मालविकाग्निमित्रम्/पञ्चमोऽङ्कः

विकिस्रोतः तः
← चतुर्थोऽङ्कः मालविकाग्निमित्रम्
पञ्चमोऽङ्कः
कालिदासः

। ततः प्रविशत्युद्यानपालिका ।

उद्यानपालिका । उवख्खित्तो मए किदसक्कारविहिणो तवणीआसोअस्स भित्तिबन्धो । जाव अणुठ्ठिअणिओअं
अप्पाणं देवीए णिवेदेमि । परिक्रम्य । अहो देव्वस्स अणुकम्पणिज्जा मालविआ । तस्सिं . तह चण्डिआ देवी ३
इमिणा असोअकुसुमउत्तन्तेण पसादाहिमुही भविस्सदि।
कहिं णु ख्खु भवे देवी । विलोक्य । एसो देवीपरिअणभ्भन्तरो किवि जदुमुद्दालच्छिअं चीरमञ्जूसं करे गेण्हिअ
कुज्जो. सारसओ चउस्सालादो णिक्कमेदि । पुछ्छिस्सं
दाव णं ।

। ततः प्रविशति यथानिर्दिष्टः कुब्जः ।

उद्यान° । उपसृत्य । २सारसअ कई पथ्थिदोसि ।

१. उपक्षिप्तो मया कृतसंस्कारविधेस्तपनीयाशोकस्य भित्तिबन्धः । यावदनुष्ठितंनियोगमात्मानं देव्यै निवेदयामि । अहो दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डिका देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादाभिमुखी भविष्यति । क्व नु खलु भवेद्देवी ।
एष देवीपरिजनाभ्यन्तरः कामपि जतुमुद्रालाञ्छितां चीरमञ्जूषां करे गृहीत्वा कुब्जः
सारसकश्चतुःशालाया निष्क्रमति । प्रक्ष्यामि तावदेनम् ।
२. सारसक कुत्र प्रस्थितोसि ।

2. B D E तवणीया.
6. F omits “ इमिणा."—F °कुसुम-
थ्थवएण.
7. F देवीए परि°.  [बन्धनं.
8. A BC जव;F" जउ- F' चीर
9. F सारओ (= सारकः), and re-
tains the same form of the
proper name in the suc-
ceeding speeches. ---A B C
पुछ्छिसं.
सारसकः। १मधुअरिए विज्जापारआणं अणुचिठ्ठन्ताणं बम्हणाणं इमा णिच्चदख्खिणा मासिआ दादव्वा।तं अज्जपुरोहिदस्स हथ्थं पाविदुं।
मधुकरिका। २किंणिमित्तं।
सारसकः। ३जदप्पहुदि सुदं सेणावइणा जण्णतुरअरख्खणे
णिउत्तो भट्टिदारओ वसुमित्तओत्ति तदप्पहुदि तस्स
आउसो णिमित्तं अठ्ठादससुवण्णपरिमाणं दख्खिणं
देवी दख्खिण्णेहिं पडिग्गाहेइ।
मधुकरिका। ४जुज्जइ । अह कहिं देवी ।
सारसकः। ५मङ्गलघरए आसण्णथा विदभ्भविसआदो भादुणा
वीरसेणेण पेसिदं लिविकरेहिं वाचिअमाणं लेहपत्तं
सुणादि।

१. मधुकरिके विद्यापारगणामनुतिष्ठतां ब्राह्मणानामियं नित्यदक्षिणा मासिका दातव्या।
तामार्यपुरोहितस्य हस्तं प्रापयितुम्।
२. किंनिमित्तम्।
३. यत्तःप्रभृति श्रुतं सेनापतिना यज्ञतुरगरक्षणे नियुक्त्तो भर्तृदारको वसुमित्र इति ततः-
प्रभृति तस्यायुषो निमित्तमष्टादशसुवर्णपरिमाणां दक्षिणां देवी दक्षिण्यैः परिग्राहयति।
४. युज्यते।अथ क्व देवी।
५. मङ्गलगृह आसनस्था विदर्भविषयाद्द्रात्रा वीरसेनेन प्रेषितं लिपिकारैर्वाच्यमानं लेखप-
-त्रं शृणोति।

1. F महुआरिए.-A.°पारअणां, C
°पारआणां;F विज्जापाराणं.
2. F इअं for "इमा"-D E F
अ=अ°.
6. A C णिवुत्तो.
8. B D E दाख्खिणेहिं;C दख्खिणेहिं.
-F पडिग्गाहिअइ.
11. A E लिविंकरेहिं.
मधुकरिका । १को उण बिदम्भराअवुत्तन्तो।
सारसकः। २वसीकिदो किल वीरसेणप्पमुहोहिं भट्ठिणो विअअदण्डेहिं विदम्भणाहो । मोइदो से दाआदो माहवसेणो । तेण हि महासाराणि रअणवाहणाणि सिप्पिदारिआभूइट्ठ परिअणं अ उवाअणीकरिअ दूदो भट्टिणो
सआसं पोसिदो। सुवो किल भट्टारं देख्खिस्सदित्ति ।
मधुकरिका । ३गछ्छ अणुचिट्ठ अत्तणो णिओअं । अहंवि देवीं
पेख्खिस्सं ।
[निष्कान्तौ ।

॥ प्रवेशकः ।

। ततः प्रविंशति प्रतीहारी ।

प्रतीहारी । ४आणत्तम्हि देवीए । विण्णवेहि अज्जउत्तं ।
इछ्छामि अज्जउत्तेण सह असोअरुख्खपसूणलछीं पञ्चख्खीकरेदुंति । जाव धम्मासणगदं देवं पडिवालेमि ।
।इति परिक्रामति ।

१. कः पुनर्विदर्भराजवृत्तान्त:।
२. वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भमाथ: । मोचितोस्य दायादो माधवसेनः । तेन हि महासाराणि रत्नवाहनानि शित्रिपदारिकाभूयिष्ठं परिजनं चोपायनीकृत्य दूतो भर्तुः सकाशं प्रेषितः । श्व: किल भर्तारं द्रक्ष्यतीति ।
३. गच्छानुतिष्ठात्मनो नियोगम् । अहमपि देवीं प्रेक्षिष्ये ।
४. आज्ञत्पास्मि देव्या । विज्ञापयार्यपुत्रम् । इच्छाम्यार्यपुत्रेण सहाशोकवृक्षप्रसूनलक्ष्मीं
प्रत्यक्षीकर्तुमिति । यावद्धर्मासनगतं देवं प्रतिपालयामि ।

2. A C D E °पमुहेहिं
5. Our MSS. परिअणं उवाअणीक-
रिअ दूदो अ• We with G.-
B E करीअ
6. B सुव्वो-' दख्खि°.
8. B पेख्ख्वीस्सं; F' पख्खिस्सं.
12. E F' अ-अं.
13. D E F अ-अं-F °लछ्छिं पञ्चख्खी-
करिदुंत्ति.

