मीमांसान्यायप्रकाशः
मीमांसान्यायप्रकाशः ।
यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् । प्राप्यते तमहं वन्दे गोविन्दं भक्तवत्सलम् ॥ अनन्तगुणसम्पन्न मनन्तभजनप्रियम् । अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥ इह खलु परमकारुणिकेन भगवता जैमिन्यृषिणा अथातो धर्मजिज्ञासेत्यादिना द्वादशसु अध्यायेषु धर्मो विचारितः । तत्र वेदेन प्रयोजन मुद्दिश्य विधीयमानोऽर्थो धर्मः यथा यागादिः स हि यजेत स्वर्गकाम इत्यादिवाक्येन खर्गमुद्दिश्य विधीयते । तथा हि यजेतेत्यत्रास्ति अंशद्दयं यजिर्धातुः प्रत्ययच । तत्र प्रत्ययेऽप्यस्ति अंशद्दयम् आख्यातत्व' लिङ्त्वञ्च । आख्यातत्वञ्च दशसु लकारेषु विद्यते लिङ्त्वञ्च पुनः केवलं लिङयेव । तत्राख्यातत्वलित्वाभ्यां भावनैवोच्यते । भावना नाम भवितुर्भवनानुकूलो भावकव्यापारविशेषः । सा च द्विविधा शाब्दी भावना आर्थी भावना चेति 1 तत्र पुरुषप्रवृत्त्यनुकूल भावकव्यापारविशेषा शाब्दी भावना । सा च लिङ्त्वांशेनोच्यते । लिङ्श्रवणेऽयं मां प्रवर्त्तयति मत्प्रवृत्त्यनुकूलव्यापारवानयमिति नियमेन प्रतीयमानत्वात् । यच्च यस्मात् प्रतीयते तत्तस्य वाच्यम् । गोशब्दस्य गोत्वं स च प्रवृत्त्यनुकूलव्यापारविशेषो लोके पुरुषनिष्ठोऽभिप्रायविशेषः वेदे तु पुरुषाभावात् लिङादिशब्दनिष्ठ एव । न हि वेदः पुरुषनिर्मितः वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकं वेदाध्ययनसामान्यादधुनाध्ययनं यथेत्यादिना वेदापौरुषेयत्वस्य साधितत्वात् । यः कल्पः स कल्पपूर्व इति न्यायेन संसारस्यानादित्वादीश्वरस्य च सर्वज्ञत्वादीश्वरो गतकल्पीयं यथा
वेदमस्मिन् कल्पे स्मृत्वा उपदिशतीत्येतावतैवोपपत्तौ प्रमाणान्तरेणार्थमुपलभ्य रचितत्वकल्पनानुपपत्तेश्च । ततश्च पुरुषाभावाच्छब्दनिष्ठैव सा श्रत एव शाब्दी भावनेति व्यपदिशन्ति ।
सा च शाब्दी भावना अंशत्रयमपेक्षते साध्य साधनमिति-
कर्त्तव्यतां चेति । तत्र साध्याकाङ्गायां वच्यमाणांशत्त्रयीपेतार्थी भावना साध्यत्वेन सम्बध्यते एकप्रत्ययगम्यत्वेन समानाभिधानश्रुतेः । यद्यपि संख्यादीनामप्येकप्रत्ययगम्यत्वं समानं तथाप्ययोग्यत्वान्न तेषां भाव्यत्वेनान्वयः । करणाकाङ्क्षायां लिङादिज्ञानं करणत्वेन सम्बध्यते तस्य च करणत्वं न भावनो त्पादकत्वेन सन्निकर्षस्येव रूपादिज्ञाने सन्निकर्षात् प्राक् रूपज्ञानस्येव लिङादिज्ञानात् प्राक् शब्दवर्मभावनाया प्रभावप्रसङ्गात् । किन्तु भावनाभाव्यनिर्वर्त्तकत्वेन लिङ्गादिज्ञानं हि शब्दभावनाभाव्यार्थी भावनां निर्वर्त्तयति कुठार इव छेटनम् । अतो लिङ्गादिज्ञानस्य करणत्वेनान्वयः । इतिकर्त्तव्यताकाङ्क्षायां प्राशस्त्यज्ञानमितिकर्त्तव्यतात्वेन सम्बध्यते । तच्च प्राशस्त्यज्ञानं वायुर्वे चेपिष्ठा देवतेत्यर्थवादैर्जन्यते । ते ह्यर्थवादा: स्वार्थप्रतिपा दने प्रयोजनमनुपलभमाना लक्षणया क्रतोः प्राशस्त्य प्रतिपा दयन्ति स्वार्थमात्रपरत्वे श्रानर्थक्यप्रसङ्गात् न चेष्टापत्तिरध्ययनविध्युपात्तत्वेनानर्थक्यानुपपत्तेः ।
तथाहि स्वाध्यायोऽध्येतव्य
इत्यध्ययनविधिः सकलस्य वेदस्याध्ययनकर्त्तव्यतां बोधयन् सर्वा वेदः प्रयोजनवदर्थपर्य्यवसायोति सूचयति निरर्थकस्याध्ययनानुपपत्तेः । स च वेदो विधिमन्त्रनामधेयनिषेधार्थवादात्मकः । तत्र विधिः प्रयोजनवदर्घविधानेनार्थवान्। स चाप्राप्तमर्थं विधत्ते यथा श्रग्निहोत्रं जुहुयात् स्वर्गकाम इति विधिरप्राप्तं प्रयोजनवद्दोमं विधत्ते अग्निहोत्रहोमेन स्वर्गं भावयेदिति । यत्र तु कर्म
प्रकारान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रविधानम् । यथा दध्ना जुहुयादित्यत्र होमस्याग्निहोत्रं जुहुयादित्यनेन प्राप्तत्वाद्दोमोद्देशेन दधिमात्रविधानम् । दध्ना होमं भावयेदिति । यत्र तूभयमप्राप्तं तत्र विशिष्ट विधत्ते तदुक्तम् । न चेदन्येन शिष्टा इति शिष्टा उपदिष्टा इत्यर्थः । यथा सोमेन यजेतेत्यव सोमयागयोरप्राप्तत्वात् सोमविशिष्टयागविधानं
सोमवता
यागेनेष्टं भावयेदिति । न चोभयविधाने वाक्यभेदः विशिष्टस्यैकत्वात् विशिष्टविधौ च मत्वर्थलचणा । यथा सोमपदेन मत्वर्थो लक्ष्यते सोमवतेति न हि मत्वर्धलक्षणां विना सोमस्यान्वयः सम्भवति यदि तावत् सोमयागयोरैक्यरूपेण भावनायां करणत्वेनैवान्वयः । सोमेन यागेनेष्टं भावयेदिति । तत उभयविधाने वाक्यभेदः सोमस्य यागवत्फलभावनाकरणत्वेनाप्रत्यक्षविरोधञ्च । न हि सोमो यागो भवितुमर्हति धान्यप्रसङ्गापातच यागार्थत्वानुपपत्तिश्च यागे द्रव्यानुपपत्तिश्च । प्रत्ययवाच्यभावनायाः समानपदोपात्तेन यागेन करणाकाङ्क्षानिवृत्तत्वेन भिन्नपदोपात्तस्य सोमस्य करणत्वेनान्वयानुपपत्तिश्च स्यात् ।
यदि च वैयधिकरण्य नान्वयः तत्र न तावद्यागेन सोममित्यन्वयः । समानपदोपात्तत्वात् प्रत्ययवाच्यफलभावनायां करणत्वेनान्वितस्य यागस्य सोमकर्मकभावनान्वयानुपपत्तेः यागस्य सोमार्थत्वापत्तेश्च । न चेष्टापत्तिरट्टष्टद्वयापत्तेः न हि यागस्य सोमार्थत्व, दृष्टद्वारेण सम्भवति व्रीहिषु अवघातेनेव यागेन सोमे कस्यचिद दृष्टस्याजननात् । अतस्तेन तावत् सोमे किञ्चिददृष्टं जननीयं प्रोक्षणेनेव व्रीहिषु । तथा यागस्य सोमार्थत्वे फलभावनायां सोमस्य करणत्वेनान्वयो वक्तव्यः भावनाकरणत्वञ्च भावनाभाव्यनिवर्त्तकत्वेनेत्युक्तम् । न च सोमः अदृष्टमन्तरेण फलं जनयितु ं समर्थः ग्रहैर्जुहोतोति वाक्य विहितहोमेन तस्य भस्मो-
भावात् । अतो दृष्टदयापातान्न यागस्य सोमार्थत्वमिति न यागेन सोमं भावयेदित्यन्वयः सम्भवति करणत्वेनोपस्थितस्य सोमस्य साध्यत्वेनान्वयानुपपत्तेश्च ।
Į
अथ सोमेन यागं भावयेदित्यन्वयः । तत्र यद्यपि सोमस्य करणत्वेन यागार्थत्वाद् यागनिवृत्तिर्दृष्टमेव प्रयोजनं लभ्यते इति नादृष्टदयापत्तिः । नापि करणत्वेनोपस्थितस्य सोमस्य साध्यत्वान्वयानुपपत्तिः । करणत्वेनैवान्वयात् । तथाप्यप्राप्तत्वात् भावनाकरणत्वेनान्वितस्य यागस्य साध्यत्वेनान्वयानुपत्तिस्तदवस्यैव । ननु यजेतेत्यत्र यागस्य न करणत्वेन नापि साध्यत्वेनोपस्थितिः । तद्वाचकटतोयाद्यभावात् । किन्तु भावनायां यागसम्बन्धमावं प्रतीयते यागस्य च भावनासम्बन्धः करणत्वेन साध्यत्वेन च सम्भवति तत्र करणत्वांशमादाय फल सम्बन्धः । साध्यत्वांशमादाय गुणसम्बन्धश्च स्यादिति चेन्नैवम् । यद्यपि भावनया यागस्य सम्बन्धमात्रं प्रतीयते तथापि करणत्वेनोपस्थितिदशायां न साध्यत्वेनोपस्थितिः सम्भवति विरोधात् । तदवश्वं यागेन स्वर्गं भावयेदिति करणत्वेनान्वये सति पश्चात् सोमेन यागं भावयेदिति साध्यत्वेनान्वयो वक्तव्यः ततश्च बाक्यभेदः । न च प्रत्ययाभिहितभावनास्वरूपे यागस्वरूपमात्रमन्वेतीति वक्तु' युक्त' कारकाणामेव क्रियान्वयात् । तसिहं सोमस्य न यागे सामानाधिकरण्येन वान्वयः सम्भवतीति }
ननु यजेतेत्यत्र प्रत्ययाभिहितभावनायाः करणाकाङ्क्षायां यथा यागः करणत्वेनान्वेति । तथा इतिकर्त्तव्यताकाङ्क्षायां सोमस्य इतिकर्त्तव्यतात्वेन भावनायामेवान्वयोऽस्तु किं मत्वर्थलक्षणयेति चेन्मैवम् । सोमेनेति तृतीयया करणत्ववाचिन्या सोमस्येतिकर्त्तव्यतात्वानभिधानात् । तत्र यदि इतिकर्त्तव्यताल लक्षणयोच्यते ततो वर सोमपदे एव प्रकृतिभूते मत्वर्थलक्षणा
गुये त्वयाय्य कल्पनेति न्यायात् । अथ वेदो वा प्रायदर्शनादित्यधिकरणेनोक्कासञ्जातविरोधित्वन्यायेनान्त्ये प्रत्यय एव लक्षणेति चेत् तथापि सोमस्येतिकर्त्तव्यतात्वेनान्वयानुपपत्तिः । सिद्धस्य वस्तुन इतिकर्त्तव्यतात्वाभावात् क्रियाया एवेतिकत्तंव्यतात्वात् द्रव्यस्य केवलमङ्गत्वात् श्रतएवेतिकर्त्तव्यतात्वाभावात् द्रव्यस्य प्रकरणादग्रहणम् । यथाहुः " नावान्तरक्रियायोगादृते वाक्योपकल्पितात् । गुणद्रव्ये कथं भावैर्गृहृन्ति प्रकृताः क्रिया इति ॥ तदेतदग्रे वक्षामः ।
किं च सोमेन यजेतिति हि यागस्योत्पत्तिवाक्यं नाधिकारवाक्य' ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यस्याधिकारवाक्यत्वात् उत्पत्तिवाक्ये च नेतिकर्त्तव्यताकाङ्क्षा इष्टविशेषाकाङ्क्षा कलुषितत्वेनेतिकर्त्तव्यताकाङ्क्षाया विस्पष्टानुत्थानात् । तत्सिद्धं सोमस्य नेतिकर्त्तव्यतात्वेन भावनायामन्वयः । तस्माद विशिष्टविधौ अन्वयानुपपत्त्या अवश्यं मत्वर्यलक्षणा वाचेति । ननु एवमपि सोमेन यजेतेत्यत्र न विशिष्ट विधानं गौरवात् मत्वर्थल क्षणापाताच्च । किन्तु दध्ना जुहोतोतिवद्गुणमात्रविधानमस्तु विधिशक्ते गुणोपसंक्रमात् यथाहुः । “सर्वत्राख्यातमम्बडे श्रूयमाणे पदान्तरे । विधिशक्त्य ुपसंक्रान्तेः स्याद्धातोरनुवादतेति । ” न च यागस्याप्राप्तत्वान्न तदुद्देशेन सोमविधानमिति वाच्यम् । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यनेन यागस्य प्राप्तत्वात् । न च अस्याधिकारविधित्वेन न, उत्पत्तिविधित्वमिति वाच्यम् । उद्भिदा यजेत पशुकाम इतिवदेकस्यैवोभयविधित्वोपपत्तेः । एवं सोमेन यजेतेत्यत्र न मत्वर्थलक्षणा यदि ह्यत्र विशिष्टविधानं स्यात्तदान्वयानुपपत्त्या मत्वर्धलक्षणा स्यात् । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यव तु. यागविधाने क्वचित्र मत्वर्यलक्षणा । न तावदेतस्मिन् वाक्ये ज्योतिष्टोमेन यागेन स्वर्गं भावयेदिति सामानाधिकरण्येनैव
नामपदस्यान्वयात् । नापि मोमेन यजेतेत्यत्र मत्वर्यलक्षणाया यागोद्देशेन सोमविधानात् मोमेन यागं भावयेदिति ।
ननु अनुवादेऽप्यस्ति मत्वर्यलक्षणा । श्रतएवोक्तं "विधाने वानुवादे वा यांगः करणमिष्यते । तत्समीपे तृतीयान्तस्तद्दाचित्वं न मुञ्चतोति ।" अतश्च विशिष्टविधौ इव गुविधावपि अस्त्येव मत्वर्थलक्षणेति चेन्मैवम् । गुणान्वयानुपपत्त्या हि मत्वर्यलक्षणा अङ्गीक्रियते । यदा च भावनायां धात्वर्यस्य करणत्वेन श्रन्वयस्तदान्वयानुपपत्त्या सा अङ्गीकर्त्तव्या । गुणविधौ च न धात्वर्थस्य करणत्वेनान्वयो मानाभावात् । न हि दध्ना जुहोतीत्यत्र होमस्य करणत्वं श्रूयते तदाचकटतोयाद्यभावात् । कल्पात इति चेन्न गुणस्य तत्र विधित्मितत्वेन साध्याकाङ्क्षायां साध्यत्वकल्पनाया एवोचितत्वात् दघ्ना होमं भावयेदिति । न चायमस्ति नियमो भावनायां धात्वर्यस्य करणत्वेनैव अवयो न प्रकारान्तरेणेति षष्ठाद्यपूर्वपक्षानुत्थानापत्तेः । षष्ठाये हि यजेत स्वर्गकाम इत्यादौ प्रत्ययवाच्यायां वच्यमाणार्थी भावनायां समानपद श्रुत्या यागस्य भाव्यत्वमाशङ्क्य अपुरुषार्थत्वेन परिहृतम्। यदि च धात्वर्थस्य करणत्वेनैव भावनायामन्वयस्तदा भाव्यत्वशङ्गेव नोदेतीति व्यर्थं षष्ठाद्यमधिकरणमापद्येत । किञ्च वाजपेयाधिकरणे धात्वर्थस्य करणत्वेनैव अन्वये तन्वसम्बन्धशङ्गेव न स्यात् तत्र तन्त्रसम्बन्धशङ्कापरिहारौ च व्याख्यातौ । किञ्च न धात्वर्थस्य करणत्वेनैव अन्वयः । गुणकामाधिकरणे श्राश्रयत्वेन धात्वर्थान्वयस्योक्तत्वात् । तथाहि दधेन्द्रियकामस्य जुहुयादित्यत्र न तावद्दोमो विधीयते तस्य वचनान्तरेण विहितत्वात् नापि होमस्य फलसम्बन्धः गुणपदानर्थक्यापत्तेः । नापि गुणसम्बन्ध विधत्ते फलपदानर्थक्यापातात् नाप्युभयसम्बन्ध' विधत्ते प्राप्त
तन्त्रसम्बन्धमाशङ्क्य
परिहृतः
कम्मैणि अनेकविधाने वाक्यभेदापत्तेः । यथाहुः " प्राप्त कर्माणि नानेकी विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नत इति ॥” अत्र च कमीपदवद गुणेत्युपलक्षणम् । एकोद्देशेन अनेकविधाने वाक्यभेदात् । अतएव ग्रहैकत्वाधिकरणे ग्रह मम्माष्टत्यव ग्रहोद्देशेन एकत्वसम्भार्गविधौ वाक्यभेदात् ग्रहैकत्वमविवचितमित्युक्तम् । रेवत्यधिकरणे च एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेत्यत्र वारवन्तीयस्य रेवतीसम्बन्धे अग्निष्टोमसामसम्बन्धे फलसम्बन्धे च विधीयमाने वाक्यभेदाद्भावनोपसर्जन भावनान्तर विधीयते इत्युक्तम् ।
तस्मात् प्राप्ते होमे नोभयविधानं सम्भवति नापि होमान्तरं विधीयते. गौरवात् प्रकृतहानाप्रकृतकल्पनाप्रसङ्गाच्च । सत्वर्थल क्षणाप्रसङ्गाच्च नापि दध्येव केवलं करणत्वेन विधीयते इति युक्तं केवलस्य व्यापारानाविष्टस्य करणत्वानुपपत्तेः । कटंव्यापारव्याप्यत्वनियमात् करणत्वस्य । किं तर्हि विधीयते इति चेत् दघ्नति तृतीययोपात्तं दधिकरणत्वं फलभावनायां करणत्वेन विधीयते प्रत्ययार्थत्वेन दघ्नोऽपि तस्य प्राधान्यात् । एवञ्च दधिकरणत्वेन इन्द्रियं भावयेदिति, वाक्यार्थः । करणत्वञ्च किंप्रतियोगिकमित्यपेक्षायां सन्निधिप्राप्तो होम आश्रयत्वेन सम्बध्यते ततश्च सिद्धो धात्वर्यस्याश्रयत्वेनान्वयः ।
प्रकृतमनुसरामः । तत्सिद्धं धात्वर्थस्य न करणेनैवान्वय इति किं तर्हि क्वचित् करणत्वेन क्वचित् साध्यत्वेन क्वचिदाश्रयत्वेनेति गुणविधी च साध्यत्वेनैवान्वयः सम्भवतीति न मत्वर्यलक्षण्या प्रयोजनम् । किञ्च गुण विधौ मत्वर्यलक्षणायां गुणस्य धात्वर्थीङ्गत्वे किं मानमिति वक्तव्यम् । न तावच्छ्रुतिः मत्वर्यलक्षणायां तृतीयाश्रुतिमत्वर्यस्यैवाङ्गत्वे मानं स्यात् न गुणस्याङ्गत्वे । समभिव्या-
हारात्मकं वाक्यमिति चेत् ? तत् किं स्वतन्त्र मेव मानमुत लिङ्गश्रुतौ कल्पयित्वा ? | नाद्यः । बलाबलाधिकरणविरोधात् । तत्र हि वाक्य ं लिङ्गश्रुतौ कल्पयित्वा अङ्गत्वे मानमित्युक्तम् । द्वितीये प्रत्यक्षां श्रुतिमुत्सृज्य श्रुत्यन्तरकल्पने तस्या एव वा श्रवृत्तिकल्पने व्यर्थः प्रयासः समाश्रितः स्यात् विशिष्टविधौ चागत्या तदाश्रयणम् ।
किञ्च भवतु प्रत्यक्ष एव वा विधिर्धात्वर्थाङ्गत्वेन गुणं विधत्ते ? उत कल्पितं विध्यन्तरम् ? कल्पितमिति चेन्न श्रुतविधेर्व्यर्थं तापत्तेः । न हि तेन तदा गुणो विधीयते कल्पितविध्यन्तराङ्गीकारात् नापि धात्वर्थः तस्य वचनान्तरेण विहितत्वात् । अथ यूयमाण एव विधिः कल्पितश्रुतिसहक्कतो धात्वर्थाङ्गत्वेन गुणं विधत्ते इति चेत् तर्हि तत्र कथं धात्वर्थस्यान्वयः करणत्वेनेति चेन्न अन्वयानुपपत्तेः । न हि सम्भवति दध्ना होमेनेति चान्वयः साध्यत्वेनैवान्वयो दध्ना होमं भावयेदिति चेन्न । तथा सति श्रनुवादेऽपि धात्वर्थः करणत्वेनेवान्वेतीत्येतदुपेक्षितं स्यात् । विवचितवाक्यार्थय विनैव मत्वर्थ लक्षणया अङ्गीकृतः स्यात् तस्मान्न गुणविधी मत्वर्थ लक्षणा । यत्तु विधाने वा अनुवादे वेति वार्त्तिकं तत् प्रतीतिमवलम्बा न वस्तुगतिम् । तथाहि यावद्धि अग्निहोत्रं जुहुयादिति वाक्यं नालीच्यते केवलं च दध्ना जुहोतौति वाक्यमालोच्यते तड़ा षष्ठाद्यन्यायेन होमस्याभाव्यतां जानतां प्रतिपदाधिकरणभावार्थाधिकरणवासनावासितानां भवत्येतादृशौ मतिः यद्दधिमता होमेनेष्टं भावयेदिति । प्रतिपदाधिकरणे हि सोमेन यजेतेत्यादिषु किं गुणधात्वर्थयोः फलभावनाकरणत्वेनान्वयः ? उत एकस्यैव ? इति सन्दिह्य प्रधानसम्बन्धलाभात् विनिगमनाविर हाच्च सर्वेषां फलभावनाकरणत्वेनान्वयमाशङ्क्य लाघवादेकस्यैव
श्रुत्यन्तरकल्पनं तथापि तत्सहकृतः
भावनाकरणत्वमित्युक्तम् । भावनाकरणत्वं हि भावनाभाव्य निर्वर्त्तकतया भाव्यं च स्वर्गादिना दृष्टमन्तरेणेति अनेकेषां करणत्वे अनेकादृष्टकल्पनाप्रसङ्गात् । तस्मादेकस्यैव करणत्वं यदाप्येकस्य तदापि किं द्रव्यगुणयोः फलभावनाकरणत्वमुत धात्वर्यस्येति भावार्थाधिकरणे सन्दिह्य द्रव्यगुणयोरेव भावनाकरणत्वम् । भूतं भव्यायोपदिश्यते इति न्यायादित्याशङ्का धात्वर्थस्यैव भावनाकरणत्वं पदश्रुतेर्बलीयस्त्वादित्युक्तम् । अतश्च सिद्धमेतद्दाक्यान्तरानालोचनदशायां गुणविधावपि धात्वर्थस्य करणत्वाशङ्कायां गुणपदे मत्वर्थ लक्षणेति ।
यदा त्वग्निहोत्रं जुहोतीति होमविधायक वाक्यान्तरमालोच्यते तदा होमस्य वाक्यान्तरेणैव विहितत्वात्तदुद्देशेन गुणमात्र' विधीयत इत्यालोचनात्र मत्वर्थलक्षणेति । अतएवोक्तं पार्थसारथिमिवैराधाराग्निहोत्राधिकरणे फलतो गुणविधिरयं न प्रतीतित इति । यद्वा एतद्दार्त्तिकमधिकारविध्यभिप्रायम् । उद्भिदा यजेतेत्यादीनामधिकारात् तत्र हि यागो विधीयतामुत्पत्तिवाक्यसिद्धो वा अनूद्यतामुभयथापि करणत्वेनान्वयात् तृतीयान्तस्य तद्दाचित्वं अन्यथा अन्वयानुपपत्तेरिति । तस्माद्गुणविधी विनापि मत्वर्थलचणया अन्वयोपपत्तेर्न मत्वर्थ लक्षणेति । अतश्च सोमेन यजेतेत्यत्र न विशिष्टविधानं किन्तु गुणमावविधानं यागस्तु ज्योतिष्टोमेन स्वर्ग-, कामो यजेतेत्येतस्मिन् वाक्ये विधीयत इत्येव युक्तम् अन्यथा मत्वर्थ लक्षणापत्तेरिति । अत्रोच्यते यद्यपि
यागोई शेन सोमविधौ न मत्वर्थलक्षणा तथापि मत्वर्थलचणा तथापि यागस्याप्राप्तत्वात्
सोमेन यजेतेत्यत्र न यागोद्देशेन सोमविधानं सम्भवति । न च ज्योतिष्टोमेन इत्यादिना प्राप्तत्वात् तदुद्देशेन गुणमात्रं विधीयते इति वाच्यम् । तस्याधिकारविधित्वेनोत्पत्तिविधित्वानुप-
पत्तेः । कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः । तेन च विहितस्य कर्मणः फलविशेष सम्बन्धमात्रमधिकारविधिना क्रियते फलविशेषसम्बन्धबोधकस्याधिकार विधित्वात् । यथा आग्नेयोऽष्टाकपालो भवतीत्येतद्विहितस्य कर्मणः फलविशेषसम्बन्धमात्रं दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति वाक्यं विधत्ते तस्याधिकारविधित्वं नोत्पत्तिविधित्वम् स्यादेतद् दर्शपूर्णमासाभ्यामित्येतस्य नोत्पत्तिविधित्वं सम्भवति । आग्नेयोऽष्टाकपाल इत्यादिवाक्यानर्थक्यापत्तेः । न हि तेन तदा कम विधीयते तस्य दर्शपूर्णमासाभ्यामित्यनेन विहितत्वात् । नापि गुणविधान सम्भवति प्राप्त कर्मणि अनेकगुणविधाने वाक्यभेदापत्तेः । अत आग्नेयोऽष्टाकपाल इत्यस्योत्पत्तिविधित्वं दर्शपूर्णमासाभ्यामित्यस्य चाधिकारविधित्वं युक्तम् । ज्योतिष्टोमेनेत्यस्याधिकारविधेरुद्भिदा यजेतपशुकाम इत्यादिवदुत्पत्तिविधित्वे स्वीक्रियमाणे न कस्यचिदानर्थक्यम् । सोमेन यजेतेत्यस्य गुणविधित्वात् यागोद्देशेन सोममात्रविधानाच्च न वाक्यभेद इति चेन्नैवम् । यद्यपि सोमेन यजेतेत्यत्र लाघवान्न वाक्यभेदः तथापि ज्योतिष्टोमेन इत्यस्मिन् वाक्ये कर्मस्वरूपे तस्य च फलसम्बन्ध विधीयमाने गौरवलक्षणो वाक्यभेदोऽस्त्येव । सोमेन यजेतेत्येतद्दाका विहितकर्मणः फलसम्बन्धमावविधाने तदभावात् उद्भिदा यजेतेत्यत्र तु वचनान्तराभावेन अगत्या तदाश्रयणम् । सोमेन यजेतेत्यत्रापि कखरूपे गुणे च विधीयमाने वाक्यभेदः स्यादिति वाच्यम् । श्रूयमाणेन विधिना गुणस्याविधेयत्वात् । विशेषणविधेरार्थिकत्वात् सर्वत्र हि विशिष्टविधौ विशेषणविधिरार्थिकः । ज्योतिष्टोमेनेत्यस्य तूत्पत्तिविधित्वे कम स्वरूपं फलसम्बन्धश्चेति श्रूयमाणेनैव विधिना विधातव्यमिति दृढ़ो गौरव- न च
