सामग्री पर जाएँ

मानमेयोदयः

विकिस्रोतः तः
मानमेयोदयः
नारायणभट्टः
मानमेयोदयः
नारायणभट्टस्य कृतयः



नारायणभट्टकृतः मानमेयोदयः

(केरलीयः पूर्वमीमांसाग्रन्थः)

प्रमाणपरिच्छेदः।

प्रत्यक्षपरीक्षा

[सम्पाद्यताम्]

आचार्यमतपाथोधौ बालानपि निनीषताम् ।
धीमतां कोऽपि गोपालपोतः पोत इवास्तु नः ॥१॥
मानमेयविभागेन वस्तूनां द्विविधा स्थितिः।
अतस्तदुभयं ब्रूमः श्रीमत्कौमारिलाध्वना ॥२॥
प्रमाकरणमेवात्र प्रमाणं तर्कपक्षवत् ।
प्रमा चाज्ञाततत्त्वार्थज्ञानमित्येव भिद्यते ॥३॥
अज्ञातपदेनात्र ज्ञातविषययोः स्मृत्यनुवादयोर्निरासः । तत्रानुवादानामप्रामाण्यं तार्किकादीनां नानुमतम् । वयं तु ब्रूमः । अनुवादो ह्यर्थपरिच्छेदे व्यवहारे वा न पूर्वज्ञानात् कश्चिद् विशेषमाधत्ते । अतः फलविशेषाभावात् फलार्थ च प्रमाणानां स्वीकरणात् स्मृत्यादिवदनुवादोऽपि बहिष्कार्य एवेति। नन्वज्ञातावगमस्यैव प्रमात्वे घटोऽयं घटोऽयमिति धारावाहिकज्ञानेपु द्वितीयादीनामप्रमात्वं स्यात् । मैवम् । तत्राप्ययमयमित्युत्तरोत्तरेषां कालांशानामज्ञातानामवगमाद् उत्तरे क्षणे घटादिसद्भावस्य च पूर्वज्ञानेनानधिगतत्वात् । ननु कालभेदस्य औपाधिकत्वात् केनोपाधिनावच्छिन्नानां कालांशानामत्रावगम इति वक्तव्यम् । उच्यते । पूर्वपूर्वज्ञानै नितानां प्राकट्यानामुत्तरोत्तरज्ञानपर्यन्तम् अवस्थानात् तदवच्छिन्नानां कालांशानां तत्र तत्रावगम इति । न च प्राकट्यभेदानां सूक्ष्मत्वात् तदवच्छिन्नानां कालभेदानामपि सूक्ष्मतया दुरवगमत्वमिति वाच्यम् । सूक्ष्मत्वे कमलदलशतं सूच्या युगपद् भिन्नमितिवत् सकृदवबुद्धो घट इति यौगपद्याभिमानप्रसङ्गात् । इह त्वयमयमिति पुनः पुनः क्रमेणैव प्रतीतेर्धारावाहिकस्वभावसिद्धत्वाद् यौगपद्याभिमानस्य विरोध एव । तस्मात् प्राकट्यभेदानां कालभेदानां च न सूक्ष्मत्वम् । ननु प्राकट्यस्यैवाभावात् कालस्य च प्रत्यक्षवाभावात् कथं कालांशावगम इति चेद्, न । तयोः साधयिष्यमाणत्वादिति । तत्त्वपदेन भ्रमसंशयादीनामयथार्थज्ञानानां निरासः । तत्रायथार्थज्ञानस्याभावात् तत्त्वपदमनर्थकमिति प्राभाकराः प्राहुः । एवं हि तेषां मतम्-इदं रजतमित्यत्रेदमित्यगृहीतविशेषं शुक्तिशकलं गृह्यते । रजतमिति च रजतमात्रं स्मर्यते । तयोश्च भेदाग्रहात् पुरोवर्तिनि रजतार्थिनः प्रवृत्तिः, न तु शुक्तिशकलस्य रजतत्वेन भानमस्तीति । (तत्) तत्तज्ज्ञानस्य स्वविषय एव प्रवृत्तिकरत्वनियमाद् रजतज्ञानस्यापीदंविषयत्वाभावे तत्र प्रवृत्तिर्न सिध्येत् , तथेदमेव रजतमिति सामानाधिकरण्यं तयोरभेदप्रतीतिं विना न सिध्येदित्यादिदिशा निराकरणीयम् । तस्मादन्यथाग्रहणरूपभ्रमादिज्ञानसद्भावात् तन्निरासार्थ तत्त्वपदम् । तदेवमज्ञाततत्त्वावगमरूपायाः प्रमायाः करणत्वेनेन्द्रियसन्निकर्षादीनां प्रमाणत्वं सिद्धम् । इह च प्रमाशब्देन लक्षणया तत्कार्यभूतस्य प्राकट्यस्यापि प्रतिपादनात् प्राकट्यरूपप्रमाकरणत्वेन ज्ञानस्यापि प्रमाणत्वमाहुः । एतावता च वयं फलप्रमाणवादिन इति गीयामहे । तार्किकास्तु 'प्रमाकरणं प्रमाणम् । यथार्थानुभवः प्रमा ।अनुभवश्च स्मृतिव्यतिरिक्तं ज्ञानमिति लक्षयन्ति। तद अनुवादस्याप्रामाण्यसाधनात् तड्यावर्तकस्य च पदस्यात्राभावादतिव्याप्तम् । 'अनुभूतिः प्रमाणम् । स्मृतिव्यतिरिक्ता च संविदनुभूतिरिति प्राभाकराः । तदपि भ्रमादीनां साधनात् तेषामपि स्मृतिव्यतिरिक्तत्वात् तेप्वतिव्याप्तम् । किञ्च सर्वज्ञानेष्वप्यात्मा ज्ञानस्वरूपं विषय इति त्रितयमपि प्रकाशते । सर्वत्र चात्मस्वात्मांशयोः प्रमाणत्वं प्रत्यक्षत्वमप्यस्तीति तेषां मतम् । ततश्च स्मृतिव्यतिरिक्तज्ञानस्यैव प्रमाणत्वे स्मृतेरात्मस्वात्मांशयोरप्रामाण्यं स्यादित्यव्याप्तिरप्यस्तीति । 'अविसंवादि विज्ञानं प्रमाणम् । अविसंवादित्वं चार्थक्रियाकारित्वमिति बौद्धाः । तत्र भूतभविष्यद्विषयस् अनुमानस्य अर्थक्रियाकारित्वाभावाप्रामाण्यं स्यात् , स्मृतेश्च क्वचिदर्थक्रियाकारित्वात् प्रामाण्यं स्याद्, इति ।
तस्मादज्ञाततत्त्वार्थज्ञानसाधनभेव नः।
प्रमाणमिति नितिं तद्विशेषानथ त्रुपे॥४॥
प्रत्यक्षमनुनातं च शाब्दं चो पमितिस्तथा ।
अर्थापत्तिरभावश्च षट् प्रमाणानि मादृशाम् ॥ ५॥
चार्वाकास्तावदेकं द्वितयमपि पुनः बौद्धवैशेषिको द्वौ
भासर्वज्ञश्च साङ्ख्यास्त्रितयमुदयनाद्याश्चतुष्कं वदन्ति ।
प्राहुः प्राभाकराः पञ्चकमपि च वयं तेऽपि वेदान्तविजाः
षट् पौराणिकास्त्वष्टकमभिदधिरे सम्भवैतिह्ययोगात् ॥
तत्र इन्द्रियसन्निकर्षजं प्रमागं प्रत्यक्षन् । कानि पुनरिन्द्रियाणि । उच्यते । चरसननागस्पर्शनश्रोत्राणि मनश्चेति षडिन्द्रियाणि। चक्षुर्नाम कनीमिकान्तरगतं तेजोऽथ जिह्वाग्रग
स्तोयांशो रसनं क्षितेरवयवो घ्राणं च घोगोदरे । सर्वाङ्गप्रसृताश्च मारुतलवास्त्वङ् नाम कर्णोदरव्योभैव श्रवणं मनस्तु विभु तद् देहे च कार्यावहम् ॥
तत्र रूपज्ञानस्य केनचित् कारणेन भवितव्यामिति सामान्येन सिद्धौ दीपादितेजस एव रूपज्ञानहेतुत्वदर्शनात् तैजसं चक्षुः कल्प्यते । तथा रसज्ञानत्यापि कारण कल्पनायां रसव्यञ्जकत्वमपामेव शुष्कवस्तुपु दृष्टमिति रसनमान्यतया कल्प्यते । एवं चन्दनगतत्त्य पार्थिवनिम्बत्वगनुलेपनस्य गन्धाभिव्यञ्जकत्वदर्शनाद् गन्धाभिव्यशपात्लेन कल्प्यमानं घ्राणं पार्थिवं भवति । व्यजनपवनस्य चाङ्गसङ्गिसलिलस्पर्शाभिव्यञ्जकत्वदर्शनात् स्पर्शोपलम्भकस्य त्वगिन्द्रियस्य वायवीयत्वम् । शब्दग्राहकतया कल्यस्य श्रोत्रस्य तु परिशेगादाकाशात्मकत्वम् । चक्षरादीनां खल्वन्येन्द्रियारम्भणारब्धत्वं न दृष्टभिति तेजःप्रभृतीनामन्यन्द्रियारम्भकत्वात् तेषां श्रोत्रत्वं न भवति । भूतात्मकत्वमेव च बहिरिन्द्रियाणां दृष्टभित्यवशिष्टस्याकाशाख्यस्य भूतस्यैव श्रोत्रत्वमिति । ताकिौस्तु शइस्याकाशगुणत्वात् तद्राहकरय श्रोत्रस्याकाशात्मकत्वमिति साधयन्ति । तत् तस्य गुगत्वासिरयुक्तम् । मनस्तु सुखाद्यपरोक्षज्ञानसाधनेन्द्रिय बेन कल्यते । तस्य च विभुवं साधयि यते । तथापि शरीरावच्छिन्नस्यैव तस्येन्द्रियत्वमिति तत्प्रदेश एव कार्याणि करोति। रूपाविज्ञाने वपि तच्चक्षुरादिपरतन्त्रं प्रवर्तत एव, अनुमा. नादिष्वी लिङ्गादिसहायमिति स्थितिः । अत्र चक्षुःश्रोत्रयोः प्राप्यकारित्वे विवादोऽस्तीति तयोरपि बहिरिन्द्रियत्वात् त्वगादिवत् प्राप्यकारित्वं साधनीयम् । ततश्च चक्षपः पृथुतरपृथिवीधरादिदर्शनात् पृथ्वगत्वमपि तेजःस्वभावसिद्धमाश्रयणीयम् । तथोन्मीलनक्षण एव दृरतरशनैश्चरादिदर्शनाद् व्या-यावस्थितेन बाह्यतेजसा निर्गमनसमय एवैकीभावः कल्पनीयः । न च बाह्यतेजसः सकलव्यापित्वात् केरलेभ्योऽपि गङ्गादर्शनप्रसङ्गः । अदृष्टो पर हीतेनैवालोकभागनेकीभावात् । तार्किकास्तु तदिदं दूरदर्शनं बेगातिशयात् साधयन्ति । तदनन्तयोजनान्तरितेष्वपि शनैश्चरादिषु झटितिदर्शनं वेगमात्रादसम्भाव्यमित्युपेक्षितमस्माभिः । एतानि च चक्षुदीन्य जुद्भूतरूपस्पर्शत्वात् प्रत्यक्षेण न गृह्यन्त इति सिद्धानीन्द्रियाणि । सन्निकर्षस्तु द्विविधः संयोगः संयुक्ततादात्म्यं चेति । तत्र पृथिव्यप्तेजसां चक्षुस्त्वगिन्द्रियाभ्यां संयोगाद् ग्रहणम् , वायोस्त्वक्संयोगाद, दिङनभस्तमसों दृक्संयोगात् , शब्दस्य श्रोत्रसंयोगाद् , आत्मनो मनःसंयोगात् । अत्र विभुनोरप्योत्तमनसोरजन्यसंयोगसाधनात् संयोगः। कॉलस्य तु युगपदादिप्रत्ययस्य कालविषयत्वेन्द्रियजन्यत्वयोर्वक्ष्यमाणत्वात् तस्य च सवेन्द्रियजन्यत्वात् सर्वैरपीन्द्रियैः संयोगाद् ग्रहणम् । यदा तु चक्षुरादिसंयुक्तेषु पूर्वोक्तेषु पृथिव्यादिषु तदात्मभूतानां जातिगुणकर्मणां ग्रहणं, तदा संयुक्ततादात्म्यं सन्निकर्षः । तदुक्तं
"रूपादीनां तु संयुक्तद्रव्यतादात्म्यमेव नः।
प्रतीतिकारणं तस्मान्न सम्बन्धान्तरस्पृहा ॥"
इति । यदा तु जातिगुणकर्मगतानां सत्तारूपत्वकर्मत्वादीनां ग्रहणं, तदा तेषामपि परम्परया तादात्म्यसंभवात् संयुक्ततादात्म्यमेव सन्निकर्ष इति मन्यामहे । यहा यथा परे रूपत्वादिग्रहणाय संयुक्तसमवेतसमवायमाश्रयन्ते, तथास्माकमपि संयुक्ततदात्मतादात्म्यं नाम तृतीयः सन्निकर्षोऽस्तु । का हानिः ।
जातिगुणकर्मणां च स्वाश्रयैस्तादात्म्यमेव सम्बन्ध इति पश्चात् साधयिष्यते । तस्माद् द्वेधा त्रेधा वा सन्निकर्षः । तार्षिकाः पुनस्तादात्म्यस्थाने सभवाय नभिषिञ्चन्तोऽन्यथा सन्निकर्षमाहुःसंयोगः, संयुक्तसनवायः, संयुक्तप्तमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति षोढा सन्निकर्षः । तत्र चक्षुरादिभिः संयोगाद् द्रव्याणां ग्रहणम् । चक्षुरादिसंयुक्ते द्रव्ये समवायाद् गुणादीनां ग्रहणम् । संयुक्ते द्रव्ये समवेतेषु गुणादिपु समवायाद् गुणत्वादीनां ग्रहणम् । शब्दस्य चाकाशगुणत्वादाकाशात्मकेन श्रोत्रेण समवायाद् ग्रहणम्। शब्दत्वादीनां तु श्रोत्रसमवेते शब्दे समवायाद् ग्रहणम् । अभावस्य तु भावधर्मभृतयोः संयोगसमवाययोरभावात् संयुक्तभूतलादिविशेषणविशे यरूपसन्निकर्षण ग्रहणम् । तथैव समवायस्याप्यद्रव्यत्वेन संयोगाभावात् समवायान्तराश्रयणेऽनवस्थाप्रसङ्गाद् विशेषणविशेष्यभाव एव सन्निकर्ष इति ।
तत्राद्यं त्रितयं तावन्नाममात्रेण भिद्यते ।
समवायादयस्त्वन्ये सन्निकर्षा निराश्रयाः ॥ ८॥
शब्दस्य हि श्रोत्रगुणत्वाभावात् समवायाख्यः समवेतसमवायाख्यश्च सन्निकर्षो निरवकाशः । अभावस्य च प्रत्यक्षत्वाभावात् समवायस्य च शशशृङ्गायमाणत्वाद् विशेषणविशेष्यभावसन्निकर्षोऽपि हेयः । किञ्च चक्षुःसंयुक्तेनार्थेनाभावसमवाययोर्विशेषणविशेष्यभावो न सम्भवति । दण्डी पुरुष इत्यादौ सम्बन्धान्तरपूर्वकस्यैव विशेषणविशेष्यभावस्य दर्शनाद्, अभावसमवाययोश्चार्थेन सम्बन्धान्तराभावादिति । प्राभाकरास्तु संयोगः, संयुक्तसमवायः, सनवायः इति त्रेधा सन्निकर्षमाहुः । तन्मते रूपत्वादीनामभावात् संयुक्तसमवेतसमवायो नाश्रयणीयः, शब्दत्वस्याभावात् समवेतसमवायोऽपि । अभावस्य चाभावात् समवायस्य च प्रत्यक्षत्वाभावाद् विशेषणविशेष्यभावोऽपि नाश्रय गीय इति । तदपि मतं रूपत्वादीनां साधनात् तार्किकैरेव निराकृतम् । तस्मादुक्ताकार एव सन्निकर्ष इति ।
तच्चेन्द्रियसन्निकर्षजं ज्ञानं द्विविधं निर्विकल्पकं सविकल्पकं चेति । तत्रेन्द्रिय सन्निकर्षानन्तरमेव द्रव्यादिस्वरूपमात्रावगाहि शब्दानुगमशून्यं यत् सम्मुग्धज्ञानं जायते, तद् विशिटकल्पनाभावाद् निर्विकल्पकभित्युच्यते । यत्तु तदनन्तरं शद्धसरणसहकृतं जात्यादिविशिष्टवस्तुविषयं रक्तो.यं घटोऽगनिसादिव्य विज्ञानं, तत् सविफलाम् । तत्र शाब्दिका निर्विकल्पकं नास्तीत्याहुः । तदुक्तं- "न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।” (वाक्यप. का. १. श्लो. १२४) इति । तइयुक्तम् । पूर्वमर्थदर्शनाभावे शब्दस्मरणस्य हेत्वभावप्रसङ्गात् । सौगतास्तु निर्विकल्पकमेव प्रत्यक्षमाश्रित्य सविकल्पकस्य प्रमाणत्वं प्रत्यक्षलं च नास्तीत्याहुः । तदप्ययुतन। तस्य प्रत्यक्षतया लोकासिद्धस्य निषेधे लोकविरोधात् । तदुक्तं
"चन्द्रशब्दाभिधेयत्वं शशिनो यो निषेधति ।
स एव सविकल्पस्य प्रत्यक्षत्वं निवारयेत् ॥”
 इति । किञ्च सविकल्पकानन्तरमेवार्थक्रियादर्शनात् तस्यार्थक्रियाकारित्वलक्षणं प्रमाणत्वं दुर्निवारम् । नन्वर्थक्रियाकारित्वमस्यार्थतोऽतिविप्रकर्षाभावाद् दैवागतमेव । न स्वाभाविकम् । वस्तुतस्त्वयं विकल्पो मिथ्या, अवस्तुभूतसामान्यादिविषयत्वादिति चेत् । मैवम् । अनुमानविकल्पस्याप्यप्रामाण्यप्रसङ्गात् सामान्यादेर्वस्तुत्वस्य साधयिष्यमाणत्वाच्च । अतः प्रमाणमेव सविकल्पकम् । ननु तथापि कथमस्य प्रत्यक्षशब्दवाच्यत्वं, निर्विकल्पकव्यवधानेन साक्षादक्षजत्वाभावात्, परम्परयाक्षजस्य प्रत्यक्षत्वेऽनुमानादीनामपि प्रत्यक्षत्वप्रसङ्गात् । मैवम्। पङ्कजादिष्विव योगरूढिस्वीकारेणानुमानादिषु प्रत्यक्षशब्दस्याप्रवृत्तेः । अत्र गुरुराह-न पङ्कजादिषु रूढिरस्ति, अवयवशक्त्यैव पद्मे वृत्त्युपपत्तेः । कुमुदादिष्वेप्रवृत्तिस्तु तेष्वप्रयोगादेव भविष्यतीति । तदयुक्तम् । पङ्कजशब्दस्य पद्मे वृत्तौ का सामग्रीति चिन्तायां योगमात्रस्य कुमुदादिष्वपि सद्भावेन व्यभिचाराद् रूढिरपि सामग्रीत्वेन कल्प्या। योगश्च प्रतीतो न हातुं शक्य इत्युभयसिद्धेः । तस्माद् योगरूढिशक्त्या निर्विकल्पकसविकल्पकयोरेव प्रत्यक्षशब्दवाच्यत्वं नाक्षापेक्षाणामप्यनुमानादीनामिति सिद्धम् । सविकल्पकेन च द्रव्यजातिगुणकर्मनामाभिः पञ्चधा विकल्पो भवति । यथा वेणुमानयं, गोपोऽयं, श्यामोऽयं, गायत्ययं, गोविन्दोऽयमिति । प्रत्यभिज्ञाप्रत्यक्षमपि षष्ठो विकल्प इति केचित् । तन्न । नामकल्पनायामन्तर्भावात् । नाम्ना हि पूर्वमनुभूतरूपे स्मारिते तद्रूपविशिष्टतयार्थस्य कल्पना नामकल्पनेत्युच्यते । तेन गोविन्दोऽयमित्यस्यायमर्थः-योऽसावस्माभिर्गोविन्दशब्दवाच्यतया पूर्व गृहीतः, स एवायमिति । यदा तु शब्दवाच्यत्वमतन्त्रीकृत्य पूर्वापररूपयोक्यावगम एव तात्पर्य, तदा स एवायमिति प्रत्यभिज्ञा स्पष्टा भवति । सा च प्रत्यभिज्ञा संस्कारसहितेनेन्द्रियेणैकज्ञानत्वेन जन्यते । तया च म इति अयमिति च हे भाने जन्येते । तत्र स इति भानजननशक्तिः संस्कारकृता । अयमिति भानजननशक्तिरिन्द्रियकृता इत्यलमनेन । इह च प्रत्यक्षज्ञानेषु विवक्षाभेदेनेन्द्रियस्य तत्सन्निकर्षज्ञानस्य वा करणत्वं भवति । अतः सिद्धेमिन्द्रियसन्निकर्षजं प्रमाणं प्रत्यक्षमिति । गुरुस्त्वाह-साक्षात्प्रतीतिः प्रत्यक्षम् । त(द्) मेयमातृप्रमास्विति त्रिपुटं भवतीति । तत्र किमिदं साक्षात्त्वं नाम । ननु साक्षाद्धीः स्वरूपधीः। अक्षाद्धि स्वेनैव रूपेण भानम् । लिङ्गादिभ्यस्तु परसम्बन्धिरूपेणैवाग्न्यादीनां भानादसाक्षात्त्वमिति चेत्, तर्हि नामादिपरसम्बन्धिरूपेणं भानात् सविकल्पकस्यासाक्षात्त्वं स्यात् । अथ तत्र परसम्बन्धिरूपभाने सत्यपि स्वरूपधीरप्यस्तीत्युच्यते, तनुमानादिष्वपि तथाभावात् साक्षात्त्वं स्यात् । आत्मस्वात्मनोस्तु सर्वज्ञानेषु प्रत्यक्षत्वकथनं निराकरिष्याम इत्यास्तामेतत् । कल्पनापोढमभ्रान्तं प्रत्यक्षमिति बौद्धाः। कल्पनापोढपदेन विकल्पानां निरासः, अभ्रान्तपदेन निर्विकल्पकेऽपि भ्रमत्वेनाभिमतानां केशोण्डुकादिज्ञानानामिति । तदपि सविकल्पकस्य प्रत्यक्षत्वसाधनादव्याप्तमिति । यत् पुनर्भूतभविष्यदादिविषयं योगिज्ञानमीश्वरज्ञानं चेन्द्रियसन्निकर्षजत्वाभावेऽप्यपरोक्षमस्तीति तत्सङ्ग्रहणायापरोक्षप्रमाव्याप्तं प्रत्यक्षमिति लक्षयितव्यमिति तार्किकैरुक्तम् । तदप्ययुक्तम् । प्रत्यक्षस्य विद्यमानोपलम्भत्वनियमाद् भूतादीनां प्रत्यक्षत्वस्यानुपपत्तेः । तस्मादस्मदुक्तं प्रत्यक्षलक्षणं रमणीयम् ।
इन्द्रियव्यतिरिक्तानि द्रव्याण्येषां च जातयः ।
प्रायश्च गुणकर्माणि प्रत्यक्षाणीति वक्ष्यते ॥ ९॥