। नेपथ्ये वैतालिकौ ।

दिष्ट्या दण्डेनैवारिशिरःसु वर्तते देवः ।
प्रथमः
परभृतकलव्याहारेषु वमात्तरतिर्मधुं
नयसि विदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान् ।
विजयकरिणामालानाङ्कैरुपोडढबलस्य ते
वरद वरदारोधोवृक्षै: सहावनतो रिपुः ॥ १ ॥
द्वितीयः
विरचितपदं वीरप्रीत्या सुरोपमसूरिभिश्
चरितमुभयोर्मध्येकृत्य स्थितं कथकैशिकान् ।
तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियं
परिघगुरुभिर्दोर्भि: शौरेः प्रसह्य च रुक्मिणीम् ।। 2 ।।
प्रती° । १एसो जअसद्दसूहअपथ्धाणो इदो एव्व आअ-
छ्ुछदि देवो । अहंवि दाव इमस्स पमुहादो किंवि ओसरिअ एदं मुहालिन्दतोरणं समस्सिदा होमि । एकान्ते
स्थिता ।

। ततः प्रविशति सवयस्यो राजा ।

राजा
कान्तां विचिन्त्य सुलभेतरसंप्रयोगां
श्रुत्वा विदर्भपतिमानमितं बलैश्व ।
धाराभिरातप इवाभिहतं सरोजं
दुःखायते च हृदयं सुखमश्नुते च ॥ ३ ॥

१. एष जयशब्दसूचितप्रस्थान इत एवागच्छति देव: । अहमपि तावदस्य प्रमुखतः किं-

चिदपसृत्यैतन्मुखालिन्दतोरणं समाश्रिता भवामि ।

13. B जयसद°- F आअछ्छइ.

विदूषकः[१]जह देख्खामि तह सव्वहा एक्कन्तसुहिदो भवं
भविस्सदि ।
राजा । सखे कथमिव ।
विदूषकः[२]अज्ज किल देवीए धारिणीए पण्डिदकोसिई भणिदा । भअवदि जइ तुमं पसाहणगव्वं वहेसि तं दंसेहि
मालविआए सरीरे वेदभ्भअं विवाहणेवथ्थंति । ता
सविसेसालंकिदा मालविआ । तत्तहोदी कदाविभ्भवदो
मणोरहं पूरेइ ।
राजा। सखे मदपेक्षानुवृत्त्या निवृत्तेर्ष्याया धारिण्याः पूर्वचरितैः
संभाव्यत एतत् ।
प्रती° । उपगम्य । [३]जेदु भट्टा । देवी विण्णवेदि तवणीआसोअस्स
कुसुमसोहादंसणेण मह आरम्भो सफलो करीअदुत्ति ।

1. F दख्खामि.--Our MSS. do
not give "तह." We ac-
cording to G.--B सुहितो.
2. A B C D E read त्ति after
"भविस्सदि."
4. B E कोसिइ.
5. A C D E F वहसि.
6. A D E णेवछ्छं; F णेपछ्छं.
7. D कदाचि for "कदाविभ्."
8. A B C D E पुराएइ.
11. A विणवेदि.
12. F सोहादस्सणेण--A B C D E
महारम्भो for "मह आरम्भो."
--A B C D सफलं.

राजा । ननु तत्रैव देवी ।
प्रतीहारी । १अह इं । जहारुहसंमाणसुहिदं अन्तेउरजणं विसज्जिअ मालविअपुरोगेण अत्तणो परिअणेण सह देवं
पडिवालेदि ।
राजा। सहर्षम् । विदूषकं विलोक्य । जयसेने गच्छाग्रत: ।
प्रतीहारी । २इदो इदो देवो ।

। सर्वे परिकामन्ति ।

विदूषक:। विलोक्य । ३भो वअस्स किंवि परिवुत्तजोव्वणो विअ
वसन्दो पमदवणे लख्स्वीअदि।
राजा । यथावृत्तं भवानाह।
अग्रे विकीर्णकुरबकफलजालविभुज्यमानसहकारम् ।
परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेत: ॥४॥
विदूषक: । ४भो अअं सो दिण्णणेवथ्थो विअ कुसुमथ्थबएहिं तवणीआसोओ । ओलोअदु भवं।

१. अथ किम् । यथार्हसंमानसुखितमन्त:पुरजनं विसख्य्र मालविकापुरोगेणात्मन: परिजनेन सह देवं प्रतिपालयति ।
२. इत इतो देव: ।
३. भो वयस्य किमपि परिवृत्तयौवन इव वसन्त: प्रमदवने लक्ष्यते ।
४. भो भयं स दत्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोक: । आलोकयतु भवान् ।

2. F°सुहं for‘सुहिदं"-B विसज्जीअ
3. B C D F' मालविआ°
8. B वयस्य-A C किंवि ; D E किं-
चि; F' किंचिप्परिवुत्त –-A C
E 'जोवणो.
13. A D E णेवछ्छो.
राजा । स्थाने खल्वयं प्रसवमन्थरोभूत् । यदयमिदानीमनन्यसाधारणां शोभामुद्वहति । पश्य ।
सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम् ।
निर्वृत्तदोहदेस्मिन्संक्रान्तानीव कुसुमानि ॥ ८ ॥
विदूषकः । १भो विस्सध्धो होहि । अम्हेसु उवगदेसु धारिणी 3
पस्सपरिवट्टिणीं मालविअं अणुणेइ ।
राजा । सहर्षम्। पश्य सखे ।
मामियमभ्युत्तिष्ठति देवी विनयादुपस्थिता प्रियया ।
विस्मृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव ॥६॥