लक्षणो वाक्यभेदः । यथाहुः । “श्रोतव्यापारनानात्वे शब्दानामतिगौरवम् । एकोक्त्यवसितानान्तु नार्थाचेपो विरुध्यत" इति । न च सोमेन यजेतेत्यस्योत्पत्तिविधित्वे यद्यपि न वाक्यभेदः तथापि मत्वर्धलक्षणा स्यादेवेति वाच्यम् । तस्याः स्वीक्रियमाणत्वात् लक्षणा अतो वाक्यभेदस्य जघन्यत्यात् लक्षणा हि पददोषो वाक्यभेदस्तु वाक्यदोषः पदवाक्यदोषयोर्मध्ये पद एव दोषकल्पनाया उचितत्वात् । गुणे त्वन्याय्यकल्पनेति न्यायात्। अतएव जातपुत्रः कृष्णकेशोऽग्नीनादधीत इत्वत्वाधानानुवादेन जातपुत्रत्वकृष्ण केशत्वविधाने वाक्यभेदात् पदद्दयाभ्यामवस्थाविशेषो लक्ष्यत इत्युक्तम् । तस्माद्दाक्यभेदप्रसक्तौ लक्षणैव स्वोकाथ्या । तस्मात् सोमेन यजेतेत्ययमेवोत्पत्तिविधिर्न ज्योतिष्टोमेनेत्ययम् । गौरवलक्षणवाक्यभेदापत्तेः । किञ्च सोमेन यजेतेत्यत्र यागविधाने श्रत्यर्थविधानं स्यात् गुणविधाने तु वाक्यार्थविधानम् । तच्च श्रुत्यर्थविधाने सम्भवेऽयुक्तम् । यथाहुः "वाक्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसम्भव" इति वाक्यार्थः पदान्तरार्थ इत्यर्थः । ज्योतिष्टोमेनेत्यत्रापि फलोद्देशेन यागस्यैव विधानान्न वाक्यार्थविधानम् । तदुत्पत्तिविधित्ववादिनापि तदङ्गीकाराच्च तस्मात् ज्योतिष्टोमेनेत्ययमधिकारविधिरेव । अपि च कर्मस्वरूपविधिस्तव
।
स्वीकार्य्यो यत्न कर्मणो रूपमुपलभ्यते । यागस्य च द्वे रूपे द्रव्यं देवता चेति । सोमेन यजेतेत्यत्र यद्यपि देवता नोपलभ्यते सोमयागस्याव्यक्तत्वात् । श्रव्यक्तत्वञ्च स्वार्थचोदितदेवताराहित्यम् न तु देवताराहित्यमात्रम् । ऐन्द्रवायवं गृह्णातीत्यादिवाक्यविहितग्रहणाङ्ग-देवतानां सत्त्वात् ग्रहणार्थाभिरपि देवताभिः प्रसङ्गतो यागोपकारस्य क्रियमाणत्वात् । तथापि द्रव्य. मुपलभ्यत एव तेनापि यागस्वरूपं ज्ञातुं शक्यमेव । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्र च न द्रव्यं देवता वा श्रूयते श्रतस्तस्यो-
त्पत्तिविधित्वेन यागविशेषज्ञानं यागसामान्यस्याविधेयत्वात् विशेषस्यैव विधेयत्वादित्यादिक्लेशेन स्यात् । अतो नायं कर्मोत्पत्तिविधिः ।
ननु एवमपि अग्निहोत्रं जुहोतीत्ययमपि होमोत्पत्तिविधिर्न स्यात् रूपाश्रवणात् । तच्छ्रवणाच्च दघ्ना जुहोतीत्ययमेव उत्पत्तिविधिः स्यात् । तथा चाघाराग्निहोत्राधिकरण विरोधः । तत्र हि अग्निहोत्रं जुहोतीत्यस्योत्पत्तिविधित्वं दघ्ना जुहोतो. त्यादीनां च गुणविधित्वमुक्तमिति चेत् सत्यम् । अग्निहोत्रं जुहोतीत्यत्र यद्यपि रूपं नोपलभ्यते अग्निहोत्रशब्दस्य तत्प्रख्यन्यायेन नामधेयत्वात् तदेतदग्रे वच्यामः । तथापि तस्योत्पत्तिविधित्वं खौक्रियते अन्यथा आनर्थ क्यापत्तेः । दध्ना जुहोतीत्यस्य च नानर्थक्यं गुणविधित्वोपपत्तेः । अतः अग्निहोत्रं जुहोतीत्ययं कर्मोत्पत्तिविधिरिति युक्तम् । ज्योतिष्टोमेनेत्यस्य च नानर्थक्यमधिकारविधित्वोपपत्तेः । अतः किमर्थं सम्भवत रूपवति वाक्ये कर्मविधाने तद्रहिते तत् स्वीकार्य्यम् । किञ्च दध्ना जुहोतीत्यस्य कर्मोत्पत्तिविधित्वे पयसा जुहोत्यनेनैतत्कर्मानुवादेन न पयो विधातुं शक्यते उत्पत्तिशिष्टदध्यवरोधात् उत्पतिशिष्टगुणावरुडे हि न गुणान्तरं विधीयते आकाङ्क्षाया उत्पत्तिशिष्टेनैव निवृत्तत्वात् । अतस्तेनापि शिष्टं कर्मान्तरं विधेयम् । तथा च अनेकादृष्टकल्पना गौरवम् श्रग्निहोत्र' जुहोतीत्यस्य तु उत्पत्तिविधित्वे एतद्वाक्यविहितस्य कर्मणो द्रव्याकाङ्क्षायां युगपदेव खले कपोतन्यायेन दध्ना जुहोति पयसा जुहोतीत्यादिवाक्येर्गुणा विधीयन्ते इति नानेकादृष्टकल्पना गौरवम् अतोऽग्निहोत्र जुहोतीत्ययमुत्पत्तिविधिः । पयसा जुहोतीत्यादयस्तु गुणविधय इति युक्तम् । सोमेन यजेत्यत्र तु रूपवति वाक्ये कर्मोत्पत्तिविधाने स्वीक्रियमाणे न किञ्चिद्दपणं पचद्दये-
ऽपि एकस्यादृष्टस्य तुल्यत्वात् तस्माद युक्तम् सोमेन यजेतेत्ययमेवोत्पत्तिविधिरिति अलमनया विधिनिरूपणागतप्रपञ्च निरूपणचिन्तया ।
प्रकृतमनुसरामः । तत्सिद्धं विधिः प्रयोजनवन्त मप्राप्तार्थं विधत्ते इति । स च विधिश्चतुर्विध उत्पत्तिविधिर्विनियोगविधिरधिकारविधिः प्रयोगविधिश्चेति । तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः । यथा श्रग्निहोत्रं जुहोतीति उत्पत्तिविधौ च कर्मणः करणत्वेनैवान्वयः । होमेनेष्टं भावयेदिति । न तु होमं कुर्य्यादिति साध्यत्वेन । तथा सति साध्यस्य साध्यान्तरान्वयायोगेनाधिकारवाक्यगतफलसम्बन्धो न स्यात् करणत्वेन त्वन्वये होमेनेष्टं भावयेत् । किं तदिष्टमित्याकाङ्क्षायां फलविशेषसम्बन्धी घटते न चोत्पत्तिविधाविष्टवाचकपदाभावेन कर्मया इष्टं भावयेदिति कथं वाक्यार्थ इति वाच्यम् । विधिश्रुतेरेव दृष्टबोधकत्वात् सा हि पुरुषार्थं पुरुषं प्रवर्त्तयन्ती कर्मण: फलसम्बन्धमात्र बोधयति तस्माद युक्तमुत्पत्तिविधौ कर्म करणत्वेनान्वेतीति । अतएवोद्भिदा यजेतेत्यादौ तृतीयान्तः उद्भिच्छव्द उपपद्यते उद्भिदा यागेनेष्टं भावयेदित्यन्वयोपपत्तेः । येषामपि दृष्टसाधनत्वं लिङर्यस्तेषामपि तृतीयान्तानां कर्मनामधेयानामन्वयोऽनुपपन्न एव न हि सम्भवति । याग दृष्टसाधनमुद्भिदेति तृतीयोपात्तस्य कारकस्य लिङ्गसंख्यान्वयायोग्यस्य क्रिययैवान्वयात् ।
ननु तथाप्यग्निहोत्र' जुहोतीत्यादिषु कर्मोत्पत्तिविधिषु द्वितीयान्तानां कर्मनामधेयानामन्वयोऽनुपपन्नः न हि सम्भवति होमेन भावयेदग्निहोत्रमिति सत्यम् । श्रूयमाणा तावदु द्दितीया अर्थाक्षिप्तसाध्यत्वानुवादिका होमस्य हि करणत्वेनान्वयात् असाधितस्य करणत्वानुपपत्तेः । तस्याश्चानन्वयोपस्थितौ सा
शक्तून् जुहोतीतिवत् तृतीयार्थं लचयति अग्निहोत्रेण होमेनेष्टं भावयेदित्युक्तम् पार्थसारथिमिश्रः । अतश्च द्वितीयान्तानां कर्मनामधेयानामन्वयो नानुपपन्नः । तत्सिद्दम् उत्पत्तिविधौ कर्म करणत्वेनान्वेतीति ।
अङ्गप्रधान सम्बन्धबोधको विधिर्विनियोगविधिः । यथा दध्ना जुहोतीति स हि तृतीयाप्रतिपन्नाङ्गभावस्य दध्नो होमसम्बन्धं विधत्ते दघ्ना होमं भावयेदिति । एतस्य विधेः सहकारिभूतानि षट् प्रमाणानि श्रुतिलिङ्गवाक्य प्रकरणस्थानसमाख्यारूपाणि । एतत्सहतेन विनियोगविधिनाङ्गत्वं परोद्देशप्रवृत्तक्कृतिव्याप्यत्वरूपं परार्थापरपर्य्यायं ज्ञाप्यते । तत्र निरपेक्षो रवः श्रुतिः । सा च त्रिविधा विधात्री अभिधात्री विनियोक्ती चेति । तत्र विधात्री लिङायात्मिका । अभिधात्री व्रीह्यादिश्रुतिः । यस्य च शब्दस्य श्रवणादेव सम्बन्धः प्रतीयतें सा विनियोक्ती । सा च द्विधा विभक्तिरूपा एका समानाभिधानरूपा एका एकपदरूपा चेति । तत्र विभक्तिश्रुत्याङ्गत्वम् । यथा ब्रोहिभिर्यजेतेति तृतीयाश्रुत्या व्रीहोणां यागाङ्गत्वम् । न चोत्पत्तिशिष्टपुरोडाशावरुडे यागे कथं व्रोहीणामङ्गत्वमिति वाच्यम् । पुरोडाशप्रकृतितयोपपत्तेः पशोरिव हृदयादिरूपहविः प्रकृतितया यागाङ्गत्वम् । न च साक्षात् पशोरेवाङ्गत्वं किं न स्यादिति वाचम् । तस्य विशसनात् श्रवदीयमानत्वाच्च हृदयादीनाम् । श्रवदीयमानं हि हविः यथा पुरोडाशादिमध्यात् पूर्वार्द्धाच्चावद्यतीति वाक्यात् हृदयादीनि चावदीयमानानि न पशुः हृदयस्याग्रेऽवद्यतीति वाक्यादती हृदयादीन्येव हवींषि पशुस्तु प्रकृतिद्रव्यम् । पात्नौवद् यागे तु साक्षात् पशुवाङ्गम् । तस्य जीवत एव पर्य्याग्निकृतं पात्नीवन्तमुत्सृजतीत्युत्सर्गविधानात् । यत्र तु विशसनं तत्र पशुः प्रकृतिद्रव्य-
मित्येव सिद्धम् एवं व्रीहयोऽपि प्रकृतिद्रव्यतया यागाङ्गम् । तृतीया श्रत्येति श्ररुण्यस्यापि क्रयाङ्गत्वम् । तृतीयाश्रुत्या न चामूर्त्तस्य तस्य कथं क्रयाङ्गत्वमिति वाच्यम्। एकहायनीरूपद्रव्य परिच्छेदद्दारा तदुपपत्तेः । व्रीहौन् प्रोचतीति प्रोक्षयस्य व्रीह्यङ्गत्वं द्वितीयाश्रुत्या तच्च प्रोक्षणं न व्रीहिस्वरूपार्थं स्वरूपे अनर्थक्यात् व्रीहिखरूपस्य प्रोचणं त्रिना अनुपपत्त्यभावात् । किन्त्व पूर्व साधनत्वप्रयुक्त यदि व्रीहिषु प्रोक्षणं क्रियते तदा तेर्यागे अनुष्ठिते अपूर्व भवति नान्यथेति । अतः प्रकरण सहकृतया द्वितीयया श्रुत्या तण्डुलनिर्वृत्तिप्रणाल्या यदपूर्वसाधनत्वं तदङ्गत्वं प्रोक्षणस्योच्यत इति एवं सर्वेषु अप्यङ्गेषु अपूर्वयुक्तत्व' वेदितव्यम् ।
एवमिमामग्टभ्रान् रशनामृतस्य इत्यश्वाभिधानीमादत्त इत्यत्रापि द्वितीयाश्रुत्या मन्त्रस्याश्वाभिधान्यङ्गत्वम् । यत्तु वाक्योयोऽयं विनियोग इति तन्न तथा सति वाक्याल्लिङ्गस्य बलीयस्त्वन यावद्दाक्यादखाभिधान्यङ्गं भवति तावल्लिङ्गाद्रशनामात्राङ्गत्वमेव स्यात् स्योनन्ते सदनं कृणोमीत्यस्येव सदनाङ्गत्वम् । श्रौत विनियोगपक्षे तु यावल्लिङ्गाद्रशनामात्राङ्गत्वं तावच्छ्रुत्या ऐन्द्रया गार्हपत्यमुपतिष्ठते इत्यत्र टतीयाश्रुत्या ऐन्द्रया ऋचः गार्हपत्योपस्थानाङ्गत्ववत् अखाभिधान्यां विनियोगः क्रियत इति युक्त मन्त्रस्याश्वाभिधान्यङ्गत्वम् । तस्मात् श्रौत एवायं विनियोगः । यदाहवनीये जुहो' तीत्याहवनीयस्य होमाङ्गत्वं सप्तमीश्रुत्या एवमन्योऽपि विभक्तिश्रुत्या विनियोगो ज्ञेयः । पशुना यजेतेत्यत्रैकत्वं पुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्गत्वं यजेतेत्याख्याताभिहितसप्राया भावनात्वं
समानाभिधानश्रुतेरेकपदश्रुत्वा च यागातत्वम् । न चामूर्त्तायास्तस्याः कथं यागाङ्गत्वमिति वाच्यम् ।
कर्टपरिच्छेदद्वारा एतदुपपत्तेः कर्त्ता चाक्षेपलभ्य श्राख्यातेन हि भावनोच्यते सा च कर्त्तारं विनानुपपन्ना तमाक्षिपति । ननु किमित्येवं वर्ण्यते आक्षेपलभ्यः कर्त्तेति । आख्यातवाच्य एव किं न स्यात् आख्यातश्रवणे भावनाया इव कर्त्तुरपि प्रतिपत्तेः । न च भावनयैवाक्षेपसम्भवे किमिति तद्वाचकत्वं कल्पनीयमिति । साम्प्रतं तथा सति श्राख्यातवाच्चकर्तेव भावनाक्षेपसम्भवे तद्वाचकत्वमपि न स्यात् । किञ्च भावनाया न केवलं कर्तेव सम्बन्धः कारकान्तरेणापि सम्बन्धात् । अतः सा न झटिति कर्त्तारमेवाक्षिपेत् विशेषाभावात् । कर्त्ता तु भावनयैव सम्बडो न कारकान्तरेण गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यादिति न्यायात् । अतः स झटिति तामेवाक्षिपेत् इति स एवाख्यातवाच्यः भावना तु आक्षेपलभ्यैव किं न स्यात् । किञ्चैवं तृतीयादिविभक्तीनामपि करणादिवाचकत्वं न स्यात् तेषामपि कर्त्तृवदाक्षेपलाभसम्भवात् ।
किञ्च यदि कर्त्ता न वाच्यः स्यात् कथमेकत्वं तेनान्वि यात् । न हि शाब्दमशाब्देनान्वेतीति युक्तम् अन्यथा ऊहादिलोपप्रसङ्गः । किञ्च देवदत्तः पचतीति सामानाधिकरण्य न स्यात् । न हि केवलं भावनावाचकस्याख्यातस्य देवदत्तपदेन सामानाधिकरण्यमुपपद्यते एकार्थनिष्ठत्वाभावात् । कर्तृवाचकत्वे तूपपद्यते एव । लः कर्त्तरीति व्याकरणस्मृति'विरोधस्तु कर्त्तुरनभिधेयत्वे स्पष्ट एव ।
किञ्च कर्त्तुरनभिधेयत्वे देवदत्वेन पचतीति प्रयोगप्रसङ्गः । तृतीया हि अनभिहितयोः कर्तृकरण्योर्विहिता आख्यातेन च कर्त्ता नाभिहित इति कर्तृवाचिनो तृतीया स्यादेव । कर्त्तुरभिधाने तु अभिहितत्वादेव तृतीया न प्राप्नोति तस्या अनभिहिताधिकारत्वात् । देवदत्तः पचतीति प्रथमा तु प्राप्नोत्येव प्रथमाया अभिहित-
कारकविभक्तित्वात् प्रतिपदिकार्थमात्रवाचित्वाद्दा न च तदा प्रातिपदिकेनैवार्थस्योक्तत्वात् प्रथमावेयर्घ्यम् । लिङ्गसप्राप्रतिपत्त्यर्थं तस्या आवश्यकत्वात् केवलप्रातिपदिकस्य प्रयोगासाधुत्वाच्च । ततथ यदि कर्त्ता न वाच्यः स्याद्देवदत्तेन पचतीति प्रयोगः स्यात् तस्मादाख्यातवाच्यः कर्त्तेति सिद्धमिति पूर्वपचसङ्क्षेपः ।
अत्राहुः । स एव हि शब्दस्यार्थो यः प्रकारान्तरेण न लभ्यते अनन्यलभ्यः शब्दार्थं इति न्यायात् । अतएव न गङ्गापदस्य तौरमर्थः लक्षणयैव प्रतिपत्तिसम्भवात् । अतएव च न वाक्यार्थे शक्तिः । एवञ्चाख्यातवाच्यभावना कर्त्तारं विना अनुपपन्ना तमाचिपतौति । पाचेपादेव कर्त्तुः प्रतिपत्तिसम्भवे किमिति तद्दाचकत्वमाख्यातस्य कल्पनीयम् । न च विनिगमनाविरहः कृतिमान् हि कर्त्ता । एवञ्च कृतेरेव भावनापरपयया आक्कृत्यधिकरणन्यायेनाख्यातवाच्यत्वसम्भवेन तद्वतः कर्त्तुर्वाच्यत्वं कल्पनीयं गौरवप्रसङ्गात् । न च भावना कारकान्तरेणापि सम्बद्धा तदुज्झित्वा न झटिति कर्त्तारमाक्षिपतीति वाच्यम् । सा हि यथा नियमेन कर्ता सम्बडा न तथा करणादिकारकान्तरेण तिष्ठतीत्यादिषु तया तदनाक्षेपात् । अतः प्रथमं सा कर्त्तारमेवाचिपति न कारकान्तरम् । अतएव चाख्याताभिहिता सङ्ख्या न कारकान्तरेण सम्बध्यते तस्य प्रथममनुपस्थितेः । अतएव तृतीयादिविभक्तीनां करणादिवाचित्वम् । भावनायास्तैः सह नियतसम्बन्धाभावेन तया तेषां नियमेनानाक्षेपात् आख्यातश्रवणात् प्रागपि तृतीयादिविभ क्तिश्रवणे करणादिप्रतीतेर्जायमानत्वाच्च । न च शाब्दी सङ्ख्या कथमशाब्देन कर्त्तान्वतीति वाच्यम् । कर्त्तुर्लक्षणाङ्गीकारात् यथा च लचितं तौरं शाब्देन घोषेणान्वेति एवं लक्षितः कर्त्ता
एकत्वेनान्वेष्यति । अतएव देवदत्तः पचतीति सामानाधिकरस्यमुपपद्यते कर्त्तुलक्षणाङ्गीकारात् ।
न च मुख्य सम्भवति किमिति लाक्षणिकत्वं स्वीकाय्र्यमिति वाच्यम् । अनन्यलभ्यगब्दार्थत्वस्य व्यवस्थापितत्वात् अन्यथा सिंहो देवदत्त इति सामानाधिकरण्यं मुख्य स्यात् । किञ्च आख्यातवाच्यः कर्त्तेतिवादिनोऽपि मते देवदत्तः पचतीति सामानाधिकरण्यं न मुख्यम् । तन्मते आख्यातेन तृतीयावन्निष्कृष्टशक्तिमात्र रूपकर्तृकारकाभिधानात् शक्तिमद्द्रव्यस्याकृत्यधिकर णन्यायेनानभिधानात् देव-दत्तशब्देन च द्रव्यमात्राभिधानात् अतय भिन्नार्थनिष्ठत्वात् तन्मतेऽपि न मुख्य सामानाधिकर एवं किन्तु लाक्षणिक मेवेति न कश्चिद्विशेषः । न च लः कर्त्तरीति व्याकरण स्मृतिबलादाख्यातवाच्यः कर्त्तेति वाचम् । न हि वाच्यवाचकभावो व्याकरणस्मृत्यधीनः तस्य न्यायसहितान्वयव्यतिरेकग. म्यत्वात् भवतु वा स्मृतिगम्यत्वात् भवतु वा अतिगम्यस्तथापि नेयं स्मृतिः कर्त्तुराख्यातवाचले प्रमाणं किन्तु कर्त्तुरेकत्वे एकवचनात्मको लकारः द्वित्वे दिवचनात्मकः बहुत्वे बहुवचनात्मक इत्यस्मिन्नर्थे प्रमाणम्। कयोर्द्विदचनैकवचने बहुषु बहुवचनमित्यनेनास्याः स्मृतेरेकवाक्यत्वात् । यत्तूत कर्त्तुरनभिधाने देवदत्तेन पचतीति तृतीयाप्रसङ्ग इति तन्न । तृतीया हि कर्टप्रतिपत्त्यर्थं तहत संख्यापत्तिपत्त्यर्थं वा तत्र कर्त्ता तु भावनाचेपादेव लभ्यत इति न तत्र तृतीयापेक्षा तत्सङ्ख्या तु श्राख्यातेनैव प्रतीयत इति न तत्राप्यपेक्षा । यथातुः । “सङ्ख्यायां कारके वा धोर्विभक्त्या हि प्रवर्त्तते । उभयं चात्र तसिड' भावना तिङ्विभक्तितः ॥” इति ।
१. यत्र तु नाख्यातेन तद्हता सङ्घयोच्यते तत्र भवत्येव तृतीया यथा देवदत्तेन ओदनः पच्यत इति । तस्मान्न कर्त्तुरनभिधाने यकि ञ्चिद् दूषणमित्यलमतिविस्तरेण ।
प्रकृतमनुसरामः । तमिस्त्रिविधः श्रुतिविनियोगः । सेयं श्रुतिर्लिङ्गादिभ्यः प्रवलं प्रमाणम् । लिङ्गादिषु हि न प्रत्यक्षो विनियोजकः शब्दोऽस्ति किन्तु कल्पाः । यावच्च तैर्विनियोजकः कल्पाते तावप्रत्यक्षया श्रुत्या विनियोगस्य कृतत्वेन तेषां कल्पकत्वशक्तिर्विहन्यत इति श्रुतेः प्राबल्य मत एव ऐन्द्रया गार्हपत्यमुपतिष्ठत इत्यत्र यावल्लिङ्गात् ऐन्द्रया इन्द्रोपस्थानाङ्गत्वं कल्पाते तावत् प्रत्यक्षया त्या गार्हपत्योपस्थानार्थत्वं क्रियत इति ऐन्द्रोगार्हपत्योपस्थानाङ्गम् ।
तदन-
सामर्थ्यं लिङ्गम् । यदाहु: "सामर्थ्य' सर्वभावानां लिङ्गमित्यभिधीयत" इति । तेनाङ्गत्वं यथा वर्हिर्देवसदनं दामीत्यस्य लवनाङ्गत्वं स हि लवनं प्रकाशयितुं समर्थः । तञ्च लिङ्गं द्विविधम् । सामान्य सम्बध्यबोधकप्रमाणान्तरापेक्षं पेक्षञ्च । तत्र यदन्तरेण यन्न सम्भवत्येव तस्य तदङ्गत्वम् । तदनपेक्षं केवल लिङ्गादेव यथा पदार्थज्ञानस्य कर्मानुष्ठानाङ्गत्वम् । न हि अर्थज्ञानमन्तरेणानुष्ठानं सम्भवति । यदन्तरेण यत् सम्भवति तस्य तदर्थत्वं तदपेक्षं यथोक्तस्य मन्त्रस्य लवनाङ्गत्वम् लवनं हि मन्त्रं विनापि उपायान्तरेण स्मृत्वा कर्तुं शक्यमतो न मन्त्रो लवनस्वरूपार्थः सम्भवति किन्त्व पूर्व साधनो भूतलवनप्रकाशनार्थः 1 तत्त्वञ्च न सामथ्र्य मात्रादवगम्यते लवनप्रका शनमात्रे सामर्थ्यात् अतोऽवश्यं प्रकरणादिसामान्यसम्बन्ध, बोधकं स्वीकाय्र्यम् । दर्शपूर्णमासप्रकरणो हि मन्त्रस्य पाठादेवमवगम्यते अनेन मन्त्रेण दर्शपूर्णमासापूर्व सम्बन्धि किञ्चित् प्रकाश्यते इति अन्यथा प्रकरणपाठवैयर्थ्या प्रसङ्गात् । किं तदपूर्वसम्बन्धि प्रकाश्यमित्यपेक्षायां सामर्थ्याद्दर्हिलेवनमित्यवगम्यते । तद्धि वर्हिः संस्कारद्वारा अपूर्वसम्बन्धीति मन्त्रस्य सामर्थ्यात्तदर्थत्वे सति नानर्थक्य' प्रसज्यते । तस्माद्दर्हिर्देवसदनं
दामीत्यस्य प्रकरणाद्दर्शपूर्ण मास सम्बन्धितयावगतस्य साम• यल्लवनाङ्गत्वमिति सिद्धम् । पूषानुमन्त्रणमन्त्राणान्तु यागायागसामान्यसम्बन्धेऽवगते सामर्थ्यात्
नुमन्त्रण समाख्यया सषयाग सम्बन्धोऽवगम्यते ।
।
ननु तेषां यावत् समाख्यया पूषयागेन समान्यसम्बन्धोऽवगम्यते तावत् प्रकरणाददर्शपूर्णमासाभ्यामेव सामान्य सम्बन्धोऽवगतः समाख्यातस्तस्य बलीयस्त्वात् । श्रतएव पौरोडाशिकमिति समाख्याते ब्राह्मणे आम्नातानामपि प्रयाजानां प्रकरणात् सान्नाय्योपांशुयागाङ्गत्वमपि इत्युक्तम् । किञ्च यागानुमन्त्रणसमाख्ययापि न पूषयागेन सामान्यमम्बन्धोऽवगम्यते किन्तु यागमात्रेण प्रकरणेन तु दर्शपूर्णमासाभ्यामेव विशेषेण सम्बन्धोऽवगम्यते । अतः प्रकरणात् भटिति तत्सम्बन्धस्यैवावगतत्वात् तदर्थत्वमेव तेषां युक्तम् । पूषेति शब्दस्य पुपतीति व्युत्पत्त्या कथञ्चिदग्न्याद्यभिधायित्वात् मैवम् । पूषानुमन्त्रणमन्त्रे हि श्रयमाणे एवमवगम्यते पूपाभिधानसमर्थत्वादयं मन्त्रस्तत्प्रकाशनार्थ इति लवनमन्त्र इव लवनप्रकाशनार्यः 1 न तत्र प्रकरणाद्यपेक्षा येन तेषामुपजीव्यत्वेन प्राबल्य' स्यात् । प्रकरणात्तु दर्शपूर्णमासार्थत्वे तस्य वाक्यलिङ्गश्रुतिकल्पनेन विनियोजकत्वात् लिङ्गस्योपजीव्यत्वेन प्राबल्यम् । अतो लिङ्गात् पूषप्रकाशनार्थत्वेऽवगते तन्मावप्रकाशनमनर्थक मित्यपूर्वप्रकाशनार्थत्व' वक्तव्यम् । किन्तदपूर्वमित्यपेचायां यागानुमन्त्रेण समाख्यानुग्टहोताल्लिङ्गात् पूषयागापूर्व सम्बन्धिदेवताप्र काशनार्थोऽयमित्यवगम्यते । अतो यद्यपि समाख्यातः प्रकरणं बलीयस्तथापि तस्य लिङ्गे न बाधितत्वात् समाख्याया दुर्बलाया अपि लिङ्गाश्रितत्वेन प्राबल्यात् सैव सामान्यसम्वन्धे प्रमाणं दुर्बलस्य प्रबलाश्रितस्य प्राबल्यात् । श्रतएव श्रुत्यपेक्षया दुर्बलाया
अपि स्मृतेराचमनरूपप्रबलपदार्थाश्रितत्वेन प्राबल्यात् पदार्थधमंगुणभूतश्रौतक्रमत्य । गेन वेदिकरणान्तरे श्रुते श्राचमनमेव काय्र्यमित्युक्तम् । यथाहु: । “ अत्यन्त बलवन्तोऽपि पौरजानपदा जनाः । दुर्बलैरपि बाध्यन्ते पुरुषैः पार्थिवाश्रितैरिति । यत्तु पूषेतिशब्द: कथञ्चिदग्नाद्यभिधायौति तन्न तस्यादन्तको हिस इत्यादिवाक्यशेषेण वैदिकप्रसिया च अर्थविशेषे रूढत्वात् रूढ़ेश्वावयवार्थालोचन सव्यपेक्षाद्योगादुबलीयस्त्वात् । अतएव वर्षासु रथकारोऽग्नीनादधीतेत्यत्र रथकारशब्देन सौधन्वनापर पय्यायो वर्णविशेष उच्यते रूढ़िः प्राबल्यान्न तु रथं करोतीति व्युत्पत्त्या द्विजातयः योगस्य दौर्बल्यादित्युक्त' षष्ठे । तस्मा द्युक्तं समाख्यया सामान्यसम्बन्धेऽवगमे सामर्थ्यात् पूषयागस. म्बन्धः । पूषानुमन्त्रणमन्त्राणामिति । यथाहुः ।
