माधवनिदानम्

विकिस्रोतः तः
Jump to navigation Jump to search
माधवनिदानम्

पञ्चनिदानलक्षणम्[सम्पाद्यताम्]

पञ्चनिदानलक्षणम्
प्रणम्य जगदुत्पत्तिस्थितिसंहारकारणम्
स्वर्गापवर्गयोर्द्वारं त्रैलोक्यशरणं शिवम् १
नानामुनीनां वचनैरिदानीं समासतः सद्भिषजां नियोगात्
सोपद्र वारिष्टनिदानलिङ्गो निबध्यते रोगविनिश्चयोऽयम् २
नानातन्त्रविहीनानां भिषजामल्पमेधसाम्
सुखं विज्ञातुमातङ्कमयमेव भविष्यति ३
निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा
संप्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ४
निमित्तहेत्वायतन प्रत्ययोत्थानकारणैः
निदानमाहुः पर्यायैःप्राग्रूपं येन लक्ष्यते ५
उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः
लिङ्गमव्यक्तमल्पत्वाद् व्याधीनां तद्यथातथम् ६
तदेव व्यक्ततां यातं रूपमित्यभिधीयते
संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृति ७
हेतुव्याधिविपर्यस्त विपर्यस्तार्थकारिणाम्
औषधान्नविहाराणामुपयोगं सुखावहम् ८
विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः
विपरीतोऽनुपशयो व्याध्यसात्म्यमिति स्मृतः ९
यथा दुष्टेन दोषेण यथा चानुविसर्पता
निर्वृत्तिरामयस्यासौ संप्राप्तिर्जातिरागतिः १०
संख्याविकल्पप्राधान्य बलकालविशेषतः
सा भिद्यते यथाऽत्रैव वक्ष्यतेऽष्टौ ज्वरा इति ११
दोषाणां समवेतानां विकल्पॐऽशाशकल्पना
स्वातन्त्र्! यपारतन्त्र्! याभ्यां व्याधेः प्राधान्यमादिशेत् १२
हेत्वादिकार्त्स्न्यावयवैर्बलाबल विशेषणम्
नक्तंदिनर्तुभुक्तांशैर्व्याधिकालो यथामलम् १३
इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते
सर्वेषामेव रोगाणां निदानं कुपिता मलाः १४
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम्
निदानार्थकरो रोगो रोगस्याप्युपजायते १५
तद्यथा ज्वरसन्तापाद्र क्तपित्तमुदीर्यते
रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते १६
प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च
अर्शोभ्यो जाठरं दुःखं गुल्मश्चाप्युपजायते १७
दिवास्वापादिदोषैश्च प्रतिश्यायश्च जायते
प्रतिश्यायादथो कासः कासात् संजायते क्षयः
क्षयो रोगस्य हेतुत्वे शोषस्याप्युपजायते १८
ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणः
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति १९
न प्रशाम्यति चाप्यन्यो हेतुत्वं कुरुतेऽपि च
एवं कृच्छ्रतमा नॄणां दृश्यन्ते व्याधिसंकराः २०
तस्माद्यत्नेन सद्वैद्यैरिच्छद्भिः सिद्धिमुद्धताम्
ज्ञातव्यो वक्ष्यते योऽय ज्वरादीनां विनिश्चयः २१

ज्वरनिदानम्[सम्पाद्यताम्]