। ततः प्रविश्यति परिव्राजिका देवी

मालविका विभवतश्च परिवारः।

मालविका । आत्मगतम्। २जाणामि णिमित्तं कोदुआलंकारस्स ।
तहवि मम हिअअं विसिणीपत्तगअं सालिलं विअ वेवदि । दख्खिणेदरंवि णअणं पफ्फुरइ ।
विदूषकः ।२भो असंदेहं वेवाहिअणेवथ्थेण सविसेसं सोहइ अत्तहोदी मालविआ ।

१. भो विश्रब्धो भव । आवयोरुपगतयोर्धारिणीं पार्श्वपरिवर्तिनीं मालविकामनुनयति ।
२. जानामि निमित्तं कौतुकालंकारस्य । तथापि मम हृदयं बिसिनीपन्तगतं सलिलमिव वेपते । दक्षिणेतरमपि नयनं प्रस्फुरति ।
३. भो असंदेहं वैवाहिकनेपथ्येन सविशेषं शोभतेत्रभवती । मालविका ।

1. Our MSS. Omit अयं after
खलु." We with G.
4. B C D F °दौहृदे (दोर्हृदे?)-
6. Our MSS. अम्हेसु उवगदेसु &c.
as given above. G reads| .
otherwise. See Notes.
8. F विनयादनु[नु]-त्थिता प्रियया ।
11. B D E परीवार:
13. B पत्तगदं; P विसिणीपत्तगदं.
14. A C दखिणेदरं.
15. A D E णेवछ्छेण
राजा । पश्याम्याभरणलंकृतामेनाम् ।
अनतिलम्बिदुकूलनिवासिनी
लघुभिराभरणैः प्रतिभाति मे।
उडुगणैरुदयोन्मुखचन्द्रिका
गतहिमैरिव चैत्रविभावरी ॥ ७ ॥
दैवी । उपेत्य । १जेदु अज्जउत्तो ।
विदूषकः । २वढ्ढदु होदी ।
परिव्राजिका । विजयतां देवः ।
राजा । भगवत्यभिवादये ।
परिव्राजिका । अभिप्रेतसिद्धिरस्तु ।
देवी । सस्मितम् । ३अज्जउत्त एस दे तरुणीजणसहाअस्स असंकेदघरओ अम्हेहिं विसज्जिदो ।
विदूषकः। ४भो तुमं आराहिदोसि ।
राजा । सव्रीडमशोकमभित: परिक्रामन् ।
नायं देव्या भाजनत्वं न नये:
सत्काराणामीदृशानामशोकः ।
यः सावज्ञो माधवश्रीनियोगे
पुष्पैः शंसत्यादरं त्वत्प्रयत्ने ॥ ८ ॥

१. जयत्वार्य पुत्रः ।
२. वर्धतां भवती ।
३. आर्यपुत्र एष ते तरुणोजनसहायस्या-
शोकः संकेतगृहकोस्माभिर्विसर्जित: ।
४. भो त्वमाराधितोसि

6. B उपसृत्य, -B E' अ-अं'.
11. D E F अ-अ°.
12. E संकेतघरए corrected from
an original संकेतघरओ.--F
सज्जिदो (= सज्जितः ).
13. A c अराहिदो°.
17. B C D सावेक्षो; A E too' so
originally, but they after-
wards correct it into सापेक्षो
विदूषक:| १भो विस्सध्धो भविअ इमं जोव्वणवदिं पेरव्ख |
देवी | २कं |
विदूषक: | ३तवणीआसोअकुसुमसोहं |
सर्वे | उपविशन्ति |
राजा | मालविका विलोक्यात्मगतम् | कष्टं खलु संनिधिवियोगो म‌- 5
माद्य |
अहं रथाङ्गंनामेव प्रिया सहचरीव मे |
अननुज्ञातसंपर्का धारिणी रजनीव नौ ||९||

। तत: प्रविशति कञ्चुकी ।

कञ्चुकी | जयतु जयतु देव: | अमात्यो विज्ञापयति | तस्मिन्विदर्भविषयोपायने द्वे शिल्पिदारिके मार्गरपरिश्रमादलसशरीरे इति कृत्वा न प्रवेशिते | संप्रति देवोपस्थानयोग्येतदाज्ञां देवो दातुमर्हतीति|
राजा | प्रवेशय ते |
कञ्जुकी | यदाज्ञापयति देव: | इति निष्कभ्य ताभ्याम् सह पुन: प्रविश्य | 15
इत इतो भवत्यौ |

१. भो विक्षब्धो भूत्वोमा यौवनवतो प्रेक्षस्व |
२. काम् ।
३. तपनीयाशोककसमशोभाम् ।

1. B विस्सधो भवीअ- Our MSS.
तुमं for "इमं". We with G.
3. D कुसुमसोहं ; F तवणीआसोअस्स
कुसुम.
10. A C F do not repeat "जयतु"
11. A B C D E शिम्प - B C D
E F परिक्रमात्.
12. A देवोपस्थाने योगये.
प्रथमा । जनान्तिकम् । १हला रअणिए अपुव्वं इमं राअउलं पविसन्तीए पसीदइ मे अभ्भन्दरगदो अप्पा ।
द्वितीया । २हञ्जे जोसणीए महवि एव्वं एव्व । अथ्थि ख्खु
एसो लोअवादो आआमि सुहं वा दुख्खं वा हिअअसमवथ्था कहेदित्ति ।
प्रथमा । ३सो सच्चो दाणिं णो होदु ।
कञ्चुकी । एष देव्या सह देवस्तिष्ठति । तावदुपसर्पेतां भवत्यौ ।