"यागानुमन्त्रणानीति समाख्या क्रतुयोजिका । तस्मात् शक्त्यनुरोधेन प्राप्तिस्तद्दैवते क्रताविति ॥ तत्सिद्धं प्रमाणान्तरसिद्ध सामान्य सम्बन्धस्य पदार्थविनियोजकं लिङ्गमिति । तत्र मन्त्रविनियोजकं लिङ्ग मुख्ये एवार्थे न गौले मुख्यार्थस्य प्रथममुपस्थितत्वेन तत्रैव विनियोगबुद्धौ पय्र्यवसन्त्रायां पुनगौऽर्थे विनियोगकल्पनायां गौरवप्रसङ्गात् । अतएव वर्हि देवसदनं दामीतिमन्त्रः सामर्थ्यात् कुशलवनाङ्गं तेषां मुख्यत्वात् न उलपराजिलवनाङ्गमित्युक्तम् । तदिदं लिङ्ग, वाक्यादिभ्यो बलवत् । तेषां हि न साक्षाद्दिनियोजकत्व किन्तु श्रुतिं कल्पयित्वा न चासमर्थस्य श्रुतिं कल्पयित्वा विनियोगकल्पना सम्भवतीति । सामर्थ्यस्यापि कल्पात्वेनोपजीव्यत्वात् श्रतस्तैर्यावत्सामर्थ्यं कल्पयित्वा श्रुतिः कल्पाते तावदेव क्लृप्तेन सामर्थेन श्रुतिं कल्पयित्वा विनियोगः क्रियते इति तस्य प्राबल्यम् । अतएव स्योनन्ते सदनं कृणोमि घृतस्य धारया
सुशेवं कल्पयामीत्यस्य सदनाङ्गत्व' लिङ्गात् । ननु वाक्यासदनाङ्गत्वं तस्य दौर्बल्यादिति समभिव्याहारो वाक्यम् ।
समभिव्याहारो नाम साध्यसाधनत्वादिवाचकद्वितीयाद्यभावे वस्तुतः शेषशेषिणोः सहोच्चारण' यथा यस्य पर्णमयो जुहर्भवतौति । अत्र हि न द्वितीयादिविभक्तिः श्रूयते केवलं पर्णताजुह्वोः समभिव्याहारमात्रम् । तस्मादेव च पर्णताया जुह्वङ्गत्वं न चानर्थक्यं जुहशब्देनापूर्वलक्षणात् तदयं वाक्यार्थः पर्णतया अवत्तहविर्द्धारिणद्वारा पदपूर्वसाधनं तद्भावयेदिति । एवञ्च पर्णतया यदि जुहः क्रियते तदैव तत्साध्यमपूर्वं भवति नान्यथेति गम्यते इति न. पर्णताया वैयर्थ्याम् अवत्तहविर्धारणद्वारेति चावश्यं वक्तव्यम् । अन्यथा सुवादिषु अपि पर्णतापत्तेः । सा चेयं पर्णता नारभ्याधीतान सर्वत्र क्रतुषु गच्छति विकृतिषु चोदकेनापि प्राप्तिसम्भवेन द्विरुक्तत्वापत्तेः किन्तु प्रकृतिषु । तदुक्तं प्रकृतौ वा हिरुक्तत्वादिति । अत्र विकृतिर्यतोऽङ्गानि गृह्णाति सा प्रकृतिरिति न प्रकृतिशब्देन विवक्षितं गृहमेधीयपर्णताया अप्राप्तिप्रसङ्गात् । न हि गृहमेधीयात् काचन विकृतिरङ्गानि गृह्णाति मानाभावात् । किन्तु चोदकाद्यत्राङ्गाप्राप्तिस्तत् कर्म प्रकृतिशब्देन विवक्षितम् । यथा दर्शपूर्णमासौ तत्र होनचोदकादङ्गप्राप्तिः प्रकरणपठितैरेवाङ्गमैंराकाङ्क्षयात् ग्टहमेधीयादिषु अपि चोदकादङ्गप्राप्तिः क्ल तोपकारैरेव श्राज्यभागादिभिनॅराकाङ्क्षयात् । अतो यत्र चोदकाप्रवृत्तिस्तत्रानारभ्याधीतानां सन्निवेशः साप्तदश्यत्वं नारभ्याधीतमपि न प्रकृतौ गच्छति प्रकृतेः पाञ्चदश्यावरोधात् । किन्तु विक्कतिषु गच्छति तत्रापि न सर्वासु गच्छति चोदकप्राप्तपाञ्चदश्यबाधप्रसङ्गात् । किन्तु प्रत्यक्ष श्रुतिसाप्तदश्यासु मित्रविन्दादिषु गच्छति । यथाह “एवञ्च प्रकृतावेतत् पाञ्चदश्यं प्रतिष्ठितम्। विकृतौ च न यत्रास्ति साप्त-
दश्यं पुनः श्रुतिरिति । न च वाक्यवैयर्थम् अनारभ्याधीतस्यैव साप्तदश्यस्य मित्र विन्दादिप्रकरणस्थेन वाक्येनोपसंहारात् । उपसंहारो नाम सामान्याप्राप्तस्य विशेषे नियमनम् । यथाहुः
"समानविधिरस्पष्टः मंक्रियेत विशेषत इति ।" तत्नानारभ्यविधिः सामान्यविधिः । मित्रविन्दादिप्रकरणस्यस्तु विशेषविधिरित्यास्तां तावत् ।
प्रकृतमनुसरामः । तत्सिद्धं वाक्यादङ्गत्वं तद्धि वाक्य' प्रकरणादुबलीयः । प्रकरणं हि न साक्षाद्दिनियोजकं तत्रि आकाङ्क्षारूपम्। न च श्राकाङ्क्षा स्वयं प्रमाणम् । किन्तु साकाङ्क्ष वाक्य दृष्ट्वा भवत्येतादृशी मतिः । नूनमिदं वाक्य' केनचित् वाक्येनैकवाक्य भूतमिति । ततश्च आकाङ्क्षारूपं प्रकरणवाक्यस्य वाक्यान्तरैकवाक्यत्वे प्रमाणम् । एवञ्च यावत् प्रकरणं वाक्यं कल्पयित्वा विनियोजकं भवति इति प्रकरणाद्दाक्य बलीय: अतएव इन्द्राग्नी इदं हविरजुषेतामवौवृधेतां महोज्यायोक्रातामित्यत्र इन्द्राग्नौपदस्य लिङ्गाद्दशाङ्गत्वे सिद्धे इदं हविरित्यादेरपि तदेकवाक्याद्दशाङ्गत्व' न तु प्रकरणाद्दर्शपूर्ण मासाङ्गत्वं प्रकरणाद्दाक्यस्य बलीयस्त्वादिति उभयकाङ्क्षाप्रकरगम् । यथा प्रयाजादिषु समिधो यजतीत्यत्र हि इष्टविशेषस्यानिर्द्दे शात् समिद्यागेन भावयेत् किमित्यस्त्युपकाय्याकाङ्क्षा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र दर्शपूर्णमासयागैः . स्वर्गं कुय्यात् कथमित्यस्त्युपकाराकाङ्क्षत्युपकार्य्योपकारकाकाङ्क्षारूपोभयाकाङ्क्षालचणप्रकरणेन प्रयाजानां दर्शपूर्णमासा ङ्गत्व सिध्यति । ननु यदि प्रयाजादिवाक्ये इष्टविशेषो न श्रूयते तर्हि विश्वजिन्यायेन स्वर्गः फलं कल्पातां विश्वजिदधिकरणे हि विश्वजिता यजेतेत्यत्र फलस्याश्रवणात् । फलमन्तरेण च विधि-
श्रुतेरनुपपत्तेरवश्य' फले कल्पयितव्ये सर्वाभिलषितत्वेन स्वर्गः फलमित्युक्तम् । तदुक्त' स स्वर्गः स्यात् सर्वान् प्रत्यवशिष्टत्वात् इति । रात्रिसत्रन्यायेनार्थवादिकं वा फलं कल्पातां रात्रिसत्त्राधिकरणे हि प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्तीत्यत्र विध्युद्देशे फलाश्रवणात् । फलमन्तरेण च विधिश्रुतेरनुपपत्तेरवश्य फले कल्पयितव्ये पार्थिवादिकं प्रतिष्ठाख्यं फलमित्युक्तम् । विश्वजिदधिकरणन्यायेनानुपस्थित स्वर्ग कल्पने
तस्य प्रकृतसम्बन्धकल्पने गौरवादर्थवादोपस्थितस्यैव प्रकृतफलत्वकल्पने लाघवात् । तदुक्तं फलमात्रे तयोर्निर्देशादश्रुतौष्टि अनुमानं स्यादिति । तस्माद्दिश्वजिन्यायेन रात्रिसत्रन्यायेन वा स्वतन्त्रफलार्थत्वे सम्भवति किमिति दर्शपूर्णमासाङ्गत्वं स्वीक्रियत इति चेन्नैवम् । स्वतन्त्रफलार्थत्वे अन्यतराकाङ्क्षया सम्वन्धः स्यात् । न हि अत्र फलत्वे साधनाकाङ्क्षास्ति । श्रूयमाणं हि फलं साधनमाक्षिपति । न चात्र तच्छ्रयते एवञ्च फलस्याकाङ्क्षाभावात् केवलं किं भावयेदिति प्रयाजानां भाव्याकाङ्क्षयैव स्वतन्त्र फलार्थत्वं स्यात् । दर्शपूर्ण मासार्थत्वे तु उभयाकाङ्क्षाप्रमाणं प्रयाजानां भाव्याकाङ्क्षाया इतरत्र कथम्भावाकाङ्क्षायाः सत्त्वात् अन्यतराकाङ्क्षात श्चोभयाकाङ्क्षा बलीयसीति वक्ष्यते ।
ततञ्च दर्शपूर्णमासार्थत्वमेव युक्तं न स्वतन्त्र फलार्थ त्वमिति । तदुक्त द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यादिति । अत्र द्रव्ये फलश्रुतिर्यस्य पर्णमयो जुहर्भवति न स पापं श्लोकं शृणोति इत्येवमाद्या संस्कारे फलश्रुतिर्यदा चतुरेव भ्रातृव्यस्य द्वंक्ते इत्येवमाद्या कर्मणि फलश्रुतिर्वमं वा एतद् यज्ञस्य क्रियते तत् प्रयाजा इज्यन्त इत्याद्याः । कर्मपदच्च आरादुपकारककर्मपरं द्रष्टव्यम् । संस्का-
शत् कर्मणः पृथक् च कीर्त्तनात् इत्यास्तां तावत् । तदिदं प्रक दणं क्रियाया एव विनियोजकं न द्रव्यगुणयोः । तयोस्तु क्रिया.. योगाद्दिनियोजकं कुत इति चेत् शृणु । यजेत स्वर्गकाम इत्यत्राख्यातांशेनार्थी भावनोच्यते भावयेदिति सा चांशत्त्रयमपेक्षते किं भावयेत् केन भावयेत् कथं भावयेदिति । तत्र भाव्याकाङ्चायां षष्ठाद्यन्यायेन खर्गो भाव्यतयान्वेति स्वर्गं भावयेदिति । करणाकाङ्क्षायां समानपदोपात्तो यागो भावार्घाधिकरणन्यायेन करणतयान्वेति यागेन स्वर्गं भावयेदिति । ततः कथमिति कथम्भावाकाङ्क्षा जायते तस्यां चाकाङ्क्षायां यत्सन्निधौ पठितमश्रूयमाणफलकञ्च क्रियाजातं तदेवोपकार्य्याकाङ्क्षायाम् इतिकर्त्तव्यतात्वेनान्वयमनुभवितुं योग्यम् । क्रियाया एव लोके कथ भावाकाङ्क्षायामन्वयदर्शनात् । न हि कुठारेण भिन्द्यादित्यत्र कथमित्याकाङ्क्षायां हस्त इति केवलमुच्चार्यमाणोऽपि हस्तीऽन्वयं प्राप्नोति । किं तर्हि हस्तेनोद्यम्य निपात्येत्युच्चार्यमाणे उद्यमननियमन एव हस्तोऽपि तद्वारेणैव श्रन्वयं प्राप्नोतीति सर्वजनीनमेतत् । किञ्च कथम्भावाकाङ्क्षा नाम करणगत प्रकाराकाङ्क्षा कथमः प्रकारवाचित्वात् । सामान्यस्य च भेदको विशेष: प्रकारः । सामान्यञ्च क्रियारूपमेव आख्यातेन उच्यते । यजेत स्वर्गकाम इत्यस्य हि श्रयमर्थः । यागेन तथा कुर्य्यात् यथा यागात् स्वर्गो भवति इति । क्रियासामान्यस्य च विशेषः क्रियैव. भवति । न हि ब्राह्मणविशेषः परिव्राजकादिरब्राह्मणो भवति । एवञ्च करणगतक्रिया विशेषाकाङ्क्षा परनामधेयकथम्भावाकाङ्क्षायां क्रियैव अन्वेति इति युक्तम् । स च करणगतः क्रियाविशेषोऽन्वाधानादिब्राह्मणतर्पणान्तः क्रियारूप एव इति युक्तम् । तस्य प्रकरणेन ग्रहणं तस्य च करणगतत्वं करणोपकारकत्वमेव । तेन विना यागेन अपूर्वाजननात् । न हि
अतएव द्रव्यदेव-
उद्यमननिपतमव्यतिरेकेण कुठारेण द्वैधीभावो जन्यते तसिहं कथम्भावाकाङ्क्षायां क्रियैव अन्वेति इति । तयोर्यागसम्पादनद्वारा अन्वयः साम्प्रदायिकैरुक्तः । विकृतौ च कथम्भावाकाङ्गायामुपकारक सम्पादनमतिदिश्यत
इत्युक्तम् । यदि च कथम्भावाकाङ्क्षायां सिद्धं वस्तु अन्वययोग्यं स्यात् । तदा उपकार्य सम्पादन पय्र्यन्तधावनं ग्रन्थकाराणामनर्थकं स्यात् । अतः क्रियाया एव इतिकर्त्तव्यतात्वं कथम्भावाकाङ्क्षागृहीतस्येतिकर्त्तव्यतात्वात् । इतिशब्दस्य प्रकारवाचित्वात् कर्त्तव्यस्येतिप्रकार इतिकर्त्तव्यता | प्रकारश्च सामान्यस्य भेदको विशेष इत्युक्तम् । कर्त्तव्यस्य च विशेषः कर्त्तव्य एव भवतीति न सिद्धस्य वस्तुन इतिकर्त्तव्यतात्वम् किन्तु क्रियाया एव । सिद्धस्य तु द्रव्यादेः केवलमङ्गत्वं तदपि श्रुत्यादिना नतु प्रकरणात् ।
यथाहु:,
नावान्तर क्रियायोगाहते वाक्योपकल्पितात् ।
गुणद्रव्ये कथग्भावैर्गृह्णन्ति प्रकृताः क्रियाः ॥ इति ॥ अतएव वर्हिर्देवसदनं दामीत्यादिमन्त्राणां लिङ्गादङ्गत्वं नतु प्रकरणादित्युक्तम् । अर्थवादाधिकरणपूर्वपक्षसमाप्तौराण के क्वचित्तु द्रव्यस्येतिकर्त्तव्यतात्वाभिधानमङ्गत्वाभिप्रायं द्रष्टव्यं बहुग्रन्यस्वरसादुक्तयुक्तेश्चेति तसिद्धं प्रकरणं क्रियाया एव विनियोजकम् । तच्च प्रकरणं द्विविधं महाप्रकरणमवान्तरप्रकरणश्चेति तत्र फलभावनायाः प्रकरणं महाप्रकरणम् ।
तच्च प्रयाजादीनां ग्राहकं तच्च प्रकृतावेव यत्र समग्राङ्गोपदेशः सा प्रकृतिः यथा दर्शपूर्णमासादिः । तत्रैव उभयाकाङ्क्षारूपं प्रकरणं सम्भवति इत्याकाङ्क्षानुपरमात् विकृती तु न प्रकरणं सम्भवतीति । यत्र न समग्राङ्गोपदेशः सा विक्कतिः यथा सौर्य्यादिः तत्र ग्रान्यपूर्वाण्यङ्गानि पठ्यन्ते उपहोमादीनि
तेषां न प्रकरण विनियोजकं तत्र यद्यपि तेषां किं भावयेदित्यस्त्याकाङ्क्षा तथापि न प्रधानस्य कथम्भावाकाङ्क्षास्ति प्राकृतैरेवाङ्गेर्निराकाङ्क्षत्वात् । नच प्राकृतानामङ्गानामत्रापठितत्वेन अप्रत्यक्षत्वाद्वैक्कतानान्तु पठितत्वेन प्रत्यक्षत्वात्तैरेव आकाङ्क्षोपशम इति वाच्यम् । तेषां पठितत्वेऽपि अक्ल तोपकारकत्वेन झटित्याकाङ्क्षोपशमनेऽसामर्थ्यात् । प्राक्कतानान्तु क्ल, प्तोपकारकत्वेन तच्छमने सामर्थ्यात् । नच अन तेषामुपस्थापकाभावः उपमितिलक्षणप्रमापेन तेषां उपस्थितत्वात् । सौय्र्यवाक्ये हि दृष्टे औषधद्रव्यत्वेन एकदैवत्यत्वेन च सादृश्येन आग्नेयवाक्यमुपमीयते मवयदर्शनाद्वोरुपमानवत् । तस्मिंश्चोपमिते तेन तदर्थों ज्ञायते सा च वंगशा भावना तत्र सौर्य: वाक्ये भावनाया भाव्यकरणयोः सत्त्वात् इतिकर्त्तव्यताकाङ्क्षायां उपकारपृष्टभावेनाम्ने येनेतिकर्त्तव्यतातिदिश्यते सौय्ययागेन ब्रह्मवर्चसं भावयेदाग्नेयवदिति । तथाच तथैवाकाङ्क्षोपरमान विकृतेः प्रकरणमस्ति अन्यतराकाङ्क्षारूपस्थानादेवच अपूर्वाङ्गग्रहणम् । नच प्राकृताङ्गग्रहणमेव विकृतौ प्रकरणात् किं न स्यादिति वाच्यम् । तेषामपि प्रक्कत्युपकारक: तयाकाङ्क्षोपशमात् ।
प्रकरणात्
ननु प्राकृतानामङ्गानाम्राकाङ्क्षाभावे तेषां विकृतिसम्बन्धः केवलं स्थानात् स्यात् । श्रपूर्वाणां त्वाकाङ्क्षासत्त्वात् विक्कतेरपि आकाङ्क्षावत्त्वात्तेषां तत्सम्बन्धः स्यात् । प्रकरणञ्च स्थानात् झटिति विनियोजकमिति अपूर्वाणामेव प्रथमं सम्बन्धः स्यान प्राकृतानामिति उच्यते । सत्यं प्रकरणं झटिति विनियोजकं तथापि प्रमाणबलाबलात् प्रमेय • बलाबलस्य ज्यायस्त्वात् उक्तविधयोपस्थितानां प्राकृतानामेव सम्बन्धो युक्तः प्रथमं प्रकृतौ क्लृप्तोपकारत्वात् न वैकतानां
कल्पप्रोपकारत्वात् ।
विकृतेश्चोपकारकपदार्थाकाङ्क्षा न
पदार्थमात्राणामिति युक्तः प्रथमं प्राकृतानामङ्गसम्बन्धः । ततश्च न विकृतौ प्रकरणं विनियोजकम् । यत्तु विकृतौ प्राकृताङ्गानुवादेन विधीयते यथा औदुम्बरो यूपो भवतीति यूपानुवादेन औदुम्बरत्वं तत् प्रकरणात् गृह्यते न तु तत्तत्प्रकरणात् गृह्यते अक्रियात्वात् क्रियाया एव प्रकरणग्राह्यत्वादिति चेत् । सत्यं तथापि तावद्विधीयमानस्य औदुम्बरत्वस्यास्त्येव आकाङ्क्षा किं भावयेदिति । नच यूपानवादेन तस्य विधीयमानत्वात् यूपस्य च श्रदृष्टरूपत्वात्तेनैव औदुम्बरत्वस्य नैराकाङ्क्ष्यं आहवनीयेनेवाधानस्वेति वाच्यम् । यूपस्य केवलादृष्टरूपत्वाभावात् । तस्य हि तद्रूपत्वे खादिरत्वादिकं केवलादृष्टार्थं स्यात् । नच तत् सत्यं भवति । तथा सति खादिराभावेऽपि प्रतिनिधित्वेन कदरोपादानं न स्यात् । श्रदृष्टार्थस्य प्रतिनिध्यभावात् । न हि खदिरजन्यमदृष्टं कदरेण क्रियते इत्यत्न प्रमाणमस्ति । अतएव न श्रदृष्टार्थानां प्रतिनिधिः । तदुक्तं न देवताग्निशब्द क्रियमन्यार्थत्वादिति । प्रतिनिधित्वेन च उपादानं कदरादेरुक्त ग्रन्थेषु । तस्मात् न यूपस्य केवलादृष्टरूपत्वम् अपितु दृष्टादृष्टसंस्कारगुणो यूप इति साम्प्रदादिकाः ।
एवञ्च श्रदुम्वरत्वस्य न यूपमात्रेण नैराकाङ्क्ष्यं दृष्टसंस्कारस्य प्रकारान्तरेणापि सम्भवात् । अत अस्ति औदुम्बरत्वस्य आकाङ्क्षा । विकृतेरपि अस्ति कथम्भावाकाङ्क्षा सा च तदा उपशाम्यति यदा उपकारास्तत्पृष्टभावेन च पदार्था अन्वीयन्ते । नतु उपकारमात्रान्वयेन शाम्यति । अतश्च यथा इन्द्रियभावनायाः करणाकाङ्क्षा दघ्नः करणत्वेन अन्वये जाते सिद्धस्य करणत्वानुपपत्त्या होमस्य आश्रयत्वेन अन्वयः यावदनुवर्त्तते नतु दध्यन्वयमात्रेण निवर्त्तते । श्रश्रयत्वेन च गृह्यमाणो
होमः करणाकाङ्क्षयेव गृह्यत इत्युक्तां नतु श्राश्रयाकाङ्क्षा नाम चतुर्थ्यास्ति । एवं विकृतेः कथम्भावाकाङ्क्षा न उपकारान्वयमात्रेण निवर्त्तते उपकारपृष्टभावेन यावत्पदार्थान्वयमनुवर्त्तते । श्रतश्चोपकारष्टष्टभावेन गृह्यमाणाः पदार्थाः कथ म्भावाकाङ्क्षयैव गृह्यन्ते । तत्र प्राकृताः पदार्थाः कथम्भावाकाङ्क्षयेव गृह्यमाणा अपि न प्रकरणग्राह्याः प्रकृत्युपकारकतया तेषां आकाङ्क्षाभावात् । श्रदुम्बरत्वादयस्तु अन्यानुपकारकतया साकाङ्क्षाः पशुनियोजनयूपपृष्टभावेन यावत् खादिरत्वमायाति तावत् विधीयन्त इति युक्तं तेषां प्रकरणात् ग्रहणम् उभयाकाङ्क्षासत्त्वात् । यदि हि यूपपृष्टभावेन खादिरत्वं विहितं स्यात् ततो विकृतेराकाङ्क्षाभावात् औदुम्बरत्वं न प्रकरणग्राह्यं स्यात् । नच एतदस्ति चोदकस्य खादिरत्वाविषयत्वात् ।
ननु यदि यावत् खादिरत्वमायाति तावदेव श्रदुम्बरत्वं विधीयते तदा तेन खादिरत्वबाधोऽप्राप्तबाधः स्यात् तात्र्त्तीयबाधवत् । तथाहि बाधो द्विविधः अप्राप्तबाधः प्राप्तबाधश्चेति ( तत्र तार्त्तीयो बाधोऽप्राप्तबाधः । तत्र हि यावद् दुर्बलेन प्रमाणेन विनियोगः कर्त्तुमारभ्यते तावदेव प्रबलप्रमाणेन विनियोगः क्रियत इति तद्दोधितेनेतरबाधोऽप्राप्तबाधः दुर्बल प्रमाणस्य अक्लृप्तत्वात् । प्राकृतस्य त्वङ्गस्य विकृतौ चोदकप्राप्तस्य प्रत्याम्नानादर्थलोपात् प्रतिषेधादा यो बाधः स प्राप्तबाधः यथा प्राकृतानां कुशानां प्रतिकूलशरान्नानात् । यथा वा अवघातस्य कृष्णलेषु वैतुष्यरूपप्रयोजनलोपात् । यथा वा पिवेाष्टौ होट : वरणस्य न होतारं वृणोत इति प्रतिषेधात् श्रदुम्बरत्वेन च खादिरत्वबाधः प्राप्तबाध एव वक्तव्यः शरकुशन्यायेन । चोदकस्य च खादिरत्वाविषयत्वे प्रात्यभावात् तदनुपपत्तिः स्यादिति ।
उच्यते तार्त्तीयप्रमाणविनियुक्तेन इतरस्य बाधनं तावदप्राप्त-
बाधनम्। प्रकरणञ्च तार्त्तीय' तेन तद्दिनियुक्तौदुम्बरत्वेन इतरस्य बाधनमप्राप्तबाध एव । न हि वैक्कतेन प्राकृतबाधः प्राप्तन्नध एवेति कुलधर्मः । वस्तुतस्तु प्राप्तबाध एवायम् । न च खादिरत्वस्य चोदकाविषयत्वेन प्रात्यभावात् कथं तद्दाधः प्राप्तबाधः तहिषयत्वेन वा तेनैव नैराकांच्यात् नौदुम्बरत्वे प्रकरणं विनियोजकं स्यादिति वाच्यम्। न हि प्राप्तवाधस्थले चोदकेन पदार्थाः प्राप्यन्ते । तथा सति शास्त्रप्राप्तत्वेन बाधो न स्यात् । किं तर्हि तानेव पदार्थान् वस्तुतः प्रापयति ये विकृतौ न बाध्यन्तं । ते च पदार्थाः प्रकृतिवच्छब्देन प्राप्यन्ते इति भवति पुरुषस्य भ्रान्तिः । यथा प्रकृतौ कृतं तथा विकृतौ कर्त्तव्यमिति सर्वे पदार्थाः प्राकृताः कर्त्तव्या इति । अतश्च भ्रान्तिप्राप्ताः खादिरत्वादयः शास्त्रप्रतिपन्नैरौदुम्बरत्वादिभिर्वाध्यन्ते इति भवति तदाधः प्राप्तबाधः । न च भ्रान्तिप्रतिपन्न ेन वैधी आकांक्षा निवर्त्तयितुं शक्यते। तस्माद्युक्तमुक्तं उभयाकांक्षारूपप्रकरणसम्भवात् विकृतौ प्राकृताङ्गानुवादेन विधीयमानानामौदुम्बरत्वादीनां प्रकरणं विनियोजकमिति ।
एवं पृषदाज्येनानुयाजान् यजतीति प्रकृतानुयाजानुवादेन विधीयमानं पृषदाज्यमपि प्रकरणादिक्कत्यङ्गमिति केचिदाचार्य्याः । अस्मत्तातचरणास्तु एवमाहुः । पृषदाज्यं हि अनुयाजानुवादेन विधीयते तत्स्वरूपे च श्रनर्थक्यप्राप्तौ तैर्न विकृत्यपूर्वं लक्षयितुं युक्तं विप्रकर्षात् । किन्तु दीक्षणौया वानियमन्यायेन स्वापूर्वमेव लक्षयितुं युक्तं सन्निकर्षात् । अतएव उत्पवनादोनां प्रोक्षणाद्यपूर्वप्रयुक्तत्वमुक्त' नवमे । अतश्च विधीयमानस्य पृषदाव्यस्य वाक्यप्रतिपन्न नानुयाजापूर्वेणैव नैराकांध्यात् न प्रकरणाद्दिक्कृत्यपूर्वार्थत्वमिति । वयन्तु अङ्गीकृत्यापि
विकृत्यर्थं ब्रूमः । भवतु वा विकृत्यर्थत्वं पृषदाज्यस्य तथापि न प्रकरणं विनियोजकं भवतीति यूपपृष्टभावेन हि यावत् खादिरत्वमायाति तावदेवौदुम्बरत्व विधानादुभयाकांचा युक्तत्वादु युक्तः प्रकरणविनियोगः ।
एवं यावदनुयाजपृष्टभावेनान्यमायाति तावदेव यदि पृषदाज्यं विधीयते तदोभयाकांक्षासम्भवात् प्रकरणविनियोगो भवेत् । नत्वेतदस्ति । न हि पृषदाज्यं नाम द्रव्यान्तरं किञ्चिदस्ति यदाज्यस्थानापन्न विधीयते औदुम्बरत्वमिव खादिरत्वस्थानापन्नम् । पृषच्छब्दस्य पृषन्मणिरित्यादौ चित्रतावाचित्वेन दृष्टत्वात् पृषदाज्यशब्दस्य चित्राज्यवाचित्वात् । अतएव निगमेषु श्रन्यपानित्येव वक्तव्यं न तु पृषदाज्यपानित्येवमुक्तम् । न
च
यावत्प्राक्कतमाज्यमायाति तावदेव चित्राज्य विधानात् प्रकरणाद्दिनियोगः सम्भवतीति वाच्यम् । न हि पृषदाज्यशब्देन चित्रतागुणविशिष्टमान्य विधीयते विशिष्टविधाने गौरवापत्तेः । किन्तु प्राक्कताज्यानुवादेन चित्रतागुणमात्रं विधीयते लोहितोष्णोषा ऋत्विजः प्रचरन्तीतिवत् तदुक्त ं दशमे चतुर्थ चरणान्त्ये । न वा गुणशास्त्रत्वादिति । प्राक्कतस्यैवान्यचित्रतागुणमात्रविधानमिति च शास्त्रदीपिका ।
।