अथ ज्वरनिदानम्
दक्षापमानसंक्रुद्धरुद्र निः श्वाससंभवः
ज्वरोऽष्टधा पृथग्द्वन्द्वसंघातागन्तुजः स्मृतः १
मिथ्याहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः
बहिर्निरस्य कोष्ठाग्निं ज्वरदाः स्यू रसानुगाः २
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा
युगपद्यत्र रोगे च स ज्वरो व्यपदिश्यते ३
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ४
जम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ५
सामान्यतो विशेषात्तु जॄम्भाऽत्यर्थं समीरणात्
पित्तान्नयनयोर्दाहः कफादन्नारुचिर्भवेत् ६
रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्द्वजं विदुः
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे ७
वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम्
निद्रा नाशः क्षवस्तम्भो गात्राणां रौक्ष्यमेव च ८
शिरोहृद्गात्ररुग्वक्त्रवैरस्यं गाढविट्कता
शूलाध्माने जृम्भणं च भवन्त्यनिलजे ज्वरे ९
वेगस्तीक्ष्णोऽतिसारश्च निद्रा ल्पत्वं तथा वमिः
कण्ठौष्ठमुखनासानां पाकः स्वदेश्च जायते १०
प्रलापो वक्त्रकटुता मूर्च्छा दाहो मदस्तृषा
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ११
स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता
शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि च १२
गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्र ता
स्रोतोरोधो रुगल्पत्वं प्रसेको लवणास्यता
नात्युष्णगात्रताच्छर्दिर्लालास्रावोऽविपाकता
प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता १३
तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा
कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः १४
पूर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च १५
शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम्
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः १६
लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा
मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः १७
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा
सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने १८
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः १९
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च २०
शिरसो लोठनं तृष्णा निद्रा नाशो हृदि व्यथा
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः २१
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् २२
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च
चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः २३
दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः
सन्निपातज्वरोऽसाध्यैः कृच्छ्रसाध्यस्ततोऽन्यथा २४
सिप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा
पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा १
सप्तमी द्विगुणा चैव नवम्येकादशी तथा
एषा त्रिदोषमयार्दा मोक्षाय च वधाय च २
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः
शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते २५
त्रियः प्रकुपिता दोषा उरःस्रोतोऽनुगामिनः
आमाभिवृद्ध्या ग्रथिता बुद्धीन्द्रि यमनोगताः १
जनयन्ति महाघोरमभिन्यासं ज्वरं दृढम्
श्रुतौ नेत्रे प्रसुप्तिः स्यान्न चेष्टां काञ्चिदीहते २
न च दृष्टिर्भवेत्तस्य समर्था रूपदर्शने
न घ्राणं न च संस्पर्शं शब्दं वा नैव बुध्यते ३
शिरो लोठयतेऽभीक्ष्णमाहारं नाभिनन्दति
कूजति तुद्यते चैव परिवर्तनमीहते ४
अल्पं प्रभाषते किञ्चिदभिन्यासः स उच्यते
प्रत्याख्यातः स भूयिष्ठः कश्चिदेवात्र सिद्ध्यति ५
अभिघाताभिचाराभ्यामभि शापाभिषङ्गतः
आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत् २६
श्यावास्यता विषकृते तथाऽतीसार एव च
भक्तारुचिः पिपासा च तोदश्च सह मूर्च्छया २७
ओषधिगन्धजे मूर्च्छा शिरोरुग्वमथुः क्षवः
कामजे चित्तविभ्रंशस्तन्द्रा ऽलस्यमभोजनम् २८
हृदये वेदना चास्य गात्रंच परिशुष्यति
भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते २९
भूताभिषङ्गादुद्वेगो हास्यरोदनकम्पनम्
कामशोकभयाद्वायुः क्रोधात्पित्तं त्रयो मलाः ३०
भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः
दोषोऽल्पोऽहितसंभूतो ज्वरोत्सृष्टस्य वा पुनः ३१
धातुमन्यमतं प्राप्य करोति विषमज्वरम्
सन्ततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः ३२
मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः
कुर्याच्चतुर्थकं घोरमन्तकं रोगसंकरम्
सप्ताहं वा दशाहं वा द्वादशाहमथापि वा
सन्तत्यायोऽविसर्गीस्यात् सन्ततः स निगद्यते ३४
अहोरात्रे सततको द्वौ कालावनुवर्तते
अन्येद्युष्कस्त्वहोरात्र एककालं प्रवर्तते ३५
तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ३६
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ३७
चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसंभवः ३८
विषमज्वर एवान्यश्चतुर्थकविपर्ययः
स मध्ये ज्वरयत्यह्नी आदावन्ते च मुञ्चति ३९
नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति
स्तब्धाङ्गः श्लेष्मभूयिष्ठा नरो वातबलासकी ४०
प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण च
मन्दज्वरविलेपी च सशातः स्यात् प्रलेपकः ४१
विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते
तेनार्धं शीतलं देहमर्धमुष्णं प्रजायते ४२
काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितः
तेनोष्णत्वं शरीरस्य शीतत्वं हस्तपादयोः ४३
काये श्लेष्मा यदा दुष्टः पित्तं चान्ते व्यवस्थितम्
शीतत्वं तेन गात्राणामुष्णत्वं हस्तपादयोः ४४
त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे
तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ४५
करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च
तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ४६
द्वावेतौ दाहशीतादिज्वरौ संसर्गजौ स्मृतौ
दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमश्च सः ४७
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ४८
रक्तनिष्ठीवनं दाहो मोहच्छदनविभ्रमौ
प्रलापः पिडका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ४९
पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता
ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ५०
भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ५१
भेदोऽस्थ्ना कूजनं श्वासो विरेकश्छर्दिरेव च
विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ५२
तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा
अन्तर्दाहो महाश्वासौ मर्मच्छेदश्च मञ्जगे ५३
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ५४
रिसरक्ताश्रितः साध्यो मांसमेदोगतश्च यः
अस्थिमञ्जगतः कृच्छ्रः शुक्रस्थस्तु न सिध्यति १
वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्
वैकृतोऽन्य स दुःसाध्यः प्राकृतश्चानिलोद्भवः ५५
वर्षाषु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्
कुर्यात् पित्तं च शरदि तस्य चानुबलः कफः ५६
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम्
कफो वसन्ते तमपि वातपित्तं भवेदनु ५७
काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा
निदानोक्तानुपशयो विपरीतोपशायिता ५८
अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः
सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः ५९
अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत्
सन्तापो ह्यधिको बाह्यस्तृष्णादीनां च मार्दवम् ६०
बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च
लालाप्रसेको हृल्लासहृदयाशुद्ध्यरोचकाः ६१
तन्द्रा लस्याविपाकास्यवैरस्यं गुरुगात्रता
क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवाञ्ज्वरः ६२
आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम्
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ६३
शोधनं शमनीयं च करोति विषमज्वरम्
ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ६४
क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम्
दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम् ६५
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्र वः
हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः ६६
ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रि यनाशनः
ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः ६७
असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः
गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ६८
आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च
आरम्भाद्विषमो यस्तु यश्च वा दैर्घरात्रिकः ६९
क्षीणस्य चातिरूक्षस्य गम्भीरो यस्य हन्ति तम्
विसंज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा ७०
शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः
यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान् ७१
वक्त्रेण चैवोच्छ्वसिति तं ज्वरो हन्ति मानवम्
हिक्काश्वासतृषायुक्तं मूढं विभ्रान्तलोचनम् ७२
सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः
हतप्रभेन्द्रि यं क्षीणमरोचकनिपीडितम् ७३
गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत्
दाहः स्वेदो भ्रमस्तृष्णा कम्पविड्भिदसंज्ञता
कूजनं चास्य वैगन्ध्यमाकृतिर्ज्वरमोक्षणे ७४
स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च
क्षवथुश्चान्नलिप्सा ज्वरमुक्तस्य लक्षणम् ७५