। उभे उपसर्पतः ।

10  । मालविका परिव्राजिका च चेव्यौ दृष्ठ्वा परस्परमवलोकयतः ।

उभे । प्रणिपत्य । ४जेदु भट्टा जेदु भट्टा । जेदु भट्टिणी जेदु भट्टिणी ।
राजा । स्वागतम् । इतो निषीदतम् ।
उभे । उपविष्टे ।

१. हला रर्जानके अपूर्वमिदं राजकुलं प्रविशन्त्याः प्रसीदति मेभ्यन्तरगत आत्मा ।
२. हञ्जे ज्योत्सिनके ममाप्येवमेव । अस्ति स्वत्वेष लोकवाद आगामि सुखं वा दुःखं वा
हृदयसमवस्था कथयतीति ।
३. स सत्य इदानोमावयोर्भवतु ।
४. जयतु भर्ता जयतु भर्ता । जयतु भट्टिनी जयतु भट्टिनी ।

2. A B D E F अभ्भन्तरं
3. A B C D E महवि अ एव्व
7. F उपसर्पताम्
11. A C D E F जेदु भट्टा । जेदु
भट्टिणी.
राजा । कस्यां कलायामभियोगो भवत्योः ।
उभे। २संगीदए अभ्भन्तरम्ह ।
राजा । देवि ग्रुह्यतामनयोरन्यतरा ।
देवो । २मालविए इदो देख्ख कदरा संगीदसहाइणी रुच्चइ ।
उभे । मालविकां दृष्ट्वा । ३अम्हो भट्टिदारिआ । प्रणिपत्य सह तया वाष्पं विसृजतः ।

। सर्वे सविस्मयमालोकयन्ति ।

राजा । के भवत्यौ का चेयम् ।
प्रथमा । देव इअं अम्हाणं भट्टिदारिआ ।
राजा । कथमिव ।
उभे । ५सुणादु भट्टा । जो सो भट्टिणा विअअदण्डेहिं विदभ्भणाहं वसीकरिअ बन्धणादो मोइदो कुमारो माहवसेणो णाम तस्स इअं कणीअसी भइणी मालविआणाम ।

१. संगीतकेभ्यन्तरे स्वः ।
२. मालविके इतः प्रेक्षस्व कतरा संगीतसखी रोचते ।
३. अहो भर्तृदारिका ।
४. देव इयमावयोर्भर्तृदारिका ।
५. शृणॊतु भर्ता । योसौ भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कुमारो ::माधवसेनो नाम तस्येयं कनीयसी भगिनी मालविका नाम ।

2. D E संगीतए.
4. F' दख्ख -B संगीत '.— A C
सहायिणी.
5. A B C D E भट्टदारिआ.
9. A ईअं; D इयं.–A c भट्टार;
B D E भट्ट°.
12. B करोअ
देवी । १अम्हो राअदारिआ इअं । चन्द्रणं ख्खु मए पादुआ-
परिभोएण दूसिदं ।
राजा । अथात्रभवती कथमिवेत्थंभूता ।
मालविका। निःश्वस्यात्मगतम् । २विहिणो णिओएण ।

05 द्वितीया । ३भट्टा सुणादु । दाआदवसंगदे अम्हाणं भट्टदारए

माहवसेणे तस्स अमच्चेण अज्जसुमइणा अम्हारिसं परिअणं उझ्झिअ गूढं अवणीदा एसा ।
राजा । श्रुतपूर्वं मयैतत् । ततस्ततः ।
उभे । ४एत्तिअं एव्व । अदो वरं ण आणीमो ।

10 परिव्राजिका । अतः परमहं मन्दभागिनी कथयिष्यामि ।

उभे । ५भट्टिदारिए अज्जाए कोसिईए विअ सरओओ सुणीअदि ।
मालविका । ६णं सा एव्व ।

१. अहो राजदारिकेयम् । चन्दनं खलु मया पादुकापरिभोगेण दूषितम् ।
२. विधेर्नियोगेन ।
३. भर्ता शृणोतु । दायादवशं गत आवयोर्भर्तृदारकै माधवसेने तस्यामात्येनार्यसुमतिनास्मादृशं परिजनमुज्झित्वा गूढमपनीतैषा ।
४. एतावदेव । अतः परं न जानीव: ।
५. भर्तृदारिके आर्यायाः कौशिक्या इव स्वरयोगः श्रूयते ।
६. ननु सैव ।

1. A B C D E अहो for अम्हो."
3. B अथ तत्र°.
4. D णीओएण.
6. B अमाच्चेण- D E F अ-अ.
7. B C D उझ्झिआ.
8. B omits ततस्ततः”
9. D E एत्तयं.
ll. A B Cभट्टार;DE भट्ट°-D E
F अ-आए.-A c कोसीइए;
B कोसिइए; D कोसीईए.
A सूरओओ BC D सरिओओ.
--F omits सुणीअदि .
उभे । १जइवेसधारिणी अज्जकोसिई दुख्खेण विभाविअदि।
दुवेवि अम्हे भअवदिं वन्दामहे ।
परिव्राजिका । स्वस्ति भवतीभ्याम् ।
राजा । कथमाप्रवर्गीयं भवत्याः ।
परिव्राजिका । एवमेतत् ।
विदूषकः । २तेण हि कहेहि दाणिं अन्नहोदीए उन्नन्तावसेसं ।
परिव्राजिका । सवैक्रव्यम् । श्रूयतां तावत् । माधवसेनसचिवं
सुमतिं ममाग्रजमवगच्छ ।
राजा । उपलब्धम् । ततस्ततः ।
परिव्राजिका । स इमां तथागतभ्रातृकां मया सार्धमपवाह्य
भवत्संबन्धापेक्षया पथिकसार्थं वैदिशगामिनमनुप्रविष्टः।
राजा । ततस्ततः ।
परिव्राजिका । स चाटव्यन्ते निविष्टो गताध्वा
वाणिग्जनध्वश्रमार्तो विश्रामितुम् ।