इति मानमेयोदये प्रमाणपरिच्छेदे प्रत्यक्षपरीक्षा।

अनुमानपरीक्षा

[सम्पाद्यताम्]

अथानुमानपरीक्षा।
व्याप्यदर्शनादसन्निकृष्टार्थज्ञानमनुमानम् । यथा पर्वते धूमवत्त्वदेर्शनादग्निमत्त्वज्ञानम् । किमत्र धूमस्य व्याप्यत्वम् । उच्यते । यद् यतो बहिर्न वर्तते, तत् तस्य व्याप्यम् । धूमश्च । दहनादन्यत्र न वर्तत इति धूमस्य व्याप्यत्वम् । दहनस्तु धूमादन्यत्रापि वर्ततेऽङ्गारावस्थायामिति तस्य व्यापकत्वमेव। तदियमग्निधूमयोरन्योन्यव्याप्त्यभावाद् विषमव्याप्तिः। कचित् तु समव्याप्तिरप्यस्ति यथा कृतकत्वानित्यत्वयोः। तत्र खलु कृतकानां सर्वेषामनित्यत्वमस्ति । अनित्यानां सर्वेषां कृतकत्वमप्यस्तीति समव्याप्तिरेव । का पुनरियं व्याप्तिः । उच्यते । स्वाभाविकः सम्बन्धो व्याप्तिः । स्वाभाविकत्वं चोपाधिराहित्यम् । उपाधिरिति च साध्यस्य साक्षात्प्रयोजकं हेत्वन्तरमुच्यते । तत्सद्भावे हि तदत्तमेव साध्यसम्बन्ध कचिल्लभमानः प्रस्तुतो हेतुः स्वयमेवासाधको भवति । तद् यथा 'अग्नीषोमीयहिंसा अधर्मः, हिंसालाद्, बाह्यहिंसादिवदित्यवैदिकानां साङ्ख्यानां च प्रयोगः। तत्र निषिद्धत्वमुपाधिः । तदेव ह्यधर्मवस्य साक्षात्प्रयोजकम् । बाह्यहिंसानामपि च निषिद्धत्वकृतमेवाधर्मत्वमिति ऋतुहिंसायाँ निषिद्धत्वाभावे हिंसात्वमात्रेणाधर्मत्वं न सिध्यतीति । साधनाव्यापकत्वे सति साध्यसमव्याप्त उपाधिरिति तस्य लक्षणम् । निषिद्धत्वं हि साधनभूतहिंसात्वदेशे सर्वत्र न वर्तते, क्रतुहिंसायां निषिद्धत्वाभावात् । साध्यभूतेन चाधर्मत्वेन निषिद्धत्वस्य समव्याप्तिरस्ति, निषिद्धानां सर्वेषामप्यधर्मत्वाद् , अधर्मभूतानां च सर्वेषां निषिद्धत्वादिति । तत्सामग्रीकत्वं महानसत्वं पर्वतान्यत्वं चाग्न्यनुमितावुपाधिर्मा भूदिति तद्विशेषणत्रितयम्। अत्र यदि साध्यसमव्याप्त उपाधिरित्येवोच्येत, तर्हि धूमवत्त्वेनाग्निमत्त्वे साध्यमानेऽग्निसामग्रीकत्वमुपाधिः स्यात् । अस्ति हि तस्याग्निना समव्याप्तिः । अतस्तन्निवृत्त्यर्थमुक्तं साधनाव्यापक इति । अग्निसामग्री हि साधनभूतस्य धूमस्य व्यापिकैव, धूमे सति सर्वत्राग्निसामग्र्या अवश्यंभावात् । यदि तु साधनाव्यापक इत्येवोच्येत, तर्हि तत्रैव महानसत्वमुपाधिः स्यात् । न हि धूमे सति सर्वत्र महानसत्वमस्तीति साधनाव्यापकत्वस्य भावात् । अतस्तन्निवृत्त्यर्थ साध्यव्यापकत्वमाश्रयणीयम् । न हि महानसत्वस्याग्निव्यापकत्वमस्ति, मठादिष्वग्निसद्भावेऽपि तदभावात्। अथ यदि साधनाव्यापकत्वे सति साध्यव्यापके उपाधिरित्येवोच्येत, तथापि पर्वतेतरत्वमुपाधिः स्यात् । पर्वतेतरत्वं विनापि पर्वते धूमस्य दर्शनेन साधनाव्यापकत्वात् । अग्निमत्त्वेन पूर्वमवधारितानां सर्वेषामपि पर्वतेतरत्वेन साध्यव्यापकत्वस्यापि. सद्भावात् । अतस्तन्निवृत्त्यर्थ समशब्दः । न हि तस्याग्निना समव्याप्तिरस्ति, पर्वतेतरेषां सर्वेषामग्निमत्त्वाभावादिति । अन्यत्र वा विशेषणकृत्यं दर्शयितव्यम् । यदि साध्यसमव्याप्त एवोपाधिः स्यात्, तर्हि 'शब्दोऽनित्यः जन्यत्वाद् घटवदित्यत्र सकर्तृकत्वमुपाधिः स्याद्, अनित्यत्वसकर्तृकत्वयोः समव्याप्तिसद्भावात् । अतस्तन्निवृत्त्यर्थमुक्तं साधनाव्यापक इति । सकर्तृकत्वं हि साधनाभिमतस्य जन्यत्वस्यापि व्यापकमिति साधनव्यापकत्वादनुपाधित्वम् । साधनाव्यापकस्यैवोपाधित्वे तु तत्रैव सावयवत्वं घटत्वमित्यादिरुपाधिः किं न स्यात् । न हि जन्यानामपि गुणादीनां सावयवत्वं घटत्वं वास्तीति साधनाव्यापकत्वस्य सद्भावात् । अतः साध्यव्यापकत्वमप्याश्रयणीयम् । सावयवत्वघटत्वादीनां गुणक्रियादावनित्यत्वव्यापकत्वाभावात्। तथापि शब्देतरत्वस्यानित्यत्वव्यापकत्वादुपाधित्वं स्यादिति तन्निवृत्त्यर्थ समशब्द इति । इदं त्वनुमानं व्याप्तिप्रदर्शनमात्रपरमेव । न स्वसिद्धान्तपरमिति वेदितव्यम् । ननु पर्वतेतरत्वाभावेऽप्यग्निरस्ति चेदयं दोषः स्यादिति तर्कस्यासम्भवेन पर्वतेतरत्वस्याग्निव्यापकत्वमेव नास्ति । सत्यम् । तथापि तस्य व्यापकत्वेनावगमादक्लेशेन तन्निरासार्थ समशब्दश्चिदानन्दादिभिराश्रितः।
समव्याप्तिमतामेव सर्वथापि ह्युपाधिता ।
इति विस्पष्टतार्थं च समशब्दो न दूषणमें ॥१०॥
अस्य चोपाधेः साध्यव्यापकत्वाद्यनिश्चये शङ्कितोपाधित्वम् । यथा--मैत्रीतनयत्वेनाष्टमगर्भस्य श्यामत्वे साध्ये शाकाद्याहारपरिणाम उपाधिः । अष्टमपुत्रे च तस्य नास्तित्वे स्थित एव तस्य साधनाव्यापकत्वं भवेत् । स च तत्रापि शङ्कयत एवेत्यनिश्चितमेव साधनाव्यापकत्वम् । अतः शङ्कितोपाधिरसाविति । कचिच्च साधनस्य विशेष एव प्रयोजको भवति । यथा 'अयं द्विजो वेदज्ञो भविष्यति द्विजत्वाद्' इत्यत्र बुद्ध्यादिमविजत्वमुपाधिरिति ।
तस्मादुपाधिमिच्छद्भिः पक्षभूमिमनाप्नुवन् ।
सपक्षान् व्याप्नुवन् धर्मो मृग्यतामिति सङ्ग्रहः ॥११॥
सोऽयमीदृश उपाधि—मस्याग्निसम्बन्धे नास्तीति खाभाविक एवासौ सम्बन्धः । स पुनः स्वाभाविकः सम्बन्धः कथं गृह्यत इति चेत् । उच्यते । आदौ तावन्महानसादौ भूयो भूयो धूमस्याग्मिसम्बन्धं पश्यन् क्रमेण च महानसत्वगृहत्वग्रामत्वादीनुपाधित्वेनाशङ्कय व्यभिचारदर्शनेन निरस्यन्नन्यानप्युपाधीन निपुणं निरूप्य योग्यानुपलम्भेन निराकुर्वन् भूयोदर्शनोपाध्यभावग्रहणजनितसंस्कारसहितेनेन्द्रियेण सोऽयमेकरूप एव धूमाग्न्योः स्वाभाविकः सम्बन्ध इति निश्चिनोतीति । प्राभाकरास्तुधूमस्याग्निसम्बन्धः सकृद्दर्शनादेवावगम्यत इति सकृदर्शनगम्यैव व्याप्तिः । उपाधिशङ्कानिरासार्थमेव तु भूयोदर्शनमर्थ्यत इत्याहुः । तदयुक्तम् । अनुमानाङ्गभूत एव सम्बन्धो व्याप्तिरित्युच्यते । निरुपाधिकत्वविशिष्टस्यैव च सम्बन्धस्यानुमानाङ्गत्वं, न धूमाग्निसम्बन्धमात्रस्य। निरुपाधिकत्वावधारणं च भूयोदर्शनसाध्यमेवेति तैरप्युक्तम् । अतो भूयोदर्शनगम्यैव निरुपाधिकसम्बन्धरूपा व्याप्तिः । ननु न भूयोदर्शनमात्रेण निरुपाधिकत्वावधारणं, तस्य मैत्रीतनयत्वश्यामत्वयोरपि भावात् । सत्यम् । अत एवाह चिदानन्दः-न केवलं भूयोभिर्दर्शनस्तादृशमवधारणं सिध्यतीति प्रमाणोत्पत्त्यनुगुणस्तर्कोऽपि तत्र सहकारीति । कः पुनस्तर्कः। उच्यते । प्रमाणेन साध्यमानस्यार्थस्यान्यथात्वशङ्कायां तन्निरासार्थमन्यथात्वे दोषकथनं तर्कः । अत एवानिष्टप्रसङ्गस्तर्क इति तार्किकाः । अयमेव च विपक्षे बाधक इति चोच्यते । यथा यद्यत्राग्निर्न स्यात् तर्हि धूमोऽपि न स्याद्' इत्यादि । अस्य च तर्कस्य पञ्चाङ्गानि । यदाहुः- "व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये।
अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् ॥” इति । अत्र साध्यवैपरीत्यमग्न्यभावादिकमारोप्य तेन लिङ्गभूतेन धूमाभावाद्यनिष्टस्य प्रसञ्जनं हि तर्केण क्रियते । तत्र प्रसञ्जकस्याहार्यलिङ्गस्य प्रसञ्जनीयेन व्याप्तिरेष्टव्या । तथा प्रतितकैरप्रतिघातः। प्रसञ्जनीयविपर्यये पर्यवसानम् , एवं चेदेवं स्याद्, नचैवमिति । प्रसञ्जनीयस्य चानिष्टत्वं प्रसिद्धम् । अननुकूलत्वं प्रतिपक्षासाधकत्वमिति । अङ्गवैकल्ये च तर्काभासत्वं भवति। व्याप्त्यभावे यथा 'यद्यग्निमत्त्वं न स्यात् तर्हि पर्वतत्वमपि न स्यादिति । तर्कप्रतिहतौ यथा 'यदीयं मेघोन्नतिवृष्टिमती न स्यात् तर्हि निबिडापि न स्यादिति तर्कस्य 'यदीयं वृष्टिमती स्यात् तर्हि वातोद्रेकवती न स्यादिति तर्केण प्रतिहतिः। विपर्ययपर्यवसानाभावे यथा 'शब्दोऽनित्यः कृतकत्वाद्' इति मीमांसकं प्रति प्रयोगे 'यद्यनित्यो न स्यात् तर्हि कृतकोऽपि न स्यादिति तर्कः । तत्र कृतकश्चायमिति पर्यवसाययितुं न शक्यते, मीमांसकपक्षे शब्दस्य कृतकत्वाभावात् । इष्टत्वमप्यत्रैव, कृतकत्वाभावस्य तं प्रतीष्टत्वात् । अनुकूलत्वे यथा 'अनुमेयं कर्म कमत्वाद् आदित्यकर्मवद्' इत्यत्रान्यथा कमैव न सिध्येदिति तर्कः। स च प्रत्यक्षवादिनामप्यनुकूलः। तैरपि प्रत्यक्षत्वं साधयित्वान्यथा कमैव न स्यादिति वक्तुं शक्यत्वादिति । आत्माश्रयादयश्च दोषास्तर्क एवान्तर्भूताः अनिष्टप्रसङ्गरूपत्वात् ।
स्वेनैव स्वस्य सिद्धिर्या तदात्माश्रयदूषणम् ।
अनेनान्यस्ततश्चायमित्यन्योन्याश्रयं भवेत् ॥ १२ ॥
अनेनान्यस्ततश्चान्यस्ततोऽसाविति चक्रकम् ।
अतीतास्पृष्टमन्यान्यग्रहणं त्वनवस्थितिः ॥ १३ ॥
गौरवं लाघवं चेति तर्को सार्वत्रिकावुभौ ।
गौरवं कल्पनाधिक्यं लाघवं त्वल्पकल्पना ॥ १४ ॥
दोषप्रसङ्गरूपत्वं गौरवस्यैव विद्यते ।
साध्ये गुणकथाद्वारा लाघवस्य प्रसङ्गता ॥ १५॥
साध्याभावानुवादेन दोषः साध्ये गुणोऽपि वा।
यत्रानुकूलतर्कोऽसौ साध्यसिद्धावनुग्रहात् ॥ १६ ॥
साध्यस्यैवानुवादेन यदनिष्टप्रसञ्जनम् ।
स तर्कः प्रतिकूलः स्थात् साध्यसिद्धिनिरोधनात्॥१७॥ इति ।
स चायं तर्को व्याप्तिग्रहणवेलायामनुमानोत्थानसमये वा व्यभिचारशङ्कां निरस्य व्याप्तिं शोधयन्ननुमानस्यानुग्राहको भवति । ननु यद्यग्निर्न स्यात् तर्हि धूमोऽपि न स्यादित्यनेनैव तर्केण व्यभिचारशङ्का न निवर्तते, अग्न्यभावेऽपि धूमः किं न स्यादिति शङ्कायाः पुनरप्यनपायात् । सत्यम् । अत एव शङ्काव्याघातपर्यन्तं तर्कमार्गेणैव गन्तव्यमिति तार्किकाः। इह च यद्यग्न्यभावेऽपि धूमः स्यात्, तर्हि कारणं विनापि कार्यजननमङ्गीकृतं स्यादिति तर्के प्रयुक्ते तदपि किं न स्यादिति शङ्का न लोकविदामङ्कुरति । ननु तथापि धूमस्याग्निः कारणमिति कुतो निर्णीयत इति शङ्का नापैति । मैवम् । यद्यग्निः कारणं न स्यात् तर्हि कारणान्तरानुपलम्भन धूमस्य निष्कारणत्वमेव प्रसजेदिति तर्के सति समस्तविजयात् । तदेवं तर्के व्याभिचारशङ्कायां सर्वतो निरुद्धायामुपाध्यन्तरशङ्काकथापि विधूतैव । ततश्चादृश्योपाधिशङ्का सर्वथा दुर्वारेति चार्वाकदुर्वादोऽपि निर्वासित इति ।