अतीसारनिदानम्[सम्पाद्यताम्]

अथातीसारनिदानम्
गुर्वतिस्निग्ध रूक्षोष्णद्र वस्थूलाति शीतलैः
विरुद्धाध्यशनाजीर्णैर्विषमैश्चापि भोजनैः १
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः
शोकाद् दुष्टाम्बुमद्यातिपानैः सात्म्यर्तुपर्ययैः २
जलाभिरमणैर्वेगविघातैः क्रिमिदोषतः
नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते ३
संशम्यांपां धातुरग्निं प्रवृद्धः शकृन्मिश्रो वायुनाऽध प्रणुन्नः
सरत्यतीवातिसारं तमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति
एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः ४
हृन्नाभिपायूदरकुक्षितोद गात्रावसादानिलसन्निरोधाः
विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि ५
अरुणं फेनिलं रूक्षमल्पमल्पं मुहुर्मुहुः
शकृदामं सरुक्शब्दं मारुतेनातिसार्यते ६
पित्तात्पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकोपपन्नम्
शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं विस्रं शीतं हृष्टरोमा मनुष्यः ७
वराहस्नेहमांसाम्बुसदृशं सर्वरूपिणम्
कृच्छ्रसाध्यमतीसारं विद्याद्दोषत्रयोद्भवम् ८
तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पोष्मा वै वह्निमाविश्य जन्तोः
कोष्ठं गत्वा क्षोभयेत्तस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम् ९
निर्गच्छेद्वै विड्विमिश्रं ह्यविड वा निर्गन्धं वा गन्धवद्वाऽतिसारः
शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः १०
अन्नाजीर्णात् प्रद्रुताः क्षोभयन्तः कोष्ठं दोषा धातुसंघान्मलांश्च
नानावर्णं नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति ११
संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति
पुरीषं भृशदुर्गन्धि पिच्छिलं चामसंज्ञितम् १२
एतान्येव तु लिङ्गानि विपरीतानि यस्य वै
लाघवं च विशेषेण तस्य पक्वं विनिर्दिशेत् १३
पक्कजाम्बवसङ्काशं यकृत्खण्डनिभं तनु
घृततैलवसामज्जवेशवारपयोदधि १४
मांसधावनतोयाभं कृष्णं नीलारुणप्रभम्
मेचकं स्निग्धकर्बूरं चन्द्र कोपगतं घनम् १५
कुणपं मस्तुलुङ्गाभं सुगन्धि कुथितं बहु
तृष्णादाहतमःश्वासहिक्कापार्श्वास्थिशूलिनम् १६
संमूर्च्छारतिसंमोहयुक्तं पक्कवलीगुदम्
प्रलापयुक्तं च भिषग्वर्जयेदतिसारिणम् १७
असंवृतगुदं क्षीणं दूराध्मातमुपद्रुतम्
गुद पक्वे गतोष्माणमतिसारकिणं त्यजेत् १८
श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम्
विशेषेण नरं वृद्धमतीसारो विनाशयेत् १९
शोथं शूलं ज्वरं तृष्णां कासं श्वासमरोचकम्
छर्दिं मूर्च्छां च हिक्कां च दृष्ट्वाऽतीसारिणं त्यजेत्
पित्तकृन्ति यदाऽत्यर्थं द्र व्याण्यश्नाति पैत्तिके
तदोपजायतेऽभीक्ष्णं रक्तातीसार उल्बणः २०
वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य
प्रवाहतोऽल्प बहुशो मलाक्तंप्रवाहिकां तां प्रवदन्ति तज्ज्ञाः २१
प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च
सशोणिता शोणितसम्भवा च ताः स्नेहरूक्षप्रभवा मतास्तु
तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च २२
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः २३
ज्विरातीसारयोरुक्तं निदानं यत् पृथक् पृथक्
यत्स्याज्ज्वरातिसारस्य तेन नात्रोदितं पुनः १

ग्रहणीरोगनिदानम्[सम्पाद्यताम्]

अथ ग्रहणीरोगनिदानम्
अतीसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः
भूयं संदूषितो वह्निर्ग्रहणीमभिदूषयेत् १
एकैकशः सर्वशश्च दोषैरत्यर्थमूर्च्छितैः
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति २
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्र वम्
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः ३
पूर्वरूपं तु तस्येदं तृष्णाऽलस्यं बलक्षयः
विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ४
कटुतिक्तकषायाति रूक्षसंदुष्टभोजनैः
प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः ५
मारुतः कुपितो वह्निं सञ्छाद्य कुरुते गदान्
तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ६
कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः
पार्श्वोरुवङ्क्षणग्रीवारुगभीक्ष्णं विसूचिका ७
हृत्पीडाकार्श्यदौर्बल्यं वैरस्यं परिकर्तिका
गृद्धिः सर्वरसानां च मनसः सदनं तथा ८
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च
स वातगुल्महृद्रो गप्लीहाशङ्की च मानवः ९
चिराद् दुःखं द्र वं शुष्कं तन्वामं शब्दफेनवत्
पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात् १०
कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्
आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् ११
सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्र वम्
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः १२
गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्
भुक्तमात्रस्य च स्नप्नाद्धन्त्यग्निं कुपितः कफः १३
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः
आस्योपदेहमाधुर्यं कासष्ठीवनपीनसाः १४
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु
दुष्टोमधुर उद्गारः सदनं स्त्रीष्वहर्षणम् १५
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्
अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके १६
पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे
त्रिदोषं निर्दिशेदेवं तेषां वक्ष्यामि भेषजम् १७
अन्त्रकूजनमालस्यं दौर्बल्यं सदनं तथा
द्र वं शीतं घनं स्निग्धं सकटीवेदनं शकृत् १७-१
आमं बहु सपैच्छिल्यं सशब्दं मन्दवेदनम्
पक्षान्मासाद्दशाहाद्वा नित्यं वाऽप्यथ मुञ्चति १७-२
दिवा प्रकोपो भवति रात्रौ शान्तिं व्रजेच्च या
दुर्विज्ञेया दुश्चिकित्स्या चिरकालानुबन्धिनी १७-३
सा भवेदामवातेन संग्रहग्रहणी मता
स्विपतः पार्श्वयोः शूलं गलज्जलघटीध्वनिः
तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम् १७-४
दोषं सामं निरामं च विद्यादत्रातिसारवत् १८
लिङ्गैरसाध्यो ग्रहणीविकारो यैस्तैरतीसारगदो न सिध्येत्
वृद्धस्य नूनं ग्रहणीविकारो हत्वा तनुं नैव निवर्तते च १९
बालके ग्रहणी साध्या यूनि कृच्छ्रा समीरिता
वृद्धे त्वसाध्या विज्ञेया मतं धन्वन्तरेरिदम् १९-१