१.यतिवेषधारिष्यार्यकीशिकी दुःखेन विभाव्यते । द्वे अप्यावां भगवतीं वन्दावहे।
२. तेन हि कथयेदानीमत्रभवत्या वृत्तान्तावशेषम् ।

1. D E F अ-अ. -A c कोसिइ
2. A दूवे.-F भअवदीं.
4. E भगवत्याः,
6. F कहेहि २, i. e. कहेहि कहेहि-
A C D E अन्तहोदिए.
8. F उपगच्छ for "अवगन्छ."
11. A, as an after-correction,
विदिश'; F' विदेश.
14. B C D E F विश्रमिनुम्.
राजा । ततस्ततः ।
परिव्राजिका । ततश्च
तूणीरबन्धपरिणध्दभुजान्तरालम्
आकर्णलम्बिशिखिपिच्छकलापधारि ।

   कोदण्डपाणि निनदप्रतिरोधकानाम्

आपातदुष्प्रसहमाविरभूदनीकम् ॥ १० ॥
मालविका । भयं निरूपयति ।
विदूषकः । १मा भआहि । अदिक्कन्तं ख्खु भअवदी कहेदि ।
राजा । ततस्ततः ।

परिव्राजिका । ततो मुहूर्तं बध्दयुध्दास्ते पराङ्मुखोकृतास्तस्करैः

सार्थवाहयोद्धारः।
राजा । भगवति अतः परमिदानीं कष्टं श्रोतव्यम ।
परिव्राजिका । ततः स मत्सोदर्यः
इमां परीप्सुर्दुर्जातेः पराभिभवकातराम् ।

 भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ॥ ११ ॥

प्रथमा । २हंहो गर्दो तादो मरणं ।

१. मा भीः । अतिक्रान्तं खलु भगवती कथयति ।
२. हंहो गतस्तातो मरणम् ।

3. B C D तूणीरवद्ध°; F तणोरपट्ट°.
4. F आपाष्णि.-F 'शिखिवर्ह .
8. B D E भयाहि . – B कहेइ;
A C F कहेहि.
15. F भर्तुः प्रियः
16. F तदो for “तादो.”
द्वितीया । १अदो ख्खु भट्टिदारिआए इअं समवथ्था संवुत्ता ।
परिव्राजिका । बाष्पं विकिरति ।
राजा । तनुभृतामीदृशी लोकयात्रा । न
शोचितव्यस्तत्रभवान्सफलीकृतभर्तृपिण्डः ।
परिव्राजिका । ततोहं मोहमुपागता यावत्संज्ञामुपलभे तावदियं
दुर्लभदर्शना संवृत्ता ।
राजा । महत्खलु कष्टमनुभूतं भगवत्या ।
परिव्राजिका । ततो भ्रातृशरीरमग्निसात्कृत्वा
पुनर्नवीकृतवैधव्यदुःखया मया त्वदीयं देशमवतीर्येमे काषाये गृहीते ।
राजा । युक्तः सज्जनस्यैष पन्थाः । ततस्ततः ।
परिव्राजिका । तत इयमप्याटविकेभ्यो वीरसेनं वीरसेनाद्देवीं
गता देवीगृहे लब्धप्रवेशया मया पुनर्दृष्टा ।
इत्येतदवसानं कथायाः ।
मालविका । आत्मगतम् । २किं णु ख्खु संपदं भट्टा भणादि ।
राजा । अहो परिभवोपहारिणो विनिपाताः । कुतः ।

१. अतः खलु भर्तृदारिकाया इयं समवस्था संवृत्ता ।
२. किं नु खलु सांप्रतं भर्ती भणति ।

1. A B C D E भट्ट.
3. Our MSS. तनुत्यजाम्. We
according to G
5. Our MSS. add अस्मि after
“ उपागता" We with G .
7. F कृच्छ्रम् for “कष्टम्."
9. A B C D E omit & मया.”-F
कषाये
11. F omits "वैरसेनम् ”.
12. B गृहलब्ध .
14. A B C D E omit ‘ख्खु”.
15. E परिभवप्रहारिणः, F
परिभावोपनिपातिनो.
प्रेष्यभावेन नामेयं देवीशब्दक्षमा सती ।
स्नानीयवस्त्रक्रियया पलोर्णं वोपयुज्यते ॥ १2 ॥ ।
धारिणी । १भअवदि तुए अभिजणवादिं मालविअं
अणाचख्खन्तीए असंपदं किदं ।
परिव्राजिका । शान्तं पापं शान्तं पापम् । कारणेन खलु
मया नैभृत्यमवलम्बितम् ।
धारिणी । २किं विअ अत्त कारणं।
राजा । यदि वक्तव्यं कथ्यताम् ।
परिव्राजिका । इयं पितरि जीवति केनापि लोकयात्रगतेन
सिध्दादेशेन साधुना मत्समक्षमादिष्टा संवत्सरमात्रं
प्रेष्यभावमनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति ।
तमवश्यं भाविनमादेशमस्यास्त्वत्पादशुश्रूषया
परिणमन्तमवेक्ष्य कालप्रतीक्षया मया तत्साधु कृतमिति पश्यामि ।
राजा । युक्तोपेक्षा ।

। प्रविश्य कञ्चुकी ।

कञ्चुकी । देव कथान्तरेणान्तरितमिदममात्यो विज्ञापयति ।

१. भगवति त्वयाभिजनवतीं मालविकामनाचक्षाणयासांप्रतं कृतम् ।
२. किमिवात्र कारणम् ।

2. Our MSS.पन्त्रोणेंवोपयुज्यते. We
with Tullberg.
4. E omits « किदं."
6. A B C D E नैर्भृत्यम्-
10. A B C आदिष्टम्.
12. F omits « अवश्यम."
16. B विज्ञापयामि for निवेदयामि.”
विदर्भगतमनुष्ठेयमवधारितमस्माभिः। देवस्य
तावदभिमतं श्रोतुमिच्छामीति ।
राजा । मौद्गल्य तत्रभवतोर्भ्रात्रोर्यज्ञसेनमाधवसेनयोर्द्वैराज्यमवस्थापयितुकामोस्मि ।
तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे ।
नक्तं दिवं विभज्योभौ. शीतोष्णकिरणाविव ॥ १३॥
कञ्चुकी । एवममात्यपरिषदे निवेदयामि ।
राजा । अङ्गुल्यानुमन्यते ।