एवञ्च विकृतेः प्राकृतेनाज्येन क्ल तोपकारैथानुयाजैः नैराकांच्ये पश्चाद्विधीयमानस्य चित्रतागुणस्योपहोमाद्यपूर्वाङ्गवत् न प्रकरणं विनियोजकं सम्भवति । यदि हि प्राकृतस्य कस्यचिद्गुणस्य स्थाने चित्रतागुणो विधीयेत तदा स गुणो यावदायाति तावद्दिकृतेर्नेराकांच्याभावात् चित्रतागुणस्य तावदेव विधानादुभयाकांचासम्भवात् प्रकरण विनियोगो भवेत् । न च तादृशः प्रकृतौ गुणोऽस्ति श्रन्यस्यानुयाजानाच्च चित्रतागुणात् प्रागेव विधानात् तस्य तत्स्थानापन्नत्वाभावाच्च ।
न च आज्यपृष्टभावेन यावत् प्राकृतं निर्गुणत्वमायाति सावदेवास्य विधानात् प्रकरणसम्भव इति वाच्यम् । निर्गुणत्वस्याविहितत्वेन पाणि कण्डय नवदनङ्गत्वा द्दिक्कते स्तदाकांक्षाभावात् । तथा हि ज्योतिष्टोमे दचिणादानसमय विहितकृष्णविषायात्यागस्य द्विरात्त्रादिषु चोदकप्राप्तस्य प्रथमेऽज्ञाननुष्ठानं उत्तरेऽह्नि दक्षिणादानपूर्वकालीनैः पदार्थः कृष्णविषाणकण्डूयनस्य शास्त्रविहितत्वेनापेचितत्वात् ज्योतिष्टोमे च दचियादानोत्तरकालं पाणिकण्डूयनं दृष्टमपि द्विरात्रादिषु प्रथमेऽह्नि अनुष्ठीयमानैर्दचिणादानकालीनैः पदार्थेर्नापेक्ष्यते तस्य प्रकृतावर्थसिद्धत्वेनाशास्त्रीयत्वादिति ।
एवं निर्गुणत्वस्य अविहितत्वेन विकृतेस्तदपेक्षा नास्ति तस्मादुभयाकांक्षाया असम्भवात् पृषदाज्यस्य न प्रकरणविनियोगः सम्भवतीत्यलमतिविस्तरेण । तत्सिद्धं महाप्रकरणं प्रकतावेव विनियोजकम् । विकृतौ तु यत् प्राकृतधर्मानुवादेन विधीयते तस्य विनियोजकं नतु केवलं विधीयमानस्य अपूर्वाङ्गस्येति । यत्तु विकृतावपि प्राकृतधर्मानुवादेन विधीयमानयोर्धर्म योरन्तरालेऽपूर्वमपि अङ्ग केवलं पठ्यते तदपि प्रकरणेन विनियुज्यते । यद्यपि विकृतेः कथम्भावाकाङ्क्षा प्राकृतैरेवाङ्गः शाम्यति तथापि यत्र प्राकृताङ्गानुवादेन धर्मविधानं तत्र तद्विधानं यावदु भवति तावत् कथम्भावाकाङ्क्षा निवर्त्तते । श्रतो विकृतेराकाङ्क्षावत्त्वादन्तराले विहितस्य अपि अपूर्वस्य अङ्गस्य भाव्याकाङ्क्षासत्त्वात् युक्तं तस्य प्रकरयात् प्रकृत्यर्थत्वम् । यथा आमन होमेषु । ते हि प्राकृताङ्गानुवादेन विधीयमानयोर्धर्मयोरन्तराले विधीयन्ते इत्युक्त तन्त्ररत्नादावित्यास्तां तावत् । फलभावनाया अन्तराले यदङ्गभावनायाः प्रकरणं तदवान्तरप्रकरणम् । तच्च अभिक्रमणादीनां प्रयाजा-
दिषु विनियोजकं तच्च सन्दंशेन ज्ञायते तदभावे श्रविशेषात् सर्वेषां फलभावनाकथम्भावेन ग्रहणात् । सन्दंशो नाम एका· ङ्गानुवादेन विधीयमानयोरङ्गयोरन्तरालेन विहितत्वं यथाभिक्रमणम् । तद्धि ममानयते. जुह्यमु उपभृत इत्यादिना प्रयाजानुवादेन किञ्चिदङ्गं विधाय विधीयते पश्चादपि प्रयाजानुवादेन यो वै प्रयाजानां मिथुनं वेदेत्यादिना किञ्चिदङ्गं विधीयते । अतः प्रयाजाङ्गमध्ये पठितमभिक्रमणं तदङ्गं भवति । तत् कथम्भावाकाङ्क्षाया अशान्तेः । तदुक्तम्-
परप्रकरणस्थानामङ्गे श्रुत्यादिभिस्त्रिभिः । ज्ञाते पुनश्च तैरेव सन्दंशेन तदिष्यत इति ॥
न च अङ्गभावनायाः कथम्भावाकाङ्क्षाभावात् कथं प्रयाजभावनाकथम्भावेनाभिक्रमणं गृह्यत इति वाच्यम् । भावनासाम्येन सर्वत्र कथम्भावाकाङ्क्षायाः सत्त्वात् । प्रयाजैरपूर्वं कृत्वा यागोपकारं भावयेदित्युक्ते यो नाम न जानाति प्रयाजैरपूर्वं कर्त्तुं तस्य भवत्येव कथम्भावाकाङ्क्षा कथमेभिरपूर्व कर्त्तव्यमिति । सा च सन्दंशपतितैर्वाचनिकैः स्मार्त्तेश्व आचमनादिभिः शाम्यति । तदभावे च स्वरूपनिष्पादनेन दर्विहोमन्यायेन निवर्त्तते । दर्विहोमेषु हि स्वरूपनिष्पादनातिरिक्तस्तथाव्यापारो न श्रूयते । नाप्यतिदेशेन तत्प्राप्तिः यागीयानां धर्माणां तावन्नातिदेशो यागत्वेन होमत्वेन वैलक्षण्यात् । नापि होमीयानां कस्य होमस्य धर्मः कस्मिन् होमे प्रवर्त्तते इति विशेषनिर्णये मानाभावात् । अतो धर्मप्रात्यभावात् दर्विहोमैरिष्ट भावयेत् कथमित्युत्पन्नापि श्राकाङ्क्षा स्वरूपनिष्पादनेनैव शाम्यति । एवं येषु श्रङ्गेषु सन्दंशाद्यभावः तव उत्पन्नापि भाकाङ्क्षा तेनैव निवर्त्तते नतु सर्वथा तदभावः । तस्माद युक्तमुक्तम् अभिक्रमणं प्रयाजाङ्गमिति । तच्चेदम्
-
अवान्तरप्रकरणं महाप्रकरणात् बलीयः । सन्दंशपतितानां धर्माणां कैमर्थ्याकाङ्क्षायां प्रधानापूर्वात् प्रयानाद्यपूर्वस्य झटिति उपस्थितेरिति ।
प्रकृतमनुमरामः । तत्सिद्दमुभयविधस्य प्रकरणस्य विनियोजकत्वम् । तदिदं स्थानादिप्रमाणात् प्रबलम् । यत्र हि स्थानादङ्गत्वं तत्रान्यतरस्य प्रकारान्तरेण निराकाङ चत्वम् । न च माकाङ्क्षं निराकाङ्क्षेण सम्बड योग्यं विनाकाङ्क्षोत्थापनेन । अतश्च अन्यतराकाङ ङ्क्षया यावदुभयाकाङ चारूपप्रकरणकल्पनद्दारा वाक्यादिकं कल्पयितुम् आरभ्यते तावत् झटिति प्रकरणेन वाक्यादिकं कल्पयित्वा विनियोगः क्रियत इति स्थानात् प्रकरणस्य बलीयस्त्वम् । अतएव विदेवनादयो धर्मा अभिषेचनीयसन्निधौ पठिता अपि नाभिषेचनीयस्य अङ्गम् । तेषां तदङ्गत्वं भवेत् स्थानात् नतु भवेत् अभिषेचनीयस्य अव्यक्त चोदनाचोदितत्वेन ज्योतिष्टोमविकारत्वात् प्राकृतैरेव धर्मैर्निराकांचत्वात् किन्तु प्रकरणाद्राजस्याङ्गम् ।
प्रकरणात् ।
ननु राजसूयेन स्वाराज्यकामो यजेतेत्यत्र राजसूयशब्दस्तावन्नामधेयत्वादाख्यातपरतन्त्रः यत्त्राख्यातं वर्त्तते तत्रैव वर्त्तते । न च दर्शपूर्णमामाभ्यां स्वर्गकामो यजेतेत्यत्र यथा दर्शपूर्ण मासपदं नामधेयमपि नाख्यातपरतन्त्रं तत्र हि यजेतेत्यत्राख्यातं अविशेषात् सर्वानेव प्राक्कतानाग्नेयादीन् प्रयाजादींश्चाभिधातुं समर्थं दर्शपूर्णमासपदं त्वाग्नेयादीनेव वदति न सर्वान् अतश्च न तदाख्यातपरतन्त्रं तथा राजस्यपदमपि किं न स्यादिति वाच्यम् । प्रसिद्धेन हि पदेनाप्रसिद्धं निर्णीयते । यथाहु:-
पदमज्ञातसन्दिग्धं प्रसिद्धेरपृथक् श्रुति ।
निर्णीयते निरुदन्तु न स्वार्थादपनीयते ॥ इति । दर्शपूर्ण मासपदन्तु कालनिमित्तं तद्योगश्चाग्नेयादिषूत्पत्तिवाक्यैरवगतः । अतस्तद्दाचित्वेन दर्शपूर्ण मासपदं प्रसिद्धम् । न चाग्नेयादीनां बहुत्वादु द्विवचनान्तत्वमस्यानुपपन्नमिति वाच्यम् । विद्दद्दाक्यद्दय सिद्ध समुदायद्दयाभिप्रायेण तदुपपत्तेः ।
एवञ्च दर्शपूर्णमासपदस्याग्नेयादिवाचित्वे निर्णीते यजे. तेत्याख्यातमपि तानेव वदति न हि तदुक्तौ स्वार्थत्यागो भवति राजसूयपदं त्वनिर्णीतार्थं अतस्तदाख्यातपरतन्त्र मेव तच्चाविशेषात् सर्वेष्विष्टिपशुसोमेषु वर्त्तते तत्परतन्त्रत्वाद्राजस्यपदमपि तानेव वदति । न च राजसूयशब्दस्य राजा सूयते यचेति व्युत्पत्त्या सोमाभिषवनिमित्तत्वात्तस्य च सोम. मभिषुणोतीतिवाक्येन सोमयागे श्रवगतत्वात्तच्वाचित्वमेव नेष्टि पशुवाचित्वमिति वाच्यम् । न ह्यभिषेचनीयादिसोमयागेषु अभिषवः प्रत्यक्षेण वाक्येन चोदितोऽस्ति तद्दाक्यस्य ज्योतिष्टोमे सत्त्वात् । श्रतिदेशात्तत्सम्बन्धोऽवगत इति चेन्न । अतिदेशस्य फल सम्बन्धोत्तरकालीनत्वेन राजसूयेन स्वाराज्यकामो यजेतेत्येतद्वाक्यार्थावगत्युत्तरकालीनत्वात् । श्रनेन हि ब्राक्येन फलसम्बन्धे बोधिते पश्चात् कथम्भावाकांचायामतिदेशकल्पनासम्भवात् अतस्ततः प्रागेवैतद्दाक्यार्थो वर्णनीयः । तदा चाभिषवस्यानवगतत्वाद्राजस्य पदमप्र सिद्धार्थमेव । अतएव,राजस्य पदम व्युत्पन्नमश्ख कर्ण शब्दवदित्युक्त साम्प्रदायिकैः ।
J
एवञ्चा सिद्धार्थत्वेनाख्यातपरतन्त्रत्वाद्राजसूय पदेनेष्टिपशुसोमयागा उच्यन्ते । ते च तैस्तैः प्राकृतैर्धर्मैर्निराकांचा इति न प्रकरणं विदेवनादीनां राजसूये विनियोजकं उभयाकांचाया अभावात् । न च प्रातिस्त्रिकरूपैर्नैराकांक्षेऽपि न राजसूय-
त्वेन रूपेण नैराकांच्यमिति वाच्यम् । आकांक्षाद्दये प्रमाणाभावात् । किञ्च प्रातिखिकरूपैर्या कथम्भावाकांक्षा सापि फलसम्बन्धोत्तरकालं सा च राजसूयत्वेन न तु प्रातिखिकरूपैः । राजसूयत्वेन च फलसम्बन्ध उत्पन्नायाः कथम्भावाकांचाया विदेवनादिभिः शान्ते रतिदेशकल्पनमेव न स्यात् । यदि हि सामान्यरूपेण प्रातिखिकरूपेण च फलसम्बन्धविधायक वाक्यदयं भवेत् तदा युज्ये ताकांचाइयानुसारेण विदेवनादीनामातिदेशिकादीनाञ्चाङ्गानां सम्बन्धो न तु तदस्ति । तस्मात् प्राकृतधर्मैर्नैराकांक्ष्यान्न विदेवनादीनां प्रकरणं विनियोजकमिति चेत् सत्यम् । अतएव साम्प्रदायिकैर्विदेवनादोनां सन्दंशो दर्शितः । राजसूयत्वपुरस्कारेण ये धर्मा विधीयन्ते राजस्याय होना उत्पुनाति इत्येवमादयः तन्मध्ये विदेवनादयः पठ्यन्ते अतस्ते सर्वे राजस्याङ्गं प्रयाजानुवादेन विधोयमानधर्ममध्ये पठितं प्रयाजाभिक्रमणवत् । तस्माद्युक्तमुक्त' विदेवनादीनां प्रकरणाद्राजसूयाङ्गत्वमिति तत्सिद्धं प्रकरणस्य स्थानाद्दलीयस्त्वमिति ।
देशसामान्यं स्थानं तच्च द्विविधं पाठसा देश्य मनुष्ठान. स्वादेश्यञ्चेति । यथाहु:-
तत्र क्रमो द्विधैवेष्टो देशसामान्यलक्षणः । पाठानुष्ठानसादेश्याद्विनियोगस्य कारणमिति ॥
स्थानं क्रमश्चेत्यनर्थान्तरम् । पाठसादेश्यमपि द्विविधं यथासङ्घत्रपाठः सन्निधिपाठश्चेति । तत्र ऐन्द्राग्नमेकादशकपालं निर्वपेद्वैखानरं दादशकपालं निर्वपेदित्येवंक्रमविहितेष्टिषु इन्द्राग्नीरोचनादिव इत्यादीनां याज्यानुवाक्ययुगलानां मन्त्राणां यथासङ्घयं प्रथमस्य प्रथमं द्वितीयस्य, द्वितीयमित्येवं यो विनियोगः स यथासङ्कापाठात् प्रथमपठितमन्त्रस्य हि कैमर्थ्याकांचायां
प्रथमतो विहितमेव कर्म प्रथममुपतिष्ठते सामान्यदेशत्वात् । यानि तु वैकृतान्यङ्गानि प्राकृताङ्गानुवादेन विहितानि सन्दंशपतितानि तेषां विकृत्यर्थत्वं सन्निधिपाठात् । तेषां हि कैमर्थ्याकाङ्क्षायां फलवद्विकल्यपूर्वमेव भाव्यत्वेन सम्बध्यते उपस्थित. त्वात् । अतएव तेषु न विश्वजिन्यायावतारः स्वतन्त्रफलार्थत्वे विक्कति सविधिपाठानर्थक्यापत्तेश्च । पशुधर्माणामग्नीषोमीयार्थत्वमनुष्ठानसादेश्यात् श्रपवसध्येऽह्नि अग्निषोमीयः पशरनुठोयते तस्मिन्नेव दिने ते धर्माः पय्यन्ते अतस्तेषां कैमर्थ्याकाङ्क्षायां अनुष्ठेयत्वेनोपस्थितं पश्खपूर्वमेव भाव्यत्वेन सम्बध्यते । अतो युक्त मनुष्ठानसा देश्यात्तदर्थत्वं तेषाम् । न च पाठसादेश्या देव तत् किं न स्यादिति वाच्यम् । अग्नोषोमोयस्य पशोः क्रयसन्निधौ पाठात् । न च क्रयसन्निधौ पाठे तदनुष्ठानमपि तत्र स्यादिति वाच्यम् । स एष द्विदैवत्यः पशरौपवसथ्येऽह्नि आलब्धव्यः इति वचनात्तदनुपपत्तेः । न च स्थानात् प्रकरणस्य बलीयस्त्वेन पशुप्रमापाठानां धर्माणां ज्यातिष्टोमार्थत्वमेव किं न स्यादिति वाच्यम् । तस्य सोमयागत्वेन पशुधर्मग्रहणे अयोग्यत्वात् । अत अनर्थक्य प्रतिहतानां विपरीतं बलाबलमिति न्यायात् स्थानात् पशुयागार्थत्वमेव धर्माणां युक्तम् । न च तेषां तदर्थत्वं प्रकरणांदेव किं न स्यादिति वाच्यम् । अग्निषोमोयकथम्भावाकाङ्क्षायाः क्ल, तोपकारैः प्राकृतधर्मेरेवापशान्तत्वात् । स हि सानाय्ययाग प्रकृतिक उभयोः पशुप्रभवत्वसामान्यात् । तदुक्तं सान्नाय्यं वां तत्प्रभवत्वादिति । सान्नाय्यं दधिपयसौ तत्रापि पशुयागः पयोंयागप्रकृतिकः साक्षात्पशुप्रभवत्वात् । अतश्चोदकप्राप्तस्तद्धमैंर्निराकाङ्गत्वात् न पश्यागे धर्माणां प्रकरणं विनियोजकं किन्तु स्थानमेव । तदेवं निरूपितः संक्षेपतः स्थानविनियोगः ।
तन्त्र समाख्यातः प्रबलं स्थानविनियोगे हि पदार्थयोर्देश-
वा ?
सामान्यलक्षणः सम्बन्धः प्रत्यक्षः । समाख्याविनियोगे तु सम्बोध न प्रत्यक्षः पदार्थयोर्भिन्नदेशत्वात् । न च सा सम्बन्धवाचिका यौगिकानां शब्दानां द्रव्यवाचकत्वेन सम्बन्धावाचकत्वात् । तथाहि, समाख्या सम्बन्धसामान्यवाचिका स्यात् विशेषवाचिका नाद्यः । तदुक्तौ प्रयोजनाभावात् सर्वयोगिकशब्दानां पय्यायत्वापत्तेश्च । द्वितीयेऽवश्यं सम्बन्धिनौ वाच्यौ तदन्तरेण सम्बन्धे विशेषाभावात् तत्प्रतिपत्तिमन्तरेण तदप्रतिपत्तेश्च । अतवावश्यं सम्बन्धिवाचकत्वं समाख्याया वक्तव्यम् । तथाचं न सम्बन्धवाचकत्वं सम्बन्धिप्रतिपत्त्यैव वाक्यार्थप्रतिपत्तिन्यायेन तत्प्रतिपत्तिसम्भवे तत्र शक्तिकल्पने गौरवात् । यथाहुः । सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधीयते ।
न हि सम्बन्धवाच्यत्वं सम्भवत्यतिगौरवात् इति ॥
तथा-
पाकन्तु पचिरेवाह कर्त्तारं प्रत्ययस्तथा ।
पाकयुक्तः पुनः कर्त्ता वाच्यो नैकस्य कस्यचित् ॥ इति ।
तथाच न समाख्या सम्बन्धवाचिका 1 होटचमस इत्यादिका तु वैदिको समाख्या निषादस्थपतिशब्दवत् न षष्ठार्था सम्बन्धवाचिका नापि वाक्यवत्तद्दाचिका तस्याः पदत्वेन अप्रमाणत्वात् । पौरोडाशिकमित्यादिसमाख्यास्तु प्रतिदुर्वलाः लौकि कत्वेन पुरुषप्रत्यय सापेक्षत्वात् । काण्डगोचरत्वेन तत्तत्पदार्थंगोचरत्वाच्च। काण्ड़वाचकत्वमपि न काण्डत्वेन किन्तु पौरोडाशिक त्वादिनैव । नह्येकहायनौशब्दो द्रव्यवाचकोऽपि गोत्वेन तद्ददिति किं तर्हि एकहायनीत्वेनैव । स्थानविनियोगे त पदार्थयोर्वि तु शेषपुरस्कारेणैव सम्बन्धः प्रत्यक्षप्रमाणप्रतिपन्नः । अतश्च समाख्यामुपलभ्य नूनमनयोः पदार्थयोः सम्बन्धोऽस्तीति यावत्कल्पाते सांवत् प्रत्यक्षप्रतिपन्नेन सम्बन्धेन परस्परसाकाङ्क्षा कल्पात तद
भावे सम्बन्धानुपपत्तेः । कल्पितसम्वन्धेन च यावदितरत्त्राकाङ्क्षादि कल्पाते तावदन्यत्राकाङ्क्षया वाक्यादिकल्पनया विनियोगः क्रियते । इति सिद्धं स्थानस्य समाख्यातः प्राबल्यम् । अतएव शुन्धनमन्त्रः साम्राय्यपात्राङ्गं पाठसा देश्यात् । न तु पौरोडाशिकसमाख्यया पुरोडाशपात्राङ्गमिति ।
समाख्या यौगिकः शब्दः । सा च द्विधा । वैदिको लौकिकी च । तत्र होतुश्चमसभक्षणाङ्गत्वं होटचमस इति वैदिक्या समाख्यया अध्वर्योस्तत्तत्पदार्थाङ्गत्वं लौकिक्या आध्वर्य्यवमिति समाव्ययेति संचेपः । तदेवं निरूपितानि संचेपतः श्रुत्यादोनि षट् प्रमाणानि । एतत्सहलतेन विनियोगविधिना समिदादिभिरुपकृत्य दर्शपूर्णमासाभ्यां यजेतेत्येवंरूपेण यानि विनियुज्यन्ते तान्यङ्गानि । तानि द्विविधानि सिद्धरूपाणि क्रियारूपाणि चेति । तत्र सिद्धानि जातिद्रव्यसंख्यादीनि । तानि च दृष्टार्थान्येव । क्रियारूपाणि च द्विविधानि गुणकर्माणि प्रधानकर्माणि चेति । एतान्येव सन्निपत्योपकारकाणि आरादुपकारकाणीति चोयन्ते । तत्र कर्माङ्गद्रव्योद्देशेन विधी यमानं कर्म सनिपत्योपकारकम् । यथा अवघातप्रोक्षणादि । तच्च दृष्टार्थमदृष्टार्थं दृष्टादृष्टार्थञ्च । दृष्टार्थमवघातादि । श्रट्टष्टार्थं प्रोक्षणादि । दृष्टादृष्टार्थ पशुपुरोडाश्यागादि । तच्च द्रव्यत्वागांशेनादृष्टं देवतोह शेन च देवतास्मरणं दृष्टं करोति । इदमेव सामवायिकं कर्मत्युच्यते । तच्च सन्निपत्योपकारकं द्विविधम् । उपयोच्यमाणार्थमुपयुक्तार्थञ्चेति । तत्रावघातप्रोक्षणाद्युपयोच्यमाणार्थम् । व्रीहौणां यागे उपयोक्ष्यमाणत्वात् । प्रतिपत्तिकर्म इडाभक्षणादि उपयुक्तपुरोडाशसंस्कारकम् । उपयुक्तस्याकोर्ण करणतानिवर्त्तकं कर्म प्रतिपत्तिकर्म । उपयुक्त संस्कारार्थञ्च कर्म उपयोक्ष्यमाण संस्कारार्थाद दुर्बलम् । उपयुक्तापेक्षया उप-
।
योच्यमाणेऽत्यादरात् । अतएव प्रापणीयनिष्का से उदयनीयम' नुनिर्वपतीत्यत्र निष्कामस्य निर्वापार्थत्वम् । न तु तस्य तदर्थत्वं निष्कासस्योपयुक्तत्वादित्युक्तमेकादशे । तञ्च सन्निपत्वोपकारकं आरादुपकारकाद्बलीयः ।
ननु अवघातादि नाम भवतु बलीयः तस्य दृष्टार्थत्वात् आरादुपकारकस्य चादृष्टार्थत्वात् दृष्टे च सम्भवति श्रदृष्टार्थस्य अन्याय्यत्वात् । प्रोक्षणादि सन्निपत्योपकारकन्तु कथं बलोयः उभयोरदृष्टार्थत्वाविशेषात् । किञ्च चरादुपकारकं सात्ताप्रधानाङ्गं तस्यान्योद्देशेनाविधानात् । सन्निपत्योपकारकन्तु श्रङ्गाङ्ग कर्माङ्गव्रीह्याद्युद्देशेन विधानात् । श्रङ्गाङ्गापेचया च साक्षादङ्ग बलीयः । अङ्गगुणविरोधे तादर्थ्यादिति न्यायात् । अतएव इष्ट्या पशुना सोमेन यजेत सोमावास्यायां पौर्णमास्यां वा यजेतेत्यविशेषविधाने पर्वानुग्रहः सोमयागस्येव क्रियते न तहीक्षणीयादेः । अतः कथं सन्निपत्योपकारकस्य बलीयस्त्वम् । उच्यते । सत्यप्यदृष्टार्थत्वाविशेषे सनिपत्योपकारक मारादुपकारकाद्दलीयः । सन्निपत्योपकारके हि कर्मणि उपकाय्योंपकारकयोव्रहिप्रोक्षणतो: सम्बन्धो वाक्यक्ल प्तेः उपकारमात्रन्तु कल्पाम् । आरादुपकारकस्थले तु दर्शपूर्णमासप्रयाजयोः सम्बन्धः कल्पा उपकारोऽपि ।
किञ्च आरादुपकारकस्थले हि प्रकरणं विनियोजकम् । इतरत्र तु व्रीहौन् प्रोक्षतीति वाक्यमेव व्रीहिपदेना पूर्व साधनलक्षणं कृत्वा क्रतौ विनियोजकमिति बलीयस्त्वम् । यच्चोक्त' अङ्गगुणविरोधे तादर्थ्यादिति न्यायेन दुर्बलत्वमिति । तदमत् । न हि व्रीह्याद्युद्देशेन विधीयमानं प्रोक्षणादि तदर्थं भवति तत्स्वरूपे आनर्थक्यात् । किन्तु तत्संस्कारद्दारा क्रत्वर्यमेव सत्रियत्योपकारकाणामुत्पत्यपूर्व प्रयुक्तत्वस्य वच्यमाणत्वात् । अत उभ-
इति ।
यविधमप्यङ्गजातं क्रत्वर्थमेवेति नाङ्गगुणविरोधन्यायावतारः । दोक्षणीयादेः पर्वानुग्रहस्तु दोक्षणीयाद्यर्थं एव तस्य तदपूर्वप्रयुक्तत्वात् । अतो युक्त' साक्षात्प्रधानाङ्गेन पर्वानुग्रहेण स बाध्यत तत् सिद्धं सन्निपत्योपकारकाद्दलीयस्त्वम् । अतएव स्थाणो स्था एवाहुतं जु॒होतीति विहितास्था एवाहुतियूंपा व्रश्चनेति स्थाणुद्दारा यूपसंस्कारार्था देवदत्तधारितायाः स्रज: शुचिदेशविधानमिव देवदत्तसंस्कारार्थम् । न तु स्थाखाहुतिरा रादुपकारिकेत्युक्तं दशम इति दिक् । द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म आरादुपकारकं यथा प्रयाजादि । तदेवं निरूपितं द्विविधमप्यङ्गजातम् ।
तच्च न यागस्वरूपप्रयुक्तं स्वरूपे अनर्थक्यात् तदल्तरेणापि तत्सिद्धेः । किन्त्वपूर्वप्रयुक्तमेव । न हि तदन्तरेणापूर्व भवतोत्यत्र किञ्चित्प्रमाणमस्ति तस्यादृष्टत्वात् । न चैवं प्राधान्याददृष्टत्वाच्च फलप्रयुक्तत्वमेव किं न स्यादिति वाच्यम् । फलभावनायां यागस्य करणत्वात् । अङ्गानाञ्च करणानुग्राहकत्वात् तदर्थत्वे बुद्धे तत्र चानर्थक्यप्रसक्तौ तेन यागेन स्वापूर्वमेवोपस्थाप्यते सत्रिकर्षात् दोक्षणीयादिशब्देनेव तद: पूर्वम् । न तु फलमुपस्थाप्यते विप्रकर्षात् । अतो न तत्प्रयुक्तत्व-, मङ्गानाम् । अतएव अगन्मसुवः सुवरगन्मेति मन्त्रो विकृतावहितव्य इत्युक्तं नवमे । फल देवतयोश्चेत्यत्र फलप्रयुक्तत्वे तु सौय्यादि-, विकृतिषु स्वर्गरूपफलाभावात् मन्वा न प्रवर्त्तेत नितराञ्चोहि तथ्यः स्यादिति । तत्सिद्द मङ्गानामन्य प्रयुक्तत्वानुपपत्तेरपूर्वप्रयु:
तत्वम् ।
तत्रापि सन्निपत्योपकारकाणं द्रव्यदेवतादिसंस्कारद्वारा यागस्वरूपे उपयोगादुत्पत्त्य पूर्वार्थत्वम् । अतएव औषधधर्मविघातादीनामाज्येऽप्रवृत्तिः तेषामाग्नेयापूर्वप्रयुक्तत्वात् । श्रज्यस्य
