मीनाक्षीपञ्चरत्नम्

विकिस्रोतः तः
मीनाक्षीपञ्चरत्नम्
शङ्कराचार्यः
१९१०

॥ श्रीः ॥

॥ मीनाक्षीपञ्चरत्नम् ॥

उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां
 बिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।
विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवां
 मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारण्यवारान्निधिम् ॥ १ ॥

मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्रप्रभां
 शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् |
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां
 मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ २ ॥
  
श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलां
श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायकीम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं
 मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ ३ ॥

श्रीमत्सुन्दरनायकीं भयहरां ज्ञानप्रदां निर्मलां
 श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिकां
 मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ ४ ॥

नानायोगिमुनीन्द्रहृन्निवसतीं नानार्थसिद्धिप्रदां
 नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्त्वात्मिकां
 मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ ५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
मीनाक्षीपञ्चरत्नं सपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=मीनाक्षीपञ्चरत्नम्&oldid=288239" इत्यस्माद् प्रतिप्राप्तम्