥६०॥
शब्दविरोधप्रकारमिदानीं प्रतिजानाति---त्रिधेति ।
प्रतिज्ञाविरोधादयो हि शब्दविरोधतया प्रसिद्धा इति ते तथाभिधीयन्ते ।
न त्वेते शब्दविरोधाः ।
यत्र हि क्वचिदर्थे प्रतिष्ठितेन शब्देन प्रतिज्ञान्तरं बाध्यते, तत्र शब्दविरोधो भवति ।
न च स्ववाग्विरोधे शब्दस्य क्वचिदर्थे प्रतिष्ठास्ति व्याहताभिधानात् ।
पूर्वसञ्जल्पविरोधेऽपि पूर्वापरन्यायबलाबलानुसार्येव निर्णय


प्रतिज्ञापूर्वसञ्जल्पसर्वलोकप्रसिद्धितः ।
यावज्जीवमहं मौनीत्युक्तिमात्रेण बाध्यते ॥ ५,४.६२ ॥
सर्ववाक्यमृषात्वेन धर्मोक्तयैवात्मबाधनम् ।
धर्म्युक्त्याहं यतो जातः सा वन्ध्या जननी मम ॥ ५,४.६३ ॥
इति न शब्दविरोधः ।
न हि तत्र शब्दप्रमाणतोर्ऽथः न्यायगम्यत्वात् ।
लोकं प्रसिद्धिस्तु न शब्दो न प्रमाणान्तरम् ।
अपि तु प्रत्यक्षाद्यन्तर्गतैवेति तद्विरुद्धपक्षप्रदर्शनेनैव प्रदर्शितेति न शब्दविरोधेऽन्तरभावयितुमुचिता ।
नह्यचन्द्रः शशीति पक्षः शब्देन विरुध्यते ।
न हि चन्द्रशब्दशशाङ्कयोः सम्बन्धं शब्दो वदति येनातद्वाच्यपक्षस्य शब्दविरोधो भवति सम्बन्धवाच्यत्वे हीतरेतराश्रयं भवेत् ।
अभिधानात् सम्बन्धः सम्बन्धाच्चाभिधानमिति ।
तस्मान्नैते शब्दविरोधाः ।
पूर्वोत्तरशब्दसामर्थ्यपरामर्शेन त्वेकपरित्यागेनतरपरिग्रहाच्छब्दविरोधतया प्रसिद्धा इति तन्त्रान्तरप्रसिद्धिविबागस्त्रिधाशब्दविरोथ इत्युच्यते ।
परमार्थेन तु वेदार्थवचनविपरीतार्थप्रतिज्ञैव शब्देन वारयितुम् ।
तच्चानन्तरमिहैव वक्ष्याम इति ॥६१॥
तानेव त्रीन् प्रकारान् दर्शयति---प्रतिज्ञेति ।
तत्र प्रतिज्ञाविरोध एवैकस्त्रिधा भिद्यत इत्याह--- यावदिति सार्धेन ।
अयमर्थः ---प्रतिज्ञाविरोधो हि स्ववाग्विरोधः ।
स च त्रेधा भिद्यते ।
उच्चारणधर्मधर्मिभेदात् ।
यावज्जीवमहं मौनीति पक्षऽ
प्रतिज्ञयैव बाध्यते ।
न ह्यनुक्ता सदी प्रतिज्ञा भवति ।
उक्तिमात्रेण बाधाद भवति प्रतिज्ञया बाधः ।
सर्ववाक्यमृषात्वपक्षस्तु धर्मोक्त्या बाध्यते ।
सर्वमृषात्वे हि प्रतिज्ञावचनमपि मृषेति नेतरन्मृषा भवेत् ।
तदमृषात्वे हि प्रतिज्ञावचनमपि मृषेति धर्मसंसर्गासम्भवपरामर्शात् पक्षबाध इति धर्मोक्तिविरोधाभिधानम् ।
पूर्वत्र त्वविशिष्टमुक्तिमात्रमेव मौनं बाधते इत्युक्तिमात्रेणेत्युक्तम् ।
आत्मबाधनमिति ।
धर्मबाधनमित्यर्थः ।
धर्म एवायमुक्त आत्मानं बाधत इति यावत् ।
वन्ध्या मे जननीति पक्षो धर्म्युक्त्या बाध्यते ।
जननीत्वे ह्युद्दिष्टमात्रे न


बौद्धस्य शब्दनत्यत्वं पूर्वोपेतेन बाध्यते ।
चन्द्रशब्दाभिधेयत्वं शशिनो यो निषेधति ॥ ५,४.६४ ॥
स सर्वलोकसिद्धेन चन्द्रज्ञानेन बाध्यते ।
ज्ञातगोगवयाकारं प्रति यः साधयेदिदम् ॥ ५,४.६५ ॥
न गोर्गवयसादृश्यं तस्य बाधोपमानतः ।
गेहावगतनास्तित्वो जीवंश्चैत्रो यदा बहिः ॥ ५,४.६६ ॥
वन्ध्यात्वमास्पदं लभते ।
न च गौणो जननीशब्द इत्यपि वक्तव्यम् ।
अहं यतो जात इति विशेषणात् ।
एवं विशेषिते पक्षे धर्म्युक्तिविरोध इत्युक्तं भवति ।
एतच्चाभ्युपगमवादेनोक्तम् ।
न तु श्रुतिस्मृत्यतिरेकीणि जल्पाकवचनानि गौणत्वादिभिः समीकर्तुं शक्यन्ते ।
सर्वदूषणोच्छेदप्रसङ्गात् ।
प्रमादाज्ञानजान्येव हि दूषणानि भवन्ति ।
तेषु कथञ्चित्समाधीयमानेषु न किञ्चिद् दूषणं नाम भवेदिति ॥६२,६३॥
पूर्वसञ्जल्पविरोधमुदाहरतिबौद्धस्येति ।
अनित्यः शब्द इति बौद्धेनोक्ते कथं क्षणिकादगृहीतसम्बन्धादर्थप्रत्यय इत्यनुयुक्तेन तेनैव यदा पुनरुच्यते नित्यस्तर्हीति तदा तस्य पूर्वाभ्युपगमविरोधः ।
यद्यपि चात्र न्यायबलाबलानुसारी बाध्यबाधकभावः , तथाप्येवंविधा पूर्वापरविरुद्धा प्रतिज्ञैवात्मानं न लभत इति न न्यायावतारमपेक्षते ।
सम्भावितो हि प्रतिज्ञायामर्थो न्यायेन साध्यते ।
असम्भाविते तु न्यायापेक्षा नास्त्येव,स्वरसभङ्गुरत्वात् ।
अतः शब्दविरोध एवैनमन्तर्भावयति ।
शब्दसन्दर्भ एव हि
तादृशः पूर्वापरविरुद्धः पक्षं विनाशयतीति तेषामभिप्राय इति ।
सर्वलोक प्रसिद्धिविरोधस्योदाहरणमाह---चन्द्रेति ।
अत्रापि महाजनविपरीतार्थः शब्दसंसर्गः स्वरसादेव भज्यते न प्रमाणं यावदपेक्षत इति शब्दबाध उदाहृत इति ॥६४॥
उपमानविरोधोदाहरणमाह---ज्ञातेति ।
येन हि नगरे गवाकारो दृष्टः सम्प्रति चारण्ये गवयाकारः , तं प्रति गौर्गवयसदृशो न भवतीति पक्ष उपमानेन विरुध्यत इति ।


नास्तीति साध्यते बाधस्तत्रार्थापत्तितो भवेत् ।
अग्नावदाहके साध्ये शब्दे रचानभिधायके ॥ ५,४.६७ ॥
श्रोत्रादिनास्तितायां च शब्दानित्यत्वसाधने ।
श्रुतार्थापत्तिबाधोऽत्र यदाप्तोक्तिनिवारिते ॥ ५,४.६८ ॥
दिवाभुजो निषिध्येत हेतुना रात्रिभोजनम् ।
परोक्षे गवि सादृश्यमुपेमयम् ।
प्रत्यक्षे तु प्रत्यक्षमेव ।
अत एवऽज्ञातगोगवयाकारऽमिति क्रमो विवक्षित इति ॥६५॥
अर्थापत्तिविरोधमिदानीं विवनक्षन् भाष्यकारानुसारेणाभावपूर्विकायास्तावदुदाहरणमाह---गेहेति ॥६६॥
प्रत्यक्षपूर्विकामुदाहरति---अग्नाविति ।
अदाहक इति ।
अतच्छक्तियुक्त इत्यर्थः ।
अनुमानपूर्विकामुदाहरति---शब्दे चानभिधायक इति ।
शब्दश्रवणानन्तरमर्थप्रतीतिं चेष्टयानुमाय तत्र शब्दः कारणित्युन्नीयते ।
अतः सर्वकारकाणां क्रियाविनाभावादभिधाभिधानो व्यापारः ,तदनुपपत्त्या चार्थापत्त्या तच्छक्तिसिद्धिरिति ॥६७॥
तथेन्द्रियापलापपक्षोऽपि प्रत्यक्षपूर्विकयार्थापत्त्या विरुध्यत इत्याह---श्रोत्रेति ।
यद्यपि प्रत्यक्षपूर्विकोदाहृतैव तथापि पक्षदोषोद्भावनच्छलेनेन्द्रियापलापपक्षस्याप्ययं दोष इति विवक्षता पुनस्तद्विरोधोऽभिहितः ।
अत्रैवादिशब्देनोपमानपूर्विकया विरोधो दर्शयितव्यः --- यथा गवयोपमिताया गोस्तजज्ञानग्राह्यशक्त्यपह्नव इति ।
अर्थापत्तिपूर्विकया विरोथमुदाहरति--- शब्देति ।
अर्थाभिधानान्यथानुपपत्त्या हि वाचकशक्तिमर्थापत्त्या प्रमाय पुनस्तदनुपपत्त्यार्थपत्त्यन्तरेण शब्दनित्यत्वमवगम्यत इति ॥६७॥
शब्दपूर्विकार्थापत्तिविरोधमुदाहरति---श्रुतार्थापत्तिबाधैति ।
किं पुनरर्थापत्तिः प्रपञ्चेनोदाह्रियते, तद्विरोधप्रतिपादन हि ययाकयाचिदेकयापि सिध्यत्येव ।
तथा च प्रमाणान्तरविरोधेषु प्रपञ्चो न दर्शितः ।
अर्थापत्तिवद्वा प्रमाणान्तरविरोधोऽपि प्रपञ्चेन
वाच्यः ।
सत्यम् ।
षोढा भिन्नेरेव षडभिरत्र विरोधो वार्तिककारस्य विवक्षितः , तत्प्रदर्शनार्थमेव
षटप्रमाणप्रसूतार्थापत्तिरुदाहृता ।
तेनैव मार्गेण प्रमाणान्तरेष्वपि प्रपञ्चो दर्शयितव्यः ।
यथा तावत्
प्रत्यक्षबाध एवानुभूतिस्मृत्यनुमानादिभिः षष्ठवर्जं षोढा भिद्यते ।
स्वेद्यमानस्य वादिनोऽनुष्णो वह्निरिति प्रतिज्ञा अनुभवस्थेनैव प्रत्यक्षेण विरुध्यते ।
अनासन्नग्निस्तु सैव प्रतिज्ञा स्मृतिस्थेन प्रत्यक्षेण विरुध्यते, यदा खल्वयं वादकालेऽनुष्णो वह्निरिति प्रतिजानाति तदैनमितरः स्मारयति किं न स्मरसि पूर्वानुभूतमग्नेरुष्णत्वं यदेवमात्थेति, स तत् स्मृत्वा ततः प्रत्यक्षान्निवर्तत इति भवति स्मृतप्रत्यक्षबाधः ।
अनुमितप्रत्यक्षबाधस्तु कयत्राप्तमुखे चेष्टाविशेषादर्शनेन तदवगततिक्कतादिरसनिवारणं प्रतिज्ञायते, मुखवैरूप्येण हि तस्य तिक्तानुभवोऽनुमीयते अतस्तद्विपरीतपक्षस्यानुमितप्रत्यक्षबाधः ।
श्रुतप्रत्यक्षबाधस्तु यत्र केनचिदर्थे कस्मिश्चिदपहनुते साक्षिभिर्दृष्टोऽयमर्थ इति साक्षिप्रत्यक्षेण बाधोऽभिधीयते ।
न चैष शब्दबाधः ।
न ह्यत्र तैरर्थोऽभिधीयते ।
किन्तु दर्शनम् ।
अतस्तद्दर्शनानुसार्येव निर्णयः ।
दर्शनं तु तैः स्वशब्देन प्रत्याय्यत इति शब्दावगतप्रत्यक्षविरोध एवायम् ।
उपमानं तु प्रमाणान्तरप्रसिद्धवस्तुसादृश्यमात्रविषयमित्यन्यतः सिद्धस्य सादृश्यं गोचरयति ।
यथा दात्रादिप्रत्यभिज्ञायां यादृशी स्वात्मनिचेष्टा दृष्टा तां परत्रापि दृष्टवोपमिनोति ममेवास्यापि दात्रादिप्रत्यभिज्ञा प्रत्यक्षमुत्पन्ना, कथमन्यथा पूर्वेद्युरर्धकृतकर्मसमापने परेद्युः प्रवर्तते ।
इह च चेष्टया तदनुरूपं परगोचरमनुमाय स्वज्ञानसादृश्यं तत्रोपमीयते ।
यद्यपि चात्रानुमानावगतप्रतय्क्षबाध एव शक्यो दर्शयितुम्, तथापि स्वज्ञानसादृश्यपरिच्छेदे शक्यं दर्शयितुमिति तदवगतप्रत्यक्षबाधोऽभिधीते ।
प्रत्यक्षसत्तैवोपमानेन प्रमीयते ।
अर्थापत्त्यवगतप्रत्यक्षबाधस्त्वेवं दर्शयितव्यः ।
यदा हि बहुषु गच्छत्सु तोयार्थिषु तटाकमेकस्तदाहरणाय प्रस्थितो विलम्बते तदा तद्विलम्बनान्यथानुपपत्त्या तदीयं तोयप्रत्यक्षमर्थापत्त्या प्रमीयते ।
तत्र तद्विपरीतो निस्तोयतटाकपक्षोर्ऽथापत्तिसिद्धेन प्रत्यक्षेण बाध्यते ।
अभावेन तु भावरूपं प्रत्यक्षं नावगम्यत इति तदनवगतप्रतय्क्षविरोधो नेहोदाह्रियते ।
षोढा विभक्तमनुमानबाधमतः परमनुसन्धास्यामः ---धूमावगतवहनिप्रतिषेधे तावत्
प्रत्यक्षपूर्वानुमाबाधः ।
धूमानुमितादेव वहनेरुष्णत्वेऽनुमिते तद्विपरीतपक्षोऽनुमितानुमानेन बाध्यते ।
यत्र तुऽदेवस्य त्वेति निर्वपतिः इति प्रतीतविनियोगान्मन्त्रशेषेऽनुमिते तद्विपरीतः पक्षो गृह्यते, तत्रागमानुमानबाधः ।
नित्ये तु कर्मणि प्रवृत्ते व्रीहीणामपचारे तत्सदृशेषु नीवारेषूपमितेषुऽव्रीहिभिर्यजेतेऽति चोदना नीवारविषयत्वेनानुमीयते ।
व्रीह्यवयवा हि तद्विपयतया ज्ञातसम्बन्धास्तामनुमापयन्ति ।
न हि तस्याः स्वरूपेण व्रीहयो विषयभूताः , तदवयवास्तु चूर्णीभूता व्रीहिशास्त्रार्थः ।
ते च नीवारेष्वपि सन्तीति व्रीह्यवयवसामान्योपमितनीवारगामिनी व्रीहिचोदनानुमीयते ।
तदिहातद्गोचरत्वपक्षस्योपमानपूर्वकानुमानबाधः ।
अर्थापत्तिपूर्वकानुमानबाधस्तु श्रावणत्वपक्षेऽभिहित एव ।
यत्र दूराद् वृक्षाभावं विदित्वा तच्छायाभावोऽनुमीयते तत्राभावपूर्वकानुमानेन छायासद्भावपक्षो बाध्यते ।
प्रत्यक्षशब्दबाधस्तु त्रिधा दर्शित एव ।
अन्योऽपि श्रुतिस्मृतिभ्यां दर्शयितव्यः ।
अष्टकादीनामधर्मत्वपक्षस्तु कर्तृसामान्यानुमतिशब्दविरुद्धः स्मृत्यधिकरणे दर्शितः ।
शक्यं ह्यष्टकादयऽ
शब्दमूलाशास्त्रस्थार्यावर्तनिवासिकर्तृकत्वादग्निहोत्रादिवदित्यनुमातुम् ।
आगमिकशब्दबाधस्तु यत्र शाखान्तरगतश्रुतिविषयविवादे स्मृतिनिब्नधनकाराणां वचनेन श्रुतिसद्भावो निश्चीयते, तत्र ह्याप्तागमावगतनित्यागमविरोधो विपरीतपक्षस्य सम्भवति ।
उपमितशब्दविरोधस्तु मन्वादिस्मृतिभ्योर्ऽयापत्त्या वैदिकं किमपि मूलमस्तीति कल्पिते स्मार्तवाक्यसदृश एव मूल उपमितेर्ऽथवादमूलत्वपक्ष उपमितशब्देन बाध्यते ।
विश्वजिदफलत्वपक्षस्तु श्रुतार्थपत्तिसिद्धवधारणे तस्य व्यापारः तत्राभावावधारितविधिकात्स्नर्ये ज्योतिष्टामेप्राकृतेतिकर्तव्यताप्राप्तिक्षो बाध्यते ।
यथा वक्ष्यति---ऽकृत्स्नविधानादपूर्वः सोमऽिति ।
व्रीह्यभावे तु नीवाराणामग्राह्यतापक्षः प्रत्यक्षजोपमानविरुद्धः ।
अनुमानपूर्व कोपमानबाधस्तु यदा ह्यादित्यस्य देशान्तरप्राप्त्या गतिमनुमायतन्मध्ये वान्ते वा सूर्यगतिः तादृशी वत्सरान्तेष्विति तत्र गितवैसादृश्यपक्षोऽनुमानपूर्वकोपमानेन बाध्यते ।
पूतीका न सोमसदृशा इति तु पक्षः शब्दपूर्वकोपमानविरुद्धः ।
सामपूतीकयोर्हि सादृश्यं न प्रत्यक्षम् ।


शशशृङ्गादिसम्भावविरोधोऽनुपलब्धितः ॥ ५,४.६९ ॥
एवं च धर्मसम्बन्धबाधस्तावदुदाहृतः ।
धर्मधर्म्युभयेषां च स्वरूपस्वविशेषयोः ॥ ५,४.७० ॥
चानुमयेम् ।
शब्देनैव तु सोमांशुजातत्वं पूतीकानां प्रतिपादयता कार्यकारणयोरौचित्येन सारूप्यंप्रतिपादितमिति शब्दावगतकार्यकारमप्रभवत्वात् पूतीकानां सोमसादृश्योपमानस्य तद्विपर्ययः शब्दपूर्वकोपमानविरुद्धो भवति ।
ज्योतिष्टोमिका हि धर्माः सत्राहीनेषु न भवन्तीति पक्ष उपमानोपमानेन बाध्यते ।
ज्योतिष्टामोपमानेन हि ते द्वादशाहं गच्छन्ति द्वादशाहोपमानेन च सत्राहीनाविति ।
यदा त्वात्मेन्द्रियसादृश्यविशिष्टानि परेन्द्रियाण्युपमीयन्ते तत्र तन्निषेधोर्ऽथापत्त्युपमानेन बाध्यते ।
वेदकारनास्तिता शशशृङ्गाद्यभावसदृशी न भवतीति पक्षोऽभावपूर्वाकोपमानेन बाध्यते ।
द्वयोरप्यभावेनाभावेऽवगते सादृश्यमुपमीयते ।
अर्थापत्तिविरोधस्तु षडविधो वर्णित एव ।
अभावविरोधं त्वनन्तरमेव वक्ष्यामः ॥६८॥
अभावविरोधमिदानीमुदाहरति---शशशृङ्गादिति ।
अयं च प्रत्यक्षाभावविरोधः ।
यदा त्वमुं राशिं सूर्यो गचो न वेति चिन्त्यमाने गणितकुशलेन गणितानुमानाभावान्न गत इत्यवगते भ्रान्तो गत इति वदति ।
तत्रानुमानाभावविरोधः ।
चैत्यवन्दनादिधर्मत्वपक्षस्तु श्रुत्याद्यागमाभावविरुद्धः ।
पूर्ववन्तो दर्वीहोमा इति तूपमानाभावेन विरुध्यते ।
तथा शब्दे श्रोत्रदेशमनागच्छति श्रोत्रे च शब्देशं ध्वनायागमनमात्रेणैव शब्दश्वणोपपत्तेर्योर्ऽथापत्या शब्दः शब्दान्तरमारमते ततः क्रमेणान्त्यः श्रोत्रेण गृह्यते इत्यन्यथानुपपत्त्या प्रतिजानाति तत्प्रतिज्ञा अर्थापत्त्यभावेन बाध्यते ।
अभावाभावस्त्येवं दर्शयितव्यः --- यदा हि कर्त्रभावेन वेदानां दोषाभावोऽवगतो भवति तदा दोषवत्पक्षस्याभावाभावेन बाध इति ॥६९॥
एवं तावद् धर्मसम्बन्धबाधः षोढा प्रपञ्चितः ।
धर्मधर्म्युभयस्वरूपस्वविशेषबाधमतः परं वक्ष्याम इति संक्षिप्य सुखग्रहणार्थं श्रोतृबुद्धिसमाधानार्थं


श्रुत्यर्थाक्षिप्तयोर्वाक्ये वाच्यः सर्वप्रमाणकः ।
तृणादिवक्रियाहेतोरग्निमद्धिमसाधने ॥ ५,४.७१ ॥
प्रत्यक्षावगताच्छैत्यात् तद्विशेषोत्थबाधनम् ।
अधर्मो विहितो दुऽखं कोरत्यल्पमितीह तु ॥ ५,४.७२ ॥
विहितत्वादधर्मस्य स्वरूपस्यैव बाधनम् ।
तथा दुऽखनिमित्तत्वं विशेषस्तस्य बाध्यते ॥ ५,४.७३ ॥
च वृत्तवर्तिष्यमाणयोः सङ्कीर्तनं करोति---एवमितिसार्धेन ।
श्रुत्यर्थाक्षिप्तयोरिति ।
स्वरूपं तावत् सर्वत्र श्रुत्यर्थ एव ।
तद्विशेषोऽप्यर्थाक्षिप्तः ।
धर्मधर्मिणोर्हि स्वरूपं येन विशेषेण व्याप्तं तमाक्षिपति ।
तच्चानन्तरमेव वक्ष्यत इति ।
श्रुत्यर्थश्चाक्षिप्तश्चेति विग्रह इति ॥७०॥
तत्र धर्मस्वरूपबाधो वर्णित एवेति तमकृत्वैव तद्विविशेषणबाधमुदाहरति---तृणादीति ।
यो हि तृणादिविकारदर्शनादग्निमद्धिमं साधयति तस्याभावेन तावद्धर्मस्वरूपबाधो भवत्येव ।
तद्विशेषणमप्युष्ण्तवमर्थाक्षिप्तं प्रत्यक्षावगतेन शैत्येन बाध्यते ।
न च वाच्यमनुष्णोऽपि वह्निः प्रभासु दृष्ट इति कथमर्थाक्षिप्तो विशेष इति ।
प्रभास्वप्येवं वहनिरुष्ण एव, अभिभूतत्वात्तु स्पर्शो न गृह्यते, न पुनरुष्णतां जातु जहाति, स्वाभाविकी हि सा तस्य ।
न च हिमेऽप्यभिभूतत्वादग्रहणमिति वाच्यम् ।
तद्विपरीतशैत्योपलम्भात् ।
हेतूपन्यासस्तु पक्षदोषाभिधानावसरे तदबीजमात्रप्रदर्शनार्थं सोऽयमभावेन धर्मविशेषबाध
इति ॥७१॥
धर्मिणस्तु द्वप्रकारोऽपि बाधोऽनुक्त एवेति उभयथा तद्बाधोदाहरणमाह---अधर्मैति सार्धेन ।
हिंसा किलाधर्म इति सामान्यतोऽवगतम् ।
तद् यदा विहितोऽधर्मो दैक्षपशुहिंसदारयिद् दुऽखं करोतीत्यनूद्यतदल्पमिति साध्यते, तदापि विहितत्वेनाधर्मतैव बाध्यते तद्विशेषोऽपि दुऽखनिमित्तत्वं यदर्थाक्षिप्तं तदपि तेनैव बाध्यते ।
न हि विहितं नाम किमपि दुऽखस्य निदानं भवति ।
पुरुषार्थैकसाधनत्वाद् विधेः ।
सोऽय


अयथार्था धियः सर्वा इत्युक्ते द्वयबाधनम् ।
स्वरूपस्वाविशेषाभ्यां तद्धीमिथ्यात्वसाधनात् ॥ ५,४.७४ ॥
क्षणिकात्यन्तमिथ्यात्वे विशेषौ च द्वयोरिह ।
दर्शनादेकदेशस्येत्यनेनैतद् व्युदस्यते ॥ ५,४.७५ ॥
यत्रैकस्योभयोर्वापि संशयाधीविपर्ययाः ।
शैत्यान्न दाहको वह्निश्चाक्षुषत्वादनित्यता ॥ ५,४.७६ ॥
शब्दस्येत्येवमादौ तु द्वयोः सिद्धो विपर्ययः ।
मागमेन धर्मिस्वरूपविशेषबाधः ।
न चात्र श्रुत्युपात्त एव स्वविशेष इति चोदनीयम् ।
अर्थाक्षिप्तस्याल्पतया
विधानार्थमनुवादादिति ॥७३॥
उभयस्योभयविरोधमुदाहरति---अयथार्थेति ।
यदा हि सर्वज्ञानानि मिथ्येति साध्यते तदा धर्मधर्मिग्राहिणोरपि ज्ञानयोर्मिथ्यात्वात् तद्विशेषणग्राहिणोश्च मिथ्यात्वाद् भवत्युभयस्यैवोभयबाध इति ।
अयं च धर्मोक्त्योभयबाध इति शब्दबाध एव निवेशनीय इति समधिगतं तावदुभयोः स्वरूपबाध इति ॥७४॥
कौ पुनस्तद्विसेषावपर्थाक्षिप्तौ बाध्येते ।
अत आह---क्षणिकेति ।
बाध्येते इति विपरिणम्य सम्बन्धो दर्शयितव्य इति ।
तत्र चैकदेशदर्शनादित्युच्यते ।
तत्र च दर्शनग्रहणमतिरिच्यते ।
एकदेशादित्येव वक्तव्यम् ।
तद्धि लिङ्गं न पुनर्दर्शनमतो व्याख्येयमेकदेशदर्शनादित्यत आह---- दर्शनादिति ।
अयमर्थः ।
नैकदेशः सत्तामात्रेण लिङ्गम् ।
किन्तु स्वग्रहणम् ।
शन्कोति चोभयमुपादातुम्, णिज्भावाभावयोरपि निर्देशसाधारण्यात् ।
स्वप्रतिपत्तौ तावदेकदेशे दृष्टे बुद्धिरनुमानमित्यर्थः ।
परार्थप्रयोगे तु णिजन्तदर्शनपदमेकदेशं दर्शयित्वा या बुद्धिर्जायते सानुमानमित्युक्तं भवति ।
तदिदं तत्रोञ्चरितदर्शनपदमर्थद्वये व्याख्येयम् ।
अनेन च यत्रैकदेशे वादिप्रतिवादिनोरेकस्योभयोर्वा संशयोऽधीर्विपर्ययो वा भवति सोऽसिद्धाभिधानो हेत्वाभासो व्युदस्यते ।
न ह्यसौ तादृशः परस्मै दरशयितुं शक्यते ।


कृतकत्वगुणत्वादौ परोक्ते याज्ञिकं प्रति ॥ ५,४.७७ ॥
स्वोक्ते चैवप्रकारे स्यादसिद्धोऽन्यतरस्य तु ।
बाष्पादिभावसन्दिग्धो द्वयोरन्यतरस्य वा ॥ ५,४.७८ ॥
धूमस्त्रिधाप्यसिद्धः स्यादेवं तावत्स्वरूपतः ।
एत एव प्रकाराः स्युराश्रयासिद्धकल्पने ॥ ५,४.७९ ॥
ज्ञातेऽपि हि स्वरूपेण नातद्धर्मेऽस्ति हेतुता ।
स्वयं वा दृष्टो भवति ।
अधीरज्ञानमित्यर्थः ।
तत्र द्वयविपर्यस्तोदाहरणमाह---शैत्यादिति ।
वह्निशब्दयोर्द्वयोरपि शैत्यचाक्षुषत्वे वादिप्रतिवादिनोर्विपर्ययादसिद्ध इति ॥७५-७६॥
अन्यतरासिद्धोदाहरणमाह---कृतकत्वेति ।
यदा वैशिषिको याज्ञिकं प्रति शब्दोऽनित्यः कृतकत्वात् गुणत्वाद्वेति हेतुं प्रयुङ्क्ते,तदासौ स्वरूपेण तस्यासिद्धो भवति ।
यदा तु स्वयमेवंप्रकारं हेतुं परं प्रति वदति तदा तस्यासिद्धिः ।
यथा नित्यः शब्दः द्रव्यत्वादाकाशवदिति ।
न हि वैशिषिकाः शब्दं द्रव्यमभ्युपगच्छन्ति गुणत्वाभ्युपगमात् ।
एवंप्रकार इति परासिद्धप्रकार इत्यर्थः ॥७७॥
सन्दिग्धासिद्धमुदाहरति---बाष्पादीतिस्यादन्तेन ।
यदा हि धूमो बाष्पादिभावेन सन्दिह्यते द्वाभ्यामेकेन वा किंस्विदयं रजसामुद्गमो बाष्पो वा धूमो वेति तदा द्वयोरप्यन्ततरस्य वा सन्दिग्धासिद्धो भवति ।
एवं तावत् सन्देहविपर्ययाभायमसिद्धतोदाहृता ।
अज्ञानेन त्वप्रसिद्धार्थपदप्रयोगे दर्शयितव्या ।
त्रिधेति ।
वादिप्रतिवाद्युभयैस्त्रयः प्रकारा इति ।
एवं तावत् स्वरूपतो हेतुरसिद्धो भवतीत्युक्तमित्याह--- एवमिति ॥७८॥
आश्रयासिद्धताप्येतैरेव ज्ञानादिभिर्वादिप्रतिवाद्युभयापेक्षैस्त्रिधा भिद्यत इत्याह---एत एवेति ॥७९॥
ननु स्वरूपासिद्ध्याहेतुर्दुष्येत् आश्रयासिद्ध्या तु कस्तस्य दोषः अत आह---ज्ञातेऽपीति ।
अयमभिप्राय---न स्वरूपेण हेतुर्गमकः ,अपितु


सर्वत्र दृष्टकार्यत्वादात्मा सर्वगतस्त्विति ॥ ५,४.८० ॥
बौद्धं प्रत्याश्रयासिद्धो लौकिकादेस्तु संशयः ।
वाङ्मात्रासिद्धिमात्रेण व्यवहाराप्रकल्पनात् ॥ ५,४.८१ ॥
द्वाभ्यां योऽसत्वतो ज्ञातस्तद्वचो दूषणं मतम् ।
इतरत् साधनं तु स्यात् वादिना यदि साध्यते ॥ ५,४.८२ ॥
पक्षधर्मतया ज्ञातः ।
न चाप्रसिद्धाश्रयस्तद्धर्मतया ज्ञातुं शक्यते ।
शैत्यचाक्षुषत्वयोरपि पक्षधर्मत्वासिद्धयैवाहेतुत्वम् ।
सिद्धं हि स्वरूपेण जले शैत्यं रूपरूपिरूपपैकार्थसमवायिषु च चाक्षुषत्वम् ।
शब्दा(दौ) हि पक्षधर्मतया तु तयोरसिद्धत्वमिति तद्धर्मरूपासिद्धवचनम् ।
अत आश्रयासिद्धावपि पक्षधर्मत्वासिद्धेरहेतुत्वं युक्तमेवेति ॥७९॥
तामिदानीमाश्रयासिद्धिमुदाहरति---सर्वत्रेति असिद्धान्तेन ।
यदा हि बोद्धं प्रति सर्वत्र कार्योपलम्भादात्मनः सर्वगतत्वं मीमांसकाः साधयन्ति, तदान्यतरासिद्धाश्रयो हेतुर्भवति ।
बौद्धस्यात्मननोऽसिद्धेरिति ।
यस्तु प्रमाणगतिमजानानो लौकिकः कश्चिदात्मनि संशेते तस्मिन्नेव हेतावुच्यमाने सद्निग्धाश्रयो हेतुरित्याह--- लौकिकादेरिति ।
आत्मनि संशय इत्यर्थः ।
आदिशब्देन सतीर्थिकानामपि येषामात्मनि संशयः त उपाद्रियन्ते ।
एवं संशयविपर्ययाभ्यामाश्रयासिद्धिरुक्ता ।
अज्ञानेनाप्याश्रयासिद्घिप्रसिद्धपदप्रयोगे दर्शयितव्या ।
यस्य हि पक्षवचनः शब्दो न प्रसिद्धस्तं प्रत्येवञ्जातीयके हेतावुच्यमानेऽज्ञानेनाश्रयासिद्धिरिति ॥८०॥
ननु यद्यन्यतरासिद्ध्या हेतुर्दुष्यति, एवं तर्ह्यमूर्तत्वादात्मा निष्क्रिय इत्येवमादेरपि हेतुत्वं न स्यात् दिगम्बराणामात्मनोऽमूर्तत्वासिद्धेः ।
मूर्तं हि ते शरीरपरिणाममात्माने मन्यन्ते ।
अकर्तृकत्वान्नित्यो वेद इति च बौद्धानां तदसिद्धेरहेतुः ।
शब्दोऽनित्यः कृतकत्वादिति मीमांसकानामसिद्धेः ।
तदेव हेतुर्नाम न कश्चित् व्यवतिष्ठते ।
अत आह---वाङ्मात्रेति ।
अयमर्थः --नासिद्धो ममेति वाङ्मात्राद्धेतुरसिद्धो भवति ।
तथा सति न कश्चिदनुमानव्यवहारः प्रकल्पेत ।
द्वाभ्यां तु वादिप्रतिवादिभ्यामसत्त्वेना


निराकरणसिद्धौ वा दूषणं प्रतिवादिनः ।
सन्देहविपरीतत्वहेतू चात्र निराकृतौ ॥ ५,४.८३ ॥
ज्ञातसम्बन्धवचनात् त्रयः संशयहेतवः ।
वधारितोऽसिद्धोभवति, तस्यैव तथाविषयस्यासिद्धतावचनं वादिनो दूषणं भवति नासिद्ध इति
वाक्प्रवृत्तिमात्रादिति ॥८१ ॥ननु किमिदं द्वयोरसिद्धोऽसिद्ध इति, न हि विवदमानयोरेकत्रार्थे सम्प्रतिपत्तिर्भवति,न हि जन्मसहस्रेणापि बौद्धो वेदानामकर्तृकत्वमन्यते, मीमांसको वापि कण्ठगतप्राणोऽपि कृतकतां शब्दस्य ।
तदेवमादावुभयसम्प्रतिपत्तेरभावान्न हेतुभावऽवतिष्ठते ।
अत आह---इतरदिति, अयमभिप्रायः --- न द्वयोरसंप्रतिपत्तिरित्येतावतैव साधनदूषणयोरनवकॢप्तिः ।
यदि वादिना प्रयुङ्क्ते साधने प्रतिवादिना चासिद्धत्व उद्भाविते वादिना तत्साधनं साध्यते, ततो भवति साधनम् ।
यदि तुपरमार्थोपपत्त्याभिधानेन प्रतिवादिना निराक्रियते ततस्तस्य दूषणं सिध्यति ।
तत्प्रमाणतः सिद्धिरेवात्रोपयुज्यते नोभयाभ्युपगमः ।
द्वाभ्यां योऽसत्त्वतो ज्ञात इत्यपि प्रमाणसिद्ध्यभिप्रायेणोक्तम्, नाभ्युपगममात्रापेक्षया ।
यद्धि प्रमाणेन साध्यते
बाध्यते वा तत्र प्रायेणोभयसम्प्रतिपत्तिर्दृष्टेति ।
असत्त्वतो ज्ञातापेक्षयेतरच्छब्दः ।
यद्वादिना सत्त्वेन ज्ञातं भवति प्रतिवादिना च वैपरित्येन, तद्वादिना साध्यमानं साधनं भवति ।
एतच्च जल्पन्याये स्थित्वोक्तम् ।
वादे तु द्वयोरपि सम्प्रतिपत्तिर्भवत्येवेति ।
न चैवमन्यतरासिद्धिरदूषणम्, यावत्तु वादी न साधनं साधयति, तावदन्यतरासिद्ध्या निगृह्यते, साधिते तु तस्मिन् दूषणं परिहृतं भवतीति ॥८२ १।२॥
दर्शितं तावदसन्निकृष्टैकदेशशब्दयोर्व्यावर्त्य, ज्ञातसम्बन्धपदस्येदानी व्यावर्त्यं दर्शयतिसन्देहेतिवचनान्तेन ।
सन्देहविपरीतहेत्वोर्हि न सम्बन्धो ज्ञातो भवति, न हि साधारणः संशयहेतुः प्रमेयत्वं नित्यत्वेन ज्ञातसम्बन्धमिति शक्यते वक्तुम्, घटादिष्वनित्यतयापि ज्ञातसम्बन्धत्वात् नापि कृतकत्वं नित्यतया, तेष्वेवानित्यतया सम्बन्धसवित्तेः ।
अतस्तज्जातीयतुभयं न ज्ञातसंबन्धमिति ज्ञातसम्बन्धपदेन व्युदस्यति ।
अत्र चासन्निकृष्टपदात्, प्रभृति प्रातिलोभ्येन वार्तिककृता लक्षणग्रन्थे विशेषणोपदानफलमुक्तम्,


सत् साध्ये तदभावे च द्वाभ्यां व्यावृत्त एव च ॥ ५,४.८४ ॥
द्वौ विरुद्धार्थसम्बद्धौ यावेकत्रैकदेशिनि ।
प्रमेयानित्यतामूर्तिधर्माः साधारणा द्वयोः ॥ ५,४.८५ ॥
तत् कस्य हेतोः ।
प्रतीतिक्रमानुसारेण ।
प्रमाता हि प्रथमं पक्ष प्रत्येति, ततो हेतुमपेक्षते,ततो दृष्टान्तवचनम् अतोऽसत्पक्षनिराकरणार्थं प्रयुक्तमसन्निकृष्टपदमेव तावदुपवर्णितम् ।
ततो हेतुपदमेकदेशदर्शनादिति, ततो ज्ञातसम्बन्धस्येति दृष्टान्तदोषा अपि साध्यहेतुविकलत्वादयोऽनेन निराक्रियन्ते ।
तद्वैकल्येऽपि स्वयं सम्बन्धो ज्ञातुं परस्मै प्रतिपादयितुं शक्यत इति ।
कियन्तः पुनः संशयहेतवः , आत आह---त्रय इति ॥८३ १।२॥
तानेव त्रीन् प्रकारान् दर्शयति---सन्निति ।
साध्यतदभावयोः सन् साधारणोऽभिधीयते ।
यथा प्रमेयत्वं नित्यानित्यत्वयोः ।
द्वाभ्यां साध्यतदभावाभ्यां व्यावृत्तोऽसाधारणः क्षितरेव गन्धवत्त्वम् ।
व्यावृतं हि तत् सकलसजातीयविजातीयद्रव्यान्तरगुणकर्मभ्यः ।
द्वौ विरुद्धार्थसम्बन्धाविति ।
यौ विरुद्धाव्यभिचारीति परैरभिहितौ, तौ चानन्तरमेवोदाहार्याविति नेह व्याख्यायेते इति ॥८४ १।२॥
तत्र साधारणं तावदुदाहरणैः प्रपञ्चयति---प्रमेयेति ।
एते च धर्माः साध्यतदभावयोः साधारणा इत्यर्थः ॥८५॥
केषु पुनः साध्येषु तेषां साधारण्यमत आह---नित्येति नित्येष्वन्तेन ।
कथं पुनर्वैषम्ये यथासङ्ख्यमत आह--- द्विरनित्यतेति ।
अनित्यता स्वस्थाने द्विः पठितव्या ।
अतो यथासङ्ख्योपपत्तिः ।
तदयमर्थः --- योर्दृष्टमिति साधारणत्वादन्नैकान्ताय प्रभवति ।
अतो नैकान्तरिकमित्युच्यते ।
अत एव च संशयहेतुः ।
संशयो हि सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च भवति ।
यथा स्थाणुपुरुषयोरारोहपरिणाहसामान्यदर्शनाद् भेदक


नित्या भूर्गन्धवत्त्वेन स्यादसाधारणस्त्वयम् ॥ ५,४.८६ ॥
निश्चयैकाङ्गवैकल्यादेष संशयकारणम् ।
धर्मानवधारणाच्च विशेषस्मृत्यपेक्षः ।
किंस्विदयं स्थाणुराहोस्वित् पुरुष इत्यनवधारणज्ञानात्मकः संशयो जायते ।
एवं प्रमेयत्वमपि
नित्यानित्ययोः सामान्यं विदितवतस्तद्विशेषमस्मरणापेक्षस्तयोरेवानिर्धारणात्मकः प्रत्ययः संशयापरनामा जायत इति प्रमेयत्वं संशयहेतुः ।
अयं च कृत्स्नोभयव्यापी संशयहेतुः ।
तथा यत्नोत्थः शब्दः अनित्यत्वादित्ययमपि साधारण एव ।
अयत्नोत्थेषु केषुचिद्विद्युदादिषु गतत्वाद्यत्नोत्थेषु च सर्वेषु घटादिषु वृत्तेः ।
तदय सकलविपक्षव्यापती सपक्षैकदेशगत इति वेदितव्यम् ।
तथा यत्नोत्थः शब्दः अनित्यत्वादिति, यत्नोत्थेषु सर्वेष्वेवानित्यता दृष्टा ।
तदभावेऽपि क्वचिन्मेघादौ दृष्टा, न व्योमादौ इति,
सकलसपक्षव्यापी विपक्षैकदेशवर्ती चायं साधारण इत्यवसातव्यम् ।
उभयैकदेशगतस्तु यथा नितय्ः शब्दः अमूर्तत्वादिति ।
अमूर्तता हि न सर्वनित्यव्यापिनी व्योमादिषु भावादणुषु चाभावादनित्यमपि न स्वं व्याप्नोति घटकुड्यादिष्वभावात् कर्मादिषु भावात् ।
सर्वत्र चात्र द्वयवृत्तित्वमेव हेतोः संशये कारणवृत्त्यंशस्तु सन्नपि न कारणमित्यतन्त्रम् ।
अत एव साधारणस्य चतुर्धाविभागं वदन्ति ये तेषामसावनुपयोग्येव साधनदूषणयोरित्युपेक्षयोरवृत्त्यंशः क्वचिदुपयुज्यते ।
अण्वापि हि मात्रया विपक्षे वर्तमानो हेतुस्त्याज्य एव ।
दूषणवादिनोऽपि विपक्षवृत्तिमात्रं वचनीयमिति किं तदवान्तरविशेषाश्रयणेन ।
वार्तिककारेणापि सर्वसाधारणेषु द्वयवृत्तित्वमेव संशयकारणमिति दर्शयितुमुदाहरणप्रपञ्चो दर्शितः , न पुनश्चातुर्विध्यमभमेत्य ।
यथाह---
"न त्वेकस्योपयोगोऽस्ति दूषणोद्भावनं प्रति ।
त्यज्यते साधने चैवं साधारण्याद् विशेषतः ॥िति ८५ १।२॥
प्रपञ्चतः साधारणः , असाधारणमिदानीं संशयहेतुमुदाहरति---नित्या भूरिति ।
गन्धो हि पृथिव्याः स्वासाधारणो गुणः , न तां विहाय नित्यमनित्यं वा भावान्तरमाश्रययतीत्यसाधारण इति गीयत ।


साधारणो यथा दृष्टो बुद्धिद्वयनिमित्तकः ॥ ५,४.८७ ॥
विरुद्धैकानवाप्तेश्च संशये कारणं मतः ।
यत्रासाधारणो नास्ति तदवभावमुखेन तु ॥ ५,४.८८ ॥
द्वयासत्त्वविरोधाञ्च मतः संशयकारणम् ।
आह--- अस्त्वसाधारणं गन्धवत्त्वं, कथं तु संशयहेतुः , युक्तं हि पक्षद्वयावलम्बी साधारणो द्वयोरनवस्थाधियमादधानो यत्संशयहेतुरिति, असाधारणस्तु द्वाभ्यां व्यावृत्तो नैकत्रापि धियमुपजनयितुमलामिति कथमस्य संशयहेतुभावः , अत आह---निश्चयेति ।
हेतोर्हि निश्चयजननेऽन्वयव्यतिरेकावङ्गमन्यतरापायेऽपि न निश्चयाय हेतुः पर्याप्तो भवति ।
तद् यथा साधरणोऽन्वयसनाथोऽपि विनाकृतो व्यतिरेकेण न निश्चयाय प्रभवति, एवमेवासाधरणोऽपि निश्चयस्यैकेनान्वयनाम्नाङ्गेन विलस्तमकुर्वन् संशयहेतुतां प्रतिपद्यत इति ॥८६ १।२॥
ननूक्तं साधारणो द्वयगामी द्वये बुद्धिं जनयन् संशये हेतुरिति ।
असाधारणस्तु न किञ्चिद् ज्ञापयतीति नासावेकाङ्गविकलतामात्रेण संशयहेतुरिति युक्तमत आह---साधारणैति द्वयेन ।
अयमभिप्रायः ---साधारणोऽपि नोभयत्र बुद्धिजननात् संशयहेतुः , किन्तु विरुद्धोभयप्रतिपादनमुखेन, विरुद्धे द्युभयस्मिन् प्रतिपादिते तयोरेकत्र समवायसम्भवाद् व्याघातादेव संशयो भवति ।
तञ्चासाधारणेऽप्यविशिष्टम्, असाधारणोऽपि द्युभयस्माद् व्यावृत्तेस्तदभावं गमयन् द्वयाभावासम्भवादेव संशयं जनयति ।
न हि सम्भवति नित्यमनित्यं च वस्तु न भवतीति, धर्मद्वन्द्वैरेव हि नित्यानित्यत्वादिभिः सर्वं जनगदवस्थितम् ।
अत उभयाभावो विरुध्यते ।
न चोभयभावः , विरोधादेव ।
न चान्यतरपरिग्रहोऽविशेषात् ।
तमिमं सङ्कटमासाद्य प्रामाणिकः संशेते ।
अयं चात्रावयवार्थः ---यथा प्रमेयत्वादिः साधारणो दृष्टः सन् बुद्धिद्वयनिमित्तकः ।
बुद्धिद्वयं संशयेनिमित्तमस्थातीति बहुव्रीहिः , निमित्तशब्देन च बुद्धिद्वयस्य निमित्तमात्रतां कथयति ।
साध्यतदभावविषयं हि बुद्धिद्वयं निमित्तीकृत्य विरुद्धैकानवाप्तेरेव साधारणेन संशयो जन्यते ।
न हि
परस्परविरुद्धाभ्यां नित्यानित्यत्वाभावेकः शब्दो व्याप्यते, धर्मिभेदनिबन्धनोहि विरुद्धधर्माभ्यासो दृष्टः ।
यथा नित्यं व्योम अनित्यं कार्यद्रव्यमिति ।
अतोऽस्मात् प्रतीतिव्याघातादेव साधारणेन संशयो मन्यते ।
स चायमसाधारणस्यापि समानः ।
सोऽपि हि यत्र नित्येऽनित्ये वा नास्ति तदभावं प्रतिपाद्य तन्मुखेन द्वयसत्त्वविरोधमापादयन् संशयकारणं भवतीति ।
इदं चासाधारणस्य संशयहेतुत्वं नामुमन्यन्ते ।
अव्यवस्थया ह्युभयस्मिन् मनसि विपरिवर्तमाने संशयो भवति ।
न चासाधारणेन किञ्चिद् बुद्धावाधीयते, तस्य केनचिदन्वयाभावात् ।
अपि च परिमितेष्वेव भावेषु संशयो दृष्टः ।
निवृत्तिमुखेन तु संशयजनने सर्वतो निवृत्तेनासाधारणेन सर्वतोमुखः संशयो जन्येत ।
न च सर्वविषयः संशयो दृष्टचरः ।
तस्य बुद्धावनारोहात् ।
नच क्वचिन्निवृत्तिमात्रेण सर्वत्राभावः शक्यतेऽवगन्तुम्, यन्मुखेन संशयो भवेत् ।
न ह्यनुवृत्तावदृष्टायां व्यावृत्तिः सिध्यति ।
अग्नावनुवर्तमानो हि धूमो दृष्टव्यतिरेकोऽग्निनियतस्वभावत्वेनावगतोर्ऽथाददृश्यमानेभ्योऽवग्निभ्यो व्यतिरिच्यत इत्यवगम्यते ।
यस्तु न केनचिदन्वितस्तस्य कथमनुपलब्धियोग्यात् सर्वतो व्यतिरेकः प्रतीयेत ।
ततो नानेन प्रकारेणासाधारणस्य संशयहेतुत्वम् ।
यदि त्वसाधारणधर्माणोभावा नित्यानित्यभावभाजो दृष्टा इति क्षितिमपि तद्धरिमिकामुपलभ्य नित्या वा स्यादनित्या वेति संशयो भवतीत्युच्यते ।
एवं तर्ह्यसाधारणधर्मत्वादेव बहुसाधारणात् संशयो नासाधारणात्, अन्यो ह्यसाधारणधर्मः अन्या च बहुसाधारणी तद्वत्ता ।
तद् यद्यसौ संशयकारणं जाता किं जातमसाधारणस्य ।
हन्तैवं साधारण एव संशयहेतुरभ्युपगतो भवतीति सिद्धम् ।
नासाधारणस्य संशयहेतुत्वम् ।
अन्यन्मतम्--- अनध्यवसायहेतुरेवायमिति ।
अस्ति किलानध्यवसायो नाम ज्ञानस्य प्रकारः ।
सोऽसेन जन्यते ।
भवति हि तादृगधर्मदृशः किम्भूततस्यास्य धर्मोऽयमित्यनध्यवसितावभासव्रत्ययः ।
नचैव प्रामाणम्, अनिश्चयात्मकत्वात् ।
न च संशयः पक्षद्वयासंस्पर्शात् ।
सोऽयमेवंविधानध्यवसायोऽसाधारणेन जन्यत इति ।
न त्वेतद घटते ।
न ह्यनव्यवसायो नाम कश्चिद् ज्ञानस्य प्रकारः , यमयं जनयेत् ।
अध्यवसायाभावोऽनध्यवसायः ।
स च प्रागभावरूपत्वान्न जन्यः ।
अथान्यमात्रवचनो नञ् अब्राह्मणादिवदिष्यते ततोऽध्यवसायादन्यः संशय


सन्दिग्धहेतुता चैषां विषयापेक्षयोच्यते ॥ ५,४.८९ ॥
निर्णयस्यापि हेतुत्वं दृष्टं साध्यान्तरे यतः ।
व्यवच्छेदान्वयौ लब्ध्वा निष्क्रियादावमूर्तिवत् ॥ ५,४.९० ॥
एव तच्छब्दवाच्यो भवेत् ।
न च तद्धेतुरसाधारण इति फणितमेव ।
अथाधर्मादिवद् विपपरीतवचनो नञ्, एवं सति विपर्यवाच्योऽनध्यवसायशब्दो भवेत्, न च विपरीतावग्रहोऽसाधारणेन जन्यत इति ।
यदि तु न मेऽस्मिन् वस्तुन्यध्यवसायोऽस्तीत्यध्यवसायाभावावधारणमेवानध्यवसायः , स तर्हि प्रमाणाभावेनैवाध्यवसायाभावोऽवगम्यते ।
तत्र हेतोर्न व्यापारः ।
अतो जिज्ञासामात्रहेतुरसाधारण इति समर्थनीयम् ।
भवति हि तद्दर्शिनः कीदृग्धर्मोऽयमितो धर्माद् भावो भवेदिति
जिज्ञासा ।
यद्यपि चासौ शुद्धधर्मिदर्शनादपि कदाचिद् भवत्येव तथापि धर्मद्वारेणापि तावद् भवत्येवेति न तद्धेतुत्वमनुपपन्नम् ।
आह च---
तेनाज्ञानमसिद्धेभ्यो जिज्ञासानन्यगामिनः ।
सामान्यात्संशयो युक्तस्तथा स प्रतिसाधनात् ॥ इति ।
यत्त्विहासाधारणस्य संशयहेतुत्वमुक्तं तत्परमतम् ।
ज्ञातसम्बन्धपदस्य हि व्यावर्तनीयमत्र दर्शयितुमभिप्रेतम्, तत् संशयहेतुत्वेऽप्यसाधारणस्य घटत एव ।
भवतु तावदयं यस्य कस्यचिद्धेतुः ।
सर्वथा ज्ञातसम्बन्धपदेन व्युदस्यत इति तात्पर्यम् ।
शाक्यास्तु संशयहेतुमसाधारणं मन्यन्ते, उदाहरन्ति च शब्दानित्यत्वे साध्ये श्रावणत्वम् ।
यथोक्तम्---
अनैकान्तिकमेनैवनं शाक्याः प्रायेण मन्वते ।
उभयस्मान्निवृत्तत्वादुभयत्रानुवृत्तिवत्॥
इति ।
इदं च वार्त्तिककृतैव प्रदेशान्तरे स्वयमुपन्यस्य यथोक्तदूषणैर्दूषि तमेवेति ॥८८॥
किं पुनरुदाहृतानां स्वाभाविकमेव संशयदेतुत्वं नेत्याह---सन्दिग्धेति ॥८९॥
कारणमाह---निर्णयस्येति लब्ध्वान्तेन ।
क्व दृष्टमत आह---निष्क्रियेति ।
अमूर्तता हि नित्यत्वे साध्ये नित्यानित्यव्योमकर्मसाधारणी संशयहेतुरासीदत्, सैव तु निष्क्रियत्वे साध्ये लब्ध्वान्वयव्यतिरेकौ हेतुतां


क्षित्येकदेशसिद्धत्वे गन्धवत्त्वस्य हेतुता ।
यत्राप्रत्यक्षता वायोररूपतित्वेन साध्यते ॥ ५,४.९१ ॥
स्पर्शात् प्रत्यक्षता वासौ विरुद्धाव्यभिचारिता ।
प्रतिपाद्यते ।
व्याप्तं ह्यमूर्तत्वं निष्क्रियत्वेन ।
न ह्यमूर्तं गगनमात्मा वा परिसस्पन्दते ।
न चैवं तद्वतां रथादीनाममूर्तत्वं दृष्टमिति ॥९०॥
असाधारणस्य निर्णये हेतुत्वं दर्शयति---क्षित्येकदेशेति ।
गन्धविशेषदर्शिनो हि विदितव्याप्तेः क्षित्येकदेशसिद्धत्वे भवत्यानुमानिको निर्णय इति ॥९० १।२॥
द्वौ विरुद्धार्थसम्बन्धावेकदेशिनि संशये हेतुरित्युक्तम् ।
तत्रोदाहरणमाह---यत्रेति ।
यत्र हि न साक्षात्कारिज्ञानविषयो वायुः अरूपत्वादित्येकः साधयति ।
अपरोऽपि स्पर्शात् तद्विपर्ययम् ।
तत्रासौ विरुद्धाव्यभिचारिता भवतीति शाक्यैरभिहितम् ।
तत्र तुल्यबलोभयहेतुसन्निपातात् संशयः ।
द्वयोरपि साधनयोः प्रसिद्धावयवत्वाविशेषात् ।
अरूपं ह्यरूपिसमवेतमप्रत्यक्षमिति काणादा मन्यन्ते ।
तथा च वायुः ।
अतो न प्रत्यक्षः ।
कर्मस्वरूपमपि रूपैकार्थसमवायाञ्चाक्षुषमाचक्षते ।
एवं स्पर्शोऽपि वायोः प्रसिद्ध एव ।
प्रसिद्धव्याप्तिकश्चापरोक्षत्वेन ।
अतस्तुल्यबलत्वम् ।
ततश्च संशयः , विरुद्धयोरेकत्रोपानपातासम्भवात्, समुञ्चयानुपपत्तेः , सिद्धे च वस्तुनि विकल्पासम्भवात् बाध्यबाधकभावस्यापि तुल्यकक्ष्यत्वात् ।
अतोऽनवस्थयोभयस्मिन् परिप्लवमाने भवति संशयः ।
तादात्म्यात् ।
तस्य बलाबलविशेषे त्वनुमानविरोधो वर्णित एव ।
यथा सर्वज्ञोऽस्तीति बुद्धवचनं सम्यक् तदुक्तत्वाद् क्षणभङ्गादिवाक्यवदित्येकेनोक्तेऽपरः प्रब्रवीति बुद्धोऽसर्वज्ञ इति मद्वचनं सम्यक् मदुक्तत्वात् यथा ज्योतिरुष्णमापो द्रवा इति ।
अत्र मदुक्तत्वमुभयोरपि सिद्धम् ।
बुद्धोक्तता तु न नः प्रसिद्धा, अतोऽप्रसिद्धाङ्गकत्वात् पूर्व साधनं बलवता प्रसिद्धाङ्गकेन बाध्यते ।
यत्तु विरुद्धाव्यभिचारी संशये हेतुरिति शाक्या वदन्ति ।
न चैकस्य संशयहेतुत्वम् अन्यतरपरिच्छेदात् ।
न च समुदायाभिप्रायमेकवचनम् ।
तस्य विरुद्धत्वाव्यभिचारिपदानास्पदत्वात् ।
स ह्यंशाभ्यां व्यभिचार्येव ।
द्वौ तु विरुद्धाव्यभिचारिणाविति वक्तव्यम् ।
न त्वेकवचनेन ।
यदि प्रतिहेतु


केचिज्जात्यन्तरं चैनां वर्णयन्त्यपरे पुनः ॥ ५,४.९२ ॥
साधारणत्वमंशेन समस्तं वाप्यनन्वयम् ।
विरुद्धमर्थमेकैको न व्यभिचरतीति विरुद्धाव्यभिचारीत्युच्यते ।
तदस्तु ।
न त्वेकः संशये हेतुरित्युक्तम् ।
अत एव वार्तिककारेण द्वौ ।
विरुद्धार्थसम्बन्धौ संशयहेतू इति द्विवचनान्तेनैव नाम्ना संशयहेतुभावो दर्शितः ।
इहापि विरुद्धाव्यभिचारितेत्येतावदेवोक्तम् ।
न तु विरुद्धाव्यभिचारी संशयहेतुरिति ।
तदत्र योग्यतयानयोर्विरुद्धाव्यभिचारितेनति व्याख्येयम् ।
द्वौ विरुद्धाव्यभिचारिणाविति यादविति ॥९१ १।२॥
इमां च विरुद्धाव्यभिचारितां संशयहेतुं साधारणासाधारणाभ्यां जात्यन्तरमेके वर्णयन्ति ।
अपरे पुनः समुदायस्यांशाभ्यां साधारमपनिक्षेपम् ।
अन्ये तु समस्तमिदं मिलितमुभयं नैकत्राप्यनुगतमित्यनन्वयमसाधारणमेवास्थिषत
इत्याह---केचिदिति ।
अत्र च प्रदेशान्तरे वार्तिककृता साधारण्य एवास्था दर्शिता ।
यदाह---
"साधारण्याञ्च नैतस्य बेदः कश्चन विद्यते ।
अंशाभ्यां समुदायो हि साधारणपदे स्थितः ॥"
इति ।
न च वाच्यं द्वयस्यानन्वयादसाधारण एवायमिति ।
यदि ह्येकेन द्वयं प्रयुज्येत ततो भवेदप्येवं, प्रत्येकमन्वितौ दृष्टौ द्वाभ्यां प्रयुक्तौ नानन्विताविति शक्यते वक्तुम् ।
अपि चासाधारणत्वे संशयहेतुभावो नोपपद्येत ।
तस्य निराकृतपूर्वत्वात् ।
अतः साधारण एवायमिति ।
वयं तु जात्यन्तरमेव साधीयो मन्यामहे ।
यथा हि न द्वयमेकेन प्रयुक्तमिति नासाधारणत्वम् ।
एवं साधारणत्वमपि न स्यादेव ।
किं खल्वत्र साधारणम् ।
एकैकस्यैकैकेन व्याप्तस्यैकैकेन प्रयोगात्, अंशतः साधारणस्य च समुदायस्याप्रयोगात् ।
अत एव चात्र साधारणाद् भेदेन प्रतिहेतु विरुद्धयोः संशयहेतुत्वमुक्तम् ।
इतरथा तेनैव गतत्वान्न पृथगुपादीयेत ।
संशयजननप्रकारोऽपि चात्र भिद्यत एव ।
साधारणो ह्युभयदृष्टस्तु प्रतीतिमादधानः संशयहेतुरिमौ त्वेकैकश्येनोभयमुपस्थापयन्तौ संशयहेतू इति वार्तिककारेणापि साधारणपदे स्थित इत्युक्तम् ।
न ह्यु साधारण
एवेति ॥९२ १।२॥


प्रतिज्ञा यत्र बाध्येत पूर्वोक्तैर्यस्य साधनैः ॥ ५,४.९३ ॥
तत्पराजयतः कार्यो निर्णयो बाधवर्जनात् ।
क्वचित् संशयहेतू यौ प्रत्येकत्वेन लक्षितौ ॥ ५,४.९४ ॥
कथं पुनरेवञ्जातीयके विषये निर्णयः , अत आह---प्रतिज्ञेतिनिर्णयान्तेन ।
पक्षबाधोक्तैः प्रत्यक्षादिभिः प्रमाणैर्यस्य
साधनवाक्यावयवप्रतिज्ञा बाध्यते तत्पराजयेनेतरस्य निर्णयः कार्यः ।
यथेहैव तावत् उदाहरणे त्वगिन्द्रियव्यापारेण वायावपरोक्षमनुभूयमाने तेनैवानुभवेन परोक्षतापक्षो बाध्यते ।
न हि नस्त्वगिन्द्रियभुवस्तोयप्रत्यक्षाद्वायुप्रत्यक्षं विशिष्यते ।
न हीहानधिष्ठानं स्पर्शनमात्रमनुभयते ।
अपि तु तदधिकरणं द्रव्यमपि ।
न हि प्रबलेन मरुताभिहन्यमानस्य जलं वा श्लिष्यतः संविद विशिष्यते ।
अतोऽक्षसम्बन्धफलानुसारात् प्रत्यक्षो वायुरिति निश्चीयते ।
क्वचिञ्चागमेन विषयापहारो भवति ।
यथा शुचि नरशिरऽकपालं, प्राण्यङ्गत्वात्, शङ्खशुक्तिशकलवादिति पाशुपतेनोक्तेऽन्योऽशुचीति साधयति, प्राण्युद्भूतत्वादुञ्चारादिवदिति ।
तत्र पूर्वप्रतिज्ञाया आगमेन विषयापहारादुत्तरेणार्थनिर्णयो भवति ।
शुचीतरविवेके ह्यागम एव शरणम् ।
तस्मिन् परिपन्थिनि न शुचित्वानुमानमात्मानं लभते ।
स्मरन्ति हि---
"नारं स्पृष्टवास्थि सस्नेहं सवासा जलमाविशेत्" इति ।
ऽरुद्रो हि महाव्रतं चचार स एतच्छवशीर्षमुपदधारेऽति त्वर्थवादमात्रं न शवशिरोधारणविधिः ।
अत्र च प्रत्यक्षादीन्येव यथास्वमर्थं साधयन्तीति साधनपदेनोच्यन्त इति ।
कथं पुनः प्रत्यक्षादीन्येव प्रतिज्ञाबाधनायोत्सहन्ते ।
तेष्वपि सामान्यतो दर्शनेन बाधस्य शङ्क्यमानत्वादत आह--- बाधवर्जनादिति ।
न तावत् तेषु बाधो दृश्यते, कदाचिद् बाधसम्भावना तु न तेषां प्रामाण्यमुत्सारयीति ॥९३ १।२॥
अत्र भिक्षुणाऽपक्षधर्मस्तदंशेन व्याप्तो हेतुरित्येकवचनेन विवक्षितैकसङ्ख्य एक एव हेतुरिति दर्शितम् ।
अत एव विरुद्धाव्यभिचारिणोर्न हेतत्वमनेकत्वात् तयोरिति ।
न चैतत् घटते ।
न हि प्रतिहेतु विरुद्धयो