च तदर्थत्वाभावादित्युक्तं द्वितीये । आरादुपकारकाणान्तु स्वरूपेऽनुपयोगात् परमापूर्वार्थत्वम् । तत्रोत्पत्त्र्यपूर्वस्य यागस्वरूपानुष्ठानानन्तरमेवोत्पद्यमानत्वात् सन्निपत्योपकारकाणां पूर्वाङ्गानां तदुत्पत्तावुपयोगः उत्तराङ्गानान्तु तेषां तत्स्थितावुपयोगः । परमापूर्वस्य तु साङ्गप्रयोगानुष्ठानानन्तरमेव उत्पद्यमानत्वात् सर्वेषां आरादुपकारकाणां तदुत्पत्तौ प्रयोगवहिर्भूतस्य तु तत्स्थितावुपयोगः । यथा बृहस्पतिसवस्य वाजपेयेनेष्ट्वा वृहस्पतिसवेन यजेति वाजपेयोत्तरकालमङ्गत्वेन विहितस्य वाजपेयापूर्वस्थितावुपयोगः तस्य प्रागेवोत्पन्नत्वादित्युक्तं चतुर्थे । तत्सिद्धं सर्वथाङ्गानामपूर्वार्थत्वम् ।
प्रकृतमनुसरामः । तदेवं निरूपितः संक्षेपतो विनियोगविधिः ।
प्रयोगप्राशुभावबोधको विधि: प्रयोगविधिः । स चाङ्गवाकयैकवाक्यतामापन्नः प्रधानविधिरेव । स हि साङ्ग प्रधानमनुष्ठापयन् विलम्ब प्रमाणाभावात् अविलम्वापरपय्यायं प्रयोगप्राशुभावं विधत्ते । न च विलम्बवदविलम्बेऽप प्रमाणाभाव इति वाच्यम् । विलम्बे हि अङ्गप्रधान विध्येकवाक्यतावगततत्साहित्यानुपपत्तिः प्रसज्यते । न हि विलम्बेन क्रियमाणयोः पदार्थयोः सहकतामतिसाहित्यं व्यवहरन्ति । न च एवं साहित्यानुपपत्त्या समकालत्वमेव स्यान्रत्वविलम्बः । अव्यवधानेन पूर्वोत्तरकालक्रियमाण्योः पदार्थयोर विलम्बेन 'कृतमिति व्यवहारादिति वाच्यम् । अनेकपदार्थानामेकस्मिन् कालेऽनुष्ठानानुपपत्तेः। न च तावत्कर्त्तृसम्प्रतिपादनेनानुष्ठानं किं न स्यादिति वाच्यम् । तस्यैतस्य यज्ञकर्त्तुश्चत्वार ऋत्विज इत्यादिना कत्र्त्तणां नियतत्वात् तस्मादङ्गवाको कातामापत्रः प्रधानविधिरेकवाक्या वगततत्साहित्यं विदधदुक्तविधया एककालानुष्ठानानुपपत्तेर विलम्बं विधत्ते । इति सिद्धं प्रयोगप्राशुभावबोधको विधि: प्रयोगविधिरिति ।
स च अविलम्बो नियते क्रमे आश्रियमाणे भवति । अन्यथा हि किमेतदनन्तरमेतत् कर्त्तव्यमेतदननन्तरमेवेति प्रयोगविक्षेपापत्तेः । अतः प्रयोगविधिरेव स्वविधैयप्रयोगप्राशुभावसिद्धार्थं नियतक्रममपि पदार्थविशेषणतया विधत्ते । तत्र क्रमो नाम विततिविशेषः पौर्वापर्व्यरूपो वा । तत्र च षट् प्रमाणानि श्रुत्यर्थपठनस्थानमुख्यप्रवृत्त्याख्यानि । तत्र क्रमपरं वचनं श्रुतिः । तदुद्दिविधं केवल क्रमपरं तद्विशिष्टपदार्थपरचेति तत्र वेदं कृत्वा वेदीं करोतीति केवलक्रमपरं वेदिकरणादेर्वचनान्तरेण विहितत्वात् । वषट्कर्त्तुः प्रथमभच्य रति तु क्रमविशिष्टपदार्थपरं एकप्रसरताभङ्गभयेन भक्ष्यानुवादेन क्रममात्रस्य विधातुमशक्यत्वात् । सेयं श्रुतिरितरप्रमाणापेक्षया बलवतो । तेषां वचन कल्पनाद्दारा क्रमप्रमाणत्वात् । अतएव आश्विनस्य पाठक्रमात् तृतीयस्थाने ग्रहणप्रसक्तौ श्रश्विनो दशमो ग्टह्यत इति वचनात् दशमस्थाने ग्रहणमित्युक्तम् ।
यत्र तु प्रयोजनवशेन निर्णय: स आर्थक्रमः । यथाग्निहोत्र होमयवागूपाकयोः । अत्र हि यवाग्वा होमार्थत्वेन तत्पाकः प्रयोजनवशेन पूर्वमनुष्ठीयते । स चायं पाठक्रमाबलवान् । यथापाठ ह्यनुष्ठाने क्ल सप्रयोजनबाधः श्रदृष्टार्थत्वञ्च स्यात् । न हि होमानन्तरं 'क्रियमाणस्य किञ्चिदृष्टं प्रयोज नमस्ति ।
पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः । तस्माच पदार्थानां क्रम आश्रीयते येनेह क्रमेण वाक्यानि पठितानि तेनैव क्रमेणाधीतानि अर्थप्रत्ययं जनयन्ति यथार्थप्रत्ययच्च पदार्थानामनुष्ठानात् । स च पाठो द्विविधो मन्त्रपाठो ब्राह्मणपाठश्चेति । तत्राग्नेयाग्नीषोमौययोस्तद्याजानुवाक्यानां क्रमात् यः क्रम आश्रयते स मन्त्रपाठक्रमात् । स चायं मन्त्रपाठी ब्राह्म-
णपाठक्रमाद्बलवान् अनुष्ठाने । ब्राह्मणवाक्यापेक्षया मन्त्रवाक्यस्यान्तरङ्गत्वात् । ब्राह्मणवाक्यं हि प्रयोगादुवहिरेवेदमेवं कर्त्तव्यमित्येवमवबोध्य कृतार्थमिति न पुन: प्रयोगकाले व्याप्रियते । मन्त्राः पुनः अनन्यप्रयोजनाः प्रयोगसमवेतार्थस्मारका इति वक्ष्यामः । तेनानुष्ठानक्रमस्य स्मरणक्रमाधीनत्वात् तत्क्रमस्य च मन्वक्रमाधीनत्वादन्तरङ्गो मन्त्रपाठ इतरस्मादिति बलवान् । अतएव आग्नेयाग्नीषोमयोर्ब्राह्मणपाठादादावग्नीषोमीयानुष्ठानं पश्चादाग्नीयानुष्ठानमित्येवक्रमं बाधित्वा मन्त्रपाठादादावाग्नेयानुष्ठानं पञ्चादग्नीषोमोयस्येत्युक्तम् ।
प्रयाजानां समिधो यजति तनूनपातं यजतीत्येवं विधायकवाक्य क्रमाद् यः क्रमः स ब्राह्मणपाठक्रमः । अत्र च यद्यपि ब्राह्मणवाक्यान्यर्थं विधाय कृतार्थानि तथापि प्रयाजानां स्मारकान्तरस्याभावात् तान्येव स्मारकत्वेन स्वीक्रियन्ते । तथाच येन क्रमेण तान्यधीताति तेनैव क्रमेणार्थस्मरणं जनयन्तौति युक्त तेनैव क्रमेण तेषामनुष्ठानमिति तत्सिद्धं प्रयाजानां ब्राह्मणपाठक्रम इति ।
ननु प्रयाजेषु प्रयोग समवेतार्थस्मारकत्वं विधायकत्वेन कृतार्थानां ब्राह्मणवाक्यानां किमिति स्वीक्रियते । प्रयोगसमवेतार्थस्मारकाणां याज्या मन्त्राणामाग्नेयादिष्विव अत्रापि सत्त्वात् । न च तेषां देवतास्मारकत्वात् कर्मस्मारकत्वेन ब्राह्मणवाक्यं खोक्रियत इति वाच्यम् । आग्नेयादिषु अपि कर्मस्मारकत्वेन तत्स्वीकारापत्तेः । न चेष्टापत्तिः । सति ब्राह्मणपाठान्मन्त्रपाठस्य बलीयस्त्व' न स्यात् । तद्दलोयस्त्वं हि मन्त्राणां प्रयोगसमवेतार्थस्मारकदमितरस्य तदस्मारकत्वमेवास्तु हेतुः । यदि च कर्मस्मारकत्वं ब्राह्मणवाक्यस्य तर्हि तत्स्मारकत्वेन ब्राज्ञणवाक्यस्यान्तरङ्गत्वादन्तरङ्गभूतदेवतास्मारकत्वेन च मन्त्राणां वहिरङ्गत्वात् मन्त्रपाठादुब्राह्मणपाठ'
तथा
स्यैष बलीयस्त्वं स्यात् । तथाच मन्वतस्तु विरोधे स्यादिति पाञ्चमिकाधिकरणविरोधः । तत्र हि
ब्राह्मणपाठान्मन्त्रपाठस्य बलीयस्त्वादादौ श्राग्रेयानुष्ठानं पश्चादग्नीषोमीयस्येत्युक्तम् । अथाग्नेयादिषु याज्यामन्त्रा एव देवताप्रकाशनद्वारा कर्मप्रका शकास्त्यज्यमानद्रव्योद्देश्यत्वरूपत्वात् देवत्वस्येति चेत्तुल्यं प्रयाजेषु । तत्रापि हि याज्यामन्या देवताप्रकाशकाः । प्रयाजेषु देवताया मान्ववर्णिकत्वात् तथाच प्रयाजेषु याज्यामन्त्राणां देवताप्रकाशनद्वारा कर्मप्रकाशकत्वात्तत्क्रमी मन्त्रपाठादेव स्यात् । न तु ब्राह्मणपाठक्रमात् । न च मन्त्रपाठस्यान्यादृशत्वात् प्रयाजक्रमो ब्राह्मणपाठक्रमादेवेति वाच्यम् । अन्यादृशत्वे तस्यैव क्रमस्यानुष्ठानं स्यात् मन्वक्रमस्य बलीयस्त्वात् । श्रभ्यासाधिकरणे च वार्त्तिकज्ञता क्रमविनियुक्तैवं लिङ्गकमन्त्र वर्णेत्यादिना प्रयाजेषु याज्यामन्त्राणां क्रमविनियोग उक्तो नवमे । तन्त्ररत्ने समिधोऽग्ने आज्यस्य व्यस्तु इत्यादिभिः क्रमप्रकरणप्राप्तैर्मन्त्रैर्देवतागुणत्वेन समर्थन्ते इत्युक्तम् । मन्त्राणामन्यादृशक्रमत्वे तदनुपत्तिः स्यात् । तत्कथं प्रयाजेषु ब्राह्मणपाठक्रमात् क्रम इत्युच्यते। सत्यमेतत् तथापि यत्त्रार्थस्मारका मन्त्रा न मन्त्येव यथा तूणीं विहितेषु कर्मसु तेषां क्रमो ब्राह्मणपाठक्रमात् तत्र तेषामेव प्रयोगममवेतार्थस्मारकत्वात् प्रयाजोदाहरणन्तु कृत्वा चिन्तया । तत्र ब्राह्मणवाक्यानां प्रयोगसमवेतार्थस्मारकत्वाभावात् । यथाहुरर्थवादचरणे वार्त्तिककाराः । प्रयाजादिवाक्यान्यर्थं समर्प्य चरितार्थानि स्वरूपसंस्पर्शे सत्यपि प्रयोज्यतां न प्रतिपद्यन्ते इति । तस्मात् समन्त्रककर्मणां पाठक्रमो मन्त्रपाठात् । अमन्त्रककर्मणां क्रमस्तु ब्राह्मणपाठक्रमादेवेति दिक् ।
प्रकृतौ नानादेशानां पदार्थानां विकृतौ वचनादेकस्मिन् देशेऽनुष्ठाने कर्त्तव्ये यस्य देशेऽनुष्ठीयन्ते तस्य प्रथममनुष्ठानमि-
तरयोस्तु पश्चादयं यः क्रमः म स्थानक्रमः । स्थानं नाम उप. स्थितिः । यस्य हि देशेऽनुष्ठीयन्ते तत्पूर्वतने पदार्थे कृते म एव प्रथममुपस्थितो भवतीति युक्तं तस्य प्रथममनुष्ठानम् । अतएव माद्यस्के अग्नीषोमीयमवनौयानुबन्ध्यानां मवनीयदेशे महानुष्ठाने कर्त्तव्ये आटो मवनीयपशोरनुष्ठानं तस्मिन् देशे आश्विनग्रहणानन्तरं मवनीयस्यैव प्रथमम्पस्थितेः । इतरयोस्तु पश्चात् । तथाहि ज्योतिष्टोमे त्रयः पशुयागा अग्नीषोमीयः मवनीय आनुबन्ध्यश्चेति । ते च भिन्नदेशाः अग्नीषोमीय औपवमध्ये ऽह्नि सवनोयः सुत्याकाले आनुबन्ध्यस्त्वन्ते । माद्यस्को नाम सोमयागविशेषः । म चाव्यक्तत्वात् ज्योतिष्टोमविकारः अतस्ते त्रयोऽपि पशुयागाः साद्यस्को चोदकप्राप्ताः । तेपाञ्च तत्र साहित्यं श्रुतं मह पशूनालभेदिति । तच्च साहित्यं सवनोये देशे तस्य प्रधानप्रत्यासत्तेः स्थानातिक्रमसाम्याच्च । सवनौयदेशे ह्यनुष्ठाने क्रियमाणे अग्नीषोमीयानुबन्ध्ययोः स्वस्वस्थानातिक्रममात्रं भवति । अग्नीषोमीयदेशे त्वनुष्ठाने सवनीयस्य स्वस्थानातिक्रममात्रं आनुबन्ध्यस्य तु स्वस्थानातिक्रमः सवनीयस्थानातिक्रमश्च स्यात् । एवमानुबन्ध्यदेशे अग्नीषोमोयस्य द्रष्टव्यः । तथाच सवनौयदेशे सर्वेषामनुष्ठाने कर्त्तव्ये सवनोयस्य प्रथममनुष्ठानं श्रखिनग्रहणानन्तरं हि सवनौयदेशः प्रकृतौ आश्विनग्रहं गृहीत्वा विवृत्ता यूपं परिवोयाग्नेयं मवनौयं पशुमुपाकरोति इत्याखिनग्रहणानन्तरं तस्य विहितत्वात् । तथाच साद्यस्केऽप्याश्विनग्रहणे कृते सवनीय एवोपस्थितो भवतीति युक्तं तस्य स्थानात् प्रथममनुष्ठानं इतरयोस्तु पश्चादित्युक्तम् ।
प्रधानक्रमेण योऽङ्गानां क्रम आश्रयते स मुख्यक्रमः । येन क्रमेण प्रधानानि क्रियन्ते तेनैव चेत् क्रमेण तेषामङ्गान्यनुष्ठीयन्ते तदा सर्वेषामङ्गानां खैः प्रधानैस्तुल्यं व्यवधानं भवति व्युत्क्रमेण
त्वनुष्ठाने केषाञ्चिदङ्गानां खैः प्रधानैरत्यन्तमव्यवधानमन्धेषामत्यन्तव्यवधानं स्यात् । तच्चायुक्तं प्रयोगविध्यवगत साहित्यबाधायत्तेः । अतः प्रधानक्रमोऽप्यङ्गक्रमे हेतुः । अतएव प्रयाजशेषेण आदौ आग्नेयहविषोऽभिघारणं पश्वादैन्द्रस्य दघ्नः । आग्नेयया-गेन्द्रयागयोः पौर्वापर्ययात् । अत्र हि द्वयोरभिघारणयोः स्पेन खेन प्रधानेन तुल्यमेकान्तरितव्यवधानं भवति । आग्नेय हविरभिघा रणाग्नेययागयोरेन्द्रयागहविरभिघारणेन व्यवधानात् ऐन्द्र. यागहविरभिघारणेन्द्र या गोश्चाग्न ययागेन व्यवधानात् । अतवादावाग्नयहविरभिघारणं तत ऐन्द्रस्य हविषस्तत आग्नेययागस्ततश्च ऐन्द्रो याग इत्येवंक्रमो मुख्यक्रमात् सिद्धो भवति । यदि त्वादावेन्द्र हविषोऽभिघारणं तत आग्नेयस्य हविषोऽभिघारणं क्रियते तदा याज्यानुवाक्यात् क्रमवशादादावाग्ने यस्यानुष्ठानादौ श्राग्नेययागतदङ्गहविरभिघारणयो-
रत्यन्तमव्यवधानमैन्द्रयागतदङ्गहविरभिघारणयोस्त्वत्यन्तव्यवधानं स्यात् तच्च न युक्तम् । अतो युक्तः प्रयाज़शेषाभिघारणस्य मुख्यक्रमात् क्रम इति । स चायं मुख्यक्रमः पाठक्रमाद दुर्बलः । मुख्यक्रमो हि प्रमाणान्तरसापेक्षप्रधानक्रमप्रतिपत्तिसापेक्ष तया विलम्बितप्रतिपत्तिकः पाठक्रमस्तु निरपेक्षस्वाध्यायपाठक्रममात्रसापेक्षतया न तथेति बलवान् । अतएव आग्नेयोपांशुयाज्याग्नीषोमीयानां क्रमेणानुष्ठीयमानानामपि उपांशुयाज्य।ज्यनिर्वापयोर्मु ख्यक्रमात् न पूर्वमनुष्ठीयते तस्य दुर्बलत्वात् । पाठक्रमात्तु पश्चादनुष्ठीयते तस्य प्रबलत्वादिति ।
स च अयं मुख्यक्रमः प्रवृत्तिक्रमाद्दलवान् । प्रवृत्तिक्रमे हि आश्रीयमाणे बहूनामङ्गानां प्रधानविप्रकर्षो भवति । श्रस्मिंस्त्वाश्रीयमाणे सन्निकर्षः । तद्यथा । दर्शपूर्णमासयोरादावाग्नयानुष्ठानं ततः सान्नाय्यस्य तदर्माश्च केचित् पूर्वमनुष्ठीयन्ते तत्र
यदि प्रवृत्तिक्रममाश्रित्य तद्धर्माः सर्वे पूर्वमनुष्ठीयेरन् तत आग्नेयधर्माः तत आग्न यानुष्ठानं ततः सान्नाय्यानुष्ठानं तदा तद्धर्माणां स्वप्रधामेन सह द्वाभ्यामाग्न यधर्म तदनुष्ठानाभ्यां विप्रकर्षः स्यात् । यदा तु सान्नाय्यधर्माणां केषाञ्चित् पूर्वमनुठानेऽपि श्रन्ये सर्वे मुख्यक्रममाश्रित्याग्न यधर्मानुष्ठानानन्तरमनुष्ठीयन्ते तदा सर्वेषामाग्न यधर्मसानाय्यधर्माणामकैकेन विजातीयेन व्यवधानं भवति श्रग्नयधर्माणां स्वप्रधानेन सह साम्राय्यधर्मेर्व्यवधानात् । सानाय्यधर्माणां स्वस्वप्रधानेन सह आग्नेयानुष्ठानेन व्यवधानादिति न विप्रकर्षः । तस्मान्मुख्यक्रमः प्रवृत्तिक्रमाद्दलवान् । सह प्रयुज्यमानेषु प्रधानेषु सन्निपातिनामङ्गानामावृत्त्यातुष्ठाने कर्त्तव्ये द्वितीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमाद यः क्रमः स प्रवृत्तिक्रम: । यथा प्राजापत्याङ्गेषु । प्राजापत्या हि वैश्वदेवीं कृत्वा प्राजापत्येश्चरन्तौति वाक्येन तृतीयानिर्देशात् सेतिकर्त्तव्यताका एककालेन विहिताः । अतस्तषां तदङ्गानां चोपाकरण नियोजनप्रभृतानां साहित्यं सम्पाद्यम् । तत्र प्राजापत्यानां सम्प्रतिपन्नदेवताकत्वेने कस्मिन् कालेऽनुष्ठानादुपपद्यते साहित्यं तदङ्गानाञ्च एकस्मिन् कालेऽनुष्ठानमशक्यम् । नहि अनेकेषां पशूनामुपाकरणमेकस्मिन् काले कर्त्तुं शक्यम् । अतस्तेषां साहित्यम् अव्यवधानेनानुष्ठानात् सम्पाद्यम् एकस्योपाकरणं कृत्वा परस्योपाकरणमिति । अतः प्राजापत्येषु एकं पदार्थं सर्वत्रानुष्ठाय द्वितीयः पदार्थोऽनुष्ठेयः । तत्र प्रथ म पदार्थानुष्ठानं कस्यचित् पशोरारभ्य कर्त्तव्यम् । द्वितीयस्तु पदार्थों येन क्रमेण प्रथमोऽनुष्ठितस्तेनैव क्रमेणानुष्ठेयः । प्रयोगविध्यवगतस्य मिथोऽङ्गसाहित्योपपत्तये । प्रयोगविधिना हि दैत्रे तदङ्गानामुपाकरणनियोजनादीनां मिथः साहित्यमानन्त-
परपर्य्यायं विहितं तच्च साहित्यं सवनीयपशौ चोदकेन प्राप्तं तस्य प्राणिद्रव्यकत्वेन दैविकृतित्वात् सवनीयाश्च एकादशीनेषु प्राप्तं सुत्या कालत्वसामान्यात् तेभ्यश्च प्राजापत्येषु प्राप्तं गुण-' त्यसामान्यात् प्राजापत्येषु च प्रतिपशुयागभेदाच्चोदका भिद्यन्ते । अतश्चोदकात् तत्तत्पश्खङ्गभूतानाम् उपाकरण नियोजनादीनां साहित्यमानन्तया परपव्यायप्राप्तम् । श्रतएव एकस्य पशोरुपाकरणानन्तरमेव नियोजनं चोदकबलात् कर्त्तव्यत्वेन प्राप्तम् । तच्च न क्रियते प्रत्यक्षवचनावगत सर्व पश्खङ्गसाहित्यानुपपत्तेः । अत एकस्मिन् पशौ उपाकरणे कृते तदनन्तरमेव कर्त्तव्यत्वेन प्राप्तमपि नियोजनं न क्रियते । प्रत्यक्षवचनबलात्तु पश्वन्तरेषु षोड़षसु उपाकरणमेव स्वीक्रियते । कृते तु तेषु उपाकरणे प्रथमपशोर्नियोजनस्य तदीयोपाकरणेन व्यवधाने प्रमाणाभावात् प्रथमपशावेव नियोजनं कार्य्यम् । अतश्च येन क्रमेणोपाकरणं कृतं तेनैव क्रमेण नियोजनं कार्य्यम् । एवञ्च तत्तत्पशूपाकरगणानां स्वस्वनियोजनैस्तुल्यं षोड़शक्षणैर्व्यवधानं भवति । अन्यथा केषाञ्चिदत्यन्तं व्यवधानं केषाञ्चिदव्यवधानं स्यात् । तच्च न युक्तम् । तस्माद्येन क्रमेण प्रथमः पदार्थोऽनुष्ठितस्तेनैव द्वितीयोऽनुष्ठेयः । तत्सिद्धं प्रथमानुष्ठितपदार्थक्रमायो द्वितीयपदार्थक्रमः स प्रवृतिक्रम इति । तदेवं निरूपितः संक्षेपतः षड्विधक्रमनिरूपणेन प्रयोगविधिव्यापारः ।
फलस्वाम्यबोधको विधिरधिकारविधिः । फलस्वाम्यच्च कर्मजन्यफलभोक्तृत्वं स च यजेत स्वर्गकाम इत्येवंरूपः । अनेन हि स्वर्गमुद्दिश्य यागं विदधता स्वर्गकाम्यस्य यागजन्यफलभोक्तृत्वं प्रतिपाद्यते । यस्या हिताग्नेरग्निगृहान् दहेत् सोऽग्नये क्षामवते श्रष्टाकपालं निर्वपेदित्यादिभिस्त्वग्निदाहादौ निमित्ते कर्म विदधद्भिर्निमित्तवतः कर्मजन्यपापक्षय-
रूपफलखाम्यं प्रतिपाद्यते । तच्च फलस्वाम्य' तस्यैव योऽधिकारिविशेषणविशिष्टः । श्रधिकारिविशेषणञ्च तदेव यत् पुरुषविशेषणत्वेन श्रुतम् । अतएव राजा राजसूयेन खाराज्यकामो यजेतेत्यनेन स्वाराज्यमुद्दिश्य राजसूयं विदधतापि न स्वाराज्यकाममात्रस्य तत्फलभोक्तृत्वं प्रतिपाद्यते । किन्तु राज्ञः सतस्तत्कामस्य किञ्चित्पुरुष विशेषणत्वेनाश्रुतमपि अधिकारिविशेषणं भवति । यथाध्ययनविधिसिद्धा विद्या अग्निसाध्येषु च कर्मसु प्रधानसिद्धाग्निमत्ता सामर्थ्यञ्च एतेषाम् पुरुषवि शेषणत्वेनाश्रवणेऽपि अधिकारिविशेषणत्वमस्त्येव । उत्तरक्रम विधीनां ज्ञानाचेपाशक्तेरभावेन अध्ययनविधिसिद्धज्ञानवन्तं प्रत्येक प्रवृत्तेः । अतएव शूद्रस्य न यागादावधिकारः तस्याध्ययनविधिसिद्धज्ञानाभावात् आधानविधिमिवाग्नेरभावाच्च । अग्निसाध्यकर्मणां चाग्न्यपेक्षत्वेन तद्दिधीनामाधान सिद्धाग्निमन्तं
प्रत्येव प्रवृत्तेः । श्रध्ययनस्योपनीताधिकारत्वात् उपनयनस्य चाष्टवर्षं ब्राह्मणमुपनयोतेत्यादिना वैवर्णिकाधिकारत्वात् । तथा आधानस्यापि वसन्ते ब्राह्मणोऽग्नीनादधीतेत्यादिना त्रैवर्णिकाधिकारित्वात् । यद्यपि वर्षासु रथकारोऽग्नीनादधीतेत्यनेन रथकारस्य सौधन्वनापरपय्यायस्याधानं विहितं योगाटूढ़े र्बलीयस्त्वात् तथापि न तस्योत्तरकर्मस्वधिकार : अध्ययनविधिसिद्धज्ञानाभावात् । न च तदभावे आधानेऽपि कथमधिकारः तदनुष्ठानस्य तत्साध्यत्वादिति वाच्यम् । तस्याध्ययनविधिसिद्दज्ञानाभावेऽपि वर्षासु रथकारोऽग्नीनादधीतेत्यनेनैव विधिना श्राधानमात्रौपयिकज्ञानापेक्षणात् । अन्यथा तस्यैव विधानानुपपत्तेः । अतश्च रथकारस्याधानमात्रेऽधिकारेऽपि जोत्तर कर्मस्वधिकारो विद्याभावात् । एवञ्च तदाधानं नाग्निः संस्कारार्थम्। संस्कृतानामग्नीनामुत्तरत्रोपयोगाभावात् । किन्तु
तदाधानं लौकिकाग्निगुणकं विश्वजिन्यायेन स्वर्गफलच स्वतन्वमेव प्रधानकर्म विधोयते अग्नीनिति च द्वितीया । शक्तून् जुहोतीतिवत्तृतीयार्थे इति । प्रकृतमनुसरामः । तत्सिद्धं शूद्रस्याध्ययनविधिसिद्धज्ञानाभावादाधान सियाग्नप्रभावाच्च नोत्तरकर्मस्वधिकार इति ।
।
ननु एवं स्त्रिया अधिकारो न स्यात् तस्यो अध्ययनप्रतिषेधेन तद्दिधिसिद्दज्ञानाभावात् । न च नास्त्येवेति वाच्यम् । यजेत स्वर्गकाम इत्यादी स्वर्ग का मपद स्योद्देश्य समर्थकत्वेन पुंस्त्वस्योहेश्य विशेषणत्वात् ग्रहैकत्ववदविवक्षितत्वेन स्त्रिया अधिकारस्यासाध्यत्वादिति चेन्नैवम् । अधिकारः साधितो न तु स्वातन्त्राण । न स्त्री स्वातन्त्रा मर्हतीत्यादिना तस्य निषिद्धत्वात् । स्वातन्त्राण कर्त्तृत्वे प्रयोगद्दयस्यापि वैगुण्यापत्तेश्च । यजमानप्रयोगे पत्नीकर्तृकाज्या वेक्षणादिलोपप्रसङ्गात् पत्नीप्रयोगे च यजमानकर्त्तृकाज्या वेचणादिलोपात् । अतो दम्पत्योः सहाधिकारः । सहाधिकारत्वे च यजमानविद्ययैव पत्ना अपि कार्यसिद्धेर्नज्ञानं विना तस्या अधिकारानुपपत्तिः । पाणिग्रहणात्तु महत्वं सर्वेषु कर्मसु तथा पुण्यफलेष्विति वचनेन स्त्रिया अधिकारनिर्णयाञ्च । निषादस्थ पतेरिवाध्ययनविधिसिद्दज्ञानविरहिणोऽपि एतया निषादस्थपतिं याजयेदिति वचनानिषादेष्ट्या निषादस्थपतिशब्दे हि निषादव स्थपतिश्चेति कर्मधारयो नतु निषादानां स्थपतिरिति षष्ठीतत्पुरुषः षष्ठार्थे लक्षणापत्तेः । एतावांस्तु विशेषः । निषादस्याध्ययनविधिसिद्धज्ञानाभावेनैतस्यैव विधेस्तत्क मौपयिकज्ञानाचेपकत्वं पनप्रास्तु तादृशज्ञानाभावेऽपि यजमानेन सहाधिकारात्तस्य च तादृशज्ञानवत्त्वात्सेनैव च तस्याः कार्य्यसिद्धेर्नोत्तरक्रतुविधीनां ज्ञानाचेपकत्वम् । ये तु पत्नीमात्रकर्त्तृका: पदार्थाः श्राज्यावेक्षणा-