अथवोपाधिशकैव तनिष्कास्यते स्फुटम् ।
उपाधिर्मानयोग्यो वा तदयोग्योऽथवा भवेत् ॥ १८॥
अयोग्यश्चेन्न शङ्कथेत योग्यश्चेत् किं न दृश्यते।
अनुमानादिगम्यश्चेल्लिङ्गादिः किं न दृश्यते ॥ १९ ॥ इत्यादि । ततश्च
शङ्काव्याघातपर्यन्तमेवं सर्वानुमास्वपि।
तर्कजालं प्रयोक्तव्यमत्यल्पं चेदमुच्यते ॥ २०॥
यतः प्रत्यक्षशाब्दादिप्रमाणान्यखिलान्यपि ।
तर्क विना न जीवन्ति प्रत्यक्षे तावदीक्ष्यताम् ॥२१॥
अयं घट इति प्रत्यक्षं हि सुगतकथितपरमाणुगोचरतापराणोदिना तर्केणानुगृहीतमेवावयविगोचरं भवति । यदि परमाणुविषयता स्यात् , तर्हि एकत्वेन महत्त्वेन चावभासो नस्यादिति तर्कः । तथा अयं गौरिति प्रत्यक्षमपि यद्यत्यन्तभिन्नविषयं स्यात् तह-दंगोत्वे इति प्रतीतिः स्यादिति तर्केणानुगृहीतमेवाभेदस्यापि ग्राहकं भवतीत्यादि । एवं शाब्देऽपि ब्रूमः । अध्ययनविधिरेव तावद् यदि स्वर्गफलः स्यात् तर्हि दृष्टार्थत्वे सम्भवत्यदृष्टग्रहणाद् गौरवं स्यादिति तर्कानुग्रहेणार्थज्ञानफलेबोधको भवति । यद्यर्थज्ञानफलः स्यात् तर्हि विधिवैयर्थ्य स्यादिति प्रतिकूलतर्कश्च तत्र तत्र निरसनीयः। तथा
“उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः।
सकल्पं सरहस्यं च तमाचार्य प्रचक्षते॥” (मनु. अ. २.श्लो.१४०) इति स्मृतिः।
यद्यध्यापनविधिः स्यात् तर्हि 'तु यो द्विजस्तमाचार्य प्रचक्षत' इत्यंशेनैकवाक्यता न स्यादिति तर्केणाचार्यलक्षणपरता निश्चीयतेऽस्याः स्मृतेः । तथा- 'अक्ताः शर्करा उपदधाती'त्यत्र यदि घृतेनाञ्जनं न स्यात् , तर्हि 'तेजो चै घृतमिति वाक्यशेषो विरुध्यत इति तर्काद् घृताञ्जनपरता साध्यत इति ।
एवं सर्वत्र तकौंघैरर्थाभासनिरासतः।
वाक्यार्थस्थापनी सर्वा मीमांसा तरूपिणी ॥ २२ ॥
उक्तं च मनुना
"आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना।
यस्तर्केणानुसन्धत्ते स धर्म वेद नेतरः॥” (अ. १२.श्लो. १०६) इति।
एवमुपमानार्थापत्त्यभावेष्वपि तत्र तत्र तर्कापेक्षणमूहितव्यम् ।
तस्मात् सर्वप्रमाणानां तर्कोऽनुग्राहकः स्थितः ।
साध्ये विपर्ययाशङ्काविच्छेदस्तदनुग्रहः ॥ २३॥
अस्याविज्ञाततत्त्वोऽर्थः सन्दिग्धो विषयो मतः ।
हेतुरारोपितं लिङ्गं फलं तत्त्वार्थनिर्णयः ॥ २४ ॥
तदेवं तत्त्वसिद्धयर्थमन्यथानिष्टवर्णने ।
प्रसरत्यसदारोपतत्साधनपरम्परा ॥२५॥
तत्र चारोपवादेऽपि सिद्धान्तत्वभ्रमः क्वचित् ।
वेदश्चेदीश्वराधीनस्तहीशोऽपि न सिध्यति ॥ २६ ॥
इत्युक्तावीश्वराभावः सिद्धान्त इति मन्यते ।
असम्भाव्यस्य चारोपादसन्तोषः क्वचिद् भवेत् ॥२७॥
अपकर्षाप्रतिष्ठश्चेत् परमाणुस्तथासति ।
अनन्तावयवारम्भान्मेरुतर्षपयोर्द्वयोः ॥ २८॥
स्यात् तुल्यपरिमाण(त्व)मित्याधुक्तिर्यथा भवेत् ।
तत्र चास्य प्रमाणस्य तर्कोऽयं तस्य सिद्धये ॥ २९ ॥
अन्यदुक्तमिति व्यक्तं विविञ्चन् नैव मुह्यति ।
तस्मात् तर्कप्रकारोऽयं प्रसङ्गप्रापितोऽपि सन् ॥ ३०॥
अत्यन्तमुपकारीति विस्तरात् प्रस्तुतो मया ॥ ३०१ ॥ इति । तदेवं तर्कसहायेन भूयोदर्शनेनैव निरुपाधिकसम्बन्धोविधार्यते ।
 भूयोदर्शनतः शक्या दृश्योपाधिनिराक्रिया।
अदृश्योपाधिशङ्का तु तरेव निरस्यते ॥ ३१३ ॥ इति विभागः । अतः सिद्धा व्याप्तिः । बौद्धास्तु तादात्म्यतदुत्पत्तिभ्यामेव व्यातिसिद्धिरित्याहुः । यथा--शिंशपात्वस्य वृक्षत्वेन व्याप्तौ तादात्म्यं, धूमस्याग्निना व्याप्तौ तदुत्पत्ति. रिति । तन्न । कृत्तिकोदयरोहिण्यासत्त्योाप्तौ तदुभयाभावात् । तस्माद् निरुपाधिकत्वावधारणादेव व्याप्तिसिद्धिः ।
व्याप्तिर्नियमः प्रतिवन्धोऽव्यभिचारस्तथाविनाभावः।
व्याप्यं पुनर्नियम्यं गमकं लिङ्गं च साधनं हेतुः ॥३२॥
इत्युभयोः पर्याया इति तस्य तु दर्शनं त्रिविधम् ॥३३॥
व्याप्तिग्रहणवेलायां धूमदर्शनं प्रथमम् । पर्वतोपान्तगतस्य धूमदर्शनं द्वितीयम् । ततश्च व्याप्तिस्मरणानन्तरं तादृशो धूमोऽत्रास्तीति यदनुसन्धानं, तत् तृतीयम् । तदत्र व्याप्यदर्शनमभिमतं, तदनन्तरमेव वह्निज्ञानस्योत्पत्तेरिति । असन्निकष्टपदेन पुनः किमुच्यते । अपरिच्छिन्नमिति ब्रूमः । तदुक्तम्___ "असन्निकृष्टवाचा च द्वयमत्र जिहासितम्
ताद्रूप्टोण परिच्छित्तिस्तद्विपर्ययतोऽपि वा ॥" इति। पूर्व सत्त्वेन परिच्छिन्ने ह्यग्न्यादौ पुनरनुमानमनुवादः स्याद्, असत्त्वेन परिच्छेदे च बाधितत्वेनाप्रामाण्यमेवेति तदुभयनिवतनार्थमसन्निकृष्टपदमिति । अत्र चार्वाकाः- अग्निविशेषस्यानुमेयत्वे व्याप्त्यसिद्धिः । अग्निसामान्यस्यैव धूमसामान्येन व्याप्तेः । सामान्यस्यानुमेयत्वे तु तस्य पूर्वमेव परिच्छिन्नत्वात् सिद्धसाध्यत्वम् । तथाचासन्निकृष्टपदमप्ययुक्तम् । तदुक्तम् -
"अनुमाभङ्गपङ्केऽस्मिन् निमग्ना वादिदन्तिनः।
विशेषेऽनुगमाभावः सामान्य सिद्धसाध्यता ॥" इति । अत्रोच्यते । न तावत् सामान्ययोरेव केवलयोाप्तिसिद्धिः । तथाहि सति धूमत्वेन वह्नित्वं स्वतः सम्बद्धमिति व्याप्तिग्रहः स्यात् । तथाच वह्नित्वजातिसम्बन्धाद् धूमत्वमेव वह्निः स्यात् । अतो विशेषद्वारेणैव सामान्ययोर्व्याप्तिः सिध्यति । विशेषश्च तत्र तत्र विभिन्नत्वान्न नियतो निरूपयितुं शक्यत इत्यनियतविशेषालिङ्गितयोर्व्याप्तिरिति स्थितिः । ततश्च पर्वतवतितया दृष्टो धूमोऽनियतविशेषालिङ्गितमग्निं पर्वतेऽनुमापयति । इह च यद्यप्यनियतविशेषालिङ्गितमग्निसामान्य व्याप्तिवेलायामेव गृहीतं, तदेव चानुमेयं, तथापीदानी पर्वतेऽग्निरस्तीति देशकालविशेषस्याप्यनुमीयमानत्वात् तस्य च पूर्वमप्राप्तत्वात् सिद्धसाध्यत्वस्यानवकाश एव ।
व्याप्तिश्च पक्षधर्मत्वमनुमाङ्गं द्वयं विदुः । व्याप्त्या युक्तप्रकारेण वह्निसामान्यवेदनम् ॥ ३४ ॥ धूमस्य शेलनिष्ठत्वरूपा या पक्षधर्मता ।
तया पर्वतसम्बन्धो वह्वेरप्यवगम्यते ॥ ३५॥ इति । गुरुस्त्वाह-धूमवतो देशस्य वह्निमत्त्वमप्यस्तीति व्याप्तिवेलायामेव गृहीतत्वाद् धूमवत्त्वमेव पर्वतस्येदानीमपूर्व ग्रहीतव्यम् । अग्निमत्त्वंतु तस्य पूर्वगृहीतमेवावगम्यत इति । तदयुक्तम्। धूमवत्त्वं तावत् पर्वतस्येदानीमेव गृह्यत इत्युक्तम् । अतः कथं धूमवत्त्वप्राप्तिं विनात्र वह्निमत्त्वप्राप्तिः पूर्वमासीदित्यविचारयतो गुरोरयमुन्माद इति । अतः सिद्धमसन्निकृष्टज्ञानस्यानुमानत्वम् । अत्र च प्रमाणोक्तप्रकारेण प्राकट्यरूपानुमितिकरणत्वादेव ज्ञानस्यानुमानत्वमुक्तम् । ज्ञानरूपानुमितिकरणत्वाच्च धूमादेरप्यनुमानत्वमस्त्येवेति । तच्चानुमानं त्रिविधम् अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । द्वेधा हि व्याप्तिः अन्वयव्याप्तिर्व्यतिरेकव्याप्तिश्चेति । तत्र साधनस्य सद्भावे साध्यस्यापि सद्भावोऽन्वयव्याप्तिः । साध्यस्याभावे साधनस्याप्यभावो व्यतिरेकव्याप्तिः । व्यतिरेके च व्याप्यव्यापकभावोऽन्वयाद् विपरीतो भवति । अग्न्यभावो ह्यत्र व्याप्यः । धूमाभावश्व व्यापक इति ।
अग्नेर्भावस्य भूयस्त्वात् तदभावोऽल्पतां व्रजेत् ।
धूमभावस्य चाल्पत्वात् तदभावो महत्तरः ॥ ३६॥
इति वैपरीत्यस्योपपत्तिः । तत्र यस्योभयविधा व्याप्तिरस्ति तदन्वयव्यतिरेकि । यथा धूमानुमानादि । तत्र हि धूमस्याग्न्यन्वयो महानसादौ दृश्यते । अग्न्यभावे धूमाभावश्च महाहदादौ दृश्यते । तेनान्वयव्यतिरेकित्वम्। यस्य पुनरन्वयव्याप्तिरेवास्ति, तत् केवलान्वयि । यथा-- ज्ञानं ज्ञानान्तरप्रकाश्यं वस्तुत्वा. . द् घटवदित्यादि । अत्र हि ज्ञानप्रकाश्यत्वाभावे वस्तुत्वाभावो न क्वचिदपि दर्शयितुं शक्यः, सर्वेषामप्यर्थानां ज्ञानप्रकाश्यत्वात् । अतो व्यतिरेकव्याप्त्यभावः । यस्य तु व्यतिरेकव्याप्तिरेवास्ति, तत् केवलव्यतिरेकि । यथा-सर्व ज्ञानं स्वप्रकाशं ज्ञानत्वाद, यस्य स्वप्रकाशत्वं नास्ति तस्य ज्ञानत्वमपि नास्ति, यथा घटस्येति । अत्र हि यस्य स्वप्रकाशत्वं तस्य ज्ञानत्वमप्यस्तीति कचिद् दर्शयितुमशक्यत्वादन्वयव्याप्तिर्नास्ति । स चायं केवलव्यतिरेकी हेतुरावीतहेतुरिति चोच्यते।
तं च कौमारिलाः प्रायो नेच्छन्ति व्यतिरेकिणम् ।
तत्स्थाने चाभिषिञ्चन्ति पञ्चमी प्रमितिं पुनः॥३७॥
क्वचित् प्रसिद्धमन्यत्र साध्यते ह्यनुमानतः ।
स्वप्रकाशत्वधर्मो हि सिद्धो नान्यत्र कुत्रचित् ॥ ३८॥
तेन तत्साधने पक्षो ह्यप्रसिद्धविशेषणः ।
एवञ्च दुष्टपक्षोऽयं व्यतिरेकी निवार्यताम् ॥ ३९॥
यच्चानुकूलतर्के सत्यप्रसिद्धविशेषणः।
न दोष इति भाषन्ते तार्किकास्तदसङ्गतम् ॥ ४०॥
तर्को हि नाप्रसिद्धार्थ क्वचित् साधयितुं क्षमः।
अतोऽप्रसिद्धतादोषस्तकें सत्यपि दुस्त्यजः॥४१॥ इति ।
ननु वेद्यत्वं क्वचिदत्यन्तं नास्ति धर्मत्वाद् यथा घटत्वं पटादिष्वित्यनेने प्रमाणेन वेद्यत्वंविरहरूपे स्वयंप्रकाशत्वे सामान्यतः प्रसिद्ध पुनर्विशेषेण पक्ष साध्यत इति नाप्रसिद्धविशेषणत्वं पक्षस्य । तदुक्तं
“सामान्यतोऽनुमानेन प्रसिद्धेऽपि विशेषणे ।
कथं कथय पक्षोऽयमप्रसिद्धविशेषणः ॥" इति । अस्तु वा तयेवम् ।
अत एव चिदानन्दः केवलव्यतिरेकिणम् ।
नैव साक्षान्निराचके नापि साक्षानुपाददे ॥ ४२ ॥
तस्मात् सामान्यतः सिद्धिहीनाश्चेद व्यतिक्रिणः ।
सर्वथा वारणीया इत्येतत् तावद व्यवस्थितन् ॥४३॥
इह च स्वप्रकाशत्वे नास्ति सामान्यतोऽनुमा।
वस्तुत्वादेहि धर्मस्य नात्यन्तं नास्तिता क्वचित् ॥४४॥ इति ।