सङ्घाते निर्णयस्ताभ्यामूर्ध्वताकाकवत्त्ववत् ।
प्रत्येकं संहतौ वापि गमकावविरोधिनौ ॥ ५,४.९५ ॥
तस्माद्भिनौ विरिद्धार्थौ हेतू चात्र निदर्शितौ ।
षोढा विरुद्धतामाहुश्चतुर्धा वैकधापि वा ॥ ५,४.९६ ॥
रनेकत्वं संशयहेतुत्वे हेतुः , अपि तर्हिपरस्परविरुद्धार्थोपप्लावकत्वमेव ।
विरुद्धौ हि द्वाभ्यां द्वावर्थावेकत्रोपप्लाविताविति तत्र संशेरते ।
न तु हेत्वनेकत्वात् ।
संशयहेत्वोरपि प्रत्येकमवगतयोरुभयसमावेशादेव क्वचिन्निर्णयो दृष्टः ।
यथा- ऊर्ध्वताकाकवत्त्वयोः ।
केवला ह्यूर्ध्वता स्थाणुपुरुषसाधारणी नान्यतरनिर्णयाय प्रभवति ।
काकनिलयनसहकृता तु सैवन स्थाणुरयमिति निश्चाययति ।
तदत्रैकस्यैव संशयहेतुत्वं द्वाभ्यामेव तु निर्णय इत्यप्रयोजकं संशयहेतुत्वे द्वित्वं, विरुद्धानेकसाध्यत्वमेव संशयहेतुः ।
यथा खल्वेक एव साधारमः सपक्षविपक्षयोर्वर्तमानः संशयहेतुर्भवति ।
एवं विरुद्धार्थस्यापि हेतुद्वयस्यांशाभ्यामुभयवृत्तिरेव संशये कारणमिति न तद्द्वित्वेन हेतुत्वनिराकरणं युक्तमित्याह---क्वचिदिति ।
ननु युक्तं
तावदूर्ध्वतया स्थाणुपुरुषसन्देहो भवतीति, काकवत्तामात्रेण न संशयो दृष्टपूर्वः ।
सत्यम् ।
यस्तु काकवत्तामात्रेण स्थाणुं सिषाधयिषति तस्यासौ केवला संशयहेतुः , ऊर्ध्वतासनाथा तु निर्णायिकेत्येतावदेव विवक्षितमित्यदोष इति ।
अपि च अविरोधिनोः प्रत्येकं संहतयोरपि क्वचिदर्थे साध्ये हेतुभावो दृश्यते ।
यथैकस्मिन्नेव शाब्दस्य ज्ञानस्यानुमात्वेऽन्वयव्यतिरेकजत्वप्रत्यक्षान्यप्रमाणत्वयोः , शक्यते हि ताभ्यामैकैकश्येन समस्ताभ्यां चानुमानत्वं साधयितुम् ।
द्वित्वे च हेत्वाभासत्वकारणे नैकस्मिन् साध्येऽनेकहेतवः प्रयुज्येरन् ।
प्रयोक्तारस्त्वेकमेव साध्यं किञ्चान्यदितश्चेति नानासाधनैः साधयन्तो दृश्यन्ते ।
तस्माद् विरोधनिबन्धन एवप संशयः , न तु नानात्वनिबन्धन इत्यभिप्रायेणाह--- प्रत्येकमिति ।
पूर्वं तु प्रत्येकं संशयहेत्वोरेव मिलितयोर्निर्णयहेतुत्वमुक्तम् ।
ग अत्र तु प्रत्येकं गमकावपि संहतौ च गमकाविति प्रतिपादितमिति ॥९५॥
तस्माद् विरुद्धार्थावेव भिन्नौ संशयहेतुत्वेन दर्शनीयौ ।
यथास्माभिरुक्तं न तु भिन्नतामात्रेणेत्याह---तस्मादिति ।
व्याख्यातस्त्रिप्रकारो


श्रुत्यर्थोक्तस्य बाधायां प्रतिज्ञार्थस्य हेतुना ।
नित्यत्वे कृतकत्वस्य धर्मबाधाद् विरुद्धता ॥ ५,४.९७ ॥
बाधो धर्मविशेषस्य यदा त्वेवं विशिष्यते ।
अर्थवच्छब्दरूपं स्यात् प्राक् सम्बन्धावधारणात् ॥ ५,४.९८ ॥
ऽपिसंशयहेतुः विपरीतप्रकारान् प्रतिजानाति---षोढा विरुद्धतामाहुरिति ।
धर्मधर्मिस्वरूपस्वविशेषोभयस्वरूपस्वविशेषैः षट्प्रकारां विरुद्धतामेके ब्रुवत इत्यर्थः ।
अन्ये तूभयविरोथयोः प्रत्येकपक्षानतिरेकात् चातुर्विध्यं प्रतिपन्ना इत्याह--- चतुर्धा
वेति ।
वयं तु इष्टविघातमात्रेणैकमेव प्रकारं सङ्गिरामह इत्याह--- एकधापि वेति ।
पूर्वोक्तपक्षपक्षद्वयनिवृत्तावपि वा शब्दः ।
अपि वा शेषभाजां स्यादिति पक्षबाध एव विरुद्धत्वे कारणं किमवान्तरभेदोपन्यासेनेति ।
त्रिष्वपि च प्रकारेषु श्रुत्यर्थोपात्तस्य प्रतिज्ञातार्थस्य बाधायां विरुद्धतामाहुरित्याह--- श्रुत्यार्थोक्तस्येति ।
धर्मधर्म्युभयस्वरूपं श्रुत्युक्तं, तद्विशेषास्तु प्रायेणार्थोक्ताः ।
ते च स्वरूपस्वविशेषाः प्रतिज्ञार्थशब्देनोपादीयन्ते ।
सर्वे हि ते वक्तुरभिप्रेताः ।
न तु धर्मादिविशेषाः साक्षात् प्रतिज्ञायामन्तर्गताः ।
तदस्मिन् प्रतिज्ञार्थे हेतुना बाध्यमाने हेतोर्विरुद्धता भवतीति ।
तत्पुनरिदं विप्रतिषिद्धमिव मनयामहे ।
कथं हि प्रतिज्ञार्थे हेतुना बाध्यमाने हेतुर्विरुद्धो भवति ।
स हि प्रतिज्ञार्थं प्रतिज्ञार्थेन बाध्यते यद्विरुद्धो भवेत् प्रसिद्धत्वादस्य ।
प्रसिद्धं हि घटस्य कृतकत्वं, न तदप्रसिद्धया नित्यतया बाधितुं शक्यम् ।
अतो बाधक इत्येवायं वक्तव्यः ।
वार्तिककृता तु परप्रसिद्धिमात्रेण विरुद्ध इत्युक्तामिति वेदितव्यमिति ।
तत्र धर्मस्वरूपबाधेन तावद् विरुद्धतामुदाहरति---नित्यत्वे इति ॥९७॥
धर्मविशेषबाधस्त्वेवं प्रयुक्ते भवतीत्याह---बाधैति ।
तमेव प्रयोगं दर्शयति--- अर्थवदिति पादत्रयेण ।
स्वरूपाभिधानवादिनो ह्याहुः --- गौरयमिति शब्दाकारविशिष्टोर्ऽथोऽवगम्यते ।
न च विशेषणमनभिधाय विशिष्टोऽभिधातुं शक्यत इति स्वरूपमेव तावदादौ शब्दो


विभक्तिमत्त्वात्पश्चाद्वत् स्वरूपेणेति चाश्रिते ।
अस्वरूपार्थयोगस्तु पश्चाच्छब्दस्य दृश्यते ॥ ५,४.९९ ॥
तेन प्रागपि सम्बन्धादस्वरूपार्थता भवेत् ।
इहप्रत्ययहेतुत्वाद् द्रव्यादेर्व्यतिरिच्यते ॥ ५,४.१०० ॥
समवायो यथेहायं घट इत्यादिसङ्गतिः ।
ऽभिधत्ते ततो विशिष्टम् ।
अपि चार्थशब्दो व्यभिचरति, अज्ञातसम्बन्धस्य तदनवगतेः ।
स्वरूपं तु न कदाचिद् व्यभिचरति सम्बन्धावधारणात्प्रागपि तदवगमात्, अव्यभिचारी च शब्दार्थ इति युक्तम् ।
अतः स्वरूपं तावदवश्याभिधेयं शब्दानां, तदभिधोत्तरकालं तु विशिष्टाभिधानमपि भवतु नामेति ।
एवं प्रसाध्यान्ते प्रयोगमाहुः --- शब्दस्वरूपं सम्बन्धावधारणात् प्रागर्थवद् विभक्तिसम्बन्धात्, अगृहीतसम्बन्धोऽपि हि स्वादिविभक्तियुक्तान् शब्दानवगच्छति ।
यदा च विभक्तियोगः तदार्थवत्त्वं दृष्टं यथा सम्बन्धग्रहणात् पश्चादिति ।
कथं पुनरेवं प्रयुज्यमाने धर्मविशेषबाधो भवत्यत आह--- स्वरूपेणेति चाश्रित इति ।
यदा हि स्वरूपेणार्थनार्थवत्त्वं प्रथममाश्रित्यार्थवत्तामात्रविशिष्टं साध्यते, तदार्थादिदमवगम्यते--- स्वरूपार्थवत्त्वमस्य सिषाधयिषितमिति ।
एवं च भवत्यर्थाक्षिप्तस्य धर्मविशेषस्य बाध इति ।
कथं पुनः स्वरूपेणेति चाश्रिते धर्मविशेषो बाध्यते ।
अत आह--- अस्वरूपेति ।
विभक्तिमत्त्वं हि स्वरूपातिरेकेणार्थान्तरेणार्थवत्त्वमविनाभावबलेन शब्दस्यावगमयति,
सम्बन्धग्रहणात्पश्चादर्थान्तरस्य दर्शात् ।
अतो व्याप्तिबलेन तदेव विभक्तिमत्तया साध्यते ।
अतोर्ऽथवत्ताया विशेषं स्वस्वरूपार्थवत्त्वं हेतुरयं विरुणद्धीति भवति धर्मविशेषबाध इति ॥९९ १।२॥
धर्मिस्वरूपबाधोदाहरणमाह---इहप्रत्ययेति ।
यदा हिसमवायधर्मिणं कृत्वा तस्य द्रव्यादिव्यतिरेकः साध्यते, इहप्रत्यहेतुत्वं च हेतुरुच्यते इहायं घट इति, संयोगो दृष्टान्तः , तदा धर्मिस्वरूपबाध इत्यभिप्रायः ॥१००॥


अत्राप्यसमवायत्वं संयोगस्येव सिध्यति ॥ ५,४.१०१ ॥
तेन धर्मिस्वरूपस्य वैपरीत्याद् विरुद्धता ।
यञ्च सत्तावदेकत्वं समवायस्य कल्पितम् ॥ ५,४.१०२ ॥
तत्र संयोगवद्भेदात् सायद्विशेषविरुद्धता ।
नित्यमात्मास्तिता कैश्चिद् यदा सौत्रान्तिकं प्रति ॥ ५,४.१०३ ॥
साध्यतेऽवयवाभावाद् व्योमवद् द्वयबाधनम् ।
तदोभयविशेषस्य बाधोऽयं साध्यते यदा ॥ ५,४.१०४ ॥
पारार्थ्यं चक्षुरादीनां सङ्घाताच्छयनादिवत् ।
शयने सङ्घपारार्थ्यं भौतिकव्याप्तहेतुके ॥ ५,४.१०५ ॥
कथं पुनरत्रोदाहरणे धर्मिस्वरूपबाधः , अत आह--- अत्रापीति ।
अत्राप्युदाहरणे धर्मिस्वरूपस्य समवायात्मनो वैपरीत्यापादनाद्धेतोर्विरुद्धता भवति ।
इहप्रत्ययहेतुत्वं ह्यसमवायात्मन एव दृष्टमिति ताद्रूप्यं विरुन्ध्यादिति धर्मिस्वरूपबाध इति ॥१०१ १।२॥
अस्मिन्नेव च धर्मिविशेषबाधोऽपि दर्शयितव्य इत्याह---यञ्चेति ।
समवायो हि सत्तासामान्यवदेकरूप इति काणादा मन्यन्ते ।
सोऽप्यस्य विशेषः संयोगवद्भेदापत्तेर्बाध्यत इति भवति धर्मिविशेषविरुद्धो हेतुरिति ॥१०२ १।२॥
उभयस्वरूपबाधायामुदाहरणमाह---नित्यमात्मास्तितेति ।
यदा कश्चित् सौत्रान्तिकं प्रत्येवं साधयति--- आत्मा नित्यः निरवयत्वात् व्योमवदिति, तदा धर्मधर्मिद्वयस्य बाधनं भवति ।
सौत्रान्तिकस्य ह्यवयवाभावो व्योम्न्यभावेनैव सम्बद्धोऽभिमत इत्यात्मनोऽपि तद्वदभावं गमयेत, आवरणाभावमात्रं हि नभः , न पुनस्तत्त्वान्तरमिति बौद्धा मन्यन्ते ।
अतोऽनवयवत्वादात्मनः स्वरूपस्य तद्धर्मस्य च नित्यत्वस्य बाधादुभयबाध इति ॥१०३ १।२॥
उभयविशेषबाधस्त्वेवं साध्यमाने भवतीत्याह---तदेति ।
यदा हि परार्थाश्चक्षुरादयः सङ्घातत्वात् शयनादिवदिति साध्यते, तदोभयविशेषबाध इत्यर्थः ।
कथं पुनरत्रोभयविशेषबाधः , अत आह--- शयन इति ।
शयनीये


आत्मानं प्रति पारार्थ्यमसिद्धमिति बाधनम् ।
असंहतपरार्थत्वे ।
दृष्टे संहततापि च ॥ ५,४.१०६ ॥
अनाहङ्कारिकत्वं च चक्षुरादेः प्रसज्यते ।
हिखट्वादौ महाभूतसंहतशरीरपारार्थ्येन सङ्घातत्वादिति हेतुर्व्याप्तो दृष्ट इति संहतपारार्थ्यमेव साधयेत् ।
आत्मानं च प्रति पारार्थ्यं साधयितुमभिमतम्, तन्न सिध्येत् ।
सोऽयं तावत् पारार्थ्यस्य धर्मस्य यो विशेषोऽभिमत आत्मपारार्थ्यं स तावद् बाध्यते ।
चक्षुरादेरपि धर्मिणो यो विशेष आहङ्कारिकत्वं नाम सोऽप्यनेनैव हेतुना बाध्यते ।
संहतात्मकत्वं हि शयनादावनाहङ्कारिकत्वेन व्याप्तं दृष्टम्, भौतिका हि ते, अतस्तन्निदर्शनेन चक्षुरादयोऽपि भौतिका भवेयुः ।
आहङ्कारिकाणीन्द्रियाणीति कापिलाः सङ्गिरन्ते, तेषां चायं प्रयोगः ।
तदयमर्थः --- संहतपारार्थ्यभौतिकत्वाभ्यां व्याप्तो हेतुर्यस्मिन् शयने तत्रात्मपारार्थ्यमसिद्धमिति धर्मविशेषबाधनं तावद् भवति ।
धर्मिविशेषबाधोऽपि भौतिकवयाप्त्या सूत्रितोऽनन्तरमेव विवरिष्यत इति न केवलमात्मपारार्थ्यं न सिध्यति, असंहतरूपात्मपारार्थ्ये चेष्टे व्याप्तिबलेनात्मनोऽपि संहतता प्राप्नोतीत्याह--- असंहतेति ।
नानेन हेतुनासंहतरूपात्मार्थता सिध्यति ।
प्रत्युत संहततैवात्नो भवेदिति ॥१०६॥
धर्मिविशेषबाधं विवृणोति---अनाहङ्कारिकत्वमिति ।
व्याख्यातचरं चेदम् ॥१०६ १।२॥
एवं तावद् ज्ञातसम्बन्धपदव्यावर्तनीयो विरुद्धः प्रपञ्चितः ।
इदानीं तद्व्यावर्त्या एव दृष्टान्ताभासा दर्शयितव्याः ।
तैर्हि नानुमानाङ्गसम्बन्धो ज्ञापयितुं शक्यते ।
अतस्तेऽपि ज्ञातसम्बन्धपदेनैव व्यावर्त्यन्ते ।
इदं चास्माभिः प्रागेवोक्तम् ।
अन्यत्राप्याह---
"ज्ञातसम्बन्धवाचा च त्रयोऽत्रानियतादयः ।
हेतुदृष्टान्तयोर्देषा भाष्यकारेण वारिताः ॥"


गमकस्यैकदेशस्य व्याप्तिर्गम्येति भाषितुम् ॥ ५,४.१०७ ॥
साध्यसाधर्म्यवैधर्म्यदृष्टान्तः प्रतिपाद्यते ।
तत्र हेत्वर्थमुद्दिश्य साध्योपादानमिष्यते ॥ ५,४.१०८ ॥
उद्देश्यो व्याप्यते धर्मो व्यापकश्चेतरो मतः ।
यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् ॥ ५,४.१०९ ॥
तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम् ।
इति ।
अतस्तन्निराकरणार्थं दृष्टान्तवचनमेव तावदवतारयति---गमकस्येति ।
व्याप्तिप्रदर्शनाय द्विविधो दृष्टान्तस्तावद् साधनवाक्ये दर्शयितव्यः ।
साध्यः पक्षः तत्साधर्म्यवैधर्म्याभ्यां यो दृष्टान्तः स प्रतिपाद्यत इत्यर्थः ॥१०७ १।२॥
तत्र साधर्यदृष्टान्तप्रकारमाह---तत्रेति ।
अस्यार्थः --- उदाहरणसाधर्म्याल्लिङ्गस्य प्रसाधकत्ववचनं हेतुः यदाहुः ---
"उदाहरणसाधर्म्यात् साध्यसाधनं हेतुऽ" इति ।
साध्यस्य प्रज्ञापनवचनमिति यावत् ।
तस्य चार्थो लिङ्गमेव ।
तञ्चोद्दिश्य साध्योपादानं साधर्म्यदृष्टान्त इष्यते ।
यो यो धूमवान् स सोऽग्निमानिति यावदिति ।
किमेवमुपादीयमाने सिध्यत्यत आह--- उद्देश्य इति ।
उकतं व्याप्तिप्रदर्शनाय दृष्टान्तवचनमिति ।
एवं चोपादीयमान उद्देश्यो धूमादिर्व्याप्ततया कथितो भवति, इतरश्चोपादेयोऽग्न्यादिर्व्यापकत्वं भवतीत्युक्तम् ॥१०८ १।२॥
कीदृशं तु तयोः स्वरूपमत आह---यद्वृत्तेति ।
यद्वृत्ततद्वृत्ताभ्यां यत्तत्परिनिष्पन्नानां यो य इत्यादिशब्दानामुपादानम्, तदयमर्थो भवति ।
यद्यद् यद्वृत्तेन संयुक्तं प्रथमं प्रयुज्यते प्रधानं च तदुद्देश्यं, तत्तद्वृत्तुयक्तं च पश्चात् प्रयुज्यमानं स सोऽग्निमानेवेति चैवकारेण युक्तं तदुपादेयम् ।
सर्वेष्वेव च ग्रहव्रीह्यादिसंमार्गावघातादिषूद्देश्योपादेयेष्वयमेव विवेक इति वेदितव्यमिति ॥१०९ १।२॥


वदत्यर्थं स्वशक्त्या च शब्दो वक्त्रनपेक्षया ॥ ५,४.११० ॥
साध्यहेतुत्वमर्थानां व्याप्तिशक्त्यनुरोधतः ।
तत्राज्ञानाद् यदा वक्ता सहभावविवक्षया ॥ ५,४.१११ ॥
विपर्ययेण वा हेतौ न प्याप्तत्वं विवक्षति ।
विवक्षन्नपि वा शब्दं तद्योगं न वदेद् यदि ॥ ५,४.११२ ॥
घटे कृतकनाशित्वे नाशि व्याप्तं कृतेन वा ।
न तदेष्टस्य हेतुत्वं स्यादनिष्टस्य चैव तत् ॥ ५,४.११३ ॥
किं पुनरेवं प्रयोगनियमे प्रयोजनम्, विवक्षापरतन्त्रा हि शब्दाः , ते यथा तथा वा प्रयुक्ता यथाभिप्रायं वर्तिष्यन्त एव ।
अत आह---वदतीति ।
न वक्त्रभिप्रायपरतन्त्राः शब्दाः , स्वाभाविक्यैव तु शक्त्या केचिदेव क्वचिदेवार्थे वर्तन्ते, अतो न विवक्षानुसारेणेष्टसिद्धिर्भवतीति वाच्य एव दृष्टान्तवचनविन्यासप्रकार इति ॥११०॥
यदि तर्हि स्वतन्त्राः शब्दाः अतथास्थितेऽप्यर्थे शब्दानुसारिणीष्टसिद्धिर्भवेदत आह---साध्यहेतुत्वमिति ।
अयमभिप्रायः ---- नार्थशक्तिः शब्दशक्तिमनुरुध्य प्रवर्तते, न च शब्दशक्तिरर्थशक्तिम्, अतो न यता वक्त्रभिप्रेतार्थानुसारिणी शब्दशक्तिः , एवं न शब्दानुसारिण्यर्थव्यवस्थेति, अर्थादीनां कृतकत्वानित्यत्वादीनां व्याप्तिशक्त्यनुरोधादेव साध्यहेतुभावो भवति न शब्दानुरोधादिति ॥११० १।२॥
वक्त्रनपेक्षया स्वशक्त्यैव शब्देर्ऽथमाचक्षाणे यत्तावदापद्यते तद् दर्शयति---तत्राज्ञानादिति सार्धद्वयेन ।
यदा हि दृष्टान्त वक्तुमनभिज्ञो वक्ता साध्यहेत्वोः सहभावमात्रं विवक्षति ।
यथा--- शब्दोऽनित्यः कृतकत्वादिति प्रयोगे,यथा घटे कृतकत्वनाशित्वे स्त इति ।
विपरीतावग्रहेण वा न हेतोर्व्याप्यतां विवक्षति ।
सत्यामपि विवक्षायां कुतश्चिद् भ्रमनिमित्तात् न व्याप्तियोग्यं शब्दं वदति ।
सहबावमात्रमेव तु पूर्ववद् वदेत्, विपरीतं वा भ्रान्तः यता नासिता कृतकत्वेन व्याप्तेति, तदा तावन्न केवलमिष्टं न सिध्यति अनिष्टमेव तु व्याप्तिविपर्ययादापद्यते ।
इष्टस्य


तस्माद् व्याप्यत्वरूपेण वाच्यो हेतुत्वसंमतः ।
यदा सम्यक् प्रयुक्तेऽपि वाक्येर्ऽथो न तथा भवेत् ॥ ५,४.११४ ॥
साध्यहेतूभयव्याप्तिशून्यत्वात् परमार्थतः ।
नित्यो ध्वनिरमूर्तत्वात् कर्मवत् परमाणुवत् ॥ ५,४.११५ ॥
घटवद्व्योमवच्चापि तदसद्वादिनं प्रति ।
धर्म्यसिद्धावपि ह्येवं दृष्टान्ताभासता भवेत् ॥ ५,४.११६ ॥
तत्सद्भावेऽपि च व्योम्नि द्वययुक्तेऽपि कीर्तिते ।
कर्माद्यालोचनाद् व्याप्तिर्हेतोर्नास्तीति वर्जनम् ॥ ५,४.११७ ॥
कृतकत्वस्य हेतुत्वं न स्यात् ।
अनिष्टस्यैव तु नाशित्वस्य भवेदित्येवञ्जातीयकानिष्टप्रयोगनिवारणाय युक्तो दृष्टान्तप्रयोगनियम इति ।
एतदेवोपसंहरति---तस्मादिति ।
हेतुत्वसंमतः कृतकत्वादिव्याप्यत्वरूपेण वाच्य इत्यर्थः ॥११३ १।२॥
अर्थानां शब्दतन्त्रत्वे यद् भवति तद् दर्शयति---यदेतिपादरहितद्वयेन ।
अस्यार्थः --- यदा हि व्याप्तिशक्त्यनुसारेणैवार्थानां साध्यहेतुत्वं तदा यद्यपि वक्त्रा न सहबावमात्रं दर्शितं,किन्तु सम्यगेव दृष्टान्तवचनम्, अर्थास्तु न तदनुरूपव्याप्यव्यापकभावनावस्थिता इति दृष्टान्ताभासता भवेदिति वक्ष्यमाणेन सम्बन्ध इति ।
यथा नित्यो ध्वनिरमूर्तत्वादिति प्रयोगे कर्मवत् परमाणुवद् घटवद् व्योमवदिति दृष्टान्तेषु यथासङ्ख्यं परमार्थतः साध्यहेतूभयव्याप्तिशून्यतया ।
कर्म खल्वनित्यमिति तत् साध्यभूतया नित्यतया शून्यं, हेतुस्त्वमूर्तवादिति तत्र विद्यत एव ।
परमाणवस्तु भूर्ता इति तेषु हेतुशून्यता, साध्यं तु नित्यत्वं तेषु विद्यत एव ।
घटे तु न साध्यं नित्यत्वं नाप्यमूर्तत्वं हेतुरित्युभयशून्यता ।
व्योम्नि तु दृष्टान्ते व्याप्तिशून्यतामुत्तरत्र स्वयमेव विवरिष्यति ।
अत्रैव च व्योमवदिति दृष्टान्ते तदसद्वादिनं सौत्रान्तिकं प्रति प्रयुज्यमाने धर्म्यसिद्ध्या
दृष्टान्ताभासता भवतीत्याह--- तदसद्वादिनमिति ॥११६॥
व्याप्तिशून्यतां विवृणोति--- तत्सद्बावेऽपीति ।
यद्यपि च


व्याप्त्या साधर्म्य उक्ते च न वैधर्म्यमपेक्ष्यते ।
सहभावित्वदृष्ट्या तु यदा व्याप्तिं न लक्षयेत् ॥ ५,४.११८ ॥
परः साधर्म्यदृष्टान्तात् तं वा नापेक्षते यदा ।
वक्ता वा सहबावित्वं शुद्धं तेन वदेद् यदा ॥ ५,४.११९ ॥
वपरीतान्वयं वापि तत्समाधित्सया तदा ।
व्योम्नः सद्भावो भवेत्, तच्च हेतुसाध्यद्वययुक्तं नित्यत्वादमूर्तत्वाच्च ।
तथापि कर्मादिष्वमूर्तेषु अनित्येष्वालोच्यमानेषु हेतोर्व्याप्तिर्नास्तीति ईदृशस्यापि दृष्टान्तस्य वर्जनमेव ।
अयमपि न साध्यसिद्ध्ये समर्थो यत इति ॥११७॥
व्याख्यातः साभासः साधर्म्यदृष्टान्तः ।
वैधर्म्यदृष्टान्तमतः परं व्याख्यास्यति ।
तत्रैतदेव तावत् प्रथमं वक्तव्यम् ।
किं सर्वदैव साधर्म्यवद् वैधर्म्यवचनं कार्यं न वेति ।
तत्र तावद् व्यतिरेकप्रधानवादिनः सर्वदा वाच्यमिति ये वदन्ति तान् प्रत्याह---व्याप्त्या साधर्म्य उक्त इति ।
एवं हि मन्यते--- व्याप्तिप्रज्ञापनाय हि दृष्टान्तवचनम्, सा चेत् साधर्म्यवचनेन ज्ञापिता किं वैधर्म्यवचनेन ।
साधर्म्यं चावश्यमेव वचनीयमन्वयप्रज्ञापनाय, तत्प्रधानत्वादनुमानस्य ।
व्यतिरेकस्यापि तन्मुखेनैव सिद्धेः ।
इतरथा दुरधिगमत्वात् ।
अतो यदि व्याप्त्या सहितं साधर्म्यमुक्तम्, अलं वैधर्म्यवचनेनेति ।
कदा तर्हि वैधर्म्यं वाच्यमत आह--- सहभावित्वदृष्ट्येति पादत्रयेण ।
यदा हि वक्त्रा सम्यगेव दृष्टान्त उक्ते परः श्रोता जानाति--- यथा हेतुसाध्ययोः साहित्यमात्रनेनोक्तं न व्याप्तिरिति, तदा साध्याभावे हेत्वभावं ज्ञापयितुंऽवैधर्म्येणेष्टसाधनऽमिति वक्ष्यमाणेन सम्बन्ध इति ।
यदा खल्वभ्यस्तवैधर्म्यस्तमेवापेक्षते न साधर्म्यदृष्टान्तं तदा च वैधर्म्येणेष्टसाधनमित्याह--- तं वा नापेक्षते यदेति ।
यदा वा वक्ता सुशिक्षितवैधर्म्यः साधर्म्यं वक्तुमजानानस्तेन साधर्म्यदृष्टान्तेन सहभावमात्रमेव शुद्धं व्याप्तिहीनं कथयति, तदापि पर्यनुयुक्तेन तेनैव वैधर्म्येणेष्टसाधनं कार्यमित्याह--- वक्ता वेति ॥११९॥
यदा वा भ्रान्तो विपरीतमन्वयं दर्शयति, तदापि तत्समाधानेच्छगया पूर्वविपरीतज्ञानोपमर्दनेन वैधर्म्येणेष्टसाधनमित्याह---विपरीतान्वयमिति ।


पूर्वज्ञानोपमर्देन वैधर्म्येणेष्टसाधनम् ॥ ५,४.१२० ॥
साहित्यमात्रं पूर्वोक्तं हेतोस्तत्रोपयुज्यते ।
व्याप्यव्यापकभावो हि भावयोर्यादृगिष्यते ॥ ५,४.१२१ ॥
तयोरभावयोस्तस्माद् विपरीतः प्रतीयते ।
धूमभावेऽग्निभावेन व्याप्तेऽनग्निस्ततश्च्युतः ॥ ५,४.१२२ ॥
अधूम एव विद्येतेत्येवं व्याप्यत्वमश्नुते ।
तथानग्नावधूमेन व्याप्ते धुमस्ततश्च्युतः ॥ ५,४.१२३ ॥
अन्यत्रानवकाशत्वाद् व्याप्यते ध्रुवमग्निना ।
नन्वन्वयवैपीत्ये स एव यथावत् प्रतिपाद्यतां किं वैधर्म्यवचनेन ।
सत्यमेवमपीष्टं सिध्यत्येव, किन्तु भ्रान्तैरिदमस्माभिरुक्तं साध्याभावे हेत्वभावो विवक्षित इति वैधर्म्येणापि तावदिष्टसाधनं भवेत्येवेति ।
यत्तु तत्पूर्वं साहित्यमात्रमुक्तं तद्वैधर्म्य एवोपयुज्यते तस्यैवेष्टं साधयतोऽनुग्रहे वर्तते इत्याह--- साहित्यमात्रमिति ॥१२० १।२॥
एवं तावद् वैधर्म्यवचनस्यावसरो दर्शितः , तद्ववचनप्रकारमिदानीं दर्शयति---व्याप्यव्यापकभावो हीति ॥१२१ १।२॥
वैपरीत्ये कारणमाह--- धूमभाव इति ।
यदा हि धूमभावोऽग्निभावेन व्याप्तो भवति तदानग्निरग्न्यभावस्ततो धूमात् प्रच्युतः सन्नधूमे धमाभाव एव भवतीत्येवं तावद् व्याप्तो भवति ।
यो हि यस्मिन् सति भवति असति च न भवति स तन्नियतस्तद्व्याप्त इत्युच्यते ।
यथा धूमोऽग्नावेव भवन्नग्निना व्याप्त इति सिद्धोऽभावयोर्व्याप्तिविपर्यय इति ॥१२२ १।२॥
यत एव चाभावयोरीदृशो व्यापव्यापकभावः अत एव भावयोरभिमतव्याप्तिसिद्धिरित्याह---तथानग्नाविति ।
अनग्नावग्न्यभावे धूमाभावेन व्याप्ते धूमस्तत्र विरोधिव्याप्तेरलब्धावकाशोऽग्नावेव भवतीत्येवं तद्व्याप्यता तस्य सिध्यति ।
तथेति ।
यथा भावव्याप्त्यपेक्षयाभावव्याप्तिः एवमभावव्याप्त्यपेक्षया भावव्याप्तिरित्यर्थः ।
न चैवमितरेतराश्रयता, बीजाङ्कुरवदनादितयोपपत्तेरिति ॥१२३ १।२॥
व्यापकौ तु यदोच्येते भावाभावौ तदा ततः ॥ ५,४.१२४ ॥
नैव व्याप्याद्विपक्षस्य प्रच्युतिः कथिता भवेत् ।
तस्माद् धूमेन साध्यत्वमग्नेः प्रार्थयते यदा ॥ ५,४.१२५ ॥
तदानग्निरधूमेन व्याप्तो वाच्यो न चान्यथा ।
अनग्न्यधूमसाहित्ये व्याप्तेर्वापि विपर्यये ॥ ५,४.१२६ ॥
न प्रस्तुतोपकारः स्यादन्यद्वापि प्रसाध्यते ।
यत्राप्यर्थस्य शून्य्तवं द्वाभ्यामेकेन वा भवेत् ॥ ५,४.१२७ ॥
किं पुनरभावयोर्व्याप्तिविपर्ययाश्रयणे प्रयोजनमत आह---व्यापकौत्विति ।
यदा हि य एव भावो व्यापकस्तदभाव एव व्यापकतया वैधर्म्यदृष्टान्त उच्यते तदा ततो व्याप्याद् धूमादेर्नैव विपक्षस्यानग्न्यादेः प्रच्युतिः कथिता भवेत् ।
ततकथनार्थं च व वैधर्म्यवचनं(स) प्रयोजनं भवेत् ।
न हि यत्र धूमस्तत्राग्निरितिवत् यत्र धूमाभावस्तत्राग्न्यभाव इति कथ्यमाने व्याप्याद् धूमादनग्नेर्विपक्षस्य निवृत्तिर्दर्शिता भवतीति ।
अतो धूमेनाग्निं सिषाधयिषता वैधर्म्यदृष्टान्तेनाग्निधूमाभावयोर्व्याप्तिविपर्ययो वाच्य इत्याह--- तस्मादिति वाच्योऽन्तेन ।
यत्राग्निर्नास्ति तत्र धूमो नास्तीत्येवं यदवृत्ततदवृत्ताभ्यामुद्देश्योपादेयभावो दर्शयितव्य इत्यर्थः ।
स चानग्निरधूमेन् व्याप्त उच्यमानो नान्यथा वाच्यः , किन्तु साधर्म्योक्तेनैवोद्देश्योपादेयप्रकारेणेत्याह--- न चान्यथेति ।
प्रकारश्चानन्तरमेवोक्त इति ॥१२४,१२५ १।२॥
अन्यथावचने दोषमाह---अनग्नियधूमसाहित्यैति ।
यथैव साधर्म्यदृष्टान्ते स्वशक्त्या शब्दोर्ऽथं वदति नार्थशक्तिमनुरुध्यत इति साहित्यमात्रवचने व्याप्तिविपर्यये वा नेष्टं सिध्यतीत्युक्तम्, एवमिहापि भवतीति भावः ॥१२६ १।२॥
एवं (तद्व?ताव) दिहाप्यर्थो न शब्दवशवर्तीति यत्रार्थो दृष्टान्तरूपो द्वाभ्यां हेतुसाध्याभावाभ्यामेकेन वा तयोः शून्यो भवति तत्रापि न प्रस्तुतोपकारो भवति अन्यद्वानिष्टं प्रसज्यत इत्याह---यत्रापीति ।
सम्यक् प्रयुक्तेऽपि वाक्येर्ऽथस्यातदायत्तत्वान्नेष्टसिद्धिरिति भावः ।
अत्रोदाहरणमाह


यदनित्यं तु तन्मूर्तमणुवद् बुद्धिवत् खवत् ।
साध्येन व्याप्तिसिद्ध्यै हि व्यातिरेकोऽत्र कथ्यते ॥ ५,४.१२८ ॥
यस्यायं नास्त्यसौ हेतुस्तेन साध्येन नाप्यते ।
तेन दृष्टेऽपि साहित्ये न सर्वो गम्य इष्यते ॥ ५,४.१२९ ॥
सहदृष्टिर्न सम्बन्धो व्याप्तिर्नैव च तावता ।
मूर्तानित्यत्वयुक्तेऽपि तस्मादङ्गीकृते घटे ॥ ५,४.१३० ॥
यदिति ।
नित्यो ध्वनिरमूर्तत्वादित्यत्रैव प्रयोगे यदैवं वैधर्म्यमुच्यते यन्नित्यं न भवति तदमूर्तमपि न भवति यथा परमाणुरिति तदा साध्याभावशून्यो दृष्टान्तः ।
परमाणोर्नित्यतया तदभावस्य तत्र दर्शयितुमशक्यत्वात् ।
बुद्धिवदिति तु दृष्टान्ते हेत्वभावशून्यता ।
बुद्धेरमूर्ततया तदभावस्य वक्तुमशक्यत्वात् ।
खवदिति तूभयाभावशून्यता, नित्यामूर्ते तस्मिन्नुभयाभावो दुरधिगमो यत इति ॥१२७ १।२॥
एवं साधर्म्यदृष्टान्तवद्व्याप्तिवैकल्येऽप्यभासता दर्शयितव्या ।
तत्सिदध्यर्थं हि विपक्षाद्धेतोर्व्यतिरेकः कथ्यते ।
यस्य तु विपक्षैकदेशादपि व्यातिरेको नास्ति, नासौ साध्येन व्याप्तो भवतीत्यसत्यां व्याप्तावनर्थकं तादृशस्य वैधर्म्यस्य वचनमित्यभिप्रायेणाह--- साध्येनेति ॥१२८ १।२॥
यतश्चैवञ्जातीयको न साध्येन व्याप्यते तेन क्वचिदभावयोः साहित्ये दृष्टेऽपि न सर्वत्र गम्यगमकभावो भवतीत्याह---तेनेति ।
यद्यपि यन्नित्यं न भवति तदमूर्तमपि न भवति, यथा घटः कुड्यं वेति, क्वचिदभावयोः साहित्यं शक्यते दर्शयितुम् ।
तथापि न सर्व(ः) शब्दादि(ः) नित्यतया विशिष्टोऽनेन हेतुना गम्य इष्यते ।
किञ्चिद्ध्यमूर्तं नित्यमाकाशादि,किञ्चिदनित्यं कर्मादीति भावः ॥१२९॥
किमिति नेष्यते अत आह--- सहदृष्टिरिति ।
विपक्षैकदेशनिवृत्त्या हि सहभावमात्रं हेतोः सिध्यति ।
न च तन्मात्रसम्बन्धोऽनुमानाङ्गम् ।
किं तर्हि, व्याप्तिः ।
न चासावेतावता साहित्यमात्रेण सिध्यतीति ।
एतदेवोदाहरणेन दर्शयति--- मूर्तानित्यत्वचयुक्तेऽपीति ।
इदं प्रागेव व्याख्यातमिति ॥१३० १।२॥
अत्र बौद्धा वदन्ति---किमिदं---


कर्मादौ व्याप्त्यभावेन न दृष्टान्तत्वमिष्यते ।
अशेषापेक्षितत्वाच्च सौकर्याञ्चाप्यदर्शनात् ॥ ५,४.१३१ ॥
साधनं यद्यपीष्टोऽत्र व्यतिरेकोऽनुमां प्रति ।
तावता न ह्यनङ्गत्वं युक्तिः शाब्देऽभिधास्यते ॥ ५,४.१३२ ॥
ऽव्याप्त्या साधर्म्य उक्ते च न वैधर्म्यपेक्ष्यतेः इत्युच्यते, न हि शतांशेनापि हेतोर्विपक्षाद् व्यतिरेके शङ्क्यमाने गमकत्वमस्तीत्यशेषविपक्षोऽनुमातुर्व्यतिरेकं ग्रहीतुमपेक्षितः ।
न चासौ दुरधिगमः , एकदेशस्थस्यापि सर्वादर्शनसौकर्यात् ।
दर्शनं हि सर्वविपक्षाणां दुष्करम्, तदभावस्तु सौकर्यप्राप्त एव ।
न चायोग्यानुपलम्भान्नेदमदर्शनं हेतोर्व्यतिरेकाय प्रभवतीति वाच्यम् ।
न हि नो विपक्षादर्शनादविनाभावनियमः ।
किन्तु तादात्म्यतदुत्पत्तिनिबन्धनः ।
विपक्षदर्शने तु हेतोः परिपन्थिन्यविनाभावो ग्रहीतुमशक्यो भवति ।
तच्चैकदेशस्थस्यापि तावन्नास्त्येवेति परिपन्थिनि वृत्तिमात्रे दर्शनं व्याप्रियते ।
अतो यदैवाग्निकार्यो धूम इत्यवगतं तदैव तदायत्तात्मलाभो नासति तस्मिन् भवतीति ज्ञायते ।
न चान्वयज्ञानमेव व्यतिरेकबुद्धौ निबन्धनम्, असाधारणेषु तदसम्भवात् ।
न हि महानसपरिदृष्टयोरग्निधूमस्वलक्षणयोस्तत्रैव निरुद्धयोरन्यत्र दर्शनमस्ति, येनान्वयोऽनुभूयेत ।
तत् कुतोऽन्वयः कुतस्तरां च तन्निबन्धनो व्यतिरेकः ।
न च विशेषेषु सामान्यं नाम किञ्चिदनुगतं स्वरूपमस्ति, यन्नियम्यनियामकतयावसीयेत, विकल्पाकारत्वात् तस्य ।
अतो विशेषा एव केचित् कयाचिद् व्यावृत्त्योपलक्षिताः कञ्चिद् विशेषं विपक्षव्यावृत्तिमुखेन गमयन्तीति तत्प्रदर्शनार्थं वैधर्म्यवचनमेव न्याय्यमिति ।
तान् प्रत्याह---अशेषेति युक्तिरन्तेन ।
अयमभिप्रायः --- यद्यपि व्यतिरेकोऽनुमानाङ्गम् ।
स तु नादर्शनमात्रात् सिध्यति ।
तद्देशागमनादपि च तस्योपपत्तेः ।
न च कार्यत्वावधारणादसति कारणेऽभावः , तस्यैवासति व्यतिरेके दुरधिगमत्वात् ।
यद्धि यस्मिन् सति भवति असति च न भवति तत्तत्कार्यम् ।
अतोऽसत्यभावोऽव


बोधप्रसङ्गो भेदानां न चाव्याप्तेर्भविष्यति ।
अस्ति सामान्यवस्त्वेषु व्यापिता तत्र गम्यताम् ॥ ५,४.१३३ ॥
गन्तव्यः ।
ततः कार्यता तदधीने(ति) तु तस्मिन्नितरेतराश्रयता ।
अस्तु वा दर्शनमात्राद् व्यतिरेकः , तस्य च सौकर्यं, नैतावतानुमां प्रति युक्तिरनङ्गम् ।
युक्तिर्योगः सम्बन्धोऽन्वय इत्यनर्थान्तरम् ।
नान्वयोऽनङ्गमिति यावत् ।
तन्मुखेनैव सर्वप्रमातॄणामनुमानोत्पत्तेः ।
अतस्तत्कथनार्थं साधर्म्यदृष्टान्तोऽपि वाच्य एव ।
नासावेकान्तेन प्रत्याख्यातुं शक्यते ।
इदं चान्वारुह्य वचनम् ।
यथोक्त एव सिद्धान्तः सम्यक् साधर्म्यप्रयोगे न वैधर्म्यमपेक्षणीयमिति ।
अन्वयस्यैव प्राधान्यात् तमन्तरेण व्यतिरेकासिद्धेः ।
अवगते हि धूमस्याग्निना सम्बन्धेर्ऽथादनग्निनिवृत्तिः सिध्यति ।
अतः स तावद् विधिमुखेन प्रथमं दर्शयितव्यः , अवसरे तु वैधर्म्यमपि कदाचिदुच्यते ।
अनङ्गत्वमिति तु पठतामियं व्याख्या---इदं हि लिङ्गस्यानुमायामङ्गत्वम् यदन्वयव्यतिरेकौ,ताभ्यां हि तदङ्गं भवति ।
अतो यथा व्यतिरेकोऽङ्गत्वम्, क एवमन्वयापरनामा युक्तिरपीति ।
ननु लिङ्गेऽपि शब्दात्मके प्रतीत्युत्तरकालभाव्यन्वयोऽनङ्गमेवात आह--- शाब्देऽभिधास्यत इति ।
शाब्दे ह्यनुमानाद् भिन्ने प्रतीत्युत्तरकालभाविनी युक्तिरनङ्गमिति वक्ष्यते ।
यथा वक्ष्यति---
नाङ्गमर्थधियामेषा भवेदन्वयकल्पना ।
इति ।
अनुमाने तु सर्वत्रैवान्वयः प्रतीत्यङ्गमिति ।
ये तु तावता नानङ्गत्वमन्वयस्येत्यध्याहृत्यात्रैवार्थे शाब्दे युक्तिर्वक्ष्यते इति व्याचक्षते, तेषामश्रुतान्वयाध्याहार एव तावदुपालम्भः ।
न चान्वयस्यानुमानाङ्गत्वे शाब्दे युक्तिर्वक्ष्यते ।
अत्रैव ज्ञातसम्बन्धपदेन तस्योक्तत्वात् ।
अत एवान्वयाधीनत्वमनुमानस्य च स्थितमिति वक्ष्यति ।
तस्माद् यथोक्तैव व्याख्येति ॥१३२॥
यत्तु भेदानामेवानुमाने गम्यगमकत्वं तेषां चान्वयो न सम्भवतीत्युक्तम्, तत्राह---बोधप्रसङ्गैति ।
न भेदानामनुमानबोधे गम्यगमकतायाः प्रसङ्गः ।
तेषां सर्वदेशकालाव्याप्तेरेकैकत्र निरुद्धत्वात् ।
न चाप्यविना


केचित् साधर्म्यदृष्टान्ते व्याप्त्यापि कथिते पुनऽ॥
वैधर्म्योक्तिमपीच्छन्ति व्यावृत्तिनियमेच्छया ॥ ५,४.१३४ ॥
हेतौ साधर्म्यदृष्टान्तात् साध्येनैवावधारिते ।
भावेनापरस्य तथाविधस्यैव नियमः शक्यतेऽनुभवितुम् ।
न चासति तस्मिन्नानुमानाङ्गं सम्भवतीति तेषामन्वयाभावो न दोषायेति ।
यदि न भेदानां बोधप्रसङ्गः , कस्य तर्हि दर्शितमिदं, न भेदानुगतमेकं किमपि पारमार्थिकं रूपमस्ति ।
तस्य विकल्पाकारत्वात् ।
यद्यपि च व्याप्तिसमयसंविदितरूपारोपेणैवाधुनानुमानमुपजायते ।
तथाहि तस्य निपुणतो निरूप्यणाणस्या-- सम्भवाद् विभ्रम एवायम् ।
यद्येवमसद्रूपारोपप्रवृत्तमनुमानमप्रमाणमेव ।
सत्यम् ।
प्रतिबन्धबलेन तु किञ्चिदेव स्वलक्षणं केनापि विकल्पाकारेण सामान्यात्मना समधिगतं यदपरं विकल्पाकारोल्लिखितमेव स्वलक्षणं प्रतिलम्भयति तत्प्रमाणमित्याख्यायते ।
अविंसवादो हि नः प्रामाण्ये कारणमर्थक्रियास्थितिश्चाविंवादः ।
यदाहुः ---ऽप्रमाणमविंसवादि ज्ञानमर्थक्रियास्थितिः ।
अविंसवादः इति ।
भवति चानुमानेर्ऽथक्रियासमर्थवस्तुलाभो वस्तुनिर्भासपुरः सरोऽपीति प्रमाणमनुमानम् ।
यथोक्तम्---
"अतस्मितंस्तग्रहाद् भ्रान्तिरविंसवादतः प्रमा"इति ।
अतो भेदानामेव गम्यगमकत्वम् ।
ते च न भाजनमन्वयस्येति युक्तमेवोक्तमत आह--- अस्तीति ।
अस्यार्थः ।
भवेदेवं यदि न भेदातिरिक्तं किञ्चित् सामान्यं वस्तु भवेत् ।
अस्ति तु तदित्याकृतिग्रन्थे सकलपरोक्तदोषपरिहारेणोपपादयिष्यते ।
तस्य चानेकदेशकालव्यापिता गम्यत इति नाभाजनमन्वयस्य ।
न चातस्मिंस्तदग्रहः , पारमार्थिकत्वात् तस्य ।
एवं च यदनुमानुप्रामाण्यसिद्ध्यर्थं परैः किमपि काशं कुशमवलम्ब्यते, तदपि मन्दप्रोयजनमेवेति ॥१३३॥
अन्यन्मतं व्याप्त्यापि साधर्म्यदृष्टान्त उक्ते वैधर्म्यमपि वाच्यमिति, तत्तावदुपन्यस्यति---केचिदिति पादत्रयेण ।
किं पुस्तदिच्छायां कारणमत आह--- व्यावृत्तिनियमेच्छयेति ॥१३४॥
एतदेव विवृणोति---हेताविति ।
एवं हि मन्यन्ते ।
यदा हि


व्यावृत्तिः सर्वतः प्राप्ता साध्याभावे नियम्यते ॥ ५,४.१३५ ॥
तत्तु मन्दफलं यस्मात् पक्षेऽप्येवं निरूपितम् ।
व्यापकाभावमात्रं हि व्याप्यान्नित्यं निवर्तते ॥ ५,४.१३६ ॥
तस्माद् यथैव शुक्लत्वे पटस्योक्ते विरोधिनाम् ।
निवृत्तिर्नतु दैर्ध्यादेस्तथात्रापि भविष्यति ॥ ५,४.१३७ ॥
द्वैविध्यं नोपपन्नं तु यथैव ह्यग्निधूमयोः ।
साधर्म्यदृष्टान्तेयत्र धूम इत्युद्दिश्य तत्राग्निरेवति सैवकारमुपादीयते, तदा हेतो साध्येनैवाग्निनावधारिते सर्वतोऽग्नोरन्यमात्राद् व्यावृत्तिः प्राप्नोति, न चैतत् सम्भवति ।
साध्यधर्माधिकरणादेरप्यभावप्रसङ्गादपक्षधर्मत्वापत्तेः ।
पक्षाभावप्रसङ्गाच्च ।
अतः साध्याभाव एव व्यावृत्तिं नियन्तुं सर्वदैव वैधर्म्यवचनमर्थवत् ।
सति हि तस्मिन्नग्न्यभावे धूमो न भवतीत्यावेदितं, भवतीति ॥१३५॥
एतदपि दूषयति---तत्तु मन्दफलमिति ।
तदिदं वैधर्म्यवचनमेवं क्रियमाणं मन्दफलमित्यर्थः ।
कथं मन्दफलमत आह--- यस्मादिति ।
किं निरूपितमत आह--- व्यापाकभावमात्रं हीति ।
अग्निमान् पर्वत इति पक्षवचने निरूपितमिदम्,--- यथाऽनियमस्तद्विपक्षाच्च कल्प्यते नाविरोधिनः इति ।
अतः साधर्म्यदृष्टान्तेऽपि व्याप्या धूमादेर्व्यापकाभावनिवृत्ति मात्रेमेव दर्शयितव्यम्, नान्यमात्रनिवृत्तिरिति ॥१३६॥
एतदेव दृष्टान्तवचनेनोपपादयन्नुपसंहरति---तस्मादिति ।
तदिह---
प्रतिज्ञाहेतुसाधर्म्यदृष्टान्ताख्यास्त्रयो मताः ।
वाक्यस्यावयवाः प्रायो मीमांसकमते सताम्॥
एतच्च भाष्यकारेण स्वयमेवोपदर्शितम् ।
दृष्टान्तहेतुसाध्यार्थपदत्रयनिबन्धनात्॥
इति ॥१३७॥
अत्र भाष्यम्---ऽतत्तु द्विविधं प्रत्यक्षतो दृष्टसम्बन्धं सामान्यतो दृष्टसम्बन्धं च ।
तत्र प्रत्यक्षतो दृष्टसम्बन्धं यथा--- धूमाकृतिदर्शनादग्न्याकृतिविज्ञानं, सामान्यतो दृष्टसम्बन्धं च यथा--- देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिमुपलभ्यादित्येऽपि गतिस्मरणम्ः इति ।
अनेन प्रमेयद्वैविध्यादनुमानद्वैविध्यमुक्तमिति ।
अत्र केचिन्नीतिज्ञंमन्या अवधृतस्वलश्रणमेव क्वचिदनुमानेन सामान्यतो गृह्यत इति मन्यन्ते ।
तदभ्रमापनयाय भाष्यकारेणेदमुक्तम्---ऽतत्तु द्विविधम्, अदृष्टस्वलक्षणविषयमप्यनुमानमस्ति क्रियादिष्विऽति ।
कथं पुनरदृष्टस्वलक्षणेन सम्बन्धदर्शनम्, उत्पत्तिमतः फलस्य दर्शनात् ।
यद्यप्यनवधृतस्वलक्षणेन वस्तुना विशेषतः सम्बन्धोऽनवगतः , सामान्यतस्तु दृश्यते ।
सर्वं हि कादाचित्कं फलं कुतश्चिदागन्तुकादुत्पत्तिमतो जायमानं दृष्टम्, तन्तुसंयोगेभ्य इव पटः ।
अतो देवदत्तस्य भूतपूर्वोत्तरदेशविभागसंयोगौ कदाचिदुपलभ्यागन्तुकः कोऽपि हेतुरनुमीयते ।
तदिदं
सामान्यतो दृष्टसम्बन्धमनुमानमाचक्षते प्रत्यक्षानुपलक्षितपूर्वस्वलक्षणविषयत्वात् ।
अग्न्यादिषु तु प्रत्यक्षतः स्वलक्ष आवधारणात् प्राक् प्रत्यक्षतो दृष्टसम्बन्धमनुमानमाहुः ।
न च द्रव्यमेव संयोगविभागयोः कारणमिति वक्तव्यम् ।
सत्यपि तस्मिन्नभावात् ।
न च द्रव्यान्तरागम एव शक्येत कल्पयितुं, तस्य पूर्वद्रव्यप्रत्यभिज्ञया बाधितत्वात् ।
न च सदृशापरापरोत्पत्तिविप्रलब्धा भेदं न बुध्यन्त इति साम्प्रतम्, देशादिभेदेऽपि तदबुद्धेरविपर्ययात् ।
उक्तं च विवरणकारेण ---ऽक्षमभङ्गस्तु प्रत्यभिज्ञानाग्निराक्रियत एव ।
अतो दृष्टकारणसम्भवाददृष्टं किमपि संयोगविभागयोः कारणमनुमीयते ।
तच्च कर्मेत्याख्यायते ।
अत एव प्रदेशान्तरेष्वपि कर्माप्रत्यक्षमेवेऽति ।
भाष्यकारो दर्शयति--- यथा वक्ष्यति"न हि ते प्रत्यक्षे"इति ।
ऽयदाश्रयं देशान्तरं प्रापयति तत्कर्मेत्युच्यतः इति च ।
व्यक्तमेव देशान्तरप्राप्तिफलोन्नीयमानत्वमेव कर्मणो दर्शयतीति सिद्धं क्रियादीनां सामान्यतो दृष्टानुमानैकविषयत्वम् ।
एवं च प्रमेयद्वैविध्यादनुमानद्वैविध्योपपत्तिरिति ये वदन्ति तान् प्रत्याह---द्वैविध्यं नोपपन्नमिति ।
इदमुक्तप्रकारं द्वैविध्यमनुपपन्नमिति भावः ।
कथमनुपपन्नमत आह--- यथैवेति पादत्रयेण ।
यथा खल्वग्निधूमाकृत्योः प्रत्यक्षयोः प्रत्यक्षदृष्टः सम्बन्धो, भवति एवं गितप्राप्त्याकृत्योः , तयोरपि प्रत्यक्षत्वात् ।


प्रत्यक्षदृष्टः सम्बन्धः गतिप्राप्त्योस्तथैव हि ॥ ५,४.१३८ ॥
प्रत्यक्षमेव हि वयं देशान्तरं प्राप्नुवन्तं देवदत्तं गच्छतीति मन्यामहे ।
नेयं जात्यादिविकल्पनाभ्यः कर्मकल्पना विशिष्यते ।
तद्वदेवेन्द्रियान्वयव्यतिरेकानुविधायित्वादपरोक्षनिर्भासाच्च ।
ननु देवदत्ते देशसंयोगविभागातिरिक्तमपरं कर्मणः किमपि रूपमपरोक्षमीक्षमहे ।
फलदर्शनेनैव तदनुमीयते ।
जातेर्वा व्यक्तितो व्य(तिरिक्ता) याः किं रूपमनुभूयते, यदसौ प्रत्यक्षविषयतयावसीयते ।
रूपमेव सा व्यक्तेः , किमस्या रूपान्तरेणेति चेत्, कर्म वा किमरूपम् ।
इदमपि हि ततो न भिद्यत एव ।
आगन्तुकं तु केवलम् ।
अतो जातिकल्पनावत् कर्मकल्पनामपि प्रत्यक्षपक्ष एव निक्षिपन्तः पञ्चधा सविकल्पकं प्रत्यक्षं विभजामहे ।
आह च---
"न हि दृष्टिपथं प्राप्तं देवदत्तं निरूपयन् ।
पठन काव्यं स्वसंज्ञोक्तं परोक्षमिव बुध्यते ॥"
इति ।
फलानुमेये तु कर्मण्यादित्यवद् देवदत्तवत् प्रतीतिप्रसङ्गः ।
न चैष देवदत्तमिव चलन्तं स्पन्दमानमादित्यमपि पश्यतीति दृश्यते ।
स्थिरं हि सर्वदा तन्मण्डलमवलोक्यते ।
संयोगविभागौ तु तस्यापि प्रतीयेते एवेति तुल्य(व?स्वा)त् ताभ्यामुभयत्राप्यानुमानिकः प्रत्ययो भवेत् ।
अपि च विभागोपक्रमे संयोगावसाने च कर्मणि तत उन्नीयमाने गच्छतीति वर्तमाननिर्भासः प्रत्ययो न भवेत्, अतीतं हि तत्, तदा कथं वर्तमानाकारबुद्धिगोचरो भवति ।
जलप्रवाहनिश्चलेषु मत्स्येषु निरन्तरोत्पद्यमानजलावयसंयोगविभागावगमादानुमानिकी, गतिसंविदुपजायेत ।
स्थाणौ च श्येनवियुक्ते श्येन इव कर्मानुमीयेत ।
ततश्च सोऽपि गच्छतीति बुद्धिविषयतामापद्येत ।
यदि मतं न विभागमात्रात् कर्मानुमानम्, अपि तर्हि विभागपूर्वाकात् संयोगादिति ।
एव तर्हि यदैकः श्येनवियुक्तः स्थाणुरन्येन संयुज्यते तत्र प्रसङ्गः ।
चलित्वावस्थिते च देवदत्ते ।
यदि तूच्यते योऽयमुत्पततः श्येनस्य देशान्तरसंयोगः तस्य स्थाणुसमवेतेन कर्मणा निष्पत्त्यसम्भवान्न तत्र कर्मानुमानमिति ।
कल्प्यतां तर्हि श्येनेऽपि कर्म, स्थाणौ तु प्रसङ्गानतिवृत्तिरेव ।
नियतं हि प्रतिबद्धदृशः स्मृतप्रतिबन्धस्य प्रतिब्नधकविज्ञानम् ।
अस्ति च स्थाणौ कारणप्रिबद्धफलदर्शनमिति नानुमोदयः शक्यते ।
निरोद्धुम् ।
श्येनसमवायिनैव कर्मणा स्थाणावपि संयोगविभागोपपत्तौ न तद्गतकर्मानुमानमिति चेत् तन्न ।
न हि प्रयोजनानुसारिण्यमनुमानव्यवस्था ।
व्याप्तं हि लिङ्गं यत्र यत्र दृश्यते तत्र तत्र व्यापकमुपस्थापयति ।
अर्थापत्तिर्ह्यन्यथोपपत्त्या परिह्रियते नानुमानम् ।
यदि त्वविच्छन्नोत्पत्तयः संयोगविभागाः क्रियानुमाने कारणम्, एवं तर्हि न काचिद् गतिरनुमीयेत, भविष्यत्संयोगविभागानां प्रमाणागोचरत्वात् ।
प्रथमं च कतिपयानामेवावगतेः ।
अथ स्वदेशसंयोगविभागहेतुकं क्रियानुमानम् ।
न च स्थाणोः श्येनो देश इत्युच्यते ।
एवमपि मत्स्येषु प्रसङ्गानतिवृत्तिरेव, तेषां हि जलं स्वदेश एव ।
परोक्षव्योमवादिनां च विहङ्गमे गच्छतीति क्रियाप्रत्ययानुपपत्तिः , व्योमसंयोगविभागयोरप्रत्यक्षत्वात् ताभ्यां तदनुमानानुपपत्तेः ।
न च वियद्विततालोकावयवसंयोगविबागावगमनिबन्धनो विहङ्गमे चलतीति प्रत्ययः , सन्तमसेऽपि भावात् ।
न च तमो नाम किञ्चिद्वस्त्वस्ति भवत्सिद्धान्ते, भासोऽभावमात्र्तवात्तस्य ।
अतस्तत्संयोगविभागहेतुकोऽपि न क्रियावसायः शक्यते समाधातुमिति न प्रत्यक्षे कर्मणि द्वैविध्वोपपत्तिः ।
या तुऽन हि ते प्रत्यक्षेः इत्यप्रत्यक्षतोक्ता, तां तत्रैवान्यथा व्याख्यास्यामः "रूपशब्दाविभागम्" इति च वदता सूत्रकारेण प्रत्यक्षमेव क्रमेत्यास्थितम् ।
अपूर्वाधिकरणे च"कर्मणो रूपमुपलभामह"इति वचनं यथाचोदितविततपूर्वापरीभूताभिव्यक्तावस्थितकर्मरूपानुपलब्ध्यभिप्रायमेव ।
इतरथा ह्युपलब्धिमात्रप्रतिषेधे शशशृङ्गादिवन्नित्याभाव एव कर्मणो भवेत् ।
न हि तत्र प्रत्यक्षोपलब्धिमात्रमेव प्रतिषिद्धम् ।
ऽयदाश्रयं देशान्तरं प्रापयतीऽति च न फलानुमेयत्वाभिप्रायम् ।
किं तर्हि? आश्रयस्य देशान्तरप्रापकत्वरूपेण न स्वरूपतः कर्मास्तीत्यपूर्वात्मना कर्मणोऽवस्थानं दर्शयति ।
ऽिहापि देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिमुपदित्ययोरुभयोरपि कर्मणोऽनुमेयत्वात् केन विशेषेणादित्ये गत्यनुमानं सामान्यतो दृष्टतयोदाह्रियते ।
देवदत्तेऽपि हि सामान्यतो दृष्टादेव गतिसिद्धिः ।
अतो नैवंविधं ग्रन्थतो युक्तितो वा घटत इति सूक्तमनुपन्नमिति ।
प्रतियोगिनोर्हि परस्परमसङ्करे द्वैविध्यं भवति ।
इह तु यत्


आदित्येऽनुपलब्धिश्चेन्न देशेऽप्यधुनातने ।
क्वचित् तत्रोपलब्धिश्चेद् देवदत्तेऽपि दृश्यताम् ॥ ५,४.१३९ ॥
यदि धर्म्यन्तरापेक्षा तत्र सामान्यदृष्टता ।
स्यादग्निधूमचयोः सैव तस्मादेवं प्रचक्षते ॥ ५,४.१४० ॥
प्रत्यक्षदृष्टसम्बन्धं ययोरेव विशषयोः ।
प्रत्यक्षदृष्टसम्बन्धस्य प्रतियोगितयोपात्तं सामान्यतो दृष्टसम्बन्धं तत्रापि गतिप्राप्त्याकृत्योः प्रत्यक्षदृष्ट एव सम्बन्ध इति न प्रतियोगिनोरसङ्कर इति ॥१३८॥
यदि तु दृष्टान्ते प्रत्यक्षतायामपि पक्षीकृतादित्यगतेरप्रत्यक्षत्वात् न प्रत्यक्षदृष्टः सम्बन्ध इत्युच्यते ।
तदेतदाशङ्कते तावत्---आदित्येऽनुपलब्धिश्चेदिति ।
इदानीं दूषयति--- नेति ।
कारणमाह---देशेऽप्यधुनातन इति ।
देशेऽप्यधुनातने--- सम्प्रति प्रमीयमाणे, अप्रत्यक्षतोपलब्धिरेवेत्यर्थः ।
यदि त्वग्निधूमाकृत्योः क्वचिन्महानसादौ अप्रत्यक्षोपलबन्धिरिष्यते सा तर्हि देवदत्तेऽपि गतेः प्रत्यक्षत्वादस्तीत्याह---क्वचिदिति ॥१३९॥
एवं तावत् प्रत्यक्षतो दृष्टता सामान्यतो दृष्टतया सङ्कीर्यते इत्युक्तम् ।
इदानीं सामान्यतो दृष्टतापि प्रत्यक्षतो
दृष्टाभिमताग्न्याकृत्यनुमाने सङ्कीर्यत इत्याह--- यदीति पादत्रयेण ।
यदि हि देवदत्तादिधर्म्यन्तरापेक्षैवादित्ये गत्यनुमानस्य सामान्यतो दृष्टष्यते, सा तर्हि महानसादिधर्म्यन्तरापेक्षयाग्निधूमयोरपि गम्यगमकत्वेनावस्थितयोः प्राप्नोत्येव ।
सामान्यतो ह्यविवक्षितदेशादिभेदमिदमवगतं धूमवानग्निमानिति, यथा देशान्तरप्राप्त्यधिकरणं गत्यधिकरणमिति ।
अतः प्रतियोगित्वरहितमेवेदतस्मादेवं प्रचक्षत इति ।
यथोक्तद्वैविध्यासम्भवादेवं वक्ष्यमाणप्रकारेण द्वैविध्यं वर्णनीयमिति भावः ॥१४०॥
तत्र प्रत्यक्षसम्बन्धं तावदुदाहरति--- प्रत्यक्षेति बुध्यतेऽन्तेन ।
यदा हि ययोरेवग्निधूमविशेषयोः , गोमयेन्धनोऽयमग्निः --- गोमयमिन्धनमस्येति


गोमयेन्धनतज्जन्यविशेषादिमतिः कृता ॥ ५,४.१४१ ॥
तद्देशस्थेन तेनैव गत्वा कालान्तरेऽपि तम् ।
यदाग्निर्बुध्यते तस्य पर्वबोधाकत् पुनः पुनः ॥ ५,४.१४२ ॥
सन्दिह्यमानसभ्दाववस्तुबोधात् प्रमाणता ।
विशेषदृष्टमेतच्च लिखितं विन्ध्यवासिना ॥ ५,४.१४३ ॥
आकृत्योरेव चैषेष्टा व्यवच्छेदेन केनचित् ।
हेतुसाध्यव्यवस्थेति विशेषो नोपदर्शितः ॥ ५,४.१४४ ॥
बहुव्रीहिः , तज्जन्योऽयं धूमविशेष् इति च प्राक् प्रत्यक्षेण मतिं कृत्वा पुनश्च कियता विलम्बनेनान्यत्र क्वचिद् कत्वा गतः सन् तद्देशस्थेन तेनैव धूमविशेषेण तमेवाग्निविशेषं बुध्यते, तदा तत्प्रत्यक्षदृष्टसम्बन्धमनुमानं भवतीत्यर्थः ।
अनेन च विशेषदृष्टमेव प्रत्यक्षदृष्टशब्देनोच्यत इति व्याख्यातम् ।
प्रत्यक्षशब्देन हि विशेषो लक्ष्यते ।
प्रत्यक्षेण ह्ययमेवंविधोऽवान्तरविशेषो गोमेयन्धनतज्जन्यत्वादिरूपः शक्यतेऽवगन्तुम् ।
न प्रमाणान्तरेण ।
तदद्वारेण त्वनुमानस्यापि तादृशो विशेषो विषयो भवतीति युक्तैव प्रत्यक्षशब्देन विशेषलक्षणा ।
विशेषदृष्टं च सामान्यतो दृष्टस्य भवति प्रतियोगीति द्वैविध्योपपत्तिरिति भावः ।
ननु विशेषदृष्टं नाम(न) प्रमाणभेदऽो ।
न चेदं प्रमाणम्,गृहीतविषयत्वात् ।
तद्देशस्थितेनैव हि धूमेन तस्मिन्नेव देशे स एव गोमयेन्धनजन्याग्निरनुमीयते ।
अतो देशभेदाभावादप्रामाण्यमेव, अत आह---तस्येति पादत्रयेण ।
तस्यैवंविधस्य प्रत्यक्षदृष्टस्य सन्दिह्यमानसद्भाववस्तुबोधात् प्रमाणता भवति ।
यद्यपि देशभेदो नास्ति ।
कालभेदात्तु संशयानस्य संशयोच्छेदद्वारेण प्रामाण्यमविहतमिति ।
एतच्च विन्ध्यवासिनापि विशेषदृष्टत्वेनोदाहृतमित्याह--- विशेषदृष्टमिति ॥१४३॥
यदि विशेषदृष्टोदाहरणमिदं कथं तर्हि भाष्ये आकृतिग्रहणम् ।
एवं हि विशेष एव दर्शयितव्यो भवेत् ।
अत आह---आकृत्योरेवेति ।
अयमर्थः ---केनचिद्गोमयोन्धनत्वादिनावान्तरविशेषेणोपदर्शितयोराकृत्यो