[ निष्कान्तः कञ्चुकी ।

प्रथमा । जनान्तिकम् । १भाट्टिदारिए दिठ्ठिआ भट्टिदारओ
अध्धरज्जे पइठ्ठं गमिस्सदि ।
मालविका । २एदं दाव बहु मन्तव्वं जं जीविदसंसआदो मुत्तो।

। प्रविश्य कञ्चुकी ।

कंचुकी । विजयतां देवः । अमात्यो विज्ञापयति । कल्याणी
देवस्य बुद्धिः । मन्त्रिपरिषदोप्येतदेव दर्शनम् ।
द्विधा विभक्तां श्रियमुद्वहन्तौ
धुरं रथाश्वाविव संग्रहीतुः ।
तौ स्थास्यतस्ते नृपतो निदेशे
परस्परावग्रपओनिर्विकारौ ॥ १४ ॥

१. भर्तृदारिके दिष्ट्या भर्तृदारकोर्धराज्ये प्रतिष्ठां गमिष्यति ।
२. एतत्तावद्वहु मन्तव्यं यज्जोवितसंशयान्मुक्तः।

1. G's reading, अभिप्रेतं, for f« 
अभिमतं” deserves attention.
9. A c insert इति before "निष्कान्तः"-
10. A B C D E भट्टदारए. -D Eदि-

14

ट्टिया–A B C D E भट्टदारओ.
12. A B C D E एवं for एदं .”–E
omits जं
17. Our MSS. “ यथाश्राविव.” We
with G.
राजा । तेन हि मन्त्रिपरिषदं ब्रूहि सेनापतये वीरसेनाय
लिख्यतामेवं क्रियतामिति ।
कञ्चुकी । तथा । इति निष्क्राम्य सप्राभृतकं लेखं गृहीत्वा पुनः प्रविश्य ।
अनुष्ठिता प्रभोराज्ञा । अयं पुनरिदानीं देवस्य सेनापतेः
पुष्पमित्रस्य सकाशात्सप्राभृतको लेखः प्राप्तः ।
प्रत्यक्षीकरोत्वेनं देवः ।
राजा । सहसोपसृत्य प्राभृतकं सोपचारकं शिरसि कृत्वा परिजनायार्पयति । लेखं
न नाट्येनोद्वेष्टयतेि ।
देवी। १अम्हहे । तदोमुहं एव्व णो हिअअं । सुणिस्सं दाव
गुरुअणकुसलाणन्तरं वसमित्तस्स वृत्तन्तं । अहिआरे
ख्खु मे पुतओ सेणावइणा णिउत्तो ।
राजा । उपविश्य वाचयति । स्वस्ति । यज्ञशरणात्सेनापतिः
पुष्पमित्रो वैदिशस्थं पुत्रमायुष्मन्तमग्निमित्रं
स्नेहात्परिष्वज्यानुदर्शयति । विदितमस्तु । योसौ राजसूययज्ञे दीक्षितेन

१. अम्महे ततोमुखमेव नो इदम् । श्रोष्यामि तावद्रुरूजनकुशलानन्तरं वसुमित्रस्य
वृत्तान्तम् । अधिकरे खलु मे पुत्रकः सेनापतिना नियुक्तः।

2. E omits “इति” after “क्रियताम्.”
3. A B C D E सप्राभृतिकम्.
4. B inserts भो before "प्रभोः.”
5. Our MSS. सोत्तरीयप्राभृतिक:
[F 'प्राभृतम]. We with G.
6. B °करोत्वेतद् .
7. A C प्राभृतिकम्.
9. B तदोहमुहं (?) for “ तदोमुहं”
10. B D उत्तन्तं--G's reading is worth noticing, viz,
अधिआरे खु सेणावइणो णिवुत्तो.
11. B C णिवुत्तो.
13. B वैदेशस्थम्; Eवैदिश्यम्.
मया राजपुत्रशतपरिवृतं वसुमित्रं गोप्तारमादिश्य
संवत्सरोपावर्तनीयो निरर्गलस्तुरगो विसृष्टः स सिन्धोर्दक्षिणरोधसि
चरन्नश्वानीकेन यवनानां प्रार्थितः । तत उभयोः
सेनयोर्महानासीत्संमर्दः।
देवो । विषादं निरूपयति ।
राजा । कथमीदृशं संवृत्तम् । शेषं पुनर्वाचयति ।
ततः परान्पराजित्य वसुमित्रेण धन्विना ।
प्रसह्य ह्रियमाणो मे वाजिराजो निवर्तितः ॥ १८ ॥
देवी । १दाणिं अस्ससइ मे हिअअं ।
राजा । लेखशेषं वाचयति । सोहमिदानीमंशुमतेव । सगरः पौत्रेण
प्रत्याहृताश्वो यक्ष्ये । तदिदानीं कालहीनं
विगतरोषचेतसा भवता वधूजनेन सह यज्ञसंदर्शनायागन्तव्यमिति ।
राजा । अनुगृहीतोस्मि ।
परिव्राजिका । दिष्ट्या पुत्रविजयेन दंपती वर्धेते । देवीं विलोक्य ।
भर्त्रासि वीरपत्नीनां श्लाघ्यायां स्थापिता धुरि ।
वीरसूरिति शब्दोयं तनयात्त्वामुपस्थितः ॥ १६ ॥

१. इदानीमाश्वसिति मे हृदयम् ।


2. F तुरंगः
4. F विमर्दः for "संमर्दः”
5. B रूपयति
9. B आस्ससइ.
11. G reads अकालहोनम्.
12. We read “« इति” here from G.
विदूषकः । १होदि परितुठ्ठोम्हि जं पिदरं अणुगदो वछ्छो ।
राजा । मौट्गल्य कलभेन खलु यूथपतिरनुकृतः ।
कञ्चुकी
नैतावता वीरविजृम्भितेन
चित्तस्य नो विस्मयमादधाति ।
यस्याप्रधृष्यः प्रभवस्वमुच्चैर्
वह्नेरपां दग्धुरिवोरुजन्मा ॥ १७ ॥
राजा । मौट्गल्य यज्ञसेनश्यालमुररीकृत्य मुच्यन्तां सर्वे
बन्धनस्थाः ।
कञ्चुकी । तथा ।