अत्र चान्वयव्यतिरेकिहेतोः पञ्च रूपाणि --- पक्षधर्मत्वं, सपक्षे सत्त्वं, विपक्षाद् व्यावृत्तत्वम् , अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति । तत्र जिज्ञासितसाध्यः पर्वतादिः पक्षः । तन्निष्ठत्वं हेतोः पक्षधर्मत्वम् । निश्चितसाध्यो महानसादिः सपक्षः। तत्र वर्तमानत्वं सपक्षे सत्त्वम् । निश्चितसाध्याभावो महादादिविपक्षः । तत्रावर्तमानत्वं विपक्षाद् व्यावृत्तिः। साध्यस्याबाधितत्वमबाधितविषयत्वम् । प्रतिहेत्वभावोऽसत्प्रतिपक्षत्वमिति । केवलान्वयिनस्तु विपक्षाद् व्यावृत्तिर्नास्ति, विपक्षाभावात् । अतस्तस्य चत्वारि रूपाणि । केवलव्यतिरेकिणः सपक्षे सत्त्वं नास्ति, सपक्षाभावात् । यदि तु सपक्षे सत्यपि पक्षमात्रवृत्तिहेतुः स्यात्, तीसाधारणो नाम हेत्वाभास एव स्यात् । यथा 'नित्या भूः गन्धवत्त्वादिति । अत्र हि नित्यत्वेन सपक्षभूतानामाकाशादीनां सद्भावेऽपि भूमात्रवृत्ति गन्धवत्त्वम् । अतोऽसति सपक्षे पक्षमात्रवृत्तिः केवलव्यतिरेकीति लक्षयन्ति तार्किकाः।
पक्षमात्रस्थितं सिध्येत् पक्षमात्रस्थहेतुना।
अन्यत्र स्थितमाक्रष्टुं तद्गतस्यैव पाटवम् ॥४५॥ इति ।
अतः सपक्षे सत्त्वाभावाच्चतूरूप एव व्यतिरेकी ।
तत् सिद्धं दैविध्यं त्रैविध्यं चानुमानस्य ॥ ४५३ ॥
तञ्च पुनरपि द्वेधा दृष्टं सामान्यतो दृष्टं चेति । तत्र
दृष्टैकव्यक्तिविषयं दृष्टमिष्टं हि मादृशाम् ।
कृत्तिकोदयमालक्ष्य रोहिण्यनुमितियथा ॥ ४६३ ॥
एवं सामान्यतो व्याप्तिदृष्ट्या यत्रानुमीयते ।
सद्धि सामान्यतो दृष्टं यथा वह्नयनुमादिकम् ॥ ४७ ॥
तार्किकादयस्तु-प्रत्यक्षयोग्यार्थविषयमग्न्याद्यनुमानं दृष्टम्, अतीन्द्रियार्थविषयं चक्षुराद्यनुमानं सामान्यतो दृष्टमित्याहुः । तदयुक्तम् । अतीन्द्रियार्थानामनुमातुमशक्यतया चक्षुरादीनामप्यर्थापत्त्यैव साध्यमानत्वात् । तथाहि
- व्याप्तेरिति शेषः ।
व्याप्त्येकशरणं तावदनुमानमिति स्थितम् ।
तद् व्याप्तिदर्शितान्मार्गाच्चलितुं क्षमते कुतः॥ ४८३ ॥
ततश्च व्यातिविज्ञाने यादृशं वस्तु दृश्यते ।
ताडगेवानुमातव्यं यथोष्णो भास्वरोऽनलः ॥ ४९३ ॥
न चातीन्द्रियवस्तूनां प्राग्दृष्टाकारयोगिता ।
दृश्यत्वं तेजसां दृष्टं चक्षुषस्तदसम्भवात् ॥ ५० ॥
अत एव हि सर्वत्राप्यत्यन्तादृष्टसाधने ।
विशेषबाधकं नाम दोषं घोषयितास्महे ॥ ५१३ ॥
तस्माद् रूपादिसन्दर्शनान्यथानुपपत्तितः।
चक्षुराद्याः प्रसाध्यन्ते न तेष्वनुमितिर्मता ॥ ५२३ ॥ इति ।
तच्चानुमानं स्वार्थपरार्थभेदेनापि द्विविधमाहुः । यत्र स्वयमेव धूमादिकं दृष्ट्वा व्याप्त्यादिनिरूपणेनानुमीयते, तत् स्वार्थम् ।
यदा पुनः स एवार्थः परवाक्येन बोध्यते ।
तदा परार्थमित्याहुस्तयोरेतावती भिदा ॥ ५३३ ॥
तत्र परार्थानुमानवाक्यं पञ्चावयवमिति तार्किकाः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । यथा - अयं पर्वतोऽग्निमान् , धूमवत्त्वाद्, यो यो धूमवान् स सोऽग्निमान् यथा महानसः, धूमवांश्वायं, तस्मादग्निमानेवेति । अत्र परं बोधयितुं पक्षवचनं प्रतिज्ञा पर्वतोऽग्निमानिति । साधनत्वावेदकं लिङ्गवचनं हेतुः धूमवत्त्वादिति । व्याप्तिप्रदर्शनपुरस्सरं दृष्टान्ताभिधानमुदाहरणं यो यो धूमवान् स सोऽग्निमान् यथा महानस इति । सिद्धव्याप्तिकस्य पक्षे उपनयनमुपनयः धूमवांश्वायमिति । सहेतुकं पक्षस्य पुनर्वचनं निगमनं तस्मादग्निमानिाते। अत्र ब्रूमः
प्रतिज्ञया निगमनं हेतुनोपनयस्तथा ।
गतार्थ इति कः कुर्यात् पञ्चावयवघोषणाम् ॥ ५४३ ॥
तस्मात् त्र्यवयवं ब्रूमः पौनरुक्तयासहा वयम् ।
उदाहरणपर्यन्तं यद्वोदाहरणादिकम् ॥ ५५१ ॥
सौगतास्त्वाहुः -- यो धूमवान् सोऽग्निमान् यथा महानसः, धूमवांश्चायमित्येतावदुक्तौ तस्मादग्निमानित्यर्थात सिध्यति । अत उदाहरणोपनयौ हावेवावयवाविति। तदपि साध्यांशेऽध्याहारदोषप्रसङ्गादपास्तम्। तदेवं पौनरुक्त्येन तथाध्याहारदोषतः । तर्कबौद्धमते हित्वा वयं व्यवयवे स्थिताः ॥ ५६३ ॥ __तत्रोदाहरणान्तं यथा ---- पर्वतोऽग्निमान् , धूमवत्त्वाद् , यो धूमवान् सोऽग्निमान् यथा महानस इति । उदाहरणादिकं यथा-- यो धूमवान् सोऽग्निमान् यथा महानसः, धूमवांश्वायं, तस्मादग्निमानिति ।
अथ प्रतिज्ञाहेत्वोश्च दृष्टान्तस्य च दूषणम् ।
क्रमेण कथ्यतेऽस्माभिर्यद् वेद्यं वादिनां पुरः॥ ५७३॥
तत्र परप्रतिपादनार्थ पक्षवचनं हि प्रतिज्ञा । जिज्ञासितधर्मविशिष्टश्च पक्ष इत्युक्तम् । ततश्च तद्रूपपरिच्छेदात् तद्विपरीतपरिच्छेदाद् वान्यत्राप्रसिद्धत्वाद् वा यो न जिज्ञासितो धर्मस्तद्विशिष्टस्य न पक्षत्वमिति सिद्धविशेषणो बाधितविशेषणोऽप्रसिडविशेषणश्च पक्षाभास एवेति तदावेदकं वचनमपि प्रतिज्ञाभास एव । तद् यथा -- वह्निरुष्ण इति सिद्धविशेषणः। वह्निरनुष्ण इति बाधिताविशेषणः । क्षित्यादिकं सर्वज्ञकर्तृकमित्यप्रसिद्धविशेषणः, घटादिषु कचिदपि सर्वज्ञकर्तृकत्वस्यासिद्धत्वात्। बाधकप्रमाणभेदेन बाधितविशेषणत्वावान्तरविशेषो द्रष्टव्यः । तत्र वह्निरनुप्ण इति प्रत्यक्षबाधः पूर्वमुक्तः । अनुमानस्यापि यदा प्रबलत्वं स्पष्टं भवति, तदानुमानबाधः । यथा 'मन इन्द्रियं न भवति अभूतात्मकत्वाद् दिगादिवदिति । अत्रेन्द्रियत्वेन मनसोऽनुमीयमानत्वान्मनोधर्भिग्राहकेणैवानुमानेन तस्यानिन्द्रियत्वं बाधितम् । एवं शीघ्रभाविनामनुमानानां सर्वत्र बाधकत्वं द्रष्टव्यम् । शाब्दबाधो यथा --- यागादयः स्वर्गसाधनं न भवन्ति क्रियात्वाद् गमनवादिति । अत्र 'स्वर्गकामो यजेते'त्यादिवाक्यैर्यागादेः स्वर्गसाधनत्वबोधनात् तदभावःशाब्दबाधितः। यथा वा- स्पृश्यं नरास्थि प्राण्यङ्गत्वात् शङ्खवदिति । 'गौर्गवयसदृशो न भवति प्राणित्वात् पुरुषवदित्यत्रोपमानबाधः। 'देवदत्तो बहिर्नास्ति तत्रादृश्यमानत्वादि'त्यत्रार्थापत्तिबाधः, अर्थापत्त्या बहिर्भावस्य साध्यमानत्वात् । 'रूपवान् वायुः द्रव्यत्वात् पृथिवीवदि'त्यत्रानुपलम्भबाधः । अन्येऽपि प्रतिज्ञादोषाः सन्ति ।
यावज्जीवमहं मौनीत्युक्तौ हि स्वोक्तिबाधनम्।
नेन्दुश्चन्द्रागिरा वाच्य इति लोकविरुद्धता ॥ ५८३ ॥
शब्दादेः प्रागनित्यत्वमुक्तं येनैव तेन तु।
नित्यत्वे पुनरुक्ते स्यात् पूर्वसञ्जल्पबाधनम् ॥ ५९॥ इति ।
व्याप्तः साधनधर्मों हेतुः । असिद्धो विरुद्धोऽनैकान्तिकोऽसाधारणश्चेति चत्वारस्तदाभासाः। तत्रासिद्ध उच्यते ।
हेतोळप्तिमतः पक्षसम्बन्धित्वेन वेदनम् ।
सिद्धिरित्युच्यते हेतुसम्पूर्तिस्तावतैव हि ॥ ६०३ ॥
तेषामेकतमांशस्याप्यभावे स्यादसिद्धता।
हेतोाप्तेश्च पक्षस्य सम्बन्धस्य ग्रहस्य च ॥ ६१३ ॥
तत्र हेतुस्वरूपस्यैवासिद्धौ स्वरूपासिद्धः । यथा 'बुद्धो मोहरहितः सर्वज्ञत्वादि'त्यत्र सर्वज्ञत्वं नाम नास्माकं क्वचित् सिद्धम् । अस्य विशेषणासिद्धो विशेष्यासिद्ध इति च द्वौ भेदौ भवतः । आद्यो यथा 'बुद्धो धर्मोपदेष्टा सर्वज्ञत्वे सति शरीरित्वादिति , अन्यस्तु 'शरीरित्वे सति सर्वज्ञत्वादिति । व्याप्त्यभावे व्याप्यत्वासिद्धः । यथा-क्रतुहिंसा अधर्मः हिंसावादिति । अत्र सोपाधिकत्वाद् व्याप्त्यभावः । पक्षाभावे ला
श्रयासिद्धः । यथा- गगनकुसुमं सुरभि कुसुमत्वादिति । हेतोः पक्षसम्बन्धाभावे सम्बन्धासिद्धः । यथा-शब्दोऽनित्यः चाक्षुषत्वादिति । यस्य तु पक्षैकदेशे सम्बन्धो नास्ति, स भागासिद्धः । स एव पक्षव्याप्त्यभावाद् व्याप्त्यसिद्ध इति च कचिदुच्यते । यथा-वेदाः पौरुषेयाः उपाख्यानात्मकलादिति । यदा तु विशेषणस्य विशेष्यस्य वा पक्षसम्बन्धो नास्ति, तदा विशेषणा सिद्धविशेष्यासिद्धौ भवतः । यथा- अनित्यं गगनं जन्यत्वे सति द्रव्यत्वादिति, द्रव्यत्वे सति जन्यवादिति च । यत्र तु विशेषणं व्यावाभावाद् व्यर्थमेवेति सम्बन्धानह भवति, स व्यर्थविशेषणासिद्धः । यथा- घटोऽनित्यः द्रव्यत्वे सति कृतकलादिति । एवं कृतकले सति द्रव्यत्वादिति व्यर्थविशेष्यासिद्धः । यदा तु हेतुः पक्षसम्बन्धित्वेन न प्रयुज्यते, किन्त्वाश्रयान्तरसम्बन्धित्वेन, तदा व्यधिकरणासिद्धः। यथा-- अनित्यो घटः तदणस्य कृतकलादिति । अत्र न घटाश्रितं कृतकत्वं, किन्तु तद्गुणाश्रितमिति व्यधिकरणासिद्धः । यत्रे पक्षाद् व्यतिरेकाभावेन पक्षसम्बन्धित्वं नास्ति, स व्यतिरेकासिद्धः। यथा--अनित्यं गगनं गगनत्वादिति । अत्र गगनस्वरूपादन्यद् गगनत्वं नाम नास्तीति । एषां स्वरूपादीनामज्ञानेऽज्ञानासिद्धः सन्दिग्धासिद्धो वा भवति । यथादेवदत्तो बहुधनो भविष्यति तद्धेतुभूतादृष्टशालित्वादिति । अत्र तादृशादृष्टेसद्भावे प्रमाणं नास्तीत्यज्ञातत्वम् । एवम् 'अग्निमान् पर्वतः धूमवत्त्वादि'त्यतावत्प्रयोगेऽनुपदर्शितव्याप्तिकत्वाद् व्याप्त्यज्ञानासिद्धः। एवमेव सन्दिग्धविशेषणासिद्धादयोऽप्यज्ञानासिद्धभेदा ऊहितव्याः । तार्किकास्तु-पक्षे हेतुस्व. रूपाभाव एव स्वरूपासिद्धिरिति सम्बन्धासिद्धस्य स्वरूपासिद्धत्वमाहुः । तदयुक्तम् । सर्वज्ञवाः स्वरूपमेव क्वचिदपि ना. स्ति। चाक्षुषत्वादेस्तु पक्षसम्बन्धमानं नास्तीति पृथक्त्वप्रतीतेः। एते चासिद्धभेदाः यदान्यतरस्यैव वादिनोऽसिद्धा भवन्ति, तदान्यतरासिद्धा इत्युच्यन्ते । तत्र 'बुद्धो मोहरहितः सर्वज्ञत्वादि'त्युक्तोऽस्माकमेवासिद्धः । एवमुभयोरप्यसिहावुभयासिद्धता वेदितव्या । यथा ---- शशो हिंस्रः विषाणित्वादिति । अथ विरुद्धः।
स च बाधक इत्येवं वार्तिके व्यपदिश्यते । द्विधा चासौ स्वरूपस्य विशेषस्य च बाधनात् ॥६२१ ॥
तत्र साध्यविपरीतव्याप्तः साध्यस्वरूपविरुद्धः । यथा 'शब्दो नित्यः कृतकत्वादिति । अन्न नित्यत्वविपरीतेनानित्यत्वेन व्याप्तं कृतकत्वमिति नित्यत्वं प्रति विरुद्धत्वात् तस्य बाधकं भवति । साध्यविशेषस्य विपरीतेन विशेषेण व्याप्तो विशेषविरुद्धः । यथा 'क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवदिति । अत्र साध्यस्य क्षित्यादिकर्तुरशरीरित्वं नाम विशेषः । तस्य विपरीतेन शरीरित्वरूपेण विशेषेण व्याप्तं घटादिपु कार्यत्वं दृष्टमित्यशरीरित्वस्य बाधकं भवति ।