अग्निधूमान्तरत्वे च वाच्ये सामान्यतो मितौ ।
सामान्यदृष्टमेकान्तादत्रेत्यादित्य उच्यते ॥ ५,४.१४५ ॥
प्रत्यक्षविषयत्वं च सामान्यस्य प्रसाधितम् ।
वस्तुत्वं चात्र हेतुर्वा द्वयस्याप्यभिधीयते ॥ ५,४.१४६ ॥
रेवात्र हेतुसाध्यत्वम् ।
एवं ह्यत्र प्रत्ययः ।
स एवायमद्य यावदनुवर्तमानो गोमयेन्धनविकारस्य धूमस्याकारो दृश्यते ।
अत एव तदिन्धनयोनिरग्निरनुवर्तत इत्यतो नानुपपन्नमाकृतिग्रहणमिति ॥१४४॥
यद्येवमविवक्षितावान्तरविशेषमग्निधूमान्तरमेव सामान्यतो दृष्टोदाहरणतया वाच्यम् ।
किमादित्योदाहरणेन ।
अत आह---अग्निधूमान्तरत्वे चेति ।
यथा ह्यग्निधूमाकृत्योस्तुणदारुगोमयेन्थनादिजन्मा सुव्यक्तो विशेषः सर्वप्रमातृस्यसंवेद्यो भवति, नैवं गतिप्राप्त्याकृत्योः ।
अतः प्राप्त्याकृतिमात्राद् गत्याकृतिमात्रानुमानमादित्य एकान्ततः सामान्यतो दृष्टसम्बन्थमिति युक्तमेवादित्योदाहरणमिति ॥१४५॥
किं पुनः सामान्यतः सम्बन्धग्रहणे प्रमाणम् ।
न ह्यगृहीतयोः सम्बन्धिनोः सम्बन्धग्रहणमस्ति ।
न च सामान्ययोः प्रत्यक्षग्रहणं सम्भवति ।
तस्य स्वलक्षणैकविषयत्वात् ।
नानुमानमनवस्थापातात् ।
अत आह---प्रत्यक्षविषयत्वमिति ।
भवेदनवस्था,वद्यनुमानेन सामान्यग्रहणमिष्यते ।
तस्य तु सविकल्पकसिद्धौ प्रत्यक्षविषयत्वमुपपाद्यान्त उपसंहृतंऽप्रत्यक्षत्वमतः सिद्धं सामान्यस्येऽति ।
ननु यस्त्वेव न सामान्यं किञ्चिदस्ति नाम ।
तस्य भिन्नाभिन्नस्यानिरूपणादत आह---
वस्तुत्वं चेति ।
वस्तुत्वमप्याकृतिग्रन्थे विस्तरेण प्रतिपाददयिष्यते ।
प्रत्यक्षविषयताप्रतिपादनेन च प्रत्यक्षेऽपि प्रसाधितप्रायमेव ।
अत्र चऽस्ति सामान्यवस्तुष्विऽत्यन्वयोपपादनाय सामान्यस्य वस्तुत्वमुपन्यश्रस्तमेव ।
अयं तु हेतुकथनार्थः पुनरुपन्यास इति ।
यस्तु हैतुको न हेतुमन्तरेण प्रमाणान्तरसिद्धावाद्रियते ।
तं प्रति हेतुनैवोभयमुपपादयिष्याम इत्याह---अत्रेति ॥१४६॥


धुमादग्न्यनुमानस्य वस्त्वालम्बनता भवेत् ।
अभावान्यप्रमाणत्वात् स्वार्थे श्रोत्रादिबुध्दिवत् ॥ ५,४.१४७ ॥
सामान्यस्य च वस्तुत्वं प्रत्यक्षग्नाह्यतापि च ।
अभावान्यप्रमेयत्वादसाधारणवस्तुवत् ॥ ५,४.१४८ ॥
तत्र वस्तुत्वप्रसाधनार्थं तावद् हेतुमाह---धूमादग्न्यनुमानस्येति ।
बौद्धा ह्यवस्तुसामान्यालम्बनमनुमानमाचक्षते ।
सामान्यस्य विकल्पाकारमात्राभ्युपगमात् ।
अत एव भ्रान्तिरेवानुमानं, सम्बन्धबलेन स्वलक्षणरूपमुपस्थापयतीति प्रमाणित्याहुः ।
तानेव प्रतीदमुच्यते--- वस्त्वालम्बनमनुमानभभावान्यप्रमामत्वात् यथा स्वार्थे श्रोत्रादिबुद्धिः ।
या हि स्वविषये श्रोत्रादिभिरिन्द्रियैर्बुद्धिर्जन्यते, सा वस्त्वालम्बनैवप ।
येन च यदिन्द्रियं सन्निकृष्यते स तस्य स्वार्थः प्राप्यकारित्वादिन्द्रियाणाम् ।
तदिह मृगतृष्णादिज्ञाननिराकरणार्थं स्वार्थविशेषणम् ।
अविशेषेणोपादाने तु नाबावान्यप्रमाणत्वस्य वस्त्वालम्बनतया व्याप्तिः कथिता भवेत् ।
भ्रान्तीनामुभयविकलत्वात् ।
न हि ताः प्रमाणम् ।
न च वस्त्वालम्बनाः ।
अन्यसम्प्रयुक्तेन्द्रियस्यहि ता अन्यविषया जायन्ते ।
ऊदृशमेव ज्ञानमवस्त्वालम्बनं, न पुनरत्यन्तासदर्थम् ।
एवं वस्त्वालम्बन्त्वेऽनुमानस्य साधिते अर्थात् सामान्यं वस्त्वित्युक्तं भवति ।
इदं चावस्त्वालम्बत्वमनुमानस्यार्थपदं प्रयुञ्जानेन भाष्यकारेण निराकृतम् ।
अनर्थविषयमनुमानमिति बौद्धा मन्यन्ते ।
यद्वदिति(?) स्वप्रतिभासेऽनर्थेर्ऽथाध्यवसायेन प्रवर्तमाना भ्रान्तिरप्यर्थसम्बन्धेन प्रवृत्तेस्तदव्यभिचारात् प्रमाणमनुमानमिति, तेषामिदमुत्तरम् अर्थः सामान्यमनुमानस्य विषयो बाह्य एव ।
न विकल्पाकारमात्रमित्याकृतिग्रन्थे विस्तरेण प्रतिपादयिष्यत इति ॥१४७॥
एवमर्थाद् वस्तुत्वं प्रसाध्याह्रत्य प्रसाधयति---सामान्यस्य च वस्तुत्वमिति ।
सामान्यं वस्तु अभावान्यप्रमेयत्वादसाधारणवस्तुवदिति वक्ष्यमाणेन सम्बन्ध इति ।
प्रत्यक्षविषयतामिदानीं प्रयोगेण दर्शयति--- प्रत्यक्षेति पादत्रयेण ।
यदभावान्यप्रमेयं तत् प्रत्यक्षेण गृह्यत एव ।
यथा सौगतानामेवासाधारणं वस्त्विति ॥१४८॥


सामान्यं नानुमानेन विना यस्य प्रतीयते ।
न च लिङ्गविनिर्मुक्तमनुमानं प्रवर्तते ॥ ५,४.१४९ ॥
असामान्यस्य लिङ्गत्वं न च केनचिदिष्यते ।
न चानवगतं लिङ्गं किञ्चिदस्ति प्रकाशकम् ॥ ५,४.१५० ॥
तस्य वाप्यनुमानेन स्यादन्येन गतिः पुनः ।
तदुत्पत्तिश्च लिङ्गात् स्यात् सामान्यज्ञानसंहतात् ॥ ५,४.१५१ ॥
तस्य चाप्यनुमानत्वाद् भवेल्लिङ्गेन चोद्भवः ।
अनुमानान्तरादेव ज्ञानेनैवं च कल्पने ॥ ५,४.१५२ ॥
लिङ्गलिङ्ग्यनुमानानामानन्त्यादेकलिङ्गिनि ।
कतिर्युगसहस्रेषु बहुष्वपि न विद्यते ॥ ५,४.१५३ ॥
अथ सामान्यभूतेऽपि लिङ्गेऽन्यस्माद् गितर्भवेत् ।
प्रमाणादप्रमाणाद् वा तथा लिङ्गिगतिर्भवेत् ॥ ५,४.१५४ ॥
बौद्धानामेव तु सामान्यमनुमानैकविषयं मन्वानानामनवस्था प्रसज्यत इत्याह--- सामान्यमिति पञ्चभिः ।
निगदव्याख्यातो ग्रन्थः ॥१४९--१५३॥
यदि तूच्यते लिङ्गभूतसामान्यग्रहणार्थमनुमानापेक्षायामनवस्था भवति, न तदग्रहणार्थमनुमानमपेक्ष्यते, धूमादिस्वलक्षणदर्शनप्रभवविकल्पवेद्यत्वात्तस्य ।
न चासावप्रमाणम्, अर्थक्रियासमर्थवस्तुप्रतिलभात् ।
न च प्रमाणमनर्थविषयत्वात् ।
अतोऽनिर्वचनीयविकल्पसिद्धत्वात् लिङ्गस्य नानवस्था भवतीत्याशङ्क्याह---अथेति ।
अयमभिप्रायः --- न तावत् प्रमाणमप्रमाणं च ज्ञानं सम्भवति ।
विरुद्धस्वभावयोरेकत्र प्रतिषेधेऽन्यतरापत्तेरपरिहार्यत्वात् ।
अप्रमाणस्य च प्रमेयव्यवस्थापनाशक्तेरवश्यं प्रमाणमेव तज्ज्ञानमभ्युपगन्तव्यम् ।
प्रत्यक्षानुमानानभ्युपगमाच्च
प्रमाणान्तरमेवापद्येत ।


एवमप्यनुमानस्य नित्योच्छेदः प्रसज्यते ।
प्रमाणान्तरमेव स्यात् सामान्यस्यावबोधकम् ॥ ५,४.१५५ ॥
अप्रमाणावबुद्धाद्वा लिङ्गाल्लिङ्गिनि या मतिः ।
सापि मिथ्या भवेन्नित्यं बाष्पजाताग्निबुद्धिवत् ॥ ५,४.१५६ ॥
नन्वप्रमाणभूतापि सम्बन्धस्मृतिरिष्यते ।
यथा लिङ्गिगतौ हेतुस्तथा लिङ्गगतिर्भवेत् ॥ ५,४.१५७ ॥
तत्र यत्पूर्वविज्ञानं तस्य प्रामाण्यमिष्यते ।
तदुस्थानमात्रेण स्मृतेः स्याच्चरितार्थता ॥ ५,४.१५८ ॥
प्रमाणान्तरं च सद्यथा तल्लिङ्गंवेदने प्रमाणमिष्यते, एवं लिङ्गिन्यपि प्राप्नोति ।
एवं च वक्ष्यमाणप्रसङ्गो भवेत् ।
प्रमाणादप्रमाणाद्वेति वदन्ननिर्धारितोभयरूपतां विकल्पस्य दर्शयति ॥१५४॥
अस्तु तर्हि लिङ्गिनोऽपि तथैवावगमः , को दोषः , अत आह---एवमपीति ।
अयमभिप्रायः --- अनवस्तामपि प्रसञ्जयतामस्माकमनुमानोच्छेदापादनमभिमतम् ।
प्रमाणान्तराभ्युपगमेऽपि चानुमानोच्छेदो भवत्येव ।
तदेव हि प्रमाणं तदा सर्वस्य लिङ्गलिङ्गिसामान्यस्यावबोधकं भवेदिति ॥१५५॥
यदि त्वेकरूपाभ्युपगमेऽप्रमाणत्वमेव लिङ्गज्ञानस्येष्यते,ततोऽप्रमाणावगताल्लिङ्गाल्लिङ्गिज्ञानमपि मिथ्या भवेत् ।
बाष्पादिव धूमसंविदितादग्निज्ञानम् ।
एवं च नानुमानमिति ।
स एवानुमानस्य नित्योच्छेद इत्यभिप्रायेणाह--- अप्रमाणावबुद्धादिति ॥१५७॥
अत्र चोदयति---नन्विति ।
यथा ह्यप्रमाणमेव सम्बन्धस्मरणं प्रमाणकारणमिष्यते तथा लिङ्गज्ञानमपि भविष्यतीत्यर्थः ॥१५७॥
परिहरति---तत्रेति ।
स्मतिर्हि पूर्वज्ञानाद् भवन्तीतदुपस्थापनद्वारेणानुमायामुपयुज्यते ।
तच्च प्रमाणमेवेति तदनुसारी निर्णयो युक्त इति ॥१५८॥
न तु लिङ्गगतौ किञ्चित् प्रमाणमुपपद्यते ।
तदभावात् स्मृतिश्चात्र न कथञ्चित् प्रवर्तते ॥ ५,४.१५९ ॥
स्मार्थमेतदभेदेन विज्ञानमिति यो वदेत् ।
तस्य वन्ध्यासुतेऽप्यस्ति नूनं स्मरणशक्तता ॥ ५,४.१६० ॥
न चासाधारणोर्ऽथात्मा सामान्यज्ञानकारणम् ।
यस्मान्नास्याविनाभावस्तेन दृष्टः कथञ्चन ॥ ५,४.१६१ ॥
न चैष प्रकारो लिङ्गगतौ सम्भवतीत्याह---न त्विति ।
न ह्यत्र प्रागपि लिङ्गावगमे प्रमाणं किञ्चिदुपपद्यते, यत् प्रमाणज्ञानेनोपस्थाप्यत इति ।
न च लिङ्गज्ञानमपि स्मृतिरेवेति वाच्यम् ।
पूर्वप्रमाणाभावादेवेत्याह--- तदभावादिति ॥१५९॥
ननु निर्वकल्पगृहीतधूमादिस्वलक्षणपरिप्रापकतया लिङ्गज्ञानमपि स्मृतिरेव ।
अतोऽत्रापि निर्विकल्पप्रमाणान्तरतो निर्णयो युक्त एव ।
अत आह---स्मार्तमिति ।
यथा सम्प्रति सम्बन्धज्ञानं गृहीतप्रापकतया समरणम्, एवमेतदपि लिङ्गज्ञानं निर्वकल्पकगृहीतप्रापकतया तदभेदेन स्मार्तमिति यो वदति तस्य वन्ध्यासुत्रेऽपि स्मरणशक्तिरनिवारिता ।
गृहीतविषया हि स्मृतिरिति स्थितिः ।
न च लिङ्गसामान्यज्ञानं निर्वकल्पकगृहीतस्वलक्षणालम्बनमिति कथं स्मृतिः ।
यदत्र प्रकाशते तन्न गृहीतं, यच्च गृहीतं सन्न प्रकाशत इति न स्मृतित्वम् ।
अगृहीतगोचरायां तु स्मृतौ वन्ध्यासुतेऽपि स्मरणप्रसङ्ग इति ॥१६०॥
नन्वनुमानेन लिङ्गसामान्यज्ञानेऽनवस्था भवति, यदि सामान्यात्मकमेव लिङ्गं तदग्रहणार्थमिष्यते, तस्यानुमानवेद्यत्वात् ।
असाधारण एवार्थात्मा सामान्यज्ञाने लिङ्गं भविष्यति, स च प्रत्यक्ष एवेति नानवस्था ।
अत आह---न चेति ।
किं न कारणमत आह---यस्मादिति ।
दृष्टाविनाभावं लिङ्गं भवति ।
न चास्य तेन सामान्येनाविनाभावः कथञ्चिद्देशतः कालतो वा दृष्टः ।
असाधारणस्य भावान्तरेष्वनुस्यूत्यसम्भवादेकत्र दृष्टस्य च तत्रैव निरुद्धत्वादिति ॥१६१॥


स्याद्वा सम्बन्धदृष्ट्यासौ सामान्यं कृतकत्ववत् ।
नह्यसाधारणं वस्तु पूर्वत्रेह च विद्यते ॥ ५,४.१६२ ॥
न चाप्यव्यपदेश्यस्य विकल्परहितस्य च ।
विना पूर्वानुसन्धानाल्लिङ्गत्वमुपपद्यते ॥ ५,४.१६३ ॥
कल्प्यन्ते च विशेषा ये तेऽप्यलिङ्गमनन्वयात् ।
एतस्मादेव हेतोः स्यात् तज्ज्ञानस्याप्यलिङ्गता ॥ ५,४.१६४ ॥
सामान्यरूपतायां वा तथैवानवधारणम् ।
सम्बन्धदर्शनाभ्युपगमे व कृतकत्वादिवत् सामान्यरूपतापत्तिरित्याह---स्याद्वेति ।
अत्र कारणमाह---नहीति ॥१६२॥
इतश्चासाधारणोर्ऽथात्मा न लिङ्गमित्याह---न चेति ।
धूमादर्हिधूमोऽयमित्यादिविकल्पास्पदीकृतोऽग्नयादेर्लिङ्गमिति दृष्टम् ।
असाधारमस्तु केनचिद्रूपेणाप्यव्यपदेश्यः कथं लिङ्गं भवेदिति ।
लिङ्गत्वं नोपपद्यत इति वक्ष्यमाणेन सम्बन्ध इति ।
ननु तिरश्चामसत्येव शब्दोल्लेखेऽसाधारणरूपदर्शिनामेवानुमानं दृष्टमतो नाव्यपदेश्यत्वादलिङ्गत्वमत आह---विकल्पेति पादत्रयेण ।
अयमभिप्रायः ---- मा नाम तिरश्चां शब्दोल्लेखो भवेत्, अर्थविकल्पस्तु तेषामपि पूर्वापरानुसन्धानात्मकोऽस्त्येव ।
अतो युक्तमेव तेषामनुमानेऽव्यपदेश्यस्यापि कथं लिङ्गम् ।
न हि सोऽयमित्यानारूढो बुद्धौ धूमोऽग्नेर्लिङ्गं भवति ।
न चैवमसाधारणे सम्भवति, पूर्वापरानुसन्धानागोचरत्वात् तस्येति ॥१६३॥
अस्मन्मतेऽपि येऽसाधारणात्मानो धूमादयो विशेषा विकल्प्यन्ते तेऽप्यन्वयाबावादलिङ्गं, किमङ्ग पुनर्निर्विकल्पकैकगोचरोऽसाधारणोर्ऽथात्मा इत्याह---कल्प्यन्तैति ।
अन्वयाभावादेवासाधारणज्ञानमपि लिङ्गिसामान्यज्ञाने न लिङ्गमित्याह--- एतस्मादेवेति ॥१६४॥
यदि त्वन्वयसिद्ध्यर्थमसाधारणस्य सामान्यरूपतेष्यते, ततो लिङ्गसामान्यग्रहण इवानवस्थाप्रसङ्गात् तस्याप्यनवधारणमित्याह---


क्वचिद्वा दृष्टसम्बन्धे सर्वः प्रत्यायको भवेत् ॥ ५,४.१६५ ॥
सम्बन्धानुभवोऽवश्यमेषितव्यश्च लिङ्गिनः ।
अनुमानप्रवृत्तेस्तु प्राङ्मानं तत्र नास्ति ते ॥ ५,४.१६६ ॥
नचापि वासनामात्राल्लिङ्गज्ञानस्य सम्भवः ।
लिङ्गिज्ञानं च तद्वत् स्यात् त्रिरूपाल्लिङ्गतो न तत् ॥ ५,४.१६७ ॥
सामान्येति ।
यदि तु कस्मिंश्चिदेवासाधारणे सामान्येन ज्ञातसम्बन्धेऽन्यदर्शिनापि सामान्यमनुमीयते ।
एवं तर्हि सर्व एव सर्वस्य प्रत्यायको भवेत् ।
अविशेषादित्याह---क्वचिदेति ॥१६५॥
एवं तावन्न लिङ्गावधारणे प्रमाणमस्तीत्युक्तम् ।
इदानीमन्वयमग्रहणकाले लिङ्गिज्ञानेऽपि न किञ्चित् प्रमाणमस्तीत्याह---
सम्बन्धानुभवैति ।
नागृहीते लिङ्गिनि तत्सम्बद्धं लिङ्गं शक्यतेऽवगन्तुम् ।
न चानुमानप्रवृत्तेः प्राक् तस्मिन् सामान्यात्मनि भवतः किञ्चित् प्रमाणमस्त्यस्माकमिव प्रत्यक्षम्, अतो ल्लिङ्गिन्यप्यवगम्यमानेऽनवस्थाप्रसङ्ग इत्यभिप्रायः ॥१६६॥
नन्वनादिकालीनवासनामात्रनिबन्धन एवायं लिङ्गलिङ्गिसंव्यवहारः , किमिहातिनिर्बन्धेन ।
काचिदेव हि वासनोद्भूता किञ्चिल्लिङ्गाकारं विक्पमाविर्भावयन्ती किञ्चिदेवानुमासंव्यवहारं प्रवर्तयति ।
यथाहुः ---ऽस एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन , न बहिः सदसत्त्वमपेक्षतः इति, अत आह---न चापीति ।
न वासनामात्रनिर्मितं लिङ्गज्ञानम् ।
वासना हि पूर्वानुभवाहितः संस्कारः ।
नासौ लिह्गसामान्यस्य शशविषाणादिवदत्यन्तासतः सम्भवतीति कथं वासनामात्राल्लिङ्गज्ञानस्य सम्भव इति ।
तन्निबन्धने लिङ्गज्ञान इष्यमाणे तद्वदेव लिङ्गिज्ञानोपपत्तरेनर्थकं त्रिरूपालिङ्गतोर्ऽथदृगनुमानमित्यनुमानप्रामाण्याश्रयणमित्याह---लिङ्गिज्ञानं चेति ॥१६७॥


यत्राबावस्य लिङ्गत्वं न चासावानुमानिकः ।
प्रमाणान्तरगम्यत्वात् तत्र दोषो न जायते ॥ ५,४.१६८ ॥
प्रत्यक्षावगताल्लिङ्गाद् यस्य लिङ्गिगतिर्भवेत् ।
तस्य नातोऽधिकं किञ्चित् प्रार्थनीयं प्रसज्यते ॥ ५,४.१६९ ॥
यत्राप्यनुमिताल्लिङ्गाल्लिङ्गिनि ग्रहणं भवेत् ।
तत्रापि मौलिकं लिङ्गं प्रत्यक्षादेव गम्यते ॥ ५,४.१७० ॥
लिङ्गत्वं ककृतकत्वादौ क्रियायाः कारकस्य वा ।
प्रत्यक्षत्वं च तस्येष्टमिति दूरं न गम्यते ॥ ५,४.१७१ ॥
नन्वियमनवस्था मेघाभावेन वृष्ठ्यभावानुमाने भवतोऽपि समानैव, अभावस्यानुपलब्धिलिङ्गत्वात् ।
सातीयलिङ्गान्तरापेक्षायामनवस्थापद्यते ।
अत आह---यत्रेति ।
यत्र हि वृष्ट्यभावे मेघाभावो लिङ्गं नासावनुमेयः , अभावाख्यप्रमाणान्तरगम्यत्वात् ।
अतो नात्र तुल्यजातीयापेक्षानिबन्धनोऽनवस्थादोषो जायत इति ॥१६८॥
प्रत्यक्षसामानय्वादिनां तु न नः काचिदनवस्थेत्याह---प्रत्यक्षावगतादिति ।
अतः प्रत्यक्षादित्यर्थः ॥१६९॥
अनुमितानुमाने तर्ह्यनवस्था, अत आह--- यत्रापीति ।
प्रत्यक्षा हि देशान्तरप्राप्तिर्मौलिकं मूले भवं लिङ्गं, तेन गतिमनुमायादित्ये गतिसाधनेऽनुमीयमाने नावस्थेत्यभिप्रायः ॥१७०॥
नन्वनित्यः शब्दः कृतकत्वात्, कृतकत्वं चतत्र दर्शनादित्येवं कर्मानन्तरभावितया कृतकत्वे साध्यमाने कर्मणोऽपि हेत्वन्तरादनुमानेऽनवस्था भवेदत आह--- लिङ्गत्वमिति ।
"कृतकत्वानुमाने हि कर्मैके तत्र दर्शनाद्" ।
इति कारकव्यापारान्तरभावित्वं लिङ्गमुक्तम् ।
तत्र च कारकाविशिष्टा क्रिया तद्विशिष्टं वा कारकमन्तरभावितां विशिषल्लिङ्गमापतति ।
उभयं


एवं शब्दौपमानादौ सामान्यश्रयता यतः ।
तद्दौस्थित्येन दौस्थित्यं सर्वत्रातः प्रसज्यते ॥ ५,४.१७२ ॥
तस्मात्प्रत्यक्षपूर्वत्वं प्रमाणान्तर इष्यते ।
प्रत्यक्षत्वं च सामान्ये नान्यता हि गतिर्भवेत् ॥ ५,४.१७३ ॥
प्रत्यक्षालम्बनत्वं च विशेषस्य कथं भवेत् ।
यदा वस्त्वम्तरापेक्षः सामान्यांशः स कीर्त्यते ॥ ५,४.१७४ ॥
रूपादयो हि सामान्यं सर्वे नीलाद्यपेक्षया ।
स्वविशेषानपेक्ष्याथ नीलादीनां समानता ॥ ५,४.१७५ ॥
च तत्प्रत्यक्षम् ।
क्रियायास्तावत् प्रत्यक्षत्वमनन्तरमेव साधितम् ।
कारकमपि तद्वत् प्रत्यक्षमेव ।
शक्तिस्तु परोक्षा ।
सा च न तावदिह लिङ्गम् ।
न चानुमेया ।
अतः क्रियाकारकयोरुभयोरपि प्रत्यक्षत्वान्न दूरगमनम् ।
अनुमेयकर्मवादिनामपि हि फलावध्यवस्थानान्नानवस्था, नितरामस्माकमिति ॥१७१॥
एवं तावदनुमास्यासति सामान्यस्य वस्तुत्वे प्रत्यक्षत्वे च दौस्थित्यमुक्तम् इदानीं सर्वमेव प्रमाणजातं सामान्यस्य
दौस्थित्ये दुस्थितमापद्येत तेषामपि सामान्यश्रयत्वात् ।
न च तदप्रमाणं वक्ष्यमाणनयायादित्यभिप्रायेणाह--- एवमिति ॥१७२॥
अतोऽवश्यं प्रमाणान्तराणां प्रत्यक्षपूर्वकत्वमेष्टव्यं सामान्यस्य च प्रत्यत्वम्, इतरथा त्वनवस्था प्राप्नोतीत्युपसंहरति---तस्मादिति ॥१७३॥
एवं तावत् सामान्यस्य प्रत्यक्षत्वं वस्तुता चोपपादिता इदानीं विशेषा एव प्रत्यक्षेण गृह्यन्त इति ये वदन्ति तान् प्रत्याह---प्रत्यक्षेति ।
विशेषो हि यदि तावदवयवी द्रव्यमभिमतः , चावयववस्त्वन्तरापेक्षः सामान्यांशोऽस्माभिः कीर्त्यत इति कथं प्रत्यक्ष इति ॥१७४॥
यदि त्ववयविरूपादय एव विशेषा इष्यन्ते, तदप्ययुक्तम् ।
तेऽपि हि स्वविशेषनीलाद्यपेक्षया सामानयमेवेत्याह---रूपादयो हीति ।


ते चापि तावत् सामान्यं यावत् स्युः परमाणवः ।
द्व्यणुकस्यापि यदरूपं तद्धि साधारणं द्वयोः ॥ ५,४.१७६ ॥
न चान्त्येन विशेषेण व्यवहारोऽस्ति कस्यचित् ।
न च प्रत्यक्षतात्सय सङ्घाते केवलस्य वा ॥ ५,४.१७७ ॥
भेदेनागृह्यमाणस्य नाभेदो ग्राह्यतां व्रजेत् ।
न च भिन्नेष्वभिन्नत्वबुद्धेर्ग्राह्यत्वसम्भवः ॥ ५,४.१७८ ॥
यदि तु नीलादय एव विशेषा इति मतम् ।
तन्न ।
तेषामप्यवान्तरनीलाद्यपेक्षया सामान्यरूपत्वादित्याह---स्वविशेषानिति ॥१७५॥
यदि त्वेकभ्रमरादिद्रवयनीलिमैव विशेष इष्यते, तन्न ।
तस्यापि पक्षादिस्वावयवाश्रितनीलविशेषापेक्षया सामान्यरूपत्वात् ।
पक्षनीलिमापि तदवयवनीलापेक्षया सामान्यमेव ।
एवं च अपरमाणुभ्यः प्रसङ्गो दर्शयितन्य इत्याह---ते चापीति ।
निर्भागा हि परमाणव इति तदरूपमसाधारणमेवेति ॥ तेभ्यस्तु प्राक् द्व्यणुकरूपमपि द्वयोः साधारणमित्याह--- द्व्यणुकस्यापीति ॥१७६॥
नन्वस्तु परमाणुरूपमेव विशेषः , स एव नः प्रत्यक्षो भविष्यत्यत आह---न चान्त्येनेति ।
व्यवहारार्थं हि प्रमाणमनुस्त्रियते, न व्यसनितया ।
न चान्त्येन विशेषेण व्यवहारः कस्यचिदस्तीति किं तत्प्रत्यक्षतयेति ।
ननूपेक्षाफलमपि प्रमाणं भवत्येव, अत आह---न चेति ।
न नः कपरमाणूनां रूपं स्थूले वर्तमानानां तन्तूनामिव पटे प्रत्यक्षं विभक्तानां वेति न कथञ्चिद् विशेषविषयता प्रत्यक्षस्येति ॥१७७॥
ननु परमाणव एव भिन्नाः सञ्चिता गृह्यन्ते न कार्यद्रव्यमेकम् ।
अतः कथं तत्सावयवेषु सामान्यमित्युच्यते ।
सञ्चिता एव चानन्यवृत्तितया विशेषासाधारणादिपदवाच्या इति ते प्रत्यक्षा भविष्यन्ति ।
मा नामैकैकतः परमाणुरक्षगोचरो भवेदत आह--- भेदेनेति ।
एको हि सर्वदा सर्वेषां च बावः प्रकाशते न परमाणुभेदाः ।
न च भेदेनागृह्यमाणोऽभेदो गृह्यत इति साम्प्रतम् ।
संविद्विरोधादिति भावः ।
नन्वयमेव भेदा


समुदायो न वाप्यस्ति भवतां न च सर्वदा ।
सर्वेषामसतार्थेन प्रत्ययोत्पत्तिसम्भवः ॥ ५,४.१७९ ॥
न चैकजातियोगेन विनास्ति समुदायता ।
समुदायेऽपि चाणुत्वं नैतेषामपगच्छति ॥ ५,४.१८० ॥
सामान्यमित्यदृश्येऽपि तेन सामान्य एव नः ।
व्यासङ्गिनी भवत्येषा धीर्विनाप्येककल्पनात् ॥ ५,४.१८१ ॥
वग्रहो योऽयमभिन्नप्रकाशः ,किं भेदग्रहणेनात आह---न च भिन्नेति ।
नाभिन्नाकारबुद्धिबोध्यो भेदः , भदाभेदविवेकानुपपत्तेरिति भावः ॥१७८॥
नन्वसत्यप्येकस्मिन् समुदायालम्बनो ।
अयमभिन्नावसभासो भविष्यतीत्यत आह--- समुदाय इति ।
ये हि सामान्यमेव सर्वजगत्संविदितमपलपन्ति कुतस्तेषां समुदायो नामार्थान्तरं, यदालम्बनोऽभिन्नप्रतिभासो भविष्यति ।
अपि च सर्वदा सर्वे चैकं द्रव्यमवबुध्यत्नते कथं तदन्यथा भविष्यतीत्याह--- न च सर्वदेति ॥१७९॥
किञ्चायं समुदायोऽपि नैकजात्या विनोपपद्येत ।
न हि नानाजातीयेषु वृक्षघटलोष्टेषु कस्यचित् समुदायबुद्धिरस्ति ।
अतः समुदायेऽपीष्यमाणेऽणुत्वसामानयमभ्युपगन्तव्यमापद्येत भवतामित्याह--- न चेति ।
हेतौ चः ॥१८०॥
ननु नानेकावयववृत्त्यनुसन्धानेन विना तत्सामान्यरूपं द्रव्यमभ्युपगन्तुं शक्यम् ।
न चैन्द्रियकं ज्ञानमेता(वि?व) ति समर्थमविकल्पकत्वात् तस्य ।
अत आह---सामान्यमितीति ।
यद्यप्येकानुगमकॢप्तेस्तन्नानावयवव्यासङ्गि द्रव्यं सामान्यमित्येवं विकल्प्य न गृह्यते ।
तथापि तदेकरूपं तावन्निर्विकल्पकेनापि गृह्यत एवेति नापह्नोतुं शक्यत इति व्यासज्यवृत्त्यवयविसामान्यन्यायेन प्रतिव्यक्तिवर्तिनोऽपि गोत्वादिसामान्यस्यैकन्द्रियकत्वं दर्शयितव्यम् ।
तदपि सामान्यमित्येन रूपेणाग्राह्यं वस्तुतः सामान्यमेव गृह्यते ।
शब्दादिस्मरणोत्तरकालं त्वनेकानुगमावमर्शात् सामान्यमिति विकल्प्य गृह्यते ।
इदं च सविकल्पकसिद्धावुक्तमेव ।
अतो नैवं वाच्यम्--- अस्त्ववयविसामान्य्सय स्वलक्षणापरनाम्न इन्द्रियैर्ग्रहणम्, न तु प्रतिव्यक्तिनिवेशिन इति ॥१८१॥


व्यासज्य वर्तमानस्य सामान्यस्य यथेन्द्रियैः ।
ग्रहणं तद्वदेव स्यात् प्रतिव्यक्तिनिवेशिनः ॥ ५,४.१८२ ॥
मीमांसकैश्च नावश्यमिष्यन्ते परमाणवः ।
यदबलेनोपलब्धस्य मिथ्यात्वं कल्पयेद् भवान् ॥ ५,४.१८३ ॥
समूहरूपं प्रत्यक्षमदृश्यैः परमाणुभिः ।
योऽपहनुते शशस्यापि सोऽभावं शृङ्गतो वदेत् ॥ ५,४.१८४ ॥
उभयत्रापि प्रत्ययाविशेषादित्याह---व्यासज्येति ।
तदनेनैतदापादितम्-किमिदं मुधैव सामान्यस्य प्रत्यक्षता नेष्यते, विशेषमपि हि प्रत्यक्षमिच्छद्भिर्बलात्सामान्यमेव प्रत्यक्षमाश्रयणीयम्, सर्वस्य हि सुनिपुणं निरूप्यमाणस्य रूपादेः सामान्यरूपत्वाद्, द्रव्यस्य च नानावयवसाधारमस्य ताद्रूप्यात्, स्वत्त्रं परमाणुसञ्चयमात्रस्य चानुपलम्भाद् द्रव्यापलापे च प्रत्यक्षविरोधात् ।
अतोऽवयविसामान्यं तत्समवेतानि च गोत्वादिसामान्यानि सर्वाण्येव प्रत्यक्षाणि न विशेषा एवेति तात्पर्यम् ।
एवम्परत्वादेव च प्रदेशान्तरसिद्धसामान्यावयविसामान्यप्रत्यक्षताप्रतिपादनेन न पुनरुक्तता चोदनीयेती ॥१८२॥
ननु भवद्भिर्मीमांसकैस्तावदवस्यमभ्युपगन्तव्याः परमाणवः ।
अतस्तेषामेवोभयसिद्धानां परमेकाकारबुद्धिजननशक्तिमात्रमेवोपकल्पितम् ।
किं धर्मिकल्पनया ।
लघीयसी हि तत्कल्पनातो धर्मकल्पना ।
अत आह---मीमांसकैश्चेति ।
अयमभिप्रायः ।
यद्धि प्रमाणेनोपनीयते, तदस्माभिरिष्यते, न च स्थूलं हित्वा परमाणव एवाक्षजायां बुद्धौ भासन्ते, यत्तानुपेत्य स्थूलमवजानीमहे ।
तदानुगुण्येन तु यद्यणवो व्या(प?पा) द्यन्ते, भवन्तु, न तद्वलेन मूलभूतं स्थूलमपलपितुमुत्सहामह इति ॥१८३॥
प्रत्यक्षं तु स्थूलमदृश्यैः परमाणुभिः निहनुवानस्य शशोऽपि तद्विषाणधिया निह्नोतव्यः प्राप्त इत्याह---समूहरूपमिति ॥१८४॥


समूहपरमार्थत्वे स्थिते तत्सिद्धिहेतुका ।
यदि नामावगम्येत परमाण्वस्तिता पुनः ॥ ५,४.१८५ ॥
तस्माद् यद् गृह्यते वस्तु येन रूपेण सर्वदा ।
तत्तथेवाभ्युपेतव्यं सामान्यमथवेतरत् ॥ ५,४.१८६ ॥
सत्तादिसामान्यमपेक्ष्य सर्वं गोत्वाद्यसाधारणतामुपैति ।
तस्मादसाधारणम् अक्षगम्यं वदन् न सामान्यमपहनुवीत ॥ ५,४.१८७ ॥
सामान्यरूपेण न गृह्यते चेत् किं वास्त्यसाधारणबुद्धिरत्र ।
किमिदानीं शशविषाणकल्पः परमाणवः ।
नेत्याह--समूहेति ।
न ह्यत्र कल्पनालाघवेन प्रत्यक्षसिद्धो धर्मी परत्यागमर्हति ।
सिद्धे च तस्मिस्तदनुगुणाः परमाणव इति केन नेष्यते ।
सिद्ध्युपायस्तु तेषामन्यो नास्तीति परमाणवो नावश्यमिष्यन्त इत्युक्तं भवति ॥१८५॥
अतो यदेव वस्तु सामान्यविशेषयोरपरोक्षं गृह्यते, तत् तथैवापरोक्षमपह्नोतुं शक्यते ।
गोत्वादिसामान्यानामपि सत्तादिपरसामान्यापेक्षयासाधारणत्वात् ।
अतो यद्यसाधारणं प्रत्यक्षमित्याग्रहो भवतामेवमपि न गोत्वादिसामान्यमप्रत्यक्षमिति
प्रत्यक्षसामर्थ्यसिद्धत्वान्न शक्यमपह्नोतुमित्याह--- सत्तादिति ॥१८७॥
यदि तूच्यते प्रत्यक्षेण गृह्यमाणमपि सामान्यं न सामान्योल्लेखेन गृह्यत इति(न) प्रत्यक्षमिति, तदेतदाशङ्कते---सामान्येति ।
परिहरति किं वेति ।
एवं ह्यसाधारणमपि न प्रत्यक्षं भवेत् ।
तत्रापि निर्विकल्पका


यद्वस्तु लोकः प्रतिपद्यतेऽस्मिन् द्विधापि तच्छक्यत एव वक्तुम् ॥ ५,४.१८८ ॥
इति अनुमानवार्त्तिकम्॥
*********************************************************************
अथ शब्दपरिच्छेदः ।


प्रत्यक्षादिषु वक्तव्यं शब्दमात्रस्य लक्षणस्य ।
तदतित्वरितेनेह किं१ शास्त्रादभिधीयते ॥ ५,५.१ ॥
वस्थायां परव्यावृत्त्यकल्पनादसाधारणोल्लेखो नास्त्येवेति ।
यदि तु ताद्रूप्येणाविकल्पितमपि स्वरूपेण विकल्पकोऽवबुध्यत
इति तत्प्रत्यक्षम् ।
एवं तर्हि द्व्याकारमेव संमुग्धं वस्तु लोकः प्रतिपद्यत इति परीक्षकैरुभयथापि तत् शक्यत एव वक्तुमिति सिद्धं द्व्याकारेमेव वस्तु प्रत्यक्षेण गृह्यत इति ।
सिद्धं च सामान्यतः सम्बन्धदर्शनमित्यभिप्रायेणाह--- यद्वस्तु लोकः प्रतिपद्यतेऽस्मिन् द्विधापि तत् शक्यत एव वक्तुमिति ।
अस्मिन्निति प्रत्यक्षज्ञान इत्यर्थः ॥१८८॥
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायामनुमानपरिच्छेदः समाप्तऽ॥
---------------
अथ शब्दपरिच्छेदः ।
अत्र प्रत्यक्षानुमानयोरपरीक्ष्य्तव उक्ते शास्त्रस्याप्यपरीक्ष्यताप्रतिपादनार्थं भाष्यम्---"शास्त्रं शब्दविज्ञानादसन्निकृष्टेर्ऽथे विज्ञानम्"इति ।
ननु वृत्तिकारमते न परीक्षिव्यं निमित्तमिति प्रतिज्ञायप्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रमित्युक्तेः प्रत्यक्षव्यभिचारेण परीक्षामाशङ्क्य तदव्यभिचार उक्तेऽनन्तरमेव शास्त्रस्यापरीक्षा प्रतिपाद्यत इति युक्तम्, तद्धि प्रकृतम्, किमनुमानेन व्यवधीयते ।
सत्यमेवम् ।
अयं तु तन्त्रान्तरानुसारेण क्रम आश्रितः ।
तथा हि नाप्रत्यक्षं प्रमाणमिति लोकायतिका मन्यन्ते ।
ते हि वैशिषिकाद्याश्रितप्रत्यक्षानन्तरानुमानप्रामाण्यप्रतिपादनेन प्रतिबोध्यन्त ।
एवं हिवैशिषिकाऽपठन्ति--- द्विविधं प्रमाणमालोचिताध्यवसानमनालोचितानुगमनं चेति ।
तथान्येऽपि प्रत्यक्षमनुमानं वर्णितम् ।
ततो महाविषयतया प्रकृत्वेन पुरुषार्थोपयिकत्वेन च शास्त्रम् ।
तदनन्तरं च यत्र क्वचन वाच्ये बहूनां प्रसिद्धमित्युपमानमुक्तम् ।
न्यायविस्तरे हि प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमित्युक्तम् ।
ततः पाराशर्यमतेनार्थापत्तिरुक्ता ।
तदुत्तरकालमेव तन्मतानुसारिणा कृतकोटिनोक्त्तवात् ।
अभावप्रमाणस्य तु भावप्रमाणाभाव एवात्मेति तदुत्तरः प्रस्तावः ।
कि पुनस्तन्त्रान्तरेष्वेवमिमानि प्रमाणानि प्रसिद्धानीति प्रसिद्धिप्राबल्यं कथितं भवति ।
व्युत्थिताश्च तेन तेन साक्षिणा प्रतिपादिता भवन्ति ।
अत्र च शब्दविज्ञानादित्युच्यते, तत् कथं विगृह्यते ।
किं शब्दाद् विज्ञानं शब्दस्य वा विज्ञानमिति ।
पूर्वत्र समासानुपपत्तिः ।
भयेन हि पञ्चमी समस्यते ।
उत्तरत्र तु सविकल्पकप्रत्यक्षेऽपि शास्त्रत्वप्रसङ्गः , शब्दविज्ञानादेव हि गौरित्येवमादयोऽसन्निकृष्टार्थविकल्पा भवन्ति ।
अत्रोच्यते ।
षष्ठीसमास एवायम् ।
न च सविकल्पके प्रसङ्गः , न हि तच्छब्दप्रमाणादुत्पद्यते, अपि तु शब्दसहायादिन्द्रियात् ।
यथैव हि गन्धसहकृतमिदन्द्रियं तैलाद् विलीनं घृतं विविनक्ति ।
एवं शब्दसहकृतं जात्यादीन् ।
तथा चाक्षसम्बन्धफलपरोक्षावभासिता ।
त(त्र?च्च) सविकल्पकेऽस्तीत्यक्तं प्रत्यक्षान्ते ।
अतो यदेव शब्दशक्तिविमर्शोत्थं विज्ञानमसन्निकृष्टार्थ्गोचरं तच्छाब्दम् ।
अत एव न पदार्थमात्रज्ञानं शाब्दम् ।
न हि तदसन्निकृष्टार्थगोच


सामान्यलक्षणं त्यक्त्वा विशेषस्यैव लक्षणम् ।
न शक्यं केवलं वक्तुमितोऽप्यस्य न वाच्यता ॥ ५,५.२ ॥
यञ्चोक्तं शब्दविज्ञानादर्थे ज्ञानमितीदृशम् ।
अविशिष्टं विशिष्टस्य न तत् शास्त्रस्य लक्षणम् ॥ ५,५.३ ॥
प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥ ५,५.४ ॥
चरम् ।
वक्ष्यति हि---ऽस्मारकान्न विमृश्यतः इति ।
किं नाम तर्हि शाब्दम्, वाक्यार्थज्ञानमिति वदामः ।
न(नु) तत्पदार्थज्ञानादुत्पद्यते, न शब्दज्ञानात् ।
न ।
अवान्तरव्यापारत्वात्पदार्थप्रतिपादनस्य शब्दानाम्, पाक इव काष्ठानां ज्वलनस्य ।
वक्ष्यति हि---
पाके ज्वालेन काष्ठानां पदार्थप्रतिपादनम् ।
इति ।
अतो न किञ्चिदनुपपन्नमिति ।
इदं तु वक्तव्यं किमिदं सामान्यलक्षणवसरे विशेषलक्षमं प्रणीयते ।
शब्दविशेषो हि शास्त्रम् ।
तद् यदि वक्तव्यम्, एवमपि सामान्यलक्षणमुक्त्वा( वक्ष्यते?लक्ष्येत) ।
यत् पुनरतित्वरितेनैव सामान्यलक्षणवसरे विशेषो लक्ष्यते तदसाम्प्रतम् ।
न हीह प्रत्यक्षादीनां चाक्षुषत्वादयो विशेषा लक्ष्यन्ते ।
ततः प्रत्यक्षादिषु सामान्यतो वक्तुमारब्धेषु मध्ये शब्दमात्रस्यैव लक्षणं वक्तुं युक्तम्, न शास्त्रस्येति ।
तदेतदाह---प्रत्यक्षादिष्विति ॥१॥
दूषणान्तरमाह--- सामान्येति ।
निर्ज्ञातसामान्यलक्षणो हि तद्विशेषं बोधयितुं शक्यो नेतरः ।
न ह्यलक्षिते द्रव्ये
तद्विशेषाः पृथिव्यादयो लक्षयितुं इति ॥२॥
एवं तावत् शास्त्रमिति लक्ष्यनिर्देशोऽनुपपन्न इत्युक्तम् ।
शब्दविज्ञानादित्यादि लक्षणमपि लक्ष्यविशेषे न सङ्गच्छत इत्याह---यच्चोक्तमिति ॥३॥
कीदृक् तर्हि शास्त्रलक्षममत आह---प्रवृत्तिरिति ।
प्रवृत्तिनिवृ


स्वरूपकथनं यत्तु कस्यचित् तत्र दृश्यते ।
तदङ्गत्वेन तस्यापि शास्त्रत्वमवगम्यते ॥ ५,५.५ ॥
भावनायां समस्तायां वाक्यादेवोपजायते ।
प्रवृत्तिर्वा निवृत्तिर्वा तच्छास्त्रं न पदाद्यतः ॥ ५,५.६ ॥
इत्युपदेशकं हि नित्यं वेदवाक्यमनित्यं थर्मशास्त्रादिकं शास्त्रमुच्यते न शब्दमाक्षमिति ॥४॥
ननु स्वरूपमात्राभिधायिनामपि क्षेपिष्ठादिवाक्यानां शास्त्रत्वमिष्यते, किमुच्यते प्रवृत्तिनिवृत्त्यङ्गं शास्त्रमिति ।
अत आह---स्वरूपेति ।
तदङ्गत्वेनेति ।
विधायकवाक्यैकदेशत्वेनेत्यर्थः ।
अस्ति हि तत्रापि"वायव्यं श्वेतमालभेत भूतिकाम"इति विध्युद्देशः ।
तेनैकवाक्यभूतो"वायुर्वै क्षेपिष्ठे"त्येवमादिः ।
अतो युक्तं तस्यापि शास्त्रत्वमिति ॥५॥
नन्वर्थवादा न तावत् साक्षात् क्रियां प्रतिपादयन्ति ।
नापि तदशम् ।
त्रयोऽपि हि तदंशाः साध्यं साधनमितिकर्तव्यता चेति ।
न चैषामन्यतमममीभिरभीधीयते ।
अतोऽक्रियार्थानामेकवाक्यतामेव न मन्यामहे ।
अत आह---भावनायामिति शास्त्रमित्यन्तेन ।
अयमभिप्रायः --- यद्यपि न क्रियां गमयति, न च क्रियासम्बद्धं किञ्चित् साधनादि, तथापि विधिना शब्दभावनापरनामधेयेन सहैषामेकवाक्यता ।
विधिर्हि पुरुषं प्रवर्तयितुं विषयप्रशस्त्यज्ञानमपेक्षते ।
तच्चार्थवादाः शक्नुवन्ति कर्तुमिति तत् कुर्वतामेषामस्ति प्रवृत्तिनिवृत्त्योरुपयोगः ।
अतः समस्तायां त्र्यंशपूर्णायामेव भावनायां महावाक्यादेवसार्थवादकात् पुरुषः प्रवर्तते निवर्तते वा न विध्युद्देशमात्रादिति सार्थवादकमेव वाक्यं शास्त्रमिति ।
एतच्चार्थवादाधिकरणे प्रपञ्चयिष्यामः ।
दर्शितं च किञ्चिद विधिविवरणे इत्यलमनेनातिपरिस्पन्देतेति ।
यत एव सार्थवादकात् प्रवृत्तिनिवृत्तिज्ञानम्, अत एव विधिनाचिनः प्रत्ययमात्रस्यपदमात्रस्य वा यजेतेत्येवमादिकस्य विधिश्रुतावपि कन शास्त्रत्वम् ।
यत्र हि त्र्यंशभावनावचनमप्यवान्तरवाक्यमनपेक्षितार्थवादकं न प्रवृत्तौ समर्थं, कथमिव तत्र पदप्रत्यययोः शक्तिर्भविष्यतीति दुरधिगममित्याह--- न पदाद्यत इति ॥६॥


अपरीक्षामिषेणापि लक्षणानि वदन्नयम् ।
न स्वतन्त्रोपयोगित्वनिरपेक्षाणि जल्पति ॥ ५,५.७ ॥
तत्र यल्लोकवाक्यस्थं कथयेच्छब्दलक्षण् ।
वेदं व्याख्यातुकामस्य तन्नातीवोपयुज्यते ॥ ५,५.८ ॥
प्रत्यक्षाद्युपयोगं तु वर्णमात्रादितः पुरः ।
शास्त्रार्थज्ञानवेलायां मत्वा तल्लक्षणं कृतम् ॥ ५,५.९ ॥
एवं लक्ष्यलक्षमानुपपत्त्या दूषितं भाष्यमुपपादयति---अपरीक्षेति ।
अयमभिप्रायः --- वेदव्याख्या हि प्रकृता, अतो यदेव तदुपयोगि तदेव वाच्यमित्यतिक्रम्यापि सामान्यप्रक्रमं विशेषमेवं लक्षितवान् ।
न हीह लक्षणकरणमेव स्वरूपेण विवक्षितम् ।
अपरीक्षाच्छलेन हि लक्षणानि प्रणीयन्ते ।
तत्रापि यदेव प्रकृतोपयोगिशास्त्र्लक्षणं तदेव कृतम ।
स्वतन्त्रो वेदः अपुरुषतन्त्रत्वादिति ॥७॥
यदि स्वतन्त्रोपयोगित्वनिरपेक्षाणि न जल्पति, ततः किमत आह---तत्रेति ।
यदा ह्ययं जल्पाक इव नानुपयुक्तं भाषत इति स्थितम्, तत्र यदि लोकवाक्यस्थितं शब्दलक्षणं कथयेत् तदस्य वेदं व्याचिख्यासारेनुपयुक्तं स्यादिति ॥८॥
ननु यद्यनुपयुक्तं न लक्षणीयं, किमिति तर्हि प्रत्यक्षादि लक्ष्यते न हि तेषां वेदोपयोगो दृश्यते अत आह---प्रत्यक्षादीति ।
अयमभिप्रायः --- वेदस्वरूपावधारण एव तावन्महानुपकारः प्रत्यक्षस्य, न हि तदन्तरेण पुरः --- पर्थममेव स्वाध्यायग्रहणकाले वर्णमात्राद्यवधारयितुं शक्यते, तदा चानवधृतं शास्त्रार्थज्ञानवेलायामस्मृतत्वान्नोपयुज्येतैव ।
अतः पुरस्तात् परस्ताच्च वर्णमात्रादितः कृते प्रत्यक्षाद्युपयोगं मत्वा तल्लक्षणं कृतम् ।
अनुमानमपि प्रतीकविनियुक्तमन्त्रशेषानुमान उपयुज्यते ।
यथा देवस्य त्वेति निर्वपतीति ।
उपमानमपि सौर्यादिकर्मणां प्रकृतिविशेषोपमाने ।
अर्थापत्तिरप्यश्रुतवाक्यैकदेशकल्पनायाम् ।
अभावोऽपि पदवाक्ये यत्तावधारणे द्रव्यदेवताद्यभावे च
कर्मणामव्यक्तचोदनात्वावधारण उपयुज्यत इति द्वयोरादिशब्दयोरर्थ इति ॥९॥


यत्तु गामानयेत्यादिवाक्यस्थं शाब्दलक्षणम् ।
तस्य नेहोपयोगोऽस्ति तस्माच्छास्त्रगतं कृतम् ॥ ५,५.१० ॥
विशेषश्च न सामान्यमन्तरेणास्ति कश्चन ।
तस्मात् तम्पयुदाह्रत्य सामान्यं लक्षयेत् सुखम् ॥ ५,५.११ ॥
सामान्यरूपमप्येतदधिकाराद् विशिष्यते ।
चोदना चोपदेशश्च शास्त्रमेवत्युदाहृतम् ॥ ५,५.१२ ॥
यथा च चोदनाशब्दो वैदिक्यामेव वर्तते ।
न चैवञ्जातीयकः कश्चिदुपयोगो गामानयेत्यादिवाक्यस्थस्य शाब्दलक्षमस्यास्तीति तदुपेक्ष्यैव शास्त्रगतमेव लक्षणं प्रणीतमित्याह---यत्विति ॥१०॥
यत्पुनरलक्षिते सामान्ये न विशेषो लक्षयितुं शक्यत इत्युक्तं तत्परिहरति---विशेषश्चेति ।
सामान्यलक्षणे हि विशेषो न सिध्यति, व्यभिचारात् ।
विशेषस्तु सामान्याव्यभिचारीति तस्मिन् लक्षिते तदन्तर्गतं सामान्यं सुखमेव लक्षितं भवेत् ।
यदा हि विधायकविज्ञानादसन्निकृष्टेर्ऽथे विज्ञानं शास्त्रमित्युक्तं तदार्ताद् विधायकविशेषरहिताच्छब्दमात्रज्ञानाच्छाब्दमिति शक्यमवगन्तुमिति न पृथगुच्यत इति ॥११॥
ननु नेदं विशेषलक्षणं विशेषोपादानाभावादित्युक्तम् ।
अत आह---सामान्येति ।
नावश्यमुपात्तमेव विशेषणं भवति, किन्तु अधिकारलभ्यमपि, यथाग्नेयादिषु वक्ष्यते, त(द्व)दिहापि चोदनालक्षणाधिकाराच्छब्दविज्ञानादित्युक्तेऽपि विधायकविशेषणं प्रत्येष्यत इति ।
ननु यदि प्रकृतोपयोगि चोदनेति ।
पर्याया एत इति भावः ॥१२॥
अयं चाधिकारतो विशेषलाभो जैमिनेरष्यनुमतश्चोदनाशब्दमविशेषितं द्वितीये सूत्रे प्रयुञ्जानस्येत्याह---यथा चेति ।
एवं हि मन्यते--- यद्यपि चोदनाशब्दः प्रवर्तकवाक्यमात्रवचनः , तथापि प्रथमसूत्रेऽथशब्देन वेदा


शब्दज्ञानार्थविज्ञानशब्दौ शास्त्रे तथा स्थितौ ॥ ५,५.१३ ॥
प्रत्यक्षाद्यपीक्ष्यत्वे तदन्तर्भावहेतुकम् ।
शास्त्रस्याप्यपरीक्ष्यत्वमनयैव धियोदितम् ॥ ५,५.१४ ॥
ध्ययनानन्तर्यस्योपात्तत्वात् तदधिकारादेव चोदनाशब्दो वैदिक्यामेव चोदनायामवतिष्ठते,एवमिहापि शास्त्रलक्षमे चोदनाप्रामाण्याधिकारात् शब्दविज्ञानार्थज्ञानशब्दौ विशिष्टशब्दार्थपरौ,विधायके शब्दशब्दो विधेये चार्थशब्द इति ॥१३॥
यद्यपि वृत्तिकारमतोपन्यासावसरेऽप्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं शास्त्रम्ः इति भाष्यकारेणोक्तं तत्रापि विशेषशास्त्रापरीक्षाप्रतिज्ञानं प्रकृतोपयोगित्वाभिप्रायेणैवेति दर्शयति---प्रत्यक्षादीति ।
इदं तु चिन्तनीयम् ।
यदि विधायकशब्दजनितं विज्ञानं शास्त्रम्, किमिदानीमङ्गानि मीमांसा कर्मानुशासनानि च न सास्त्राणि, लौकिकानि च गामानयेत्यादिवाक्यानि शास्त्राणि ।
यद्येवं महान् लोकविरोधः ।
न हि लौकिका गामानयेत्यादिषु शास्त्रशब्दमुपचरन्ति ।
स्ववचनविरोधश्व ।
यतो गामानयेत्यादिवाक्यस्थं शाब्दलक्षममिति हि वदन्ति ।
मीमांसादिषु वेदवत् ततोऽपि वा सातिशयं शास्त्रशब्दोपचारमुपलभामहे ।
अपि चायं शास्त्रशब्दो रूढो वा स्याद् यौगिको वा, सर्वथा, सर्वथा च वैदाङ्गादिषु वर्तितुमर्हति, अस्ति हि तेषु यथायथमर्थानुसासनं, रूढिश्च सातिशेयति वर्णितम् ।
अत्राभिधीयते ।
योगरूढिरियं पङ्कजादिवत्, अतो न तावद्नामानयेत्यादिष्वतिप्रसज्यते ।
सत्यपि योगे लौकिकानां तेष्वप्रयोगात् ।
पुरुषार्थोपदेशानेव लौकिकाः शात्र्समिति मन्यन्ते ।
तथा चाङ्गानीति तेषां शास्त्रत्वम् ।
ननु विधायकं शास्त्रमिति शास्त्रलक्षमम्,न च तानि कञ्चिद् विदधति ।
मैवम् ।
सर्वेषामेवानुष्ठानोपदेशपरत्वात् ।
व्याकरणे हि यत्साधुभिर्भाषेत तदेभिरित्युपदिशयते ।
मीमांसायामपि प्रत्यधिकरणं न्यायव्युत्पादनेनानुष्ठानोपदेश एव सर्वत्र ।
अतो यच्छास्त्रं तत्प्रवृत्तिनुवृत्त्युपदेशकमेवेति नियमः , न पुनस्तदुपदेशकं शास्त्रमेवेति लौकिकी प्रसिद्धिरिह भाष्यकारेणानूदिता, नपुनस्तन्निरपेक्षं शास्त्रलक्षणं प्रणीतम् ।
अतो यदसन्निकृष्टार्थ


तत्रानुमानमवेदं बौद्धैर्वैशिषिकैः श्रितम् ।
भेदः साङ्ख्यादिभिस्त्विष्टो नतूक्तं भेदकारणम् ॥ ५,५.१५ ॥
पूर्वसंस्कारयुक्तान्त्यवर्णवाक्यादिकल्पना ।
विवक्षादि च धूमादौ नास्तीत्येतेन भिन्नता ॥ ५,५.१६ ॥
गोचरं पुरुषश्रेयोविधायकं लोके शास्त्रमिति प्रसिद्धं तच्छास्त्रम् ।
यत्पुनरसन्निकृष्टार्थगोचरं विधायकमविधायकं वा तच्छाब्दमिति विवेकः ।
प्रत्यक्षवच्चात्रापि शब्दतज्ज्ञानादिषु विवक्षातः प्रमाणविकल्पा दर्शयितव्याः ।
नावश्यं ज्ञानमेव प्रमाणित्यभिनिवेष्टव्यम ।
पूर्वप्रमाणे चोत्तरं वाक्यार्थज्ञानं फलं तत्प्रामाण्ये च हानादिबुद्धिरिति विवेक इति ॥१४॥
इदं चशास्त्रमनुमानादभिन्नमिति प्रमाणद्वयवादिनो मन्यन्ते, तान्निराकर्तृकामस्तेषां मतमुपन्यसति---तत्रेति ।
इदं च प्रतिज्ञामात्रमेव तेषामुक्तम, तदीयाभेदहेतूपन्यासस्तु परोक्तभेदहेतुनिरासावसरे करिष्यत इति ।
किं पुनरभेदोपन्यासनिरासयोः प्रयस्यते, नन्वयं साङ्ख्यादिभिरेव भेदवादिभिरभेदो निराकृत एव, अत आह--- भेद इति ।
न तैरसम्यग्भेदकारणमुक्तमित्यर्थः ॥१५॥
तानेव तदुक्तान् भेदहेतून्निराकर्तृमुपन्यस्यति--- पूर्वसंस्कारेत्युक्तान्तेन ।
एवं हि तैरुक्तम्--- शाब्दे हि पूरवसंस्कारयुक्तोऽन्त्यो वर्णो, वाक्यं, आद्योऽपि वा वर्णः , सर्वे वा प्रत्येकं, सहिता वा, तेषामेव क्रमः पदानां वा वाक्यत्वजातिरेव वावयवी वा निर्धूतनिखिलवर्णादिविभागः स्फोटो वा पदान्यव वा संहत्यार्थमभिदधति ।
एते च पदेष्वपि विकल्पा दर्शयितव्याः ।
तथा विवक्षाप्रयत्नादयश्च शब्दनिष्पत्तिहेतव इति ।
सर्वमिदं धूमादौ न दृष्टमिति तद्वैधर्म्याद(न) नुमानत्वमिति ।
अत्र दूषणमाह--- तत्रेति ।
बौद्धेन शाब्दमनुमानादभिन्नमन्वयव्यतिरेकाभ्यामुत्पत्तेः , धूमादग्न्यनुमानवदित्युक्ते, यदेतद् धूमादिवैरधर्म्येण प्रत्यवस्थानम्,इयं वैधर्म्यसमा नाम जातिः , विकल्पासमा वा ।
का पुनर्जातिः ।
साधर्म्यवैधर्म्याभ्यां प्रतय्वस्थानं जातिः ।
वादिना हि प्रुयक्ते प्रयोगे प्रसङ्गो जायते, स जायत इति जातिरित्युच्यते, स च प्रसङ्ग साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम् ।


यैरुक्ता तत्र वैधर्म्यविकल्पसमजातिता ।
धूमानित्याविषाण्यादिविशेषान्न हि भिन्नता ॥ ५,५.१७ ॥
यत्रोदाहरणसाधर्म्येण वादिना हेतुरुक्तः , तत्र यदा प्रतिवादिनो वैधर्म्येण प्रत्यवस्थानं भवति ।
यथा--- क्रियावानात्मा क्रियाहेतुगुणयोगात् लोष्टवदिति वादिनोक्ते, प्रतिवादिनो वैधर्म्येण प्रत्यवस्थानं भवति--- यथा क्रियावद् द्रव्यमविभु दष्टम्, यथा लोष्टम्,न तथात्मा, तस्मान्निष्क्रिय इति ।
सेयं वैधर्म्यसमा जातिरुत्युच्यते ।
तथा धर्मान्तरविकल्पात् ।
यदा प्रितवादिना साध्य(वार्)मस्यापि विकल्प आपाद्यते, असौ विकल्पसमा नाम जातिरुच्यते ।
यथास्मिन्नेव प्रयोगे प्रतिवादी वदति, क्रियाहेतुगुणयुक्तं किञ्चिदविभु दृष्टं यथा लोष्टम्, किञ्चिद् विभु यथात्मा, एवं किञ्चित् क्रियावद् भविष्यति किञ्चिदक्रियावदिति ।
एवमिहापि परेणाबेदसाधने उक्ते धुमादिवैधर्म्यमात्रेण प्रत्यवस्थाने वैधर्म्यसमा नाम जातिरापाद्यते ।
धूमादग्न्यनुमानं हि वाक्यविकल्पादिरहितम् ।
न च तथा शाब्दम् ।
अतो नानुमानमिति ।
तथा विकल्पसमाप्येवं दर्शयितव्या ।
अन्वयव्यतिरेकजमेव किञ्चिद् वाक्यविकल्पादिमद् दृष्टं यथा शाब्दम्, किञ्चिच्च न, धूमादिनाग्निज्ञानम् ।
एवं किञ्चिदनुमानं भविष्यति, किञ्चिदननुमानमिति ।
जातिद्वयप्र(तिपादनात्प्र)त्युत्तरं च साधकमिति न वचनीयमिति ॥१६ १।२॥
कथं पुनरियं जातिः , एवं हि साधनमिदम्--- शाब्दमनुमानाद् भिन्नं तद्वैधर्म्यातं प्रत्यक्षवदिति,अत आह---धूमेति ।
तावत् त्रैलक्षण्यप(रित्यागेन) वैधर्म्य तैरुक्तम् ।
किञ्चिद् विशेषणमात्रेण तु वैधर्म्यमविशिष्टमर्थात्मकानानुमानानामिति तेषामप्यनुमानाद् भेदो भवेत् न चासावास्ति, न हि धूमादीनां--------------------------------------------------------
वैलक्षण्यमित्यननुमान्ता भवति ।
त्रैलक्षण्यपरित्यामादनित्यत्वं कृतकत्वे हेतुरिति ।
त्रैलक्षण्य्परित्यागप्रतिपादने (प्य?ह्य) नुमानाद् भेदः सिध्यतीति ॥१७॥