अर्शोनिदानम्[सम्पाद्यताम्]

अथार्शोनिदानम्
पृथग्दोषैः समस्तैश्च शोणितात् सहजानि च
अर्शांसि षट्प्रकाराणि विद्याद् गुदवलित्रये १
दोषास्त्वङ्मांसमेदांसि संदूष्य विविधाकृतीन्
मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि ताञ्जगुः २
कषायकटुतिक्तानि रूक्षशीतलघूनि च
प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम् ३
लङ्घनं देशकालौ च शीतौ व्यायामकर्म च
शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः ४
कट्वम्ललवणोष्णानि व्यायामाग्न्यातपप्रभाः
देशकालावशिशिरौ क्रोधो मद्यमसूयनम् ५
विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम्
पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम् ६
मधुरस्निग्धशीतानि लवणाम्लगुरूणि च
अव्यायामो दिवास्वप्नः शय्यासनसुखे रतिः ७
प्राग्वातसेवा शीतौ च देशकालावचिन्तनम्
श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसाम् ८
हेतुलक्षणसंसर्गाद्विद्याद् द्वन्द्वोल्बणानि च
सर्वोहेतुस्त्रिदोषाणां सहजैर्लक्षणं समम् ९
गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमचिमान्विताः
म्लानाः श्यावारुणाः स्तब्धा विशदाः परुषाः खराः १०
मिथो विसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः
बिम्बीखर्जूरकर्कन्धूकार्पासीफलसन्निभाः ११
केचित् कदम्बपुष्पाभाः केचित् सिद्धार्थकोपमाः
शिरःपार्श्वांसकट्यूरुवङ्क्षणाद्यधिकव्यथाः १२
क्षवथूद्गारविष्टम्भहृद् ग्रहारोचकप्रदाः
कासश्वासाग्निवैषम्य कर्णनादभ्रमावहाः १३
तैरार्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम्
रुक्फेनपिच्छानुगतं विबुद्धमुपवेश्यते १४
कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रश्च जायते
गुल्मप्लीहोदराष्ठीलासंभवस्तत एव च १५
पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः
तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथाः १६
शुकजिह्वायकृत्खण्डजलौकोवक्त्रसंनिभाः
दाहपाकज्वरस्वेदतृण्मूर्च्छाऽरुचिमोहदाः १७
सोष्माणो द्र वनीलोष्णपीतरक्तामवर्चसः
यवमध्या हरित्पीतहारिद्र त्वङ्नखादयः १८
श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः
उत्सन्नोपचित-स्निग्ध-स्तब्ध-वृत्तगुरुस्थिराः १९
पिच्छिलाः स्तिमिताःश्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः
करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः २०
वङ्क्षणानाहिनः पायुर्वस्तिनाभिविकर्षिणः
सश्वासकासहृल्लासप्रसेकारुचिपीनसाः २१
मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः
क्लैब्याग्निमार्दवच्छर्दिरामप्रायविकारदाः २२
वसाभसकफप्रायपुरीषाः सप्रवाहिकाः
न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः २३
सर्वैः सर्वात्मकान्याहुर्लक्षणैः सहजानि च
रक्तोल्बणा गुदे कीलाः पित्ताकृतिसमन्विताः २४
वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः
तेऽत्यर्थं दुष्टमुष्णं च गाढविट्कप्रपीडिताः २५
स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः
भेकाभः पीड्यते दुःखैः शोणितक्षयसंभवै २६
हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रि यः
तत्रानुबन्धो द्विविधः श्लेष्मणो मारुतस्य च
विट् श्यावं कठिनं रूक्षमधोवायुर्न वर्तते २७
तनु चारुणवर्णं च फेनिलं चासृगर्शसाम्
कट्यूरुगुदशूलं च दौर्बल्यं यदि चाधिकम् २८
तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम्
शिथिलं श्वेतपीतं च विट् स्निग्धं गुरु शीतलम् २९
यद्यर्शसां घनं चासृक् तन्तुमत् पाण्डु पिच्छिलम्
गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम्
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः ३०
विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता ३१
ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य च
पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये ३२
पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम्
सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे ३३
तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च
सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च ३४
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च
अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च ३५
द्वन्द्वजानि द्वितीयायां बलौ यान्याश्रितानि च
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ३६
सहजानि त्रिदोषाणि यानि चाभ्यन्तरां बलिम्
जायन्तेऽशासि संश्रित्य तान्यसाध्यानि निर्दिशेत् ३७
शेषत्वादायुषस्तानि चतुष्पादसमन्विते
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा ३८
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽशसो हि सः ३९
हृत्पार्श्वशूलं संमोहश्छर्दिरङ्गस्य रुग्ज्वरः
तृष्णा गुदस्य पाकश्च निहन्युर्गुदजातुरम् ४०
तृष्णारोचकशूलार्तमतिप्रस्रुतशोणितम्
शोथातिसारसंयुक्तमर्शांसि क्षपयन्ति हि ४१
मेढ्रादिष्वपि वक्ष्यन्ते यथास्वैं नाभिजानि च
गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च ४२
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः
कीलोपमं स्थिरखरं चर्मकीलं तु तद्विदुः ४३
वातेन तोदपारुष्यं पित्तादसितवक्त्रता
श्लेष्मणा स्निग्धता चास्य ग्रथितत्वं सवर्णता ४४