दयस्ते ज्ञानं विना शक्यानुष्ठाना इति तद्दिधीनां तदाचैपकत्व स्वीक्रियते इति । तत्सिद्धं अध्ययनविधिसिद्धज्ञानस्याधानविधिसिद्धाग्निमत्तायाश्चोत्तरकालकर्मसु अधिकारिविशेषणत्वमिति । एवं सामर्थ्यस्याप्यधिकारिविशेषणत्वं असमर्थं प्रति विध्यप्रवृत्तेः । आख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणोति न्यायात् । तञ्च सामर्थ्यं काम्ये कर्मणि अङ्गप्रधानविषयं नत्वङ्गासमर्थः प्रधानमात्रसमर्थश्च काम्येऽधिकारी । प्रधानविधेरङ्गविध्येकवाक्यतापत्रस्य साङ्गकर्म समर्थं प्रत्येव प्रवृत्तेः यथाविनियोगमधिकारात् । यदि हि समर्थं प्रति हि कयाचित् श्रुत्या विरोधः स्यात् तदा समर्थस्याप्यधिकारः स्यात् । न च विरोधोऽस्ति स्वर्गकामश्रुतेः समर्थ प्रति प्रवृत्तौ विरोधाभावात् । प्रत्युतासमर्थं प्रति प्रवृत्तौ प्रधानविधेरङ्गवा क्यैकवाक्यतया प्रतिपत्रस्याङ्गसाहित्यस्य बाधापत्तेः नित्यवत् श्रुतानामङ्गानां पाचिकत्वप्रसङ्गाच्च । अतः साङ्गे प्रयोगे समर्थस्यैव काम्य कर्मण्यधिकारः नित्यकर्मणां त्वङ्गेषु यथाशक्ति न्यायः । तानि हि यावज्जीवश्रुत्या यावज्जीवं कत्र्त्तव्यत्वेन चोदितानि । न च यावज्जीवं केनापि साङ्गः प्रयोगः कर्त्तुं शक्यते । श्रतो नित्यकर्मसु प्रधानमात्त्रसमर्थोऽधिकारी । श्रङ्गानि तु यावन्ति कर्त्तुं शक्यन्ते तावन्ति कार्य्याणोति आस्तां बहुत्या सूरिभिः पराक्रान्तत्वात् । तत्सिद्धं फलस्वाम्यबोधको विधिरधिकारविधिरिति । तदेवं निरूपितं चतुर्विधभेदनिरूपणेन विधेः प्रयोजनवदर्थ पय्यैवसानं मन्त्राणाञ्च प्रयोगसमवेतार्थ स्मारक तयार्थवत्त्वम् । नतु तदुच्चारणमदृष्टार्थम् । दृष्टे सम्भवति श्रदृष्टस्यान्याय्यत्वात् । न च दृष्टस्य प्रकारान्तरेणापि सम्भवान्मन्त्रान्नानमनर्थकम् । मन्त्रैरेव स्मर्त्तव्यमिति नियमविधिश्रवणात् ।
साधनद्दयस्य पचप्राप्तौ पन्यतरस्य साधनस्याप्राप्ततादशायां यो विधिः स नियमविधिः । यथाहु:-
श्रमिचापदसानिध्यादामिचारूपो
यथाहु:-
विशेष इत्यवगम्यते ।
आमिक्षां देवतायुक्तां वदत्येवैष तद्दितः । श्रमिक्षापदसान्निध्यात्तस्यैव विषयार्पणम् ॥ इति ॥
तथा ।
श्रुत्यैवोपपदसमानार्थः सर्वनाम्ना प्रतीयते । तदर्थस्तडितेनैव त्रयाणामेकवाक्यता ॥ इति ॥
तस्माद्यथा वैश्वदेवोशब्दोपात्तविशेषसमर्पकत्वेनामिक्षापदस्य वैश्वदेवोशब्देन सामानाधिकरण्यम् । एवं सामान्यस्य अविधेयत्वात् यज्यवगतयागविशेषसमर्पकत्वेन नामधेयस्य यजिना सामानाधिकरण्यम् । तत्सिद्ध नामधेयानां विधेयार्थपरिच्छेदकतयार्थवत्त्वम् । यथाहु: तदधीनत्वाद्यागविशेषसिद्धेरिति । नामधेयत्वञ्च निमित्तचतुष्टयात् मत्यर्थ लक्षणाभयात् वाक्यभेदभयात् तत्प्रख्यशास्त्रात् तापदेशाच्च इति । तत्र उद्भिदा यजेत पशुकाम इत्यत्रोविच्छब्दस्य यागनामधेयत्वं मत्वर्थलचणाभयात् । तथाहि उद्भिच्छब्दस्य गुणसमर्पकत्वे यागानुवादेन तावन्न गुणविधानं युज्यते फलपदानर्थक्यापत्तेः । न च अनेन वाक्येन फलं प्रति यागविधानं तस्मिंश्च गुणविधानं युज्यते वाक्यभेदापत्तेः । नापि गुणफल सम्बन्धविधानं सम्भवति परपदार्थविधानेन विप्रकृष्टा विधानापत्तेः । धात्वर्थस्य स्वरूपेणाविधानात् तदुद्देशेन वा अन्यस्य कस्यचिदविधानात् । धातोरत्यन्तपारार्थ्यापत्तेश्च यज्या नर्थ क्यापत्तेश्च । न हि तदानेन करणं समर्प्यते गुणस्य करणत्वेनान्वयात् । नापि फलं पशोर्भाव्यत्वेनान्वयात् । अथ "गुणफल सम्बन्ध विधाने तु यागस्याश्रयत्वेन सम्बन्ध इति चेन्न ।
यजेतेत्यत्राश्रयत्ववाचकपदाभावात् । अथ सिद्धान्ते करणत्व-
मिवाश्रयत्वमपि लक्ष्यमिति चेत्र । श्रश्रयत्वापेचया करणत्वस्य लघुत्वेन तल्लक्षणाया एव युक्तत्वात् । फलाय विधीयमानो गुणो यत्र कारकतामापद्यते स आश्रयः तत्त्वञ्चाश्रयत्वम् । करणत्वञ्च निष्ठा शक्तिरिति लाघवम् ।
किञ्च गुणफलसम्बन्धविधाने करणीभूतो गुणस्तनिष्ठं वा करणत्वञ्च फलोद्देशेन विधेयम् । तत्राधेयपक्षे करणत्वस्य गुणोपसर्जनत्वेन प्रतोतिर्लक्षणयैव वाच्या तस्य तृतीयया प्रत्ययार्थत्वात्प्राधान्येनोपस्थितेः । यदपि गुणनिष्ठ करणत्वं फलोद्देशेन विधेयम् तदपि फलभावनायाः करणत्वेनान्वययोग्य गुणनिष्ठ करणत्वोपस्थितिर्लक्षणचैव वाच्चा |
तृतीयाभिहि तस्य करणत्वस्य क्रियान्वययोग्यस्य करणत्वेनान्वयायोग्यत्वात् । करणशब्देनाभिहितं करणकारकं तत्त्वेनान्वययोग्यम् न टतो. याभिहितम् । करणशब्दवत् तृतीयातस्तृतीयोत्पत्तिप्रस ङ्गात् । अतश्च करणत्वेनान्वय योग्य गुण निष्ठकरणत्योपस्थितिलक्षण्यैव वाच्या | लक्षण्या चोपस्थित करणत्वस्य करणीभूतस्य वा गुणस्य यत् फलभावनायां करणत्वं तदपि लक्षणयैव वाच्यम्। श्रूयमाण्या हृतीयया गुणमात्रय यागं प्रति करणत्वाभिधानात् । अतएव तन्त्ररने चतुर्थं करणो भूतगोदोहनादेः पश्खर्थं समभिव्याहारादित्युक्तम् । 'अतश्च गुणफल सम्बन्धविधाने धातोरत्यन्त पारार्थ्यादिव हुदोषवत्त्वात् उद्भिच्छब्दस्य गुणसमपंकत्वे न गुणविशिष्टकर्मविधानमेव स्वीकार्यम् । तथा सति हि यजिना लघुभूतं करणत्वमात्रं लक्ष्यम् ।
उद्भिच्छब्देन च प्रत्यंशेन मत्वर्यमात्र लक्ष्य मिति गुणफलसम्बन्धविधानाल्लाघवं भवति । धातोरत्यन्तपारार्थ्यादिकन्तु न भवत्येव धात्वर्थस्यैव फलोद्देशेन विधानात् । अतथोडिच्छब्दस्व गुणसमर्पकत्वेन मत्वर्थं लक्षयित्वा गुणविशिष्टं कर्मविधानं खो-
विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्तौ परिसंख्येति गोयते ॥
अस्यार्थः । यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधिः सः अपूर्वविधि: । यथा यजेत स्वर्गकाम इत्यादिः । यागस्य हि स्वर्गार्थत्वं न प्रमाणान्तरेण ज्ञायते किन्त्वनेनैव विधिनेति भवत्ययमपूर्वविधिः । पचे प्राप्तस्य तु यो विधि: स नियमविधिः यथा व्रोहोनव हन्यादित्यादिः । अनेन हि विधिना अवघातस्य न वैतुष्यार्थत्वं बोध्यते । अन्वयव्यतिरेक सिद्धत्वात् । किन्तु नियमः स च अप्राप्तांगपूरणं वेतुव्यस्य हि नानोपायसाध्यत्वात् । यस्यां दशायां अवघातं परित्यज्योपायान्तरं ग्रहीतुमारभ्यते तस्यां दशायां अवघातस्याप्राप्तत्वेन तद्विधानात्मकं श्रप्राप्तांशपूरणमेव श्रनेन विधिना. क्रियते । श्रतश्च नियमविधौ अप्राप्तांगपूरणात्मको नियम एव वाक्यार्थः । पक्षे अप्राप्ततादशायां अवघातविधानमिति यावत् । न तु पूर्वविधाविवात्यन्ताप्राप्तौ याग विधानमिति ।
उभयस्य युगपत्प्राप्तावितरव्यावृत्तिको विधि: परिसंख्याविधिः । यथा पञ्च पञ्चनख्वा भच्छा इति । इदं हि वाक्यं न भक्षणविधिपरं तस्य रागतः प्राप्तत्वात् । नापि नियमपरम् । पञ्चनवापञ्चनखभक्षणयोर्युगपत्प्राप्तेः पचे प्रत्यभावात् । श्रत इदमपञ्चनखभक्ष निवृत्तिपरमिति भवति परिसंख्याविधिः । सा च परिसंख्या द्विविधा श्रौतो लाक्षणिको चेति । तत्रात्र होवावपन्तीत्यव श्रोत परिसंख्या । एवकारेण पवमानातिरिक्तस्तोत्रव्यावृत्तेरविधानात् । पञ्च पञ्चनखा भक्ष्या इत्यव तु लाक्षणिको इतर निवृत्तिवाचकपदस्याभावात् । श्रतएवैषा त्रिदोषग्रस्ता । दोषत्रयञ्च श्रुतहानिरश्रुतकल्पना प्राप्तबाधश्रुतस्य पञ्चनखभचणस्य हानात् । अश्रुतापञ्च.
खेति ।
नखभक्षणनिवृत्तिकल्पनात् । प्राप्तस्य चापञ्चनखभचणस्य बाधनादिति । अस्मिंश्च दोषत्रये दोषइयं शब्दनिष्ठं प्राप्तबाधस्तु दोषोऽर्थनिष्ठ इति दिक् ।
तत्सिद्धं मन्त्रैरेव स्मर्त्तव्यमिति नियमविध्याश्रयणान्र मन्त्राम्नानमनर्थकम् । अतश्च युक्तं मन्त्राणां प्रयोगसमवेतार्थस्मारकतयार्थवत्त्वम्। तन्न। ये मन्त्रा यत्र पठितास्तेषां तत्र यद्यर्थप्रकाशनं प्रयोजनं सम्भवति तदा तत्रैव विनियोगः । येषान्तु न सम्भवति तेषां यत्र सम्भवति तत्रोत्कर्षः । यथा पूषानुमन्त्रणम न्वाणामित्युक्तम् । येषां क्वापि न सम्भवति तदुच्चारणस्य त्वगत्या दृष्टार्थत्वं सर्वथा अपितु तेषां नानर्थक्यमिति । नामधेयानां विधेयार्थपरिच्छेदकतयार्थवत्त्वम् । तथाहि उद्भिदा यजेत पशुकाम इत्यत्र हि उद्भिच्छब्दो यागनामधेयम् । तेन च विधेयार्थपरिच्छेदः कियते । अनेन हि वाक्येनाप्राप्तत्वात् फलोद्दे शेन यागो विधीयते । यागसामान्यस्य चाविधेयत्वाद्यागविशेष एक विधीयते । तत्र कोऽसौ विशेष इत्यपेक्षायाम् उद्भिच्छब्दादुद्भिदूपो यो याग इति ज्ञायते । उद्भिदा यागेनेति सामानाधिकरण्येन नामधेयान्वयात् । तस्य च यजिना सामानाधिकरण्यं न नौलोत्पलादिशब्दवत् । तत्र हि उत्पलशब्दस्यार्थादुत्पलादन्यो नोलशब्दस्य वाच्योऽर्थोऽस्ति नीलंगुणः । लक्षण्या तु नीलशब्दस्य द्रव्यपरत्वेन सामानाधिकरण्यम् । उद्भिच्छव्दस्य तु यज्यवगतयागविशेषान्नान्यो वाच्चोऽर्थोऽस्ति विशेषवाचित्वात्तस्य अतश्चायौन्तरवाचित्वाभावेन न नामधेयस्य नीलशब्दवत्सा सामानाधिकरण्यम्। किन्तर्हि वैश्व देव्यामि चेत्यत्र श्रामिचाशब्दवत् । वैश्वदेवोशब्दस्य हि देवतातचितत्वात् तडितस्य च सांस्य देवतेति सर्वनामार्थस्मरणात् सर्वनाम्नां चोपस्थितविशेषवाचित्वेन विशेषपरत्वम् । तत्र कोऽसौ वैश्वदेवोशब्दोपात्तो विशेष इत्यपेचायां
काय्र्यम् । उद्भिता यागेन पशु भावयेदिति । कर्मनामधेयत्वे तु उद्भिच्छन्दस्य न मत्वर्थ लक्षणा मुख्ययैव वृत्त्या यजिसामानाधि करण्येन तस्यान्वयसम्भवात् । उद्भिदा यागेन पशु भावयेदिति भवति च मुख्येऽर्थे लक्षणा श्राश्रयितुं न युक्ता सन्निकृष्टविधानन्तु समानमेव । न च एवं सोमेन यजेतेत्यत्रापि सोमपदस्य यागनामधेयत्वापातो गुणविधित्वे मत्वर्थलक्षणापत्तेरिति वाच्यम् । सोमपदस्य लतायां रूढत्वेन यागनामधेयत्वानुपपत्तेरगत्या तदाश्रयणात् । उद्भिच्छब्दस्य तु नैवं वाच्योऽर्थः कश्चित् प्रसिद्धः । उद्भिद्यते अनेनेति योगस्य तु गुण इव यागेऽपि फलोद्भेदनकारिणि उपपत्तेः । तत्सिद्द उह्निच्छन्दस्य मत्वर्थ लक्षणाभयाद्यागनामधेयत्वमिति ।
चित्रया यजेत पशुकाम इत्यत्र चित्राशब्दस्य वाक्य भेदभ यात् कर्मनामधेयत्वम् । तथाहि न तावदत्र गुणविशिष्टयागविधानं सम्भवति । दधि मधु पयो घृतं धाना उदकं तण्डुलास्तत्संसृष्टं प्राजापत्यमित्यनेन विहितत्वाद्यागस्य विशिष्टवि. धानानुपपत्तेः । प्राप्तस्य च यागस्य फल सम्बन्धे गुणसम्बन्धे च विधीयमाने वाक्यभेदः । श्रथ चित्राशब्दाच्चित्रत्वस्त्रीत्वयोः प्रतिपत्तेः । स्त्रीत्वस्य च स्वभावतः प्राणिधर्मत्वात् प्रकृते दध्यादिद्रव्य के कर्मणि निवेशायोगान्नानेन वाक्येन । प्रक्कते कर्मणि गुणविधानम् । किन्तु प्राणिद्रव्यके कर्मणि तत्रास्य वाक्यस्यानारभ्याधीतत्वात् । श्रनारभ्याधीतानाञ्च प्रकृतौ वा हिरुक्तत्वादिति न्यायेन प्रकृतिगामित्वात् प्राणिद्रव्यकाणाञ्च यागानां दैचस्य चेतरेष्विति न्यायेनाग्नीषोमीयप्रकृतिकत्वात् तदनुवादेनानेन वाक्येन गुणो विधीयते । दैचस्य च ज्योतिष्टोमाङ्गत्वेन स्वतन्त्रफलाकाङ्क्षाया अभावात् ติ पशुकामपदं फलसमर्पकं किन्त्वग्नि सोमीयपश्वर्पणाङ्गतया
प्राप्तकामनानुवादः । तथाच न वाक्यभेद इति चेत्र । तथापि देवानुवादेन चित्रत्वस्त्रीत्वविधाने वाक्यभेदात् विशिष्टकारक विधानेऽपि गौरवलक्षणो
वाक्यभेद एव ।
पशु.
कारकस्यापि प्राप्तत्वेन विशिष्टविधानानुपपत्तेश्च । कामपदस्यापि स्वरसतः फलपरस्य कामनानुवादत्वे आनर्थक्या पत्तेश्च ।
न च नियमतः पश्वर्पणकामना भवति । कामनातः प्रागेव केनचिद्दत्ते पशौ तदभावात् । तथाच पशुकामपदस्य नित्यवच्छ्रवणबाधः । दैचस्योत्पत्तिशिष्टपुंस्त्वावरुद्धत्वेन तत्र स्त्रीत्वविधानानुपपत्तेय | आमिक्षायागानुवादेन वा अजिनविधानवत् । कृष्ण सारङ्गोऽग्नीषोमीय इति विशेषविहितेन खसविधिपठितेन च कृष्णसारङ्गवर्णेनावरुडे चित्रत्वस्यानारभ्याधीतत्वेन सामान्यशास्त्रेण विधानानुपपत्तेश्च पाञ्चदश्यावरुद्ध डव साप्तदश्यविधानम् । श्रथ माभूदग्नीषोमीयपश्वनुवादेन चित्रत्व स्त्रोत्ववि धानम् । सारखतो मेषोति वाक्यविहितयागाङ्गमेष्यनुवादेन तु गुणविधानं स्यात् । चित्त्रयेति स्त्रीकारकानुवादेन चित्रत्वमात्रविधानात् । न च प्राकृतेन कृष्णसारङ्गवर्णेन नैराकाङ्क्षयात्र चित्रत्वविधानं युक्तमिति वाच्यम् । उपदिष्टेन चित्रत्वेनातिदिष्टस्य वर्णान्तरस्य बाधोपपत्तेरिति चेन्मैवम् । न हि चित्रयेत्येकेन पदेन स्त्रीकारकस्योद्देशं कृत्वा चित्रत्वस्य च विधानं सम्भवति । एकप्रसरताभङ्गलचणवाक्य भेदापत्तेः । उद्देश्य विधेयभावस्यानेकपदसाध्यत्वात् । अतएव वषट्कर्तुः प्रथमभच्य इत्यत्र विशिष्टभक्ष्य विधिर्नतु भक्ष्यानुवादेन प्राथम्यविधिरित्युक्तं तृतीये मेष्यनुवादेन चिवत्वविधाने फलपदानर्थक्यापत्तेश्च । उभयविधाने वा क्यभेदात् । प्रकृतस्य च यागस्य फलाकाङ्क्षाया अनिवृत्तेः । विश्वजिन्यायेन फलकल्पने गौरवम् । मधुदध्वित्याद्युत्पत्तिवाक्येन एत-
स्याधिकारवाक्यस्य प्रतिपन्नैकवाक्यताबाधेन
वाक्यभेदप्रस-
ङ्गाच्च । चित्राशब्दस्य कर्मनामधेयत्वे तु प्रकृतस्य कर्मणः फलाकाङ्गस्य फल सम्बन्धमात्रकरणाच वाक्यभेदः । प्रकृताया इष्टेरनेकद्रव्यत्वेन चित्राशब्दस्य तत्रोपपत्तेः । तत्सिद्धं वाक्यभेदभयाचिवाशब्दः कर्म नामधेयमिति श्रग्निहोत्रं जुहोतीत्यत्राग्निहोत्रशब्दस्य कर्मनामधेयत्वं तत्प्रख्यशास्त्रात् तस्य गुणस्य प्रख्यापकस्य प्रापकस्य शास्त्रस्य विद्यमानत्वेनाग्निहोत्रशब्दः कर्मनामधेयमिति यावत् । तथाहि विधिना तावदेव
विधेयं यत् प्रकारान्तरेणाप्राप्तम् । अप्राप्ते शास्त्रमर्थवदिति न्यायादग्निहोत्रशब्दस्य च गुणविधित्वे यो गुणस्तेन विधेयः स शास्त्रान्तरेण प्राप्तः कथमिति चेच्छृणु ।
यदि तावदग्नौ होत्रमस्मिन्निति सप्तमीं समाश्रित्य होमावारत्वेन श्रग्निर्विधेय इत्युच्यते ततः यदाहवनीये जुहोतीत्यनेनैव प्राप्तत्वाद्विध्यानर्थक्यम् । अथ अग्नये होत्रमस्मिन्निति चतुर्थीसमासमाश्रित्याग्निरूपा देवता श्रनेन समप्र्प्यत इति चेन्न । शास्त्रान्तरेण प्राप्तत्वात् । किं तच्छास्वान्तरमिति चेत् । अत्र केचित् यदग्नये च प्रजापतये च सायं जुहोतीति शास्त्रान्तरेग होमानुवादेनाग्नि प्रजापत्योविधानात्र अग्निहोत्रपदं देवैतासमर्पकम् । न च उभयः भिधाने वाक्यभेदः । परस्परनिरपेक्षविधाने हि वाक्यभेदः स्यात् । अग्नये जुहोति प्रजापतये जुहोतीति प्रत्येकं विधिव्यापाराच्च शब्दश्रवणात्तु परस्परसापेक्षस्यैव पदद्दयस्य आख्यातान्वयान्न वाक्यभेदः । अतएव ऋत्विग्भ्यो दक्षिणां ददातीति वाक्य विहितदचिणानुवादेन गौश्वाश्वश्वाश्वतरच गर्दभश्चाजाश्चावयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं दक्षि-
तिवाक्येन गवादीनां विधानं दशमोक्तं सङ्गच्छते । परस्परसा-
प्रेक्षाणां गवादीनां विधानेन वाक्यभेदाभावात् । अन्यथा दक्षिणानुवादेन अनेकेषां गवादीनां विधानं नैव सङ्गच्छते । इति अग्निप्रजापत्योश्च देवतयोः सतोः समुच्चयो नतु समुच्चितयोदेवतात्वपृथक्कारकविभक्तिश्रवणाच्च । कारकार्थस्य च विभक्त्य ट्रेन अन्वयात् तस्य प्राधान्यात् । अतश्च न अग्निषोमादिवदग्निप्रजापत्योः देवतयोः देवतात्वमिति ।
अन्ये त्वाचार्या बहुः । अग्नये च प्रजापतये च सायं जुहोतीति वाक्यं नाग्नेः प्रापक होमानुवादेन प्रजापतिमात्रविधानात् । न च विनिगमनाविरहादुभयविधानं युक्तमिति वाच्यम् । विधिना हि तदेव विधोयते यत् प्रका रान्तरेणाप्राप्तम् । तत्र यथा अनेन वचनेन सायंकालो न विधीयते सायं जुहोतीति वचनान्तरेण प्राप्तत्वात् तथा अग्निरपि न विधीयते श्रग्निज्र्ज्योतिर्ज्योतिरग्मिः स्वाहेति मन्त्रवर्णादेव प्राप्तत्वात् । मन्त्रवर्णस्यापि देवतासमर्पकत्वमस्त्येव । अतएव उपांशुय। गविष्णादीनां मान्त्रवर्णिकं देवतात्वमित्युक्तम् ।
नचैवं प्रजापतिदेवतयाग्नेर्बाधः स्यात् । चतुर्थ्या हि प्रजापतेः देवतात्वमवगम्यते अग्नेस्तु मान्त्रवर्णिकम् । तत्र सास्य देवतेति देवतात्वे तद्धितस्मरणवत् यद्यपि देवतात्वे चतुर्थीस्मरणं नास्ति सम्प्रदाने चतुर्थीति सम्प्रदाने तस्याः स्मरणात् । तथापि त्यज्यमानद्र त्र्योद्देश्यत्वं तावद्देवतात्वम् । तच्च सम्प्रदानस्वरूपान्तर्गतम् । त्यज्यमानद्रव्योद्देश्यत्वे सति प्रतिग्टहोतत्वस्य सम्पदानत्वात् । श्रतश्चतुर्थीतः सम्प्रदानैकदेशतया देवतात्वप्रतीतिरस्त्येव । मन्त्रवर्णात्तु न देवतात्वं प्रतीयते किन्तु अधिष्ठानमात्रम् । अतश्च मन्त्रवर्णंश्चतुर्थीतो दुर्बलः । यथाहु:-
तद्धितेन चतुर्ष्या वा मन्त्रवर्णेन वा पुनः ।
देवताया विधिस्तत्र दुर्बलं तु परम्परम् ॥ इति ॥
अतश्च प्रवलप्रमाणजोधितप्रजापतिदेवतया दुर्बल प्रमाणबोधिताग्ने बधः स्यादिति चेत् ? सत्यं स्याद्वाधो यदि प्रजापतये जुहोतौति केवलं प्रजापतिविधानं स्यात् विधोयमानस्तु प्रजापतिर्मन्त्रवर्णप्राप्तमग्निमन्द्य तलमुच्चितो होमोद्देशेन विधीयते समुच्चितोभयविधानापेक्षा अन्यतः प्राप्तमग्निमन्द्य तत्समु चितप्रजापतिमात्रविधाने लाघवात् । अतश्च न बाधकत्व' निरपेक्षविधानाभावात् ।
यथा च त्वमतेऽग्नि प्रजापत्योरेकहोमोहे शेन विधानात्तुल्यार्थत्वेन विकल्प प्रमल प्रजापतेर्न पाक्षिकमग्निबाधकत्वं समुच्चयविधानात् एवं मन्त्रवर्णप्राप्तमग्निमनूद्य तत्समुच्चितप्रजापतिविधानेऽपि न बाधकत्वमिति तुल्यम् । यत्तु अग्नेर्मान्त्रवर्णिकत्वे श्रग्निज्योतिः सूर्यः स्वाहेति मिश्रलिङ्गमन्त्रवर्णवलात् सायं होमस्य द्विदेवत्यत्वापत्तिरिति तन्न | अग्निसमुचितप्रजापतिविधानवत् सूर्यसमुचितस्याविधानात्प्रबलचतुर्थीप्रमाणबोधितेन प्रजापतिना मन्तवर्णप्राप्तस्य सूर्यस्य बाधितत्वात् । यत्वग्नमन्त्रवर्षिकत्व प्रजापतिविधेरेकेनेव वाक्येन सिद्धर्यदग्नये च, प्रजापतये च सायं जुहोति यत्सूर्य्याय च प्रजापतये च प्रातर्जुहोति इति वाक्यद्दयं व्यर्यमिति तन्न । भवेद्दायें यदि प्रजापतिमात्रविधानं विवक्षितं स्यात् । सायं होमे अग्निसमुचितप्रजापतिविधानं प्रातर्होमे सूय्यज्योतिज्र्ज्योतिः सूर्यः स्वाहेति मन्त्रवर्णप्राप्तसूर्य्यसमुचितप्रजापतिविधानं च विवक्षितम्, न चैतदेकेन वाक्येन सिध्यति श्रतोऽथवद्दाक्यद्दयम् । यत्वग्न मन्त्रवर्णिकत्वं मन्त्रवर्णस्याग्निज्र्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोतीति वाक्य ेन सायं होमे विनियुक्तत्वात् । तत्प्रकाश्यस्याग्नरपि प्रजापतिसमुच्चितस्य तत्रेव देवतात्वेऽवगते यदग्नये चेति वाक्ये सायं शब्दो व्यर्थं इति । एवं यत्सूर्य्याय चेति वाक्ये प्रात:-
६
शब्दोऽपि व्यर्थ इति । किञ्च मन्त्रवर्णेन ज्योतिष्ट्वगुणविशिष्टस्याग्नेः प्रकाशनादिशिष्टस्यैव देवतात्वापातश्च इति, तदपि न । होमानुवादेन देवताइयविधानेऽपि मन्त्रवर्णयोर्लिङ्गादेव प्राप्तिसम्भवात् तद्दिध्यानर्थक्यात्। मिश्रलिङ्गमन्त्रविधिपर्युदस्तयोः प्रतिप्रसवार्थं विधानेऽपि तद्दिधिगतयोः सायंप्रातः शब्दयोरानर्थक्य' विधीयमानयोर्मन्त्रयोव्यवस्थयैव प्राप्तिसम्भवात् । तन्प्रकाश्ययोर्देवतयोर्व्यवस्थितत्वात् । अनुवादत्वोक्तिस्तु उभ- यत्र तुल्या इति मान्ववर्णिकत्वेऽपि अग्नः केवलस्यैव देवतात्व न गुणविशिष्टस्य । यदग्नये चेति वाक्येऽग्नः पूर्वाहुतिरित्यत्र च केवलस्यैव अग्नेः सङ्कीर्त्तनात् केवलस्यैव देवतात्वावगतेः । यथा ह्यपशियागे विष्णादे मन्त्रवर्णिकत्वेऽपि न गुणविशिष्टस्य देवतात्वं विष्णुरुपांशुर्यष्टव्य इत्यर्थवादे केवलस्यैव सङ्कीर्त्तनात् तद्ददिति । अतश्च मान्ववर्णिकत्व दोषाभावाद्दे वताइयविधाने च गौरवापत्तेः । अन्यतः प्राप्तमग्निमनूद्य तत्समुचितः प्रजापतिरेवात्र विधीयते होमानुवादेनोभयविधाने वाक्यभेदप्रसङ्गाच्च । न च चकारश्रवणान्न वाक्यभेद इति वाच्यम् ? चकारार्थो हि समुच्चयः । तञ्च समुच्चयं यदि चकारः प्राधान्येन ब्रूयात् तदा प्रधानस्यानेकविशेषणसङ्ग्राहकत्वादारुएखादिविशिष्टक्रय विधान द्रव कारकद्वयसमुच्चयविधाने वाक्याभेदो न भवेत् । न च चकारः समुच्चयं प्रधान्येन ब्रूते परोपमर्जनत्वेनैवाभिधानात् । अतएव दशमे भाष्यकारैश्वकारस्य समुवयशब्दाद्वैलक्षण्यं प्रतिपादितम् । समुच्चयशब्दो हि तं प्राधान्येन ब्रूते न चकारः । यदि प्राधान्येन ब्रूयात् तदा तत्प्रतिपन्नः ममुच्चयः क्रियागुणैः सम्बध्येत । समुच्चयः शोभन: ममुच्चयो द्रष्टव्य इतिवत् शोभनश्च द्रष्टव्य इति प्रयोगः स्यात् । समुच्चयशब्दवच्चकारस्य प्राधान्येन समुच्चयवाचित्वे धवखदिरयोः