त्रैलक्षण्युपरित्यागो यावन्न प्रतिपाद्यते ।
तावद्विशेषमात्रेण वदतो जातिता भवेत् ॥ ५,५.१८ ॥
यथेष्टविनियोगेन प्रतीतिर्यापि शब्दतः ।
न धूमादेरितीहापि व्यभिचारोऽङ्गवृत्तिभिः ॥ ५,५.१९ ॥
वैलक्षण्यमात्रेण तु भेदं वदतो वैलक्षण्यवचनस्य जाततैवापद्येतेत्याह---त्रैलक्षण्येति ॥१८॥
यदपि चदमपरं शाब्दानुमानयोर्वैलक्षण्यमुक्तम्--- धूमादयो हि सावाभाविकेनैव प्रतिबन्धेन प्रतिबन्धकबुद्धिमनुमाने
जनयतन्ति, शब्दात्तु यथेष्टविनियुक्तादेवार्थप्रत्ययो दृश्यते, अतो भेद इति, तत्राप्याह---यथेति ।
अयमभिप्रायः --- अत्रापि यदि किञ्चिद्वैधर्म्यमात्रेण भेद उच्यते, अतो जातिरेव ।
अथायं प्रयोगः --- शाब्दमनुमानाद् भिन्नं यतेष्टविनियोगेनार्थपादयतीति ।
तदयुक्तम् ।
तत्रापि स्वाभाविक्यैवात्मशक्त्या रूपादिप्रतिपादनात् ।
अथ स्वगोचरे यथेष्टविनियोगेन प्रतिपादनं हेतुरुच्यते, अतो लिङ्गमपि परार्थप्रयोगे यमेव प्रति प्रयुज्यते तमेव प्रतिपादयतीति सामनम् ।
अथ यथेष्टविनियोगः सङ्केतोऽभिधीयते, ततोऽयमर्थो भवति, यत्रैव सङ्केत्यते तमेव गमयतीति, ततो दृष्टान्ताभावः , न हि शब्दादन्यत् सङ्केतानुविधानेनार्थं बोधयति ।
अथावीतमहेतुरम् ।
अनुमानं हि यथेष्टविनियोगाननुविधायिप्रतिपादनम्, न चेदं तथा, अतो भिन्नमिति ।
तन्न ।
व्यतिरकमात्रस्यागमकत्वादन्वयव्यतिरेकी हि हेतुरिष्यते ।
न चायं हेतुरनुमानादबेदेन व्याप्तः क्वचिदवगतः , शब्दातिरेकिणः कस्यचिद् यथेष्टविनियोगेनाप्रतिपादनात् ।
अथास्ति हस्तसङ्केतादीनां यथासमयं प्रतिपादनमित्युच्यते ।
तत् तर्हि प्रमाणान्तरमनुमानं वा ।
न तावत् प्रमाणान्तरम्, तल्ल्क्षमाभावात् ।
अतो व्याप्तिबलेन ज्ञायमानमनुमानमेव तत् ।
एवं च सति
तेनैव व्यभिचार इति नानुमानाद् व्यावृत्तिर्हेतोः सिध्यति ।
तदिदमुक्तं व्यभिचरोऽङ्गवृत्तिभिरिति ।
अङ्गानां हस्तादीनांमाकुञ्चनप्रसारणाद्या वृत्तयोऽङ्गवृत्तय इति ॥१९॥


ह्सतसंज्ञादयो येऽपि यदर्थप्रतिपादने ।
भवेयुः कृतसङ्केतास्ते तल्लिङ्गमिति स्थितिः ॥ ५,५.२० ॥
पुरुषाक्षिप्ततायां च तथैव व्यभिचारिता ।
पदवैदिकवाक्यानां न सत्यव्यापिता भवेत् ॥ ५,५.२१ ॥
एतदेव विवृणोति--- हस्तेति ।
हस्ताद्यङ्गाश्रितवृत्तय एवार्थविशेज्ञानाङ्गतया हस्तसंज्ञेत्युच्यन्ते ।
कथं पुनरिदमनुमाम्, न हि हस्तादिसन्निवेशाः सङ्ख्याविशेषादिभिरर्थैर्व्याप्ताः ।
तैर्विनापि कदाचिद् भावात् ।
किन्तु अङ्गुल्यादिसन्निवेशात्सङ्केतकालभाविशब्दस्मरणेनार्थं प्रतिपद्यमानाः शब्दादेव प्रतिपद्यन्ते ।
तन्न ।
अन्तरेणापि शब्दसङ्के(त?तं) व्यवहार एवाव्युत्पन्नस्याङ्गुल्यादिसन्निवेशदर्शिनसत्दर्थावगतेः ।
न चात्र व्यभिचारः ।
न हि यादृशे सन्निवेशे व्याप्तिरवगता तादृशस्य व्यभिचारो दृश्यते ।
तदिदंऽतेन धर्म्यन्तरेष्वेषेऽत्यत्र वर्णितम् ।
अतोऽनुमानमेवेदम् ।
तदिदमुक्तं--- ते तल्लिङ्गमिति स्थितिरिति ।
सर्वं चेदमन्वारुह्य वार्त्तिककारेण दूषणं दत्तम् ।
न हि यतेष्टविनियोगेन शब्दादर्थप्रतीतिर्भवति ।
गवादिशब्दा हि निजशक्त्यनुसारेणैव स्वार्थं प्रतिवेदयन्ति ।
यदृच्छाशब्दास्तु हस्तसंज्ञादितुल्यास्ते सङ्केतानुसारेणार्थं बोधयन्तोऽनुमानमेवेति किं तद्भेदप्रतिपादनेनेति ॥२०॥
इदमपरं भेदकारणं, शब्दाद्धि पुरुषापेक्षोर्ऽथनिश्चयः , न च तथा शब्द इत्यतो भिद्यत इति ।
एतदपि दूषयति---पुरुषेति ।
व्यतिरेकहेतुर्व्यतिरेकपुरस्कारेणैवार्थं साधयति, प्राणादय इवानात्मकाद् देहाद् व्यावृत्तमात्मानम् ।
पुरुषापेक्षिता त्वनुमानेऽप्यर्थनिश्चयाङ्गमङ्गवृत्तिषु दृष्टा ।
यादृशो हि सङ्केतो यदर्थप्रतिपादने पुरुषैः कृतः , तमेव परपुरषापेक्षया बुध्यन्ते ।
अतोऽत्रापि व्यभिचारितेति ।
अपि चाव्यापकत्वादसिद्धो हेतुरित्याह--- पदेति ।
पदानि हि स्वमहिम्नैवार्थं प्रतिपादयन्ति न पुरुषापेक्षया ।


सम्बन्धानुभवश्चायं सोऽन्यत्रापि विलक्षणः ।
एतस्मिन् पुरुषापेक्षो देशापेक्षोऽग्निधूमयोः ॥ ५,५.२२ ॥
कालाद्यपेक्षया चान्य उक्ता चान्यैरभिन्नता ।
आप्तवादविसंवादसामान्यादनुमानतः ॥ ५,५.२३ ॥
वेदवाक्यान्यपि न स्वार्थप्रतिपादयनाय पुरुषमपेक्षन्ते, स्वरूपावधारणमात्र एव तेषामाप्तापेक्षेति ॥२१॥
ननु नागृहीतसम्बन्धं पदं प्रत्यायकं भवति ।
न च पुरुषानपेक्षा सम्बन्धावगतिरस्ति ।
वेदवाक्यान्यपि नागृहीते पदपदार्थसम्बन्धे स्वार्थं प्रतिपादयन्ति ।
अतोऽयं पदपदार्थसम्बन्धः पुरुषापेक्ष एवेति नाव्यापकत्वम् ।
अत आह---सम्बन्धेति ।
अयमभिप्रायः --- अर्थप्रतिपादने तावदनपेक्षमेव पदं वैदिकानि च वाक्यानि ।
सम्बन्धानुभवश्च यथेह पुरुषापेक्षस्तथान्यत्राप्यनुमानेऽसौ विलक्षणो दृस्यत एवेति ।
वैलक्षण्यमेव दर्शयति--- एतस्मिन्निति अन्योऽन्तेन ।
एतस्मिन्निति ।
हस्तसंज्ञादौ पुरुषापेक्षः , पौरुषेयो हि समयः ।
अग्निधूमयोस्तु देशापेक्षः ।
चन्द्रोदयसमुद्रवृद्ध्योस्तु कालापेक्षः ।
आदिशब्देनावस्थापेक्षितां दर्शयति ।
तदनेनैतदुक्तं भवति---अनुमानेऽप्यनेकप्रकारः सम्बन्धावगमो देशाद्यपेक्षया भेदात् ।
एवमिहापि पुरुषापेक्षो भविष्यति ।
अनुमानेऽपि तदपेक्षः सम्बन्धबोधो दृष्ट इति ।
अपि च परोक्ताभेदहेतुनिरासोऽपि तैर्न कृत इत्याह--- उक्ता चेति ॥२२ १।२॥
तमेवाभेदहेतुमुपन्यस्यति---आप्तवादेति ।
अयमर्थः --- यथा धुमादिषु भेदहानेन सामान्यधर्मयोर्व्याप्तिरवधार्यते, एवं शाब्देऽप्याप्तवादाविसंवादसामान्ययोर्व्याप्तिरवगता ।
(आप्तवादाविसंवादेति?) एवं च विदित्वा वेदेऽपीश्वराप्तवादत्वादविसंवादोऽनुमीयते,अतोऽनुमानमेवेदम् ।
यावत्वविसंवादो नानुमीयते तावदर्थगोचरं ज्ञानमुत्पन्नमप्यनिश्चायकत्वादप्रमाणमेव ।
सामान्यशब्दः प्रत्येकमभिसम्बध्यते ।
ल्यब्लोपे पञ्चमी ।


न चापूर्वादिशब्दानां भेदात् सर्वत्र भिन्नता ।
न चेहाश्वादिशब्दभ्यो भेदस्तेषां प्रतीयते ॥ ५,५.२४ ॥
नचाप्यज्ञातसम्बन्धं पदं किञ्चित् प्रकाशकमो ।
सम्बन्धाननुभूत्यातो न स्यादननुमानता ॥ ५,५.२५ ॥
तुल्याकारतयाप्यत्र शब्दज्ञानार्थतद्धियाम् ।
अग्निधूमेष्वदृष्टत्वान्न भेदस्तन्निवारणात् ॥ ५,५.२६ ॥
तदयमन्वयो भवति--- यद्यप्याप्तवादविसंवादविशेषाणां भेदान्न सम्बन्धोऽवगन्तुं शक्यते, तथापि तयोः सामान्यप्रतीत्यानुमानता शक्यते वक्तुम्, सामान्ययोर्व्याप्तसम्भवादिति ॥२३॥
नन्विदमस्ति भेदकारणम्, अनुमानं सम्बन्धावधारणाधीनम्, शब्दास्त्वपूर्वादयः सम्बन्धज्ञानानपेक्षा एव स्वार्थं प्रतिपादयन्तीति, अतो भिद्यते इत्यत आह--- न चेति ।
गवादयस्तावत् विदितसम्बन्धा एवार्थं प्रतिपादयन्तीति तेषां दुर्वारमनुमानत्वम्, यदि त्वपूर्वादिदृष्टान्तेन तेषामपि भेदोऽभिधीयते ।
तन्न ।
शक्नोति हि वक्तुमितरोऽपि तेषामनुमानत्वं सम्बन्धावधीनबोधकत्वाद् धूमादिवदिति ।
अपि चापूर्वशब्दा अपि नाश्वादिशब्देब्यो विशिष्यन्ते, पदत्वेनाभेदादित्याह--- न चेति ॥२४॥
किमतो यद्येवमत आह--- न चेति ।
यतः खल्वेतानि पदानि, न च पदमज्ञातसम्बन्धं प्रकाशकमस्ति ।
अतोऽमीभिरपि विदितसम्बन्धैरेवार्थो वेदनीयः , पदत्वात् ।
कथं पुनः प्रमाणान्तरादृष्टपूर्वेणापूर्वस्वर्गादिना सम्बन्धोऽनुभवितुं शक्यते ।
न शक्येतापि, यदि प्रमाणान्तरागोचरता भवेत् ।
अपूर्वं तु श्रुतकर्मफलसम्बन्धाद्यन्यथानुपपत्तिप्रमाणकम् ।
स्वर्गश्च निरतिशयानन्दस्वभावो वैदिकवाक्यशेषेभ्योऽवगम्यत इति तथावगतयोः सम्बन्धग्रहणोपपत्तिरिति ।
अतो यत् परैरुक्तं शब्दो नानुमानं सम्बन्धानपेक्षत्वादक्षवदिति तद्धेतोरसिद्ध्या दूषितमित्याह--- सम्बन्धेति ॥२५॥
भेदकारणान्तरमुपन्यस्य दूषयति---तुल्येति ।
शब्द प्रत्यासत्त्या तज्ज्ञान्मर्थश्च तद्धीश्चेति विगर्हः ।
अयमप्यवीतहेतुर्दर्शयितव्यः ।
तन्निराकरणं चाध्यासनिराकणोनुसन्धातव्यम् ।
अतस्तुल्याकारत्वमसिद्धमिति ॥२६॥


प्रतिबिम्बेष्वनेकान्तो बिम्बं यादृग्धि दर्पणे ।
तादृङ्मुखादि बुध्यन्ते न चात्राननुमानता ॥ ५,५.२७ ॥
प्रत्यक्षता(त?य) दाप्यत्र तदान्यैरन्यभिचारिता ।
यत्र पादादि बिम्बेन गतानामनुमीयते ॥ ५,५.२८ ॥
एकवाक्यात् सकृच्चोक्तान्नाप्यनेकस्य तत्क्षणम् ।
स्याद्विरुद्धाविरुद्धस्य बोधादेतस्य भिन्नता ॥ ५,५.२९ ॥
अपि च विवक्षानिवृत्तेरनैकान्तिको हेतुरित्याह---प्रतिबिम्बेष्विति ।
एकान्तो निर्णयः , सोऽस्य कार्यं, तन्नास्तीत्यनेकान्त इति ।
कथमनेकान्तः , अत आह--- बिम्बमिति ।
यादृशं हि दर्पणे बिम्बमुपलभ्यते तादृशमेव मुखादि बुध्यते, अतोऽस्त्यत्रापि गम्यगमकयोः सादृश्यमिति प्रतिबिम्बेषु वर्तमानो हेतुरनैकान्तिको भवतीति ।
ननु नैदमनुमानम्, आदर्शतेजसा हि प्रतिहतेन नायनेन तेजसा प्रकाशितं प्रत्यक्षमेव मुखमवगम्यत इति शब्दाधिकरणे वक्ष्यते ।
अत आह--- न चेति ।
अयमभिप्रायः --- यदा ह्ययं परत्यक्षेष्वङ्गुल्यादिष्वादर्शवर्तिना प्रतिबिम्बेन तादृक्त्वे विदितव्याप्तिर्भवति, तदा मुखमप्यादर्शगतं बिम्बानुरूपमनुमिनोति ।
इतरथा त्वङ्गुलिसन्निकर्षोऽप्यन्यरूपमन्यादृक्तया बोधयतीति ।
सम्भावयेत् ।
अतो न तादृक्त्वं निश्चिनुयादिति ॥२७॥
अस्तु वेदं प्रत्यक्षं, किमिति सूक्ष्मेक्षिकया, विशदतरमेवानुमानमुपदर्शयामः , यत्र गम्यगमकयोः सादृश्यमवगम्यत
इत्याह---प्रत्यक्षतेति ।
गतानामित्यनुमानविषयसिद्द्यर्थमप्रत्यक्षतां दर्शयतीति ॥२८॥
यदपीदमुक्तम्--- शाब्दे हि सकृदुक्तमेव वाक्यं सहसा नानार्थान् प्रतिभासयति विरुद्धानविरुद्धांश्च, चोदनालक्षणोर्ऽथो धर्मः , श्वेतो धावतीति च यथा, नैवमनुमाने ।
धूमो हि येनैव विदितव्याप्तिस्तत्रैकत्रैव धियमादधाति ।
अतः शब्दानुमानयोर्भेदः ।
प्रयोगश्च भवति--- शब्दोऽनुमानाद् भिन्नः एकदा नानार्थप्रतिभासादक्षवदिति ।
अनीतहेतुर्वा, लिङ्गमेकमेव


लिङ्गस्यापि हि ताद्रूप्यं दृश्टं हेतुविरुद्धयोः ।
विरोधान्नानुमानं चेत् स्यादनागमतापि ते ॥ ५,५.३० ॥
यत्र चैकार्थता वाक्ये तत्र स्यादनुमानता ।
सकृदुच्चरिते चास्मिन् विवक्षैकैव दृश्यते ॥ ५,५.३१ ॥
यस्त्वनिर्धारितार्थानामनेकप्रतिभोद्भवऽ॥
स लिङ्गेऽप्यस्फुटे दृष्टस्तस्मान्नैतेन भिद्यते ॥ ५,५.३२ ॥
प्रकाशयति, यथा धूमादि,न च तथा शब्दः ,अतो भिद्यत इति ।
तदुपन्यस्य दूषयति---एकवाक्यादिति ।
अनेनापि प्रकारेण न भिन्नतेत्यर्थ इति ॥२९॥
किमिति न भिन्नता, अत आह---लिङ्गस्यापीति ।
अनैकान्तिको हेतिरिति भावः ।
हेतुर्हि धूमोऽग्नित्वमुष्णत्वं दाहकत्वमिन्धनविकारत्वं च एकदैव प्रतिपादयति ।
तथा विरुद्धः - नित्यः शब्दः कृतकत्वादिति, विवक्षानुसारेण तावन्नित्यतां प्रतिपादयति, व्याप्तिबलेन चानित्यत्वमतोऽनैकान्तिको हेतुरिति ।
ननु न विरुद्धोऽनैकमर्थ प्रतिपादयति, व्याप्तिबलेन हि लिङ्गं प्रतिपादकं भवति ।
अतः कृतकत्वमनित्यत्वेन व्याप्तमिति तदेव गमयति, विरुद्धार्थव्याप्तिस्त्वेकस्य विरोधादेव न सम्भवतीति ।
तत्तावदाशङ्कते--- विरोधादिति ।
उत्तरमाह--- स्यादिति ।
विवक्षितार्थप्रतिपादने हि शब्दस्य शक्तिरवगता, अतः सोऽप्येकदैकमर्थं प्रतिपादयति, अर्थान्तरे त्वसावपि विरोधादनागमक एवेति ॥३०॥
भूयसां चैकार्थानां वाक्यानां नानेन हेतुना भेदः सिध्यतीत्याह---यत्रचेति ।
न केवलं विरुद्धमनेकं शब्दो न प्रतिपादयति, किन्तु अविरुद्धमपि ।
उक्तमिदं--- विवक्षिते शब्दः प्रमाणमिति ।
सकृदुच्चरिताञ्च बुद्धो भवति ।
अतो न क्वचिदनेकार्थप्रतिपादनमित्यसिद्धो हेतुरित्याह--- सकृदिति ॥३१॥
नन्वस्ति तावदनेकार्थप्रतिभानं शब्दात, प्रमाणं त्वेकत्र भवतु नाम, एतावता च सिद्धमनुमानाद् वैधर्म्यमत आह---यस्त्विति ।
यथा हि


दृष्टान्तानभिधानं धूमादौ व्यभिचारितम् ।
प्रसिद्धत्वाद्धि तत्रापि न दृष्टान्तोऽभिधीयते ॥ ५,५.३३ ॥
अनभ्यस्ते त्वपेक्ष्नते शब्दे सम्बन्धिनः स्मृतिम् ।
अत्र प्रयुक्त इत्येवं बुध्यन्ते हि चिरात् क्वचित् ॥ ५,५.३४ ॥
परोक्ता हेतवश्चात्र नाभेदस्य निवारिताः ।
शब्दानुमानयोरैक्यं धूमादग्न्यनुमानवत् ॥ ५,५.३५ ॥
अन्वयव्यिरेकाब्यामेकप्रत्यक्षदर्शनात् ।
सम्बन्धपूर्वकत्वाच्च प्रतिपत्तिरितो यतः ॥ ५,५.३६ ॥
न्याय्यवचनव्यक्तिपरिचयात् पूर्वं शब्दादनेकार्थाः परिप्लवन्ते,तथा लिङ्गेऽपि धूमादावस्फुटविदितेऽनेकार्थप्रतिभानन्दष्टमेव ।
भवति हि दूराद् धूमोऽयमाहोस्विद् धूलिसन्तान इति संशयानस्याग्निवातावर्तयोरनवस्थितो वितर्क इति ॥३२॥
तथा शब्दे दृष्टान्तानभिधानमपि धूमादौ व्यभिचारान्न भेदहेतुरित्याह---दृष्टान्तेति ।
कथं व्यभिचारः , अत आह---प्रसिद्धत्वादिति ॥३३॥
नन्वप्रसिद्धे तावदस्ति दृष्टान्तापेक्षा, शब्दे तु तदपि नास्तीत्यत आह---अनभ्यस्तैति ।
अपेक्षामेव दर्शयति--- अत्रेति ।
यत्र ह्यप्रसिद्धपदार्थगोचरः संशयो भवति, तत्र यावदयं शब्दोऽमुष्मिन्नर्थे वृद्धैराचरित इति चिरेण प्रणिधाय न बुध्यते, न तावत् तमर्थं निश्चिनुयादिति ।
तदेवं तावद् भेदवादिभिर्न भेदहेतवः सम्यगुक्ता इति दर्शितम् ॥३४॥
बौद्धोक्ताभेदहेतुनिरासोऽपि तैर्न कृत इत्याह--- परोक्ता इति ।
तानेवाभेदहेतूनुपन्यस्यति--- शब्दानुमानयोरिति
सार्दद्वयेन ।
अस्यार्थः --- यथा धूमादग्न्यनुमानमन्वयव्यतिरेकजम्, एकस्य च धूमस्य प्रत्यक्षदर्शनात्,


प्रत्यक्षान्यप्रमाणत्वात् तददृष्टार्थबोधनात् ।
सामान्यविषयत्वाच्च् त्रैकाल्यविषयाश्रयात् ॥ ५,५.३७ ॥
कैश्चिन्मीमांसकैरुक्तो भेदोऽत्र विषयान्तरात् ।
पूर्वाभ्यां ह्यपिरच्छिन्ने शास्त्रमर्थे प्रवर्तते ॥ ५,५.३८ ॥
सम्बन्धपूर्वकं च भवति, एवं शब्दादपि ज्ञानं जायमानमेवं जायते ।
प्रत्यक्षाच्च तदन्यत् प्रमाणं, प्रत्यक्षादृष्टं चार्थं बोधयति, सामान्यविषयं च शाब्दं, त्रैकाल्याश्रयं च ।
अतो न भिद्यते ।
इदं च साधनवाक्यस्यार्थकथनम् ।
साधनप्रयोगास्त्वेवं दर्शयितव्याः ---- शाब्दं ज्ञानमनुमानमन्वयव्यतिरेकजत्वात् अग्न्यनुमानवदिति ।
एकप्रत्यक्षदर्शनोत्पत्तेः , तद्वदेव सम्बन्धपूर्वकत्वं(वा?च) हेतुः ।
तावेव साध्यदृष्टान्तौ ।
न च कतवाच्यमन्वयव्यतिरेकजत्वात् सम्बन्धपूर्वकत्वं न भिद्यते, अन्वयव्यतिरेकात्मकत्वादनुमानसम्बन्धस्येति ।
पूर्वं हि सम्बन्धविशेषजत्वं हेतुरुक्तः इदानीं त्वविवक्षितविशेषं सम्बन्धसामान्यपूर्वकत्वमिति ।
एवमुत्तरेष्वपि त्रिषु पूर्ववत्साध्यदृष्टान्तयोजना कार्या ।
चतुर्थे त्वग्न्यनुमानं प्रदर्शनमात्रम् ।
भविष्यदवृत्तवृ(त्त्य?ष्ट्य) नुमाने अपि दर्शयितव्ये इति ॥३५-३७॥
मीमांसकैकदेशिनां भेदहेतुमिदानीं दूषयितुमुपन्यस्यति---कैश्चिदिति ।
विषयान्तरमेव दर्शयति--- पूर्वाभ्यामिति ।
अयमभिप्रायः --- यदयदपरिच्छिन्ने पवर्तते तत् ततो भिद्यते, अनुमानमिव प्रत्यक्षात् ।
शास्त्रं च पूर्वद्वयापरिच्छिन्नेर्ऽथे प्रवर्तते ।
ततस्ताभ्यां भिद्यते ।
किं पुनः प्रत्यक्षाद् भेदप्रतिपादनेन प्रयोजनम्, न हि तदभेदः कैश्चिदाश्रितः , यन्निराक्रियते ।
उच्यते ।
अस्त्येव केषाञ्चिद् विभ्रमः , श्रोत्रव्यापाराश्रयाज्जायमानमिदं शाब्दं श्रोत्रप्रत्यक्षमेव,तदन्वयव्यतिरेकानुविधानात् ।
अत एव बधिरस्य न भवतीति ।
तदनेन प्रत्यक्षतो भेदप्रतिपादनेन निराक्रियते ।
एवं हि मन्यते--- विद्यमानोपलम्भनं प्रत्यक्षमिति दर्शितम् ।
इदं तु शाब्दं त्रिकालार्थविषयमतः कथं प्रत्यक्षेऽन्तर्भविष्यति ।
बधिरस्तु शब्दाश्रवणादर्थं न जानाति, नार्थाश्रवणात् ।
प्रयोगश्च भवति--- शाब्दं प्रत्यक्षाद् भिन्नं तदपरिच्छिन्नविषयत्वाद् अनुमानवदिति ॥३८॥
तत्रापि नागमत्वं स्यात्पुरुषोक्तेस्तथास्तु चेत् ।
प्रत्ययः किन्निमित्तोर्ऽथे वक्तृबुद्धेः कुतो वसौ ॥ ५,५.३९ ॥
तदिमं प्रत्यक्षतो भेदमभ्युपेत्यानुमानाद् भेदकारणं निराकरोति---तत्रापीति ।
एवं हि मन्यते--- यद्यनुमानापरिच्छिन्नविषतया भेदोऽभिधीयते, तर्हि पुंवाक्यानामनागमत्वम्, प्रमाणान्तरपरिच्छिन्नविषयवात्, वेदवाक्यान्येव तु मानान्तराविषयार्थानि भिद्यन्ते इत्यव्यापको हेतुरिति ।
किं पुनरिदमनिष्टमापादितम्, नन्विष्यत एव पुंवचसामनागमत्वम्, आगमो हि शास्त्रम्,अप्राप्ते शास्त्रमर्थवदिति ।
वक्ष्यति ।
इमानि पुनः प्रमाणान्तरप्राप्तविषयप्रतिपादकानीत्यनुवादवाक्यान्येव ।
अत एव शास्त्रमेव वेदवाक्यं भिन्नतया पक्षीकृतंऽशास्त्रमर्थे प्रवर्ततऽिति ।
तद्भेदस्थैवोपयोगादिति भावः ।
तदेतदाह--- यथेति ।
अत्र दूषणमाह--- प्रत्यय इति ।
एवमयं पंवचनाप्रामाण्यावादी वक्तव्यः ।
किमस्ति तेभ्योर्ऽथप्रत्ययो न वा, न तावन्नास्ति, सर्वलोकव्यवहारोच्छेदप्रसङ्गात् ।
सतस्तु नानिमित्तोत्पत्तिः सम्भवतीति निमित्तं वाच्यम् ।
न च शब्दादन्यन्निमित्तमस्योपपद्यत इति जातमसन्दग्धमबाधितं च ज्ञानान्तरेण प्रमाणमेव पुंवचनजनितं ज्ञानमिति नास्यानागमत्वाब्युपगमो युक्त इति ।
इतरस्त्वनुमानान्तर्भावाभिप्रायेणाह--- वक्तृबुद्धेरिति ।
अयमभिप्रायः --- विसंवादभूयिष्टानि हि पुंवचनानि, तन्नैतानि श्रुतमात्राण्येवार्थं निश्चाययन्ति ।
न चानिश्चितोर्ऽथो ज्ञातो भवति, निश्चयस्यैव ज्ञानत्वात् ।
अतः प्रङ्(?) निश्चयोत्पत्तेर्ज्ञानाभाव एवन्ति किं निमित्तप्रयत्नेन ।
यदा तु
वक्तैवमवधारितव्याप्तिर्भवति---ऽन चायमनवगतं ब्रवीतीऽति, तदा तद्वाक्यादेव ज्ञानकार्यात् कारणभूतं ज्ञायमनुमाय ज्ञानस्यार्थाव्यभिचारेणार्थो निश्चीयते ।
तस्यां चावस्थायां ज्ञानलिङ्गावगतत्वादर्थस्य वाक्यमनुवादकमेव ।
अतो नागम इति ।
सिद्धान्तवादी त्वाह--- कुतो न्वसाविति ।
अयमभिप्रायः --- अवगता हि बुद्धिरर्थं निश्चाययति ।
न चास्याः किञ्चिदवगमे कारणस्तीति वक्ष्याम इति ॥३९॥


न शब्दार्थस्य सा लिङ्गं न शब्दोऽस्याः कथञ्चन ।
विशेषो गम्यते ताभ्यां न चैतस्यानुमेयता ॥ ५,५.४० ॥
तेन वक्तुरभिप्राये प्रत्यक्षाद्यनिरुपिते ।
पुरुषोक्तिरपि श्रोतुरागमत्वं प्रपद्यते ॥ ५,५.४१ ॥
अतः स्वयमेवानवगता नार्थस्य लिङ्गमित्याह--- नेति ।
ननूक्तं कार्यात् शब्दादनुमास्यते, अत आह--- न शब्द इति ।
यता नोभयमुभयत्र लिङ्गं, तथा दर्शयति--- विशेष इति ।
अनुमानं हि व्याप्तिबलेन भवति, इह च वाक्यसामान्यं ज्ञानसामान्येन व्याप्तमवगतमिति ततस्तत् सिध्येद्, ज्ञानमात्राच्चार्थमात्रम्, न चेह तथा, ज्ञानार्थविशेषयोरनुमित्सितत्वात् ।
तयोश्च सम्ब्नधग्रहणाभावेनाननुमेयत्वात् ।
ननु यत्राप्तो वाक्यं प्रयुङ्क्ते तदेव ज्ञात्वा प्रयुङ्क्त इति विज्ञानविशेषेणैव सम्बन्धोऽवगतः ।
अतः स एवानुमास्यते ।
यद्येवम्, अवगतस्तर्हि प्रागेव वाक्यादर्थः , न ह्यन्यथा यत्र प्रयुङ्क्त इति शक्यते प्रतिनिर्देष्टुम् ।
न चार्थोपरागमन्तरेण ज्ञानस्य विशेषः सम्भवति योऽनुमीयते ।
न चाकर्मकं ज्ञानमात्रमनुमीयते ।
न च ततोर्ऽथविशेषस्तिध्यति ।
न चानिश्चितं ज्ञानं, संशयात्मनो विज्ञानविधाया दर्शितत्वात् ।
न चैवं पुंवाक्येभ्यः सन्देहः ।
या तु क्वचिद् व्यभिचारादप्रामाण्याशङ्का सा आप्तत्वादिना निराक्रियत इत्युक्तम् ।
यदि त्वेव ज्ञानविशेषावगतिरुच्यते, य एवमवधारितो भवति--- नायमनन्वितार्थानि पदानि प्रयुङ्क्ते, न चानवगतान्वयानि, तन्नूनममीषामनेनान्वयो ज्ञात इति ।
किमिदानीं विदितपदपदार्थसङ्गतिः श्रोता पुंवाक्यादर्थं न बुध्यत एव ।
यद्येवमनुत्तरा गुरवः ।
जाता तु बुद्धिरसन्दिग्धाविपर्यस्ता च न वैदवाक्यजनिताया धियो विशिष्येत ।
शङ्कामात्रं तु कथञ्चिद् वेदेऽपि वाक्यत्वादिना भवतीति न तावता तदप्रामाण्यम् ।
ताभ्यामिति ।
बुद्धिशब्दाभ्यामित्यर्थः ॥४०॥
अतो वक्त्रभिप्रायावगतौ प्रत्यक्षादिप्रमाणासम्भवात् तदनवगमे


न चाप्यननुमेयत्वमागमार्थस्य शक्यते ।
लिङ्गं हि शब्द एवास्य धूमोऽग्नेरिव कल्पते ॥ ५,५.४२ ॥
न चाप्यननुमेयत्वात् प्रमाणान्तरगम्यता ।
रूपस्याश्रावणत्वेन न ह्यप्रत्यक्षतेष्यते ॥ ५,५.४३ ॥
एवं स्थिते स्वयूथ्या नः केचिन्नातिप्रयत्नतः ।
अनुमानविशेषोऽयमीदृग्धर्मस्य बोधकः ॥ ५,५.४४ ॥
भविष्यत्यर्थरूपं तु लिङ्गं धर्मे निराकृतम् ।
चार्थानुमानानुपपत्तेः श्रोतुरप्राप्तपूर्वमर्थं प्रापयन्ती पुरुषोक्तिर्वेदवदागम एवेत्याह---तेनेति ॥४१॥
यदपि चेदमुच्यते ।
वेदस्तावद् भिन्नविषयतया प्रमाणान्तरमेवेति, तदपि मनोरथमात्रमेवेत्याह---न चापीती ।
न शक्यते वक्तुमित्यभिप्रायः ।
किमिति न शक्यते ।
अत आहः --- लिङ्गमिति ।
यदा पूर्वोक्तैर्हेतुभिरविशेषेण सर्वमेव शाब्दमनुमानादभिन्नमित्युकं, तदा कथं तद्गोचरस्याननुमेयत्वं भविष्यतीति भावः ॥४२॥
नन्वर्थात्मना तावदल्लिङ्गेनाननुमितपूर्वमर्थं वेदो बोधयतीति प्रमाणान्तरं भविष्यतीत्यत आह---न चेति ।
धूमत्त्वकृतकत्वादीनां हि सत्यप्यवान्तरभेदे यथैव त्रैलक्षण्यापरित्यागेनानुमानत्वमेवमिहापि स्यात् ।
यदि तु तदेव नास्तीत्युच्यते, तत् तर्हि वचनीयम्, किमवान्तरभेदोपन्यासेनेति ॥४३॥
अन्ये तु प्रक्षीणशक्तयोऽभेदमेवाश्रित्यैकदेशिनः प्रत्यवस्थिताः , तद् दर्शयति---एवं स्थितैति ।
अयं हि तेषामभिप्रायः --- चोदनाप्रामाण्यं हि प्रतिज्ञातं, तच्चानुमानत्वेऽपि वेदवचः सिध्यत्येव ।
यथैव हि शब्दमध्याद् वेदः प्रमाणम् ।
एवमनुमानेभ्यो वेदानुमानमिति किमतिप्रयत्नतो बेदप्रतिपादनेनेति ।
ननु"भविष्यत्वाद् धर्मो नानुमीयते"इत्युक्तं भाष्यकारेण ।
अतोऽनुमानत्वाभ्युपगमे तद्वरोधो भवेद् अत,आह--- भविष्यतीति ।
अर्थरूपलिङ्गाभिप्रायेण तन्निराकृतमित्यर्थः ॥४४ १।२॥


संज्ञानुमानतेच्छा तु न दुष्येदागमेऽपिनः ॥ ५,५.४५ ॥
लक्षणेन त्वभिन्नत्वं यदि शब्दानुमानयोः ।
वेदज्ञानाप्रमाणत्वं स्यादतल्लक्षमत्वतः ॥ ५,५.४६ ॥
आप्तवादाविसंवादसामान्यान्नृवचः सु हि ।
लक्षणेनानुमानत्वात् प्रामाण्यं सिद्धिमृच्छति ॥ ५,५.४७ ॥
वेदे त्वाप्तनराभावात् सम्बन्धानुभवादृते ।
लक्षणं नानुमानस्येत्यप्रामाण्यचं प्रसज्यते ॥ ५,५.४८ ॥
नन्वेकदेशसत्यत्वे तस्य स्यादनुमानता ।
वेदत्वादग्निहोत्रादौ वायुक्षेपिष्ठवाक्यवत् ॥ ५,५.४९ ॥
एतदपि दूषयति---संज्ञेति ।
यदि पश्चान्मानसामान्यादनुमानत्वं तदस्तु, न च तदभ्युपगमे दोष इत्यर्थः ।
लक्षणैकत्वेन त्वभेद इष्टेऽनुमानलक्षणाभावात् प्रमाणान्तरानब्युपगमाच्चाप्रामाण्यमेव वेदवचसामापद्यत इत्याह--- लक्षणेनेति ॥४६॥
ननूक्तं लक्षणैकत्वमाप्तवादाविसंवादसामान्यादित्यत्राह---आप्तवादेति ।
पुंवाक्यानामनेन प्रकारेणानुमानत्वात् प्रामाण्यं सिद्ध्यति न वेदवचसामिति भावः ॥४७॥
किमिति न सिद्ध्यति ।
अत आह---वेदे त्विति ।
आप्तनराभावात् तावन्नाप्तवादत्वेनाविसंवाददनुमानम् ।
न चातीन्द्रिययैरर्थैर्वेदानां सम्बन्धानुभवः सिध्यतीत्यप्रमाणमेव भवेयुः ।
नाप्तसन्दृब्धा वेदा इति वेदाधिकरणे वक्ष्यतीति ॥४८॥
ननु प्रमाणान्तरकसङ्गतार्थानि वेदैकदेशभूतानि क्षेपिष्ठादिवाक्यानि दृष्ट्वा इतराण्यप्यग्निहोत्रादिवाक्यानि वेदत्वात् सत्यार्थान्यनुमास्यन्ते ।
अतोऽस्ति लक्षणेनानुमानत्वमित्याह---नन्विति ॥४९॥


नादित्ययूपेऽनैकान्त्यात् तद्वद्वा गौणता भवेत् ।
नातः प्रत्यनुमाननामेवं पूर्वोक्तया दिशा ॥ ५,५.५० ॥
तस्माल्लक्षणभेदेन यदि शब्दप्रमाणता ।
समा लोके च वेदे च सिद्धा वेदप्रमाणता ॥ ५,५.५१ ॥
तेन चाप्तोपदेशत्वं न स्यादागमलक्षणम् ।
नाप्तस्य सम्भवो वेदे लोके नास्मात् प्रमाणता ॥ ५,५.५२ ॥
पुरस्ताद् वर्णितं ह्येतत् तस्मात् शब्देन या मतिः ।
तस्याः स्वतः प्रमाणत्वं न चेत् स्याद्दोषदर्शनम् ॥ ५,५.५३ ॥
एतदपि दूषयति---नादित्येति ।
आदित्ययूपवाक्ये वर्तमानो वेदत्वहेतुरनैकान्तिक इति ।
ननु नेदं वाक्यमसत्यार्थम्, आदित्यशब्दो हि सारुप्याद् गौणो यूपे वर्तत इति तत्सिद्धिसूत्रे वक्ष्यते, अत आह--- तद्वदिति ।
कर्मफलसम्बन्धवाक्यान्यपि तद्वदेव गौणानि भुवेयुरिति ।
अपि च प्राक् स्वमहिम्ना वेदप्रामाण्यबलेनाप्रामाण्यानुमानानि प्रत्युक्तानि ।
अनुमात्वाभ्युपगमे तुल्यबलतया दुर्वारप्रसरणानीत्याह--- नात इति ॥५०॥
अतो लक्षणभेदेनैव शब्दस्य प्रमाणान्तरत्वे इष्यमाणे वेदाः प्रमाणं भवन्ति ।
लोकवेदयोश्च सममेव प्रमाणता सिद्धेत्याह---तस्मादिति ॥५१॥
लक्षममपि यथा परैराश्रितम्---ऽाप्तोपदेशः शब्दः इति, तथाप्यचाप्ताभावान्न प्रामाण्यं वेद्सयेति तन्नाश्रयणीयमित्याह---तेनेति वेदान्तेन ।
लोकेऽपि नाप्तत्वं प्रामाण्ये कारणमित्याह--- लोक इति ॥५२॥
कारणमाह---पुरस्तादिति ।
आप्तत्वेन ह्यपवादाशङ्कानिराकरणमात्रम् ।
प्रामाण्यं तु सर्वसंविदां सहजमेवेति स्वतऽप्रामाण्येवादे वर्णितमिति ।
किं तर्ह्यागमलक्षणमत आह--- तस्मादिति ।
निर्देषशब्दजनितं विज्ञानं प्रमाणमिति ॥५३॥


अनुमानेन चैतस्य प्रामाण्यं केवलं समम् ।
पदे तावत्कृतो यत्नः परैरित्यत्र वर्ण्यते ॥ ५,५.५४ ॥
विषयोऽन्यादृशस्तावद् दृश्यते लिङ्गशब्दयोः ।
सामान्यविषयत्वं च पदस्य स्थापयिष्यति ॥ ५,५.५५ ॥
धर्मी धर्मविशिष्टश्च लिङ्गीत्येतञ्च साधितम् ।
न तावदनुमानं हि यावत् तद्विषयं न तत् ॥ ५,५.५६ ॥
सामान्यादतिरिक्तं तु शाब्दे वाक्यस्य गोचरः ।
सामर्थ्यादनुमेयत्वादश्रुतेऽपि पदान्तरे ॥ ५,५.५७ ॥
एवञ्जातीयकस्य शब्दस्य चानुमानेन प्रामाण्यमेव समं, न लक्षणमित्याह---अनुमानेनेति ॥५३ १।२॥
स्वमतेनेदानीं पदस्यानुमानाद् भेदं वदिष्यस्तत्प्रतिपादने कारणमाह---पदैति ।
यद्यपि पदस्य पदार्थे प्रमाणत्वान्न तद्भेदप्रतिपादनमुपयुज्यते, तथापि परैः पदान्युदाहृत्य विचारः कृत इति तद्भेदमेव प्रतिपादयामः ।
अत्रेति ।
पद इत्यर्थः ॥५४॥
तदिदानीं भेदकारणमाह---विषयैति ।
विषयभेदमेव दर्शयति--- सामान्येति ।
आकृत्यधिकरणे हि पदस्य
सामान्यविषयत्वं स्थापयिष्यत इति ॥५५॥
अनुमानं तु धर्मविशिष्टधर्मिविषयमित्यनुमानपिरच्छेदे साधितमित्याह---धर्मीति ।
लिङ्गमस्यास्तीति लिङ्गी ।
तस्य विशिष्टस्य प्रसाधकं लिङ्गमस्तीति ।
नन्वनुमाने व्याप्तिबलेन धर्मसामान्यमनुमीयत इत्यत आह--- न तावदिति ।
यावत् तदनुमानं तद्विषयं विशिष्टविषयं न भवति तावदनुमानमेव न भवति, न धर्ममा(त्रं?त्रविषयं) सिद्धत्वादित्युक्तमिति ॥५६॥
ननु पदमपि विशिष्टगोचरं दृष्टं यथा--- को राजा यातीति पृष्टे परः प्रतिब्रवीति , पाञ्चालराज इति ।
तदा केवलादेव पाञ्चालराजपदात् क्रियाविशिष्टः पुरुषोऽवगम्यते, अत आह---सामान्यादिति ।
यदेव


सङ्ख्यादिमान् पदार्थश्चेन्न तावत् सोऽव्ययादिषु ।
यत्रापि ते प्रतीयन्ते तत्र व्यक्तेर्विशेषणम् ॥ ५,५.५८ ॥
पदान्तराभिधेयस्य तादर्थ्याच्च क्रियात्मनः ।
वाक्यार्थेऽपि पदं यत्र गोमदादि प्रयुज्यते ॥ ५,५.५९ ॥
सत्यप्यत्र विशिष्टत्वे सिद्धत्वान्नैव पक्षता ।
तावानेव हि तत्राप्थो यः पूर्वमवधारितः ॥ ५,५.६० ॥
किञ्चित् शाब्दे सामान्यादतिरिक्तमवगम्यते स वाक्यस्यैव विषयः ।
वाक्यमेव हि तदनुषक्तयातिपदं पाञ्चालराजो यातीति ।
नन्वस्तु श्रुतस्यानुषङ्गः , अश्रुतेऽपि पदान्तरे पदादेकस्माद् विशिष्टबोधो दृष्टः , यथा--- द्वारमित्युक्ते विव्रियतामिति, अत्र कथमत आह--- सामर्थ्यादिति ।
कारकं हि क्रियया विदितव्याप्तिकम्, व्याप्तिसामर्थ्यादेव क्रियापदमनुमापयति ।
अनुमितक्रियापदाद् वाक्यादेव तत्रापि विशिष्टार्थप्रत्ययः इति ॥५७॥
अत्रचोदयति ---सङ्ख्येति ।
परिहरति--- न तावदिति ।
यत्र हि सङ्ख्यादयोऽवगम्यन्ते तत्र कथमत आह--- यत्रापीति ।
सम्भवव्यभिचाराभ्यां हि विशेषणमर्थवद् भवति ।
आकृतिस्तु न तावदेकत्वं व्यभिचरति, द्वित्वादयस्त्वेकत्वान्न सम्भवन्तीति तदाक्षिप्ताया व्यक्तेरेव विशेषणं सङ्ख्यादय इति ॥५८॥
तदेवं तावदनुरञ्जनेन व्यक्तेर्विशेषणमित्युक्तम्, तादर्थ्येन तु क्रियां भावनां सङ्ख्यादयो विशिषन्ति ।
तत्र हि श्रुत्यादिभिर्विनियुज्यन्ते ।
यथा पशोरेकत्वेऽरुणादिषु च वक्ष्यत इत्याह--- पदन्तरेति ।
पदान्तरेति ।
पदान्तरत्वेनात्यन्तविप्रकृष्टाविशेषणतां दर्शयतीति ॥५८ १।२॥
यत्तर्हि वाक्यार्थवृत्तिविशिष्टविषयं गोमदादिपदं तदनुमानं भविष्यत्यत आह--- वाक्यार्थ इति ।
यद्यपि तावदिदं विशिष्टार्थगोचरम्, तथापि नानुमानत्वम् ।
सिद्धो हि धर्मी केनचिद् धर्मेणासिद्धेन विशिष्टः साध्यमानः पक्षो भवति ।
इह तु पदोञ्चारणात् प्राङ् न किञ्चित् प्रतिपन्नम् ।
उच्चरिते तु पदे विशिष्टः प्रतिपन्न एवेति किं साध्यमिति ।
सिद्धत्वमेव


भेदबुद्धेश्च वैषम्यं प्रकृतिप्रत्ययार्थयोः ।
विशेषणविशेष्यार्थस्वातन्त्र्यग्रहमं न च ॥ ५,५.६१ ॥
विशेष्यपूर्विका तत्र बुद्धिश्चात्र विपर्ययः ।
अथ शब्दोर्ऽथवत्त्वेन पक्षः कस्मान्न कल्प्यते ॥ ५,५.६२ ॥
प्रतिज्ञार्थैकदेशो हि हेतुस्तत्र प्रसज्यते ।
पक्षे धूमविशेषे च सामान्यं हेतुरिष्यते ॥ ५,५.६३ ॥
दर्शयति--- तावानिति ।
न तावदगृहीतसम्बन्धः शब्दाद् विशिष्टं प्रत्येति ।
गृहीतसम्बन्धस्तु प्रतिपद्यमानो व्युत्पत्तिकालावगतानन किञ्चिदधिकं प्रत्येतीति कथमनुमानं भवतीति ॥६०॥
अपि चात्र भिन्नयोरेव प्रकृतिप्रत्ययात्मनोः पदभागयोर्भिन्नावेवार्थोप्रतिपन्नौ विशेषणविशेष्यबावमनुभवत इति सिद्धं
वैषम्यमित्याह---भेदबुद्धेरिति ।
इदं तु पाचकादिशब्देषु युक्तं वक्तुम्, तत्र हि (धातुना) पाकः प्रत्ययेन चकर्तृमात्रमुपात्तम् ।
आर्थस्तु विशिष्टप्रत्ययः ।
गोमदादौ तु तदस्यास्तीति विशिष्ट एवार्थे तद्धितः स्मर्यत इति कुतो वैषम्यम्, उक्तमत्रऽतावानेव हीऽति व्युत्पत्तिकालावगतादनधिकविषयत्वम्, इदं तु पाचकादिशब्दार्थ(मे?ए)वोक्तमिति ।
किञ्चानुमाने स्वतन्त्रगृहीत एव पर्वतादिर्विशेष्यः स्वतन्त्रस्मृतेनाग्न्यादिना विशेषणेन विशिष्टोऽवगम्यते ।
शब्देनोभयोः स्वतन्त्रग्रहणमस्तीत्याह--- विशेषणेति ।
ग्रहणमुपलक्षणार्थं, स्मरणं चेत्यर्थः ॥६१॥
वैषम्यान्तरमाह--- विशेष्येति ॥६१ १।२॥
अत्र चोदयति--- अथेति ।
अत्रापि शब्दस्यैव प्रन्थमावगतस्यार्थविशिष्टत्वेन साध्यत्वान्न क्रमव्यतिक्रमो भविष्यतीति ॥६२॥
अत्र दूषणमाह--- प्रतिज्ञार्थेति ।
प्रतिज्ञार्थः पक्षः स च धर्मविशिष्टो धर्मी, विशिष्टापेक्षया धर्म्येकदेश उच्यते ।
स एव हेतुः प्रसज्यते ।
शब्दो हि धर्मितयोपात्तः स एव हेतुरिति ।
ननु यदा दूराद् धूस्याधारविशेषो न लक्ष्यते तदा धूमोऽग्निमत्तया साध्यते, हेतुश्च भवति ।
तद्वदिहापि भविष्यत्यत आह--- पक्ष इति ।
धूमविशेषो हि सम्प्रति


शब्दत्वं गमकं नात्र गोशब्दत्वं निषेत्स्यते ।
व्यक्तिरेव विशेष्यातो हेतुश्चेका प्रसज्यते ॥ ५,५.६४ ॥
भवेत् व्यञ्जकभेदाच्चेन्न त्वेवं प्रत्ययोऽस्तीति नः ।
कथं वास्य विशिष्टत्वं न तावद् देशकालतः ॥ ५,५.६५ ॥
तत्प्रतीतिविशिष्टश्चेत् परं किमनुमीयते ।
न प्रत्यायनशक्तिश्च विशेष्यस्यानुमीयते ॥ ५,५.६६ ॥
दृश्यमानः पक्षः पूर्वावगतः सपक्षः तदनुगतं च सामान्यं हेतुरिति पक्षसपक्षहेतुविभागोपपत्तिरिति ॥६३॥
नन्विहापि शब्दविशेषं पक्षीकृत्य शब्दत्वं हेतुं वक्ष्यामः , अत आह--- शब्दत्वमिति ।
अर्थविशेषो ह्यनुमित्सितः , न चास्य शब्दत्वं गमकमनैकान्तिकत्वादिति ।
नन्ववान्तरसामान्यं तर्हि गोशब्दत्वं हेतुर्भविष्यत्यत आह--- गोशब्दत्वमिति ।
अतोऽत्रैकैव व्यक्तिरर्थेन विशेष्याहेतुतया चाभिधातव्येति दुष्परिहरं प्रतिज्ञार्थैकदेशत्वमित्याभिप्रायेणाह--- व्यक्तिरिति ॥६४॥
ननु व्यञ्जकभेदभिन्नैकैव व्यक्तिः पक्षीकरिष्यते इत्याह--- भवेदिति ।
परिहरति--- न त्विति ।
नौपाधिको भेदो वस्तु भिनत्ति, तत्प्रत्ययानपायादिति भावः ।
अपि च विशिष्टता सम्बन्धे सति भवति, तदिह कीदृशोर्ऽथशब्दयोशब्दयोः सम्बन्ध इत्याह--- कथं वेति ।
न तावत् शब्ददेशेर्ऽथो दृश्यते,मुखे हि शब्दः भूमावर्थः ।
नापि शब्दकाले, कलौ कृतयुगार्थस्याभावादित्याह--- न तावदिति ॥६५॥
अर्थार्थप्रतीत्या विशिष्टः शब्दः साध्यते, अस्ति हि सा शब्दकाल इति तदेतदाशङ्कते--- तत्प्रतीतिरिति ।
एतदपि दूषयतीति--- परमिति ।
प्रतीत्या विशिष्टेऽनुमीयमाने सा तावत् पूर्वसिद्धा ग्रहीतव्या ।
सा चेत् ज्ञाता किमपरमनुमीयत इति ।
ननु सम्प्रत्युपलभ्यमानं दुतादिविशेषं पक्षीकृत्य तस्य प्रत्यायनशक्तिविशिष्टता साध्यते सपक्षं च व्युत्पत्तिकाला


विशेषाणां न शक्तिर्हि सैकदेशेऽग्निजातिवत् ।
सामान्यस्यैव शक्त्वे पक्षो हेतुस्तथैव च ॥ ५,५.६७ ॥
तस्मादर्थविशिष्टस्य न शब्दस्यानुमेयता ।
कथं च पक्षधर्मत्वं शब्दस्येह निरुप्यते ॥ ५,५.६८ ॥
न क्रियाकर्तृसम्बन्धादृते सम्बन्धनं क्वचित् ।
राजा भर्ता मनुष्यस्य तेन राज्ञः स उच्यते ॥ ५,५.६९ ॥
वगतविशेषम्,उभयानुगतं गोशब्दसामान्यं हेतुं करिष्यामः , न प्रतिज्ञार्थैकदेशता भविष्यत्यत आह --- न प्रत्यायनेति अयमभिप्रायः न द्रुतादिविशेषाणां देशादिनिबन्धनोर्ऽथेन सम्बन्धो विद्यते ।
प्रत्यायनशक्तिविशिष्टता चापि तेषां न सम्भवतीति ॥६६॥
किमिति न सम्भवत्यत आह---विशेषाणामिति ।
यथा पक्षीकृतस्य महतो धूमस्यैकदेशेऽधस्तादग्निरस्तीति तद्विशिष्टो धूमः साध्यो भवति ।
नैवं द्रुतादिविशेषाणां प्रत्यायनशक्तियोगः ।
तेषां व्यभिचारेणाप्रत्यायक्तवादिति ।
यत्तु तेषां सामान्यं गोशब्दः सप्रत्यायनशक्तिविशिष्टः तत्र च पक्षे स एव पक्षो हेतुश्चेत्युक्तमेवेत्याह सामान्यस्येति ॥६७॥
अतोर्ऽथविशिष्टः शब्दो नानुमेय इत्युपसंहरन्नाह---तस्मादिति ॥६७ १।२॥
एवं तावत् शब्दो न पक्ष इत्युक्तम् ।
यदि त्वर्तं पक्षीकृत्य शब्दो हेतुरित्युच्यते ।
तदप्ययुक्तम् ।
अपक्षधर्मत्वादित्याह---कथं चेति ।
कथं च निरूप्यत इति भावः ॥६८॥
किमिति न निरूप्यतेऽत आह---न क्रियेति ।
कस्याञ्चित् क्रियायां कर्तृतया सम्बद्धं किञ्चित् कस्यचित् सम्बन्धी भवति, क्रियाकारकसम्बन्धपूर्वकत्वात् शेषसम्बन्धानां स्वस्वाम्यादीनामिति ।
तत्र स्वस्वामिसम्बन्धस्तावत् क्रियाकारकसम्बन्धपूर्वक इत्याह--- राजेति ।
प्रतमं हि भरणक्रियायां कर्तृकर्मभावमापन्नौ राजपुरुषौ
स्वस्वामिसम्बन्धमनुभवत इति ॥६९॥


वृक्षस्तिष्ठति शाखासु ता वा तत्रेति तस्य ताः ।
देशेऽग्निमति धूमस्य कर्तृत्वं भवनं प्रति ॥ ५,५.७० ॥
कार्यकारणभावादौ क्रिया सर्वत्र विद्यते ।
न चानवगताकारः सम्बन्धोऽस्तीति गम्यते ॥ ५,५.७१ ॥
न चास्त्यसति सम्बन्धे षष्ठीतत्पुरुषोऽपि वा ।
तस्मान्न पक्षधर्मोऽयमिति शक्या निरूपणा ॥ ५,५.७२ ॥
निवृत्तेऽन्यत्र सम्बन्धे येऽपि तद्विषयात्मना ।
वदेयुः पक्षधर्मत्वं शब्दस्यानुपलब्धिवत् ॥ ५,५.७३ ॥
एवमवयवावयविसम्बन्धोऽपि क्रियागर्भ इत्याह---वृक्षैति ।
वृक्षोऽवयवी ह्यवयवेषु तिष्ठतीति प्रतीतिः ।
कदाचित्त्ववयवा एव शाखादयस्तस्मिन्निति प्रतीतिः ।
तदेवं स्थितिक्रियाकर्तृभावनिबन्धनोऽवयवावयविसमम्बन्ध इति ।
एवं संयोगोऽपि क्रियागर्भ एवेत्याह--- देश इति ।
अग्निमद्देशे भवने कर्ता भवन् धूमोऽग्निमतो देशस्य संयोगी भवतीति॥
एवं कार्यकारणभावादयोऽपि सम्बन्धाः क्रियाकारकसम्बन्धपूर्वका इत्याह---कार्येति ।
किण्वं हि सुराया बीजं सुरात्मके परिणामे कर्तृभवत्सुरायाः कारणमित्युच्यते ।
तथा समूहसमूहिसम्बन्धोऽपि ।
सेनाकार्यं प्रतिपक्षजयमंशेन कुर्वन् हस्ती सेनायाः सम्बन्धितयोच्यत इति ।
शब्दार्थयोस्तु न कश्चिदेवबाकारः सम्बन्धस्यावगम्यते ।
न चानिरूपिताकारः सम्बन्धोऽस्तीति शक्यते वक्तुमित्याह--- न चेति ।
न च सम्बन्धमन्तरेण पक्षस्य धर्म इति विग्रहगता षष्ठी पक्षधर्म इति च तत्पुरुषसमासो वा घटत इत्याह---न चास्तीति ।
वृत्तिविग्रहावपि नोपपन्नाविति ।
उपसंहरति--- तस्मादिति ॥७२॥
अन्ये तु शब्दोर्ऽथविषय इत्येवं तद्धर्मतामाहुः ।
यथानुपलब्धिरभावे प्रमेय वक्ष्यते ।
तदेतदुपन्यस्यति---निवृत्तैति ॥७३॥


तैरप्येतन्निरूप्यं तु शब्दस्तद्विषयः कथम् ।
न तद्देशादिसद्भावो नाभिमुख्यादि तस्य वा ॥ ५,५.७४ ॥
तस्मादुत्पादयत्येष यतोर्ऽथविषयां मतिम् ।
तेन तद्विषयः शब्द इति धर्मत्वकल्पना ॥ ५,५.७५ ॥
तत्र वाचकतायां च सिद्धायां पक्षधर्मता ।
न प्रतीत्यङ्गतां गच्छेन्न चैवमनुमानता ॥ ५,५.७६ ॥
गमकत्वाच्च धर्मत्वं धर्मत्वाद् गमको यदि ।
स्यादन्योन्याश्रयत्वं हि तस्मान्नैषापि कल्पना ॥ ५,५.७७ ॥
न चागृहीतसम्बन्धाः स्वरूपव्यतिरेकतः ।
शब्दं जानन्ति येनात्र पक्षधर्ममतिर्भवेत् ॥ ५,५.७८ ॥
एतदपि नोपपन्नमित्याह--- तैरपीति ।
न केनापि प्रकारेण विषयविषयिभावो घटत इत्यर्थः ।
यथा न घटते तदेतदाह--- न तदिति ॥७४॥
सर्वप्रकारासम्भवात् पारिशेष्येण तद्विषयबुद्धिजनकतया तद्विषयता वक्तव्या, एवं च तद्विषयबुद्धिजनकत्वस्य वाच्यवाचकभावमन्तरेणानुपपत्तेस्तदभ्युपमगः कारः ।
तत्सिद्धौ च न प्रतीत्यङ्गं पक्षधर्मता ।
न चापक्षधर्मजनिता
प्रतीतिरनुमानमित्याह--- तस्मादिति द्वयेन ॥७५,७६॥
यदि तु पक्षधर्मतैव तद्विषयबुद्धिजजने हेतुरिष्यते ।
ततस्तव्यतिरेकेण पक्षधर्मताया एवपानुपपत्तेरितरेतराश्रयत्वमतो नेयमपि कल्पना घटत इत्याह---गमकत्वादिति ॥७७॥
इतश्च न पक्षधर्मतेत्याह---न चेति ।
अनवगतवाच्यवाचकसम्बन्धाः स्वरूपातिरेकेण न शब्दं कस्यचिद् धर्मतया जानन्ति ।
येन पक्षधर्मबुद्धिः शब्दे भवेदिति ॥७८॥


न च स्वरूपमात्रेण धूमादेः पक्षधर्मता ।
न चापि पूर्वसम्बन्धमपेक्ष्यैषा प्रसज्यते ॥ ५,५.७९ ॥
धूमवानयमित्येवमपूर्वस्यापि जायते ।
पक्षधर्ममतिस्तेन भिद्येतोत्तरलक्षणात् ॥ ५,५.८० ॥
न त्वत्र पूर्वसम्बन्धादधिका पक्षधर्मता ।
न चार्थप्रत्ययात् पूर्वमित्यनङ्गमियं भवेत् ॥ ५,५.८१ ॥
न च धर्मी गृहीतोऽत्र येन तद्धर्मता भवेत् ।
पर्वतादिर्यथा देशः प्राग्धर्मत्ववधारणात् ॥ ५,५.८२ ॥
यश्चात्र कथ्यते धर्मी प्रमेयोऽस्य स एव नः ।
न चानवधृते तस्मिन् तद्धर्मत्वावधारणात् ॥ ५,५.८३ ॥
स्वरूपमात्रविज्ञानं तु न धूमादौ पक्षधर्मतायां हेतुः , अपि तु धर्मिसम्बन्धः ।
न चासावस्तीत्यभिप्रायेणाह---नचेति ।
नन्वत्राप्यर्थेन धर्मिणा प्रतमं व्युत्पत्तिकाले सम्बन्धोऽवगत एव, आह--- न चापीति ॥७९॥
पूर्वसम्बन्धनिरपेक्ष एवायमव्युत्पन्नसम्बन्धस्यापि पक्षधर्मसम्बन्धो मासते, न चात्र तथेत्याह---धूमवानितिमतिरन्तेन ।
यत एव तन्निरपेक्षोऽयं पक्षधर्मसम्बन्धः , अत एव तदुत्तरस्मात् सपक्षसत्त्वलक्षणाद् भिद्यते, अन्यथा तदभेद एव स्यादित्याह--- तेनेति ।
त्रीणि हेतोर्लक्षणानि पक्षधर्मता सपक्षे सत्ता विपक्षाद् व्यावृत्तिः ।
तत्र च पक्षधर्मताया उत्तरं सपक्षसम्बन्धमुत्तरलक्षममपदिशतीति ॥८०॥
शब्दे त्वेवं नास्तीत्याह--- न त्वत्रेति ।
पूर्वसम्बन्धापेक्षया चेयमवगम्यमानार्थप्रतीत्युत्तरकालमवगम्यते ।
अतो न तदङ्गमित्याह--- नचेति॥
इतश्च न पक्षधर्मतेत्याह---न च धर्मीति ।
अर्थादन्यस्तावद् धर्मी न प्रमीयत इति भावः ॥८२॥
यस्त्वसावर्थो धर्मितया कल्पनीयः , यद्धर्मतयावगतः शब्दः पक्ष
प्राक् स चेत् पक्षधर्मत्वाद् गृहीतः किं ततः परम् ।
पक्षधर्मादिभिर्ज्ञातैर्येन स्यादनुमानिता ॥ ५,५.८४ ॥
अन्वयो न च शब्दस् प्रमेयेन निरूप्यते ।
व्यापारेण हि सर्वेषामन्वितत्वं प्रतीयते ॥ ५,५.८५ ॥
यत्र धूमोऽस्ति तत्रापग्नेरस्तित्वेनान्वयः स्फुटः ।
न त्वेवं यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चयः ॥ ५,५.८६ ॥
न तावदत्र देशेऽसौ तत्काले वावगम्यते ।
भवेन्नित्यविभुत्वाच्चेत् सर्वार्थेषु च तत्समम् ॥ ५,५.८७ ॥
तेन सर्वत्र दृष्टत्वात् व्यतिरेकस्य चागतेः ।
सर्वशब्दैरशेषार्थप्रतिपत्तिः प्रसज्यते ॥ ५,५.८८ ॥
अथैवं देशकालाभ्यामसत्यत्वप्रकल्पने ।
वाचकप्रत्ययं कश्चिद् ब्रूयादर्थधियान्वितम् ॥ ५,५.८९ ॥
धर्मो भवति, परस्तादपि स तावानेव प्रमातव्यः ।
तद् यदि पक्षधर्मत्वमवगन्तुमसौ प्रथममेवावगम्यते, ततो गृहीते तस्मिन् किं परभाविना पक्षधर्मादिज्ञानेन अतो नानुमानतेत्याह---यश्चेतिद्वयेन ॥८३,८४॥
अन्वयमिदानीं दूषयति--- अन्वय इति ।
कथं न निरूप्यते, अत आह---व्यापारेणेति ॥८५॥
एतदेव दर्शयति---यत्रेति ।
इह त्वेवं नास्तीत्याह---न त्विति ॥८६॥
कथं नेत्यत आह--- न तावदिति ।
इदं च पूर्वमेवोक्तमिति ।
ननु वैभवाच्छब्दस्य नित्यत्वाच्चार्थस्य शब्दार्थयोः शक्यतेऽन्वयो दर्शयितुमित्याह--- भवेदिति ।
परिहरति---सर्वार्थोष्विति ॥८७॥
किमतो यद्येवमत आह---तेनेति ॥८८॥
प्रकारान्तरेण सम्बन्धमाशङ्कते---अथैवामिति ॥८९॥