[ इति निष्कान्तः ।

देवः। २जअसेणे गछ्छ । इरावदीप्पमुहाणं अन्तेउराणं पुत्तस्स
विअअवुत्तन्तं णिवेदेहि ।
प्रतीहारी । ३तह । इति प्रस्थिता ।
देवी । ४एहि दाव ।
प्रतीहारी । प्रतिनिवृत्य । ५इआंम्हि ।

१. भवति परितुष्टोस्मि यत्पितरमनुगतो वत्सः।
२. जयसेने गच्छ । इरावतीप्रमुखाणामन्तःपुराणां पुत्रविजयवृत्तान्तं निवेदय ।
३. तथा ।
४. एहि तावत् ।
५. इयमस्मि ।

1. A होदी.
12. B इरावदिप्प°; C D इरावदिप.
13. B D E विअयउ°
16. Our MSS. उपसृत्य. We with
G-B इयम्हि.
देवी । जनान्तिकम् । १जं मए असोअदोहलणिओए पडिण्णादं
मालविआए तं च से अभिअणं च णिवोदिअ मह
वअणेण इरावदिं अणुणोहि । तुएहं सच्चादो ण
परिभ्भंसइदव्वेत्ति ।
प्रतीहारी । २तह । इति निष्क्रम्य पुनः प्रविश्य । भट्टिणी पुत्तविअएण
दिण्णपारितोसिआणं अन्तेउराणं आभलणाणं
रअणमञ्जूसिआ संवुत्तम्हि ।
देवी । ३किं अथ्थ अच्चरिअं । णं साहारणो ताणं मम अ अअं
अभ्भूदओ ।
प्रतीहारी । जनान्तिकम् । ४इरावदी उण विण्णवेदि। सरिसं ख्खु
देवी णिवेदेदि। पुढमं संकप्पिदं अण्णहा कादुं ण
जुज्जइत्ति ।

१. यन्मयाशोकदोहदनियोगे प्रतिज्ञातं मालविकायै तच्चास्या अभिजनं च निवेद्य मम
वचनेनेरावतीमनुनय । त्वयाहं सत्यान्न परिभ्रंशयितव्येति ।
२. तथा । भट्टिनि पुत्रविजयेन दत्तपारितोषिकाणामन्तःपुराणामाभरणानां
रत्नमञ्जूषिका संवृत्तास्मि ।
३. किमत्राश्चर्यम् । ननु साधारणस्तासां मम चायमभ्युदयः ।
४. इरावती पुनर्विज्ञापयति । सदृशं खलु देवी निवेदयति । प्रथमं संकल्पितमन्यथा कर्तुं
न युज्यत इति ।

2. A B तन्तं for "तं च. "—-A C
D E F मम for y "मह."
3. D पारिभंस°
6. c पारितोसिअणं-B अवलाजणाणं-
for आभलणाणं”;
F आभलणरअण
8. F ' एथ्थ for "अथ्थ’’-A B
C D E omit « णं."- F' अन्ते
उराणं for f« ताणं'.
10. A C सरोसं , E सरिस्सं.-A B
C D E omit « ख्खु.”
ll. B D देवि.--A संकत्न्पिदं.
देवी । १भअवदि तुए अणुमदं इछ्छामि अज्जसुमदिणा
पुढमदो संकप्पिदं अज्जउत्तस्स मालविअं पडिवादेदुं ।
परिव्राजिका । इदानीमपि त्वमेवास्याः प्रभवसि ।
देवी । मालविकां हस्ते गृहीत्वा । २अज्जउत्तो इमं {
पिअणिवेदणाणुरुवं पारितोसिअं मालविअं पडिछ्छदु ।
राजा। सव्रीडं जोषमास्ते ।
देवी । सस्मितम् । ३तं किं अवधीरोदि मं अज्जउत्तो ।
विदूषकः । ४होदि एवं लोअप्पवादो सव्वोवि णववरो
लज्जालुओ होदि ।
राजा । विदूषकमवेक्षते ।
विदूषकः ।५अह वा इमं देवीए दिण्णदेवीसहृं मालविअं
अत्तभवं पडिग्गहीदुं इछ्छदि ।

१. भगवति । तवानुमतमिच्छाम्यार्यसुमतिना प्रथमतः संकत्न्पितामार्य पुत्रस्य मालविकं
प्रतिपादयितुम् ।
२. आर्यपुत्र इमां प्रियनिवेदनानुरूपं पारितोषिकं मालविकां प्रतीच्छतु ।
३. तत्किमवधीरयति मामार्य पुत्रः ।
४. भवति एवं लोकप्रवादः सर्वोपि नववरो लज्जालुर्भवति ।
५. अथ वेमां देव्या दत्तदेवीशब्दां मालविकामत्रभवान्प्रतिग्रहीतुमिच्छति ।

1. D E F अ-अ°.
2. D E F ' अ-अ°.
4. D E F' अ=अ°
7. F अवधीरेहि = (अवधीरयीस).
E अवधीरेदि–D E F अ-अ.
8. B लज्जलुओ.
ll. Our MSS. do not give अह
वा; and they read अरूहदिं
for इछ्छदि in l, 12. We with
G-B इदं for ‘‘ इमं.”-B
देवीसज्जं—A B C D Eतत्तभवं.
12. A B C D E पडिग्गहिदुं.
देवी । १जदा राअदारिआ इअं अभिअणेण एव्व तदा दिण्णो
एव्व से देवीसद्दो । ता किं पुणरुत्तेण ।
परिव्राजिका । मा मैवम् ।
अप्याकरसमुत्पन्ना मणिजातिरसंस्कृता ।
जातरूपेण कल्याणि न हि संयोगमर्हति ॥ १८॥ ३
देवी । २मरिसेदु भअवदी अभ्भुदअकहाए मए लङ्घिदेत्ति । जअसेणे गछ्छ तुमं दाव कोसेअपत्तोण्णं से सिध्यं उवणे
हि ।
प्रतीहारी । ३तह । इति निष्क्रम्य पन्नोषं गृहीत्वा प्रविश्य । देवि इदं तं ।
देवी । मालविकामवगुण्ठनवतीं कृत्वा । ४दाणिं अज्जउत्तो पाडिछ्छदु । 10
राजा । देवि त्वच्छासनादप्रत्युत्तरा वयम् ।
परिव्राजिका । हन्त प्रतिगृहीता ।