समुच्चय इतिवत् धवखदिरयोथेत्यपि प्रयोगः स्यादिति । अतश्चकारः समुच्चयं न प्राधान्येन ब्रूते येन प्रधानस्यैव एकस्य विधानान्न वाक्यभेदो भवेत् । किन्तु कारकइयोपसर्जनत्वेनैव म तं ब्रूते । समुच्चितावग्निप्रजापती इति प्रधानद्दयविधाने च वाक्यभेदः स्यादेव । यथा ग्रहोद्देशेन सम्मार्गेकत्वविधाने यद्यपि चकारसमुच्चयं प्राधान्येन ब्रूयात् तथापि तस्य कारकइयं प्रति प्राधान्यमनुपपन्नम् । विभक्त्यभिहितस्य कारकइयस्य क्रियोपसर्जनत्वेन समुच्चयोपसर्जनाभावात् । क्कदन्तादिशब्देरुपस्थितं हि कारकं क्रियातोऽन्ये न सम्बध्यते । कारकसमुच्चयः कारणसमुच्चय इति विभक्त्यभिहितं क्रिययैव कारकाणां तथैवान्वयात् । अतश्चकारेण उच्यमानः स कारकोपसर्जनत्वेनैवोच्यते कारकइयं न च प्रधानं एकोद्देशेन च प्रधानद्दयविधाने वाक्यभेद एव । यथाहुः " अनेकपदसम्बद्ध यद्येकमपि कारकम् । तथापि तदनावृत्तैः प्रत्ययै र्न विधीयते ॥” इति । यच्च यथा दक्षिणानुवादेन गवादीनामनेकेषां विधानेन वाक्यभेदस्तथा कारकइयविधानेऽपीति तन्न । न हि गौश्वाश्वश्चेत्यस्मिन् वाक्ये दक्षिणानुवादेन गवादयो विधीयन्ते । उक्तरीत्या वाक्यभेदापत्तेः चकारश्रवणेन कथञ्चित् तत्परिहारेऽपि गवादीनामनेकेषां द्वादशशतसंख्यायाश्च विश्वाने वाक्यभेद एव । श्रध्वर्यवशाखायां गोश्चेत्यादेः तस्य द्वादशशतमित्यन्तस्य सहश्रुतत्वेन वाक्ये कवाक्यत्वमित्युक्तं दशमे । अतोऽनेन वाक्येनोभयविशिष्टा दक्षिणा विधीयते विशिष्टविधानाच्च न वाक्यभेदः । अतएव पार्थसारथिमिश्रैर्दशमे तत्र तत्र सोभयविशिष्टा विधीयते अनेकगवाद्यात्मिकैका दक्षिणा विधीयते इति चोक्तम् । न चैवं ऋत्विग्भ्यो दक्षिणां ददातीत्यस्यानर्थक्यं तस्यानुवादत्वात् । ऋत्विक्सम्बन्धपरत्वाद्दा दक्षिणाशब्दसामर्थ्यादि
ऋत्विजाञ्चमसाध्वर्यादीनाञ्च
तत्सम्बन्धः स्यात् । एत-
हाक्यसत्त्वे च न भवति । ऋत्विक् शब्दस्य ब्रह्मादिगतऋतुगतयजननिमित्तत्वेन चमसाध्वर्यूणां ऋत्विक्ताभावस्य तृतीये उक्तत्वात् । अतश्च गौश्वाश्चेत्यस्मिन् वाक्ये विशिष्टविधानान वाक्यभेदः । यदग्नये च प्रजापतये च सायं जुहोतीति तु न विशिष्टविधानं होमस्याग्निहोत्र' जुहोतोत्यनेन प्राप्तत्वात् । अतश्च होमानुवादेन समुचितोभयविधाने वाक्यभेदाङ्गौरवापत्तेश्च नानेन वाक्येन देवताइयं विधीयते । किन्तु मन्त्रवर्णप्राप्तमग्निमनूद्य तत्समुचितः प्रजापतिहिमोद्देशेन विधीयते । अतश्च नेदमग्नेः प्रापकं किन्तु मन्त्रवर्ण एव अतश्च तेनाग्नेः प्राप्तत्वान्नाग्निहोत्रपदं देवतासमर्पकं किं तर्हि नामधेयमेव । तत् सिद्धमेतत्प्रख्यशास्त्रादग्निहोत्रशब्दस्य कर्मनामधेयत्वमिति ।
एवं प्रयाजेषु समिदादिदेवतानां समिधाः समिधोऽग्नय आज्य * स्य व्यन्त्वित्यादिमन्त्रवर्णेभ्यः प्राप्तत्वात्समिधो यजतोत्यादिषु समिधादिशब्दस्तत्प्रख्यशास्त्रात् कर्मनामधेयम् ।
यथाहु: "विधित्सितगुणप्रापि शास्त्रमन्यद्यतस्त्विह । तस्मातत्प्रापणं व्यर्थमिति नामत्वमिष्यत" इति दिक् । श्येनेनाभिचरन् यजेतेत्यत्र श्येनशब्दस्य कर्मनामधेयत्वं तापदेशात् तेन व्यपदेश उपमानं तदन्यथानुपपत्तेरिति यावत् ।
तथाहि यद्विधेयं तस्य स्तुतिर्भवति तद् यदि अब श्येनो विधेयः स्यात्तदार्थवादैस्तस्यैव स्तुतिः कार्य्या । न च यथा वै श्य नो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्त इत्यनेन तवत्येनार्थवादेन श्य ेनः स्तोतुं शक्यः । श्य नोपमानेनार्थान्तरस्तुतेः क्रियमाणत्वात् । न च श्येनोपमानेन स एव स्तोतु शक्यते । उपमानोपमेयभावस्य भिन्ननिष्ठत्वात् । यदा तु श्येनसंज्ञको यागो विधीयते तदार्थवादेन श्येनोपमानेन
तस्य स्तुतिः कर्त्तुं शक्यत इति श्येनशब्दस्य तापदेशाद्यागनामधेयत्वम् । तसिद्ध' निमित्तचतुष्टयानामधेयत्वम् ।
उत्पत्तिशिष्ट गुण बलीयस्त्वमपि पञ्चमं नामधेयत्वे निमित्तमिति केचिदाहुः वैश्वदेवेन यजेतेत्यत्र वैश्वदेवशब्दस्य कर्मना मधेयत्वमुत्पत्तिशिष्टगुणवलीयस्त्वात् । उक्तमत्वर्धलचणादिप्रकारचतुष्टयासम्भवात् । न तावन्मत्वर्थलक्षणाभयान्नामधेयत्वं वक्त युक्तम्। वैश्वदेवेनेति तद्धितेनैव मत्वर्थस्य यागस्योक्तत्वात् । सास्य देवतेत्यस्मिन्नर्थे हि तडितस्मरणम् । तत्रास्य शब्दस्य तांडतान्तर्गतस्य यद्यपि सूक्तहविषोरितिस्मृतेः सूक्ते हविषि वा मुख्यत्वमवगतम् तथापि सर्वनाम्नामुपस्थितवाचित्वात् सूक्त हविषोश्चात्त्रानुपस्थितत्वाद् यजेतेत्य ुपस्थितं यागमेवास्यशब्दोऽभिधत्त इति न यागे मत्वर्थलचणा । विश्वेदेवरूपैकदेवताविधानाच्च न वाक्यभेदः नापि तप्रख्यशास्त्रान्नामत्वं यत्र हि विधित्सितो गुणोऽन्यतः प्राप्तस्तत्र तत्प्रख्यशास्त्रानामत्वम् । यथाग्निहोत्रशब्दे । अत्र चाग्न यादयोऽष्टौ यागाः प्रकृताः तत्रामिचायागे यद्यपि विश्वेदेवाः प्राप्ता वैश्वदेव्यामिचेति तथापि सप्तसु तेषु तेषामप्राप्तत्वाई खदेवेन यजेतेत्यनेन तत्र तद्दिधानेन तत्प्रख्यशास्त्रन्यायेन तद्दशानामत्वं स्यात् । न चामिक्षायागस्यैवैतन्नामेति वाच्यम् ? वैश्वदेवेन यजेतेति वाक्यवैर्थ्याप न च वैश्वदेवशब्दस्यामिक्षायागमात्रनामत्वे स एव यागोऽनेनानूद्यत इति वाच्यम् ? न च तदनुवादे नास्ति किञ्चित् कृत्यम् । प्राचीनप्रवणे वैश्वदेवेन यजेतेति विधोयमानस्य प्राचीनप्रवणदेशस्य विनाप्येतद्वाक्यम् । आमिक्षायाग एव सम्बन्धोपपत्तेः विश्वेदेवसम्बन्धात् तस्य आग्नेयाद्य शेषप्रकृतयागनामधेयत्व तु न वैश्वदेवेनेति वाक्यानर्थक्यम् ।
तदा धनेनाष्टी यागा अनूद्यन्ते । अनुवादेन चैकप्रतीत्या
रूढत्वात्समुदितानामष्टानामपि
वैश्वदेवशब्दो नामधेयं
सिध्यति । एवञ्च प्राचीनप्रवसे वैश्वदेवेन यजेतेत्यत्र वैश्वदेवशब्द नाष्टौ यागाननूद्य प्राचीन प्रवणविधानं तत्र सिद्धं भवति । तद्वाक्य सत्त्व अनेन वाक्येनामिक्षायाग एव प्राचीनप्रवणदेशसम्बन्धः स्यात् । अतश्चाष्टसु यागेषु प्राचीनप्रवणदेशसम्बन्ध एवैतद्वाक्य प्रयोजनम् । एवञ्च वैखदेवशब्दोऽष्टानां नामधेयम् । न च तत्र तत्प्रख्यशास्त्र निमित्तं सम्भवति । सप्तसु वैश्वदेवादिषु प्राप्तः । अतो न वैश्वदेवशब्दस्य तत्प्रख्यशास्त्रानामधेयत्वमिति । नापि तापदेशात् तादृशस्य व्यपदेशस्यानुपलम्भात् ।
अतश्च वेश्वदेवशब्दस्य नामधेयत्वे उक्तप्रकारचतुष्टयस्यानिमित्तत्वादुत्पत्तिभिष्ट गुणवलीयस्त्वमेव निमित्तम् । तथा हि वैश्वदेवेन यजेतेत्यच न तावदप्रकृतकर्मानुवादेन देवताविधानं सम्भवति तेषासत्रानुपस्थितेः । नापि देवताविशिष्टकर्मान्तरविधानं सन्भवति गौरवापत्तेः । अष्टौ हवोंषीति अनन्यगतिकलिङ्गविरोधात् । अतोऽनेन वाक्येन प्रकृतकर्मानुवादेन देवता विधोयत इति वक्तव्यम् । तत्रामिचायागे विश्वेदेवप्राप्तः सप्तसु यागेषु अनेन वाक्येन विश्वेदेवा विधीयन्ते इति वक्तव्यम् । न च तत्सग्भवति तेषामुत्पत्तिशिष्टाग्न्याद्यवरोधात् । आकाङ्क्षया हि सम्बन्धो भवति चाग्नयादियागानां हि दैवताकाङ्क्षा उत्पत्तिशिष्टैरग्न्यादिभिरेव नित्तेति न तत्र विश्वेदेवविधानं युक्तम् ।
अतश्वोत्पत्तिशिष्टगुणवलीयस्त्वादखदेवशब्दस्य कर्मनामधेयत्वमिति । ययाहुः, “गुणान्तरावरुद्धत्वान्नवकाश्यो गुणोऽपरः । विकल्पोऽपि न वैषम्यात्तस्मानामेव युज्यते ।” अन्ये त्वाचार्या आहुः । यः शब्दो यत्र कर्मणि यह णसम्बन्ध बोधयति स चेत्सम्बन्धः शास्त्रान्तरप्रतिपन्नस्तदा तस्य शब्दस्य तन्नामधेयत्वं
तत्प्रख्यशास्त्रत्वात् । तच्च शास्त्रान्तरं विधिर्वार्थवादो वेति अत्र नादरः । तत्राग्निहोत्रशब्दे ऽग्नि सम्बन्ध बोधकं शास्त्रान्तरं विधिरेव । वैश्वदेवशव्दश्च विश्वेदेव सम्बन्ध' कर्मणि बोधयति विश्वदेवसम्बन्धश्वाष्टसु यागेषु यत् विश्वेदेवाः समयजन्त तद्दश्वदेवस्य वैश्व देवत्वमित्यर्थवादादवगतः न च विधिरेव तत्प्रख्यशास्त्र' नार्थवाद इत्यत्र किञ्चित् प्रमाणमस्ति ।
अतएव ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्र ज्योतिष्टोम शब्दस्तानि वा एतानि ज्योतींषि य एतस्य स्तोमा इत्यर्थवादावगतं ज्योतिःसम्बन्धं निमित्तीकृत्य सोमयागे प्रवर्त्तमानस्तत्प्रख्यशास्त्रान्नामधेयं भवति । एवं प्रकृतेऽपि द्रष्टव्यं पञ्चमप्रकार कल्पने प्रमाणाभावात् ।
अतएव वैश्वदेवाधिकरणे वार्त्तिककारैरेवमुपसंहृतम् । प्रख्यतयैव सर्वेषां नामधेयत्वमिति यच्चोत्पत्तिशिष्टगुणचलोयस्त्वमुक्तम् तद्गुणविध्यसम्भवे युक्त्याभ्युच्चयमात्रम् । तत्सिद्धं तत्प्रख्यशास्त्राश्व देवशब्दस्य कर्मनाम देयत्वमिति ।
ननु पशुसोमाधिकरणे ऐन्द्रवायवं गृह्णाति इत्यादौ न यजिकल्पनं सोमेन यजेतेति प्रत्यक्षयजिश्रुतेरित्युक्तम् । तेन न्यायेन वैश्वदेव्यामिचेत्यत्रापि यजिकल्पनं मास्तु । वैश्वदेवेन यजेतेत्यत्र यजिश्रुतेः । एवञ्च अवेन वाक्य ेन देवताविशिष्टकर्मविधानमस्तु । तस्य च द्रव्याकाङ्क्षया वैश्वदेव्यामिचेति द्रव्यविधानमस्तु । एवञ्च न वाक्यद्वयस्याप्यनुवादत्वं नाप्यष्टौ हवींषीति अनन्यगतिक लिङ्ग विरोधो भवेदिति चैत् ? मैवम् । वैखदेव्यामिचेत्यत्र यज्यकल्पने आमिक्षा किमनुवादेन विधीयते इति वक्तव्यम् । विश्वेदेवानुवादेन विधाने द्रव्यस्य देवताङ्गत्वमेव स्यान यागाङ्गत्वम् । किञ्च बैश्वदेवीशब्दो देवतातद्वितत्वादामिक्षां तत्त्वेन ब्रूते इत्युक्तम् । तत्र विश्वेदेवानुवादेन द्रव्यविधानं वैश्व-
(
देवीशब्द नैव कर्त्तव्यं पदश्रुतेः । यथा भावनायां करणसमर्पण धातुनैव क्रियते पदश्रुतेने तूप पदेनेत्युक्तं भावार्थाधिकरणे तद्दत् । तत्र च वषट्कर्तुः प्रथमभत इतिवत् एकप्रसरताविरोधः । अतो यागानुवादेनापि द्रव्यविधानार्थं वैश्वदेव्यामिचेत्यत्र यजिकल्पनं तावदवश्यं कर्त्तव्यम् । अतश्च पशुसोमाधिकरण न्यायवैषम्यम् । ऐन्द्रवायवं गृह्णातीत्यत्र देवताविशिष्टग्रहणविधानेन यज्य कल्पनात् । यजिकल्पने च वैश्वदेव्यामिचेत्यत्र व द्रव्यदेवताविशिष्टकर्मविधानं युक्त रूपद्दयश्रवणात् । एवञ्चाग्रे योष्टाक पालः सौम्यः चरुरित्यादिवाक्य वैश्वदेव्यामिचेत्यस्य वाक्यस्य प्रायः पाठो रक्षितो भवति । अन्यथा हि तेषु सर्वेषु द्रव्यदेवतासम्बन्धकल्पितयाग विधानम् अत्र च द्रव्यमात्रविधानमिति वैरूप्यं प्रसज्येत । किञ्च वैश्वदेवेन यजेतेत्यत्र वैश्वदेवशब्दस्य देवतासमर्पकत्वे यद्दिश्वे देवाः समयजन्त बैश्वदेवस्य तद्दश्व देवत्वमित्येतस्यार्थवादस्यात्यन्तमेव निरालम्बनत्वं स्यात् । यत एतदर्थवादाद्धि वैश्वदेवक कत्वे कर्मणि प्रवृत्त इति ज्ञायते तद्देवतासमर्पकत्वे विरुध्यते । किञ्च वैश्वदेवेन यजेतेत्यस्य यागविधित्वे आमिक्षाया नोत्पत्तिशिष्टत्वम् ।
|
तथाच तया न वाजिनं बाधितुं शक्यते इत्यु भयोरपि आमिक्षावाजिनयोरेकयागाङ्गत्त्व' स्यात् । तथाच विकल्प: स चाष्टदोषदुष्ट इति । तस्माद्वैश्वदेव्यामिचेत्यत्रैव यागविधानम् इतरस्य त्वनुवादत्वम् अनुवादत्वे च यथा नानर्थक्यं तथोक्तमित्यास्तां तत् । तत्सिद्धं वैश्वदेवेन यजेतेत्यस्य शब्दस्य कर्मनामधेयत्वम् । तदेवं निरूपितं मत्वर्धलक्षणादिप्रकारचतुष्टयनिरूपणेन नामधेयार्थ परिच्छेदकतया र्थवत्त्वम् । अनर्थहेतुकर्मणः सकाशात् पुरुषस्य निवृत्तिकरणत्वेन निषेधानां पुरुषार्थानुबन्धित्वम् ॥
तथाहि । एकपक्षस्यानुष्ठाने द्वितीयपत्तवाक्यस्य सतोऽपि प्रवर्त्तकत्वस्यानादरः द्वितीयपक्षस्यानुष्ठाने तदाक्यस्यानाहतप्रवर्त्तकत्वादनादरः पूर्ववाक्यस्यानुष्ठाने द्वितीयपक्षवाक्यस्य सतोऽपि प्रवर्त्तकत्वस्यानादरः द्वितीयपक्षस्यानुष्ठाने तहाक्यस्य द्वितीयपक्षसमयेऽनादृतप्रवर्त्त कत्वस्यानादरः पूर्ववाक्यस्याहतप्रवर्त्तकत्व परित्यागः पुनरपि प्रथमपक्षस्यानुष्ठाने
तद्वाक्यस्य द्वितीयपक्ष ममयेऽनाहंत प्रवर्त्तकत्वस्यानादर इतिवाक्यगाश्चत्वारः । अर्थोऽपि एकैकपक्षानुष्ठानें प्रमितस्त्यज्यते कश्चिदनादृत्य पश्चादाद्रियत इत्यर्थविषयाञ्चत्वारो न्यायनिधावुक्ताः इति टिप्पणं तयाहीत्यस्य ।
तथा हि यथा विधयः प्ररणामभिदधतः स्वप्रवर्त्तकत्वं निर्वाहार्थं विधेयस्य यागादेः श्रेयःसाधनत्वमाचिपन्तः पुरुषं तत्र प्रवर्त्तयन्ति । एवं न कलज्ज भक्षयेदित्यादयो निषेधा अपि निवर्त्तनामभिदधतः खनिवर्त्तकत्वनिर्वाहार्थं निषेध्यकलञ्जभचणादेरनर्थहेतुत्वमाक्षिपन्तः पुरुषं ततो निवर्त्तयन्ति । ननु कथं निषेधानां निवर्त्तनाप्रतिपादकत्वं यावता न भक्षयेन्न हन्तव्य इत्येवमादौ ग्रव्यवधानेन नञर्थस्याभावस्य धात्वर्थलेनान्वये धात्वर्थवर्जन कर्त्तव्यतैव सर्वत्र वाक्यार्थः प्रतीयते । ततश्च यजेतेत्यादौ यागकर्त्तव्यता वाक्यार्थः एवं निषेधेषु तत्तद्धात्वर्थवर्जनकत्र्त्तव्यता वाक्यार्थो न निवर्त्तनेति चेत् । मैवम् ; अव्यवधानेऽपि धात्वर्थस्य प्रत्ययार्थोपसर्जनत्वेनोपस्थितस्य नञर्थेनान्वयायोगात् । नह्यन्योपसर्जनमन्ये नान्वेति । राजपुरुषमानयेत्यत्र न हि राज्ञ श्रनयनान्वयित्वम् ।
ततश्वाव्यवधानेऽपि नञर्थस्य न धात्वर्येनान्वयः आरुण्यस्येवैकहायिन्या नापि कलिङ्गादिपदार्थेऽन्वयः । तेषामपि कारकोपसर्जनत्वेन भिन्नपदस्य नञर्थेनान्वयायोगात् । एक-
प्रत्यया-
हायन्या इवारुण्येन अतश्चान्येनान्वयायोगान्नञर्थः र्थेन सम्बध्यते तस्य प्राधान्यात् । क्रयभावनयेवारुण्यादीनि । तत्रापि नाख्यातांशवाच्ययार्थ्याभावनया । तस्या अपि लिङ्त्वांशवाच्यप्रवर्त्तनोपसर्जनत्वेनोपस्थितत्वात् । अतो लिङत्वांशेन नञ् सम्बध्यते तस्य सर्वापेचया प्राधान्यात् । नञश्चेष स्वभावो यत्स्वसम्वन्धि प्रतिपक्षबोधकत्वम् । नास्तीत्यत्र हि अस्तौतिसत्त्वशब्देन सम्बध्यमानो नञ् सत्त्वप्रतिपक्षम् असत्त्वं गमयति । तदिह लिङर्थस्तावप्रवर्त्तना । अतस्तेन सम्बध्यमानो नञ्प्रवर्त्तनाप्रतिपक्षं निवर्त्तनां गमयति । विधिवाक्यश्रवणेऽयं मां प्रवर्त्तयतौतिवनिषेधवाक्यश्रवणेऽयं मां निवर्त्तयतीतिनिटत्यनुकूलव्यापार निवर्त्तनायाः प्रतीतिरनुभवसिद्धा । अतश्च सर्वत्र निषेधेषु निवर्त्तनेव वाक्यार्थः । एवञ्च विधिनिषेधयो भिन्नार्थत्व' सिद्धं भवति । हननादिवर्जन कर्त्तव्यतावाक्यार्थपचे तु कर्त्तव्यताया एवोभयत्र प्रतिपाद्यत्वात् तयोरेकार्थत्वं स्यात् तच्च न युक्तम् ।
यथाहुः, “अन्तरं यादृशं लोके ब्रह्महत्याश्वमेधयोः । दृश्यते ताहमेवेदं विधानप्रतिषेधयो रिति । तथा फलवुद्धिप्रमेयाधिकारिबोधकभेदतः । पञ्चधात्यन्तभिन्नत्वाद्वेदो विधिनिषेधयो” रिति । यन्मते दृष्टसाधनत्वं लिङर्थस्तन्मते लिङ्संसृष्टो नञ् इष्टसाधनत्वप्रतिपक्षमनिष्टसाधनत्वं गमयति सर्वथापि तु नञः प्राधान्यात्प्रत्ययेनान्वयः । यदा तु तदन्वये किञ्चिद्दाधकं तदा श्रगत्या धात्वर्थेनान्वयः । तच्च बाधकं द्विविधं तस्य व्रतमिति उपक्रमो विकल्पप्रसक्तिश्च । अनेन च बाधकद्वयेन नञ्युक्तेषु केषु चिद्दाक्येषु पय्र्यु दासाश्रयणं भवति । तदभावे निषेध एव " पर्य्य दासः स विज्ञेयो यत्त्रोत्तरपदेन नञ् । प्रतिषेधः स विज्ञेयो क्रियया सह यत्र नञ् । ” तत्र नेचेतोद्यन्तमादित्यमित्यादौ पर्युदासाश्रयणं तस्य व्रतमित्युपक्रमात् ।
तथा हि व्रतशब्द न कर्त्तव्योऽर्थ उच्यते । अतश्च नात-
कस्य कर्त्तव्यत्वेनोपक्रमात् किं तत्कर्त्तव्यमित्यपेक्षायामग्रे नेतेतोद्यन्तमादित्यमित्यादौ कर्त्तव्य एवार्थों वक्तव्य आकाङ्क्षिताभिधानात् : अर्थान्तरोक्तौ च पूर्ववाक्यस्य साकाङ्गत्वेनाप्रामाण्याप्रसङ्गात् । न हि कर्त्तव्यार्थस्य वक्तव्यत्वेनोपक्रमेऽग्रे च तदनभिधाने पूर्ववाक्यस्य साकाङ्गत्वे न प्रामाण्य' भवति । न च माकाङ्गस्य प्रामाण्यं गौरवः पुरुष इत्यादावपि प्रसङ्गात् । किञ्च नेक्षेतेत्यस्योपक्रमेण प्रतीयमाना एकवाक्यता च न स्यात् । अर्थान्तरोक्तेः अतश्चास्मिन् वाक्ये कश्चन कर्त्तव्य एवार्थो वक्तव्यः । तदुक्तौ च न नञः प्रत्ययेन सम्बन्धो घटते । तत्सम्बन्धे कर्त्तव्यार्थोक्तेरनुपपत्तेः प्रत्ययाच्चावतारितो नञ् धातुना सम्बध्यते तत्सम्बन्ध च न नञः प्रतिषेधकत्वं विधायकसम्बन्धेनैव तस्य प्रतिपेधकत्वस्य विधायकत्व प्रतिपचत्वात् । नामधातुयोगे तु न नञः प्रतिषेधकत्वं तयोरभिधायकत्वात् । यथाहुः, “नामधात्वर्थयोगो तु नैव नञ् प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिना" विति । अतश्च नेक्षेतेत्यत्र नत्रो धातुयोगानत्रिचितिभ्यां ईक्षणविरोधी कश्चनार्थः प्रतिपाद्यते ।
ननु तदन्यतद्विरुद्धतदभावेषु नञ् इति सत्यपि स्मरणे नञः स्वसंसृष्टाभाव एव शक्तिः लाघवात् न तदन्यतविरुद्धत्वयोः । तयोरभावघटितत्वेन गौरवात् । अनेकार्थत्वस्य चान्याय्यत्वात् अतो नत्रो धातुयोगे धात्वर्घाभावबोधकत्वमेव न तु तद्विरुद्दार्थबोधकत्वमिति चेत्सत्यं नञोऽभाव एव शक्तिः स्मरणं तु प्रतीत्यभिप्रायम् । नामधात्वर्थयोगोत्यपि प्रतोत्यभिप्रायं तथापि नेत्रेवेत्यत्र प्रत्ययस्य नत्रा सम्बन्धात् । तेन तावत्कश्चिदर्थो विधेयः तत्र न तावद्वात्वयविधातुं शक्यते नञा तदभावबाधनात् । नापि तदभावो विधातुं शक्यते अभावस्याविधेयत्वात् ।
अतश्च नञीक्षितिभ्यां विधानयोग्यः कश्चनेक्षणविरोधी अर्थो लक्षण्या प्रतिपाद्यते । स चेदविरोधी लक्ष्यमाणः पदार्थो नेतेदित्यनोक्षणमङ्कल्पः तस्येक्षणविरोधित्वात् । सत्यपि पदार्थान्तरस्येक्षण विरोधित्वे सर्वक्रियाविनाभूतत्वेन सङ्कल्पस्यैव लक्षणा स एव नेचेतेत्यत्र कर्त्तव्यतया विधीयते । अनीक्षणसङ्कल्पन भावयेदिति । भाव्याकाङ्क्षायाञ्च एतावता हैनमा वियुक्तो भवतीति वाक्यशेषावगतः पापक्षयो भाव्यतया सम्बध्यते । एवं चात्र पापक्षयाथ सङ्कल्पस्य कर्त्तव्यतया विधानात्तस्य व्रतमित्यनेनैकवाक्यता सिद्धा भवति । तत्सिद्धं नेचेतेत्यत्र तस्य व्रतमित्य ुपक्रमात् पर्य्युदासाश्रयणमिति । नानुयाजेषु वे यजामहं करोतीत्यत्र विकल्प प्रसक्त्या तदाश्रयणम् । तथाहि यद्यत्र प्रधानसम्बन्धलोभानञः प्रत्ययसम्बन्धः स्वोक्रियेत तथा सत्यनेन वाक्येनानुयाजेषु ये यजामहः प्रतिषिध्यत इति वक्तव्यन् । अनुयाजेषु ये यजामहं न कुर्य्यादिति । न च तत्र तस्य प्रतिपेधः प्राप्ति विना सम्भवति प्राप्तिसापेक्षत्वात्प्रतिषेधस्य । अतएव नान्तरीचे न दिवौत्यस्य न प्रतिषेधकत्वम् अन्तरीचे चयनाप्राप्तेः । अतएव ब्राह्मणो न हन्तव्य इत्यस्य नित्यवडनननिवत्तैकत्व ं न स्यात् मर्वो हि पुरुषः कदाचिद्धननादौ प्रवर्त्तते कदाचिद्रागाद्यभावेन प्रवर्त्तते । तत्र यदि निषेधस्य प्राप्तिसापेक्षत्व ं न स्यात् । तदा रागाविरोधाय हननादावप्रवृत्तं प्रत्येव शास्त्रप्रामाण्योपपत्तौ रागादिना हननादी प्रवृत्तेन पुसा न ततो निवर्त्तितव्यम् । प्राप्तिसापेक्षत्व तु स्वयमप्रवृत्त' प्रति प्रसत्यभावेन निषेधशास्त्राप्रवृत्तेः । रागादिना प्रवृत्त' प्रत्येव भ्रान्तिनिमित्तरागबाधेन निषेधशास्त्रप्रवृत्तेः युक्ता प्रहतस्य ततो निवृत्तिः । अतश्च ब्राह्मणो न हन्तव्य इत्यस्य निषेधस्य निवृत्तिनियमबोधकत्वम् । व्रीहौनवन्यादित्यस्येवावघात-