नैवमप्यस्ति दृष्टो हि विनाप्यर्थधिया क्वचित् ।
वाचकप्रत्ययोऽस्माभिरव्युत्पन्ननरान् प्रति ॥ ५,५.९० ॥
द्वितीयादिप्रयोगे च भवेदन्वयकल्पना ।
शतकृत्वः प्रयुक्तेऽपि न च दृष्टार्थधीः क्वचित् ॥ ५,५.९१ ॥
ननु ये ज्ञातसम्बन्धास्तेषां दृष्टोऽन्वयः स्फुटः ।
यद्येवमन्वयात्पूर्वं सम्बन्धः कोऽपि कल्पितः ॥ ५,५.९२ ॥
नाङ्गमर्थधियामेषा भवेदन्वयकल्पना ।
अन्वयाधीनजन्मत्वमनुमानस्य च स्थितम् ॥ ५,५.९३ ॥
ज्ञाते प्रतीतिसामर्थ्ये त्दवशादेव जायते ।
पश्चादन्वय इत्येष कारणं कथमुच्यते ॥ ५,५.९४ ॥
एतदपि दूषयति---नैवमिति ।
कारणमाह--- दृष्टो हीति (अस्मा)भिरन्तेन ।
क्व दृष्टः अत आह--- अव्युत्पन्नेति ॥९०॥
ननु द्वितीयादिप्रयोगे शब्दार्थप्रत्यययोरन्वयो ग्रहीष्यत इत्याशङ्कते---द्वितीयादीति ।
एतदपि दूषयति--- शतकृत्व इति ।
शतकृत्वः प्रयोगेऽप्यजिज्ञासासुर्न सम्बन्धं बुध्यते ।
अविदितसम्बन्धश्च नार्थं प्रत्येतीति ॥९१॥
ननु ज्ञातसम्बन्धस्य तावन्न शब्दज्ञानमर्थज्ञानं व्यभिचरति ।
तस्यैव चानुमानत्वमिष्यत इत्याह---नन्विति ।
परिहरति--- यद्येवमिति ।
यदि ज्ञातसम्बन्धस्यान्वयः , अन्य एव तर्हि सम्बन्धः शब्दार्थयोरभ्युपगम्यत इति ॥९२॥
ततः किमत आह---नाङ्गमिति ।
यदि नाङ्गं , किं जातमत आह---अन्वयेति ।
असत्यन्वये ज्ञानं नानुमानमिति भावः ॥९३॥
अन्वयस्तु पूर्वावगतप्रतीतिसामर्थ्यानुसारेणैव जायमानो नार्थग्रहीतौ कारणमित्याह--- ज्ञात इति ॥९४॥


त्समात्तन्निरपेक्षैव शब्दशक्तिः प्रतीयते ।
न च धूमान्वयत्पूर्वं शक्तत्वमवगम्यते ॥ ५,५.९५ ॥
व्यतिरेकोऽप्यविज्ञातादर्थात् शब्दधियो यदि ।
सोऽपि पश्चाच् स्थितत्वेन नार्थप्रत्ययसाधनम् ॥ ५,५.९६ ॥
सम्बन्धं यं तु वक्ष्यामस्तस्य निर्णयकारणम् ।
स्यादन्वयोऽतिरेकश्च न त्वर्थाधिगमस्य तौ ॥ ५,५.९७ ॥
तस्मादननुमानत्वं शब्दे प्रत्यक्षवद् भवेत् ।
त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् ॥ ५,५.९८ ॥
सति चास्य प्रमाणत्वे भेदाबेदनिरूपणा ।
युक्ता न तु पदज्ञानात् पदार्थोऽत्र प्रमायते ॥ ५,५.९९ ॥
उपसंहरति---तस्मादिति ।
अनुमाने तु नान्वयात्पूर्वं गमकत्वसिद्धिरित्याह---न चेति ॥९५॥
व्यतिरेकमिदानीं दूषयति--- व्यतिरेक इति ।
न ह्यनवगतेर्ऽथे तज्ज्ञानेन विना शब्दज्ञानं भवतीति व्यतिरेकः शक्यतेऽवगन्तुम् ।
अवगतश्चेदर्थः किं व्यतिरेकाश्रणेनेति ॥९६॥
किमिदानीमनुपयोगिनावन्वयव्यतिरेकौ शब्दे नेत्याह--- सम्बन्धमिति ।
शक्तिनि (ष्कर्षे) योर्व्यापारो वाच्यवाचकरूपः शब्दार्थयोः सम्बन्ध इति ॥९७॥
एवं च त्रैलक्षण्यपरित्यागेनाननुमानत्वं प्रसाध्य प्रयोगेण दर्शयति---तस्मादिति ।
शब्दो नानुमानं त्रैरूप्यरहितत्वात्
प्रत्यक्षवत् ।
तादृग्विषयवर्जनात् ।
तद्वदेव तादृक् ।
विषयवर्जनं चऽसामान्यविषयत्वं हीऽत्यादिना वर्णितमेवेति ॥९८॥
इदं च पदस्यानुमानाद् भेदप्रतिपादनं प्रौढिप्रदर्शनार्थमस्माभिः कृतम् ।
न तुपदं प्रमाणमित्याह--- सतीति ॥९९॥


पदं प्रयुज्यमानं हि चतुर्धार्थे प्रयुज्यते ।
प्रत्यक्षे च परोक्षे च ज्ञातेऽज्ञातेऽपि वा पुरा ॥ ५,५.१०० ॥
तत्र यत्पूर्वविज्ञाते प्रत्यक्षे च प्रयुज्यते ।
प्रमिते च प्रयुक्तत्वादनुवादोऽधिकाद् विना ॥ ५,५.१०१ ॥
अदृष्टपूर्वे त्वज्ञानं सम्बन्धप्रत्ययोऽपि वा ।
सम्बन्धो न च तस्यार्थो योर्ऽथः स त्वक्षगोचरः ॥ ५,५.१०२ ॥
परोक्षेऽननुभूते च नाभिधेये मतिर्भवेत् ।
परोक्षश्चानुभूतश्च यस्तत्र स्मृतिरिष्यते ॥ ५,५.१०३ ॥
प्रमिते च प्रवृत्तत्वात् स्मृतेर्नास्ति प्रमाणता ।
परिच्छेदफलत्वाद्धि प्रामाण्यमुपजायते ॥ ५,५.१०४ ॥
यथा न प्रमाणं तथा दर्शयति--- पदमिति ।
तानेव चतुरः प्रकारानाह--- प्रत्यक्ष इति ॥१००॥
एष्वर्थेषु प्रयुक्तस्य यथा न प्रामाण्यं तथाह--- तत्रेति ॥१०१॥
अदृष्टपूर्वे तु सम्प्रति प्रत्यक्षेऽनुत्पत्तिलक्षममेवाप्रामाण्यमित्याह---अदृष्टपूर्वैति ।
सम्बन्धज्ञानमेव वा तदा जायत इत्याह--- सम्बन्धेति ।
न च सम्बन्ध एव पदस्य प्रमेय इति वाच्यम्, तस्यार्थापत्तिप्रमेयत्वादित्यभिप्रायेणाह--- सम्बन्ध इति ।
तदर्थस्तु प्रत्यक्षादवगत इत्याह--- योर्ऽथ इति ॥१०२॥
णननुभूतपूर्वे परोक्षे च ज्ञानानुत्पत्तिरेवेत्याह---परोक्षैति ।
अनुभूते तु परोक्षे स्मृतिरित्याह--- परोक्ष इति ॥१०३॥
ननु स्मृतिमेव जनयत् प्रमाणं भविष्यत्यत आह--- प्रमित इति ।
प्रमितविषया हि स्मृतिः , सन्निकृष्टार्थगोचरं च प्रमाणमिति स्थितिरिति ।
कथं पुनः प्रमितविषयं न प्रमाणमत आह--- परिच्छेदेति ।
परिच्छेदफलं हि प्रमाणम् ।
न च स्मृत्या किञ्चित् परिच्छिद्यते, पूर्वविज्ञानमात्रोपस्थापकत्वादिति ॥१०४॥


तादात्विकपरिच्छेदफलत्वेन प्रमाणता ।
प्रत्यभिज्ञानवत् कस्मात् स्मृतेऽपि न कल्प्यते ॥ ५,५.१०५ ॥
यावान् पूर्वपरिच्छिन्नस्तावानेवाधार्यते ।
स्मृत्या तदनुसारेण तदा सत्त्वेऽस्य नैव धीः ॥ ५,५.१०६ ॥
पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते ।
यदाधिक्यं भवेत् किञ्चित् तत्पदस्य न गोचरः ॥ ५,५.१०७ ॥
प्रमाणमनुमानं वा यद्यपि स्यात्पदान्मितिः ।
वाक्यार्थस्यागमार्थत्वाद् दोषो नागमवादिनाम् ॥ ५,५.१०८ ॥
अत्र चोदयति---तादात्विकेति ।
यद्यपि पूर्वमसावर्थोऽवगतः , तथापि तदानीं सत्तां बोधयन्ती प्रत्यभिज्ञानवत् स्मृतिः प्रमाणं किमिति न भवतीति ॥१०५॥
परिहरति---यावानिति ।
उत्पद्यते स्मृतिरन्यदा, न तु प्रत्यभिज्ञानवत् तदनीं वस्तुः सत्तां निश्चाययति, पूर्वज्ञानानुसारित्वादिति ॥१०६॥
ननु पूर्वसंस्कारमात्रजा हि स्मृतिः , इदं तु प्रत्युत्पन्नकारणकं पदात् पदार्थज्ञानं ग्रहणमेव, कथं स्मृतिरुच्यते ।
अत आह---पदमिति ।
मा भूत् स्मरणं, ग्रहमपीदमनधिकविषयमेवाधिकप्रतिभासाभावात्, अतो न पदं स्मारकेभ्यः सदृशादृष्टादिभ्यो विशिष्यत इत्यप्रमाणमिति ।
ननु क्रियाकारकयोरन्यतरोच्चारणेऽवश्यमन्यतरस्यान्यतरव्यतिषङ्गो बुद्धौ भवति ।
अतः कथमुच्यते नाधिक्यमवगतम्यत इत्यत आह--- यदाधिक्यमिति ।
पदान्तरस्यैवासौ प्रसादौ न पदस्यैकस्यैवेत्यर्थः ॥१०७॥
इदं चास्माभिः सौहृदमात्रेण शिष्येभ्यः कथ्यते न पदं प्रमाणमिति ।
न तु तत्प्रमाणत्वे वाक्यार्थो नागमार्थो भवति ।
तेन हि प्रमाणेनापि भवतावश्यं पदार्थे भवितव्यम् ।
अतः प्रमाणान्तरानधिगतमर्थ गमयद्वाक्यं प्रमाणमेव ।
एवमनुमानान्तर्गतत्वेऽपि पदस्य न काचित् क्षतिः , वाक्यार्थस्याननुमेयत्वादित्याह्--- प्रमाणमिति ॥१०८॥


वाक्यार्थे तु पदार्थेभ्यः सम्बन्धानुभवादृते ।
बुद्धिरुत्पद्यते तेन भिन्नासावक्षबुद्धिवत् ॥ ५,५.१०९ ॥
वाक्याधिकरणे चास्य हेतोः सिद्धिर्भविष्यति ।
सर्वेषां च परोक्तानां वाक्याद् बुद्धावसिद्धता ॥ ५,५.११० ॥
आह वाक्यार्थज्ञानस्यैव कथमननुमानत्वं, तदप्यालोचितानुगमनमनुमानमेवात आह---वाक्यार्थैति ।
अगृहीतसम्बन्धा एव पदार्थाः वाक्यार्थं गमयन्ति ।
अतो न वाक्यार्थज्ञानमनुमानम् ।
एवञ्च दर्शयितव्यं वाक्यार्थबुद्धरनुमानाद् भिन्ना सम्बन्धनुभवादृते जायमानत्वाद् अक्षबुद्धिवदिति ॥१०९॥
कथं पुनरप्रतिबद्धमर्थान्तरस्य प्रतिपादकम्, एवं ह्यतिप्रसङ्गः ।
अतोसिद्धो हेतुरत आह---वाक्येति ।
ये च परैः पदार्थबुद्धेरनुमानादभेदहेतव उक्ताः , ते तावद् बहवो वाक्यार्थबुद्धावसिद्धा इत्याह--- सर्वेषामिति ।
वाक्यार्थबुद्धिर्हि न तावदन्वयव्यतिरेकजा ।
नाप सम्बन्धत्वात् ।
सामान्यविषयत्वमप्यसिद्धं विशिष्टविषयत्वात् ।
प्रत्यक्षान्यप्रमाणत्वतददृष्टार्थबोधने तूपमानादीनि प्रसाध्य नैकान्तिकीकार्ये ।
तददृष्टार्थबोधनं चानुमानाभासैरप्यनैकान्तिकम् ।
एवं त्रिकालविषयमप्यनुमानाभासेतत्राप्यसिद्धमेव ।
उक्तं हि शब्दशक्तिनिर्धारणेऽतयोर्व्यापारो न बुद्धिजन्मनीऽति ।
सम्बन्धपूर्वकत्वं तु यद्यविशेषितं तत् प्रत्यक्षेणैवानैकान्तिकम्, तदपि हीन्द्रियार्थसम्बन्धपूर्वकमेव ।
अथानुमानाङ्गसम्बन्धपूर्वकत्वं, तदसिद्धम्, व्याप्तिर्हि तदङ्गम् ।
न च पदात् पदार्थज्ञाने व्याप्तिः कारणम् ।
सामान्यनिषयत्वं चाभासेनैवानैकान्तिकमेव प्रत्यक्षदर्शन(प्रभवत्व) प्रत्यक्षान्यप्रमाणत्वतददृष्टार्थबोधननानि तूपमानादिभिरपीति ॥११०॥
यत एवैवं वाक्यार्थबुद्धः सहार्थैरदृष्टेष्वपि वाक्येषु पदार्थमात्रविदो जायते ।
अतोऽस्याः स्फटतरमनुमानाद् भेदं पश्यन्तः सौगतास्ततोऽवतीर्यागमस्यामानव्यतिरेकात् विभ्यतः पदाबेदविचारणायामेव क्लिष्टाः ।
एवं हि


वाक्येष्वदृष्टेष्वपि सार्थकेषु पदार्थविन्मात्रतया प्रतीतिम् ।
दृष्ट्वानुमानव्यतिरेकभीताः क्लिष्टाः पदाभेदविचारणायाम् ॥ ५,५.१११ ॥
इति शब्दवार्तिकम् ।
------------------------------------
***********************************************************
अथोपमानपरिच्छेदः ।
कीदृग्गवय इत्येवं पृष्टो नागरिकैर्यदि ।
ब्रवीत्यारण्यको वाक्यं यथा गौर्गवयस्तथा ॥ ५,६.१ ॥
मन्यते ।
अस्तु तावत्पदमप्यनुमानादभिन्नम् ।
एतावतापीह शब्दानुमानयोरैक्यमिति वाक्य प्रवर्तत सोपहासमाह --- वाक्येष्विति ॥१११॥
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
शब्दपरिच्छेदः समाप्तऽ॥
अथोपमानपरिच्छेदः ।
ऽुपमानमपि सादृश्यमसन्निकृष्टेर्ऽथे बुद्धिमुत्पादयति ।
यथा गवयदर्शनं गोस्मरमस्येऽकि भाष्यम् ।
अस्यायं तात्पर्यार्थः --- उपामानमपि न परीक्षणीयम्, एवं लक्षमकत्वेनाव्यभिचारादिति ।
अवयवार्थस्त्वेकत्र दृश्यमानं सादृश्यं प्रतियोग्यन्तरे दृश्यमानप्रतियोगिसादृश्यविशिष्टतयासन्निकृष्टेर्ऽथे यां बुद्धिमुत्पादयतिऽेतत्सादृश्यविशिष्टोऽसाऽविति, सोपमानमिति, सोपमानमिति च यत्तदोरध्याहारः ।
न च वाच्यं विषयविशेषानुपादानात् कथं सादृश्यविशिष्टविषया बुद्धिरवगम्यत इति, प्रसिद्धप्रमाणानुवादेन ह्यत्रापरीक्षा प्रतिपाद्यते ।
लोके च सादृश्यविशिष्टविषयैव


एतस्मिन्नुपमानत्वं प्रसिद्धं शावरे पुनः ।
तस्यागमाबहिर्भावादन्यथैवोपवर्णितम् ॥ ५,६.२ ॥
पुरुषप्रत्ययेनैव तत्रार्थः सम्प्रतीयते ।
बुद्धिरुपमानमिति प्रसिद्धम् ।
अतो न दोषः ॥ ५,६.३ ॥
दृश्यमानविशेषमेकदेशदर्शनादितिवदनुपात्तमिति चेद् न ।
उदाहरणे उपादानात् ।
एवं ह्याह---ऽयथा गवयदर्शनं गोस्मरणस्येऽति ।
अस्यार्थः --- दृश्यतेऽस्मिन्निति दर्शनं, अधिकरणे ल्युट् ।
गवयो दर्शनमस्येति गवयदर्शनम् ।
सादृश्यमन्यपदार्थः ।
एतदुक्तं भवति--- गवये दृश्यमानं सादृश्यमिति ।
अत्रोदाहरमानुसारेण लक्षमवाक्येऽपि
दृश्यमानमेव सादृश्यमानमेव सादृश्यमभिमतमिति गमय्ते ।
गोस्मरणस्येति चऽनन्दिग्रहीः (पा-३-१-१३४) त्यादिना कर्तरि ल्युः ।
गां स्मरतः प्रमातुः ।
यथा गवये दृश्यमानं सादृश्यमेतत्सदृशागौरिति बुद्धिमुत्पादयतीति ।
सङ्गतिस्तु प्रसिद्धिबाहुल्यात् शाब्दानन्तरमुपमानमिति प्रगेवोक्तम् ।
अत्र चोदयति--- प्रसिद्धप्रमाणानुवादेनात्रापरीक्षा प्रतिपाद्यते ।
अतो यथा नैयायिकोक्तमुपमानं प्रमाणमाश्रीयते, एवं तदुक्तमेवोपमानलक्षणमाश्रयितुमुचितम् ।
एवं हि तैरुक्तं---ऽप्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमिऽति ।
अस्यार्थः --- प्रसिद्धेन गवादिना साधर्म्यात् साध्यस्याप्रसिद्धस्य गवयादेः कञ्चिदनभिज्ञं प्रति साधनं प्रज्ञापनं यादृशो गौस्तादृशो गवय इचि वाक्यं, तज्जनिता वा बुद्धिरुपमानमिति ।
तदेतत्परिहारेण लक्षणान्तरप्रणयने कारणं वाच्यमित्यत आह--- कीदृगिति द्वयेन ।
सत्यं नैयायिकैरिदमुक्तम् ।
न तु युक्तम् ।
अनन्तरोक्तागमाबहिर्भावात् ।
शब्दविज्ञानाद्धीदमसन्निकृष्टेर्ऽथे विज्ञानम् ।
अतोऽन्यथैव शाबरे तन्त्रे उपमानं वर्णितमिति ॥१,२॥
नैयायिकागमलक्षणानुसारेणाप्यस्यागमत्वमवगम्यत इत्याह--- पुरुषेति ।
एवं हि नैयायिकानां शाब्दलक्षणम्ऽाप्तोपदेशः शब्दः इति ।
अत्रापि चाप्तपुरुषप्रत्येनैवापरिदृष्टे गवयादौ सादृश्येन सम्प्रत्ययो भवति ।
नानाप्ता(द्धि?द्वि) संवादात् ।
अत आप्तस्यैवेदं वचनमव्यभिचाररीति मत्वा तदबलभावी निश्चयो जायते, तेषामप्यागम एवेति ॥३॥
तदीयवचनत्वेन तस्मादागम एव सः ॥३॥


सदृशादुपजायेत या मतिः सदृशान्तरे ।
ध्यानादिस्मृतितुल्यत्वात् सा प्रमाणं कथं भवेत् ॥ ५,६.४ ॥
देशकालादिभेदेन यथान्यत्र विशिष्यते ।
प्रमेयं नैवमस्त्यत्र नगरस्थानुसारतः ॥ ५,६.५ ॥
श्रुततिदेशवाक्यानामारण्ये गवये मतिः ।
या सोपमानं केषाञ्चिद् गोसादृश्यानुरञ्जिता ॥ ५,६.६ ॥
ननु शाबरेऽपि ह्यदृशदर्शनात् सदृशान्तरे ज्ञानमुपमानमिति वर्णितम् ।
एतदपि स्मरणाबहिर्भावादप्रमाणमेव ।
यथा हि किञ्चिद् ध्यायतः स्मरणं भवति, एवं सदृशदर्शिनोऽपि सदृशान्तरे स्मरणम्, अतो न ध्यानादिजन्मना स्मृत्या सहास्याः कश्चिद् विशेषः ।
अतोऽप्रमाणमित्याह--- सदृशादिति ।
नैयायिकलक्षणं तावदागमाबहिर्भावि ।
शाबरं त्वप्रमाणमेव क्षङ्गृह्णातीति ॥४॥
ननु स्मृतिसम्भिन्नमपि देशादिभेदेन जायमानं प्रत्यभिज्ञानं प्रमाणं दृष्टम् ।
एवमिहापि गां नगरे दृष्टवतो वने गवयदर्शनस्तद्भानं प्रमाणं भवत्यत आह---देशकालादीति ।
न खलु देशादिभेदः सन्मात्रतया प्रामाण्ये कारणम्, अपि तर्हि प्रमेयतया, न चेह देशान्तरादिविशिष्टो गौः प्रमीयते, अपि तु नगरावगतः सम्प्रत्यपि तत्स्थ एव स्मर्यत इति ॥५॥
नैयायिकैकदेशिनां मतमुपन्यस्यति---श्रुतेति ।
येन किलातिदेशवाक्यं श्रुतं यादृशो गौस्तादृशो गवय इति, तस्य श्रुतादिदेशवाक्यस्य वनं प्राप्तस्य यत् स्वयमसौ गोसदृशो गवय इति सादृश्यानुरञ्जितं गवयज्ञानमिदमुपमानमिति ॥६॥


प्रत्यक्षो गवयस्तावत् सादृश्यस्मृतिरत्र तु ।
ननु सादृश्ययुक्तेर्ऽथे न स्मृतिर्नैन्द्रियाद् गतिः ॥ ५,६.७ ॥
पूर्ववाक्यार्थविज्ञानान्नाधिक्यं गवये यदि ।
स्मरणादविशिष्टत्वात् सङ्गतेर्न प्रमाणता ॥ ५,६.८ ॥
अथ त्वधिकता काचित् प्रत्यक्षादिवशाद् भवेत् ।
यावद्धीन्द्रियसम्बद्धे१ तत्प्रत्यक्षमिति स्मृतम् ॥ ५,६.९ ॥
एतदपि दूषयति---प्रत्यक्ष इति ।
गवयस्तावदिन्द्रियसन्निकर्षात् प्रत्यक्षेण प्रतीयते ।
गोसादृश्यमप्यतिदेशवाक्यादवगतं स्मर्यत इति नोपमेयमस्तीति ।
अत्र चोदयति--- नन्विति ।
अयमभिप्रायः --- गोसादृश्यविशिष्टो ह्यत्र गवयोऽवगम्यते ।
न च तत्प्रत्यक्षं, गोरप्रत्यक्षत्वात् ।
तद्विशिष्टो गवय उपमानस्य विषयः ।
न ह्यसौ प्रत्यक्षेणावसीयते, गवयमात्रविषयत्वात् तस्य ।
न चागमादवगतः स्मर्यते, सामान्यविषयत्वादागमस्य ।
इह चायमसाविति विशेषप्रतिभानादिति ॥७॥
एतदपि विकल्प्य दूषयति---पूर्वेतिसार्धेन ।
इदमत्र विकल्पनीयम्---- अतिदेशवाक्यादवगतात् किञ्चिदधिकमवगम्यते न वा, यदि नेत्याह, ततः स्मरणादविशिष्टा सङ्गतिरियमप्रमाणम् ।
यथा पदात् पदार्थज्ञानं प्रत्युत्पन्नकारणजत्वेनास्मरणमप्यनधिकवि,यत्वादप्रमाणम्, एवमिहाप्यतिदेशवाक्यावगतगोसादृश्यविशिष्टवगयज्ञानम् ।
यदि
तर्हि प्रत्यक्षादेव लभ्यत इति न प्रमाणान्तरावकाश इति ॥८ १।२॥
ननुक्तमसन्निहिते गवितत्सादृश्यस्याप्रत्यक्षात्वान्न तद्विशिष्टो गवयः प्रत्यक्षेणावगन्तुं शक्यत इति सावकाशं प्रमाणान्तरमित्यत आह--- यावद्धीति ।
यावदिन्द्रियव्यापारानन्तरमपरोक्षं भासते तन्नः प्रत्यक्षम् ।
तथा च सादृश्यविशिष्टो गवय इति कथमप्रत्यक्षो भविष्यति ।
प्रतिजाति कृत्स्नपरिसमाप्तमेव जातिवत् सादृश्यमित्यप्रत्यक्षेऽपि गवि तत्सादृश्यविशिष्टगवयप्रत्यक्षमुपपद्यत एवेति भावः ॥९॥


स्मर्यमाण्स्य चांशस्य विवेके नाप्रमाणता ।
श्रुतातिदेशवाक्यत्वं न चातीवोपयुज्यते ॥ ५,६.१० ॥
येऽपि ह्यश्रुततद्वाक्यास्तेषामपि भवत्ययम् ।
प्रत्यक्षदृष्टगोत्वानां वने गवयदर्शिनाम् ॥ ५,६.११ ॥
अथ संज्ञानुसन्धानं तेषां नास्तीति वर्ण्यते ।
न नाम्, वस्तु तत्तावत् सर्वथा तैः प्रतीयते ॥ ५,६.१२ ॥
न च शब्दार्थसम्बन्धः प्रमेयोऽत्र तदेष्यते ।
सादृश्यावधृते वाक्ये वाक्यादवगतो ह्यसौ ॥ ५,६.१३ ॥
न चशब्दादिस्मरणसम्बेदादप्रमाणता, गृह्यमाणस्मर्यमाणयोर्विवेकस्य सविकल्पकसिद्धौ फणितत्वादित्याह---स्मर्यमाणस्येति ।
विवेके सति नाप्रमाणतेत्यर्थः ।
श्रुतातिदेशवाक्यविशेषणोपादानस्यापि न फलमुपलभ्यत इत्याह--- श्रुतेति ॥१०॥
कथं नोपयुज्यते---येऽपीति ।
गोसादृश्यविशिष्टगवयदर्शनं चेदुपमानमभिमतं तदाश्रुततद्वाक्यानामपि नगरे गां दृष्टवतां वने गवयं पश्यतामस्त्येवेति मन्दं विशेषणफलमिति ॥११॥
नन्वश्रुतातिदेशवाक्यानामयमसौ गवय इति संज्ञानुसन्धानं नास्ति, इतरेषामस्तीत्ययमस्ति विशेष इत्याह---अथति ।
परिहरति--- न नामेति ।
यदुपमानस्य प्रमेयमभिमतं तत्तावत्तेऽपि जानन्ति ।
संज्ञित्वं मा नामानुसन्धीयतामिति ॥१२॥
स्यान्मतम्--- संज्ञासज्ञिसम्बन्ध एवोपमानस्य विषयः ।
यथोक्तं न्यायविस्तरे---"समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थ"इति ।
विवृतं च---"यथा गौरिव गवय इत्युक्ते गवा समानार्थमिन्द्रियसन्निकर्षादुपलभमानोऽस्य गवयशब्दः संज्ञेति संज्ञासंज्ञिसम्बन्धं प्रतिपद्यतः इति ।
न चाश्रुतातिदेशवाक्यस्य शब्दमविदुषः समाख्यासम्बन्धप्रतिपत्तिः सम्भवतीति फल


न चास्य प्रत्यभिज्ञानं पुनरुत्पद्यते वने ।
शक्त्योरतीन्द्रियत्वेन स्मृतिरेव हि सेष्यते ॥ ५,६.१४ ॥
शब्दानुविद्धबोधेऽपि प्रत्यक्षमुपपादितम् ।
तस्मात् सादृश्ययुक्तार्थः प्रमेयोऽपूर्व उच्यताम् ॥ ५,६.१५ ॥
वद्विशेषणमत आह--- न चेति ।
कारणमाह--- सादृश्येति ।
अति देशवाक्यादेव गोसादृश्येन गवयशब्दवाच्येर्ऽथेवधारिते व्यक्तिरूपेणानवगतोऽपि शब्दार्थसम्बन्धोऽवगत एव ।
एतद्धि तदावगतं गोसदृशं वस्तु गवयशब्दवाच्यमिति ।
एतावच्च सम्बन्धस्य स्वरूपम्, अतः सूक्तं विशेषणानर्थक्यमिति ॥१३॥
ननु ज्ञातस्यापि सम्बन्धस्य प्रत्यभिज्ञाने प्रामाण्यमविहतमेवात आह---न चेति ।
अत्र कारणमाह--- शक्त्योरिति ।
वाच्यवाचकशक्तिनियमो हि शब्दार्थयोः सम्बन्धः ।
स चातीन्द्रियत्वान्नेह प्रत्यभिज्ञायते ।
पूर्वावगत एवान्यूनानतिरिक्तः स्मर्यते ।
किमिदानीमतीन्द्रिये नैव प्रत्यभिज्ञानमस्ति, यद्येवमनुमानेन कथं पूर्वानुभूतमग्न्यादि प्रत्यभिज्ञायते ।
आह च---ऽगृहीतेऽपि देशादिभेदभिन्ने पुनः प्रमाप्रत्यभिज्ञानुमानात्सात् प्रत्यक्षवदवधारितेऽपीऽति ।
इहापि च वक्ष्यति---
ऽयेन नाम प्रमाणेन ग्रहणं बुद्धिकर्मणोः ।
इति ।
सत्यम् ।
न ब्रूमः परोक्षं न प्रत्यभिज्ञायत इति, यदेतदयमसौ गोसादृश्यविशिष्टो गवय इतीन्द्रियजमपरोक्षावभासं प्रत्यभिज्ञानम्---
अस्य शब्दार्थसम्बन्धः शक्तिरूपो न गोचरः ।
गोसादृश्येन विज्ञानतपूर्वो गवय एव तु॥
इति ।
अत एवऽन चास्येऽति सम्बन्धस्य प्रत्यभिज्ञानविषयत्वं निराकरोति ।
गवयस्त्विह गोसादृश्येनावगत पूर्वऽ
प्रत्यभिज्ञायत इति न किञ्चिदनुपपन्नमिति ॥१४॥
अथोच्येत (वृ?प्रत्य) क्षाद् व्यवर्तयितुं विशेषणोपादानम् ।
श्रुतशब्दोल्लिस्वतमिदं गवयज्ञानमतो न प्रत्यक्षस्य विषय इस्युपमानस्य भविष्यतीत्यत आह---शब्देति ।
शब्दानुविद्धबोधेऽपि हीन्द्रियसम्बन्धा


व्यवसायात्मकत्वं तु प्रत्यक्षस्य यदेष्यते ।
जात्यादिवत् तदा तेन सादृश्यं किं न मीयते ॥ ५,६.१६ ॥
प्रत्यक्षाभासमेतत्तु निर्वकल्पकवादिनाम् ।
प्रमेयवस्त्वभावाञ्च नाभिप्रेता प्रमाणता ॥ ५,६.१७ ॥
नुसारि ज्ञानं शब्दशक्तिपरामर्शजमेवेति प्रत्यक्षमेवेति वर्णितमित्यतो नैकत्रापि लक्षणे उपमानस्य प्रमेयमधिकं पश्याम इति वाच्यमस्यापूर्वं प्रमेयमित्युपसंहरति--- तस्मादिति ॥१५॥
यदि तूच्यते--- प्रतियोगिसापेक्षं सादृश्यग्रहणम् अतो न प्रत्यक्षम्, अर्थेन्द्रियसामर्थ्यमात्रजं हि प्रत्यक्षं ज्ञानं, न तत्पूर्वमपरं वानुसन्धत्ते ।
अतः प्रत्यक्षेऽपि धर्मिणि परोक्षमेव सादृश्यमिति न तद्विशिष्टस्य प्रत्यक्षत्वमिति सावकाशमुपमानमित्यत आह---व्यवसायेति ।
बौद्धानामयं सिद्धान्तः --- यदविकल्पकमापातजं प्रत्यक्षमिति ।
नैयायिकास्तु व्यवसायात्मकप्रत्यक्षवादिनः ।
अतो जात्यादिवत्सादृश्यमपि तेषां किं न प्रत्यक्षेम प्रमीयत इति ॥१६॥
निर्विकल्पकवादिनामपि नेदं प्रमाणान्तरं,प्रत्यक्षाभासत्वादित्याह--- प्रत्यक्षेति ।
एवं तावत् सादृश्यस्य वस्त्वन्तरत्वमङ्गीकृत्य तत्प्रत्यक्षतयोपमानस्य विषयाभावेनाप्रामाण्यमुक्तम् ।
इदानीं बौद्धमतेन सादृश्यापलापमाह---प्रमेयेति ।
निर्विकल्पकप्रत्यक्षवादिनामपि सादृस्यप्रमेयाभावादपमानस्य प्रमाणता नाभिप्रेता ।
अतस्तेषु स्पर्धमानेषु कथमुपमानं प्रमाणम् ।
अयं च तेषामभिप्रायः --- सादृश्यं हि न तावदाश्रयेभ्यो भिन्नमुपलम्भात् ।
अभेदे चाश्रयात् तन्मात्रापातात् ।
कथं चाश्रयेषु वर्तते ।
न तावत् कार्त्स्न्येन वृत्तमन्यत्रापि तथैव वर्तत इति साम्प्रतम् ।
न च भागशः , तदभावात् ।
किञ्चेदं सादृश्यं न तावद् द्रव्यगुणकर्मणामन्यतमम्, पदार्थपण्डितैस्तेष्वनुपसंख्यातत्वात् ।
न हि नवसु द्रव्येषु चतुर्विशत्यां गुणेषु पञ्चसु वा कर्मसु सादृश्यमन्तर्गतं पश्यामः ।
न च सामान्यमेव सादृश्यं, तद्धि तद्बुद्धौ करणं, तद्वद्बुद्धिवेद्यं च सादृश्यं, तत्सादृश्ये च गोत्वादावपि तथात्वप्रसनङ्गः ।
अवयवसामान्यानि सादृश्यमिति चेद् ।
न ।
तेष्वप्यैकैकश्येनसादृश्यबुद्धेरुपजननात् ।
भूयांसि सादृश्यमिति चेद् ।
न ।
भूयः स्वप्येकत्र समाहृतेषु प्रतियोग्य(न्यतरा?) नपेक्षेषु सादृस्यबुद्धेरुपजननात् ।
सन्ति खलु तान्येकत्र समाहृतानि वस्तूनि, न च सादृश्यबुद्ध्या गृह्यन्ते, न ह्यनपेक्षितप्रतियोगिभेदं सदृशोऽयमिति गां जानाति ।
प्रयोग्यपेक्षया सामान्यानि सादृश्यमिति चेति ।
किमिदानीमापेक्षिकं सादृश्यम् ।
बाडम् ।
यद्येवमपेक्षया तदभिव्यज्यते जन्यते वा ।
न तावज्जन्यते ।
द्वित्वमिवापेक्षाबुद्ध्या, सहजसिद्धत्वात् ।
अभिव्यञ्जकानि त्वालोकेन्द्रियादीनि सन्तीति किमन्यदपेक्षते ।
यदि चावयवसामान्यानि सादृश्यं, यमयोस्तु तदभावादभावप्रसङ्गः ।
तत्रापि तदभ्युपगमे तन्नाशे सामान्यनाशात् सिद्धान्तहानिः ।
चिक्षादौ च पारिणामिकानामवयवानां करशिरः प्रभृतीनामभावात् ।
सामान्याभावे सादृश्याभावः ।
एवमेव गन्धदिष्वपि प्रसङ्गो दर्शनयितव्यः ।
अवयवानां कर्णादीनामवयवान्ताभावादसादृश्यम् ।
अथ मतम्, सत्यं नावयवसामान्यानि सादृश्यम् ।
किन्तु तत्त्वान्तरमेवेदं द्रव्यजातिगुणकर्मभ्यो व्यतिरिक्तं गुणभेदो वा ।
यथाह गुरुः ---ऽन सामान्यं सादृश्यम् ।
किं तर्हि?तदेव तत्, गोत्वादेरकत्वाऽदिति ।
एवं चोपपन्नो भवति सदृशसम्भावनमेव तत्र विध्यर्थः श्येनचिञ्चोदनार्थः ।
श्येनव्यक्तिजात्योः स्वभावनिर्मितपक्षत्वग्रसमांसलोहितास्थिशिरः पृष्ठपादोदराद्यवयवारब्धावयविसमवायित्वेनेष्टकाभिरशक्यसम्पादनत्वात् ।
यदि चावयवसामान्यानि सादृश्यमिष्यन्ते ततस्तेषामिहाभावात् सादृश्यमपि दुः सम्पादनमिति सोऽनारभ्योर्ऽथः प्रतिज्ञातो भवेत्ऽश्येनचितं चिन्वीतेऽति ।
एवं चानवयवेष्वपि गन्धादिषु सादृश्यसंविदुपपत्स्यत इति ।
तच्च नैवम् ।
तत्त्वान्तरे हि सादृश्ये गामनपेक्ष्यापि गवयं सदृशमिति जानीयुः ।
तत्र हि तन्निरवशेषमेव सादृश्यं परिसमाप्तमिति किमन्यदपेक्षते ।
कथमनपेक्षिते गवि तत्सादृश्यविशिष्टोऽवगम्यत इति चेत् कसत्स्य गवा सम्बन्धः ।
समवाय इति चेत्, सोऽपि तर्हि गवयवद् गोसदृशतया ज्ञातव्यः ।
अपि च समवेतं नाम तत्सादृश्यं गवयगतसादृश्यग्रहणेऽपि किमित्यपेक्ष्यते ।
न हि गोत्वं शाबलेये समवेतमिति


सादृश्यस्यापि वस्तुत्वं न शक्यमपबाधितुम् ।
भूयोवयवसामान्ययोगो जात्यन्तरस्य तत् ॥ ५,६.१८ ॥
बाहुलेये तदबोधेऽपि तदपेक्षा दृष्टा ।
तथेदं गवि गवयसादृश्यमिति न तदपेक्षाहेतुरुपलभ्यत इति ।
अपि चापेक्षतां नाम गौः ,
दूराद् गामुपलब्धवतो(ः)विदितावयवसामान्यविभागस्यापि गोसदृश्यगवयज्ञानं भवेत् ।
अवयवसामान्यान्यपि तद्बोधेऽप्यपेक्ष्यन्त इति चेत् ।
वक्तव्योऽपेक्षार्थः ।
यदि मतम्, अभिव्यञ्जकानि तस्यावयवसामान्यानीति, तानि तर्हि गवयवर्तीनि तस्याभिव्यञ्जकानि, सन्ति च तानि गवे(?वि) इति किं गोगतद्वेदनेन, अतो गव्यवगतेऽनवगतेषु चावयवसामान्येषु गोसादृश्यज्ञानं जायेत ।
जात्योर्हि तत्सादृश्यम्, अवगते च ते इति किमन्यदपेक्ष्यते ।
यञ्चेदमवयवसामान्यानां बाहुल्ये सदृशत्वम्, इदं च न स्यादर्थान्तरत्वे सादृश्यस्य सर्वत्र तावत्त्वात् ।
स्यान्मतम्, व्यञ्जकानि तानि तस्य ।
भवति चाभिव्यञ्जकप्रकर्षेऽभिव्यङ्ग्यबुद्धिप्रकर्षः ।
यथा घटादौ तद्वदिहापि भविष्यतीति ।
तन्न ।
न हि बुद्धिमात्रमत्र प्रकृष्यते ।
अपि तर्हि वस्त्वेव सातिशयमुपालभामहे ।
अत एव मुख्यापचारे सदृशोपादित्सयासुसदृशं प्रतिनिधीयते ।
न मन्दसदृशमित्येतदपि यत्किञ्चित् ।
अतः कल्पनामात्रकल्पितं द्विचन्द्रालातचक्रादिवद् भ्रान्तिकरणं सादृश्यं न प्रामाणिकमिति ।
प्रमेयाभावादपि नोपमानाङ्गमन्यद् वा सदृश्ये प्रमाणमित्यापेक्ष इति ॥१७॥
अत्र समाधिमाह---सादृश्यस्येति ।
अयमभिप्रायः --- नेदं कल्पनामात्रकल्पितं, मिथ्यात्वहेतुद्वयासम्भवात् ।
द्विचन्द्रादिप्रत्यया हि कुतश्चिद्दोषादुत्पन्नाः कालादिभेदेषु बाध्यन्ते ।
सादृश्यं तु जात्यादिवतत्सत्यमेवं सादृश्यमपीति किमपह्नूयते ।
तदिदमवगतमसंशयितमवाधितं च देशान्तरादिष्वपीत्यस्ति तावत् सादृश्यं, प्रमाणबलेन यथा तदुपपद्यते तथा कल्पनीयम् ।
न हि दृष्टेऽनुपपन्नं नाम किञ्चिदस्तीति॥
तत्र यत्तावदुक्तं किमस्य स्वरूपमिति ।
तत्रोत्तरमाह---भूयोवयवेति ।
अस्यार्थः --- भूयोभिरवयवसामान्यैर्यो जात्यन्तरस्य योगः तत् सादृश्यम् ।
जात्यन्तरावयवसामान्यग्रहममुपलक्षणार्थम्, व्यक्तिसादृश्यमपि यमादिषु दृष्टमेव ।
एवमवयवसामान्यैर्विनापि गुणकर्मादिसामान्ययोगेनापि सादृश्यं दृष्टमेव,यथा चित्रादिषु ।
एतेन यदुक्तं चित्रादौ कथं सादृश्यमिति तत् परिहृतम् ।
एवमग्नावपि संस्थानपरिमाणसामान्यं दर्शयितव्यम् ।
यमयोस्त्ववयवसामान्याभ्युपगमे यानुपपत्तिरुक्ता, असौ परिहरिष्यत एव ।
गुणानां त्वसत्यप्यवयवसामान्येऽवयवगुणसामान्यमेवावयविगुणानां सादृश्यम्,अवयवसामान्यस्योपलक्षणार्थत्वादिति ।
तत्त्वान्तरवादिनां चेदमाश्रयपारतन्त्र्याद् गुणान्तर्गतमेवास्थेयम् ।
न पञ्चममलौकिकत्वात् ।
जातिद्रव्यगुणक्रियाः पदार्था इति लोकसिद्धम् ।
अतोऽस्य गुणस्य सतो गुमकर्मणोरनुपपन्न एव समवायः ।
अथ द्रव्यसमवेतमेव गुणकर्मणी अपि सदृशतया बोधयति, एकार्थसमवायात् ।
यति, एकार्थसमवेतसमवायादित्युच्यते ।
न ।
द्रव्यसमवाये प्रमाणाभावात्, अवयवसामान्यानि हि कर्णादीनि व्यक्तिसमवेतानि प्रत्यक्षाणि ।
सादृश्यं तु सदृशबुद्ध्या ग्रहीतव्यम् ।
न च गन्धादिसदृशं द्रव्यमिति अतोऽवयवसामान्यमेव सादृश्यमिति ।
नन्वेकत्रैव भूयसामवयवसामान्यानामुपलम्भात् सादृश्यबोधप्रसक्तिरित्युक्तम्, परिहृतमिदं जात्यन्तरस्येति वदता ।
जात्यन्तरसमवायिनां जात्यन्तरे समवायात् सादृश्यम्, न स्वरूपमात्रम्, न च भूयस्त्वम् ।
एतञ्चोपरिष्टाद् विवरिष्यत एव ।
अतो जात्यन्तरग्रहणमपेक्षितव्यम् ।
यत्तु न तेन तज्जन्यत इति ।
सत्यम् ।
अभिव्यज्यते तु तत् ।
यथोक्तम्---
सामान्यानि च भूयांसि गुणावयवकर्मणाम् ।
भिन्नप्रधानसामान्यव्यक्तं सादृश्यमुच्यते॥
इति ।
यद्धि यस्योपलब्धौ निमित्तं, तत्तदभिव्यञ्जकम् ।
अत एकैकत्रापि स्वरूपमात्रेण सामान्यानि गम्यन्त एव ।
जात्यन्तरसमवायात्मना


सदृशावयवत्वं तु यत्र पद्मदलाक्षिवत् ।
तत् स्वावयवसामान्यभूम्ना तेषां भविष्यति ॥ ५,६.१९ ॥
एवं जातिगुणद्रव्यक्रियाशक्तिस्वधर्मतः ।
तु तानि सादृश्यम्, समवायात्मा च नाप्रतिसंहिते जात्यन्तरेऽभिव्यक्तो भवतीति युक्तैव तदपेक्षा ।
न च यदर्थान्तरापेक्षप्रतिभासं तदवस्तु भवति ।
न हि देवदत्तस्य पितृत्वं पुत्रापेक्षा प्रतीयत इति, तदवस्तु ।
अतः आपेक्षिकाण्येवञ्जातीयकानि न चालयितुं शक्यन्ते ।
अत एवावयवसामान्यप्रचयाप्रचययोः सुसदृशादिबोधोपपत्तिः ।
अतः सिद्धं जातिव्यक्त्यन्तरावच्छिन्नानि गुणावयवादिसामान्यानि सादृश्यमिति ॥१८॥
ननु पद्मदलाक्षीयमङ्गनेति पद्मावयवेन दलेनाङ्गनायाश्चक्षुरुपमीयते, यदि चावयवसामान्यं सादृश्यं, न तदिह सम्भवति, स्वयमेवावयवत्वात्, न हि चक्षुषश्चक्षुराद्यवयवान्तरमस्ति ।
अत आह---सदृशेति ।
नावश्यं महावयविनो योऽवयवस्तत्सामान्यं सादृश्यम् ।
अवयवसामान्यानि तु सादृश्यमित्युक्तम् ।
तञ्चावयवानामपि चक्षुरादीनां
स्वावयवसामान्यभूम्ना सम्भवत्येवेति युक्तोऽङ्गनादीनां सदृशावयवबोध इत्याह ॥१९॥
अस्तु तावदवयवेष्ववान्तरावयवसामान्ययोगात् सादृश्यम्, विनापि तु तानि तत्र तत्र सदृशबोधो दृष्टः ।
स कथमुपपद्यते अत आह---एवमिति ।
नेदमवयवसामान्यग्रहणं तन्त्रम् ।
यदेव तु किञ्चिद् गुणादिसामान्यं सदृशधियमुपजनयति तदेव सादृश्यमतो नात्रैकरूप्यमेव ।
विचित्रता तु सादृश्यस्य यथादर्शनमङ्गीकर्तव्यम् ।
तद् यथा--- जातिसादृश्यम्ऽग्निर्वै ब्राह्मणः इति, अग्निसदृश इत्यर्थः ।
किमनयोः सादृश्यम्, एकस्माद् ब्रह्मणो मुखाज्जातीरुत्पत्तिरित्यर्थः ।
इदं च तत्सिद्धिसूत्रे वक्ष्यते ।
कुतः पुनरनयोः समानाभिजननत्वमवगम्यते ।
श्रुतेः ।
एवं ह्याह---ऽप्रजापतिर्मुखतस्त्रिवृतं छन्दसां निरमिमीत अग्निं देवतानां ब्राह्मणं मनुष्याणामिऽति ।
लोके च समानाभिजननयोर्दर्शयितव्यम् ।
गुणसामान्यं तु चित्रादौ सुप्रकाशमेव लोके, वेदे चऽादित्यो यूपः इति ।


एकैकद्वित्रिसामस्त्यभेदादेतस्य चित्रता ॥ ५,६.२० ॥
न धर्मा एव सादृश्यं भूयस्ता वा तदाश्रया ।
भूयस्त्ववद्धि जात्यादि सदृशत्वेन दृश्यते ॥ ५,६.२१ ॥
द्रव्यसादृश्यं समालङ्कारधारिणोर्लोके, वेदे च "लोहितोप्णीषा ऋत्विजः प्रचरन्तीति" ।
क्रियासादृश्यमध्ययनादिसामान्याल्लोके, वेदे च यज्ञविहङ्गमयोर्निपत्यादानसामान्यात् ।
एवं ह्याह---"यथा वै श्येनो निपत्यादत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते"इति ।
शक्तिसादृश्यं तु भीमो मल्ल इति लोके, वेदे च सोमपूतीकयोः ।
अवगम्यते हि पूतीकानां सामशक्तिरर्थवादात् ।
तत्कार्यत्वेनावगमात् ।
कार्यस्य चकारणानुविधायिशक्तिकत्वात् ।
उक्तं च---"सोमस्य योंऽशः परापतत् स पूतीकोऽभवद्" इति ।
स्वधर्मसादृश्यं केचित् त्रिशिखाः केचित् पञ्चशिखा इति लोके त्रिशिखादीनामन्योन्यसादृश्यं, वेदे च वसिष्ठात्र्यादीनां नराशंसो द्वितीयः प्रयाज इति ।
धर्मनियम एव हि तत्र सादृश्यम्, प्रकृतिविकृतिकर्मणोश्च धर्मसामान्यमेव सादृश्यमित्युक्तमेव ।
एते च जात्यादय एकैकशो द्विशस्त्रिशः समस्तशश्च समाना भवन्तः सादृश्यस्य विचित्रतामापादयन्तीति ॥२०॥
ननु यत्र सादृश्यं समवैति तत्सदृशबुद्ध्या गृह्यते ।
यदि चावयवसामान्यानि सादृश्यं, तानि तर्ह्यवयवेषु समवयन्तीति तेष्वेव सदृशधियं जनयेयुः ।
अथ तेषां भूयसस्ता, सा चावयवसामान्येष्विति तान्येव सदृशानि स्युः ।
कथं जात्यन्तरे सदृशबुद्धिरत आह---न धर्मा इति ।
सत्यम् ।
अत एव हेतोर्न ध्माख्यावयवसामान्यानि तदभूयस्ता वा सादृश्यं, तेषु सादृस्यबुद्ध्यनुत्पत्तेः ।
यदेव हि तेषां भूयस्तया युक्तं जात्यन्तरं गवयादि व्यक्त्यन्तरं वाग्नेयसौर्यादि, तदेव सदृशबुद्ध्या गृह्यते ।
अतो जात्यन्तरसमवाय एव तेषां सादृश्यम् ।
स्वरूपतस्त्वेकैकशस्तानि सामान्यानि प्रदानसामान्यवदेकत्वबुद्धिनिबन्धनमेव ।
पिण्डितानि तु जात्यन्तरसमवायोपहितानि सादृश्यम्, अयं च भूयोऽवयवसामान्येत्यस्यैव ।
प्रपञ्च इति ॥२१॥


यमयोः कथमेतञ्चेद् दृष्टत्वात् किमिहोच्यते ।
क्वचिद्धि भूयसामेतत् क्वचिदल्पीयसामपि ॥ ५,६.२२ ॥
नैतावता विशेषेण वस्तुत्वं तस्य हीयते ।
सामान्यान्यपि चैतानि नाशीन्याश्रयनाशतः ॥ ५,६.२३ ॥
अनन्ताश्रययोगाच्च न नाशोऽन्यत्र विद्यते ।
तेन सर्वं न सामान्यं नित्यत्वेन प्रकल्प्यते ॥ ५,६.२४ ॥
अत्र चोदयति--- यमयोरिति ।
जात्यन्तरस्येति यावच्छ्रुतग्राहिणः परिचोदनमिदम्--- यदि जात्यन्तरस्य भूयोऽवयवसामान्ययोगतः सादृश्यं कतं यमयोर्व्यक्तिसादृश्यमिति ।
इतरस्तु--- प्रदर्शनमात्रं जात्यन्तस्येति केयमत्रैवास्था, तदयमर्भको बराक इत्यपहसति--- दृष्टत्वादिति ।
यत्रैवं सादृश्यं दृश्यते जातौ व्यक्तौ वा, तत्रैव तदाश्रयणीयम् ।
किमेकत्रैवालस्थां बध्नासीति ।
स्यादेतत् ।
एकस्वभावा हि भावा जात्यादयः ।
तदिदं सादृश्यमपि तथैव युक्तम् ।
यदि तावदल्पवृत्तिस्वभावं व्यक्त्योरेव युक्तम्, अथ बहुवृत्तिस्वभावं ततो जात्योरेव ।
अर्धवैशसं त्ववस्तुतामापादयतीति, अत आह--- क्वचिद्धीति ।
प्रतीत्यविसंवादादुभयोपपत्तिरिति भावः ॥२२॥
ननु सामान्यानि सादृश्यं, तानि च व्यक्तिनाशेन नश्येयुः ।
अतो नित्यं सामान्यमिति सिद्धान्तहानिरत आह---सामान्यानीति ।
एतानि तावन्नाशीनि भवन्तु , सामान्यान्तराणि गोत्वादीनि नित्यान्येवेति न कश्चिल्लोकविरोध
इति ॥२३॥
कः पुनः सामान्यान्तरेषु विशेषः ,अत आह---अनन्तेति ।
अनन्तो हि गोत्वादीनामाश्रयः ।
तदेकस्य नाशेऽप्याश्रयान्तरे प्रत्यभिज्ञानान्नैकान्तिको नाश इति ।
नित्यसामान्यवादोऽपि न नः सार्वत्रिक इत्याह---तेनेति ।


सामान्यस्य न वा नाशः क्वचिदभ्युपगम्यते ।
सर्वस्य ह्याश्रयः कश्चिदस्ति देशान्तरादिषु ॥ ५,६.२५ ॥
तेषां भूयस्तया चेदं सादृश्यमतिरिच्येत ।
तानि व्यस्तानि सन्त्येवं प्रत्यक्षेऽपि क्वचित् क्वचित् ॥ ५,६.२६ ॥
सादृशावयवत्वं तु यत्र नाम प्रतीयते ।
तदप्यवयवानां स्यात् समानावयवान्तरैः ॥ ५,६.२७ ॥
एवं तावद् यतो नास्ति पराभेदप्रकल्पना ।
ततः परं तु सामान्यं भवेत् सादृश्यवर्जितम् ॥ ५,६.२८ ॥
प्रधानानां तु सामान्यं यत्रैकं सम्प्रतीयते ।
अथवावयवसामान्यानामपि नात्यन्तिको नाशोऽस्तीत्याहि--- सामान्यस्येति ।
कारणमाह---सर्वस्येति ॥२५॥
यद्यस्ति तत्रापि साहश्ययधिया भवितव्यमत आह---तेषामिति ।
भूयस्तया तेषां साहश्यमतिरिक्तं भवति, न त्वेकैकशो न सन्तीति ।
न केवलं सामान्यमनश्ररमितिदेशान्तरादिष्वाश्रयसद्भावः कल्प्यते ।
अपि तु प्रत्यक्षेऽपि क्वचिदर्थे तान्युपलभ्यन्त एवेत्याह---तानीति ॥२६॥
नन्वक्ष्यादीनां स्वावयवसामान्यभूम्ना साबश्यमुक्तं, तदवयवानां तु कथं साहश्यं भविष्यत्यत आह---अन्यथेति ।
द्वेधा ह्यनुपपन्नम्--- किञ्चिदनुपपन्नमेव यन्न कथञ्चिदुपपादयितुं शक्यम्, किञ्चिच्चासति कल्पनेऽनुपपन्नम् ।
तत्र यदेकान्तमनुपपन्नं तदुपेक्ष्यत एव ।
यत्तु कल्पिते क्स्मिंश्चिदुपपद्यते अन्यथा नोपपद्यते तदुपपत्तिरन्यकल्पमनयावसीयते ।
एवमेव हि सर्वलौकिकपरीक्षका बुध्यन्ते ।
न च विपर्ययो देशान्तरादिषु दृष्टः ।
अतः प्रमाणमेवेदम् ।
यथा चानुमाने निश्चितरूपं लिङ्गं गमकम्, एवमिहापि केनचित्प्रमाणेनावगतं प्रमाणान्तरेणोत्थापितवितर्कमम् ।
न चात्रान्यतरत्रापि प्रामाण्ये संशयः , किन्तु निश्चितप्रामाण्योरेव द्वयोः समर्थनापेक्षामात्रं कथमिदमुभयमुपपद्यतामिति ।
षोडशिन इव ग्रहणाग्रहमसास्त्रयोः ।
न तत्रैकपरित्यागेनेतरदुपपादयितुं शक्यते ।
अतो यथा तत्र कथमिदमुभयमुपपद्यतामित्यपेक्षिते प्रयोगभेदेनोभयमुपपाद्यते, एवमिहापि प्रमाणप्रतिपन्नमुभयं निश्चितसद्भावमर्थान्तरपरिकल्पनया सम


... ५,६.२९च्द् - ५,७.२९च्द् मिस्सिन्ग्!