अग्निमान्द्याजीर्णविसूचिकालसकविलम्बिकानिदानम्[सम्पाद्यताम्]

अथाग्निमान्द्याजीर्णविसूचिकालसकविलम्बिकानिदानम्
मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः १
विषमो वातजान् रोगाँ स्तीक्ष्णः पित्तनिमित्तजान्
करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् २
समा समाग्नेरशिता मात्रा सम्यग्विपच्यते
स्वल्पाऽपि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः ३
कदाचित् पच्यते सम्यक्कदाचिन्न विपच्यते
मात्राऽतिमात्राऽप्यशिता सुखं यस्य विपच्यते
तीक्ष्णग्निरिति तं विद्यात् समाग्निः श्रेष्ठ उच्यते ४
आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ५
अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च
वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम् ६
अत्यम्बुपानाद्विषमाशनाच्च संधारणात्स्वप्नविपर्ययाच्च
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ७
ईर्ष्याभयक्रोधपरिप्लुतेन लुब्धेन रुग्दैन्यनिपीडितेन
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति ८
मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति
चिन्ताशोकभयक्रोध दुःखशय्याप्रजागरैः ९
तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटगः
उद्गारश्च यथाभुक्तमविदग्धः प्रवर्तते १०
विदग्धे भ्रमतृण्मूर्च्छाः पित्ताच्च विविधा रुजः
उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते ११
विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः
मलवाताप्रवृत्तिश्च स्तम्भो मोहोऽङ्गपीडनम् १२
रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे
मूर्च्छा प्रलापो वमथुः प्रसेकं सदनं भ्रमः
उपद्र वा भवन्त्येते मरणं चाप्यजीर्णतः १३
अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि १४
अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम्
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका १५
सूचीभिरिव गात्राणि तुदन् संतिष्ठतेऽनिलः
यत्राजीर्णेन सा वैद्यैर्विसूचीति निगद्यते १६
न तां परिमिताहारा लभन्ते विदितागमाः
मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः १७
मूर्च्छाऽतिसारो वमथुः पिपासा शूलो भ्रमोद्वेष्टनजृम्भदाहाः
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः १८
कुक्षिरानह्यतेऽत्यर्थं प्रताम्येत् परिकूजति
निरुद्धो मारुतश्चैव कुक्षावुपरि धावति १९
वातवर्चोनिरोधश्च यस्यात्यर्थं भवेदपि
तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु २०
दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य
विलम्बकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः २१
यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः
दोषेण येनावततं शरीरं तल्लक्षणैरामसमुद्भवैश्च २२
यः श्यावदन्तौष्ठनखोऽल्पसंज्ञो वम्यर्दितोऽभ्यन्तरयातनेत्रः
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय २३
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः
लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् २४
निद्रा नाशोऽरतिः कम्पो मूत्राघातो विसंज्ञता
अमी ह्युपद्र वा घोरा विसूच्यां पञ्च दारुणाः २५
प्रायेणाहारवैषम्यादजीर्णं जायते नृणाम्
तन्मूलो रोगसंघातस्तद्विनाशाद्विनश्यति २६
ग्लानिगौरवविष्टम्भभ्रम मारुतमूढताः
विबन्धो वा प्रवृत्तिर्वा सामान्याजीर्णलक्षणम् २७