अशरीरित्वबाधे च कर्तृमत्तापि बाध्यते । प्रत्यक्षात् सशरीरित्वविशेषे बाधिते सति ॥ ६३३ ॥
अशरीरित्वमादाय स्थास्यामीति कृतोद्यमा। कर्तृमत्ता हि तस्यापि बाधे नश्यनिराश्रया ॥ ६४१ ॥ इत्थं साध्यनिरोधित्वादेष दूषणमेव नः । तमीदृशमजानमस्तार्किकेभ्योऽयमञ्जलिः ॥ ६५१ ॥
सव्यभिचारोऽनैकान्तिकः । विपक्षेऽपि वर्तमान इति यावत् । स एव साधारण इति चोच्यते । यर्थी-अनित्यः शब्दः प्रमेयत्वादिति । अत्र हि प्रमेयत्वं नित्येष्वपि वर्तत इत्यनैकान्तिकम् । यत्र तु विपक्षवृत्तित्वं सन्दिग्धं, स सन्दिग्धानैकान्तिकः । यथा - क्षणिका भावाः सत्त्वादित्यत्राक्षणिकत्वेऽपि सत्त्वस्य बाधाभावाद् विपक्षवृत्तिः शङ्किता भवति । सति सपक्षे पक्षमात्रवृत्तिरसाधारणः। यथा- नित्या भूर्गन्धवत्त्वादिति । केचित् पुनराहुः-- असाधारणोऽप्यनैकान्तिक एव । यथा खल्वन्वयस्य विपक्षेऽपि वर्तनात् प्रमेयत्वस्य व्यभि. चारित्वम् , एवं व्यतिरेकस्यापि स्वस्थानभूतं विपक्षमतिक्रम्य सर्वेषु सपक्षेष्वपि वर्तनाद् गन्धवत्त्वस्यापि व्यभिचारित्वमस्तीति ।
सत्यं किन्त्वन्वयस्यैव स्वस्थानादतिलचनम् । व्यभिचारतया ख्यातं क्लिष्टस्त्वदुदितः क्रमः ॥ ६६१ ॥ तेन साधारणस्यैव व्यभिचारित्वमीरितम् । हेत्वाभासान्तरत्वेन चासाधारण ईरितः ॥ ६७३ ॥
यद्वा त्वदुक्तमार्गेण तस्यापि व्यभिचारतः । अनैकान्तिकतैवास्तु नास्माकं काचन क्षतिः ॥ ६८३ ॥ तस्मात् त्रेधा चतुर्धा वा हेत्वाभासा व्यवस्थिताः। पञ्चधा तार्किकाः प्राहुः षोढान्ये तदसङ्गतम् ॥ ६९१॥
असिद्धविरुद्धानैकान्तिकप्रकरणसमकालात्ययापदिष्टभेदेन पञ्चधेति तार्किकाः । अप्रयोजकः षष्ठ इति केचित् । अनध्यवासित एव षष्ठ इति भासर्वज्ञः । तत्र प्रतिहेतुमान् हेतुः प्रकरणसमः सत्प्रतिपक्ष इति चोच्यते । यथा - अप्रत्यक्षो वायुः अरूपवत्त्वाद् मनोवत् , प्रत्यक्षो वायुः स्पर्शवत्त्वाद्, घटवदिति । सोऽयमुक्तेष्वेवान्तर्भावयितव्यः । तथाहि-तुल्यबलं विरुद्धहेतुद्वयं तावन्न सम्भवति । तथासति वस्तुनोऽनुमानद्वर्यबलप्रापितविरुद्धरूपद्वयप्रसङ्गात् । प्रबलदुर्बलयोर्विरोधे दु. बलस्य प्रबलापहृतविषयत्वेन बाधितविशेषणत्वाभिधं पक्षदूषणमेवेदं, किं हेत्वाभासान्तरकथया । ननु हेत्वोर्विशेषानवगमवेलायामाभिमानिकतुल्यबलत्वसम्भवात् तादात्विकं प्रकरणसमत्वम्। मैवम् । तदापि बाधितविशेषणत्वस्य सन्देहावस्थैव भवतु, न तु जात्यन्तरमन्वेषणीयम्। अन्यथा सन्दिग्धासिद्धादीनामप्यन्य. त्वं स्यादिति । अथवा संशयहेतुरनैकान्तिक इत्यनैकान्तिकस्य लक्षणमाश्रीयते। साधारणधर्मादसाधारणधर्माद् विप्रतिपत्तेश्च संशयो भवति । यथा-साधारणाद् ऊर्ध्वत्वात् स्थाणुर्वा पुरुषो वेति, असाधारणाच गन्धवत्त्वात् पृथिवी नित्यानित्या वेति, वादिविप्रतिपत्तेश्च शब्दो नित्योऽनित्यो वेति । तत्र विप्रतिपत्तिहेतुकः संशयः प्रतिसाधनप्रयोगे प्राप्त इत्यनेकान्तिकेष्वेव प्रकरणसमोऽन्तर्भावयितव्यः । तस्य चास्य सप्रतिसाधनस्यैकेनैव हेतुना प्रतिकूलसाधने विरुद्धाव्यभिचारी नामावान्तरजातिः। यथा- क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवदित्यत्र 'क्षित्यादिकमीश्वरकर्तृकं न भवति कार्यत्वाद् घटवदिति । अत्र हि कार्यत्वं घटादिषु सकर्तृकत्वेनेवेश्वरकर्तृकत्वाभावेनाप्यव्यभिचरितम् । ईश्वरकर्तृकत्वाभावश्च सकर्तृकत्वमुखेनेश्वरं साधयतां तेषां विरुद्ध एवेति विरुद्धाव्यभिचारित्वं कार्यत्वस्य ।
एवं परोदितैरेव पक्षहेतुनिदर्शनैः। विरुद्धसाधनेऽस्माकं विरुद्धाव्यभिचारिता॥ ७० ॥ सर्वसत्प्रतिपक्षाणां विरुद्धाव्यभिचारिताम् । कदाचिदूचुराचार्या न त्वमुष्यैव केवलम् ॥ ७१३ ॥ चिदानन्देन तु व्यक्तमयमेव तथोच्यते । यथातथास्तु नामैतन्नाभासान्तरमत्र नः ॥७२३ ॥
तत् सिद्धं बाधितविशेषणेऽनैकान्तिके वान्तर्भूतं सप्रतिसाधनत्वं नाम दूषणम् । भासर्वज्ञस्तु स्वपक्षपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसम इत्युक्ता तत्र दुर्लभलब्धमेकमुदाहरणं दर्शयति । यथा - शब्दोऽनित्यः पक्षसपक्षयोरन्यतरत्वात् सपक्षवदिति । अत्र हि 'शब्दो नित्यः पक्षसपक्षयोरन्यतरत्वादि'त्यपि वक्तुं शक्यमिति । तदिदमयुक्तम् । इह खलु पक्षसपक्षयोरन्यतरत्वादित्यस्यानित्यत्वे साध्ये शब्दघटयोरन्यतरत्वादित्यर्थः । नित्यत्वे तु शब्दाकाशयोरन्यतरत्वादित्यर्थः । अतः कथमेक एव हेतुः पक्षद्वयेऽपि समान इत्युच्यते।
शब्दसादृश्यमेवात्र विद्यतेऽर्थस्तु भिद्यते । तस्माद् विरुद्धधर्माभ्यां व्याप्ति कस्य सम्भवेत् ॥७३॥ कथं तर्हि भवान् ब्रूते विरुद्धाव्यभिचारिणम् । सत्यं न साध्यते तत्र साक्षात् साध्यविपर्ययः ॥७४३॥ सकर्तृकत्वं वदतामिष्टा हीश्वरकर्तृता । सैवात्र वार्यतेऽस्माभिरोनार्थात् प्रतिकूलता ॥ ७५३ ॥ भवांस्त्वनित्यनित्यत्वे साक्षादेव विरोधिनी। एकेन साधयन्नद्य हास्यतामेव यास्यति ॥ ७६३ ॥ इति । यस्तु बाधितविषयापरपर्यायः कालात्ययापदिष्टो नाम हेत्वाभास उक्तः 'अग्निरनुष्णः अंद्रव्यत्वादि'त्यादिः, सोऽपि बाधितविशेषणो नाम पक्षाभास एव ।
ननु नो पक्षदोषानेवानुमन्यामहे वयम् । पक्षदृष्टान्तदोषाणां हेत्वाभासेषु योजनात् ॥७७॥
तत्र सिद्धविशेषणे तावत् -पक्षः खल्वाश्रयो हेतोन च निश्चितधर्मवान् । । पक्षत्वं भजते तस्मादाश्रयासिद्धिरेव सा ॥७८१॥ तथैव यदि दोषः स्यादप्रसिद्धविशेषणः। तदापि पक्षतानाशादाश्रयासिद्धिरुच्यताम् ॥७९॥ किञ्च, किं पक्षदोषैः कथितैरिदानी
दृष्टान्तदोषा अपि वक्ष्यमाणाः । अन्तर्गता एव हि हेतुदोषे _____न हेतुदोषादपरोऽस्ति दोषः ॥ ८०॥ तदेवं सर्वदोषेषु हेत्वाभासप्रवेशिषु । निःसहायः कथं तिष्ठेत् स बाधितविशेषणः ॥८१३॥
तस्मादितरदोषवद् बाधितविशेषणोऽपि हेत्वाभासतयैव वक्तव्य इति । अत्र ब्रूमः।
आभाससङ्करे तावत् पुरः स्फुरितदूषणम् । उद्भाव्यमिति सर्वेषां निर्विवादं हि वादिनाम् ॥८२३॥ ततश्च पक्षवचने दोषः कोऽपि चकास्ति चेत् । पक्षस्यैव स वक्तव्यः किं न्यायं नानुमन्यते ॥८३ ॥ पक्षदुष्टत्वमाश्रित्यैवोक्ता सिद्धविशेषणे । वयापि ह्याश्रयासिद्धिः किं पुरो भावि तत्र ते ॥८४३॥ एवं साध्यस्याप्रसिद्धिस्तथा बाधितसाध्यता। पक्षोक्तावेव निर्भातीत्युचिता पक्षदोषता ॥ ८५ ॥
इत्थं दृष्टान्तदोषाश्च वक्ष्यमाणाः समर्थिताः। यो यत्र स्फुरितो दोषः स तस्यैवेति निर्णयात् ॥८६॥ नावदत् पक्षदोषादीनक्षगदमुनिः पुरा । तद्भक्तिमोहिता मा मा न्यायं त्यजत तार्किकाः ॥८७॥ इति । तस्माद् बाधितविशेषणः पक्षाभास एवेति न पञ्चमो हेत्वाभासोऽङ्गीकार्य इति । ये पुनरनुकूलतर्काभावे हेतोः प्रयोजकत्वं नास्तीत्यप्रयोजकं नाम हेत्वाभासान्तरमातिष्ठन्ते, तेऽपि व्याप्यत्वासिद्धमेव तथा मन्यन्ते । सर्वेष्वप्यनुमानेष्वनुकूलत:र्व्यभिचारशङ्कामपणस्य निरुपाधिकत्वं स्थापनीयम् । ततस्तदभावे निरुपाधिकसम्बन्धानिश्चयाद् व्याप्त्यसिद्धिरेव । सोऽयं व्याप्त्यसिद्धो हेतुरुपाधिमानित्यन्यथासिद्ध इत्यप्रयोजक इति परप्रयुक्तव्याप्त्युपजीवीति सन्दिग्धव्याप्तिक इति च व्यपदिश्यते, न त्वाभासान्तरमिति । यत्तु भासर्वज्ञेनोक्तं-साध्यासाधकः पक्ष एव वर्तमानो हेतुरनध्यवसितः । यथा-नित्या भूर्गन्धवत्त्वादिति, सर्व क्षणिकं सत्त्वादित्यादि च । तत्रादिमः प्रकारोऽसाधारण एव । 'सर्व क्षणिकं सत्त्वादि'त्यत्र तु सर्वस्य पक्षीकृतत्वात् सपक्षभूतं विपक्षभूतं वा किञ्चिन्नास्तीत्यन्वयव्याप्तियतिरेकव्याप्तिर्वा न वक्तुं शक्येति व्याप्त्यसिद्धिरेवेयं, न वाभासान्तरमित्यास्तामेतत् । तस्मादस्मदुक्तैव हेलाभासव्यवस्थेति । अथ दृष्टान्ताभासाः। साध्यसाधनयोातिप्रतिपत्तिस्थलं हि यत् । तदुदाहरणं नाम दृष्टान्त इति चोच्यते ॥ ८८३ ॥
तद् द्विविधं साधर्म्यवैधर्म्यभेदात् । तत्र साधनस्य साध्येनान्वयोपदर्शनं साधर्म्यम् । यथा - यो धूमवान् सोऽग्निमान् यथा महानस इति । साध्याभावस्य साधनाभावेनान्वयोपदर्शनं वैधर्म्यम् । यथा - योऽग्निमान् न भवति नासौ धूमवान् यथा पाथ इति । साध्यहीनः साधनहीनः उभयहीनः आश्रयहीन इति साधोदाहरणाभासाश्चत्वारः। तद् यथा - नित्यो ध्वनिः अकारणत्वाद् यदकारणं तन्नित्यमिसत्र प्रागभाववदिति साध्यहीनः, प्रध्वंसवदिति साधनहीनः, घटवदित्युभयहीनः, नरशृङ्गवदित्याश्रयहीनः । नित्यत्वमत्राविनाशित्वमेव विवक्षितं, न *कोटिद्वयराहित्यम् । वैधोदाहरणाभासा अपि साध्याव्यावृत्तादयश्चत्वारः। यथा-~यन्नित्यं न भवति न तदकारणमित्यत्र यथा प्रध्वंस इति साध्याव्यावृत्तः, यथा प्रागभाव इति साधनाव्यावृत्तः, यथा गगनमित्युभयाव्यावृत्तः, यथा नरशृङ्गमित्याश्रयहीनः । अत्र चोभयविधोदाहरणेऽपि अव्याप्त्यभिधानं विपरीतव्याप्त्यभिधानमिति च हौ दोषौ । तत्र 'अग्निमान् पर्वतः धूमवत्त्वाद् यथा महानस' इत्येतावदुक्तेऽव्याप्त्यभिधानं, 'यो धूमवान् सोऽग्निमानि'ति व्यातेरनुक्तत्वात् । तथैव 'योऽग्निमान् न भवति, नासौ धूमवानि'ति व्याप्तिमनुक्तैव 'यथा महाद' इत्येतावत्युक्तेऽप्यव्याप्त्यभिधानम् । यदा तु 'यो धूमवान् सोऽग्निमानि ति वक्तव्ये 'योऽग्निमान् स धूमवानि'त्युच्यते, तदा विपरीतव्याप्त्यभिधानम् । तथैव
उत्पतिशून्यस्ये सति माशापतियोगिस्वरूपमत्र कोटिद्वयम् । ....
योऽग्निमान् न भवति, नासौ धूमवानिति वक्तव्ये यो धूमवान् न भवति, नासावग्निमानिति प्रयोगेऽपि द्रष्टव्यमिति ।
अनुमानप्रपञ्चोऽयं बहुभिर्बहुधोदितः। चिदानन्दोक्तरीत्या तु मयैवमिह दर्शितः ॥ ८९॥