अविनाभाविता चात्र तदैव परिकल्प्यते ।
न प्रागवधृतेत्येवमन्यथैषा न कारणम् ॥ ५,७.३० ॥
गृहाभावबहिर्भाव.उ न च दृष्टौ नियोगतः ।
साहित्ये तु प्रमाणं च तयोरन्यन्न विद्यते ॥ ५,७.३१ ॥
अन्यथानुपपत्त्यैव ह्येकेनान्यत् प्रतीयते ।
तथा न कल्प्यते तच्चेत् साहित्यं न प्रतीयते ॥ ५,७.३२ ॥
अर्थ्यते ।
ताद्रूप्येणैव प्रतिभानात् ।
विलक्षणानि हि प्रमाणानि विलक्षणसामग्रीकाणि ।
अत एव परस्परतो भिद्यन्ते ।
अप्रामाण्यकारणानि च संशयविपर्ययावज्ञानं वा, तच्चार्थापत्तावपि नास्तीति कथमप्रमाणता ।
कथमज्ञातसम्बन्धात् प्रतीतिः प्रमाममिति चेत् ।
न सम्बन्धः प्रामाण्ये कारणम्, अपि तु बाधविरहः ।
स चेहाप्यविशिष्ट इति न कश्चिद् दोषोर्ऽथापत्तावस्माकं प्रतिभातीति ॥२९॥
ननु गृहाभावो नान्तरेण बहिर्भावमुपपद्यते अतो नान्तरीयकः , नान्तरीयकाच्च यदर्थान्तरज्ञानं तदनुमानम्, अतोऽनुमानमेवेदं बहिर्भावज्ञानमत आह----अविनेति ।
अयमभिप्रायः --- नान्तरीयकार्थदर्शनं तद्विदोऽनुमानमिति केचित् पठन्ति, तेषामपि तद्विदो नान्तरीयकताविद एव नान्तरीयकदर्शनमनुमानमभिप्रेतम्, न चेह नान्तरेण बहिर्भावं गृहाभावो भवतीति प्रागवगतम्, तदैव ह्यर्थापत्त्या बहिर्भावं परिकल्प्यायमनेन विना न भवतीत्यविनाभाविता कल्प्यते ।
अतः सा स्वरूपसत्यपि न पूर्वमवगतेति न ज्ञानोत्पत्तौ कारणमिति ॥३०॥
नन्ववगतसम्बन्धस्य तर्ह्यनुमानं स्यादत आह---गृहाभावेतितान्तेन ।
न तावदन्नियमेन सर्वैरेव द्वयोः साहित्यमवगतम्, अविदितसाहित्यस्य तावत् सिद्धं प्रमाणान्तरमित्यभिप्रायः ।
येनापि तयोः साहित्यमवगतं तस्यापि
नागृहीतयोस्तयोः साहित्यग्रहः सम्भवति, न च तयोरेकग्रहणेऽपरदर्शनमर्थापत्त्या विना सम्भवति ।
अन्यथानुपपपत्त्यैव त्वेकेन गृहाभावेन


तेन सम्बन्धवेलायां सम्बन्ध्यन्यतरो ध्रुवम् ।
अर्थापत्त्यावगन्तव्यः पश्चाद(स्त्य?स्त्व) नुमानता ॥ ५,७.३३ ॥
गृहद्वारि स्थितो यस्तु बहिर्भावं प्रकल्पयेत् ।
यदैकस्मिन्नयं देशे न तदान्यत्र विद्यते ॥ ५,७.३४ ॥
तदाप्यविद्यमानत्वं न सर्वत्र प्रतीयते ।
न चैकदेशे नास्तित्वाद् व्याप्तिर्हेतोर्भविष्यति ॥ ५,७.३५ ॥
नन्वत्राविद्यमानत्वं गम्यतेऽनुपलब्धितः ।
सा चाप्रयत्नसाध्यत्वादेकस्थस्यैव सिध्यति ॥ ५,७.३६ ॥
बहिर्भावेन वा तयोरेकः प्रत्येतव्यः ।
एवं चाकल्प्य्मानेऽन्यतरस्य सम्ब्नधिनोऽगृहीतत्वात् साहित्यप्रतीतिरेव न स्यात्, अतः साहित्यार्थमर्थापत्तिरर्थनीयेति सिद्धं प्रमाणान्तरमित्यभिप्रायेणाह--- प्रमाणं चेति प्रतीयतेऽन्तेन ।
अभिप्रायं विवृणोति--- तेनेति ॥३१-३२॥
ननु च नावश्यमर्थापत्त्यैवान्यतरः सम्बन्धी ग्रहीतव्यः , शक्यते हि गृहद्वारावस्थितेनाभावप्रत्यक्षाभ्यामुभयं विदित्वा सम्बन्धोऽनुभवितुम्, तथा विदितसम्बन्धाच्च गृहाभावाद् बहिर्भावानुमानमित्याशङ्कते तावत्--- गृहद्वारीति ॥३४ ॥त्रोत्तरमाह--- तदापीति ।
अयमभिप्रायः --- सिध्यत्येवं गृहाभावाद् बहिर्भावानुमानम्, न पुनरेवमेव सर्वेषामवगतिः , अगृहीतसम्बन्धानामपि प्रतीतिभावात् ।
एषोऽपि च प्रकारो नैकत्र भावेन सर्वत्राभावावगमे सम्भवति, न हि जगदभावेनैकत्र भावोऽन्वितः शक्योऽवगन्तुम् ।
जगदभावस्य प्रत्येतुशक्यत्वादित्यभिप्रायः ।
नन्वेवं तदावगतं यदायमेकत्र भवति तदा परत्र तत्समीपे न भवतीति ।
एवं च विदितव्याप्तेरेकदेशभाने सर्वत्राबावानुमानं भविष्यति ।
अत आह--- न चेति ।
न ह्येकदेशनास्तितया त्रैलोक्याभावेन हेतोर्व्याप्तिः सिध्यतीति ॥३५॥
किंपुनर्जगदभावेन सम्बन्धो नावगम्यते, तस्यानवगतेरिति चेद्, नन्वनुपलब्धिरभावावगमे कारणम्, यथा चैकत्र सन् देवदत्तो देशान्तरे


नैतयानुपलब्ध्यात्र वस्त्वभावः प्रतीयते ।
तद्देशागमनात् सा हि दूरस्थेष्वस्ति सत्स्वपि ॥ ५,७.३७ ॥
गत्वा गत्वा तु तान् देशान् यद्यर्थो नोपलभ्यते ।
ततोऽन्यकारणाभावादसन्नित्यवगम्यते ॥ ५,७.३८ ॥
ननु चाग्न्याद्यभावेऽपि धूमादिव्यतिरेकिणाम् ।
तद्देशागमनात् स्पष्टो व्यतिरेको न सिध्यति ॥ ५,७.३९ ॥
ऽनुपलभ्यमानो नास्तीति निश्चीयते ।
एवमेकत्र सन् सर्वत्र नोपलभ्यत इति सर्वत्रैव नास्तीति शक्यमवगन्तुम् ।
न हि दर्शनवददर्शनमपि प्रयत्नमपेक्षते, दर्शनं हि कार्यं स्वकारणर्थेन्द्रियसन्निकर्षाद्यपेक्षमाणमेकत्र सतो न सर्वत्र सम्भवति, दर्शनाभावस्तु न किञ्चिदपेक्षत इति चोदयति---नन्वत्रेति ।
अत्रेत्येकदेशं परामृशति ।
अत्र खल्वेकदेशेऽनुपलब्धितोऽविद्यमानत्वमवगम्यते ।
तच्च सर्वत्रापि समानमिति ॥३६॥
अत्र परिहारमाह----नैतयेति ।
किमिति न प्रतीयते अत आह--- तद्देशेति ।
उपलब्धियोग्यस्य ह्यनुपलब्धिरभावं व्यवस्थापयति, दूरस्थेषु त्वयोग्यत्वादेव सत्स्वप्यनुपलब्धिः सम्भवतीति नाभावनिश्चय इति ॥३७॥
यदितु सर्वग्रामनगरसरित्कान्तारादिदेशाः प्राप्ताः भवेयुः , एवं चैत्रस्य तेष्वभावः शक्यावगमः , न चेदं शक्यकरणमित्यभिप्रायेणाह---गत्वा गत्वेति ॥३८॥
अत्र चोदयति---ननु चेति ।
अयमभिप्रायः --- न तावद् विपक्षादव्यावृत्तो हेतुर्गमकः , न च सर्वे विपक्षा गत्वोपलब्धुं शक्यन्ते, अतोऽवश्यमेकदेशस्थस्यैवानुपलब्ध्या विपक्षाद् हेतोर्व्यतिरेको ग्रहीतव्यः ।
तद्वदिहापि भविष्यतीति ।
धूमादयश्च ते व्यतिरेकिणश्चेति धूमादिव्यतिरेकिणः ।
अग्न्याद्यभावे ये व्यतिरेकिणो धूमादयस्तेषामग्न्याद्यभावदेशागमनाद् व्यतिरेको न सिध्यतीति ॥३९॥


यस्य वस्त्वन्तराभावः प्रमेयस्तस्य दुष्यति ।
मम त्वदृष्टमात्रेण गमकः सहचारिणः ॥ ५,७.४० ॥
नन्वेवमितरत्रापि सम्बन्धोऽनुपलब्धितः ।
चैत्राभावस्य भावेन दृष्टत्वादुपपद्यते ॥ ५,७.४१ ॥
साहित्ये मितदेशत्वात् प्रसिद्धे चाग्निधूमयोः ।
व्यतिरेकस्य चादृष्टेर्गमगत्वं प्रकल्प्यते ॥ ५,७.४२ ॥
परिहरति---यस्येति ।
व्यतिरकेप्रधानवादिनो हि बौद्धस्यासति विपक्षाद् व्यतिरेकग्रहणे न हेतुर्गमको भवति, वस्त्वन्तराभावो हि तस्य प्रमेयः , अग्न्यादेर्वस्तुनो ।
अन्यस्यानग्न्यादेरभाव इति यावत् ।
स हि सर्वानग्निव्यतिरेकमन्तरेण न सम्भवति, मम तु सहचारिणो हेतुर्गमकः , अन्वयमात्रनियमेन ।
स च विपक्षादर्शनमात्रेण द्वित्रैरेव दर्शनैः सिध्यतीति ॥४० ॥नन्वन्वयवादिनोऽप्यजातातिवृत्तकप्रत्युत्पन्नानन्तदेशवर्तिवह्निसहचरितधूमदर्शनं दुर्लभमेव ।
अथ कतिपयाग्निसाहित्यदर्शनादेवासहितावगता अपि वह्नयोऽनुमीयन्ते, एवं तर्हीहापि चैत्राभावस्य जगदवर्तिन एकदेशभावेन सम्बन्ध उपपद्यत एव ।
अत्रापि ह्येकत्र चैत्रे भवति कतिपयेषु तदभावो दृष्ट एव, तावता च सर्वत्राभावोऽवुमास्यत इत्याह--- नन्वेवमिति ॥४१॥
अत्र परिहारमाह---साहित्यैति ।
अयमभिप्रायः --- न हि नो व्यक्तिविषयमनुमानम्, अपि तर्ह्याकृतिविषयम्, आकृत्योश्च प्रतिव्यक्तिकृत्स्नसमवायात्सुलभमेव साहित्यदर्शनम्, सकृद्दर्शनेनैव ह्याकृत्योः साहित्यमवगम्यते ।
अत एव द्वित्रादिदर्शनमपि व्यभिचाराशङ्कायां नियमार्थमभ्यर्थ्यते ।
अवगते हि साहित्ये भवति शङ्का--- किमयमौपाधिकः संसर्गो धूमस्याग्निना सह आहोस्वित् सहज एवेति, तत्रासकृद्दर्शनेऽन्वयाव्यभिचारादुपाध्यन्तरप्रवेशकारणाभावात्स्वाभाविकोऽस्याग्निनान्वय इति भवति मतिः ।
अग्नेस्तु प्रथममवगतसम्बन्धस्यापि धूमेन दर्शनान्तरे व्यभिचारदर्शनादार्द्रेन्धनादिरुपाधिरनुप्रविशति ।
नच देशादिभेदे व्यभिचारा शङ्का, सकृद्दर्शनावधारितसाहचर्ययोर्हि द्वयोरप्यग्नेस्तावद् व्यभिचारो दृष्टो


इह साहित्यमेवेदमेकस्य सहभाविनः ।
अनन्तदेशवर्तित्वान्न तावदुपपद्यते ॥ ५,७.४३ ॥
ननु देशान्तरं शून्यं चैत्रेणैवं प्रतीयते ।
तद्देशव्यतिरिक्तत्वात्समीपस्थितदेशवत् ॥ ५,७.४४ ॥
विरुद्धाव्यभिचारित्वं तद्वदेव हि गम्यते ।
समीपदेशभिन्नत्वाच्चैत्राधिष्ठितदेशवत् ॥ ५,७.४५ ॥
पुरुषस्य तु कार्त्स्न्येन यदेकत्रोपलम्भनम् ।
द्वित्रादिदर्शनेनैव,तद् यदिधूमोऽप्यग्निं व्यभिचरेत्, अस्यापि हि द्वित्रिचतुरैरेव दर्शनैर्व्यभिचारो दृश्येत, न च दृश्यते ।
अतोऽग्न्यन्वितस्वभावोऽयमिति निश्चीयते ।
यस्य त्वेवमप्यनाश्वासः ।
तस्य सर्वप्रमाणेष्वेव क्वचिद् व्यभिचारदर्शनादनाश्वासः स्यात् ।
विपक्षव्यतिरेकोऽपि चैवमर्थादेव सिद्धो भवति ।
स हि प्रथममन्विच्छतो विपक्षदेशानामनन्तत्वाद् दुर्लभो भवति ।
स्वभावनियमे तु ज्ञाते स्वभावस्याव्यभिचारात् सुलभो व्यतिरेकः ।
न हि स्वाभाविकमुष्णत्वमन्तरेण क्वचित् कदाचिदग्निर्भवतीति कश्चिदाशङ्कते ।
मितदेशत्वादिति ।
परिमितदेशत्वादित्यर्थः ॥४२॥
एकदेशभावजगदभावयोस्तु नैवं साहित्यज्ञानं भवतीत्याह--- इहेति ।
एको ह्यत्र सर्वत्राभावः सहभावयनन्तदेशवर्ती, न त्वग्निधूमाकृतिवत् परिमितदेशः , अतोऽत्र दुर्ग्रहं साहित्यमिति ॥४३॥
अत्र चोदयति---नन्विति ।
अनुमानेन देशान्तराभावश्चैत्रस्य प्रतीयते ।
एवं ह्यनुमास्यते ।
परोक्षाः सर्वभूमयश्चैत्राभावसम्बन्धाः , तदाक्रान्तदेशव्यतिरेकित्वात् स्थितचैत्रदेशममीपवदिति ॥४४॥
परिहरति---विरुद्धेति ।
कथं हि विरुद्धाव्यभिचारित्वमत आह--- तद्वदिति ।
तद्वच्चैत्रवद्देशान्तरमिति ।
अतोर्ऽथापत्त्यैव सर्वत्राभावोऽवगन्तव्यः , नान्या गतिरस्ति ॥४५॥
तथातु तं गृहीत्वासाहित्यग्रहणपुरः सरं यद्यनुमानमिष्यते तदर्थापत्तिपूर्वकम्, एतावता च सिद्धमर्थापत्तेः प्रामाण्यमित्यभिप्रायेणाह--- पुरुष


तस्यान्यथा न सिद्धिः स्यादित्यन्येष्वस्य नास्तिता ॥ ५,७.४६ ॥
तेनार्थापत्तिपूर्वत्वमत्र यत्र च कारणे ।
कार्यदर्शनतः शक्तेरस्तित्वं सम्प्रतीयते ॥ ५,७.४७ ॥
स्येत्यत्रान्तेन ।
यस्तु वदति--- स्वात्मनस्तावदेकत्र सतः सर्वत्राभावेन सम्बन्धो दृष्टः अतोऽन्यस्याप्यनुमिनोतीति ।
स वक्तव्यः स्वात्मन एव सर्वत्रासत्ता कथमवगम्यते, यद्यभावेन, कस्येति वक्तव्यम्, न तावत्प्रत्यक्षस्य निवृत्त्या दूरदेशेष्वभावः शक्यतेऽवगन्तुम्, दूरत्वादेव तेषामनुपलब्धियोग्यत्वान्न स्वात्मनोऽभावस्तेषु शक्यतेऽवगन्तुम् ।
अथ तत्र सतो दूरस्थत्वमेव न स्यात्, अतः सहैव देशान्तरे स्वशरीरमुपलब्धियोग्यं भवति, योग्यत्वाच्चोपलभ्येत्, यो हि यत्र भवति तस्य सहैवाधारेणात्मोपलब्धियोग्यो भवति, न चेह तथा, अतो न देशान्तरेषवस्तीति ।
एवं चानुमानेन देशान्तराभावो ग्रहीतव्यः ।
न प्रत्यक्षाभावेन ।
तत्र च विरुद्धाव्यभिचारितोक्तैव--- देशान्तराणि विमतिपदानि चैत्रवन्ति चैत्रवद्देशसमीपव्यतिरिक्तदेशत्वाच्चैत्रवद्देशवदिति ।
यत्र च प्रतिहेतुना सन्देहः क्रियते तत्र बलवतान्येन सर्वत्राभावेन समर्थम् ।
सा ह्येवं प्रवर्तते, यदेतदेकत्र कार्त्स्न्येन चैत्रस्योपलम्भनं तन्नोपपद्यते, यदि देशान्तरे चैत्रो भवेत्, द्वेधा हि भावाः प्रादेशिका विभवश्च, विभवोऽपि द्वेधा, सर्वव्यापिनः स्वाश्रयव्यापिनश्च ।
पूर्वे गगनादयः ।
उत्तरे जात्यादयः ।
यद्धि सर्वसंयोगिभिरनागतैरगतं सम्बध्यते, तद्विभुतया प्रसिद्धम्, तया चात्माकाशादय इति विभव इत्युच्यन्ते ।
न तावदाकाशवच्चैत्रः , एकत्र परिसमाप्तो हि परिमण्डलः सोऽवगम्यते ।
न च यथावयवी स्वावयवेषु वर्तते तथा देशान्तरे वर्तितुमर्हति ।
यदि हि तस्यान्यत्र भागाः भवेयुः इह कृत्स्नो नोपलभ्येत ।
भवन्वान्तराले विच्छेदादन्यो भवेत् ।
न च जातिवद् वर्तितुमर्हति ।
जातिर्ह्यमूर्ता, सैकत्र नहीदं सामान्यम् ।
संयोगोऽस्य देशान्तरेण सम्बन्धः ।
स च नागतस्य सम्भवति ।
गत्वा ह्यवं देशान्तरैः संयुज्यमानो दृश्यते ।
अत एव न विभुः ।


कार्यस्य ननु लिङ्गत्वं न सम्बन्धानपेक्षणात् ।
दृष्ट्वा सम्बन्धितां चैषा शक्तिर्गम्येत नान्यथा ॥ ५,७.४८ ॥
तद्दर्शने तदानीं च प्रत्यक्षादेरसम्भवात् ।
अर्थापत्तेः प्रमाणत्वं त्रैलक्षण्याद् विना भवेत् ॥ ५,७.४९ ॥
अतोऽस्यन कथञ्चिदेकत्र सतोऽन्यत्र सत्त्वमुपपद्यत इत्यन्यत्राभावमन्तर्भाव्य कृत्स्नबोधः समर्थ्यते, का पुनरत्रानुपपत्तिः , नात्र कृत्स्नबोधस्य केनचित् प्रतिघातो दश्यते ।
भावानुमानेनैव केवलं तु दुर्बले प्रतिघातहेतौ तदबाधेनैवार्थापत्तिरात्मानं लभते ।
दुर्बलं चेह भावानुमानं प्रतिहेतुविरुद्धत्वात् ।
यत्र तु तुल्यबलमुभयमेकत्रोपनिपतितं भवति, तत्रार्थान्तरकल्पनयोपपत्तिरिति न किञ्चिदनुपपन्नमिति ।
एवं तावदभावपूर्विकाया अर्थापत्तेरनुमानाद् भेद उक्तः , प्रत्यक्षपूर्विकाया भेदमिदानीं दर्शयितुं तत्प्रतिज्ञानं तावदाह--- यत्र चेति ।
यत्रापि दाहादिकार्यदर्शनादग्न्यादेः कारणस्य शक्तिरस्तीति कल्प्यते तत्राप्यर्थापत्तिरेव प्रथमा ।
यदि तु पश्चादनुमानं भवति भवतु ।
भाष्योदाहृतत्वाच्चाभावपूर्विकाया एव प्रथममनुमानाद् भेदो वर्णित इति ॥४६,४७॥
अत्रानुमानवादिनां लिङ्गमुपन्यस्यति---कार्यस्येति ।
एवं हि मन्यन्ते--- द्विविधमनुमानं दृष्टस्वलक्षणविषयमदृष्टस्वलक्षमविषयं च संयोगविभागादिभ्य इव क्रियाद्यनुमानम् ।
कार्यं हि कारणेन सामान्यतो ज्ञातसम्बन्धमिति ततस्तत्प्रतीतिरनुमानभेवेदमिति ।
एतदपि दूषयति--- न सम्बन्धेति ।
येन ह्येकदा बीजादङ्कुरो दृष्टः सोऽन्यदा तथाविधादेव पुनरनुपलभमानः स्वभावानुमानेन जनयितव्योऽनेनाङ्कुर इत्यनुमिमान एवात्रा शङ्कते कथमङ्कुरो न जायत इति, ततः कल्पयति--- अस्ति कश्चिद् बीजसमवायी शक्तिभेदो यद्वशात् प्राक् कार्यमासीदद्य च नास्तीति ।
तच्चेदमनपेक्षितसम्बन्धस्यैव पुरातनेदानीन्तनाङ्कुरदर्शनादर्शनविचारादेव ज्ञानं जायमानं कथमनुमानमिति ।
अपि च सम्बन्धग्रहणाधीनमेव सर्वमनुमानं न तदगृहीतयोः सम्बन्धिनोः सम्भवति ।
न चेह तयोरतीन्द्रिया शक्तिऽ


अनुमानादभिन्नत्वान्नोक्तौ जयपराजयौ ।
वघ्यघातकभावेन यौ सर्पनकुलादिषु ॥ ५,७.५० ॥
पीनो दिवा न भुङ्क्ते चेत्येवमादिवचः श्रुतौ ॥ ५,७.५१ ॥
तामर्थगोचरां केचिदपरे शब्दगोचराम् ।
कल्पयन्त्यागमाच्चैनामभिन्नां प्रतिजानते ॥ ५,७.५२ ॥
प्रमाणान्तरेण शक्यतेऽनुभवितुम्, अत एव च न तद्वतोऽपि ग्रहणं सम्भवति, अतः कथमगृहीतसम्बन्धात्
कार्याच्छक्तितद्वतोः सिद्धिरिति ।
तदेतदाह--- दृष्टवेति ।
नन्ववगतं तावत् कार्यसामान्यं कारणसामान्येन व्याप्तमिति, अतस्तदनुमास्यते ।
सत्यम्, किन्तु शक्तिककल्पनया विना कारणाख्यैव न निवर्तते ।
अङ्कुरो हि बीजभावभावी व्यभिचरितभावान्तरश्च बीजकारणक इत्यवगतः सत्यपि तु बीजेऽजायमानस्तदपि व्यभिचरतीति कारणावगतिरेवावसीदति, तां शक्तिकल्पनयोत्तभ्नाति ।
कॢप्तायां च शक्तौ कारणसम्बन्धिन्यामर्थापत्त्या यदि सम्बन्धोऽवगम्यते तदस्तु सिद्धान्तवच्छक्तिसिद्धावर्थापत्तिः प्रमाणमिति ।
अनुमानलक्षणाद् विनार्ऽथापत्तिर्जायमाना प्रमाणान्तरमित्युपसंहरति--- अर्थापत्तेरिति ॥४९॥
वृत्त्यन्तरोदाहृतमुदाहरण दूषयति---अनुमानादिति ।
जयो हि पराजयेन विदितव्याप्तिरिति तमेकत्र घातके नकुले दृष्ट्वा प्रतिपक्षस्य पराजयोऽवगम्यते ।
पराजयदर्शनेन प्रतिपक्षस्य जय इति ।
नेदमर्थापत्तावुदाहार्यमिति ॥५०॥
श्रुतार्थपत्तिरभिधास्यत इत्युक्तम्, तामिदानीमुदाहरति--- पीन इति ॥५१॥
अस्याश्च विषयं प्रत्यस्ति विवादः ।
तमेकनिर्धारणार्थमुपन्यस्यति---तामर्थेतिकल्पयन्त्यन्तेन ।
सर्वे चागमाबहिर्भूतामातिष्ठन्त इत्याह--- आगमाच्चेति ॥५२॥


प्रायशश्चानया वेदे व्यवाहारो व्यवस्थितः ।
सोऽवैदिकः प्रसज्येत यद्येषा भिद्यते ततः ॥ ५,७.५३ ॥
वचनस्य श्रुतस्यैव सोऽप्यर्थः कैश्चिदाश्रितः ।
तदर्थोपप्लुतस्यान्यैरिष्टो वाक्यान्तरस्य तु ॥ ५,७.५४ ॥
न तावच्छ्रूयमाणस्य वचसोर्ऽथोऽयमिष्यते ।
न ह्यनेकार्थता युक्ता वाक्ये वाचकता तथा ॥ ५,७.५५ ॥
पदार्थान्वयरूपेण वाक्यार्थो हि प्रतीयते ।
न रात्र्यादिपदार्थश्च दिवावाक्येन गम्यते ॥ ५,७.५६ ॥
न दिवादिपदार्थानां संसर्गो रात्रिभोजनम् ।
न भेदो येन तद्वाक्यं तस्य स्यात् प्रतिपादकम् ॥ ५,७.५७ ॥
आगमाभेदाभ्युपगमेऽभिप्रायमाह---प्रायशैति ।
फलापूर्वविध्यन्तादिसिद्धौ भूयानस्या वेदे उपयोगः , सर्वोऽनागमत्वेवैदिकः स्यादिति ॥५३॥
आगमिकत्वेऽप्यवान्तरविप्रतिपत्तिमुपन्यस्यति---वचनस्येति ।
अत्र निष्कर्षं दर्शयति---न तावदिति ।
कारणमाह--- न हीति ।
वाक्यं तावदवाचकम्, प्रगेवानेकेषामर्थानामिति ॥५५॥
यद्यवाचकं कथं वाक्यादर्थप्रतीतिरत आह---पदार्थेति ।
एतच्च तदभूताधिकरणे वक्ष्यत इति ।
ननु रात्र्यादिवाक्यार्थो यदि दिवावाक्येनानभिहितः पदार्थान्वयरूपेणैव स्वार्थवद् गमयिष्यते ।
अत आह--- न रात्र्यादीति ।
न हि दिवावाक्ये रात्र्यादिपदार्थाः सन्ति, कुतस्तत्र तेषामन्वय इति ॥५६॥
ननु दिवादिपदार्थान्वयादेव रात्र्यादिवाक्यार्थः प्रत्येष्यते, अत आह---न दिवादीति ॥५७॥


अन्यार्थव्यापृतत्वाच्च न द्वितीयार्थकल्पना ।
तस्माद् वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते ॥ ५,७.५८ ॥
तस्य चागमिकत्वेऽपि यत्तद् वाक्यं प्रतीयते ।
प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद् भवेत् ॥ ५,७.५९ ॥
न ह्यनुच्चारिते वाक्ये प्रत्यक्षं तावदिष्यते ।
नानुमानं न चेदं हि दृष्टं तेन सह क्वचित् ॥ ५,७.६० ॥
यदि त्वनुपलब्धेऽपि सम्बन्धे लिङ्गतेष्यते ।
तदुच्चारणमात्रेण सर्ववाक्यमितिर्भवेत् ॥ ५,७.६१ ॥
न चार्थापत्तिगम्यानि सर्वैः सर्ववचांसि हि ।
सम्बद्धान्युपलब्धानि येन तेष्वनुमा भवेत् ॥ ५,७.६२ ॥
न ह्यनेकार्थतेति यदुक्तं तद् विवृणाति---अन्यार्थेति ।
अतो वाक्यान्तरस्यैवायमर्थो न दिनावाक्यस्येत्याह--- तस्मादिति ॥५८॥
एवं तावन्न मूलागमस्यायमर्थः , येन तु वाक्यान्तरेण बुद्धिस्थेनायमर्थोऽवगम्यते, तस्यैव प्रत्यक्षादिषु मध्ये प्रमाणं निर्धारणीयमित्याह--- तस्येति ॥५९॥
तत्र प्रत्यक्षं तावन्न तत्सिद्धौ प्रमाणमित्याह---न हीति ।
अनुमानमपि तेन सम्बद्धस्य दिवावाक्यस्यादर्शनान्न सम्भवतीत्याह--- नानुमानमिति ॥६०॥
अविदितसम्बन्धे तु दिवावाक्ये लिङ्ग इष्यमाणेऽव्यवस्थेत्याह---यदि त्विति ॥६१॥
यदि तूच्यते सम्बन्धमेवदिवावाक्यस्य रात्रिवाक्येनगृहीत्वा ततस्तदनुमास्यत इति, सिध्यत्येवम्, न तुश्रुतार्थापत्तिवेद्यानि सर्वाणि लोकवेदवाक्यानि सर्वैः प्रतिपादकवाक्यैः सम्बद्धान्यवगतानि ।
अतः कथं तेभ्यस्तान्यनुमीयन्त इत्याह---न चेति ॥६२॥


न च सत्तानुमानेन विशेषो वानुमीयते ।
इह वाक्यविशेषस्य सत्तैव त्ववगम्यते ॥ ५,७.६३ ॥
पूर्वसिद्धः स्वतन्त्रोर्ऽथः स्वतन्त्रेण विशेषितः ।
धर्मी धर्मविशिष्टोऽत्र नानुमेयः प्रतीयते ॥ ५,७.६४ ॥
अथ श्रुतस्य वाक्यस्य मीयते तद्विशिष्टता ।
ततः पक्षोऽभ्युपेतः स्यादप्रसिद्धविशेषणः ॥ ५,७.६५ ॥
किञ्च लिङ्गान्तराभावादेतस्य यदि लिङ्गता ।
प्रतिज्ञार्थैकदेशत्वं पदवत् तै प्रसज्यते ॥ ५,७.६६ ॥
तद्वदेव निराकार्या वचसोर्धर्मधर्मिता ।
नागृहीते हि तद्धर्मो गृहीते नानुमेयता ॥ ५,७.६७ ॥
इतश्च नानुमानमित्याह--- न चेति ।
केनचिद्धि सामान्यात्मना ज्ञातसम्बन्धेन विशिष्टं किञ्चिदनुमीयते न वस्तुसत्तामात्रम् ।
न च विशिष्टः , अज्ञातसम्बन्धत्वात् इह तु तदुभयं विपरीतमिति ॥६३॥
यतश्चात्र वाक्यास्वरूपमेव प्रमेयमतः पर्वतादिरिव पूर्वसिद्धः स्वतन्त्रोऽसम्बद्धः केनचिदग्न्यादिनेव स्वतन्त्रेण केनचिद् विशेषितो धर्मी धर्मविशिष्टो नास्तीत्याह--- पूर्वसिद्ध इति ॥६४॥
अथ श्रुतमेव वाक्यं धर्मितयोपादायाश्रुतवाक्यविशिष्टता साध्यते ततस्तदप्रसिद्धेरप्रसिद्धविशेषणः पक्ष इत्याह--- अथेति ॥६५॥
अपि च श्रुते वाक्येऽश्रुतवाक्यविशिष्टे साध्यमाने न तावत् किञ्चिल्लिङ्गमुपलभ्यते, न चालिङ्गकनुमानं भवति, तद् यदि तदेव पुनर्लिङ्गमिष्यते ततः प्रतिज्ञार्थैकदेशित्वम्, यथा पदे पक्षीकृतेर्ऽथविशिष्टे साध्यमानेऽभिहितमित्याह---किञ्चेति ॥६६॥
धर्मधर्मिभावोऽपि दिवावाक्यरात्रिवाक्यदयोः शब्दार्थयोरिव निराकार्य इत्याह--- तद्वदेवेति ।
यथा तत्रार्थे धर्मिण्यप्रतिपन्ने न पदं तद्धर्म इत्युक्तम्, एवमिहापि नाप्रतिपन्ने रात्रिवाक्ये तद्धधर्मतया दिवा
क्रियाकारकसम्बन्धादृते नास्ति तु धर्मता ।
अवाचकतया चैतन्न धर्मो विषयात्मना ॥ ५,७.६८ ॥
प्रतीतेर्वाचकत्वं चेत् प्रसक्तानेकशक्तिता ।
अनुमाविषयोत्थं तु धर्मत्वं निष्फलं भवेत् ॥ ५,७.६९ ॥
पदार्थैरपि तद्वाक्यं नासम्बन्धात् प्रतीयते ।
सामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि ॥ ५,७.७० ॥
वाक्यं प्रतीयते ।
अथ तु पक्षधर्मताप्रतिपत्त्यर्थं तत् प्रथममवगतमित्युच्यते ततोऽनुमेयाभाव इत्यभिप्रायः ।
अभिप्रायं
विवृणोति--- नागृहीत इति ॥६७॥
अपि च तत्रैव पदे वर्णितम्--- न क्रियाकारकसम्बन्धादृते सम्बन्धो भवतीति ।
अतो यथा पदस्य न कश्चित्
क्रियानिवन्धनोर्ऽथसम्बन्धोऽस्तीति न तद्धर्म इत्युक्तम्, एवं दिवावाक्यस्यापि रात्रिवाक्यधर्मत निराकार्येत्याह---क्रियेति ।
न चात्र विषयविषयिभावरूपापि द्वयार्वाक्ययोः शब्दार्थयोरिव सम्बन्धो भवति उच्यते हि शब्देनार्थः , न तु वाक्यं वाक्यान्तरस्य वाचकमित्याह--- अवाचकेति ।
पदे त्वर्थप्रतीतिजनकत्वेन तद्विषयतामङ्गीकृत्यानुमेयाभावो दर्शितः ।
इह तु वाक्यस्यावाचकत्वात् तद्विषयत्वमेव प्रत्येतुं न शक्यते इति विशेषः ॥६८॥
यदि तूच्यते प्रतीयते तावद् दिवावाक्याद् रात्रिवाक्यम्, अतस्तस्यापि तद्वाचकत्वमित्यस्ति विषयविषयिलक्षणः सम्बन्ध इति, तत्रैकं वाक्यमनेकार्थमभ्युपगतं भवेत्, स्वार्थं हि तत्प्रतिपादयति रात्रिवाक्यमपि, न चैवं न्याय्यमित्यभिप्रायेणाह---प्रतीतेरिति ।
अथोच्येत--- माभूदवाचकतया त्दविषयत्वम्,तेन तु तद्वाक्यमनुमीयते, अतस्तल्लिङ्गमनुमानविषयतया लिङ्गमेव दिवावाक्यं तद्धर्मतयाभिधीयत इति ।
यत्तावदनुमानविषयभावादुत्थितं तद्धर्मत्वं तदनुमानस्य पूर्वसिद्धत्वान्निष्फलमित्याह--- अनुमेति ॥६९॥
एवं तावद् दिवावाक्यमलिङ्गमित्युक्तम्, तद्गतपदार्थानामप्येवमेव लिङ्गता निराकार्येत्याह---पदार्थैरिति ।
नन्वगृहीतसम्बन्धा एव पदार्था


न तु वाक्यान्तरेणैषां विना किञ्चिन्न सिध्यति ।
न चाप्यन्यः प्रकारोऽस्ति तेन वाक्येन सङ्गतौ ॥ ५,७.७१ ॥
अथैतद्वाचि कल्प्येत वाक्यमन्यत् तथैव च ।
प्रसङ्गात् तत्र दूरेऽपि नासम्बन्धात् प्रमुच्यते ॥ ५,७.७२ ॥
ततश्च प्रथमादेव वरं ज्ञातुमसङ्गतात् ।
अन्वयव्यतिरेकौ च प्रतिषेध्यौ पदे यथा ॥ ५,७.७३ ॥
यथा वाक्यार्थं गमयन्ति, एवं रात्रिवाक्यमपि किं न गमयन्ति, अत आह--सामान्येति ।
क्रियासामान्यं कारकसामान्यं वा प्रतिपन्नमलब्धेतरेतरव्यतिषङ्गमन्यथा न सिध्यतीति तं विशेषं गमयति, यश्चासौ विशेषः स एव तु वाक्यार्थ इत्युच्यते इति ॥७०॥
न चैष प्रकारो रात्रिवाक्यप्रतिपादने सम्भवतीत्याह---न त्विति ।
यद्यपि दिवावाक्यं न रात्रिवाक्यस्य वाचकम्, तथापि कल्पयिष्यामः , ततश्च तत्प्रत्येष्यत इति ।
तदिदमाशङ्केते तावत् --- अथैतद्वाचीत्यन्यदन्तेन ।
अत्र दूषणमाह--- तथैवेति ।
अत्र तावदेवं वाक्यान्तरकल्पनायां प्रमाणमेव नास्तीति तदनादृत्य तावदनवस्थामापादयति, यदपि कल्पितं वाक्यं तदपि न रात्रिवाकय्मवगमयितुं शक्तम् ।
न च तदसम्बद्धमेव तस्य गमकमिति युक्तम् ।
पुनरपि वाक्यान्तरकल्पनायां स एव दोषः ।
एवं यदेव किञ्चिद् वाक्यं कल्पयितुमिष्यते तदेव नासम्बद्धं गमकमित्यनवस्थापत इति ॥७२॥
अथ त्वन्तिममसम्बद्धमेव गमकमिति कल्प्यते, तद् वरं प्रथमस्यैव तथाविधस्य गमक्तवं कल्पतुम्, किं वाक्यान्तरककल्पनया ।
नच तद्युक्तमित्यभिप्रायेणाह--- ततश्चेति ।
एवं तावत् पक्षधर्मत्वाद्यसम्भवेन राक्षिवाक्यस्यानुमेयत्वं निरस्तम्, अन्वयव्यतिरेकयोरपि पदवत् प्रतिषेधो दर्शयितव्य इत्याह--- अन्वयेति ।
नहि सत्येव रात्रिवाक्ये दिवावाक्यं


श्रुतवाक्येन सादृश्यं नाश्रुतस्यास्ति किञ्चन ।
तस्मादनुपमानत्वमर्थस्याप्यनया दिशा ॥ ५,७.७४ ॥
उपमानत्वलिङ्गेन वाक्यं प्रति निवारिते ।
अर्थेऽपि चैवमेव स्यात् तस्मात् पूर्वेष्वसम्भवः ॥ ५,७.७५ ॥
अतः श्रुतस्य वाक्यस्य यदर्थप्रतिपादनम् ।
तदात्मलाभ एव स्याद् विना नेत्येतदिष्यते ॥ ५,७.७६ ॥
एतदर्थाद् विना नायमित्यर्थः किं न कल्प्यते ।
वाक्यार्थवच्च किं नायमागमार्थः प्रतीयते ॥ ५,७.७७ ॥
नासतीत्यन्वयव्यतिरेकौ स्तः , तद्देशतत्कालादिसम्बन्धस्याभावात् ।
न च ज्ञानान्वयोऽसत्यपि रात्रिवाक्यज्ञाने व्युत्पन्नस्य दिवावाक्यज्ञानाद्, विज्ञानोत्तरकालभाविनोश्चान्वयव्यतिरेकयोस्तदनुपयोगादित्यादिपदवद्दर्शयितव्यमित्यभिप्रायः ॥७३॥
एवं तावत् प्रत्यक्षानुमानागमैर्न रात्रिवाक्यं प्रतीयत इत्युक्तम्, उपमानमपि तत्र न प्रमाणमिति दर्शयति---श्रुतवाक्येति त्वमन्तेन ।
दिवावाक्यवच्च तदर्थेनापि न रात्रिवाक्यमुपमीयत इत्याह--- अर्थस्येति ॥७४॥
यथा च रात्रिवाक्यस्य दिवावाक्यततदर्थाभ्यामुपमानं निरस्तमेवं रात्रिवाक्यार्थस्यापि ताभ्यां निरसनीयमित्याह--- उपमानत्वेति स्यादन्तेन ।
उपसंहरति--- तस्मादिति ॥७५॥
अतः प्रमाणान्तरराभावादर्थापत्तिरेव रात्रिवाक्यावगमे शरणमित्याह---अतैति ।
प्रत्यक्षदृष्टं पीनत्वं भोजनप्रतिषेधेन प्रतिहन्यते, पीनत्वेन दिवाभोजनम्, अतः परस्परप्रतिघाताद् दिवावाक्यस्य स्वार्थप्रतिपादनमेवानुपपद्यमानं रात्रिवाक्यमनुप्रवेशयति, अतः तद्रात्रिवाक्यं कल्प्यत इति ॥७६॥
तामर्थविषयामिति यद्क्तं तदिदानीं दूषयितुमुपन्यस्यति---एतदर्थाद्विनेति ।
अयमभिप्रायः --- पीन्तवं हि भोजनप्रतिषेधो वा परस्परेण प्रतिहन्यते तयोश्चार्थकल्पनयैवात्मलाभः ।
पीनस्य हि दिवा निषिद्धे


सविकल्पविज्ञानैः शब्दः पूर्वं प्रतीयते ।
लब्धप्रयोजने वाक्ये परं नागमिकं च नः ॥ ५,७.७८ ॥
भोजने, रात्रिभोजनेनैव पीनत्वमुपपद्यते, न रात्रिवाक्येनातोर्ऽथकल्पनैव युक्तेति ।
अपि च, यथा परैरभिधीयमानोऽपि पदार्थानुपपत्त्या गम्यमानो वाक्यार्थ आगमार्थो भवति ।
एवं वाक्यार्थानुपपत्तिगम्योऽप्यर्थः किं नागमेऽन्तर्भवतीत्याह--- वाक्यार्थेति ॥७७॥
प्रथमपरिचोदनां तावत् परिहरति---सविकल्पकेति ।
सविकल्पको हि श्रुतार्थापत्तिबोधः सविकल्पज्ञानानि च शब्दपुरः सराणि ।
अतः शब्दपर्यवसितायामर्थापत्तौ शब्दादेव सिध्यन्नर्थो नार्थापत्तेर्विषय इति ।
नन्वेवं सर्वप्रमाणविकल्पेषु समानमिदम्, इन्द्रियलिङ्गाभ्यामपि शब्दपुरः सरमेवाग्निः प्रतीयते, ततस्तयोरपि शब्दपर्यवसायितैव भवेत् अतस्तत्र स्मृतिस्थ एव शब्दोऽप्रत्यायकः , तदिहापि समानम् ।
यथा हि कर्मेन्द्रियमर्थेनैव सन्निकृष्टमिति तमेव प्रकाशयति लिङ्गं चार्थेन सम्बद्धमिति त गमयति, न शब्दम्, एवमिहाप्यनुपपद्यमानोर्ऽथेनैवोपपद्यते न शब्देन ।
तथा च दृष्टार्थापत्तयोर्ऽथविषया एव ।
अत्रोच्यते ।
सत्यमर्थद्वारिकेव वाक्यान्तरमेवाकाङ्क्षति, यथा पदं पदान्तरम् ।
न हि पचतीत्युक्ते ओदनप्रत्यक्षेणाकाङ्क्षा निवर्तते, किं तर्हि ओदनमिति पदेन, एवं वाक्यमप्यनुपपद्यमानतयावगतं वाक्यान्तरमेवाकाङ्क्षति, न तु तमर्थं स्वरूपेण ।
अत एव निर्वापमन्त्रेऽतिदेशाद् विकृतिं गते प्राकृतदेवताया अभावात् तत्पदनिवृत्तौ तस्य स्थाने सूर्यायेति पदमूह्यते ।
छेदनमन्त्रे त्विषेत्वेत्यत्र छिनद्मीति पदमध्याह्रियते ।
हृदयस्याग्नेऽवद्यति अथ जिह्वाया अथ वक्षस इत्यत्रापद्यतिपदानुषङ्गः ।
न चार्थ एवानुषज्यतेऽनुषङ्गो वाक्यसमाप्तिः सर्वेषु पेक्ष्यते शब्दोल्लेखेनापि गृह्यमाणः , किन्न्वर्थरूपेणैव, तमर्थं विकल्पयनि शब्दन्त्वस्तु नाम सन्मात्रतया ।
यदि तु तत्रापि शब्दोऽपेक्ष्यते तिरश्चामर्थविकल्पो न स्यात्, स च नास्ति दृश्येत हि तेषामपि हिताहितप्राप्तिपरिहारार्थः प्रयत्नः ।
तृषिता हि गावस्तटाकानि गच्छन्ति, वर्षातपाभि


ननु चासति सम्बन्धे सति वानवधारिते ।
गम्यज्ञानमिदं वाक्यं प्रसज्येताप्रमाणकम् ॥ ५,७.७९ ॥
भूताश्च तत्प्रतीकारक्षमं देशम् ।
अतोऽशब्दज्ञानामप्यनुमानादिविकल्पदर्शनान्न तत्र शब्दापेक्षास्तीति निश्चीयते ।
श्रुतार्थापत्तिबोधस्तु तिरश्चां नास्त्येव, शब्दव्युत्पत्तिजो ह्यसौ, न च तेषामसावस्तीति प्रत्यक्षेऽपि वर्णितम् ।
अन्येषामप्यव्युत्पन्नमशब्दानां श्रुतार्थापत्तिबोधो न दृश्यते ।
किं पुनस्तिरश्चाम् ।
अथोऽन्वयव्यतिरेकाभ्यामगम्यतेऽस्ति शब्दापेक्षा श्रुतार्थापत्तौः ।
अनुमानादिषु तु संस्कारोदबोधेनावर्जनीयतयास्तु नाम शब्दस्मृतिः , न तु शब्दापेक्षा ।
अतोऽत्र वाक्यस्यानुपपन्नस्य वाक्यान्तरमेवार्थवदुपपादकं न त्वर्थमात्रं शब्दमात्रं वा ।
अत एवागृहीतसम्बन्धस्यार्थमविदुषः श्रुतेऽप्युपपादके वाक्ये नानुपपन्नवाक्यार्थज्ञानेऽनुपपत्तिः शाम्यति, प्रतिपन्नार्थस्याप्याशयकल्पना ।
अतो न श्रुतवाक्यस्य न्यूनताबुद्धिर्निवलब्धप्रयोजन इति ।
यावद्धयकृतार्थः शब्दस्तावद् बोधोऽवगम्यते, स तदर्थो भवति ।
प्रयोजनवचनो ह्यर्थशब्दः ।
अत एव वाक्यार्थ आगमार्थो भवति ।
तु क्रियाकारकसंसर्गे लब्धप्रयोजनं वाक्यमिति ततः परमर्थान्तरमवगम्यमानं नागमिकं भवति ।
न हि प्रयोजनत्वावगतार्थानुपपत्त्या यदवगम्यते नासाद्यत इति युक्तं वाक्यार्थस्य पूर्वावगतस्यागमार्थात्वम् ।
कः पुनर्विशेषः , उच्यते ।
श्रुतागमार्थत्वे यदि प्रमादात् तन्नाशो भवति ततो यजुर्वेदादिविहितनाशनिमित्तं प्रायश्चितम्, इतरथा त्वविज्ञातनाशनिमित्तमिति यद्यविज्ञातो भूर्भुवः स्वः स्वाहेति महाव्याहृतीः समाहृत्य प्रायश्चितं समुपदिशति ।
श्रुतार्थापत्तिवेद्य एव हि वेदोऽविज्ञात इत्युच्यते, स ह्यृगादीनां नान्यतमत्वेन
ज्ञायत इति ॥७८॥
अत्र चोदयति---ननु चेति ।
न तावद् दिवावाक्यरात्रिवाक्ययोः सम्बन्धोऽस्ति, सन्नपि वा न विदितः , न
चाविदितसम्बन्धान्यदर्श


सम्बन्धस्य प्रमाणत्वं स्थितं किं चेश्वराज्ञया ।
प्रत्यक्षस्य प्रमाणत्वं कथं वा सङ्गतेर्विना ॥ ५,७.८० ॥
अस्तीन्द्रियार्थसम्बन्धस्तत्र चेन्नानपेक्षणात् ।
न हि प्रत्यक्षवेलायां सर्वेणासौ निरूप्यते ॥ ५,७.८१ ॥
येनापि तु निरूप्येत पश्चादनुभवादसौ ।
न स्यादेव प्रमाणाङ्गमसता तुल्य एव सः ॥ ५,७.८२ ॥
अप्राप्यकारिणी येषां चक्षुः श्रोत्रे च ते यथा ।
तज्ज्ञानस्य प्रमाणत्वमिच्छन्त्येवं भविष्यति ॥ ५,७.८३ ॥
तस्मादसत्त्वे सत्त्वे वा सम्बन्धस्य यदेव नः ।
जायेताभङ्गुरं ज्ञान तस्यैव स्यात् प्रमाणता ॥ ५,७.८४ ॥
नेऽन्यकल्पना युक्ता, अतिपप्रसङ्गात् ।
प्रतिबद्धस्वभावं हि प्रतिबन्धबलादेव प्रतिबन्धकमुपस्थापयति, अप्रतिबनधेन त्वन्यकल्पनायां न प्रतिनियमे कारणमस्ति ।
अतोऽप्रमाणमेवेदं रात्रिवाक्यज्ञानमिति ॥७९॥
परिहरति---सम्बन्धस्येति ।
प्रभाणत्वं प्रमाकरणत्वमित्यर्थः ।
करणसाधनश्च प्रमाणशब्द इति ।
अकारणत्वमेव प्रामाण्ये सम्बन्धस्य दर्शयति--- प्रत्यक्षस्येति ॥८०॥
नन्विन्द्रियार्तसन्निकर्षजमेव प्रत्यक्षमतो नाकारणं प्रामाण्ये सम्बन्ध इति चोदयति---अस्तीतिचेदन्तेन ।
परिहरति--- नानपेक्षणादिति ।
अनपेक्षत्वमेव दर्शयति--- न हीति ।
निरूपितो हि सम्बन्धः प्रमाणोत्पत्तौ कारणमनुमाने, न चेह तथेति ॥८१॥
प्रत्यक्षोत्तरकालं तु निरूपणं न प्रमाणाङ्गनमित्याह---येनापीति ॥८२॥
अपि चाप्राप्यकारीन्द्रियवादिपक्षे स्वरूपसत्त्वमपि सम्बन्धस्य नास्त्येव, अतो यथा ते प्रत्यक्षज्ञानस्य प्रमाणतामिच्छन्ति, एवमिहापि भविष्यतीत्यत आह---अप्राप्येति ॥८३॥
तेनानादृत्यैव सम्बद्धमुत्पन्नमसन्दिग्धमविपरीतं च देशादिभेदेऽपि ज्ञानं प्रमाणमितयाश्रयणीयमित्याह---तस्मादिति ।
जायत इत्त्यनुत्पत्तिलक्षणमप्रामाण्यं निरस्यति, अभङ्गुरमिति संशयविपर्ययाविति ॥८४॥


न चाप्यस्याः प्रमाणत्वे कश्चिद् विप्रतिपद्यते ।
भेदाभेदे विसंवादः कृतस्तत्र च निर्णयः ॥ ५,७.८५ ॥
ऋते यत्र च सम्बन्धाद् बुद्धरेव न जायते ।
तत्र किं क्रियतां सोऽपि प्रामाण्ये नैव कारणम् ॥ ५,७.८६ ॥
स्मृत्या श्रुतिर्या परिकल्प्यतेऽस्मिन् लिङ्गादिभिर्या विनियोजिका च ।
फलादिभिर्यत् परिपूरणं च सम्बन्धदृक् तत्र न काचिदस्ति ॥ ५,७.८७ ॥
अपि चार्थापत्तिरप्रमाणित्यलौकिको विवाद इति ।
न हि तया प्रवर्तमानानां प्रवृत्तिः प्रतिहन्यते ।
प्रवृत्तिसामर्थ्यं च प्रामाण्यम् ।
अनुमानाद् भेदाभेदयोरस्ति विवादः , तत्र चास्माभिः कृतो निर्णय इत्याह---न चापीति ॥८५॥
यद्येवमनुमानेऽपि सम्बन्धो नाङ्गमेवापद्येतात आह---ऋतैति ।
तत्र हि बुद्धिरेवासति सम्बन्धज्ञाने न जायत इति तदुत्पत्तौ कारणमाश्रीयत एव ।
प्रामाण्यं तु तत्रापि बाधविरहीदेवेति ॥८६॥
वेदोपयोगमर्थापत्तेर्दर्शयति---स्मृत्येति ।
भूयान् खलु वेदभागः श्रुतार्थापत्तिप्रमाणकः स तामन्तरेण न सिध्येत, यथैव हि पाठेनाभिव्यक्ता श्रुतिरात्मानं लभते, एवं श्रुतार्थापत्तिप्रमाणका हि ।
यदाह---
ऽयथैव पाठः प्रतिपत्त्युपायस्तथैव सामर्थ्यमपि श्रुतीनाम् ।
तेनैव चैकां न समामनन्ति सहस्रभागं तु समामनेयुः ॥ः इति ।
यथा तावदष्टकादिविषयां मन्वादिस्मृतिमुपलभ्य तन्मूलकारणान्विच्छायामसम्भ्भवत्सु
भ्रमविप्रलिप्सानुभवपुंवाक्यान्तरेषु स्मृतेः स्वमूलकारणमन्तरेणानुपपत्त्या श्रुतिरेव मूलतया कल्प्यते ।
तथा लिङ्गादिभिः स्वविनियोजिका श्रुतिरुपकल्प्यते---- यथा तावत् प्रकरणाम्नाते मन्त्रे स्वाध्यायविध्यध्यापिते प्रयोजनमन्तरेणानुपपद्यमाने क्रत्वपेक्षया कच सामान्यतः क्रतूपकारावगतौ विशेषापेक्षायां मन्त्रशक्तिनिरीक्षया यच्छक्नुयादित्युपबन्धेन शक्यार्थ


तत्सर्वमित्याद्यसमञ्जसं स्यात् न चेदियं स्यादनुमानतोऽन्या ।
एवंस्वभावाप्यनुमानशब्दं लभेत चेदस्ति यथेप्सितं नः ॥ ५,७.८८ ॥
इति अर्थापत्तिवार्त्तिकम् ।
विषया मन्त्रस्य विनियोजिका श्रुतिरुकल्प्यते ।
यथा बर्हिर्मन्त्रेऽनेन लुनीयादिति सोऽयं लैङ्गिको विनियोगः ।
वाक्येन तु यथा --- तस्मिन्नेव मन्त्रे दामीत्येतत् पदं लवने शक्तमिति तदेव लिङ्गे विनियुज्यते, पदान्तराणि तु तत्समभिव्याहारात्मना वाक्येनैव ।
प्रकरणविनोयगस्तु कदर्शपूर्णमासप्रकरणान्मातानां समिदादीनाम्, ते हि प्रयोजनाकाङ्क्षाः , क्रतुश्चोपकारसाकाङ्क्षः , तदेवमुभयाकाङ्क्षायामेभिः क्रतुमुपकुर्यादिति श्रुतिः कल्प्यत इति ।
स्थानविनोयोगस्तु यथा--- दर्शपूर्णमासयोरेवोपांशुयाजक्रमाधीतस्य दब्धिर्नामासीति मन्त्रस्य ।
तस्य चानेनोपांशायाजमुपकुर्यादिति श्रुतः , अध्वर्युरेतान् कुर्यादिति ।
अश्रुतफलेतिकर्तव्यताकेषु च कर्मसु विश्वजित्सौर्यादिषु पूरणसमर्था श्रुतिः कल्प्यतेऽविश्वजिता यजेत स्वर्गकामऽिति, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चमसकाम इति, आग्नेयवदितिकर्तव्येतेति ।
भूयानेवञ्जातीयकः श्रुतार्थापत्तेर्वेदोपयोगः ।
न चायमनुमानादेव सिध्यति ।
न ह्यत्रानुपपद्यमानस्य कल्पनीयेन सम्बन्धः केनचिद् दृष्टः ।
न चानपेक्षितसम्बन्धमनुमानं भवति, अतोर्ऽथापत्तरेवात्र शरणम् ।
सम्बन्धदृगिति ।
बुद्धावौपचारिको दृग्भाव इति ।
यदि नार्थापत्तिः प्रमाणमाश्रीयते सर्वमिदसमञ्जसं स्यादित्याह---तत्सर्वमिति ।
यदि तु लक्षणतो भिन्नापि पश्चादनुमानसामान्यादनुमानशब्देन वक्तुमिष्यते तदस्तु, सिद्धं नः प्रमाणान्तरमित्याह--- एवमिति॥
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
अर्थापत्तिपिरच्छेदः समाप्तः ।
*****************************************************************
अथाभावपरिच्छेदः ।
अत्र भाष्यम्---ऽभावेऽपि प्रमाणभावो नास्तीत्यस्यार्थस्यासन्निकृष्टस्येऽति ।
किं पुनरनेन लक्ष्यते ।
न तावत् प्रमाणम् ।
नहि प्रमाणाभावेन प्रमाणं लक्ष्यत इति युक्तम् ।
पूर्वोक्तप्रमाणाभावो लक्षणमिति चेत् ।
एवं तर्हि सर्वेषां प्रमाणानां समानमिदम्, सर्वाण्यपि हि प्रमाणानीतरेतराभावरूपाणि शक्यन्ते प्रमाणाभाव इति वदितुम् ।
न च सर्वप्रमाणसाधारणं किञ्चिदेकं लक्षणमस्ति, यदभावेन षष्ठं लक्ष्यते ।
अपि च--- प्रमाणं नाम कस्यचित्प्रमेयस्य व्यवस्थापकं भवति ।
तदनेन किं व्यवस्थाप्यत इति न विद्मः ।
ननूक्तं नास्तीत्यस्यार्थस्यासन्निकृष्टस्येति ।
किमुक्तं भवति ।
प्रत्यक्षाद्यविषो नास्तीत्ययमर्थोऽभावस्य प्रमेयमिति ।
तदयुक्तम् ।
नास्तीति नेदमिह प्रमीयत इत्यर्थः ।
न चाप्रमीयमाणस्य प्रमेयतेति शक्यतेऽवगन्तुम् ।
कस्य च प्रमाणस्य प्रमेयमिदम्, यदि प्रमाणाभावस्य ।
तन्न ।
प्रमाणाभावो हि प्रमितेरनुत्पत्तिः ।
सा च प्रमाणमित्यलौकिकमिव प्रतिभाति ।
यदि मतम्--- अस्ति तावन्नास्तीति बुद्धिः सर्वलौकिकपरीक्षकाणामविवादसिद्धा, न च बुद्धेरनालम्बनत्वं स्वांशालम्बनत्वं वेति विज्ञानवादे वर्णितमेव ।
अतोऽस्या एव बुद्धेर्द्रढिम्नः प्रमेयमुपकल्प्यते ।
सोऽभावस्य विषयः ।
तदिदं नास्तीति विज्ञानं प्रमाणं घटाद्यभावः प्रमेयमिति मन्यन्ते ।
अत एव प्रागभावादिभेदेन चतुर्धाभावं विभजन्ते ।
न ह्यवस्तुनो विभागः सम्भवति ।
यदि तु नाभावस्तत्त्वान्तरमिष्यते, कस्तर्हि क्षीरे दध्यभावः ।
यं प्रागभाव इत्युचक्षते ।
अतश्चैष दघ्नि क्षीराभावः , यः किमालम्बनमिति वक्तव्यम् ।
यदि भूतलमेव, तन्न ।
घटवत्यपि प्रसङ्गाकत् ।
केवलमेव भूतलमालम्बनमिति चेत् ।
कः तर्हि तत्त्वान्तरमिति सिद्धः प्रमेयभेदः , तद्भेदाच्च प्रमाणभेदः ।
न हि तत् रूपाणां भावेनैव सन्निकर्षः , नाभावेन ।
असत्यपि च तद्व्यापारे नास्तीति बुद्धेरुत्पत्तिर्दृष्टा,यथा स्वरूपमात्रदृष्टे गृहादौ देशान्तरगमने कस्यचिदभावं प्रत्यनुयुक्तेन तदैव तदभावोऽवसीयते ।
तदेवमसत्यपीन्द्रियसन्निकर्षे जायमानं नास्तीति विज्ञानं नैन्द्रियकम् ।
न चास्य किञ्चिल्लिङ्गं
जनकमस्ति ।
अनुपलब्धिर्लिङ्गमिति चेत् ।
न ।
अविज्ञानात् ।
न ह्यविज्ञातरूपं लिङ्गं लिङ्गिनमनुमापयति ।
न चाज्ञातसम्बन्धम् ।
न च तथानुपलब्धिर्ज्ञाता सत्यभावं प्रकाशयति ।
तस्या अप्यभावरुपत्वेनापरसजातीयपेक्षायामनवस्थापातात् ।
अतः प्रमाणान्तरमेवेदं भावानामसङ्करसिध्यर्थस्थेयम् ।
अस्ति च मीमांसकानां प्रसिद्धिः --- षष्ठं किलेदं प्रमाणमिति ।
अतस्तल्लक्षमार्थोऽयं ग्रन्थ इति ।
तदयुक्तम् ।
न ह्यनेन प्रमाणं(व?ल) ।
ग्रन्थतो हि प्रमाणाभाव एवावसीयते न प्रमाणम्, नास्तीत्यप्युक्ते प्रमेयाभावमेव लौकिकाः प्रतिबुध्यन्ते न प्रमेय किञ्चित् ।
अतो न तावत् ग्रन्थानुगुणं प्रमाणान्तरम्, न च युक्त्या सङ्गच्छते,सिद्धस्य हि ज्ञानस्य प्रमाणमप्रमाणं वेति विचारणा युक्ता ।
न च भूतलोपलभ्भादन्यन्नास्तीति विज्ञानमस्ति ।
तदेव हि द्वेधा प्रकाशते ।
अनयसहितमसहितं च तत् ।
यदा घटादिसहितं तदुपलभ्यते तदा घटोऽस्तीति व्यवहारः प्रवर्तते ।
तन्मात्रबोधे तु नास्तीति ।
न च वाच्यं सत्स्वपि सूक्ष्मेषु भावेषु तन्मात्रबोधो दृष्टः ।
अतस्तत्रापि नास्तीति प्रकाशत इति ।
तदेव हि द्वेधा प्रकाशते ।
द्वेधा हि तन्मात्रबोधः , दृश्ये प्रतियोगिन्यदृश्ये वा ।
तत्र या दृश्ये प्रतियोगिनि तन्मात्रबुद्धिः सैव घटादेर्नास्तित्वम् ।
येषामप्यभावः प्रमेयस्तेषामपि दृश्यादर्शनादेव नास्तीत्यभावो निश्चीयते ।
अतो येयं सर्ववादिसिद्धा तन्मात्रबुद्धिः सैव नास्तीति व्यपदिश्यते ।
यच्चाभावस्य कारणमिष्यते तत्तन्मात्रबुद्धेरवोभयवादिसिद्धायाः कारणमाश्रीयताम् ।
अतो यत्रैव प्राक् संसृष्टबुद्धरासीत् तत्रैव विलक्षणकारणोपनिपाते तन्मात्रबुद्धिरेव जायते न पुनर्घटाद्यभावः ।
(अवस्यं) चैतदेवाभ्युपगन्तव्यम् ।
अन्यथा हि नाभावो गृहीतुं शक्यते, प्रमाणाभावो हि तत्र प्रमाणम्, न चागृहीतेनं स प्रतिपादयितुं शक्यते ।
अस्ति हि सुषुप्तस्यापि प्रमाणा....(तऽ?भावः) ।
न च नास्तीति निश्चयः ।
अतो नागृहीतमदर्शनमभावं निश्चाययति, तदग्रहीतिरपि चाभावरूपत्वादपरेणादर्शनेनेत्येवमनवस्थापातः ।
यदि च सन्मात्रमेवादर्शनं निश्चाययति, ततो निवृत्तेऽप्यदर्शने प्राक् देवदत्तो


प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
नासीदिति प्रितपत्तिर्न स्यात् ।
भवति हि कदाचिदेतत् ।
यो यत्र न दृष्टस्तस्मिन् पुनदृश्यमान एवासत्यप्यदर्शने प्रचीनाभावज्ञानं तदसत्यदर्शने न स्यात् ।
अतः प्रचीनादर्शनविमर्शजमेव तज्ज्ञानमिति वाच्यम् ।
एवं च गृह्यमाणमेव तदभावं प्रकाशयति ।
ग्रहणे चानवस्थाप्रसङ्गः ।
तन्मात्रसंविदेव त्वदर्शनमित्याश्रीयमाणे न किञ्चिद् दुष्यति ।
स्वप्रकाशा हि सा फलभूता न प्रकाशान्तरमपेक्षते ।
अतस्तन्मात्रानुभव एव तदभावुत्वेनापदिश्यते ।
अतो न प्रमेयान्तरमभावः ।
न च नास्तीति ज्ञानं प्रमाणम्, भ्रमवदिति न विद्मः किमत्र लक्ष्यते इति ।
अत्राह--- किमत्र न ज्ञायते,यथोक्तं भवता ग्रन्थतस्तावत् प्रमाणाभाव एवावसीयते, केचित्किलाभावं नाम प्रमाणमातिष्ठन्ते, तन्निराकरणार्थ एवायं भाष्यकारस्य प्रयत्नः ।
कथमनेन निराक्रियते ।
श्रूयताम् ।
यदेके वदन्ति--- नास्तीत्यस्यार्थस्य असन्निकृष्टस्येति, प्रत्यक्षाद्यविषयस्याभावः प्रमाणमिति, तन्न, प्रमाणाभावो ह्यसौ--- प्रमाणं न भवतीत्यर्थः ।
अप्रमाणत्वे चोक्तो हेतुः ।
एतदपि नोपपद्यते ।
यदि ग्रन्थानुगुण्येनायमर्थो व्याख्यास्यते ततो विस्पष्टः प्रदेशान्तरे भाष्यविरोधः , एवं हि प्रमाणगता संख्या व्यवहारं भिनत्तीति प्रतिज्ञामात्रेण प्रतिपक्षनिराकरणं भवतीति साम्प्रतम् ।
तस्माद् व्याख्येयमेतत् ।
अत्राह---प्रमाणेति ।
अयमर्थः ।
प्रमाणलक्षणमेवेदम् ।
यत्तूक्तं तदभावेन कथं तल्लक्ष्यते इति ।
सत्यम् ।
न प्रमाणमात्रविवक्षया प्रमाणशब्दः अपि तु किमुक्तं भवति, पूर्वोक्तप्रमाणपञ्चकाभाव इति ।
अस्ति च पञ्चानां भावोपधानमेकम्, सर्वाणि हि भावप्रमाणानि, अतो भावप्रमाणा
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥ ५,८.१ ॥
भावोऽभावप्रमाणमिति ।
स चोपरिष्ठाद् द्वेधा व्याकरिष्यते--- आत्मनोऽपरिणामो वा नास्तीति वा भावज्ञानमिति ।
अस्ति वा भूतलमात्रोपलम्भादन्यन्नास्तीति विज्ञानम् ।
बाढम् ।
कोऽस्य विषयः ।
चतुर्धा व्यूढः प्रमेयाभावः ।
असति हि तस्मिन् पादविहारादिव्यवहारः कण्टकाद्यभावावधारण पुरः सरः सोऽप्यभावस्यासति प्रमेयत्वे न स्यात् ।
यदि भूतलमात्रमत्रोपलभ्यते न कण्टकादिविवेकः , सत्स्वपि तेषूपलभ्यत इति नास्तीति धिया गृह्येत ।
बुध्यपलास्तु संविद्विरुद्ध एव ।
न हि भावाभावयोः प्रकाशो विशिष्यते ।
यत्तूक्तं तन्मात्रधीरेव घटो नास्तीति व्यपदिश्यत इति ।
तत्र न विद्मः किं मात्रशब्देन व्यवच्छिद्यत इति ।
यदि न किञ्चिद् व्यावर्तयति, अनर्थकस्तर्हि ।
अथ व्यावर्तयति ।
अस्ति तर्हि व्यावृत्तिर्विषयः , इतरथा सदात्व एव व्यावर्तयतीति व्यवहारो भवेत् ।
अयमेव संसृष्टधियस्तन्मात्रधियो विशेषः ।
यदसौ विविक्तविषया ।
विषयान्तरविवेकश्चाभावः ।
बुद्धिरेव विषयः न ततोऽन्य इति चेत् ।
सा तर्हि संसर्गोपलम्भेऽप्यस्तीति नास्तीति प्रकाशेत ।
अपि च यद्यत्र प्रतिषिध्यते
तत्तत्र नास्तीत्युच्यते ।
न चेह घटो नास्तीति बुद्धिः प्रतिषिध्यते तत्तत्र नास्तीत्युच्यते ।
न चेह घटो नास्तीति बुद्धिः प्रतिषिध्यते,
बुद्धिगोचरे हि नास्तीति शपब्दे बुद्धेरेवाभावः स्यात् ।
अथोच्यते घटो नासतीत्ययमर्थः --- भूतलमात्रमुपलभ्यत इति ।
न तावदेवं लौकिका बुध्यन्ते ।
अपि चैवं सूक्ष्मस्य वस्तुनः सदसद्भावौ प्रति जिज्ञासा न स्यात्, यद्यभावो नाम न कश्चिदस्ति, तर्हि वस्तुन्युपलब्धे कोऽयमपरः संशयः सूक्ष्मेषु केशकाटादिषु, तन्मात्रोपलम्भो हि भावान्तराणामभावः , स च ज्ञात एवासंशयितव्यश्च, संविदः स्वप्रकाशत्वात् किमपरमन्विष्यते ।
दृश्ये प्रतियोगिनि तन्मात्रबोधोऽभावो नादृश्य इति चेत्, किं पु(न)रदृश्यतया, यदा बुद्धेरभावो नातिरिच्यते ।
यदि तत्त्वान्तरमभावो भवेत्, तदा तदवधारणे दृश्यादर्शनमुपयुज्यते ।
आत्मेन्द्रियमनोर्ऽथसन्निकर्षो हि ज्ञानजननकारणम्, तद् यदा सत्स्वप्यविगुणेष्विन्द्रियादिषु जिज्ञासितोऽप्यर्थः प्रयत्नेनान्विष्टो न दृश्यते तदा तदभावाददर्शनमिति कल्प्यते ।
तदेवं दृश्यत्वसिद्ध्यर्था युक्ता सूक्षजिज्ञासा ।
तन्मात्रोपलम्भे त्वभावेऽदृष्टार्थमेव दृश्यविशेषणमापद्येत ।
यच्चोक्तम्--- यदभावस्य कारणं तत्तन्मात्रधिम एव कल्पनालाघवादस्त्विति ।
तदयुक्तम् ।
न हि कल्पनालाघवं भवतीति प्रमाणावगतमुपेक्षितुं शक्यम् ।
न च यदभावस्य कारणं तत्तन्मात्रधिय इति युक्तम् ।
मुद्गरप्रहारादिर्ह्यभावस्य कारणम् ।
न च तेन तन्मात्रबोधो जन्यते ।
भूतलादिवस्तुरूपप्रकाशो हीन्द्रियादिकारणकः , नासौ घटादेरुत्सारणं प्रहरमं वापेक्षते ।
यत्तु नानिरूपतिमदर्शनमभावं निश्चाययति, सुषुप्ते प्रसङ्गादिति ।
तदयुक्तम् ।
न ह्यगृहीते वस्तुनि निराश्रयोऽभावः प्रकाशते, क्वचिद्धि कस्यचिदभावः प्रतिभाति न स्वतन्त्रः ।
अत एवाह---
वस्तुरूपे न जायत इति ।
न च सुषुप्तस्य किञ्चित् प्रकाशते ।
क्व चाभावः परिच्छिन्द्यात् ।
अपि च योग्यप्रमाणानुत्पत्तिरभावं निश्चाययति, न च सुषुप्तस्य प्रमाणयोग्योर्ऽथः , यो न प्रकाशत इति कथमभावनिश्चयो जायते, अतो नादर्शनमगृहीतमिति सुषुप्तस्याभावो न प्राकशते, किन्तु योग्यादर्शनमेतन्न भवतीति ।
यच्चापि निवृत्तेऽप्यदर्शने प्राङ्नास्तित्वं व्यपदिश्यते सम्प्रति दृश्यमानस्यापीति ।
तन्न ।
तत्र हि समानोपलम्भयोग्येषु बहुषु स्मर्यमाणेषु यदेको न स्मर्यते, तेन स्मृतिनिवृत्त्या फलतः प्रत्यक्षनिवृत्त्या तदबावः प्रतीयते स्मृत्येव भावान्तराणाम् ।
तदानीन्तनोऽभावः स्मृतिनिवृत्तिश्च तदानीमस्त्येव ।
न चावगम्यते ।
वसत्वभावमेव तु प्राचीनमवगमयतीति नानवस्था ।
अतो नास्तीति ज्ञानं प्रमाणम्, अभावश्च प्रागभावादिभेदभिन्नः प्रमेयमिति साम्प्रतम् ।
तदयमर्थो भवति ।
यत्र पञ्च प्रमाणानि सम्भवत्प्रतिपत्तीनि यथायथं पटादेर्वस्तुनः सत्तां बोधयितुं न जायन्ते, तस्मिन् विषयेऽभावस्य प्रमाणता सम्भवति, तदनेन प्रमाणशब्दोऽधिकारात् प्रमाणपञ्चके प्रयुक्त इति दर्शितम् ।
वस्तुरूपे न जायत इति च स्वतन्त्राभावमात्रज्ञानं न प्रमाणमिति दर्शयति ।
लौकिकप्रमाणलक्षणकथनाच्च यत्रैव प्रमाणानां शक्तिसम्भवस्तत्रैव तेषामनुत्पादः प्रमाणमभावोऽभावावधारणे ।
तादृशेनैव हि लौकिका नास्तीति बुध्यन्त इति ।
भाष्यस्याप्ययमर्थः --अभावोऽपि न लौकिका नास्तीति बुध्यन्त इति ।
अव्यभिचारात् ।
प्रमाणाभावो ह्यसन्निकृष्टेर्ऽथेऽभावाख्ये नास्तीत्यनेन रूपेण प्रकाशमाने यां बुद्धिमुत्पादयति साभावप्रमा(णऽ?) ।