नियमबोधकत्वं यथा खलु व्रीहोनवहन्यादिति शास्त्र वेतुप्यार्थम् अवघाते प्रवृत्तं पुरुषं प्रति न प्रवर्त्तते वैयर्थ्यात् किन्तु दलनादी प्रवृत्तं प्रति एवं न हन्यादिति शास्त्र हननात् स्वयं निवृत्तं पुरुषं प्रति न प्रवर्त्तते वैयर्थ्यात् किन्तु हनने प्रवृत्त' पुरुष' प्रति कर्त्तव्यत्वेन प्रसक्तस्य प्रतिषेधात् यत् कर्त्तव्य' तन्नेति । अथ प्राप्तिसापेक्षत्वात् प्रतिषेधानाम् अनुयाजेषु ये यजामहं प्रतिषेधे तस्य तत्र प्राप्तिर्वक्तव्या । सा न तावद्धननादाविव गगतः सम्भवति । अतो यजतिषु ये यजामहं करोतीति शास्त्रात् सा वक्तव्या । शास्त्रप्राप्तस्य च प्रतिषेधे विकल्पः स्यात् । शास्त्रेण भ्रान्तिनिमित्तरागस्येव शास्त्रान्तरस्यात्यन्त बाधायोगात् । न च पदशा स्त्रैण आहवनीयशास्त्रस्यैव नानुयाजेष्विति विशेषशास्त्रेण यजतिषु ये यजामहं करोतीति सामान्यशास्त्रस्य बाधः स्यादिति वाच्यम् ।
शास्त्रयोर्हि तत्र बाध्यबाधकभावो यत्र परस्परनिरपेक्षता । न हि पदशास्त्रस्य स्वार्थविधानार्थमाहवनीयशास्त्रापेक्षास्ति । निषेधशास्त्रस्य तु प्रसक्त्यर्थं यजतिषु वे यजामहं करोतीति विधेरस्ति अपेक्ष्या । एवञ्च निषेधशास्त्रस्य विशेषविषयत्वे न प्राबल्यवत् विधिशास्त्रस्याप्युपजीव्यत्वेन प्राबल्यमस्तीति न निषेश्वेन विधेरत्यन्तवाधी युक्त इति विहित प्रतिषिधत्वाद्दिकल्पः स्यात् । स च न युक्तः, विकल्प हि पक्षे शास्त्रस्याप्रामाण्य भवति । नहि अनुयाजेषु ये यजामहकरणे नानुयाजेष्वत्यस्य प्रामाण्य' सम्भवति । व्रीह्यनुष्ठानसमय इव यवशास्त्रस्य द्विरदृष्टकल्पना च स्यात् । विधेर्हि एवं ज्ञायते यत् अनुयाजेषु ये यजामहकरणे कश्चनोपकारो भवतीति । निषेधाच्च तदकरणादिति ज्ञायते । अनृतवदनाकरणादिव दर्शपूर्णमासयोः कश्चिदुपकारः क्रियत इति । स चोपकारोऽदृष्टरूप इति
द्विरदृष्टकल्पनाप्रसङ्गः । अतश्च विकल्पो न युक्तः । प्रतिषेधाश्रयणे च तदापत्ते र्न तदाश्रयण' किन्तु नञः अनुयाजशब्देन सम्बन्धमाश्रित्य पर्युदास आश्रीयते । नञनुयाजशब्दाभ्यामनुयाजव्यतिरिक्तलक्षणात् अनुयाजव्यतिरिक्तेषु ये यजामहं करोतोति । अत्र च वाक्ये ये यजामहः कर्त्तव्यतया न विधीयते ।
यजतिषु ये यजामहं करोतीत्यनेनैव विहितत्वात् । किन्तु सामान्यशास्त्रविहितये यजामहानुवादेन तस्यानुयाजव्यतिरिक्तविषयता विधीयते । यद् यजतिषु ये यजामहं करोति तदनुयाजव्यतिरिक्तेष्विति । एवं सामान्यशास्त्रस्य विशेषापेक्षिणः नानुयाजेष्वत्यनेनानुयाजव्यतिरिक्त विषयसमर्पणदनुयाजव्यतिरिक्तेषु ये यजामहः कर्त्तव्यतया प्राप्तः । अनुयाजेषु स न कर्त्तव्यतया प्राप्तो न वा प्रतिषिद्ध इति न विकल्पः । चानुयाजव्यतिरिक्तविषयसमर्पणान्नानुयाजेष्विति वाक्यस्य नाप्रामाण्यम् । अतथ पर्युदासाश्रयणेन किञ्चिद्वाधकम् । तत्सिङ्घ ं नानुयाजेष्विति वाक्ये विकल्पभयात् पर्य्युदासाश्रयणमिति । ननु पर्युदासश्रयणे यजतिषु ये यजामहं करोतीति शास्त्रेण यागसामान्ये प्राप्तस्य ये यजामहस्य नानुयाजेष्वित्यनेनानुयाजव्यतिरिक्त सङ्कोचनात् पर्य्युदासस्योपसंहारादभेदः स्यादिति ।
लक्षणया
उपसंहारे हि सामान्यप्राप्तस्य विशेषे सङ्कोचो भवति । यथा पुरोडाशं चतुर्धा करोतीति पुरोडाशसामान्य प्राप्त चतुर्द्धाकरणम् । आग्नेयं चतुर्द्धा करोतीति अनेन सङ्कोच्यते इति चेत् ? न । तन्मात्रसङ्गोचार्थत्वादुपसंहारस्य तदन्यमात्रसङ्कोचार्थत्वात् पर्य्युदासश्चेति केचित् ।
अन्ये तु उपसंहारो नाम सामान्यतः प्राप्तस्य विशेषे सङ्को, चनरूपो व्यापारविशेषो विधेः पर्य्युदासः । पर्य्युदाससः स
विज्ञ यो यत्त्रोत्तरपदे न नञ् इत्यभियुक्तोक्त्या प्रत्ययातिरिक्तेन धातुना वा नाम्ना वा नञः सम्बन्धः पर्युदासः । अतः अनयोस्तावत् स्वरूपतः स्पष्ट एवं भेदः । एवं सति अभेद: आशय त यदि यत्र पर्युदासस्तत्रावश्यनुपसंहारः स्यात् । नचैतदस्ति । नेचे तोद्यन्ततमित्यादौ सत्यपि तस्मिन्नुपसंहाराभावात् ।
न हि तत्राग्नेये चतुर्द्धाकरणमिव सामान्ये प्राप्त किञ्चिद्विशेषे सङ्कोच्यते । पापक्षयोद्देशेनानोक्षण सङ्कल्पमात्रविधानात् । प्रकृतोदाहरणे तु यजिसामान्ये प्राप्तस्य ये यजामहस्यानुयाजव्यतिरिक्त सङ्कोचनाद्य जिंविधेरुपसंहार विधित्व' भवति नेतावता किञ्चिद्विरुध्यते । विध्यभावे हि कथं विधिकार्य्यमुपसंहारः पर्युदासेन क्रियत इति भवति विरोध: नचात्र विधिर्नास्ति नञोऽनुयाजपदसम्बन्धेन विधेविधायकत्वस्याव्याघातात् ।
अत्र हि पर्युदासोऽनुयाजव्यतिरिक्तविषय समर्पकः, श्राग्नेयपदवत् । उपसंहारकस्तु विधिरेव । नचात्र तन्मात्रसङ्गीचाभावानोपसंहार इति वाच्यम् । तन्मात्रसङ्कोच इति कोऽर्थः ? आग्न यमात्रे सङ्कोचो वा ? सामान्यप्राप्तस्य विशेषमात्रे सङ्कोचो वा ? आद्येऽनारभ्याधीत सातदश्यस्य मित्र विन्दादिप्रकरणस्थेन वाक्ये नोपसंहारो न स्यात् । श्राग्नये सङ्कोचाभावात् । द्वितीये चतुर्द्धाकरणस्य पुरोडाशमात्रे प्राप्तस्याग्नये सङ्कोचवत् । अनुयाजाननुयाज साधारण्येन प्राप्तस्यानुयाजेषु सङ्कोचादुपसंहारः स्यादेव । एतावांस्तु विशेषः । श्रग्न यादिवाक्येषु आग्न यादयो विशेषाः स्वपदीपस्थापकाः प्रकृते तु पर्य्युदासे न तस्योपस्थितिरिति । उपसंहारन्यायस्त्व विशिष्ट एव । यच्च तदन्यमात्रसङ्कोचनार्थत्वात् पर्व्व दासस्येति तत्र । नेचेतेत्यत्र सत्यपि पर्य्युदासे सङ्कोचाभावात् । नह्यत्र सामान्ये प्राप्त
तदन्यमात्रे सङ्कोच्यते । सङ्कल्पमात्रविधानादित्युक्तमित्यास्तां तावत् । तत्सिद्ध ं नानुयाजेष्वित्यत्र विकल्पप्रसक्त्या पर्य्य ुदासाश्रयणमिति । यत्र तु स आश्रयितुं न शक्यते । तत्र तत्प्रसक्तावपि निषेध श्रीयते ।
यथा नातिरात्रे षोड़शिनं गृह्णातीत्यत्र ह्यतिरात्रे षोडशिनं गृह्णातीति शास्त्रप्राप्तमिति रात्रे षोड़शिग्रहणं प्रतिषिध्यत इति विहितप्रतिषिद्धत्वात् विकल्पप्रसक्तावपि पर्य्युदासो नाश्रीयते
अशक्यत्वात् ।
यदि ह्यत्र नञः षोड़शिपदेन सम्बन्धः खीक्रियेत तदा अतिरात्रे पोड़शिव्यतिरिक्तं गृह्णातीति वाक्यार्थः स्यात् । तत्र चातिरात्रे षोडशिनं गृह्यातीति प्रत्यक्षश्रुतिविरोधः । एत एवातिरात्रपदेन नञः सङ्कोचेऽतिरात्रे षोड़शिनं गृह्णातीति प्रत्यक्षविधिविरोधात्। अतश्चात्र पर्युदासस्यानुपपत्तेर्निषेध एव स्वीक्रियते । विकल्पोऽपि खोक्रियते अनन्यगतेः । अतश्चैतत्सिड' यत्र तस्य व्रतमित्याद्युपक्रमः । विकल्पप्रसक्तिश्च नास्ति तत्र प्रतिषेधो यथा न कलञ्ज भक्षयेदिति । यत्र वा विकल्पप्रसक्तावपि पर्य्युदासो श्राश्रयितुं न शक्यते तत्र प्रतिषेधः यथा नातिरात्रे षोड़शिनं गृह्णातीति । एतावांस्तु विशेषः यत्र विशेषः यत्र विकल्पापादकः प्रतिषेधः तत्र प्रतिषिध्यमानस्य नानर्थहेतुत्वम् । उभयोरपि विधिनिषेधयोः क्रत्वर्थत्वात् । यत्र तु न विकल्पः प्रसज्यते प्राप्तिश्च रागतः प्रतिषेधश्च पुरुषार्थस्तत्र निषिध्यमानस्यानर्थहेतुत्वम् । यथा कलञ्जभक्षगणस्य । दौचितो न ददाति न जुहोतीत्यादिषु तु दानहोमादीनां शास्त्रप्राप्तावपि पुरुषार्थत्वेन प्राप्तत्वात् क्रत्वर्थत्वेन च प्रतिषेधात्तुल्यार्यत्वाभावेन विकल्पप्रसक्तावपि न तेषामनर्थहेतुत्वम् । रागतः प्रात्यभावात् । रागतः प्राप्तस्यापि क्रत्वर्थ-
त्वेन प्रतिषेधे तदनुष्ठानात् क्रतोर्वैगुण्येनानर्थ हेतुत्वापत्तिः । यथा स्वस्त्युपगमनादिप्रतिषेधे रागतः प्राप्तस्य पुरुषार्थत्वेन प्रतिषेधे निषिध्यमानस्यानर्थहेतुत्वमिति दिक् । तत्सिद्धं निषेधानां पुरुषार्थानुवन्धित्वम् । एवं सर्वस्यापि वेदस्य पुरुषार्थानुवन्धित्वम् ।
प्रकृतमनुसरामः तदेवं यथाविध्यादीनामध्ययनविध्युपात्तानां नानर्थक्यम् एवमर्थवादानामपि तदुपात्तत्व नानर्थक्यानुपपत्तेः स्वार्थे प्रतिपादने च प्रयोजनाभावात् लक्षण्या प्रयोजनवदर्थपर्य्यवसानं वक्तव्यम् । ते चार्थवादा द्विविधा विधिशेषा निषेधशेषाश्च । तत्र वायव्यं खेतमाल भेतेत्यादिविधिशेषाणां वायुर्वै चेपिष्ठा देवतादीनामर्थवादानां विधेयार्थस्तावकतयाऽर्थवत्त्वम् । वर्हिषि रजतं न देयमित्यादिनिषेधशेषाणां सोऽरोदीत् इत्यादीनामर्थवादानान्तु निषेध्यनिन्दकतयेति । अतश्च लक्षणया प्राशस्त्यम प्राशस्त्यं च स्वतनिधिपठितविधिनिषेधापेचितत्वात् स्वार्थप्रतिपादने प्रयोजनमलभमानेरर्थवादेर्बोध्यते । तच्च प्राशस्त्यज्ञानं शब्दभावनायामितिकर्त्तव्यतात्वेन सम्बध्यते । परमप्रकृतमनुसरामः तत्सिद्ध वक्ष्यमाणार्थभावनाभाव्यकालिङ्गादिज्ञानकरणिका प्राशस्यज्ञानेतिकर्त्तव्यताका शाब्दीभावना लिङ्त्वांशेनोच्यत इति ।
ननु केयं शाब्दो भावना । उच्यते पुरुषप्रवृत्त्यनुकूलो व्यापारविशेषः स एव विध्यर्थः । लिङादिश्रवणेऽयं मां प्रवर्त्तयतीति तस्य नियमेन प्रतीतेः । यत्त् इष्टसाधनत्वं विध्यर्थं इति तन्न । तथा सति इष्टसाधनमिति शव्दस्य विधिशब्दः पर्यायः स्यात् । न च पर्यायत्व' युज्यते सन्ध्योपासनं ते दृष्टसाधनं तस्मात् तत् त्वं कुर्विति सहप्रयोगात् । पर्यावाणाञ्च सहप्रयोगाभावात् । श्रतश्च व्यापारविशेष एव विध्यर्थः । स च लोके पुरुषनिष्ठोऽभिप्राय-
विशेषः । वेदेतु पुरुषाभावाच्छब्दनिष्ठ एव प्रेरणा परपर्य्याय इत्युक्तम् । ननु लोके शब्दनिष्ठे प्रेरणापरपर्याये व्यापारशब्दप्रयोगाभावेन शक्तिग्रहाभावात् कथं तस्य विधिशब्दात् प्रतीतिरिति चेत् ? सत्यमेतत् तथापि बालस्तावत् स्तनपानादौ स्वकृतरोदनादिजनितमातृप्रवृत्तेः स्वाभिप्रायरूपप्रवत्तं नानानजन्यत्वावधारणात् सविधिकप्रयोजकवाक्यश्रवणसमनन्तरभाविनीं प्रयोज्यवृद्धवृत्तिमुपलभ्य तत्कारणत्वेन तस्य प्रवर्त्तनाज्ञानमनुमिमीते । यद्यपि भोजनादौ स्वप्रवृत्तेः समीहितसाधनताज्ञानपूर्वकत्वात् प्रयोज्यप्रवृत्तेरपि तत्पूर्वकत्वाध्यवसानं युक्तम् । तथाप्यन्यप्रेरितप्रवृत्तौ प्रवर्त्तनाज्ञानजन्यत्व स्योक्तमातृप्रवृत्तौ दर्शनेन प्रयोज्यवृद्धप्रवृत्तेरपि अन्य प्रेरितप्रवृत्तित्वात्कारणत्वेन प्रवर्त्तनाज्ञानस्यैवाध्यवसानम् । तच्च प्रवर्त्तनाज्ञानमन्वयव्यतिरेकाभ्यां प्रयोजकवाक्यजन्यमित्यवधारयति । तत्र चावापोदापाभ्यां प्रवतेनायां विधिशक्तिमवधारयति । प्रहृत्यनुकूलो व्यापारः प्रवर्त्तना । स च व्यापारः प्रषादिरूपो विविध इति प्रत्येकं व्यभिचारित्वाद्दिधिशब्दवाच्चत्वानुपपत्तेः प्रवर्त्तनासामान्यमेव विधिशब्दवाच्यमिति कल्पयति । एवञ्च विधिश्रवणे प्रैषादिरूपस्य वक्त्रभिप्रायस्य प्रवर्त्तनात्वेनैव रूपेण प्रतीतिर्न विशेषरूपेण । तथैव शक्तिग्रहात् । विशेषरूपेण तु प्रतोतिर्लक्षणयेव । एवञ्च वैदिकलिङादिश्रवणेऽपि प्रवर्त्तनासामान्यमेव प्रतीयते । तत्र कोऽसौ व्यापार इत्यपेक्षायां प्रैषादिरूपस्य वक्त्रभिप्रायस्यापोरुषये वेदेऽनुपपत्तेः शाब्दनिष्ठ एव प्रेरणापरपर्याय: कश्चिद्यापार इति कल्पते । अतश्च शब्दनिष्ठ एव प्रेरणापरपर्यायो व्यापारः शाब्दो भावना सैव च प्रवर्त्तनात्वेन रूपेण विध्यर्थं इति । अयमेव चार्थोऽभिधाभावना माहुरन्यामेव लिङादय इति वार्त्तिकस्य । श्रभिधीयतेऽनेनेति व्युत्पत्त्या अभिधाशब्देन शब्द
उच्चते तत्रापारात्मिका भावना लिङादिवाच्येति केचिदाचार्य्याः ।
अन्य त्वाहुः, सत्यं प्रवर्त्त नासामान्य विध्यर्थः तथैव शक्तिग्रहात् प्रवृत्त्यनुकूलश्च व्यापारः प्रवर्त्तना । अपौरुषेये च वेदे प्रैषादेरसम्भवात् कश्चित् पुरुषप्रवृत्त्या अनुकूलोऽसौ व्यापारविशेषः कल्पनीयः । विधिशब्दाभिधेयप्रवर्त्त नासामान्यस्य विशेषमन्तरेण अपर्य्यवसानात् । तत्र कोऽसौ व्यापार इत्यपेक्षायां धात्वर्थगतं समीहितसाधनत्वमेवेति कल्पते । तस्यापि खप्रवृत्त्यनुकूलत्वात् सर्वो हि समीहितसाधनतां ज्ञात्वा प्रवर्त्तते । अन्यप्रेरितोऽपि यदीष्टसाधनतां न जानाति तदा नैव प्रवर्त्तते स्वतन्त्र प्रेरणावादेऽपि तदाचिप्तसमीहितसाधनताज्ञानं स्वीक्रियते एव अन्यथा विधेः प्रवत्तकत्वानुपपत्तेः । अत्यावश्यकत्वात् समीहितसाधनतैव प्रवर्त्तनात्व ेन रूपेण विध्यर्थः । एवञ्च विधिशब्दस्यापर निष्ठव्यापारबोधकत्व' लोकसि भवति । किञ्च शब्द एको व्यापरः स्पन्दाद्यतिरिक्तः कल्पनीयः । तस्य च स्वप्रवृत्तौ पराधीनप्रवृत्तौ वा करणत्वे नाक्लृप्तस्य प्रवर्त्तनात्वेन रूपेण ज्ञातस्य प्रवृत्त्यनुकूलत्वम् । शब्दस्य च परनिष्ठव्यापारज्ञापकत्वेन कृतस्य खनिष्ठ व्यापारबोधकत्वम् । विधेश्च प्रवर्त्तकत्वनिर्वाहार्थं धात्वर्थस्य समोहितसाधनत्वमिति कल्पनाद्दरमावश्यकस्यैव समीहितसाधनत्वस्य स्वप्रवृत्तिहेतुत्वेन क्लप्तस्य प्रवर्त्तनात्वेन रूपेण विध्यर्थ त्वकल्पनं लाघवात् अन्यनिष्ठत्वाच्च । न च विधेः प्रवर्त्तकत्व निर्वाहार्थ समीहितसाधनत्वकल्पनात् प्रेरणानभिधाने च विधेरप्रवर्त्तकत्वात् धात्वर्थस्य समौहितसाधनत्वकल्पनमेव
नास्तीति वाचम् । प्रवर्त्तनाभिधानेन एतन्मतेऽपि विधेः प्रवर्त्तकत्वात् । विध्यभिहितस्य च प्रवर्त्तनासामान्यस्य विशेषमन्तरे-
पर्यवसानात्समीहितसाधनत्वाचेपकत्वात् । न चेष्टसाधनत्वस्य विध्यर्थत्वे सन्ध्योपासनं ते दृष्टसाधनं तत् त्वं कुर्विति सहप्रयोगानुपपत्तिरिति वाच्यम् ।
प्रवदृष्टसाधनत्वस्य विशेषरूपेण विधिनानभिधानात् । तेनात्वेन रूपेणाभिधानात् । सामान्यशब्दस्य च विशेषशब्देन दृष्टः सहप्रयोगः । पाञ्चालीराजा द्रुपद इत्यादौ । तस्मात्समौहितसाधनतैव प्रवर्त्तनात्वेन रूपेण विध्यर्थः । सेवच तेन रूपेण शब्द नैवाभिधीयते इति शाव्दी भावना । उक्तवार्त्तिकस्याप्ययमेवाभिप्रायः । श्रभिधीयते साभिधा समीहितसाधनता सेव प्रवत्तनात्वेन अभिहिता पुरुषप्रवृत्ति भावयतीति भावना तो लिङादय आहुरिति । यथाहुः,
पुसो नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्त्तकः । प्रवृत्तिहेतु' धर्मञ्च प्रवदन्ति प्रवर्त्तनाम् ॥ इति तत्सिद्दम् । यजेतेत्यत्र लित्वांशेन शाब्दी भावनोच्यते ।
इति आख्यातांशेन चात्रार्थी भावनोच्यते । ननु केयमार्थी
भावना । कर्तृ व्यापार इति चेत् ? न । यागादेरपि तयापारत्वेन भावनात्वापत्तेः । न चेष्टापत्तिः । तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभावादिति चेदत्राहुः । सत्यं न यागो भावना । किन्तु स्वर्गेच्छाजनितो यागविषयो यः प्रयत्नः सा भावना । स एव चाख्यातांशेनोच्यते यजेतेत्याख्यातश्रवणो यागे यजेतेति प्रतीतंजयमानत्वात् । यश्च यत्नपूर्वकं गमनादि करोति तस्मिन् देवदत्तो गमनं करोतीति प्रयोगदर्शनात् । वातादिना स्पन्दमाने तु नायं करोति किन्तु वातादिना अस्य स्पन्दो जायते इति प्रयोगात् करोत्यर्थस्तावत्प्रयत्नः । करोति सामानाधिकरण्यञ्चाख्याते ह श्यते । यजेत यागेन कुर्य्यात् पचति पाकं करोति गच्छति गमनं करोतीति । अतश्च करोतिसामानाधिकरण्याप्रयत्नस्याख्यात-
वाच्यत्वम् । न च रथो गच्छतीति प्रयोगानुपपत्ति: रथे यत्नाभावादिति वाच्यम् । वोदरन्तर्गतं प्रयत्न रथे श्रारोप्य प्रयोगोपपत्तेः । यन्मतेऽप्यन्योत्पादानुकूलं व्यापारसामान्यं भावना तन्मतेऽपि रथे गमनातिरिक्तव्यापारानुपलब्धेः । रथो गच्छतीति प्रयोगस्योपचारिकत्वमेवेति श्रतश्च प्रयत्न एवार्थो भावना ।
यथाहु:,
प्रयत्नव्यतिरिक्तार्थभावना तु न शक्यते ।
वक्तुमाख्यातवाच्चे ह प्रस्तुतेऽप्युपरम्यत इति ।
अन्य त्वाहुः भवितुभावनानुकूलो भावकव्यापारस्तावद्भावना । यस्मिन् व्यापारे कृते करणं फलोत्पादनाय समर्थं भवति ताहशो व्यापार इति यावत् । स एव चाख्यातार्थः । कुठारेण छिनत्ति इत्याख्यातश्रवणे हि भवत्य तादृशौ मतिः । कुठारेण तथा व्याप्रियेत यस्मिन् व्यापारे कृते कुठारेण छेदनं भवतीति । एवं यजेत स्वर्गकाम इत्यस्यायमर्थः । यागेन तथा व्याप्रियते यस्मिन् व्यापारे कृते यागात् स्वर्गा भवतीति । स च व्यापारः क्वचिदुद्यमननिपतनादिः क्वचिच्चाग्न्याधानादिब्राह्मणतर्पणान्तः । कथम्भावाकाङ्गायां विशेषरूपेण पश्चादवगम्यते । अन्योत्पादनानुकूलत्वेन सामान्यतस्त्वाख्यात एवावगम्यते । रथो ग्रामं गच्छतीत्याख्यातेन ग्रामप्रात्यनुकूलो व्यापार एव प्रतीयते । रथस्तथागमने व्याप्रियते यस्मिन् व्यापारे कृते गमनाद ग्रामप्राप्तिर्भवतीति प्रतीतेः । नत्वत्र गमनमात्रमाख्यातार्थः । तस्य धातुनोक्तत्वात् । तत्र कोऽसौ व्यापार इत्यपेक्षायां पूर्वोत्तरावान्तर देशविभजनसंयोजनरूप इति पश्चादवगम्यते । पूर्वेण प्रदेशेन वियुज्योत्तरेण संयुज्य रथो ग्रामं गच्छतौति प्रयोगात् । उद्यम्यनिपात्य कुठारेण छिनत्तीतिवत् । एवं देवदत्तः प्रयतते इत्यत्रापि देवदत्तस्तथा व्याप्रियते यथा प्रयत्नी भवतीति ।
प्रयत्नानु-
कूलो व्यापार एवाख्यातार्थो न तु प्रयत्नः तस्य धातुनोक्तत्वात् । व्यापारविशेषाकाङ्गायाञ्च इच्छादिः पश्चादवगम्यते उद्यमनपतनवत् । तथा च सर्वत्रानुगतत्वादन्योत्पादानुकूलं व्यापारसामान्यमेवाख्यातार्थः । न तु प्रयत्नमात्त्रम् । रथो गच्छति देवदत्तः प्रयतते इत्यादिषु तदभावात् । न चात्रौपचारिकत्वं वक्तु युक्तम् । मुख्ये सम्भवति तस्यान्याय्यत्वात् । करोत्यर्थोऽप्यन्योत्पादानुकूलो व्यापार एव न प्रयत्नमात्रम् । करोतेश्चेतनाचेतनकर्ट काख्यातसामानाधिकरण्यादिति । तत्सिद्धमन्योत्पादानुकूलो व्यापार आर्धी भावनेति । सैव च यजेतेत्याख्यातांशेनोच्यते भावयेदिति । तस्याश्च भाव्याकाङ्गायां स्वर्गादि भाव्यत्वेन सग्वध्यंते । करणाकाङ्क्षायां यागादिः करणत्वेन मम्बध्यते । प्रयाजादय इतिकर्त्तव्यतात्वेन । एवञ्च यजेतेत्यादिना स्वर्गाद्युद्देशेन यागादेर्विधानात् सिद्ध' यागादेर्धर्मत्व' प्रयोजनमुद्दिश्य वेदेन विहितत्वादिति । सोऽयं धर्मो यदुद्देशेन विहितस्तदुद्देशेन क्रियमाणस्तद्वेतुः । श्रीगोविन्दार्पणबुड्या क्रियमाणस्तु निःश्रे. यसहेतुः । न च तदर्पणबुड्यानुष्ठाने प्रमाणाभावः ।
" यत्करोषि यदश्नासि यज्ज होषि ददासि यत् । यत्तपस्यसि कोन्तेय ! तत्कुरुष्व मदर्पणम् ॥” इति स्मृतः ॥ अस्याश्चाष्टकादिस्मृतिवत्प्रामाण्यादिन्यत्र विस्तरः ।
"क्वाहं मन्दमतिः केयं प्रक्रिया भाट्टसंमता । तस्माद्भक्तेर्विलासोऽयं गोविन्द गुरुपादयोः ।
ग्रन्थरूपो मदौयोऽयं वाग्व्यापारः सुशोभनः ॥ अनेन प्रोयतां देवो गोविन्दो भक्तवत्सलः ॥ "
इति श्रनन्तदेवसूनुना आपदेवेन कृतं मीमांसान्यायप्रकाश' ज्ञसकं मोमांसाप्रकरणं समाप्तिमगमत् ।