इति मानमयोदये प्रमाणपरिच्छेदेऽनुमानपरीक्षा

शब्दपरीक्षा

[सम्पाद्यताम्]

अथ शब्दपरीक्षा ।
 अनुमानतः परस्तादुपमानं वर्णयन्ति तर्कविदः।
 वादिपरिग्रहभूम्ना वयं तु शाब्दं पुरस्कुर्मः ॥ ९० ॥
 तत्र तावत् पदैर्शीतैः पदार्थस्मरणे कृते ।
 असन्निकृष्टवाक्यार्थज्ञानं शाब्दमितीर्यते ॥ ९१३ ॥
तदिदं शाब्दज्ञानं व्युत्पत्त्यधीनमिति तत्प्रकारमादौ प्रदर्शयामः । बालो हि 'गामानय', 'पुत्रस्ते जात' इत्यादिवाक्यानन्तरं प्रवृत्तिं हर्षादिकं वा कस्यचिदुपलभ्य तयोर्बुद्धिपूर्वकत्वाद् गवानयनपुत्रजननाद्यर्थबुद्ध्यनन्तरमेवास्य प्रवृत्तिहर्षादिकं जातमिति बुध्यमानस्तादृशार्थबुद्धेश्च शब्दानन्तरमेव जातत्वाद् गामानयेत्यादिशब्दस्य गवानयनाद्यर्थबोधकत्वमवबुध्यते। तदा च पिण्डित एव शब्दः पिण्डितस्यैवार्थस्य बोधकतया ज्ञातः । ततश्च 'गां बधान, अश्वमानये'त्यादिप्रयोगान्तरेषु पदान्तरयोगत्यागरूपावापोहापौ दृष्टा गोशब्दः सास्लादिमतो वाचकः, आनय(न?)शब्द आनयनक्रियावाचक इत्यादिपदार्थविवेकमवधारयति । तच्च पदैः पदार्थबोधनं शब्दशक्तिजन्यत्वादभिधानमेवेति पार्थसारथिप्रभृतयः । शब्दोऽपि संस्कारोबोधनद्वारेणैव पदार्थ बोधयतीति स्मरणमेव पदार्थज्ञानमिति चिदानन्दादयः। तथाच पदानां प्रत्येकार्थेषु नियमितानामप्यादितः प्रभृति परिदृष्टमेकविशिष्टार्थज्ञानतात्पर्य तावदवतिष्ठते । एवं पदार्थज्ञाने स्थिते यत् पुनस्तदनन्तरनेकविशिष्टार्थज्ञानरूपं वाक्यार्थज्ञानं जायते, तत् परेव वा पदार्थस्मृतिभिर्वा जन्यत इति चिन्तायां पदानां पदार्थबोधीपक्षीणत्वाद् व्यवहितत्वाच्च पदार्था एव स्वसंसर्गरूपं वाक्यार्थ बोधयन्तीत्ययं तावत् तार्किकादिसाधारणः पक्षः । वयं तु पदार्था लक्षणथैव वाक्यार्थ बोधयन्तीति ब्रूमः । वाच्यार्थानुपपत्त्या हि लक्षणा भवति । अत्र च पदैः स्मार्यमाणा गवादिपदार्था यद्यन्योन्यान्वयं विना सामान्यरूपा एवावतिष्ठेरन्, तर्हि पदानां व्युत्पत्तिसमयावधृतमेकविशिष्टार्थबोधैतात्पर्य विरुध्येतेति सामान्यरूपस्य वाच्यस्यानुपपत्तेरन्योन्यान्वयरूपे विशेष एव पदार्थाः पर्यवस्यन्ति । ततश्व गौरियमानीयमानैव, आनयनं च गोसम्बद्धमेवेति परस्परान्वयलाभाद् गवानयनरूपवाक्यार्थसिद्धिः । तेनात्र पदावगताः पुनः पदार्था मिथोऽन्वयं यान्ति । इत्येवमभिहितान्वयसिद्धान्तो दर्शितोऽस्मदादीनाम्॥
सकलपदान्तरपूर्तावितरपदार्थैः समन्वितं स्वार्थम्।
सर्वपदानि वदन्तीत्यन्येषामन्विताभिधानमतम् ॥९३३॥
     गामानयेति प्रथमश्रवणे हि गवानयनरूपस्यान्वितस्यार्थस्य शब्द एव बोधकतया ज्ञातः । अतस्तदनुसारेण पुनरपि पदानामेवान्वितार्थबोधकत्वं वाच्यं, न तु पदार्थानाम् । आवापोहापाभ्यां हि पदार्थेषु विविच्यमानेष्वपि तत्र तत्र तैस्तैरन्विता एव पदार्था दृष्टाः, न त्वेकाकिन इत्यन्विते स्वार्थे पदानां शक्तिर्न परित्यज्यते । ननु किं केवलपदार्थबोधः पदेभ्यो नास्त्येव । अस्तीति ब्रूमः । पदानि तावत् पृथक् पदार्थान् स्मारयन्त्येव, न तु तावता विरमन्ति । स्मारितमेव तु स्वं स्वमर्थ पुनरितरपदार्थान्वितत्वेनाभिधायैव विरमन्तीति राधान्तः । अतः पदाभिधेय एवान्वितरूपी वाक्यार्थः, न तु पदार्थगम्यः। पदार्थगम्यत्वे च प्रमाणान्तरप्रतिपन्नानामपि पदार्थानामन्वयः स्याद्, न चासौ दृश्यत इति । तदिदं गुरुमतं गौरवादेव हेयम् । अस्मन्मते हि पदार्थानां स्मृतिसिद्धत्वाद् वाक्यार्थस्यापि लक्षणासिद्धत्वाच्छक्त्यन्तरकल्पनैव नास्तीति पदेषु शक्तिकल्पनाप्रस्ताव एव भवतां गौरवमायातम् । किञ्च पदशक्तितः पदार्थशक्तिरेव लघीयसी । तदा खलु गमनरूपस्यैकस्यैवार्थस्यान्वयबोधकत्वे कल्पिते गमनपर्यायाणामन्येषामप्यन्वयः सिध्यति । पदशक्तौ तु गमनार्थानामनन्तानों पदानां शक्तिः कल्पनीयेति महागौरवम् । एकवाक्ये च सर्वपदैः प्रत्येकमितरान्वितस्वार्थे बोध्यमाने पदे पदे वाक्यार्थप्रत्ययोऽपि बलादापन्न इति कष्टतरमेतदिति । यत्तु पदार्थानामन्वयबोधकत्वे प्रमाणान्तरप्रतिपन्नानामप्यन्वयः स्यादित्युक्तं, तत्र ब्रूमः । भवतामपि गां बधानेत्युक्ते विगलितरशनो बन्धनापेक्षोऽपि दृश्यमानस्तुरगो बन्धनेन कथं नान्वयं भजते । तत्र खल्वश्वस्य शब्दप्रतिपन्नत्वाभावादनन्वय इति बलाद् वक्तव्यम् । तथाच तहदेव प्रमाणान्तरप्रतिपन्नानामपि शब्दप्रतिपन्नत्वाभावादेवानन्वयः सिद्ध इति तत्रापि नास्माकं किञ्चिदधिकं कल्पनीयम् । तस्मादस्मदुक्त एवान्वयप्रकारो लघीयानिति ।
अत्राकाङ्क्षा च योग्यत्वं सन्निधिश्चेति तत् त्रयम् ।
 वाक्यार्थावगमैः सर्वैः कारणत्वेन कल्प्यते ॥ ९४३ ॥
 गौरश्वः पुरुषो हस्तीत्याकाङ्क्षारहितेष्विह ।
 अन्वयादर्शनात् तावदाकाङ्क्षा परिगृह्यते ॥ ९५३ ॥
अग्निना सिञ्चतीत्यादावयोग्यानामनन्वयात् ।
 योग्यतापि परिग्राह्या सन्निधिस्त्वथ कथ्यते ॥ ९६३ ॥
शब्दैः सन्निहितत्वेन बोधितत्वं हि पदार्थानां सन्निधिरित्युच्यते। अतः सन्निहितत्वाभावाच्छब्दबोधितत्वाभावाच्च द्वेधा सन्निध्यभावो भवति । तत्र भिन्नकालोच्चारितयोर्गामानयेति पदयोः सन्निहितत्वाभावादनन्वयः । गां बधानेत्यत्र बन्धनापेक्षस्य दृश्यमानस्याश्वस्य शब्दबोधितत्वाभावादेवानन्वयः । अतः शब्दप्रतिपन्नानामेवान्वय इति नियमः सिद्धः । गुरुस्तु बुद्धिसन्निधिमात्रमेव सन्निधिं मन्यते, न तु शाब्दसन्निधिम् । सोऽपि गां बधानेत्यत्राश्वस्यान्वयं वारयितुमशक्नुवन् शाब्दानामेवान्वय इत्यकामेनाप्यनुमंस्यत इति प्रागुक्तम् । ननु तत्र वाक्यस्याश्वं प्रति तात्पर्याभावादेव तस्यानन्वयोऽस्तु, न शाब्दत्वाभावात् । मैवम् । तथा सत्यभिना सिञ्चेदित्यादावपि तात्पर्याभावादेवानन्वय इति योग्यत्वादीनामप्यपरिग्रहप्रसङ्गात् ।
 तस्मादन्वयसिद्धौ तात्पर्य न स्वयं क्वचिद्धेतुः ।
 सामग्रयन्तरभावे नियमार्थ त्वर्थ्यते पुनस्तदपि ॥९७३॥
इति स्थितिः।
एवं गत्यन्तराभावाद् गुरुणापि समाश्रितः।
शाब्दानामेव संसर्ग इत्य नियमोऽधुना ॥ ९८३ ॥
 तेन द्वेधोपकारो नस्तकः पूर्वमीरितः।
 मानान्तरावबुद्धानां नान्यः स्यादितीदृशः ॥ ९९१ ॥
अन्योऽपि द्वारमित्यादावध्याहारे भविष्यति ।
 शाब्दस्यैवान्वयाहत्वाद् द्वारमात्रियतामिति ॥ १००३ ॥
 शब्दामाहार एव स्यादित्येवं मादृशां मतम् ।
 गुरुस्त्वावरणार्थस्य तत्राध्याहारमिच्छति ॥ १०१३ ॥
 बद्धिसन्निधिदात्रेणाप्यन्वेतीति दुराशया।
 तत्र यद्यवलिप्तोऽयं गुरु यैव शिक्ष्यते ॥ १०२३ ॥
 अर्थाध्याहृतिरे ति तर्हि गर्जिति ध्रुवम् ॥ १०३ ॥
इत्यास्तामेतत् । उक्तस्तावद् वाक्यार्थज्ञानप्रकारः। असन्निकृष्टवाक्यार्थज्ञानं च शाब्दमित्युक्तम् । इदमेवागम इति चोच्यते । असन्निकृष्टपदेन चानुवादानां बाधितार्थानां च वाक्यानामप्रामाण्यमुक्तम् । तच्च शाब्दं द्विविधं पौरुषेयमपौरुषेयं च । तत्राप्तवचः पौरुषेयं, वेदवचोऽपौरुषेयम् । गुरुस्त्वाह-वैदिकमेव शाब्दमस्ति । पुरुषवचनानि तु वऋभिप्रायानुमापकान्येव, न स्वयमेव वाक्यार्थ बोधयन्ति, शङ्काकुण्ठितशक्तित्वात् । व्युत्पत्तिसमयसिद्धापि शब्दानां बोधकत्वशक्तिर्व्यभिचारबहुलेषु पौरुषेयवचनेषु तदाशङ्काशङ्कया कुण्ठिता भवति । तत्र चानेन वक्रामुमर्थमवबुध्यैव वाक्यं प्रयुक्तमिति यावन्नानुमीयते, तावदन्यथात्वशङ्का न निवर्तत इति वाक्यमुदास्त एव । तथा तात्पर्यमपि नरगिरां तद्बुद्ध्यधीनमिति वक्तुबुद्ध्यनुमानं विना तात्पर्यानिश्चयादपि वाक्यमुदास्ते । तस्माद् वक्तृधीस्तावद्नुमातव्या । तत्र नद्यास्तीरे फलानि सन्तीति वाक्ये श्रुते पदार्थेषु च पृथक पृथक् स्मृतेष्वनुमिनोति 'एतानि पदान्येतेषां पदार्थानां संसर्गमवबुध्यैव प्रयुक्तानि आप्तप्रणीतपदत्वाद् गामानयेति पदवदि'ति । एवञ्च वक्तुः पदार्थसंसर्गज्ञानमवगन्तुं परिश्रान्तः श्रोता पदार्थसंसर्गरूपं वाक्यार्थमपि बलाल्लभत इत्यनुमेय एव नरवचस्सु वाक्यार्थः।
एवं व्यभिचारभये गलिते वाक्यार्थनिर्णये जाते।
पुनरभिधत्ते शब्दोऽप्यनुवादतयेति तस्य राधान्तः॥१०४॥
तदिदमयुक्तम् ।
व्यभिचारविशङ्कामप्यनादृत्येन्द्रियादिवत् ।
स्वमर्थमभिधातुं किं समर्था न पदावली ॥१०५॥
तात्पर्यमपि सुज्ञानं स्वतो ज्ञानानुमां विना।
यथा वेदे यथा चान्येष्वनालोचितकर्तृषु ॥ १०६ ॥
वक्तृज्ञानानुमानान्तं यदि च प्रतिपाल्यते।
तर्हि तस्याप्यशक्यत्वाद् भग्नाशः किं करिष्यसि ॥१०७॥
आप्तप्रणीतत्वं खल्वत्र हेतुत्वेनोक्तम् । आप्तत्वं च भ्रान्त्याद्यभावोऽभिमतः । भ्रान्तिश्चास्य पुरुषस्य नास्त्येवेति कचिदपि न निरूपयितुं शक्यते । 'ऋषीणामपि भ्रान्तिराशङ्कयते, किमङ्ग! पुनरर्वाचीनानामि'त्युक्तत्वात् । एवमस्मिन् देशे काले वास्य भ्रान्ति स्तीत्यपि दुर्निरूपमेव । तस्मादन्ततोऽस्मिन् वाक्यार्थेऽस्य भ्रमो नास्तीति वाक्यार्थज्ञानपुरस्सरमेव भ्रान्तिर्निवारणीया । अतो वाक्यार्थावगमात् पूर्वमाप्तत्वमसिद्धमेवेति कथं तेनानुमीयत इति हतं गुरुमतम् ।
एवं लौकिकशब्दानामनुमानत्ववारणात् ।
सर्वशाब्दानुमानत्ववादिनोऽपि हि खेदिताः ॥ १०८ ॥
हिप्रमाणा हि काणादादयो गुरूक्तप्रकारेणैव सर्ववाक्यार्थानामनुमेयत्वमाहुः । तेऽप्यनेनैव निरसनीयाः । तैरपि निर्दोषवाक्यत्वादिहेतुभिरेव वाक्यार्थोऽनुमातव्यः । निर्दोषत्वं च भ्रान्त्यादिराहित्यम् । तच्च वाक्यार्थनिरूपणपुरस्सरमेव निरूपणीयमिति पूर्वोक्तप्रकारेण तेषामपि हेत्वसिद्धिरेवेत्यास्तां तावत् । तदेवं लौकिकं वैदिकमपि शाब्दं सिद्धम् । तत्र-
दुष्टवक्तृप्रणीतत्वदोषः शब्दे यदा भवेत् ।
तदा स्याद् व्यभिचारोऽपि पौरुषेयगिरां कचित् ॥१०९॥
अपौरुषेये वेदे तु पुरुषस्पर्शसङ्गतः ।
कलको न विशङ्कयेत तत् कुतो व्यभिचारिता ॥११०॥
वैदिकं च विधिमन्त्रार्थवादभेदेनोपदेशातिदेशभेदेन च बहुविधमित्यादि तु परिमितकथया न बोधयितुं शक्यत इत्युपरम्यते ।

                     इति मानमेयोदये प्रमाणपरिच्छेदे शाब्दपरीक्षा।

उपमानपरीक्षा

[सम्पाद्यताम्]

दृश्यमानार्थसादृश्यात्स्मर्यमाणार्थगोचरम् ।
असन्निकृष्टसादृश्यज्ञानं ह्युपमितिर्मता ॥

यथा गवये गोसादृश्यदर्शनानन्तरं स्मर्यमाणे गवि गवयसादृश्यज्ञानम् । तथाहि -
 
नगरे खलु पूर्वं गां पश्यतोऽपि न भासते।
तत्स्थं गवयसादृश्यं गवयस्यानिरीक्षणात् ॥ ११२ ॥
 