१. यदा राजदारिकेयमभिजनेनैव तदा दत्त एवास्या देवीशब्दः । तारकं पुनरुक्तेन ।
२. मर्षयतु भगवती अभ्युदयकथया मया लङ्गिनेति । जयसेने गच्छ तं तावत्कोपपन्त्रोर्णमस्याः शीघ्रमुपनय ।
३. तथा । इदं तत् ।
४. इदानमार्य पुत्रः प्रतीच्छतु ।

2. B उणरूत्तेण .
6. A C अभूदभ°.-F लछिंदं for
« लङिदेति .”
7. B D E F कसेधं पत्तोण्णं”
9. E omits " इति.”. -Our MSS.
पन्तोर्णकौशेयम. We with G.
–A C D देवो इयं अम्हि, B E
F' इमंभ्हि, for « इदं ते. ” We
with G.
ll. D E F' अ-अं.
विदूषकः । १अहो देवींए अनहोंदो अणुऊलदा ।
देवी । परिजनमवलोकयति ।
परिजनः । मालविकामुपेत्य । जेदु भट्टिणी ।
देवी । परिव्राजिकामवेक्षते ।
परिव्राजिका । नैतच्चित्रं त्वयि । तथा हि ।
प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः ।
अन्यसरितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम्।।१८॥

। प्रविश्य निपुणिका ।

निपुणिका । ३जेदु भट्टा । इरावदी विण्णवेदि । उवआरादिक्कमेण तदा अहं अवरध्धा । संपदं पुण्णमणोरहो भट्टा ।
अहंवि भट्टिणा पसादमेत्तेण संभावइदव्वेत्ति ।
देवी । ४णिउणिए अवस्सं ताए संदेसं अणुजाणिस्सदि
अज्जउत्तो ।
निपुणिका । ५जं देवी आणवेदि ।

[ इति निष्कान्ता ।


१. अहो देव्या अत्रभवतोनुकूलता ।
२. जयतु भट्टिनी ।
३. जयतु भर्ता । इरावती विज्ञापयति । उपचारातिक्रमेण तदाहमपराद्धा । सांप्रतं पूर्णमनोरथो भर्ता । अहमपि भर्त्रा प्रसादमात्रेण संभावयितव्येति ।
४. निपुणिके अवश्यं तव ः संदेशमनुज्ञास्ययार्यपुत्रः ।
५. यहेव्याज्ञापयाति ।

1. A C Dदेविए.-A B C अणुजलदा.
2. F omits this and the follow -
ing speech.
5. F omits त्वयि."
7. F शतान्यपि for « शतानि हि”.-
F उदधिम् for « अब्धिम्.”
9. A B C D F उभभारदि.
11. पसादमेत्तेण”taken from G.
12. F ताए सेविदुं जाणिस्सिदि भ-अउ-
त्तो, for ‘‘ताए संदेसं भषुजाणि
स्सदि अज्जउत्ते.”
18. D E अ-अ°.
14. D E अणवेदि.
परिव्राजिका। देव अहममुना भवत्संबन्धेन चारितार्थं माध
वसेनं सभाजयितुमिच्छामि यदि मयि तव प्रसादः ।
देवी । १अवसिदकज्जाए भअवदीए अम्हे परिच्चइदुं ण जुत्तं ।
राजा । भगवति मदीयेषु लेखेषु तत्रभवते त्वामुद्दिश्य सभाजनाक्षराणि पातयिष्यामि ।
परिव्राजिका । युवयोः स्नेहेन परवानयं जनः ।
देवो । आणवेदु अज्जउत्तो भूओवि किं पिअं अणुचिठ्ठामि ।
राजा । किमतः परम् । तथापि भवत्वेवं तावत् ।
त्वं मे प्रसादसुमुखी भव चण्डि नित्यम्
एतावदेव मृगये प्रतिपक्षहेतोः ।
आशास्यमीतिविगमप्रभृति प्रजानां
संपत्स्यते न खलु गोप्तरि नाग्निमित्रे ॥ १० ॥

[ इति निष्कान्ताः सर्वे ।

॥ इति पञ्चमोङ्कः ।

॥ इति कालिदासविरचितं मालविकाग्निमित्रं

नाम नाटकं समाप्तम् ॥


१. अवसितकार्यया भगवत्या वयं परित्यक्तुं न युक्तम् ।
२. आज्ञापयत्वार्यपुत्रो भूयोपि किं प्रियमनुतिष्ठामि ।

1. B चरितार्थमा°
2. F' मे for ' मयि.”
3. B भवसोदक°
7. D E F' अ-अ°-B भूयोवि.
15
11. Our MSS. आशास्यमित्यधिगम;
G आशास्यमभ्यधिगमWe with
Tullberg
  1. यथा पश्यामि तथा सर्वथैकान्तसुखितो भवान्भविष्यति ।
  2. अद्य किल देव्या धारिण्या पण्डितकौशिको भणिता । भगवति यदि त्वं प्रसाधनगर्वं वहसि तद्दर्शय मालविकायाः शरीरे वैदर्भकं विवाहनेपथ्यमिति । तत्सविशेषालंकृता मालविका । तत्रभवतो कदाचिद्भवतो मनोरथं पूरयेत् ।
  3. जयतु भर्ता । देवी विज्ञापयति । तपनीयाशोकस्य कुसुमशोभादर्शनेन ममारम्भः सफलः क्रियतामिति ।