वस्त्त्वसङ्करसिद्धिश्च तत्प्रामाम्यसमाश्रया ।
क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते ॥ ५,८.२ ॥
नास्तिता पयसो दध्नि प्रध्वंसाबाव इष्यते ।
गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ॥ ५,८.३ ॥
शिरसोऽवयवा निन्मा वृद्धिकाठिन्यवर्जिताः ।
शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥ ५,८.४ ॥
क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः ।
शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तरात्मनि ॥ ५,८.५ ॥
न चैवञ्जातीयकस्य व्यभिचारः सम्भवतीति ।
व्यवहितमपि चाकाङ्क्षावशात् यां बुद्धिमुत्पादयतीति सम्बन्धनीयम् ।
ऽयेन यस्याभिसम्बन्धो दूरस्थेनापि तेन तत्ः ।
इति न्यायात् ॥१॥
यत्र वस्तुसद्भावबोधार्थं योग्यप्रमाणानुदयस्तत्राभावः प्रमाणमित्युक्तम्,किं पुनस्तत्रानेन प्रमीयते, अभावस्तावत् स्वप्रमाणैरेव यथास्वमवगम्यते, अत आह---वस्त्वशङ्करैति ॥१ १।२॥
वस्त्वसङ्करमेव विवृणोति--- क्षीरे दधीति सार्धद्वयेन ।
योऽयं कार्यकारणादिना परस्परविवेकश्चतुर्धा दर्शितः स वस्त्वङ्कर इत्याख्यायते ।
सोऽभावेन प्रमीयते ।
शशशृङ्गादिरूपेणेति ।
तेन रूपेणालोच्यमानाः शशमूर्ध्न्यवयवा अभावः ,
स्वरूपेण तु भावा एवेति ॥२-४॥
असति त्वभावप्रामाण्ये सर्वः सर्वेण सङ्कीर्यत इत्याह--- क्षीर इति द्वयेन ।
एवमिति ।
यथा क्षीरे दधि एवं दध्नि क्षीरमित्यर्थः ।
शशे शृङ्गमित्यतः प्रभ्तयत्यन्ताभावासिद्धौ दोषप्रसञ्जनम् ।
अभावप्रमाणानाश्रयमे हि (?) न शशादिषु शृङ्गादीनामात्यन्तिकोऽभावः सिध्यति ।
परिपन्थिनश्च भूतचैतन्यवादिनो न निराकर्तुं शक्यन्ते ।
महाभूतानां च वाय्वादीना


अप्सु गन्धो रसश्चग्नौ वायौ रूपेण तौ सह ।
व्योम्नि संस्पर्शिता ते च न देचस्य प्रमाणता ॥ ५,८.६ ॥
न च स्याद व्यवहारोऽयं कारणादिविभागतः ।
प्रागभावादिभेदेन नाभावो विद्यते यदि ॥ ५,८.७ ॥
न टचावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता ।
कार्यादीनामभावः को यो भावः कारणादिना ॥ ५,८.८ ॥
मात्यन्तिको गन्धाद्यभावो न सिध्येत् ।
यथोत्तरं हि चत्वारि महाभूतान्येकैकगुणरहितानीति स्थितिरिति ॥५,६॥
सर्वत्र सङ्करे दोषमाह---न चेति ।
योऽयं कारणादिविभागेन लौकिकानां व्यवहारो दृश्यते, सर्वसङ्करे न स्यात्, क्षीरमानयेति नियुक्तो यत् क्षीरमेवानयति न दधि, दध्यानयने क्षीरम्, इदमसति कार्यकारणादीनामतिरेतरविवेके न सिध्यतीति ॥७॥
ननु नाभावो नाम तत्त्वान्तरमुपलभ्यते, भूतलं हि स्वप्रमाणादवगच्छामः , घटं चासति प्रमाणे न पश्यामः , न तु घटाभावो नामापरः कश्चित् बुद्धौ भवति ।
घटो नास्तीत्यपि घटो न प्रमीयत इत्यर्थः , न तु घटाबावः प्रमीयत इति ।
अतः सर्वोपाख्याविरहलक्षण एवाभावो न किञ्चित् तत्त्वान्तरमत आह---न चेति ।
यत्तावत् भावप्रमाणैर्नोपलभ्यत इति ।
सत्यम् ।
अत एवाभावः प्रमाणान्तरम् ।
घटो नास्तीत्यपि नायमर्थः घटो न प्रमीयते इति, सन्नपि हि घटो न प्रमीयत इत्युच्यते ।
अत एव घटोऽस्ति न वेति पृष्टोऽनिर्णीताबावो नास्तीति व्यपदिशति, किन्तु अनुपलब्धिमात्रम् ।
अतोऽभावप्रमितिरेवायं घटो नास्तीति ।
यश्चायं चतुर्धा भेदो वर्णितः सोऽपि सर्वोपाख्याविरहलक्षणेऽभावे न सिध्यति ।
प्रयोगश्च भवति--- वस्तु अभाविऽ(?), चतुर्धा भेदाद्, द्रव्यादिवदिति ।
यदप्याहुः --- नाभावो नाम किञ्चित् तत्त्वम्, प्रत्यर्थनियतेन ह्यात्मना नीलादयः परस्परं भिद्यन्ते, नैवमभावस्य भावात् किञ्चिद् भेदकम् ।
अतो न व्यावृत्तमुपलभामह इति कथं तत्त्वान्तरमवस्थापमयामः ।
तद्व्यवहारस्तु नास्तीति विकल्पशब्दप्रयोगात्मा भावाश्र एव कथञ्चिदुपपादनीयः , न त्वेकाकारप्रतिनियतादन्यासंसर्गिणो(र?)भावादन्योऽभाव इति ।
तदप्येकदेशिनिराकरणेनैव निराकृतम् ।
अपि च, अविषयो नास्तीति विकल्पः कथं संवेद्यत इति वक्तव्यम् ।
शब्दसंस्पृष्टं हि रूपं विकल्पस्य विषयः , न चेह तदस्ति ।
न चात्मा विकल्पस्याभिलापसंसर्गयोग्यः , असाधारणत्वात् ।
अत एवात्मनि निर्वकल्पत्वात् कल्पना स्वसंवित्ति प्रत्यक्षामाह ।
यदाहऽनैनमियमाभिलापेन संसृजति ।
तथा वृत्तेरात्मनि विरोधात्ः इति ।
यदि मतं--- जात्यादिवदभावविकल्पा अपि समारोपितविषया एव, नानेनाभावविकल्पो दुष्यतीति ।
तन्न ।
समारोपितं हि यत्किञ्चिज्जातयीकं तत्प्रतिविकल्पमन्यदन्यच्च, कथमेकशब्दालम्बनं भवेत् ।
कल्पिताकारभेदानामेकः कश्चिदस्ति प्रतिसन्धाता, यः पूर्वापरयोरारोपितैकत्वाध्यवसायादेकशब्दं प्रयुञ्जीत ।
विकल्पास्तुक्षणिकाः स्वविषये नियता नान्योन्यस्य विषयमभिनिविशन्त इति कथं प्रतिसान्दधीरन् ।
असति च विपर्यये समारोपितविषयत्वाभिधानमलीकमेव ।
तदवश्यं नास्तीत्येकशब्दोपश्लिष्टमुपेतयाश्रयणीयं भाववदभावाख्यमपि किञ्चिदस्थितं रूपम् ।
अत एव किं पुनस्तत्त्वमित्यपेक्षिते सतस्तु सद्भावोऽसतसत्वसद्भाव इति द्वेधैव तत्त्वविद्भिस्तत्त्वमाश्रितम् ।
अपि च--- असत्यभावे कस्य हेतोराहतस्य घटस्यानुपलम्भः , विनष्टत्वादिति चेत् ।
को विनाशः ।
यदि न किञ्चित्, प्राग्वदुपलम्भप्रसङ्ग ।
न ह्यप्रच्युतप्राच्यार्थक्रियारूपस्यानुपलम्भे घटस्य किञ्चित्कारणमधुना पश्यामो यद्यस्य विनाशो नाम किमपि तत्त्वान्तरं नाश्रीयत इति सिद्धं तत्त्वान्तरमिति ।
एतच्चानुपाख्येयत्वमभावस्य निराकर्तुमुक्तम्--- न त्वबावो वस्तु, लोकविरोधात् ।
यथाह्यचन्द्रः शशीति लोकविरुद्धम्, एवमभावो वस्त्विति ।
सत्ता हि वस्तुत्वम्, न चासावभावे वस्तुत्ववादः न मुख्यतया ।
अभावो ह्यर्थक्रियासमर्थ एव, ज्ञानजनन दर्शनात् ।
विहिताकरणे च प्रागभावस्यैव क्रियान्तरविशेषणतया प्रत्यवायहेतुत्वात् ।
एवमुत्तरत्रापि वस्तुताप्रसाधनं वेदितव्यमिति ।
इतश्चभावो


यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् ।
तस्माद् गवादिवद् वस्तु प्रमेयत्वाच्च गम्यते ॥ ५,८.९ ॥
न चौपचारिकत्वं वा भ्रान्तिर्वापि यदृच्छया ।
भवत्यतो न सामान्यविशेषात्मकता मृषा ॥ ५,८.१० ॥
वस्त्वित्याहो---- कायादीनमिति ।
वस्त्वेव सदसदात्मकमिति सिद्धान्तः ।
तत्र कथं वस्तुरूपस्यैवाभावस्य निः स्वभावत्वम् ।
किमिदानीं भावाभावयोरभेद एव, नेति वदामः , भेदोऽपि ह्यनयोर्धर्मधर्मितया कियानप्यस्त्येव रूपादीनामिव ।
कः पुनरनयोः सम्बन्धः , संयोगः समवायो वा, न तावत्संयोगः , द्रव्यधर्मत्वात् तस्य ।
न च समवायः , भावाभावप्रसङ्गात् ।
अभावसमवाये हि भावो न स्यादेव ।
नाभावसमवायादसत्त्वम्, न हि घटोऽभावसमवायादसन् भवति ।
असति समवायानुपपत्तेः ।
किन्तु प्रहारादेव घटस्याभावः ।
यत्त्वनाहतमनपसारं च भावान्तरमभावरूपेणावगम्यते तत् कथमसद् भविष्यति ।
अतः स्वहेतोरेव जायमानो नित्यो वा सर्वोऽसङ्कीर्णस्वभाव एव जायत इति सिद्धमस्य जात्यादिवद् भावधर्मत्वम् ।
ततश्च वस्तुत्वमिति ॥८॥
इतश्च वस्तु अभाव इत्याह---यद्वेतिवस्त्वन्तेन ।
अभाव इति सामान्यात्मना प्रागभावादिबेदेन च व्यावृत्त्यात्मना गृह्यमाणोऽभावः सामान्यविशेषात्मकः , ततश्च वस्तुविषयप्रयोगार्थः --- अभावो व्सतु, सामान्यविशेषात्मकत्वात् गवादिवदिति ।
तस्मिन्नेव साध्ये हेत्वन्तरमाह--- प्रमेयत्वादिति ॥९॥
नन्वयमसिद्धो हेतुः ,औपचारिको हि सामान्यविशेषभावोऽभावे ।
एकशब्दवाच्यं सामान्यरूपं दृष्टं गवादि, नानाशब्दवाच्यं च विशेषरूपं शाबलेयादि ।
अतोऽत्राप्यौपचारिकः सामान्यविशेषभावो विवेकज्ञस्य ।
असति तु विवेके एकशब्दनिबन्धनभ्रम एवायम्--- अभावः सामान्यविशेवात्मेति ।
अत आह--- न चेति ।
सति हि बाधके भ्रान्तिरुपचारो वा कल्प्यते, न चेह तथेति भाव इति ॥१०॥


प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।
सात्मनोऽपरिणमो वा विज्ञानं वान्यवस्तुनि ॥ ५,८.११ ॥
स्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।
वस्तुनि ज्ञायते कैश्चिद्रूपं किञ्चित् कदाचन ॥ ५,८.१२ ॥
यस्य यत्र यदोदभूतिर्जिधृक्षा वोपाजायते ।
चेत्यतेऽनुभवस्तस्य तेन च व्यपदिश्यते ॥ ५,८.१३ ॥
एवं तावत्ऽवास्तीत्यस्यार्थस्यासन्निकृष्टस्यः इति यदुतक्तं भाष्ये तद् विवृतम् ।
इदानीं प्रमाणाबावशब्दं व्याचष्टे---प्रत्यक्षादेरनुत्पत्तिरिति ।
अनुत्पत्तिरेव केति चेदत आह--- सात्मन इति ।
आत्मनो हि ज्ञानात्मकः परिणामः ।
तद् यदा आत्मा भूतलादौ न घटादिज्ञानात्मना पिरणमति सा तस्य प्रत्यक्षाद्यनुत्पत्तिः स्वरूपावस्थानं प्रमाणाभाव इत्याख्यायते, तत्प्रामाण्ये च नास्तीति ज्ञानं फलम् ।
नास्तीत्येव वा भावज्ञानं प्रत्यक्षाद्यनुत्पत्तिरित्युच्यते, अतस्तदेव प्रमाणम्, (ना?हा) नादिबुद्धिः फलमिति विवेकः ॥११॥
ननु यदि द्व्यात्मकं वस्तु, तर्हि सकृदेव तथा प्रतिभातगिति किं प्रमाणान्तरेणात आह--- स्वरूपेति ।
स्वरूपेण तद्वस्तु गवादि सद्रूपमश्वादिरूपेण चासद्रूपम् ।
तदस्मिन्नेव द्विरूपे किञ्चिदेव कदाचित् प्रतीयते न तु सर्वात्मकमेव गृहीतव्यमिति नियम इति ॥१२॥
किं पुनः कारणं द्व्यात्मकस्यैकमेव रूपं गृह्यते नापरं किञ्चिदत आह---यस्य यत्रेति ।
उद्भूतं हि गृह्यते नानुदभूतम्, अग्नेरिव रात्रौ रूपं न स्पर्शः , जिधृक्षितं वा प्रायेण ।
अतो यदेव सदसतोरुद्भूतं भवति तेनैव बुद्धिव्यपदेशौ भवतः ।
चेत्यतेऽनुभव इति किमिदम्, न ह्यनुभवश्चेत्यते, स एव चेतना, विषयस्तु चेत्यते ।
सत्यम् ।
विषयप्राप्त्यन्यथानुपपत्त्यानुभवोऽपि चेत्यत एव ।
तदनेन प्रकारेण विषयप्रकाशमेव दर्शयतीत्यदोष इति ॥१३॥


तस्योपकारकत्वेन वर्ततेंऽशस्तदेतरः ।
उभयोरपि संवित्तावुभयानुगमोऽस्ति हि ॥ ५,८.१४ ॥
अयमेवेति यो ह्येष भावे भवति निर्णयः ।
नैष वस्त्वन्तरंराभावसंवित्त्यनुगमादृते ॥ ५,८.१५ ॥
नास्तीत्यपि च संवित्तिर्न वस्त्वनुगमादृते ।
ज्ञानं न जायते किञ्चिदुपष्टम्भनवर्जितम् ॥ ५,८.१६ ॥
प्रत्यक्षाद्यवतारस्तु भावांशो गृह्यते यदा ।
व्यापारस्तदनुत्पत्तिरभावांशे जिघृक्षिते ॥ ५,८.१७ ॥
न तावदिन्द्रियैरेषा नास्तीत्युत्पद्यते मतिः ।
भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥ ५,८.१८ ॥
उद्भूतजिघृक्षितैकग्रहणे चेतरस्तनुगुणतयैव लीनो भूत्वावतिष्ठते ।
सामान्यविशेषयोरिवैकग्रहणेऽन्यतर इत्याह---तस्येति ।
इदं चान्वारुह्यवचनेनास्माभिरुक्तम् ।
अस्त्येव तु भावाभावप्रतीतावन्यतरानुगम इत्याह---उभयोरिति ॥१४॥
उभायनुगममेव दर्शयति---अयमेवेति द्वयेन ।
अयमेवेति ।
भावान्तरेणासङ्कीर्ण इत्यर्थः ।
न ह्यप्रतिसंहिते भावान्तराबावे सङ्कीर्णस्वभावो न निश्चेतुं शक्यते ।
नास्तीत्यपि प्रतिषेध्यप्रतिषेधारभावोपष्ठम्भनवर्जितं न किञ्चित् ज्ञानं जायते ।
किञ्चिच्छब्देन भावस्याभावानुगमशून्यमपि ज्ञानमस्त्येव, न त्वेवभावस्येति दर्शयति ॥१५,१६॥
दर्शितं तावत् सदसदात्मकं वस्त्विति ।
कदाचित् किञ्चिदनुभूयत इति च ।
उभयोरंशयोरिदानीं प्रमाणविभागं दर्शयति---प्रत्यक्षादीति ॥१७॥
कथं पुनरिदमवगम्यते, विस्फारिताक्षस्य हि सहसा नेह घटोऽस्ति, अघटं वा भूतलमित्यभावविशिष्टं भूतलज्ञानं जायमानमुपलभ्यते?दण्डिप्रत्यक्षवत्, तदभावस्याप्रत्यक्षत्वे नावकल्पते ।
न ह्यप्रत्यक्ष एव विशेषणे विशिष्टः प्रत्यक्षो भवति, दण्ड इव दण्डी ।
न च नास्त्येव विशिष्टा धीरिति वक्तव्यम्, अनाश्रयाभावसंवित्त्यभावात् ।
अपि चात्मा भावस्याभावः , स कथं स्वतन्त्रोऽनुभूयते ।
न हि रूपादयो भावधर्माः स्वतन्त्रा एवावसीयन्ते ।
स्वतन्त्राभाववादस्तु स्वातन्त्र्यमेव, सदसदात्मके वस्तुनीति हि दर्शयति ।
भावांशोऽभावांश इति च विस्पष्टं तदभावविशिष्टं ग्रहणमित्याह ।
किञ्चास्य स्वातन्त्र्ये प्रमाणम्, न ह्यं कदाचिदपि तथावसीयते ।
किमिदानीमभावो नावसीयत एव, स्वतन्त्रो वावसीयते ।
न तावत् पूर्वः कल्पः ,तदवगमे प्रमाणान्तराभावात् नित्यासंवित्तिसङ्गात् ।
न च संयोगप्रतिषेधे स्वतन्त्राभावावसायोऽस्ति, प्रतियोगिसंयोग्परतिषेधात्मै व ह्यभावः , स चाधारतन्त्र एवेति संयुक्तविशेषणत्वलक्षणया प्रत्यासत्त्या सतीन्द्रियसन्निकर्षे ऐन्द्रियज्ञानगोचर एव ।
एकं हीदं विशिष्टं ज्ञानम् ।
तदस्याभावः प्रमाणमिन्द्रियं वा, यद्यभावः स तर्हि भावमपि गोचरयेत् ।
न चैतदिष्टम् ।
अतः सत्युपलभ्यमाने तदैव यन्नोपलभ्यते तन्नास्तीति सत एव प्रकाशकमसतोऽपीति न प्रमाणविभागं पश्यामः ।
अत आह--- न तावदिति ।
तावच्छदोलिङ्गापेक्षया ।
तच्चोपरिष्ठान्निराकरिष्यत इति ।
अत्र कारणमाह--- भावांशेति ।
योग्यता हि कार्यदर्शनसमधिगम्या, सा चेन्द्रियाणां भावात्मकग्रहण एवोपलभ्यते नाभावेऽपि ।
विनापि तु तेन तद्ग्रहणादिति वक्ष्यामः ।
अत्र तु योग्यतासहिता प्राप्तिरिन्द्रियार्थयोः सम्बन्ध इत्यभिप्रायः ।
यत्त्वेकज्ञानसंसर्गिणोरेकप्रमाणत्वमिति ।
तन्न ।
एकस्या अपि बुद्धेर्नानाकारणत्वदर्शनात् ।
एकं हीदं भावनेन्द्रियसमाहारजं प्रत्यभिज्ञानमिति वक्ष्यामः ।
एकज्ञानप्रतिभासिनोरपि च गृह्यमाणस्मर्यमाणयोर्विवेक उक्तः ।
विविक्ता एव ते ह्यर्था इति ।
न हि स्मृत्युपस्थापितनामविशिष्टो डित्थो न प्रत्यक्षो भवति ।
नाम चाप्रत्यक्षं स्मर्यमाणत्वात्, तस्यागृहीते हि विशेषणे विशिष्टो नावगम्यते नाप्रत्यक्षे ।
एवमिहापि प्रमाणाभावोपनीताभावविशिष्टे सत्युपलभ्यमाने न किञ्चिदनुपपन्नम् ।
दण्डिन्यपि शाब्दे तावद् दण्डपदोपनीतविशेषणविशिष्ट एव प्रत्ययार्थो न दण्डोऽपि ।
प्रत्यक्षं तु योग्यतयोभयत्र प्रवर्ततां नाम, न चैवमुभयत्राक्षाणां योग्यता ।
अभावज्ञाने तदनपेक्षाया


ननु भावादभिन्नत्वात्सम्प्रयोगोऽस्ति तेन च ।
न ह्यत्यन्तमभेदोऽस्ति रूपादिवदिहापि नः ॥ ५,८.१९ ॥
धर्मयोर्भेद इष्टो हि धर्म्यभेदेऽपि नः स्थिते ।
उद्भवाभिभवात्मत्वाद् ग्रहणं चावतिष्ठते ॥ ५,८.२० ॥
वक्ष्यमाणत्वात् ।
किमिदानीमनुमानेऽपि प्रत्यक्षानुमानसमाहारजो विशिष्टबोधः ।
न ।
अनुमानस्यान्वयाधीनजंमत्वात् ।
विशिष्टेनैव चान्वयानुगमात् ।
धूमवानग्निमानिति हि व्याप्तिरवगता ।
उक्तं च---
"नैवं न ह्यत्र लिङ्गस्य शक्त्यनन्तत्वकल्पना" इति ।
अत्रापि चायमग्निमानिति विशेषबोधेऽस्त्येव प्रत्यक्षापेक्षा ।
अयमेवाभावस्य प्रतीतिप्रकारः , यत्प्रमाणान्तरप्रापिताश्रयं विशिनष्टीति न किञ्चिदनुपपमन्नम् ।
यच्च संयुक्तविशेषणतया इन्द्रियसन्निकर्षोऽभावस्येत्युक्तम्, तदयुक्तम् ।
असम्बद्धस्य विशेषणत्वानुपपत्तेरतिप्रसक्तेः ।
इतरथा विसेषणार्थमर्थितेनैव सन्निकर्षोपपत्तौ वृथैव
संयुक्तविशेषणार्थत्वाश्रयणमित्यलमेनेनेति ॥१८॥
अभिप्रायमजानानश्चोदयति---नन्विति ।
प्राप्तिमात्रं ह्यर्थेन्द्रिययोः सन्निकर्षः ।
अस्ति च भावादभिन्नस्याभावस्य भाववदेवेन्द्रियप्राप्तिरिति ।
अत्र च योग्यताया उद्धाटनेनैवोत्तरं देयम्, तदुपेक्ष्यैव तावदत्यन्ताभेदमेवायमाह, तदेतमेव तावन्निराकरो(षी?मी)त्यभिप्रायेणाह--- नहीति ।
यदि भावाभावयोरेकान्तरमभेद एव स्यात् ततो भावेन्द्रियसन्निकर्षे तदभिन्नस्याभावस्यापि स्यात्, न त्वेवमस्ति ।
अभावस्यापि रूपादिवदत्यन्ताभेदाभावादिति ॥१९॥
रूपादितुल्यतामेवाभावस्य दर्शयति---धर्मयोरिति ।
भावाभावात्मनोर्धर्मयोर्धर्म्यभेदेऽपि स्थिते भेदोऽपीष्ट इत्यर्थः ।
भेदे कारणमाह--- उद्भवेति ।
भावाभावयोरप्यु(द्भवा?चद्भूता)भिभूतयोर्गहणाग्रहणव्यवस्था दृश्यते ।
न चैतदेकत्वे कल्पिते ।
न ह्येकमेव तत्त्वमुद्भूतमभिभूतं चेति प्रतीयत इति ॥२०॥


इदमेव निमित्तं च विवेकस्य प्रतीयते ।
भावाभावधियोरक्षैः सम्बन्धोऽक्षानपेक्षणम् ॥ ५,८.२१ ॥
रूपादेरपि भेदं च केचिद् ग्राहकभेदतः ।
वर्णयन्ति यथैकस्य पुंसः पुत्रादिरूपताम् ॥ ५,८.२२ ॥
बुद्धिमात्रकृतो भेदो रूपादौ नित्यमेव हि ।
न च देशाद्यभिन्नानां समुदायावकल्पना ॥ ५,८.२३ ॥
इदं चानयोर्विवेककारणमित्याह---इदमेवेति ।
अक्षानपेक्षता चाभावधियो वक्ष्यत इति ॥२१॥
अयं च ग्राहकभेदनिबन्धनो भेदो रूपादीनामिति कैश्चिदिष्यते ।
सोऽनयोरपि शक्यतेऽवगन्तुमित्याह---रूपादेरिति ।
एवं हि केचिद् वदन्ति--- यथा ह्येकमेव मुखं मरतकपद्मरागाद्युपाधिभेदाद् भिन्नमिव प्रतिभाति, यथा चैक एव पुरुषोऽपेक्षाभेदात् भिन्नमिव प्रतिभाति, एवमिहापि भावाभावयोरौपाधिको भेदो भविष्यतीति ।
नन्वेवमौपाधिके भेदे तात्त्विकमेकत्वं प्राप्नाति ।
भवत्वस्मिन्मते,तथापि रूपादिव्यवस्था सिध्यत्येवेति ॥२२॥
इदं चान्वारुद्यवचनेनास्माभिरुक्तम्, न हि रूपादीनां ग्राहकभेदनिबन्धनो भेदः , किन्तु बुद्धिभेदनिबन्धन एव, मुखं हि प्रमाणान्तरादेकरूपमवगतं तदुपाधिभेदाद् भिद्यत इति युक्तम् ।
न त्वेकत्वे रूपादीनां भेदहेतुर्भावाभावयोरपि समान एवेत्यभिप्रायेणाह---बुद्धिमात्रेति ।
कः पुनरयं भावाभावात्मको धर्मी, यद्धर्मौ भावाभावौ, नैकं रूपादिसमुदायाद् भिन्नमुपलभ्यते, वृत्त्यादिविकल्पाक्षमत्वात् ।
अतो देशाद्यभिन्नानां रूपादीनां समुदायो धर्मी, न तत्त्वान्तरमत आह--- न चेति ।
नात्र वन इव बाधिका बुद्धिरस्तीति भावः ।
इदं च सविकल्पकसिद्धावुक्तमप्यभावाश्रयसमर्थनार्थमत्रोक्तमित्यपुनरुक्ततेति ॥२३॥


सद्गुणद्रव्यरूपेण रूपादेरेकतेष्यते ।
स्वरूपापेक्षया चैषां परस्परविभिन्नता ॥ ५,८.२४ ॥
यदि तद्वदपेक्षात्र न स्याद् भेदोऽत्र नैव हि ।
सदसद्रूपता बुद्धेर्भवेदन्यतरत्र नः ॥ ५,८.२५ ॥
सत्सम्बन्धे सदित्येवं सद्रूपत्वं प्रतीयते ।
नास्त्यत्रेदमितीदं तु तदसंयोगहेतुकम् ॥ ५,८.२६ ॥
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतीयोगिनम् ।
मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥ ५,८.२७ ॥
एवं तावदभावस्य भावाद् भेदाभेदौ दर्शितौ ।
तावेव रूपादिदृष्टान्तेन द्रढयति--सद्गुणद्रव्येति ।
न हि रूपादयः सदादिरूपेण न भिद्यन्त इति स्वरूपापेक्षयापि तेषां भेदः शक्यते वारयितुम्, तया वा भेद इति न सदाद्यात्मनाभेदः प्रतिक्षिप्यते ।
एवमभावोऽपि भावधर्मतया ततो भिन्नोऽपि स्वरूपापेक्षयाभिन्न इष्यते ।
द्रव्यरूपेणेति ।
रूपादयो द्रव्यादभिन्नाः , तच्चाभिन्नमिति तद्रूपेणैषामभेद इत्यर्थः ॥२४॥
स्वरूपापेक्षया रूपादिवद् भेदानाश्रयणे भावाभावयोरन्यतरत्र न बुद्धेः सदसद्रूपता भवेदित्याह---यदिति ॥२५॥
अस्ति त्वसाविन्द्रियसम्बन्धासम्बन्धहेतुको बुद्धिभेद इत्याह---तत्सम्बन्धैति ।
एतेन, यदाहुः --- न भावाद् भेदकमभावस्य रूपमुपलभामह इति, तन्निराकृतम् ।
सदसद्रूपविवेकादिति ।
यदिन्द्रियेण संयुज्यते भूतलं तदस्तीति प्रतीयते,
यन्न सम्बध्यते घटादि तन्नास्तीति प्रतीयत इति ॥२६॥
नन्विन्द्रियव्यापारनन्तरमेवेह घटो नास्तीति ज्ञानमुत्पद्यते , तत् कुतोऽयं विवेको नेन्द्रियेणाभावबुद्घिर्जन्यत इति ।
न ह्यसति तद्व्यापारे भावबुद्धिवदभावबुद्धिरपि जायमाना दृश्यते ।
यद्यपि भावादभावो भिद्यते, तथापि तस्य रूपादिवत्संयुक्तसमवायेन वा तद्विशेषणतया वेन्द्रिय


स्वरूपमात्रं दृष्ट्वापि पश्चात् किञ्चित् स्मरन्नपि ।
तत्रान्यनास्तितां पृष्टस्तदैव प्रतिपद्यते ॥ ५,८.२८ ॥
सन्निकर्षोऽस्त्येव ।
अतस्तज्ज्ञानमैन्द्रियकं भवेदत आह---गृहीतत्वेति ।
अयमभिप्रायः --- नानाश्रयोऽभावः शक्यते ग्रहीतुमित्याश्रयग्रहणार्थमेवात्रेन्द्रियापेक्षा नाभावग्रहणाय, यथा नास्मृते प्रतियोगिन्यभावो गृह्यत इति तत्स्मरणार्थं प्राचीनज्ञानजन्मनः संस्कारस्योदबोधाप्यपेक्षितः , एवमाश्रयग्रहणार्थमिन्द्रियम् ।
न च प्राप्तिमात्रमैन्द्रियकज्ञानजन्मनि कारणम् ।
अपि तु योग्यतासहिता प्राप्तिरिति प्रत्यक्षे वर्णितम् ।
न चेन्द्रियाणामभावज्ञानजननयोग्यता, तेष्वसत्स्वपि तद्भावादिति वक्ष्यते ।
मानसमिति कोर्ऽथः ।
किं सुखादिज्ञानवन्मनसा जन्यत इति ।
यद्येवं तथापि प्रत्यक्षतैव ।
न चानन्तरिव बहिर्मनसः स्वातन्त्र्यमस्ति ।
सत्यम् ।
सर्वप्रमाणसाधारणस्तु मनसो व्यापारोऽत्र कथितः ।
केवलात्ममनः सन्निकर्षादेव बाह्येन्द्रियानपेक्षं प्रमाणाभावेनाभावज्ञानं जन्यत इत्युक्तं भवति ।
गृहीत्वा स्मृत्वेति च धर्मधर्मिणोरभेदात् समानकर्तृकत्वाभिधानमिति ॥२७॥
कथं पुनरिदमवगम्यते भावग्रहणमिदन्द्रियापेक्षं नाभावग्रहणमिति ।
समानो हि तद्भावभावः ।
अत आह---स्वरूपेति ।
यो हि गृहस्वरूपेमेवावधार्य क्वचिद्गतः पृच्छ्यते--- तत्र चैत्रोऽस्ति न वेति, तदासौ पृष्टस्तत्र नास्तीतां तदैव प्रतिपद्यते ।
यदि त्विन्द्रियाधीनमबावज्ञानं भवेत् ना सति तद्व्यापारे जायते ।
न च पूर्वावगताभावस्मरणमेवेति वाच्यम् ।
न ह्यसति प्रतियोगिस्मरणे भावो दृश्यते ।
न चाश्रयग्रहणकाले प्रतियोगिस्मरणमस्ति ।
बहूनामेव हि पृष्टेनाभावः कथ्यते ।
न च तावातां स्मरणं सम्प्रति विशेषेण स्मर्यत इति, तदयुक्तम् ।
न ह्यभावत्वं नाम सामान्यन्यतोऽवगतो विशेषेण स्मर्यत इति, युक्तम् ।
पूर्वानुभवाहितभावनाबीजा हि सा स्मृतिः ,नाल्पमव्यतिरेकं गोचरयितुमुत्सहते ।
तस्तदानीमेव प्रतियोगिस्मरणपुरः सरमिन्द्रियानपेक्षमभावज्ञानं जायत इति मनोहरमिदम् ।
तदिदमुक्तं तदैव प्रतिपद्यत इति ।
इदं च प्रतय्क्षफलस्मृतिनिवृत्त्या फलतः प्रत्यक्षानवृत्तिरित्युक्तमेवेति ॥२८॥


न चाप्यत्रानुमानत्वं लिङ्गाभावात् प्रतीयते ।
भावांशो ननु लिङ्गं स्यात् तदानीं नाजिघृणात् ॥ ५,८.२९ ॥
अभावावगतेर्जन्म भावांशे ह्यजिघृक्षिते ।
तस्मिन् प्रतीयमाने तु नाभावे जायते मतिः ॥ ५,८.३० ॥
न चैष पक्षधर्मत्वं पदवत् प्रतिपद्यते ।
सह सर्वैरभावैश्च भावोऽनैकान्तिको मतः ॥ ५,८.३१ ॥
क्वचिद् भावेऽपि सद्भावो ज्ञातो यस्य कदाचन ।
तस्याभावोऽपि तत्रैव कदाचिदवगम्यते ॥ ५,८.३२ ॥
एवं तावदक्षजत्वमभावधियो निराकृत्तम् ।
इदानीं लैङ्गिकत्वं निराकरोति---न चाप्यत्रेति ।
अत्र चोदयति--- भावांशेति ।
परिहरति--- तदानीमिति मतिरन्तेन ।
द्वावत्र भावौ प्रतिषेध्यः प्रतिषेधाधारश्च, तत्र न तावत् प्रतिषेध्यो लिङ्गम्, अवगतं हि लिङ्गं भवति ।
न च तदा घटो गृह्यते, न हि तस्मिन् गृह्यमाणे तदभावो ग्रहीतुं शक्यते ।
सत्यां तु प्रतिज्ञायां नासतोऽदृष्टसय् लिङ्गत्वम् ।
अतो नाभावो जिघृक्षितेजिघृक्षितप्रतिषेध्यभावो लिङ्गमिति ॥२९,३०॥
अस्तु तर्हि प्रतिषेधाधारभावो लिङ्गमत आह---न चैषैति ।
एष इति परोपस्थितमपरोक्षं भावं निर्दिशति ।
यथार्थे पक्षीकृते पदमतद्धर्मतया न हेतुरित्युक्तम्, एवमेषोऽपि भूतलभावो न घटाद्यभावधर्म इति ।
अपि चान्वयाधीनात्मलाभमनुमानज्ञानम्, न च भूतलभावस्य सर्वैरभावैः सम्ब्नधो ज्ञायते ।
तत् कथं ततस्ते प्रत्येष्यन्त इत्याह--- सहेति ॥३१॥
अस्तु तावदभावान्वयः क्वचिद् भूतलादौ भावे, सद्भावोऽपि यस्य घटादेः कदाचित् ज्ञातः तस्यापि
तत्राभावोऽवगम्यत इत्याह---क्वचिदिति ॥३२॥


यत्रापय्दृष्टपूर्वत्वं यदभावस्य तत्र च ।
तदभावमतिर्दृष्टा सम्बन्धेऽक्षानपेक्षया ॥ ५,८.३३ ॥
कस्यचिद् यदि भावस्य स्यादभावेन केनचित् ।
सम्बन्धदर्शनं तत्र सर्वमानं प्रसज्यते ॥ ५,८.३४ ॥
गृहीतेऽपि च भावांशे नैवाभावेऽनयवस्तु नः ।
सर्वस्य मतिरित्येवं व्यभिचारादलिङ्गता ॥ ५,८.३५ ॥
सम्बन्धे गृह्यमाणे च सम्बन्धिग्रहणं ध्रुवम् ।
तत्राभावमतिः केन प्रमाणेनोपजायते ॥ ५,८.३६ ॥
तदानीं नहि लिङ्गेन सम्बन्धिग्रहणं भवेत् ।
तत्रावश्यमभावस्य प्रमाणान्तरतो गतिः ॥ ५,८.३७ ॥
न केवलं यद्यत्र कदाचिद् दृष्टं तन्मात्रस्य तत्राभावोऽवगम्यते, यस्यापि तु यत्राभावो न दृष्टपूर्वस्तस्यापि तत्राभावोऽवगम्यत इत्याह---यत्रेति ॥३३॥
यदि तु येन केनचिदेकेनाभावेनगृहीतसम्बन्धाद् भावादभावान्तरानुमानमिष्यते, ततोऽतिप्रसक्तिरित्याह---कस्यचिदिति ॥३४॥
न चैवमस्तीति व्यतिरेकेण दर्शयति---गृहीतेऽपि च भावांशे नैचाभावेऽन्यवस्तुनः ।
सर्वस्यमतिरित्यन्तेन ।
अनैकान्तिकश्चायं भावोऽभावान्तरैरपि सम्बन्धात् ।
अतोऽनैकान्तिकत्वादस्य घटादेरभावं गमयितुमलिङ्गत्वमित्याह--- एवं व्यभिचारादलिङ्गतेति ॥३५॥
अपि च सम्बन्धग्रहणं सम्बन्धिग्रहणाधीनम् ।
तदिहाभावाख्ये सम्बन्धिनि ग्रहीतव्ये किं प्रमाणमिति वक्तव्यमित्याह--- सम्बन्ध इति ॥३६॥
न तावल्लिङ्गगविदितसम्बन्धं तदवधारणे प्रमाणम्, इतरेतराश्रयं हि तथा स्यादित्यभिप्रायेणाह---तदानीमिति ।
अतोऽवश्यं तद्ग्रहणे प्रमाणान्तरमर्थनीयमित्याह--- तत्रेति ॥३७॥


प्रत्यादेरनुत्पत्तिर्न तु लिङ्गं भविष्यति ।
न विशेषणसम्बन्धस्तस्याः सामान्यतो भवेत् ॥ ५,८.३८ ॥
अत्रेदानीमनुपलब्धिलिङ्गवादिनो बौद्धस्य प्रत्यवस्थानमाह--- प्रत्यक्षादेरिति ।
द्वेधा हि हेतवो बौद्धैर्विभज्यन्ते--- कार्यं स्वभाव इति, अनुपलब्धिश्चेकज्ञानसंसर्गिणोरेकोपलब्धिरेव, तस्याश्च स्वरूपं ज्ञेयरूपं च प्रकाशते इति ज्ञानज्ञेयस्वभावा ।
न ह्यसौ स्वरूपमिव ज्ञेयसत्तामपि व्यभिचरति ।
तस्याश्च स्वसाध्येन नास्तीति विकल्पशब्दात्मकव्यवहारेण तद्योग्यतया वा तादात्म्यमेव प्रतिबन्धः ।
न ह्यसौ नास्तीति व्यवहारं व्यभिचरति शिंशपेव वृक्षताम् ।
तदेवं ज्ञातप्रतिबन्धानुपलब्धिः यो नाम भ्राम्यन् विविक्तदेशोपलब्धावपि घटाय घटते तं प्रति नास्तीति व्यवहारं तद्योग्यतां वानुमापयति ।
एवं च घटाद्यभावानुपलब्धिप्रयोगः --- यद् दृश्यं हि सद्यत्र नोपलभ्यते तत्तत्र नास्ति ।
नोपलभ्यते चोपलभ्यमाने देशे दृश्यो घट इति ।
एतदपि दूषयति--- न विशेषणसम्बन्धस्तस्या इति ।
य एवानुपलब्ध्यानुमातुमिष्यते घटाभावो नास्तीति व्यवहारस्तद्योग्यता वा नैकेनापि विशेषेणानुपलब्धेः सम्बन्धोऽवगतः , कथं ततो विशेषानुमानम् ।
भूतलोपलब्धिर्हि सा, तस्याश्च नानाविधानेकघटपटादिविषया नास्तीति व्यवहारा दृश्यन्त इति कथं विशेषेण घटो नास्तीति व्यवहारयेत् ।
घटानुपलब्धिरसौ, अतो घटाभावं तद्व्यवहारं वा प्रसाधयतीति चेत् ।
कस्तस्या घटेन सम्बन्धः ।
देशोपलब्धिर्हि सा, तावदेव तस्या घटानुपलब्धित्वम् ।
तच्च सर्वान् प्रत्यविशिष्टमिति कथमेकेनैव व्यपदिश्यते चेद् घटाभावो नाम कश्चित् ।
कस्माच्च सत्यपि घटे घटो नास्तीति व्यवहारो न प्रवर्तते ।
सद्व्यवहारविरोधादिति चेत् ।
कथं घटानुपलब्धौ सद्व्यवहारः ।
अस्ति हि तदानीमपि देशोपलब्धिः ।
विविक्तोपलब्धिर्हि घटानुपलब्धिः , नासौ घटे सतीति चेत्, को विवेकार्थ इति ।
नन्वयमभाव एव ।
तदभावेऽनर्थकं विविक्तवचनम्, अतोऽनुपलब्धेरयमपि विशेषो दुः साध एव, यदसति घटे नास्तीति व्यवहारो न सतीति ।
यच्चेदं घटाभावमतिलङ्घ्य नास्तीति व्यवहारानुमानमवस्थितं तदपि केन विशेषेणेति न विद्मः ।
सोऽपि भावातिरेकी न कश्चिदुपलभ्यते ।
योग्यता तदनतिरेकिणी तस्मिन् बुद्धे बुद्धैवेति न किञ्चिदनुमेयं पश्यामः ।
वार्तिककारेण
त्विदमुपेक्ष्यैव तावद्
दूषणान्तरमुक्तमिति ॥३८॥


न चाप्यभावसामान्ये प्रमाणमुपजायते ।
व्यभिचारादा विशेषास्तु प्रतीयेरन् कथं तया ॥ ५,८.३९ ॥
न चानवगतं लिङ्गं गृह्यते चेदसावपि ।
अभावत्वादभावेन गृह्येतान्येन हेतुना ॥ ५,८.४० ॥
स चान्येन ग्रहीतव्यो नागृहीते हि लिङ्गता ।
तद्गृहीतिर्हि लिङ्गेन स्यादन्येनेत्यनन्तता ॥ ५,८.४१ ॥
लिङ्गाभावे तथैव स्यादनवस्थेयमित्यतः ।
क्वाप्यस्य स्यात् प्रमाणत्वं लिङ्गत्वेन विना ध्रुवम् ॥ ५,८.४२ ॥
नास्तीति धीः फलं चैषा प्रत्यक्षादेरजन्मनः ।
तस्यैव च प्रमाणत्वमानन्तर्यात् प्रतीयते ॥ ५,८.४३ ॥
अभावसामान्येन त्वनुपब्धेः सम्बन्धः सिध्यत्येव, न त्वभावसामान्ये प्रमाणमुपजायत इत्याह--- सामान्येति ।
विशेषास्त्वनैकान्तिकतया नानुपलब्ध्या बोधयितुं शक्यन्त इत्याह--- व्यभिचारादिति ॥३९॥
अपि च--- नानवगतरूपं लिङ्गमनुमाने लिङ्गं भवति, तदियं प्रत्यक्षाद्यनुत्पत्तिरभावत्वादपरेण लिङ्गेनावगन्तव्या ।
एवं हि वदन्ति,यावान् कश्चित् प्रतिषेधः स सर्वोऽपलब्धेरेवेति ।
एवं च तत्र तत्र सदृशापरापरलिङ्गानुसारेणानवस्थापात इत्याह--- न चेति द्वयेन ।
एतच्चोपलब्ध्यभावोऽनुपलब्धिरित्यापाद्योक्तम्, विविक्तेतरपदार्थोऽनुपलब्धिरिति तु प्रत्युक्तमिति ॥४०,४१॥
एवं योऽप्यसौ लिङ्गिरूपाभावः सोऽपि सम्बन्धग्रहणार्थमवश्यं प्रथमवगन्तव्यः ।
तदवगमेऽपि तद्रूपापरलिङ्गाभ्युपगमादनवस्थैव ।
अतः क्वचिदवश्यमनुमानाभावात् प्रमाणान्तरमभ्युपगन्तव्यमित्याह---लिङ्गेति ॥४२ ॥
यदि तु नास्तीति बुद्धिरेव लिङ्गमित्युच्यते तन्न ।
फलं हि सा, प्रत्यक्षाद्यनुत्पादस्य कथं तल्लिङ्गम्, तत्सिद्ध्यर्थमेव हि लिङ्गमिष्यते ।


त्रिलक्षणेन या बुद्धिर्जन्यते सानुमेष्यते ।
न चानुत्पत्तिरूपस्य कारणापेक्षिता क्वचित् ॥ ५,८.४४ ॥
मानं कथमभावश्चेत् प्रमेयं चास्य कीदृशम् ।
मेयो यद्वदभावो हि मानमप्येवमिष्यताम् ॥ ५,८.४५ ॥
भावात्मके तथा मेये नाभावस्य प्रमाणता ।
तथाभावप्रमेयेऽपि न भावस्य प्रमाणता ॥ ५,८.४६ ॥
सिद्धायां तु बुद्धौ किं लिङ्गेन ।
तदेतदाह---नेति ।
यदि सा फलं किं तर्हि प्रमाणत आह--- तस्यैवेति ।
यस्यैव सा फलं तदेव प्रत्यक्षाद्यनुत्पत्तेः फलानन्तर्यात्प्रमाणमिति ॥४३॥
किञ्च सौगतसमयसिद्धानुमानलक्षणग्रन्थानुसारेणापि न प्रत्यक्षाद्यजन्मनोऽनुमानत्वमित्याह---त्रिलक्षणेति ।
एवं हि ते पठन्ति ।
ऽत्रिरूपाल्लिङ्गतोर्ऽथदृगनुमानऽमिति ।
न चानुत्पत्तिरुत्पत्तेः प्रागभावो बुद्धेः केनचिज्जन्यते, प्रागेव त्रिलक्षणेन हेतुनेति ।
ननु च हेतुतयानुपलब्धिरनुमानमिष्यते,न त्वनुमितिरनुमानमिति भावसाधनतया ।
अतः किं तन्निरासेन ।
सत्यम्, अहेतुतया तावदनुमानत्वं निराकृतमेव ।
अनेन तु लक्षणानन्तऽपातो वर्ण्यत इति ॥४४॥
अत्र चोदयति--- (मानमिति) प्रमाणता हि भावात्मना व्याप्ता प्रत्यक्षादिष्ववगता, तन्निवृत्त्या निवर्त्यत इति भावः ।
इतरस्तु--- वर्णितोऽस्माभिः प्राग्भावनामसङ्करश्चतुर्धा ।
न च तब्दोधस्य भावबोधवैलक्षण्यमुपलभ्यते, बाधविरहसामान्यात् ।
स च प्रामाण्ये कारणं न भावस्वरूपता ।
सा तु प्रामाण्यं प्रत्यप्रयोजिकैव कथञ्चित्तेषु सङ्गता, अतो नाभावत्वेनाप्रामाण्यं भवति ।
भावे तु प्रमेये तदप्रमाणमेवेत्यभिप्रायेणाह--- प्रमेयमिति ।
अनुरूपमेवेदं यदभावेऽभावः प्रमाणमित्याह---मेय इति ॥४५॥
यथा भावात्मके मेयेऽभावः प्रमाणं नानुरूपं तथा तदभावे भाव इत्याह--- भावात्मक इति ॥४६॥


भावात्मकस्य मानत्वं न च राजाज्ञया स्थितम् ।
परिच्छेदफलत्वाद्धि प्रामाण्यं स्याद् द्वयोरपि ॥ ५,८.४७ ॥
यदि चास्य प्रमाणत्वमभावत्वेन नेष्यते ।
वस्तुनः कारणत्वं हि दृष्टमित्यभिमानिता ॥ ५,८.४८ ॥
न लिङ्गत्वप्रमेयत्वे भवेतां तद्वदेव हि ।
तथा सति च पूर्वोक्तो व्यवहारो न सिध्यति ॥ ५,८.४९ ॥
प्रमाणानामनुत्पत्तेर्नाभावस्य च धर्मता ।
यत्राभावोऽस्ति तेनास्याः सम्बन्धो नैव विद्यते ॥ ५,८.५० ॥
यो न सन्निहितस्तत्र तस्य धर्मो भवेदियम् ।
न च तस्य प्रमेयत्वं धर्मधर्मित्ववर्जनात् ॥ ५,८.५१ ॥
न भावत्मकमेव प्रमाणमिति राजाज्ञा, यदेव तु परिच्छेदफलं तदेव तु प्रमाणम्, तच्च प्रत्यक्षाद्यजन्मनोऽपि समानमित्याह---भावात्मकस्येति॥
स्यादेतत्--- वस्तुन एव प्रामाण्यदर्शनान्नावस्तुनोऽनुपलब्धेः प्रमाणत्वमिति ।
तथा च सति बौद्धानामपि लिङ्ग प्रमेयत्वे न स्याताम्, तेऽपि हि नावस्तुनो दृष्टे इत्याह-- यदीति सार्धेन ।
अनुज्ञाने दोषमाह--- तथा सतीति ।
न च स्याद् व्यवहारोऽयमिति कारणादिविभागेनोक्तो व्यवहार इत्यर्थः ॥४८,४९॥
अपक्षधर्मत्वादपि प्रत्यक्षाद्यनुत्पत्तिर्न लिङ्गमित्याह---प्रमाणानामिति ।
नाभावे पक्षीकृते प्रत्यक्षाद्यनुत्पत्तिस्तद्धर्मतयावगम्यते ।
अभावेन सम्बन्धाभावदित्यभिप्राय इति ।
नन्वभावविशिष्टं भूतलं साधयिष्यामः , तच्च पूर्ववगतमिति तद्धर्मो भविष्यतीत्यत आह--- यत्रेति ।
न हि भूतले प्रत्यक्षानुत्पत्तिः , ज्ञायमानत्वात् तस्येति ॥५०॥
घटस्य तर्हि धर्मो भविष्यति तद्गोचरे प्रत्यक्षादीनामनुत्पत्तेरत आह---यैति ।
सत्यम् ।
यत्र प्रत्यक्षादीनि नोत्पद्यन्ते तद्धर्मता कथञ्चिद् भवेदपि, न त्वसाविह प्रमीयते ।
धर्मधर्मित्वयोरभावात् ।
न हि


अभावेन तु सम्बन्धो भवेत्तद्विषयत्वतः ।
तज्ज्ञानाद् विषय्तवं च ज्ञाने मेयं न विद्यते ॥ ५,८.५२ ॥
संयोगसमवयादिसम्बन्धो नैव विद्यते ।
नागृहीते हि धर्मत्वं गृहीते सिद्धसाधनम् ॥ ५,८.५३ ॥
अभावशब्दवाच्यत्वाप्रत्यक्षादेश्च भिद्यते ।
प्रमाणानामभावो हि प्रमेयानामभावावत् ॥ ५,८.५४ ॥
अभावोऽपि प्रमाणेन स्वानुरूपेण मीयते ।
प्रमेयत्वाद् यथा भावस्तस्माद् भावात्मकात् पृथक् ॥ ५,८.५५ ॥
कर्माणि सर्वाणि फलैः समस्तैः सर्वैर्यथावच्च यदङ्गकारण्डैः ।
न सङ्गतानीह परस्परं हि नाङ्गं तदेतत्प्रभवं क्रतूनाम् ॥ ५,८.५६ ॥
तद्धर्मिणं कृत्वाभावविशिष्टता साध्यते तस्याप्रतीतेः ।
नापि तद्विशिष्टं भूतलादि, तदानीं तस्य तत्राभावादिति ॥५१॥
अभावस्य तु साधर्मो भविष्यति तद्विषयत्वात् तस्याः ।
अभावे हि प्रमेये सा लिङ्गं भवत्येव ।
किन्तु नास्रञ्चेतितो भावो विषयो भविष्यति, ज्ञाते च प्रमेयाभाव इत्याह---अभावेनेति ॥५२॥
अन्यस्तु न कश्चिदभावेनानुत्पत्तेः सम्बन्धप्रकारो विद्यते, येन तद्धर्मतामनुगम्यानुमानं भविष्यतीत्याह---संयोगैति ।
इतश्चापक्षधर्मत्वमित्याह--- नागृहीत इति ।
न ह्यगृहीते पर्वते धूस्तद्धर्मतयावगम्यते ।
अथ तद्वदभावोऽपि प्राक् प्रतीयत इत्युच्यते, सिद्धं तर्हि साध्यत इति ॥५३॥
एवं प्रत्यक्षानुमानाभ्यां प्रसाधितं भेदं प्रयोगेण दर्शयति---अभावशब्देति ॥५४॥
प्रयोगान्तरमाह---अभावोऽपीतिभावान्तेन ।
अतः सिद्धं भावात्मकात् प्रमाणादन्यत्वमभावस्येत्युपसंहरति---तस्मादिति ॥५५॥
वेदोपयोगमभावस्य दर्शयति---कर्माणीति ।
योऽयं सर्वकर्मणां फलासङ्करः परस्परासङ्करश्च परस्पमङ्गाङ्गिभावाभावः , नासावभावप्रामा


युक्त्यागमाभ्यामिह तर्कितोऽयं प्रमाणषटकं प्रविभज्य भाष्ये ।
ततोऽधिकं यद् द्वयमिष्टमन्यैर्भेदो न तस्येत्यपि सिद्धमेतत् ॥ ५,८.५७ ॥
इह भवति शतादौ सम्भवाद्या सहस्रान्मतिरवियुतबावात् सानुमानादभिन्ना ।
जगति बहु न तथ्यं नित्यमैतिह्यमुक्तं भवति तु यदि सत्यं नागमाद् भिद्यते तत् ॥ ५,८.५८ ॥
ण्यादृते सिध्यतीति ।
(यथेति ।
यावत् तावद् यथावदिति?) इहेति ।
वेदं प्रतिनिर्देश इति ॥५६॥
ननु च व्यासमतानुसारिणोपमानातिरिक्तं प्रमाणद्वयमुपवर्णितम्, ऋषिणा च सम्भवैतिह्ययोरपि प्रमाणत्वमाश्रितम्, तत्परित्यागे कारणं वक्तव्यमत आह----युक्तीति ।
प्रमाणषटकमेव हि युक्त्या सङ्गच्छते ।
आगमानुगतश्च ।
आगमश्च मीमांसातन्त्रम्, अतो युक्त्यागमाभ्यामिह शाबरे भाष्ये प्रमाणषट्कमेव प्रविविच्य तर्कितम् ।
यत्तु द्वयमधिकमिष्टं तदत्रैवान्तर्गतमिति ॥५७॥
(कऽ?क्व) पुनस्तस्यान्तर्गतिरत आह---इह भवतीति ।
या तावत् सहस्राच्छते मतिः सम्भवाख्यं प्रमाणमिष्यते सानुमानान्न भिद्यते ।
सहस्राच्छतमवियुतिभावादविनाभावादवगम्यते ।
अतस्तावदनुमानान्न भिद्यते ।
ऐतिह्यप्रमाणमुक्तं तावदसत्यमेव ।
निधिप्राप्त्यसुरकन्यावशीकरणादि, द्रौपदीपञ्चभर्तृकेत्यादि , यदि तत् सत्यं तदागमाद् (न) भिद्यते ।
आप्तागमो ह्यसौ ।
उक्तं च---ऽपुरुषोक्तिरपि श्रोतुरागमत्वं प्रपद्यतेः इति ।
अतोऽनुमानागमयोरन्तर्भावान्न सम्भवैतिह्ययोः पृथगुपन्यासः सिद्धऽ॥
इत्युपाध्यायसुचरितमिश्रकृतौ काशिका-
टीकायामभावपरिच्छेदः समाप्तः ।
*******************************************************************
अथ चित्राक्षेपः ।
परलोकफलाः पूर्वमाक्षिप्ताश्चोदनाः परैः ।
इदानीमैहिकाक्षेपः सूत्रकारेण वोच्यते ॥ ५,९.१ ॥
भाष्यपाठो विचार्यः ,अत्र भाष्यम्---ऽननु भवन्त्वन्यानि प्रमाणानि, शब्दस्तु न प्रमाणम्, कुतऽ? अनिमित्तं विद्यमानोपलम्भनत्वात्ः इति ।
अस्यार्थः --- यद्यपि सर्वप्रमाणाव्यभिचारान्न प्रमाणसामानयभाविना धर्मेण शब्दोऽपि न प्रमाणम्, विशेषेण त्वात्मभाविना धर्मेणाप्रमाणम् ।
तथा हि चित्रया पशवो भाव्यन्त इति चित्रया यजेतेत्यस्यारथः ।
कृतचित्रस्यापि यजमानस्यानन्तरमविकलसकलेन्द्रियैरपि पशवो न दृश्यन्ते ।
तन्न नूनमिष्टिः पशुफलेति भवति मतिः ।
तदिदमुक्तम्ऽनिमित्तं विद्यमानोपलम्भनत्वात्ः इति ।
किमुक्तं भवति--- उपलम्भनानि हि चक्षुरादीनि पशूनां विद्यन्ते ।
न च पशुकामेष्ट्यमन्तरं पशव उपलभ्यन्ते ।
तस्मादुक्तविसंवादादप्रमाणं चित्राचोदनेति ।
स पुनरयमाक्षेपो गतार्थ उपलक्ष्यते ।
चोदनासूत्रे हिऽनन्वतथाभूतम्ः इत्यादिना भाष्यकारेणाक्षेपपरिहारावुक्तौ ।
अतः पुनरुक्तमिदमित्याशङ्क्याह---- परलोक इति ।
अस्यार्थः परलोकफला हि तत्र स्वर्गकामो यजेतेत्येवमादिचोदना वेदबाह्यबोद्धादिपरमतेनाक्षिप्ताः ।
इदानीमैहिकफलाश्चित्रादिचोदना आक्षिप्यन्ते ।
ननूभयीमपि चोदनामाक्षेप्तुं शक्यत एव वाक्यत्वादयो हेतवः ।
त एव तत्र भाष्यकारेणऽयत् किञ्चन लौकिकं वनचम्ः इति दर्शयतान्तर्णीताः ।
वार्तिककृतापि---ऽयदि वा पुरुषाधीनप्रामाण्याः सर्वचोदनाः इति विवृताः ।
तस्मादसदेतत् परलोकफला एव तत्राक्षिप्ता इति ।
यदपि चेदनीमैहिकाक्षेप इत्युक्तं तदयुक्तम्, इहापि च---ऽेवं दृष्टापचारस्य वेदस्य स्वर्गाद्यपि फलं नास्तीति मन्यामहः इति सर्वाक्षेपः कृतः ।
वार्तिककारेणापि च
ऽेवं सत्यग्निहोत्रादिवाक्येष्वपि मृषार्थताऽ
इति वदता ।
तस्मादुभयत्राप्युभयाक्षेपमेव न्याय्यं मन्यन्ते ।
केयं व्यवस्था ।
अत्रोच्यते ।
सत्यमुभयत्राप्यभयाक्षेपः ,
तथापि हेतुभेदादपौनरुक्त्यम् ।
तथाहि--- तत्र वाक्यत्वादयः परैरुक्ता आक्षेपहेतवः ,


चित्रापशुफलत्वादिविषयाश्चोदना मृषा ।
प्रत्यक्षाद्यधिकारेऽपितैरर्थासङ्गतिर्यतः ॥ ५,९.२ ॥
इदानीं तुशब्दशक्तिपरामर्शद्वारेणाभ्यन्तरा एव हेतव उपपत्स्यन्ते ।
तथा चोक्तम्---
आनन्तर्यमनुक्तं चेन्न सामर्थ्यावबोधनात् ।
इति ।
सामर्थ्यं हि सर्वाख्यातानामर्थं ब्रुवतां सहकारि ।
तद् यद्यपि नेष्टिरनन्तफलेति श्रुतिः , तथाप्यर्थसामर्थ्यातदवगम्यते, कथमपरथाऽयदासौ विद्यमानासीत् तदा पलं न दत्तवती, कालान्तरे पुनरसती कथं दास्यतिः इति न च पशवोऽनन्तसमभवद्भावनाः , स्वर्गो हि नानाक्षिप्तविशिष्टदेहेन्द्रियादिपरिग्रहो भवितुमुत्सहते, अतो माभूदनन्तरम्, अमी पुनः पशवः सम्भवन्ति यजमानस्यात्रैवेति स्वहेतुसमनन्तरमनुपलभ्यमाना दृष्टप्रतिग्रहादिहेत्वन्तराः श्रुतचित्रादिफलतया न शक्यन्तेऽवगन्तुम् ।
अयमेव तु शब्दशक्तिपरामर्शो वार्तिककृता तार्किकप्रक्रियामनुविदधानेनऽन वा पशुफलेऽत्यादिना साधनप्रयोगैरुपदर्शितः ।
तदेवमैहिकफलासु चित्राचोदनास्वाक्षिप्तासु तत्सामान्यादितरासु तथात्वमिति पुनरप्यग्निहोत्रादिचोदनाक्षेपेऽवतिष्ठते ।
स चायमैहिकाक्षेपद्वारेणापिनोच्यते ।
अत एव चैहिकाक्षेप इत्युक्तम् ।
एतदुक्तं भवति--- ऐहिकफलानामामुष्मिकफलानां चायमैहिकाक्षेपपुरस्कारेणैवाक्षेपः , यदामुष्मिकस्वर्गादि तन्मा नाम कर्मानन्तरमुपलभ्यतामैहिकफलं तु पश्वादि किं नोपलभ्यते, न चेदमुपलभ्यते, तन्न नूनं तत् फलमिति ऐहिकफलकर्मचोदनाव्यभिचारेणान्यासामपि परलोकफलानां तत्सामान्यादाक्षेपः ।
पूर्वं तु ताः परतः प्रामाण्यमाश्रित्य परोक्तैरैव वाक्यत्वादिभिर्हेतुभिराक्षिप्ताः ।
तदुक्तं परैरिति ।
परिहारान्तरमाह--- सूत्रेति ।
अयमभिप्रायः --- चोदनासूत्रे भाष्यकृता सूत्रकारेण वक्ष्यमाणाक्षेपपरिहारावनागतावेक्षणेन प्रतिज्ञासमर्थनार्थभुपवर्णितौ ।
इदानीं तु सूत्रकारेण स्वयमेवोच्यत इति तेनेदमेव सर्वचोदनाक्षेपक्षेत्रमित्युक्तमिति ॥१॥
अत्र परिहारे पूर्वोक्त एवाक्षेपहेतुरिति, तमुपन्यस्यति--- चित्रेति फलानीत्यन्तेन ।
अयमर्थः --- चित्रापशुफलत्वादिविषयाश्चोदना धर्मिण्यऽ


यदीदृक्तन्मृषा दृष्टं विप्रलिप्सोर्यथा वचः ।
नदीतीरे फलानीति तत्रादृस्यानि तानि चेत् ॥ ५,९.३ ॥
न वा पशुफला चित्रा स्वकाले तददानतः ।
स्नानभुज्यादिवत् तेऽपि तत्साध्या न भवन्ति वा ॥ ५,९.४ ॥
तदुत्पत्तावसद्भावात् स्वर्गतृप्तिसुखादिवत् ।
वैधर्म्येणोभयत्रापि भवेतां सुखमर्दने ॥ ५,९.५ ॥
आनन्तर्यमनुक्तं चेन्न सामर्थ्यावबोधनात् ।
मृषेति साध्यो धर्मः ।
अधिकृतैः प्रवृत्तियोग्यैरपि प्रत्यक्षादिभिरर्थानवगतेः ।
यदीदृशं तन्मृषा--- यथा विप्रलिप्सोर्वचः ।
आदिशब्देनाग्निहोत्रादिविषया अपि चोदनाः पक्षीकरोति ।
ननु विप्रलिप्सुवाक्यमत्र दृष्टान्तः ।
न च तन्नियमेन प्रत्यक्षाद्यसङ्गतार्थमसत्यं च ।
तस्मादुभयविकलो दृष्टान्तः ।
अत आह--- तत्रेति ।
असत्यर्थे प्रयुक्तमेव नदतीरादिवाक्यमिह दृष्टान्तः ।
प्रायेण चैत्रञ्जातीयकं विप्रलिप्सुरेव प्रयुङ्क्त इति विप्रलिप्सोरित्युक्तमिति ॥२,३॥
इदानीमैहिकाक्षेप इत्युक्तं विवृणोति--- न वेति वदन्तेन ।
चित्रेष्टिर्धर्मिणी, न पशुफलेति साध्यम्, स्वकाले पश्वदानात्, स्नानादिवदिति ।
प्रयोगान्तरमाह--- तेऽपीति ।
ते पशवो न चित्रासाध्याः , चित्रोत्पत्तावसद्भावात् स्वर्गतृप्तिसुखादिवत् ।
आदिशब्देनात्र भोजनजन्या तृप्तिरभिप्रेता ।
एतौ च प्रयोगौऽनेष्टिः पशुफला,कर्मकाले च कर्मफलेन भवितव्यम्ः इति भाष्योक्तौ वेदितव्याविति ।
अत्रानन्तरंऽयत्कालं हि मर्दनं तत्कालमेव मर्दनसुखम्ः इति भाष्यकारेणोक्तम्, तद् वैधर्म्यदृष्टान्ततया प्रयोगद्वये योजयति--- वैधर्म्येणेति ।
चित्रा न पशुफला पशवो न तत्साध्या इत्युभयत्रापि प्रयोगे वैधर्म्येण सुखमर्दने भवेताम्, ईदृशी चात्र वैधर्म्यरचना, यद्यत्साध्यं तत्तत्सकाले प्रसूते, मर्दनमिव सुखम् ।
यच्च यत्साध्यं तत् तदुत्पत्तौ भवत्येव सुखमिव मर्दनोत्पत्ताविति ॥४,५॥
ननूक्तिविसंवादादप्रामाण्यमुक्तम् ।
न च किञ्चिदिह विसंवादः , न हि कृते कर्मणि तावत्येव फलेन भवितव्यमिति शब्दो ब्रूते, किन्तु अस्येदं