कदाचित् तु वनं प्राप्य गवयं वीक्षते यदा।
तदा तद्गतगोसाम्यं प्रत्यक्षेणैव गृह्यताम् ॥ ११३॥
 
यत् पुनस्तावदेवास्य भाति दूरस्थिते गवि ।
गवयेनापि सादृश्यं तत्र किं नाम कारणम् ॥ ११४ ॥
 
न हि पूर्वगृहीतं तद् येन स्मर्येत साम्प्रतम् ।
दूरस्थितत्वाच्चेदानी प्रत्यक्षेण न गृह्यते ॥ ११५ ॥

स्पष्टं च भासते तस्मात् प्रमाणान्तरमर्थ्यते ।
तत्रोपमानमाचख्युः शाबराः शाङ्करा अपि ॥ ११६ ॥
 
तत्र चगवयस्थितसादृश्यदर्शनं करणं भवेत् ।
फलं गोगतसादृश्यज्ञानमित्यवगम्यताम् ॥ ११७॥
 
तार्किकास्तु उपमानमन्यादृशमन्वेषयन्तो गोगतसादश्यज्ञानमनुमानीकुर्वन्ति । यथा - यो यद्गतसादृश्यप्रतियोगी स तेनापि सदृशः, यथा करतलं करतलान्तरेण । गवयगतसादृश्यप्रतियोगी च गौः । तस्माद् गवयेनापि सदृश इति । तदयुक्तम् । इह हि यो यद्गतसादृश्यप्रतियोगी, स तेनापि सहश इति सामान्यव्याप्तिमात्रेणानुमीयमाने यःकश्चिदग्निरस्तीतिवदनियतविशेषं यत्किञ्चित् सादृश्यमस्तीत्येतावदेव भासते, न तु नियतमेव गोर्गवयसादृश्यं प्रत्यक्षवदेव विस्पष्टं परिच्छियेत । तस्मान्नियतपरिच्छेददर्शनान्न सामान्यतोदृष्टानुमानमिदम् । अतोऽनुमानाभावान्मानान्तरमेव । ननु तदानीमेव गोर्गवयसाधर्म्यवत् पुरुषादेर्गवयवैधर्म्यमपि स्पष्टं प्रतिभासते । तत्रापि किं प्रमाणान्तरमाश्रीयते । नेति नमः । तत्र खलु पुरुषस्य गवयगतधर्माभावरूपं वैधर्म्यमभावप्रमाणेनैवावगम्यत इति किं प्रमाणान्तरेणेति । तार्किकैस्तूपमानमन्यदुन्नीतम् । कश्चित् खलु नगरागतं वनचरं प्रति गवयो नाम क इति पृष्ट्वा गोसदृशो गवय इति श्रुतातिदेशवाक्यः पुनर्वनमुपेत्य मृगविशेषं पश्यन् अयमेव स गोसदृश इति प्रत्यभिजानाति । ततश्वायमेव गवय इति संज्ञासंज्ञिसङ्गतिमपि जानाति । तदिदं सङ्गतिग्रहणमुपमितिः । तत्करणं वाक्यार्थप्रत्यभिज्ञानमुपमानमिति । न चेदं सङ्गतिग्रहणं प्रमाणान्तरसाध्यम् । पूर्व वाक्यश्रवणसमये हि संज्ञिनो गवयस्यादृष्टत्वात् तत्र सम्बन्धग्रहो न शक्यते कर्तुम् । दृश्यमाने तु गवये वाक्यमतिवृत्तमेवेति न वाक्यस्य तद्बोधने प्रागल्भ्यम् । ननु गोसदृशे पिण्डे गवयशब्दः प्रयुज्यत इति तावद् वाक्यादवगतम् । तेन दृश्यमानेन गवयेऽनुमीयतां 'गवयशब्दोऽस्य वाचकः लक्षणादीन् विनात्र प्रयुज्यमानत्वाद् यथा गोर्गोशब्द' इति । तदप्ययुक्तम् । तत्र प्रयुज्यमानत्वमात्रमेव हि वाक्यादवगतम् । लक्षणाद्यभावस्तु वाचकत्वसिद्धेः पूर्व दुर्विज्ञान एवेति विशेषणासिद्धोऽयं हेतुः ।

तस्मादुपमानसाध्यमेवेदं सम्बन्धज्ञानम् ।
एतत्साधर्म्यवाक्यार्थादुपमानं समीरितम् ॥ ११८॥

एवमेव हि वैधाद् धर्ममात्राच सम्भवेत् ।
यथा तुरङ्ग इत्येष द्विशफो न गवादिवत् ॥ ११९ ॥

इति वैधर्म्यवाक्यार्थ बुद्धा देशान्तरं गतः।
पशुमेकशफं दृष्ट्वा तुरङ्ग इति बुध्यते ॥ १२० ॥

तथैव धर्ममात्रे च श्रुते सम्बन्धधीः क्वचित् ।
दीर्घग्रीवः प्रलम्बोष्ठः कण्टकाशी क्रमेलकः ॥ १२१ ॥

इति श्रुत्वा ततोऽन्यत्र विजानन्ति क्रमेलकम् ।
एवं साधर्म्यवैधर्म्यधर्ममात्रविभेदतः ॥ १२२॥

त्रेधातिदेशवाक्यार्थस्तस्मादुपमितिस्त्रिधा ॥ १२२३ ॥ इति ।

तदिदं दुर्मतं हेयं यतः सम्बन्धधीरियम्।
प्रत्यक्षानुगृहीतेन शाब्देनैवोपजन्यते ॥ १२३३ ॥

को गवय इति गवयशब्दवाच्यार्थ पृष्टवता हि पुरुषेण गोसदृशो गवय इत्युत्तरवाक्यस्यापि वाच्यार्थप्रदर्शन एव तात्पर्यमित्यवधार्यते।

तेनाप्रदर्य वाच्यार्थं न शब्दः पर्यवस्यति ।
पूर्वं च गवयज्ञानान्न शक्यं तत्प्रदर्शनम् ॥ १२४३ ॥

ततश्चानवगततात्पर्यमपर्यवसितमेव वाक्यं पुनर्गवये प्रत्यक्षीक्रियमाणे स्मृतिगतं प्रत्यक्षोपदर्शितवाच्यार्थतया प्रतिलब्ध. तात्पर्य तदानीमेव संज्ञासंज्ञिसम्बन्धस्यावबोधकं भवति । यथा खलु नवकम्बलो वणिगिति भणितिनिशमनमनु विपणिमुपगतो वणिजि नवसु कम्बलेषु दृश्यमानेषु सङ्ख्याविशेषतात्पर्यमवधार्य वाक्यार्थ बुध्यते, तथात्रापि द्रष्टव्यम् । तस्मात् प्रत्यक्षानुगृहीतशाब्दसाध्यमेव सङ्गतिग्रहणमिति न प्रमाणान्तरमन्वेषणीयम् ।

उपमानपदं लोके सादृश्ये सति विश्रुतम् ।
वैधयें धर्ममात्रे च तत्प्रयोगः कथं हि वः ॥ १२५३ ॥

तथातिदेशशब्दोऽपि वाक्ये साधर्म्यबोधके ।
प्रसिद्धः सोऽपि चान्यत्र कथ्यमानो दुनोति माम् ॥१२६३॥ इति ।

तस्मादनितरशरणं गोगतसादृश्यबोधमेव वयम् ।
उपमानं गृह्णीमो मानत्रयवादिनोऽपि तेन जिताः॥१२७॥

अत्र सादृश्यविषये गुरुणा कलहोऽस्ति नः।
पदार्थान्तरमेवेदं सादृश्यं मन्यते गुरुः ॥ १२८३ ॥

वयं गुणादिसामान्यसमाहारं वदामहे ।
पदार्थावसरे किञ्चित् तत्प्रकारो वदिष्यते ॥ १२९३ ॥

इति मानमेयोदये प्रमाणपरिच्छेदे उपमानपरीक्षा ।

अर्थापत्तिपरीक्षा

[सम्पाद्यताम्]

अथार्थापत्तिपरीक्षा l

अन्यथानुपपत्त्या यदुपपादककल्पनम् ।
तदर्थापत्तिरित्येव लक्षणं भाष्यभाषितम् ॥ १३०३ ॥

तत्र च प्रमाणद्वयविरोधोऽनुपपत्तिरित्युच्यते ।

तेनै लक्षणं शिक्षणीयं साधारणप्रमाणानामसाधारणमानतः।
विरोधादविरुद्धांशे धीरर्थापत्तिरिष्यते ॥ १३११ ॥

यथा जीवनमानस्य गृहाभावप्रमाणतः ।
विरोधात् करणीभूताद् बहिर्भावस्य कल्पनम् ॥ १३२ ।

गणितागममूलेनानुमानेन देवदत्तो गृहे बहिर्वा क्वचि जीवतीति साधारण्येनावगम्यते । तस्य गृहे नास्तीत्यनेन विरोध सत्यविरोधाय बहिरस्तीति कल्प्यते । तदिदं प्रमाणद्वयविरोधक रणकमर्थापत्तिज्ञानमिति ।

अमुष्यास्त्वनुमानत्वमिच्छन्तस्तार्किका जगुः ।
न मानयोर्विरोधोऽस्ति प्रसिद्धे चाप्यसौ समः॥ १३३३ ।

इति । प्रमाणयोस्तावद् विरोधो न सम्भवति । इदं रजतं ने रजतमितिवदेकस्याप्रमाणत्वप्रसङ्गात् । ननु तथाप्युक्तप्रमाणयो विरोधो दृश्यत इति चेत्, तदप्याशामात्रम् । अत्र हि गृहे बहिर्वेति सन्देहास्पदस्यैव देशविशेषस्य गृहाभावप्रमाणेन बाधेजातः । जीवनप्रमाणेन हि जीवनमात्रं देशसामान्यसम्बन्धो वा विषयीकृतः, न तु तदुभयमपि गृहाभावप्रमाणेन स्पृष्टमाघ्रातं वा । तस्माज्जीवनगृहाभावप्रमाणयोर्विरोधस्यैवाभावात् कथं तेन करणभूतेनार्थापत्तिरित्युच्यते । अपिच,

ईदृशस्य विरोधस्य प्रसिद्धानुमितिष्वपि ।
सम्भवादनुमाजालमापत्तिमुसिष्यते ॥ १३४३ ॥

यत्र धूमस्तत्राग्निरिति व्याप्तिग्राहकप्रमाणेन हि पर्वतेऽप्यग्निः प्राप्तः । धूमो वा दृश्यमानः पर्वते स्वकारणमग्निमाक्षिपतीति व्याप्तिग्राहकप्रमाणेन धूमदर्शनेन वा पर्वते क्वचिदग्निरस्तीत्यवगतम् । तस्य चोर्ध्वदेशेऽनुपलम्भेन विरोधाधोदेशे वह्निः कल्प्यत इत्यर्थापत्तितापत्तिः । तस्मादियमनुमानपक्षे प्रक्षेप्तव्या। इत्थं चानुमीयते-देवदत्तो बहिरस्ति जीवत्त्वे सति गृहेऽसत्त्वाद् यो जीवन् यत्र नास्ति स ततोऽन्यत्रास्ति यथाहमिति। अतो वञ्चितमेतत् पञ्चमप्रमाणमिति ।

तदिदं शिक्ष्यतेऽस्माभिर्विरोधोऽस्त्येव मानयोः ।
न प्रसिद्धानुमाभङ्गो बहिर्भावे च नानुमा ॥१३५३ ॥

तत्र यत् तावदुक्तं प्रमाणयोर्विरोधे सत्येकस्याप्रमाणलं स्यादिति, तद् इदं रजतं नेदं रजतमितिवदुभयोरप्यसाधारणप्रमाणयोर्विरोध एव ।

साधारणप्रमाणस्य त्वसाधारणमानतः।
बाधेऽपि सावकाशत्वादप्रामाण्यं न जायते ॥१३६३ ॥

तस्मात् प्रमाणद्वयविरोधः सम्भवत्येव । यत् पुनरुक्तमिहापि सन्दिग्धस्य देशविशेषस्यैव बाधो न जीवनप्रमाणस्येति। अंत्र ब्रूमः।

ज्ञायमानेऽनुमानेन देवदत्तस्य जीवने ।
ज्ञातव्यो देशसम्बन्धोऽप्यस्यावस्थितिसिद्धये ॥ १३७३ ॥

तत्र देशत्वसामान्यमानं सम्बध्यते याद ।
तर्हि देशत्वसम्बन्धाद् देशः स्यात् पुरुषोऽप्यसौ ॥१३८॥

ततश्चानियतव्यक्तिदेशसामान्यसंश्रितम्।
ज्ञायते जीवनं तस्य कचिज्जीवत्यसाविति ॥ १३९३ ॥

तस्माद् गृहे बहिर्वेति सन्दिग्धमपि कञ्चन ।
विशेषमवलम्ब्यैव प्रमितं खल्लु जीवनम् ॥ १४०३ ॥

तत्रैकस्य विशेषस्य बाधेऽन्यग्रहणात् पुरा ।
बाध्येतैव निरालम्बा जीवनप्रमितिः स्वयम् ॥ १४१३ ॥

एवं बहिष्ट्वसिद्धेः प्राग् गृहाभावग्रहागताम् ।
प्रतिरोधदशां सूक्ष्मामविदन्तो वदन्ति ते ॥ १४२३ ॥

इति । यदप्युक्तं प्रसिद्धानुमानानामप्यर्थापत्तित्वं स्यादिति, तदपि न । तत्र हि पर्वतस्य कचिदग्निप्रापकं साधारणप्रमाणं किन्नामेति वक्तव्यम् । ननूक्तं व्याप्तिग्राहकप्रमाणेन पर्वतेऽप्यग्निः प्राप्त इति । हन्त भोः ! प्राभाकरपृष्ठचुम्बिना केनेदं प्रलपितम् ।

अदृष्टपर्वतः पूर्वं कथं तस्याग्निशालिताम् ।
अवगच्छेदिति ध्वस्तमनुमानेऽपि तन्मतम् ॥ १४३३ ॥

यत् पुनरुक्तं धूमः स्वकारणमग्निमाक्षिपतीति तस्य कोऽर्थः । हन्त धूमोऽग्निमनुमापयतीति व्याख्यातव्यम् । ततश्च पर्वतेऽग्निप्रापकमनुमानमेव तत्रं साधारणप्रमाणतयोक्तमिति नास्त्यनुमानकबलीकारः।
तस्योर्ध्वानुपलम्भेन बाधे चाधः प्रकल्पनम् ।
 अर्थापत्तितयैवेष्टमिति कष्टं न किञ्चन ॥ १४४३ ॥ - इति । यत् पुनरनुमानं बहिर्भावसिद्धौ प्रयुक्तं, तत् स्वरूपासिद्धमायुष्मताम् । जीवनमात्रस्य निर्विशेषस्य निरूपयितुमशक्यत्वात् । बहिर्भावग्रहणात् पूर्व जीवनगृहाभावौ समुच्चित्य प्रत्येतुं न शक्यते । अतो जीवनविशिष्टगृहाभावरूपस्य लिङ्गस्याप्रतिपत्तेः स्वरूपाज्ञानासिद्धोऽयं हेतुः। तदुक्तं बृहट्टीकायां “तस्माद् यो विद्यमानस्य गृहाभावोऽवगम्यते । स हेतुः स बहिर्भावं नागृहीत्वा च गृह्यते ॥” इति । अतः पृथगेवार्थापत्तिः।

तार्किकध्वंसनोपायमेतादृशमजानता।
गुरुणा तु प्रलपितो जीवनस्यात्र संशयः ॥ १४५३ ॥

जीवनं किल विज्ञातं वेश्मवर्तितया पुरा ।
तस्माज्जीवनसन्देहो भवेद् बेश्मन्यदर्शनात् ॥ १४६३ ॥
 
सन्दिग्धं जीवनं वेतद् बहिर्भावस्थ बोधकम् ।
अर्थापत्तेः प्रभावोऽयं यत् सन्दिग्धोऽपि बोधयेत् ॥१४७३॥

एवं जीवनसन्देहे स्यात् सन्दिग्धविशेषणः।
हेतुरित्यनुमानत्वनिरासः सुकरोऽत्र नः ॥ १४८३ ॥

इति । तदिदमपहसनीयम् ।

तथाहि जीवनं यदि सन्दिग्धं गृहाभावनिरीक्षणात् ।
तर्हि तन्निर्णयः कार्य आप्तवाक्यादिना पुनः ॥१४९३॥

तत्प्रियाकण्ठसूत्रादिचिह्नसन्दर्शनेन वा।
न च तत्ॢ प्रार्थ्यते किञ्चित् तस्मानास्त्येव संशयः ॥१५०३॥

किञ्च नास्ति बहिर्भावग्रहः सन्दिग्धजीवनात् ।
मृतत्वस्यापि शङ्कायां बहिरस्तीति धीः कथम् ॥१५१३ ॥

यस्माज्जीवति वा नो वा तस्मात् तिष्ठत्यसौ बहिः ।
इति कल्पयितुं शक्तः कोऽपरो गुरुणा विना ॥१५२३ ॥

अर्थापत्तिप्रभावेण सर्वं सम्भवतीति चेत् ।
हन्तैवं सर्ववस्तूनामदृष्ट्या नाशसंशये ॥१५३३ ॥

अन्यत्रास्तीति निश्चित्य कृतार्थीक्रियतां मनः ।
तस्मात् सन्दिग्धता तावन्नवार्थापत्तिकारणम् ॥१५४३ ॥

इति । अतोऽस्मदुक्तविधैवार्थापत्तिः । सा पुनर्दयी दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति । तत्र दृष्टार्थापत्तिरुक्ता ।

यत्र त्वपरिपूर्णस्य वाक्यस्यान्वयसिद्धये।
शब्दोऽध्याह्रियते तत्र श्रुतार्थापत्तिरिष्यते ॥ १५५३ ॥

यथा द्वारं द्वारमित्यस्मिन् वाक्येऽन्वयसिद्ध्यर्थं शब्दगम्येनावरणाद्यर्थान्तरेण भवितव्यमिति साधारणप्रमाणम् । तस्य श्रुतशब्दानुपलम्भेन बाधे सत्यश्रुतशब्दगम्यत्वेनावरणाद्यर्थः कल्पनीयः । तत्र च शब्देन सहैवावरणाद्यर्थकल्पनोद्युक्तः शब्दादेवार्थगतेाघवतः शब्दमेव कल्पयति । सेयं शब्दकल्पनरूपा श्रुतार्थापत्तिः । गुरुस्तु आवरणाद्यर्थस्यैव कल्प्यतया शब्दकल्पनाभावाच्छूतार्थापत्तिर्नास्तीत्याह । स तु शब्दप्रतिपन्नस्यैवान्वयसाधनात् पूर्वमेव मूकीकृतः । किञ्च यदि वाक्यपूरणार्थमर्थ एव कल्प्यते, तर्हि 'सूर्याय जुष्टं निर्वपामी'त्यादा सूर्यरूपोऽर्थ एवोहितव्यः, न तु सूर्यायेति पदकल्पनं स्यात् । ननु प्रकृतौ पदार्पित एवायमंशो दृष्ट इति विकृतावपि पदं कल्प्यम् । मैवम् । न हि दृष्टत्वमात्रेण विकृतौ धर्मा आकृष्यन्ते, किन्तु प्रयोजनायैव । न तु तस्यांशस्य पदबोधितत्वेन युष्माकं किञ्चित् प्रयोजनमस्ति, अन्वयस्यान्यथापि सिद्धत्वात् । दृष्टत्वमात्रेण ग्रहणे चावहतगतमेव संस्कारान्तरं दृष्टमित्यवघातोऽपि कृष्णलेषु कर्तव्यः स्यात् । तस्माच्छ्रुतार्थापत्त्यैवोहसिद्धिरित्यास्तामेतदिति ।

इति मानमेयोदये प्रमाणपरिच्छेदेऽर्थापत्तिपरीक्षा ।

अभावपरीक्षा

[सम्पाद्यताम्]

अथाभावपरीक्षा ।
अथोपलम्भयोग्यत्वे सत्यप्यनुपलम्भनम् ।
अभावाख्यं प्रमाणं स्यादभावस्थावबोधकम् ॥ १५६३ ॥
अत्र ह्यनुपलम्भः करणम् । तस्य च ज्ञानाभावरूपत्वादभावः प्रमाणमित्युच्यते ।
तत्र चविषयं तदधीनांश्च सन्निकर्षादिकान् विना ।
उपलम्भस्य सामग्रीसम्पत्तिः खलु योग्यता ॥ १५७१ ॥
 सा च ज्ञाततयाभावज्ञानस्य सहकारिणी।
अज्ञातोऽनुपलम्भस्तु सत्तामात्रेण बोधकः ॥ १५८३ ॥
ततश्च विषयभूतं घटं, तदधीनांश्चेन्द्रियसन्निकर्षादीन् विना यच्चक्षुरुन्मीलनालोकसम्पातमनःप्रणिधानादिकं घटोपलम्भकारणं, तत् सर्वमिदानीमेव सञ्जातमित्यवगमे सति तत्सहकृतः सन् घटानुपलम्भो घटाभावं बोधयतीत्येवं सर्वत्र द्रष्टव्यम् । योग्यत्वावंगमार्थं हि सूक्ष्मार्थाभाववेदने । सूक्ष्मबोधकनेत्रांशुसम्पातार्थं प्रयस्यते ॥ १५९३ ॥
योग्यत्वस्य च सन्देहे विपर्यासेऽथवा सति ।
अभावेऽपि हि सन्देहो भ्रमो वास्त्येव तद् यथा ॥१६॥
तमसि भ्रष्टमन्विष्यन् कराभ्यामङ्गलीयकम् ।
सर्वोर्वीस्पर्शसन्देहादभावेऽप्येति संशयम् ॥ १६१३ ॥
तथैव सर्वतोऽस्पर्श मत्वा सर्वाभिमर्शनम् ।
सत एवाङ्गलीयस्याप्यभावं बुध्यते भ्रमात्॥ १६२३ ॥
__तस्माद् योग्यत्वनिर्णयोऽत्र सहकारी । अनुपलम्भस्तु द्विविधः प्रमाणाभावरूपः स्मरणाभावरूपश्च । तत्र प्रत्यक्षप्रमाणाभावरूपादनुपलम्भाद् घटाद्यभावज्ञानमुक्तम् । एवमनुमानगम्यार्थानामभावग्रहणे योग्यानुमानानुदयो बोधको द्रष्टव्यः। यथा रूपदर्शनबोधकस्य चेष्टालिङ्गकानुमानस्यानुत्पत्तिरुलूकस्य दिवा रूपदर्शनाभावं बोधयतीत्युक्तं मनोरथमिङः । एवमन्येप्रमाणे. ष्वपीति । स्मरणाभावाद् यथा--प्रातरिह मैत्रो नासीदिति सायङ्काले ज्ञानम् । तत्र हि प्रातःकालविशिष्टमैत्रस्य सायङ्काले दर्शनयोग्यत्वाभावात् स्मरणयोग्यत्वे सत्यस्मरणमेव तदानीं प्रातःकालविशिष्टमैत्राभावस्य बोधकाँश्रीयतें इति। तार्किकास्तु - अभावस्य प्रत्यक्षादिगम्यत्वमाचक्षाणा अनुपलम्भगम्यतां नसम्मन्यन्ते । तदयुक्तम् । तेऽपि हि सायङ्काले प्रातःकालीनाभावज्ञानस्येन्द्रियजन्यत्वाभावादुक्तप्रकारेणानुपलम्भजत्वमेव बलादङ्गीकुवीरन् । ननु तत्र स्मरणाभावेन लिङ्गेन प्रातःकालीनामानमेयोदये भावोऽनुमीयत एव । मैवम् । स्मरणाभावस्य ज्ञातुमशक्यत्वात स्मृत्यभावं मनोग्राह्यमिच्छन्ति किल तार्किकाः ।
तच्चायुक्तं वयं तावद् ज्ञानाप्रत्यक्षवादिनः ॥ १६३३ ॥
मनःप्रत्यक्षगम्यत्वं ज्ञानानां वारयामहे ।
ततश्च तदभावोऽपि मनसा गृह्यते कथम् ॥ १६४३ ॥ इति ।
नन्वभावस्य प्रत्यक्षत्वमनुमिमीमहे । तदिदमुदितमुदर नेन "प्रतिपत्तेरापरोक्ष्यादिन्द्रियस्यानुपक्षयात् ।
अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः ॥" इत्यादि । प्रयोगस्तु--अभावः प्रत्यक्षः अपरोक्षप्रतीतत्वा घटवदिति । तत्राभावस्यापरोक्षप्रतीतत्वाभावात् स्वरूपासिड हेतुः । भूतलादेस्त्वपरोक्षत्वादभावस्यापि तत्त्वभ्रम एवायुष्मत मिति । नन्वभावज्ञानं प्रत्यक्षम् अनुपक्षीणेन्द्रियजन्यत्वार घटज्ञानवदिति । तदपि विशेषासिद्धम् ।
यतःपूर्वोक्तयोग्यतासिद्धावुपक्षीणमिहेन्द्रियम् ।
ग्राह्या चाभावबोधार्थं योग्यता तार्किकैरपि ॥ १६५३ ॥
 घटो यदि भवेदत्र तर्हि दृश्येत भूमिवत् ।
इति तर्कात्मना तेऽपि योग्यतामेव गृह्णते ॥ १६६३ ॥
 अस्ति चेदुपलभ्येतेत्यस्य कोऽर्थो विचार्यताम् ।
घटादन्योऽत्र सर्वोऽपि ज्ञानहेतुरभूदिति ॥ १६७३ ॥

  • विशेषो विशेषणम् ।


यत् पुनः अभावज्ञानं प्रत्यक्षम् अज्ञात कारणत्वाद् घटादिज्ञानवदिति, तत् स्मृतावनैकान्तिकम् ।
संस्कारो हि स्मृतौ हेतुः स चाज्ञातोऽवबोधकः ।
अज्ञातकरणाप्येवं स्मृतिनाध्यक्षतां गता ॥ १६८३ ॥ इति ।
 यत् पुनः अभावज्ञानं भावरूपकरणाविष्टमनोजन्यं ज्ञानत्वाद् ज्ञानान्तरवदित्यनुपलम्भकरणत्वं न युक्तमिति, तदपि 'न । अभावज्ञानमिन्द्रियेतरकरणकम् अभावज्ञानत्वाद् अनुमेयाभावज्ञानवदित्यपि वक्तुं शक्यत्वादिति । यत्तु अभावज्ञानमिन्द्रियकरणकम् इन्द्रियदोषेण दृष्यमाणत्वाद् यथा चक्षुर्दोषेण दूष्यमाणं रूपज्ञानं चक्षुःकरणकमिति, तदप्यसिद्धमेव ।
न खल्विन्द्रियदोषः स्यादभावभ्रमकारणम् ।
योग्यताभ्रम एवात्र तत्कारणमितीरितम् ॥ १६९१ ॥ इति ।
यानि पुनः चक्षुरभावग्राहकम् इन्द्रियत्वाद् मनोबदित्यादीन्यन्यान्यप्यनुमानानि, तानि सर्वाणि सम्बद्धस्यैवेन्द्रियस्य ग्राहकत्वादभावे सम्बन्धानभ्युपगमाद् विशेषणविशेष्य(भाव)रूपसम्बन्धस्य च सम्बन्धान्तरपूर्वकत्वनियमाद विशेषविरुद्धानि ।
अपि चेन्द्रियसम्बन्धयोग्यतैव हि वस्तुनः ।
प्रत्यक्षत्व उपाधिः स्याद्रव्याप्त्यसिद्धास्ततोऽखिलाः॥१७०१॥
ननु विशेषणविशेष्यभावो नाम सम्बन्धोऽस्त्येव । मैवम् ।
प्रत्यक्षत्वे ह्यभावस्य स्थिते कश्चित् कथञ्चन ।
.. कष्टोऽपि सन्निकर्षः स्यात् तदेवाद्यापि न स्थितम् ॥१७१३॥
किञ्च अभावभूतले विशेषणविशेष्यभावरहिते सम्बन्धान्तररहितत्वाद् मेरुविन्ध्यवदिति विशेषणविशेष्यत्वमेवात्र नास्तीति कथमसतः सन्निकर्षलवादः । किञ्च,
प्रतियोगिस्मृतिर्न स्यादादितो निर्विकल्पके ।
ततश्च सविकल्पेनैवाभावज्ञानमिच्छसि ॥ १७२३ ॥
तस्मादेवमनुमीयते - अभावः प्रत्यक्षो न भवति निर्विकल्पकानर्हत्वाद् अतीद्रियवस्तुवदिति । तदेवं नैयायिकवैयात्यनिरोधादनुपलम्भवेद्य एवाभाव इति स्थितम् ।
अभावाख्यं तु वस्त्वेव नास्तीत्याह प्रभाकरः ।
तेन प्रमाणचिन्तावनां परिहसत्यसौ ॥ १७३३ ॥
तमप्यपाकरिष्यामः पदार्थानां समर्थने ।
तदेवं निष्प्रतिद्वन्द्वा षट्प्रमाणी समर्थिता ॥ १७४३ ॥
ये तु सम्भवमैतिह्यमिति मानान्तरं विदुः ।
तेऽनुमाने च शाब्दे च चोरवृत्तिमुपाश्रिताः ॥ १७५३ ॥
तथाहि
यत् पुनः अभावज्ञानं प्रत्यक्षम् अज्ञात कारणत्वाद् घटादिज्ञानवदिति, तत् स्मृतावनैकान्तिकम् ।
संस्कारो हि स्मृतौ हेतुः स चाज्ञातोऽवबोधकः ।
अज्ञातकरणाप्येवं स्मृतिनाध्यक्षतां गता ॥ १६८३ ॥ इति ।
 यत् पुनः अभावज्ञानं भावरूपकरणाविष्टमनोजन्यं ज्ञानत्वाद् ज्ञानान्तरवदित्यनुपलम्भकरणत्वं न युक्तमिति, तदपि 'न । अभावज्ञानमिन्द्रियेतरकरणकम् अभावज्ञानत्वाद् अनुमेयाभावज्ञानवदित्यपि वक्तुं शक्यत्वादिति । यत्तु अभावज्ञानमिन्द्रियकरणकम् इन्द्रियदोषेण दृष्यमाणत्वाद् यथा चक्षुर्दोषेण दूष्यमाणं रूपज्ञानं चक्षुःकरणकमिति, तदप्यसिद्धमेव ।
न खल्विन्द्रियदोषः स्यादभावभ्रमकारणम् ।
योग्यताभ्रम एवात्र तत्कारणमितीरितम् ॥ १६९१ ॥ इति ।
यानि पुनः चक्षुरभावग्राहकम् इन्द्रियत्वाद् मनोबदित्यादीन्यन्यान्यप्यनुमानानि, तानि सर्वाणि सम्बद्धस्यैवेन्द्रियस्य ग्राहकत्वादभावे सम्बन्धानभ्युपगमाद् विशेषणविशेष्य(भाव)रूपसम्बन्धस्य च सम्बन्धान्तरपूर्वकत्वनियमाद् विशेषविरुद्धानि ।
अपि चेन्द्रियसम्बन्धयोग्यतैव हि वस्तुनः ।
प्रत्यक्षत्व उपाधिः स्याद्रव्याप्त्यसिद्धास्ततोऽखिलाः॥१७०१॥
यत् सहस्रादिसंख्यासु शतादेः सत्त्ववेदनम् ।
खार्यादिपरिमाणेषु प्रस्थादिग्रहणं च यत् ॥ १७६१ ॥
तत् सम्भव इति प्राहुरन्तीवो हि सम्भवः ।
तच्चानुमानिकं ज्ञानमिच्छन्ति स्वच्छचेतसः ॥ १७७३ ॥
एकस्य तावद् द्वित्वादौ समावेशनिरीक्षणात् ।
ज्ञायतेऽधिकसंख्यायामल्पसंख्यासमन्वयः ॥ १७८३ ॥
ततश्च व्याप्तिविज्ञानादल्पसंख्याः शतादयः।
सहस्रादिषु गम्येरन्नधिकत्वेन हेतुना ॥ १७९३ ॥
तथैव परिमाणेष्वप्यधिकादल्पवेदनम् ।
ऊह्यमित्यनुमानत्वसम्भवात् सम्भवो हतः ॥ १८०३ ॥
 प्रवादमात्रशरणं वाक्यमेतिह्यमुच्यते ।
वटे वटे वैश्रवणस्तिष्ठतीत्यादिकं यथा ॥ १८१३ ॥
तत् प्रायो मूलराहित्यादप्रमाणतयेष्यते ।
नन्वेवं कृष्णरामादिकथापि हि कथं हि वः ॥ १८२३ ॥
मैवं स्मृतिवदाप्तोक्तिप्रसिद्धया भूलसम्भवात् ।
मानान्तराविरोधाच्च शाब्दमेव हि तादृशम् ॥ १८३३ ॥
किञ्च कृष्णादिवृत्तान्तसाधुता साधु साधिता ।
न्यायनिर्णयकारेण पुरुषोत्कर्षसाधने ॥ १८४३ ॥
मानमेयोदये तस्मात् कुत्रचिदैतिचं सत्यं चेच्छाब्दमेव तत् ।
अतः षडेव मानानि मानयन्ति मनीषिणः ॥ १८५३ ॥
"राम ! षड् युक्तयो लोके याभिः सर्वोऽनुदृश्यते” ।
इति रामायणेऽप्युक्तं तस्मात् सर्वं सुमङ्गलम् ॥ १८६३ ॥

इति श्रीनारायणभट्टप्रणीते मानमेयोदये प्रमाणपरिच्छेदेऽभावपरीक्षा।

  समाप्तश्च प्रमाणपरिच्छेदः।।

"https://sa.wikisource.org/w/index.php?title=मानमेयोदयः&oldid=271490" इत्यस्माद् प्रतिप्राप्तम्