शब्दैकदेशभूतेन तेन तत्प्रतिपादितम् ॥ ५,९.६ ॥
कालान्तरानुपादानात् कर्मस्वाभाव्यतोऽपि च ।
चोद्यमानस्य चित्रादेरानन्तर्यं विशेषणम् ॥ ५,९.७ ॥
अत्र तावदसंवादो विरोधश्चोत्तरत्र तु ।
स्वर्गयानविरुद्धो हि भस्मीभावोऽत्र दृश्यते ॥ ५,९.८ ॥
फलमिति ।
एतावति च पर्यवसानात् ।
अतः कालान्तरे फलं दास्यति ।
तदेतदुक्तम्---ऽकालान्तरे फलं दास्यतीति चेत्ऽिति, तदेतदाह---आनन्तर्यमिति ।
परिहरति--- नसामर्थ्येति ।
साक्षादनुक्त्सयानन्तर्यस्याप्यत्र सामर्थ्येनावबोधनं कृतम्,यैव ह्यस्येदं फलमित्युक्तं तदैवमर्थादेवावगम्यते अनन्तरमनेन भवितव्यमिति ।
कथं नामान्यथासत्कालान्तरे फलं दास्यतीति ।
नन्वेवमपि सामर्थ्यलभ्यमानन्तर्यमनन्तरफलानुपलम्भनेन बाध्यताम्, अविशेषप्रवृत्ता तु चोदना कतं बाध्यते अत आह--- शब्देति ।
न हि सामर्थ्यं नाम पृथक् प्रमाणम्, अपि तर्हि सर्वाख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणीति शब्दैकदेश एव ।
अतः स्रुवावदानमिवाप्यद्रव्येष्वर्थादनन्तरमेव फलं निश्चीयत इति तद्बोधेऽपि शाब्दबोधो भवत्येवेति ॥६॥
इतश्चानन्तर्यमवगम्यत इत्याह---कालान्तरेति ।
यदि ह्यत्र फलं दास्यतीति ऌङ्श्रोष्यत् तदा तत्सामर्थ्येन कल्पना काचिदप्यभविष्यत् ।
अद्य पुनरस्येदं कर्मणः फलमिति पर्यवसिते वचसि सर्वकर्मणामनन्तरफलोपलम्भाद् वैदिकस्यापि चित्रादेश्चोद्यमानस्यापि कर्मणस्तत्स्वाभाव्यादानन्तर्यं विशेषणतयावतिष्ठत इति ॥७॥
अत्रानन्तरमपरं भाष्यम्---ऽदृष्टविरुद्धमपि किञ्चित् वैदिकं वचनंऽस एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं यातीऽति ।
तद् येन विशेषेणोक्तं तमाह---अत्रेति ।
अत्र हि चित्रादिवाक्येषूक्तिविसंवादादप्रामाण्युक्तम् ।
उत्तरत्र यज्ञायुधिवाक्ये प्रत्यक्षादिविरोध इति विरोधमभिद्योतयति--- स्वर्गयान इति ।
यजमानस्य निरतिशयानन्दात्मनः स्वर्गादतिदूरमपभ्रष्टो भस्मीभावः प्रत्यक्षमुपलभ्यते, चित्रादिचोदना


यज्ञायुधिवचो मिथ्या प्रत्यक्षेण विरोधतः ।
साधर्म्येण शिलावाक्यं वैधर्म्येणाप्तभाषितम् ॥ ५,९.९ ॥
शरीदाद् यदि चान्यः स्यान्नासौ यज्ञायुधी भवेत् ।
न चास्य यजमानत्वं सद्भावोऽपि च दुर्लभः ॥ ५,९.१० ॥
सु त्वनन्तरफलानुपलम्भमात्रं न तु विरुद्धोपलम्भः कश्चिदस्तीति स्यादपि कालान्तरे फलकल्पना, भस्मीभूतं तु शरीरं कालान्तरेऽपि स्वर्गं लोकं यास्यतीति न सम्भवतीति पूर्वस्माद् विशेषः ॥८॥
अपरमपि चऽेवञ्जातीयकं प्रमाणविरुद्धं वचनमप्रमाणम्--- अम्बुनि मज्जन्त्यलाबूनि, ग्रावाणः प्लवन्त इति यथाः इति भाष्यम्, तद् व्याचष्टेयज्ञेति वाक्यमन्तेन ।
यज्ञायुधवचो धर्मी, मृषेति साध्यो धर्मः , प्रत्यक्षविरोधात्, यत्प्रत्यक्षविरुद्धं तन्मिथ्या, यथा ग्रावाणः प्लवन्त इति शिला वाक्यं साधर्म्येण यथेति दर्शयितव्यमिति ।
वैधर्म्यदृष्टान्तमाह--- वैधर्म्येणेति ।
यदमिथ्या न तत्प्रत्यक्षविरुद्धं यथाप्तभाषितमिति ।
पूर्वं तु मर्दनसुखयोर्वैधर्म्ये दृष्टान्तरतयोपन्यासाच्छिलावाक्यमपि वैधर्म्येण भाष्यकृतोक्तमिति भ्रान्तिमपनेतुं साधर्म्यवैधर्म्यविवेको वार्तिककृता दर्शितः ॥९॥
ननु प्रत्यक्षविरोधादिति हेतुसिद्ध एव, अस्ति हि परलोकफलभोक्ता चेतनः कर्मणां कर्ता, स स्वर्गं लोकं यास्यतीति ।
तमेवाभिप्रेत्य स्वर्गं लोकं यास्यतीत्युक्तम् ।
अतः को विरोधोऽत आह---शरीरादिति ।
यदि हि शरीरादन्यश्चेतनो भवेत्, भवेदपि न तस्य यज्ञायुधैरस्ति कश्चित् सम्बन्धप्रकारः , शरीरस्यैव तु स्रुक्कपालादियज्ञायुधैः सम्बन्धः , यद्यज्ञायुधी यजमान इति तदभिप्रायेण मत्वर्थसंयोगो घटते ।
अपि चऽस एषः इत्यपरोक्षप्रतिनिर्देशः , सोऽपि शरीरस्यैव प्रत्यक्षत्वादुपपन्नो नात्मनः ।
तदेतदपि भाष्यकारेणोक्तं हि ---ऽशरीरकं व्यपदिशतिऽिति ।
किञ्च यजमानशब्दो ह्यात्मन्यसमञ्जसः , यागस्य हि कर्ता यजमान इत्युच्यते, न च यथाचोदितविततपूर्वापरीभूतानेककर्भक्षणात्मकक्रतुक्रियाकर्तृत्वमात्मनः सम्भवति, विभोः पूर्वापरदेशविभागसंयोगयोगफलकर्मणामसमवायात् ।
तदेतदाह--- न


यदि स्याद् विधिशब्दोऽत्र नैवादर्शनतो भवेत् ।
विशेषोऽस्येति भेदेन नोपात्तं स्यादिदं ततः ॥ ५,९.११ ॥
विधिशब्दे भविष्यत्त्वं फलस्य परिकल्प्य हि ।
विरोधपरिहारः स्याद् वर्तमानेऽपि नास्त्यसौ ॥ ५,९.१२ ॥
फलं च न भवेदेवं भस्मीभावाद् विधावपि ।
तत्सामर्थ्येन यान्यपि कल्पना तां निषेधति ॥ ५,९.१३ ॥
चेति ।
अभ्युपगम्य चात्मनः सद्भावमिदमस्माभिरुक्तम्, परमार्थेन तु देहेन्द्रियव्यतिरिक्तात्मसद्भावोऽपि प्रमाणाभावाद् दुर्लभ इत्याह--- सद्भाव इति ।
प्रपञ्चयिष्यते चैतदात्मवाद इतीह न प्रतन्यत इति ॥१०॥
अपरं च---ऽन चैष यातीति विधिशब्दऽऽिति भाष्यम् ।
तस्याभिप्रायमाह--- यदीति ।
अस्यार्थः --- यदि ह्यत्र
यज्ञायुधिवाक्ये विधिशब्दो भवेत्, तदा चित्रादीनामनन्तरफलादर्शनाद् भेदेन विरोधोपन्यासार्थं यज्ञायुधिवाक्योपादानं नोपपद्यते ।
अतः स्वकृतभेदोपादानसमर्थनार्थं विधिशब्दनिराकरणमिति ॥११॥
विधिशब्दे को विशेषः , अत आह--- विधीति ।
विधिशब्दे हि कालविशेषानुपादानाद् विधिसामर्थ्यादेव कालान्तरभावितां फलस्य परिकल्प्य स्यादपि चित्रादिचोदनास्विवाभावविरोधपरिहारः ।
इह तु यातीति वर्तमानापदेशान्न प्रत्यक्षविरोधः शक्यते परिहर्तुमित्यदर्शनाद् विशेष इति ॥१२॥
चित्रादिवाक्याभिप्रायेण चेदमस्माभिरुक्तम्--- विधिशब्दे भविष्यत्त्वं फलस्य परिकल्प्य विरोधः शक्यते परिहर्तुमिति ।
इह तु प्रत्यक्षेण भस्मीभावोपलम्भान्न कालालन्तरफलभावितया स्वर्गगमनं फलमिति शक्यते कल्पयितुम् ।
न हि विधिसहस्रेणाप्याशङ्कनीयोर्ऽथः शक्यः प्रत्याययितुम् ।
तदेतदाह--- फलं चेति ।
तकिं तर्हि विधिशब्दतानिराकरणस्य फलमत आह--- तत्सामर्थ्येनेति ।
चेतनप्रवर्तनात्मको हि विधिरन्तरेण परलोकफलोपभोक्तार


प्रायश्चैवंप्रकारत्वमर्थवादेषु दृश्यते ।
मन्त्रेषु चेति ते सर्वे पक्षीकार्याः प्रयत्नतः ॥ ५,९.१४ ॥
एवं सत्यग्निहोत्रादिवाक्येष्वपि मृषार्थता ।
वेदवाक्यैकदेशत्वाच्चित्रादिदवचनेष्विव ॥ ५,९.१५ ॥
इति चित्राक्षेपवादः ।
-------------------
मनुपपद्यमानः कल्पयेदपि कायकरणसङ्घातातिरिक्तमात्मानम्, तस्य च स्वर्गलोकगमनमुपचर्येतापि शरीरे, तस्य वा प्रत्यक्षत्वमात्मनि भाक्तमित्येवमादिकल्पनानिषेधार्थं विधिशब्दनिराकरणमिति ॥१३॥
भूयांश्चायं प्रमाणान्तरविरुद्धो मन्त्रार्थवादात्मको वेदभागः ।
यथाऽदितिर्द्येरदितिरन्तरीक्षंऽऽयजमान एककपालः इत्येवमादिः ।
स च सर्व एवात्र प्रयत्नतो मुख्यतया मिथ्यात्वेन ऐहिकाक्षेपे पक्षीकार्यः , तन्मिथ्यात्वेन चानुषङ्गिकं पेरषां मिथ्यात्वं भविष्यतीत्यभिप्रायेणाह---प्रायैति ।
ऽतत्सामान्यादग्निहोत्रादिचोदनास्वप्यनाश्वासः इति भाष्यम्, तस्याभिप्रायमाह--- एवं सतीति ।
यदा हि चित्रादिवाक्यादिष्वप्रामाण्यं समर्थितं भवति, तदा वेदवाक्यैकदेशतयाग्निहोत्रादिवाक्येष्वपि मृषार्थता शक्यतेऽनुमातुम्, अतः कृत्स्नस्यैव वेदस्याप्रामाण्यान्न चोजनालक्षणार्थो धर्म इत्याक्षेपऽ॥
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
चित्राक्षेपवादः समाप्तः ।
अथ सम्बन्धाक्षेपवादः ।
स्वपक्षसाधनं तावदमृषा वैदिकं वचः ।
स्वार्थे वक्त्रनपेक्षत्वात् पदार्थे पदबुद्धिवत् ॥१॥
अत्रानन्तरम्"औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानम्"इति भाष्यकारेण
सम्बन्धनित्यताद्वारेणाक्षेपपरिहारोऽवतारितः , सोऽयुक्तः , परोक्ताक्षेपहेत्वनन्तरं हि तस्यैव विरुद्धासिद्ध्यादिदोषोद्भावनमुचितम् ।
यत्तु तमदूषयित्वैवान्यदुच्यते तदसङ्गतमेवात आह--- स्वपक्ष इति ।
अयमभिप्रायः --- यावद्धि सम्बन्धौत्पत्तिकत्वेनानपेक्षालक्षणं चोदनायाः स्वतः प्रामाण्यं न प्रतिपाद्यते तावद् दूषितेऽपि साधने नऽचनोदनालक्षणो धर्मः इति प्रतिज्ञा सिध्यति ।
भूयांश्चानेन क्रमेणार्थो वक्तुमभिप्रेतः शब्दार्थसम्बन्धनिरूपणादिः ।
अन्यथा क्रियमामं (?) तदाकाशपतितमिवापद्येत ।
तच्चैतत् शब्दस्वरूपनिरूपणावसरे वक्ष्यते ।
न चेदमाक्षेपेण न सङ्गच्छते, द्वेधापि प्रत्यवस्थानदर्शनात् ।
यथोक्तम्---
ऽद्वेधापि प्रत्यवस्थानं परहेत्ववबाधनात् ।
आत्मीयसाधनोक्त्या वा तत्रात्मीयमिहोतच्यतेः इति ।
न चात्र परसाधनदूषणं न करिष्यतेऽतत्र हेतोरसिद्धत्वम्ः इति चित्रापरिहारे वक्ष्यते ।
अनेन तु क्रमेण तत् कर्तव्यमिति तावदित्युक्तमिति ।
तच्च स्वपक्षसाधनं तार्किकाणां चित्तमनुरञ्ज यितुं प्रयोगद्वारेणाह---अमृषेति ।
वैदिकवचो धर्मी, स्वार्थे सत्यमिति साध्यो (?) धर्मः , स्वार्थे वक्त्रनपेक्षत्वात्, यत् स्वार्थे वक्तारं नापेक्षते तत् सत्यम्, यथा पदात् पदार्थगता बुद्धिः ।
पदं हि स्वभावादेव स्वार्थेन सम्बद्धं तत्प्रतिपादनाय वक्तारं नापेक्षत इति सम्बन्धपरिहारे वक्ष्यते ।
स्वार्थ इति तन्त्रेमोभयविशेषणतया योजनीयम् ।
यदि ह्यमृष वैदिकं वचनमित्येतावदुच्यते पूर्वपक्षार्थसम्यक्त्वापातादनिकष्टार्थताप्रसाधनप्रसङ्गः ।
न हि स्वर्गकामो यागं कुर्यादित्याद्यर्थे स्वर्गकामो यजेतेति वाक्यं सम्यगिष्यते, षष्ठाद्यसिद्धान्तविरोधात् ।
यागेन स्वर्गं कुर्यादिति हि तत्र स्थास्यति ।
वक्त्रनपेक्षत्वादिति चाविशिष्टो हेतुरुपात्तोऽसिद्ध एव स्यात् ।
अस्ति हि वैदिकवाक्यानामपि स्वरूपामि
तत्कृतः प्रत्ययः सम्यङ्नित्यवाक्योद्भवत्वतः ।
वाक्यबुद्धिवेदवात्र पूर्वोक्ताश्वापि हेतवः ॥२॥
नित्यान् शब्दार्थसम्बन्धानाश्रित्योक्तेन हेतुना ।
असम्बन्धोद्भवत्वेन परो मिथ्यात्वमब्रवीत् ।
सम्बन्धोऽस्ती च नित्यश्चेत्युक्तममौत्पत्तिकादिना ॥४
व्यक्तये वक्त्रपेक्षा, स्वार्थे तु प्रत्याययितव्ये न वक्तारमपेक्षन्ते, अपौरुषेयत्वात् ।
शब्दार्थसम्बन्धनित्यत्वाच्च ।
पौरुषेयं प्रमाणान्तरप्रमितगोचरमाप्तवचनमपि वक्तुः प्रमाणमपेक्षते ।
यथोक्तम्,ऽाप्तोक्तिषु नरापेक्षेऽति ॥१॥
प्रयोगान्तरमाह---- तत्कृत इत्येवान्तेन ।
वैदिकवाक्यकृतः प्रत्ययः सम्यगिति साध्यम्, नित्यवाक्योद्भवत्वात्, यथा तद्वाक्यस्वरूपविषया बुद्धिः ।
सापि हि वाक्यादुद्भवति, निर्विषयबुध्यनुत्पत्तेः ।
वेदवाक्यनित्यता च वेदाधिकरणे स्थापयिष्यत इति ।
अत्रैव साध्ये पूर्वोक्ताः ---ऽनान्यत्वात्ः इति भाष्यव्याख्यानावसर उक्ताः --- दोषवर्जितैः कारणैः जन्यमानत्वात्, अनाप्ताप्रणीतोक्तिजन्यत्वात्, देशादिभेदेऽपि देशादिभेदेऽपि बाधवर्जनात् इति हेतवो दर्शयितव्या इत्याह--- अत्रेति ॥२॥
अत्र भाष्यम्---ऽस्यादेतत्, नैव शब्दस्यार्थेन सम्बन्धः , कुतोऽस्य पौरुषेयता अपौरुषेता वाऽिति ।
तस्याभिप्रायमाह--- नित्यानित्यब्रवीदन्तेन ।
अस्यार्थः --- शब्दार्थसम्बन्धानां नित्यत्वमाश्रित्यानपेक्षत्वादिति सूत्रकारेण यो हेतुः स्वतः प्रामाण्यसिध्यर्थमुक्तः , तेन चोदनानामप्रामाण्ये निराकृतेऽधुना सम्बन्धोद्भवत्वाभावेन परो बौद्धादिर्मिथ्यात्वमुक्तवान् ।
एवं च तदा वार्तिककारेण वृत्तिकारमतेनात्रैव स्वतः प्रामाण्यं व्युत्पाद्यमिति दर्शितम् ।
तथा चऽसूत्रकारेण चोच्यतः इति पुनरुक्तिपरिहारे परतः पप्रामाण्योक्तैरेवाक्षेपहेतुभिः पूर्वपक्षोऽभिहितः ।
इहापि च भाष्यकारेणऽब्रूतः इत्युच्यते--- अवबोधयति बुध्यमानस्य निमित्तं भवति, इत्यादि चोदनासूत्रोक्तमेव स्वतः प्रामाण्यकारणमुक्तमिति ॥३ १।२॥
मिथ्यात्वस्य निरासार्थं तत्परैर्नेष्यते द्वयम् ।
नैव वास्त्यत्र सम्बन्धः कृतको वेति वक्ष्यते ॥५॥
असम्भवेन शेषाणां संश्लेषः परिशिप्यते ।
तस्मिन्नेव च सम्बन्धे प्रतीतिर्लौलिकी ध्रुवम् ॥६॥
एतदेव विवृणोति --- सम्बन्ध इति वक्ष्यतेऽन्तेन ।
चोदनामिथ्यार्थनिरासार्थं हि सम्बमन्धसद्भावो नित्यता च हेतुरुक्तः ।
तच्च द्वयमपि परैर्नेष्यते ।
तत्र सम्बन्धाभावस्तावदनेनैव भाष्येणोक्तः ।
कृतकत्वं तुऽयदि प्रथममश्रुतो न प्रत्याययति, कृतकस्तर्हिः इत्यनेन वक्ष्यते ।
तदत्र सम्बन्धाभावेनानपेक्षत्वादिति हेतोरसिद्धिरुक्ता ।
न चासति सम्बन्धे
परोक्तार्थप्रतीतिरुत्पद्यत इति दर्शितम् ।
प्रतिबन्धबले ह्यर्थान्तरदर्शिनोऽप्यर्थान्तरे ज्ञानमुत्पद्यते ।
अनादृतप्रतिबन्धस्तु यत्किञ्चिद् विद्वान् स सर्वं जानीयादित्यतिप्रसज्यत इति ॥४,५॥
अत्र भाष्यकारेण कार्यकारणभावादयः सम्बन्धाः शब्दस्यानुपपन्ना इत्युक्त्वा संश्लेषसम्बन्धभाव एव दर्शितः , तदेतद्वार्तिककारो दर्शयति--- असम्भवेनेति ।
निमित्तनैमित्तिकाश्रयाश्रयिभावादयः सम्बन्धाः शब्दार्थयोरत्यन्तासम्भाव् इता एव, कार्यकारणभावस्तु बोद्धगन्धिवैयाकरणैरभ्युपगत एव ।
तेऽप्याहुः ----
ऽर्थाः शब्दाश्च दृश्यन्ते प्रत्यक्षा यद्यपि स्फुटम् ।
अभिधानाभिधेयौ तु ज्ञानाकारौ तथापि नऽऽ॥
इति ।
एवं हि मन्यन्ते--- न तावद् वर्णाः शब्दः , प्रत्येकमवचाकत्वात् ।
अयुगपद्वर्तिनां चावयविसमुदायासरम्भानुपपत्तेः ।
अत एव गोशब्दत्वादिजात्यसम्भवात् भूतादिविशेषाणां च प्रतिप्रयोगमन्यत्वेनावाचकत्वाद् वर्णबुद्धिस्मृतिसंस्काराणां चाक्षरवत् प्रत्याख्यानात् पूर्ववर्णजनितसंस्कारसहितान्त्यवर्णस्यापि वर्णत्वेनापूर्ववर्णवदवाचकत्वात् पूर्वपूर्वनिखिलवर्णपदोपसहारक्रमेण चरमस्य कस्यचित् स्फोटात्मनोऽनवग्रहाद् युगपदवस्थितानेकवर्णाकारज्ञानात्मैव शब्दः ।
अर्थोऽपि जातिव्यक्त्यवयवावयविगुणगुणिव्यतिरेकाव्यतिरेकादिविकल्पदूरीकृतनि रूपणो न बाह्यः सम्भवतीति ज्ञानात्मकशब्दवेदनानन्तरोत्पद्यमानबाह्यजात्यादिनिर्भास्परत्ययमात्रात्मैव ।
तन्निषेधमतः प्राह न शब्दोर्ऽथेन सङ्गतः ।
तद्देशानन्तरादृष्टेर्विन्ध्यो हिमवता यथा ॥७॥
एवमर्थो द्वयं वापि साधनीयमसङ्गतम् ।
क्षुरेत्यादि च सिद्ध्यर्थं हेतोरुक्तमथापरः ॥८॥
शक्तिरूपं गृहीत्वाह संश्लेषो यदि वार्यते ।
सम्ब(न्धा?न्धः) सिद्धसाध्यत्वमथ सम्बन्धमात्रकम् ॥९॥
स चायमेवम्भूतोर्ऽथः शब्देन जन्यत एवेति कार्यकारणभावमेव शब्दार्थयोः सम्बन्धमातिष्ठन्ते ।
तच्चेदमतिदूरमपभ्रष्टम्, एवं च सत्यविदितस्वरूपशक्तीनामप्यर्थसंविदुपजायेत ।
दृष्टा हि खलु मृत्सलिलप्रच्छन्ना अपि व्रीहयोऽङ्कुरादिकार्यमारभमाणा अविदितस्वरूपशक्तयोऽपीति सूक्तम्--- असम्भवेन शेषाणामिति ।
कथं तु संश्लेषः परिशिष्यत इति, प्रतीतेरभ्युपगमाच्च ।
गौरयमिति हि सामानाधिकरण्येन शब्दोपश्लिष्टमर्थमवयन्तो लौकिका दृश्यन्ते ।
अभ्युपगतश्च कैश्चिच्छब्दार्थयोः संश्लेष एव सम्बन्धः ।
प्रपञ्चितश्चासावध्यासवाद इति ।
लौकिकाश्च प्रायेण संश्लेषमेव संबन्धं मन्यन्ते इति स एव सम्बन्धः प्रसक्को निराकार्य इत्याह--- तस्मिन्निति प्राहायेन भवति स तद्देश एव दृश्यते रञ्जुरिव घटे, तदनन्तरदेशे वा प्रदेशिनीवमध्यमायाः ।
नच च शब्दार्थयोरन्यतरदेशे वान्यतरो दृश्यते ।
अतोहिमवद्विन्ध्ययोरिव नानयोः सम्बन्ध इति ॥६,७॥
अर्थो वा पक्षीकार्य इत्याह---एवमिति ।
द्वयं वा परस्परमसम्बद्धमितरेतरदेशे तदनन्तरदेशे वादृष्टेः साध्यमित्याह--- द्वयमिति ।
अत्र भाष्यकारेणऽस्याच्चेदर्थेन सम्बन्धः क्षुरमोदकशब्दोच्चारणे मुख्यस्य पाटनपूरणे स्याताम्ः , इत्युक्तम् ।
तस्याभिप्रायमाह--- क्षुरेत्युक्तमन्तेन ।
अस्यार्थः --- अत्र भाष्यकारेण शब्दार्थयोः सम्ब्नधसिद्ध्यर्थं तद्देशानन्तरादृष्टेरिति हेतुरन्तर्णीतः , तं च गौरयमिति सामानाधिकरण्यप्रतीतिभ्रमाद् यो नामासिद्धं मन्यते, स एवं प्रतीबोध्यते--- यदि शब्दार्थयोरुपश्लेष
पितापुत्रादिसम्बन्धैरनैकान्तः प्रसज्यते ।
एकभूम्यादिसम्बन्धाद् दृष्टान्ते साध्यहीनता ॥१०॥
वाच्यवाचकसम्बन्धनिषेधे लोकबाधनम् ।
विरोधश्च स्ववाक्येन न हि सम्बन्धवर्जितैः ॥११॥
लक्षणः सम्बन्धो भवेत्, अर्थोऽपि शब्ददेश एव स्यात्, मुखं च तस्य देश इति क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्, न च ते स्तऽष तस्मान्मोदकाद्यर्थक्रियानुपलम्भाच्छब्ददेशे तद्देशानन्तरादृष्टेरिति सिद्धो हेतुः ।
सामानाधिकरण्यबुद्धिस्तु शब्दार्थयोर्नास्त्येव ।
न हि नीलिम्नेवानुरक्तमुत्पलं शब्दानुरक्तमर्थमुपलभामहे ।
गादिसास्नादिमद्रूपा हि तयोर्बुद्धरुदेति ।
अत्र सिद्धान्तभाष्यंऽयोऽत्र व्यपदेश्यः सम्बन्धः तदेत(तमेकं)न्न व्यपदिशति भवान्ः इत्यादि ।
तस्याभिप्रायमाह--- अथेति हीनतान्तेन ।
अत्रायमभिप्रायः ---- प्रत्याय्यप्रत्यायकशक्तिरूपो हि नः शब्दार्थयोः सम्बन्धोऽभिप्रेतः , तद् यदि
संश्लेषलक्षणसम्बन्धाभावः साध्यते, तदा सिद्धसाध्यतादोषः ।
सम्बन्धाभावमात्रे तु यौनादिसम्बन्धैरनैकान्तिकत्वम् ।
हिमवद्विन्ध्योरपि चैकभूम्यादिसम्बन्धात् साध्यहीनो दृष्टान्त इति ॥८.१०॥
यदि तु वाच्यवाचकसम्बन्धमेवाभिप्रेत्य न शब्दार्ऽथेन सङ्गत इति साध्यते ततो लौकिकविरोध इत्याह---वाच्येति ।
दूषणान्तरमाह--- विरोध इति ।
अत्र कारणमाह--- न हीति परान्तेन ।
अयमभिप्रायः --- चतुर्विधो हि पुरुषः , प्रतिपन्नोऽप्रतिपन्नः सन्दिग्धो विपर्यस्तश्चेति ।
तत्र प्रतिपन्नः प्रतिपादयिता, इतरे सापेक्षाः प्रतिपाद्याः , तत्प्रतिपादनार्था च प्रतिज्ञा, तद्य एव तेषामन्यतमः परः प्रतिपादयितुमभिप्रेतो भवति स एव वाच्यवाचकसम्बन्धवर्जितैः प्रतिज्ञार्थगौचरैः पदैः प्रतिपादयितुमशक्यः , अतः प्रतिज्ञां प्रयुञ्जानैराश्रितः शबादर्थयोर्वाच्यवाचकलक्षणसम्बन्ध इति तन्निनिराकरणे स्ववाग्विरोध इति ।
स चायमभिधया स्ववाग्विरोधः ।
पञ्चधा हि तद्विरोधः ।
उच्चारणाभिधाधर्मधर्म्युभयोक्तिभिरिति ॥११ १।२॥
प्रतिज्ञार्थं पदैः शक्यः प्रतिपादयितुं परः ।
अभिधानक्रियायां हि कर्मत्वं वाच्यसंश्रितम् ॥१२॥
शब्दानां करणत्वं वा कर्तृत्वं वा निरूपितः ।
प्रतिपत्तावुपादानात् साहित्ये च विवक्षिते ॥१३॥
वाच्यवाचकसम्बन्धस्वरूपमिदानीमभिद्योतयति---अभिधानेति ।
अस्यार्थः --- एकस्यामभिधानक्रियायां शब्दः करणं कर्ता वा, विवक्षातः कारकप्रवृत्तेः ।
अर्थस्तु कर्मैव ।
अतो(यद्?अ) नयोः कर्मकरणत्वं (कर्म) कर्तृत्वं वा ।
निरूपितः --- सम्बन्ध इति वक्ष्यमाणेन सम्बन्ध इति ।
यद्वा--- एकस्यां गवाद्यर्थप्रतिपत्तौ साध्यमानायामेकेन वक्त्रोपादीयमानावरुणैकहानीवद्विवक्षितसाहित्यौ शब्दार्थो यन्नियम्येते सोऽनयोः सम्बन्ध इत्याह--- प्रतिपत्ताविति ।
उपादानादित्युपादीयमानतया विशेषणविवक्षां दर्शयति ।
उपादेयस्य हि विशेषणं विवक्षितं भवति शोरिवैकत्वं--- पशुना यजेतेति ।
उद्देश्यविशेषणं त्वविवक्षितं भवति, यथा ग्रहविशेषणमेकत्वम्, उद्देश्या हि ग्रहाः , तेषु संमार्जनविधानात् ।
इह चार्थप्रतिपत्तावेकस्यामुपादेयौ शब्दार्थौ, पशुरिव योगे ।
अतो विवक्षिततमनयोः साहित्यं विशेषणमित्यरुणैकहायन्योरिवानयोर्नियमः सम्बन्ध इति ।
(नत्वे?न्वे)वमरुणैकहायन्योः श्रूयमाणयोः साहित्यविवक्षा युक्ता ।
समुदाये हि तत्र वाक्यं समाप्यते ।
(शब्दार्थौ तु) नैव प्रतीतिक्रिया(यां विशेष)णतयाश्रुतौ, कथमनयोः साहित्यविवक्षा ।
न श्रूयमाणता विशेषणविवक्षाहेतुः ।
अपि तु अर्थसंव्यवहारोऽपि हि ।
पाकादौ यदौदनादिस्थाल्यादि...(क्रिया) व्यवहारदर्शनात् अनभिहितमप्यर्थं जानाति तदा स्थाल्यादीनां विवक्षितं साहित्यं मन्यते, कतथा मन्वानः स्वयमपि पक्तुकामस्तत्सर्वमाहरति ।
एवमिहापि बालः प्रयोज्यवृद्धस्य विविष्टार्थव्यवहारदर्शनेन तद्विषयां बुद्धिमनुमाय शब्दानन्तरभावितया शब्दकारणतां तादववधारयति ।
वक्तुश्चास्यां प्रयोज्यवृद्धप्रतिपत्तौ दर्शनपारार्थ्यात् प्रधानभूताया(मुपा)दीयमानयोः शब्दार्तयोः साहित्यं विवक्षितमिति ।
एवं च विदित्वा स्वयमपि परार्थप्रयोगे सहितौ शब्दार्थौ हृदयमावेशितावुपादाय शब्दं चोच्चार्य परप्रतिपत्तिं भावयतीति सूक्तं साहित्यविवक्षा वर्णसाहित्यविवक्षावदिति ॥१२-१३ १।२॥
नियम्येते तदेकस्यां सम्बन्धः सोर्ऽथशब्दयोः ।
तत्र यद्यप्यसम्बन्धः कारकाणां परस्परम् ॥१४॥
तथापि यत्क्रिया तस्यामुपकार्योपकारिता ।
तत्क्रियासङ्गतेः पश्चात् सम्बन्धः कीर्त्यते तयोः ॥१५॥
नन्वेवं वदता शब्दार्थयोः क्रियासम्बन्ध एव दर्शितः , न परस्परम्, गुणप्रधानभावमन्तरेण सम्बन्धायोगात् ।
वक्ष्यति हि---ऽगुणानां च परार्थत्वादसम्बन्धः समत्वात्ः इति ।
स्यादेतत् ।
क्रियाकारकसम्बन्धपूर्वकत्वात् सर्वसम्बन्धानां क्रियाकारकसम्बन्ध एव दर्शित इति ।
अस्तु तावत्, तदुत्तरकालभावी तु कोऽनयोः सम्बन्ध इति वाच्यमेव ।
तदेतत् सर्वमनुभाष्य परिहरति---तत्रेति तयारेन्तने ।
अस्यार्थः ---- यद्यपि कारकाणां प्रधानार्थत्वान्न परस्परसम्बन्धः ।
तथापि प्रतिपत्त्यभिधानयोर्या काचित् क्रिया गृह्यते, तस्यां च क्रियाकारकसम्बन्धोत्तरकालभावी परस्परोपकार्योपकारकलक्षणः शब्दार्थयोरस्ति सम्बन्धऽ॥
तत्पुनरिदं पूर्वापरविरुद्धं प्रदेशान्तरविरुद्धं च ।
तथाहि --- अत्र तावदेकस्यां क्रियायामुपकार्योपकारकत्वं शब्दार्थयोः सम्बन्ध इत्युक्तम्,ऽप्रतिपत्तावुपादानात्ः इति क्रियानुमानाङ्गत्वमेव परस्परनियमात्मको सम्बन्ध इत्युक्तम् ।
प्रदेशान्तरे शक्तिरेव सम्बन्ध इति वक्ष्यति ।
क्वचिच्च शब्दशक्तिनियममेव सम्बन्धमाह---
ऽवाच्यवाचकशक्त्योश्च नियमः फललक्षणः इति ब्रुवाणः ।
अन्यत्राप्युक्तम्---
ऽेकाभिधानिमित्त्वं कर्मकर्तृत्वयोश्च यत् ।
यो वा करणक्रमत्वनियमोऽभिधयैकया॥
स नोर्ऽथशब्दसम्बन्धऽऽ
इति ।
अतो विवेचनीयमिदम्--- कोऽत्र सम्बन्धः शब्दार्थयोर्वार्त्तिककारस्याभिमत इति ।
अत्रोच्यते--- यथैकेन क्रयकर्मणा परिगृहीतयोर्द्रव्यगुणयोरितरेतराकाङ्क्षापरिपूरणेन परस्परोपकार्योपकारकलक्षणऽ
सम्बन्धः न ह्यनाश्रितः क्रयक्रियामभिनिर्वर्तयति ।
न द्रव्यं गुणविशेषानवच्छिन्नमुत्सहते क्रयक्रियां निर्वर्तयितुम् ।
न च गुणेन स्वमहिम्ना आश्रयभूतद्रव्यमात्रमुपादीयमानमपि क्रये गृह्यते, (स्वकीयगो) द्रव्यावरोधात् ।
द्रव्ये (गुणमात्रा) वच्छेदात् तद् गुणमात्रमुपादीयमानमपि क्रयक्रिया न प्रतीच्छति स्वकीयारुणिमगुणावरोधात् ।
सोऽयमर्थो नियमः सम्पद्यते ।
तदेवमिहाप्येकार्थप्रतिपत्त्यभिधानक्रियासिद्ध्यर्थमुपादीयमानयोर्विवक्षितसाहित्ययोः शब्दार्थयोः क्रियाकारकसम्बन्धोत्तरकालभावी योऽयमुपाकार्योपकारकभावः , स एव सम्बन्धः ।
कः पुनरनयोः परस्परोपकारः ।
श्रूयताम्--- अर्थो हि न प्रतिपादकमन्तरेण प्रतिपाद्यो भवति, शब्दो न प्रतिपाद्यमन्तेरण प्रतिपादकः ।
अतः प्रतिपाद्यप्रतिपादकतयावतिष्ठमानावन्योन्यस्योपकार्योपकारकौ भवतः ।
तच्चेदं रूपमनयोर्नियतमित्यत्यन्तसन्निकर्षमात्रेण नियमे सम्बन्धाभिधानम्, न तु नियम एव सम्बन्धः ।
शक्तिसम्बन्धवादोऽपि चात एव ।
वाच्यवाचकशक्त्योरेव हि सत्योरुपकार्योपकारकभावो भवति ।
न तु शक्तिरेव सम्बन्धः , तदत्र प्रत्यासत्तेरभेदोपचारेण शक्तिः सम्बन्धः , नियमः सम्बन्धः , कर्तृत्वं करणत्वं वा सम्बन्ध इत्येवमादयः समुल्लापाः ।
वस्तुतस्तूपकार्योपकारकत्वमेव सम्बन्धः ।
कथं पुनस्तद्रूपमनयोर्नियतमित्युच्यते ।
न ह्यनुच्चरिते शबेद परस्परोपकार्योपकारकभावः शब्दार्थयोरस्ति ।
न च सदानीं तौ न स्तः , नित्यत्वात् ।
तस्मादसदेतत् ।
तन्न ।
शक्त्यात्मना विद्यमानत्वात्


न चाप्यत्राविनाभाव उपयोगीति साधितम् ।
संज्ञेति गमकत्वं चेन्न तदङ्गमियं भवेत् ॥ ५,९.१६ ॥
गमयन्ती श्रुतिं दृष्ट्वा कल्प्यते व्यवहारतः ।
न चैषा गमयत्यर्थं सम्बन्धेऽनवधारिते ॥ ५,९.१७ ॥
अनुच्चरितेऽपि हि शब्देऽस्ति प्रतिपादकशक्तिः ,अर्थे च प्रतिपाद्यशक्तिः अत एव सम्बन्धो नित्य इत्युच्यते ।
नन्वेमपि करहस्तादिभिरनेकैः शब्दैरेकत्रार्थे प्रतिपाद्ये अनेकार्थवचने चैकस्मिन् गवादिशब्दे कथमव्यभिचारः शक्यतेऽवगन्तुम् ।
अतः प्रकरणादीनामपि पदार्थावधारणापोयत्वाद् वृद्धव्यवहारे हि बालेन केवलपदाप्रयोगादावापोद्धारभेदेनैतदवधारितम्--- यदा यदर्थविवक्षया शब्दः प्रयुज्यते स तस्यार्थ इति ।
विवक्षा चार्थप्रकरणादिवशोन्नेया ।
गामानयदोग्धुमित्युक्ते अर्थादेतदवगम्यते सास्नादिमत्यस्य विवक्षेति ।
योत्स्यामीत्युक्ते अर्थादि(मु?) षौ प्रतीतिरुदेति ।
तदेवमर्थप्रकरणादिभेदभिन्नमन्ययान्यया च शक्त्योपहितमन्यदन्यच्च पदमन्यस्यान्यस्य वाचकमिति न पदव्यभिचारः ।
अर्थोऽपि चोद्भूततत्पदाभिधानयोग्यावस्थाभेदभिन्नो हस्तादिरन्योऽन्यशच् करादिपदानां वाच्य इति न पदं व्यभिचरति ।
अपि चैकस्यां क्रियायामयं नियम इत्युक्तः ।
न चैकस्यां प्रतिपत्तावभिधाने वोपादीयमानयोः शब्दार्थयोरन्योन्यव्यभिचारोऽस्ति ।
तदिदमुक्तं हिऽनियम्येते यदेकस्याम्ः इति ॥१४,१५॥
नन्वेवमेक्रियानिमित्तको नियमः शब्दार्थयोः सम्बन्ध इत्युच्यमानेऽनुमानाङ्गमविनाभाव एवाश्रितो भवेत्, अतस्तदबलेन धूमादिवाग्निज्ञानं शब्दादर्थज्ञानमुपजायमानमनुमानं स्यादत आह---न चापीति ।
इदं च शाब्दे प्रसाधितमित्याह--- साधितमिति ।
ननु यद्यविनाभावो नोपयुज्यते, कस्तर्ह्युपयुज्यते ।
उक्तं भाष्यकारेण---ऽसंज्ञासंज्ञिसम्बन्धऽऽिति ।
ननु चायमपि सम्बन्धोऽनुपयोग्येव ।
तदेतदाशङ्कते--- संज्ञेति ।
तदङ्गं गमकत्वाङ्गमित्यर्थः ॥१६॥
कथमनङ्गमत आह---गमयन्तीति ।
व्यवहारदर्शनेन गम


तस्माद् गमकता पश्चाद् धूमादेरिव जायते ।
सानङ्गं तद्वदेव स्यान्नेयं धूमादिभिः समा ॥ ५,९.१८ ॥
निरूपितेऽविनाभावे तत्र तत्कारिता ह्यसौ ।
गमकत्वेन पूर्वं च तत्र नोत्पद्यते मतिः ॥ ५,९.१९ ॥
इह वाचकतायाः प्राङ् नाविनाभावितामतिः ।
यदैव चेह सम्बन्धं वृद्धेभ्यः प्रतिपाद्यते ॥ ५,९.२० ॥
तदैव गमकोऽस्यायमिति नान्यस्वरूपतः ।
कथयन्ति क्वचित्तावद् बोद्धव्योऽस्मादयं त्विति ॥ ५,९.२१ ॥
क्वचिद् वाचक इत्येवं वाच्योऽयमिति चोच्यते ।
क्वचिदुच्चारिताच्छब्दाद् दृष्ट्वार्थविषयां क्रियाम् ॥ ५,९.२२ ॥
यन्ती एषा संज्ञा कल्प्यत इति ।
किमतो यद्येवमत आह--- न चैषेति ।
एतदुक्तं भवति ।
गमकत्वमेव संज्ञात्वं न तत्सम्बन्धान्तरमन्तेरेणेति ॥१७॥
यतश्चैवमतो धूमादेरिव गमकत्वं सम्बन्धान्तरपूर्वकमेव पश्चादापतितमित्याह---तस्मादिति ।
तत्तुल्यत्वे दोषमाह--- सानङ्गमिति ।
यथैवाविननाभाव एव धूमादौ प्रतीत्यङ्गं न तदुत्तरकालभावि गमकत्वम्, एवं तत्रापि स्यादिति ।
धूमादिवैषम्येणेदानीं परिहारमाह--- नेयमिति ॥१८॥
वेषम्येमेव दर्शयति--- निरूपित इति ।
तत्र हि धूमादौ महानसादिदेशेऽग्न्यविनाभावनिरूपणोत्तरकालं तत्कृतैवासौ गमकतेति ।
अपि च धूमे प्रथमं गमकत्वं नावगम्यत इत्याह -- गमकत्वेनेति ॥१९॥
शब्दे तु विपरीतमित्याह--- इहेति सार्धेन ॥२० १।२॥
गमकत्वेनैव शब्दे प्रथमं व्युत्पत्तिरित्युक्तं तद् विवृणोति---कथयन्तीतित्रयेण ।
अयमर्थः --- त्रेधा हि शब्दे व्युत्पत्तिः , वृद्धोपदेशात् तदव्यवहारात् पदान्तरसमभिव्याहाराद्वा ।
सर्वत्र चात्र गमकतैवादाववगम्यते ।
तथाह--- वृद्धोपदेशे तावदयमस्य वाच्यः अयमस्य वाचक


केषाञ्चित् तत्र बोद्धृत्वमनुमानात् प्रतीयते ।
एतेनास्माद् यतः शब्दादर्थोऽयमवधारितः ॥ ५,९.२३ ॥
तेन नूनमिमौ लोके सिद्धौ वाचकशक्तिकौ ।
इत्थं वाचकता सिद्धा सङ्कीर्णापि ततः परम् ॥ ५,९.२४ ॥
अन्वयव्यतिरेकाभ्यां निष्कृष्टेर्थेऽवधारिते ।
बहुजातिगुण्द्रव्यकर्मभेदावलम्बिनः ॥ ५,९.२५ ॥
प्रत्ययान् सहसा जातान् श्रौतलाक्षणिकात्मकान् ।
न लोकः कारणाभावान्निर्धारयितुमिच्छति ॥ ५,९.२६ ॥
इति गम्यगमकभाव एवावगम्यते ।
यत्रापि क्वचिदुच्चरिताद् वाक्यात् प्रयोज्यवृद्धस्यार्थाविषयां क्रियां दृष्ट्वा चेष्टानुमानेन गवाद्यर्थबोद्धृत्वमुपकल्प्यते तत्रापि यस्मादतः शब्दादनेनायमर्थोऽवगतः , तस्मादयमस्यार्थ इति गमकतैव शब्दस्यादाववगम्यते ।
प्रसिद्धपदान्तरसमभिव्याहारेऽपि इह सहकारतरौ मधुरं पिको रौतीत्येवमादौ विदितसहाकरादाद्यर्थोऽविदितपिकाद्यर्थश्च योऽयं सहकारतरौ रौति तस्य पिकशब्दो गमक इति गमकत्वमेवावगच्छतीति सिद्धं सर्वत्र गमकत्वं न व्युत्पत्तिरिति ॥२१-२३ १।२॥
नन्वाकृतिः शब्दार्थ इति वः सिद्धान्तः ।
न च तद्वाच्यत्वमन्वयव्यतिरेकावन्तरेण शक्यतेऽवगन्तुम् ।
अतस्तत्प्रधानैव शब्दप्रतीतिरापद्येत ।
अत आह---इत्थमिति ।
अयमर्थः --- अन्वयव्यतिरेकयोरत्र निष्कृष्टार्थनियममात्रे व्यापारः , वाचकता तु नानाजात्यादिसङ्कीर्णार्थविषया सिद्धैवेति ॥२४ १।२॥
नन्वागोपालं शब्दार्थव्यवहारो दृश्यते ।
न च तेऽन्वयव्यतिरेकाभ्यामर्थनिष्कर्षं कुर्वन्ति ।
न च तान् प्रत्यवचाकाः शब्दा इति युक्तं वक्तुम् ।
तुल्यवत् प्रतीतेः ।
पिकाद्यर्थनिर्णयस्य च म्लेच्छादिनिबन्धनस्य


बलाबलादिसिद्ध्यर्थं वाक्यज्ञास्तु विविञ्चते ।
कक्ष्यान्तरितसामान्यविशेषेषु हि दुर्बलः ॥ ५,९.२७ ॥
सामान्यवचनः शब्दो जायते लक्षणाबलात् ।
तेनावश्यं विवेक्तव्य शब्देन कियदुच्यते ॥ ५,९.२८ ॥
वक्ष्यमाणत्वादत आह---बहुजातीतिसार्धेन ।
अयमभिप्रायः --- लौकिका हि हानोपादानादिव्यवहारमात्रार्थिनः , न च तेषां व्यवहारः शब्दौच्चारणक्षणोपजातसङ्कीर्णार्थबोधसाध्य एवेति, श्रौतलाक्षणिकादिविवेकं प्रत्यनादृता इति ॥२५,२६॥
तेन तर्हि किमर्थं विवञ्चते अत आह--बलाबलादीति ।
शास्त्रस्था ह्यनिरूपितशक्तयो न शास्त्रार्थमनुष्ठातुं शक्नुवन्तीति तेषां हानोपादानोपयोगी शब्दशक्तिविवेक इति ते विविञ्चत इति ॥२६ १।२॥
एतदेव प्रपञ्चयतिकक्ष्यान्तरितेतिद्वयेन ।
अस्यार्थः -- द्विविधं सामान्यं परमपरं च ।
परं सत्ताख्यम्, अपराणि
द्रव्यत्वादीनि ।
तानि सामान्यान्यपि सन्ति ।
व्यावृत्तिबुद्धेरपि हेतुत्वात् विशेषसंज्ञामपि लभन्त इति, तानि सामान्यविशेषशब्देनापदिशन्ति, तत्र च सामान्यविशेषाः सामान्यशब्दस्य स्वार्थेन कक्ष्ययान्तरिता भवन्ति ।
यथा सच्छब्दस्य सत्तामाचक्षाणस्य तदन्तरिता द्रव्यत्वादयः सामान्यविशेषाः , तेषु चासौ लक्षणाबलेन प्रवर्तमानो दुर्बलो जायते ।
स्वर्थे तु श्रुत्या वर्तते इति स तत्र बलवान् ।
का पुनरियं लक्षणा नाम--- अभिधेयविनाभावेन प्रतीतिः ।
यथोक्तम्----
"अभिधेयाविनाभावप्रतीतिर्लक्षणेष्यते" इति ।
क्रिया कियद्वाभिधेयाविनाभावेन लक्ष्यते कियत् स्वमहिम्ना शब्देनोच्यत इति शास्त्रस्थानामनुष्ठानविशेषार्थं विवेको युक्तः ।
सा च लक्षणा प्रायेण नित्यसम्बन्धाद् भवतीति नित्यसम्बन्धादित्युक्तम् ।
सम्बन्धमात्रमेव तु लक्षणाया बीजम् ।
आह--- कः पुनरनुष्ठाने श्रौतलाक्षणिकविवेकस्योपयोगः ।
श्रूयताम्--- लोके तावद् ब्राह्म


कियद्वा नित्यसम्बन्धादभिधेयेन लक्ष्यते ।
तत्र प्रयोगबाहुल्यात् तद्विशेषेष्वसत्स्वपि ॥ ५,९.२९ ॥
णेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति ब्राह्मणसामान्यस्था ब्राह्मणश्रुतिर्लक्षमया तद्विशेषं कौण्डिन्यमवतरन्ती दुर्बला भवति इत्यव्यवहितविशेषस्थया कौण्डिन्यश्रुत्या बाध्यते ।
वेदेऽप्येमेव ।
यजुः सामान्यस्थाऽुपांशुयजुषाऽिति श्रुतिस्तद्विशेषस्थयाऽुच्चैर्निगदेनः इति श्रुत्या बाध्यत इत्येवमादि दर्शयितव्यमिति ।
सामान्यशब्देनात्र विशेषान् विशिंषन्न सामान्यतिरिक्ताः केचन विशेषा विद्यन्त इति दर्शयति ।
असति हि केषाञ्चिद् दर्शनं-- नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः ।
ते च व्यावृत्तिबुद्धेरेव हेतुत्वाद् विशेषा एवेति ।
परमाणुकारयमकं हि काणादा द्व्यणुकादिक्रमेण जगतो निर्माणमातिष्ठन्ते ।
न चाणुत्वेन परस्परमनतिशयानैरणुभिरसङ्कीर्णाकारजगदुत्पादयितुं शक्यते ।
अतः सन्ति केचनाणुसमवायिनो विशेषा नाम ये तानितरेतरतो व्यावर्तयन्तीति सङ्गिरन्ते ।
ते च निर्धूतनिखिलकालुष्यैरपरोक्षमीक्षन्त एवेति ।
तान् प्रत्युच्यते ।
न तावदक्षाधीनेषु भावेष्ववान्तरसामान्यातिरिक्तान् विशेषानीक्षामहे ।
द्रव्यत्वेन हि पृथिव्यादयो गुणकर्मभ्यो विशिष्यन्ते(द्रव्य?पृथिवी)त्वेन पृथिवी अबादिभ्यो द्रव्यान्तरेभ्यः , वृक्षत्वेन वृक्षाः पार्थिवान्तरेभ्यः , शिंशपात्वेन शिंशपा वृक्षान्तरेभ्य इत्येवमणून् यावदिय विशेषकथा वर्तयितव्या ।
किमत्र विशेषान्तरेण ।
अणुषु त्वेकजातीयेष्वपि कार्यविभागाद् रूपमेव विभक्तमनुमास्यामहे ।
नो खल्वविभक्ताकारं पूर्वव्सतु विभक्ताकारकार्यघटनायोत्सहत इति ।
पृथक्त्वाख्यो वा गुणस्तेषामन्योन्यस्य विशेषकत्वाद् विशेषो भविष्यति ।
स एवानपेक्षितविशेषान्तरो न सिध्यतीति चेत् ।
विशेषा वा कथमनपेक्षितविशेषान्तराः सेत्स्यन्ति ।
अक्षणे वा तदानन्त्यम्, अतो मन्द एवायं विशेषान्तराभ्युपगमः ।
योगिनस्तु तान् पश्यन्तीति श्रद्धधाना बुध्यन्ते वयमश्रद्धधानाः स्मः ,ये युक्तिं प्रार्थयामह इति सूक्तं सामान्यविशेषेष्विति ॥२७-२८ १।२॥


प्रयोगात् परसामान्ये सति चाप्यप्रयोगतः ।
सास्नाद्येकार्थसम्बन्धिगोत्वमात्रस्य वाचकः ॥ ५,९.३० ॥
गोशब्द इति विज्ञानमन्वयव्यतिरेकजम् ।
तस्माद् गमकतैवादावभिधायकता पुनः ॥ ५,९.३१ ॥
तन्निमित्तेति सम्बन्धः संज्ञासंज्ञित्वलक्षणः ।
सम्बन्धनियमोऽयं तु याविनाभावितोच्यते ॥ ५,९.३२ ॥
सम्बन्धग्रहणात्पूर्वं यस्मान्न गमयत्यतः ।
गवादेर्नाभिधाशक्तिर्देवदत्तपदे यथा ॥ ५,९.३३ ॥
ऽन्वयव्यतिरेकाभायं वाक्यज्ञास्तु विविञ्चतेः इत्युक्तम् ।
तावन्वयव्यतिरेकौ दर्शयति--- तत्रेति द्वयेन ।
तत्र सामान्ये गवादौ
गोशब्दस्य बहुलं प्रयोगात् तद्विशेषेषु च शाबलेयादिषु असत्स्वपि बाहुलेयादिषु प्रोय(गा?ग)दर्शनात् परसामान्ये च सत्तादौ सत्यपि भावान्तरेऽप्रयोगात् सास्नादिभिः सहैकावयविरूपार्थसम्नब्धिगोत्वमात्रस्य गोशब्दो वाचक इत्यन्वयव्यतिरेकाभ्यां ज्ञानं जन्यते सास्नाद्येकार्थसम्बन्धीति चाविनाभाविना चिह्नेन गोत्वमुपलक्षयतीति ।
अतः सिद्धं गम्यगमकभाव एव शब्दार्थयोः सम्बन्धः प्रथममवगम्यते न पुनरविनाभाव इति ॥२९-३० १।२॥
उपसंहरति---तस्मादिति ।
ननु--- संज्ञासंज्ञिसम्बन्धो भाष्यकारेणोक्तः , न च गमकं संज्ञेति लौकिका मन्यन्ते, न ह्यग्नेर्धूमः संज्ञेत्युच्यते, अत आह--- अभिधायकतेति ।
अयमभिप्रायः --- अस्यार्थंस्यायं गमक इति ज्ञाते
नाव्याप्रियमाणस्यावगतौ कारणत्वमुपपद्यत इति तद्व्यापारोऽवसीयते, शब्दव्यापारश्चाभिधेत्युच्यते ।
अतोऽत्राभिधानक्रियासम्बन्धाद् गमकत्वस्यैव विशेषोऽभिधायकता शब्दे ज्ञायते ।
अभिधायकतैव संज्ञात्वमित्युपपन्नः संज्ञासंज्ञिसम्बन्ध इति ।
अविनाभाविता तु सम्बन्धनियमः , न सम्बन्ध इत्याह--- सम्बन्धेति ।
इदं चऽनिष्कृष्टेर्ऽथे नियम्यतेः इत्यत्रोक्तमस्माभिः ।
तस्मादिति पदानुषङ्गेणोपसंहृतमिति वेदि


यथैव गमकः शब्दो व्यवहारात् प्रतीयते ।
तथैव शक्तिविज्ञानं तस्योपायोऽवगम्यते ॥ ५,९.३४ ॥
स्वरूपग्रहणं चास्य यथा व्याप्रियते फले ।
तथा सम्बन्धविज्ञानं नाशक्तित्कृता भवेत् ॥ ५,९.३५ ॥
तव्यम् ।
अन्वयव्यतिरेकाभावशब्दौ पर्यायविति नार्थभेदः शङ्कितव्य इति ॥३१,३२॥
ऽयदि प्रत्यायकः इति भाष्यकारेण प्रयोगोऽन्तर्णीतः , तमाह---सम्बन्धेति ।
देवदत्तादयो हि यदृच्छाशब्दा यत्रैव सङ्केत्यते तमेव प्रतीपादयन्ति ।
न चैषां क्वचिदपि स्वाभाविकी शक्तिः ।
तदयं प्रयोगार्थः --- गवादिशब्दो धर्मी, नाभिधाशक्त इति साध्यम्, उपायान्तरापेक्षत्वादिति हेतुः ।
यदुपायान्तरापेक्षं तन्न स्वरूपतः शक्तम्, देवदत्तादिपदमिव सङ्केतग्रहणापेक्षमिति ॥३३॥
अत्र भाष्यकारेणऽयदि प्रत्यायकः शब्दः प्रथमश्रुतः किं न प्रत्याययतिः इति परिचोद्यऽसर्वत्र नो दर्शनं प्रमाणम्ः इत्यादिना दर्शनबलेन गृहीतशक्तिकः प्रत्याययतीति परिहार उक्तः , तद्दर्शयति---यथैवेति ।
असार्थः --- गमकत्वमेव तावत् शब्दस्य किमभ्युपगम्यते, व्यवहारदर्शनबलेनेति चेत्, समानमिदं श्कतिसंवेदनेऽपि ।
न ह्यविदितशक्तयः शब्दादर्थमवयन्तो दृश्यन्त इति ॥३४॥
स्यादेतत्--- प्रकाशकाः प्रदीपादयोऽविदितसम्बन्धा अपि स्वार्थं प्रकाशयन्तो दृश्यन्ते, तद्विधर्मा च शब्दः , अतो न प्रकाशक इति ।
तच्च नैवम्, शक्तिवैलक्षण्यात् ।
विचित्रशक्तयोऽपि हि भावाः ।
तत्प्रदीपः प्रत्यक्षपिरकरतयागृहीतसम्बन्धोऽपि प्रकाशयतु नाम ।
नैतावता शब्देनापि तद्धर्मेण भवितव्यम् ।
अतोऽयमपर्यनुयोगः ।
अपि च व्रीह्यादयोऽगृगीतस्वरूपा अपि कार्यमारभन्त एवेति शब्दे तद्धर्मः किं नारोप्यते ।
कारकहेतवो हि व्रीह्यादयः , शब्दस्तु ज्ञापकहेतुः ।
अतोऽपेक्षते स्वरूपग्रहणमिति चेत् ।
केन वेदमाज्ञापितं ज्ञापकेन स्वरूपग्रहणमपेक्षितव्यं न सम्बन्धग्रहणमिति, दर्शनबलेनेति चेत्, समानमिदं सम्बन्धग्रहणापे


यत्साधकतमत्वेन कस्यचित् किञ्चिदुच्यते ।
तस्यानुग्राहकापेक्षा न स्वशक्तिविघातिनी ॥ ५,९.३६ ॥
न हि तत्काणं लोके वेदे वा किञ्चिदीदृशम् ।
इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥ ५,९.३७ ॥
प्रत्यात्मनियतत्वाच्च यथैव करणं भवेत् ।
बाह्यान्तरविभागेन क्वचित् स्याद् वा विवक्षया ॥ ५,९.३८ ॥
उद्विग्नो ह्यन्धकारेण कश्चिदेवं ब्रवीत्यपि ।
किं चक्षुषा ममैतेन दृष्टं दीपेन यन्मया ॥ ५,९.३९ ॥
क्षायामपि, दर्शनबलादेव हि लिङ्गशब्दादयो ज्ञापकविशेषाः सम्बन्धग्रहणमपेक्षन्ते ।
न चक्षुरादयः ।
सर्वत्र हि नो दर्शनं प्रमाणम् ।
कारकाश्चक्षुरादय इति नानुमन्यामहे, ज्ञानकारणस्यैव ज्ञापकत्वात्, तदेतदाह---स्वरूपेति ॥३५॥
ननु च सम्बन्धग्रहणात् प्रागप्यभिधाने शब्दः शक्तो न वा ।
यदि शक्तः किं सम्बन्धग्रहणापेक्षया ।
न चेत्
सम्बन्धग्रहणमेव हि सदागमन्यायेन कारणमापद्येत,अत आह---यत्साधकतमेति ।
न तावत् सम्बन्धग्रहणात्पूर्वमशक्तमेव शब्दमवगच्छामः ।
न च शक्तस्यानुग्राहकापेक्षा स्वशक्तिं विह(रती?न्ती)ति ॥३६॥
किं पुनर्न विहन्त्यत आह----न हीति ।
यदि ह्यनुग्राहकापेक्षा स्वशक्तिं विहन्यात् सर्वमेव लौकिकं वैदिकं करणं करणतां जह्यात् ।
अपेक्षते हि सर्वमेव करणमितिकर्तव्यताजनितमनुग्रहमिति ॥३७॥
किञ्च--- अस्तु तावदितिकर्तव्यतापेक्षा करणभावं न विहन्तीति, प्रत्युत तयापि नैव करणत्वं नास्ति, प्रतिकरणस्वरूपं तदपेक्षानियमादित्याह---प्रत्यात्मेति ।
नन्वेवमुभयसमवधानमेवान्तरेण कार्यानिष्पत्तेः कथं करणेतिकर्तव्यताविभागो दर्शयितव्यः , अत आह--- बाह्यान्तरेति बाह्यमपि क्वचिद् विवक्षातः कारकप्रवृत्तेः करणतया विवक्ष्यत इत्याह--- क्वचित्स्याद्वेति ॥३८॥


नित्यवृत्तौ तु नान्धानां दृष्टिर्दीपशतैरपि ।
रूपादिदर्शने यस्मात् तस्माच्चक्षुः प्रकाशकम् ॥ ५,९.४० ॥
शरीरात्ममनोयोगादसाधरणताबलात् ।
विज्ञानासत्तिभावाच्च चक्षुः करणमिष्यते ॥ ५,९.४१ ॥
तथैवेहापि सम्बन्धज्ञानमङ्गं प्रसिद्धितः ।
गौरवात् करणत्वेन मतं चेत् केन वार्यते ॥ ५,९.४२ ॥
यथा चक्षुरितीदं तु व्यभिचारित्वमुच्यते ।
देवदत्तेऽपि चाव्यक्तां शक्तिमिच्छन्ति युक्तितः ॥ ५,९.४३ ॥
एतदेव दर्शयति--- उद्विग्न इति ।
ज्ञानोत्पत्तावन्तरङ्गमपि चक्षुर्न करणतया मन्यते, किन्तु कितश्चित्तारतम्यविशेषाद् बाह्यमेव प्रदीपं करणतया विवक्षतीति ॥३९॥
स चायं विवक्षानिबन्धः करणभावः कादाचित्कः ।
नित्यवृत्तौ नित्यं तु कार्यसिद्धौ आन्तरस्य तक्षुषः करणत्वमवगम्यत इत्याह---नित्यवृत्ताविति ।
अन्धानां दृष्टिर्दर्शनं नास्तीत्यर्थः ॥४०॥
नन्वस्तु विज्ञानकार्यासत्तिविशेषणात् प्रदीपाद्यपेक्षया चक्षुषः करणभावः , आत्ममनः संयोगस्तु ज्ञानोत्पत्तावत्यन्तमासन्नः , अतः कथं तदपेक्षया चक्षुषः करणत्वं भविष्यतीत्यत आह---शरीरेति ।
अयमभिप्रायः -- नासत्तिविशेष एव करणत्वे कारणम्, अपि तर्हि बाह्यप्रदीपाद्यपेक्षयासत्तिः , आभ्यन्तरात्ममनः संयोगापेक्षया त्वसाधारण्यम्, आत्ममनः संयोगो हि रसादिज्ञानसाधारणो नाव्यभिचारितया रूपदर्शनकारणमिति शक्यतेऽवगन्तुम्ष चक्षुषः पुनरसाधरणतयैव रूपज्ञाने कारणत्वमितिऽचक्षूरूपादिभेदस्तुः इत्यत्रोक्तमिति ॥४१॥
तदेवं दृष्टान्ते विवक्षासननिकर्षविशेषकृतकरणेतिकर्तव्यताविभागं दर्शयित्वा प्रकृते योजयति---तथैवेति ।
अनेन यत्तदागमन्यायेन सम्बन्धग्रहणमेव कारणमापद्येतेत्युक्तं तदपि विवक्षाविशेषवशेनास्त्विति दर्शितमिति ॥४२॥
अपरमपि---ऽयथा चक्षुर्द्रष्ट्टन बाह्येन प्रकाशेन विनाः इत्यादि परिहारभाष्यं, तस्याभिप्रायमाह---यथेति ।
चक्षुर्हि प्रदीपाद्युपायान्तरा


प्रकाशेऽस्थिते बाह्ये नान्धै रूपं प्रतीयते ।
फलानन्तर्यतश्चापि चक्षुः करणमिष्यते ॥ ५,९.४४ ॥
पुरुषाधीनविज्ञानस्तेभ्यः प्रागनिरूपितः ।
यः संज्ञासंज्ञिसम्बन्धः स चेष्टश्चेद् ध्रुवं कृतः ॥ ५,९.४५ ॥
भिन्नदेशाद्यधिष्ठानाद् यथा रज्जुघटादिषु ।
समं नास्त्यनयोः किञ्चित् तेनासङ्गतता स्वतः ॥ ५,९.४६ ॥
पेक्षमपि रूपप्रकाशने स्वभावतः शक्तमित्यनैकान्तिको हेतुः ।
दृष्टान्तोऽपि साध्यविकल इत्याह--- देवदत्तेति ॥४३॥
यदृच्छाशब्दानामपि ज्ञानसामर्थ्यं विद्यमानमेव नियोगेनाभिव्यज्यत इत्यध्यासवादे वर्णितम् ।
अत्र च यथा चक्षुरिति भाष्ये चक्षुषः करणत्वमित्यत्रोपपत्तिमाह---प्रकाशैति ।
इदं चऽनित्यवृत्तौः इत्यत्रोक्तमप्यधुना भाष्यसमर्थनार्थमुक्तमित्यपौनरुक्त्यमिति ॥ ४४॥
तदेवमुपपादितः संज्ञासंज्ञिसम्बन्धः कृतकत्वेन भाष्यकृताक्षिप्तः ---ऽयदि प्रथमश्रुतो न प्रत्याययति कृतकस्तर्हिः इति,
तदेतद्वार्तिककारो दर्शयति---पुरुषेति ।
एवं चात्र प्रयोगः --- यः संज्ञासंज्ञिसम्बन्धः स कृतकः , पुरुषापेक्षत्वात्, रज्जुघटसंयोगवदिति ॥४५॥
अपरमपिऽस्वभावतो ह्यस्बन्धावेतौ शब्दार्थौः इत्यादि भाष्यं, तस्याभिप्रायमाह---भिन्नेति ।
अयमर्थः --- यथा रज्जुसर्पादिषु भिन्नदेशकालाधिष्ठानेषु किञ्चिद् देशादि समं नास्ति, एवं तयोः शब्दार्थयोः ।
अतस्तद्वदेव तावपि स्वभावतोऽसम्बन्धाविति ।
ईदृशी चात्र प्रयोगरचनाशब्दार्थौ स्वभावतोऽसङ्गतौ, असमदेशकालत्वात्, रज्ज्वादिवत् ।
तावेव न समदेशकालौ, भिन्नदेशाद्यधिष्ठानोपलम्भात्, तद्वदेवेति ॥४६॥
इत्युपाध्यायसुचरितमिश्रकृतौ संबन्धाक्षेपः समाप्तः ।