क्रिमिनिदानम्[सम्पाद्यताम्]

अथ क्रिमिनिदानम्
क्रिमयश्च द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः
बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः १
नामतो विंशतिविधाः बाह्यास्तत्र मलोद्भवाः
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः २
बहुपादाश्च सूक्ष्माश्चयूका लिक्षाश्च नामतः
द्विधा ते कोठपिडकाकण्डूगण्डान् प्रकुर्वते ३
अजीर्णभोजी मधुराम्लनित्यो द्र वप्रियः पिष्टगुडोपभोक्ता
व्यायामवर्जी च दिवाशयानो विरुद्धभुक् संलभते क्रिमींस्तु ४
माषपिष्टाम्ललवणगुडशाकैः पुरीषजाः
मांसमत्स्यगुडक्षीरदधिशुक्तैः कफोद्भवाः ५
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि
ज्वरो विवर्णता शूलं हृद्रो गः सदनं भ्रमः ६
भक्तद्वेषोऽतिसारश्च संजातक्रिमिलक्षणम्
कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः ७
पृथुब्रघ्ननिभाः केचित् केचिद्गण्डूपदोपमाः
रूढधान्याङ्कुराकारास्तनु दीर्घास्तथाऽणवः ८
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते
अन्त्रादा उदरावेष्टा हृदयादा महागुदाः ९
चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते
हृल्लासमास्यस्रवणमविपाकमरोचकम् १०
मूर्च्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्
रक्तवाहिसिरास्थानरक्तजा जन्तवोऽणवः ११
अपादा वृत्तताम्राश्च सौक्ष्म्यात् केचिददर्शनाः
केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः
षट् ते कुष्ठैककर्माणः सहसौरसमातरः १२
पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः
प्रवृद्धा स्युर्भवेयुश्च ते यदाऽमाशयोन्मुखाः १३
तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः १४
ते पञ्च नाम्ना क्रिमयः ककेरुकमकेरुकाः
सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि १५
विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः
रोमहर्षाग्निसदनं गुदकण्डूर्विमार्गगाः १६

पाण्डुरोगकामलाकुम्भकामलाहलीमकनिदानम्[सम्पाद्यताम्]

अथ पाण्डुरोगकामलाकुम्भकामलाहलीमकनिदानम्
पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः
चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः १
व्यायाममम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्
निषेवमाणस्य प्रदूष्य रक्तं दोषास्त्वचं पाण्डुरतां नयन्ति २
त्वक्स्फोटनष्ठीवनगात्रसादमृद्भक्षणप्रेक्षणकूटशोथाः
विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ३
त्वङ्मूत्रनयनादीनां रूक्षकृष्णारुणाभताः
वातपाण्ड्वामये तोदकम्पानाहभ्रमादयः ४
पीतमूत्रशकृन्नेत्रो दाहतृष्णाज्वरान्वितः
भिन्नविट्कोऽतिपीताभः पित्तपाण्ड्वामयी नरः ५
कफप्रसेकश्वयथु तन्द्रा लस्यातिगौरवैः
पाण्डुरोगी कफाच्छुक्लैस्त्वङ्मूत्रनयनाननैः ६
ज्वरारोचकहृल्लासच्छर्दितृष्णाक्लमान्वितः
पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रि यः ७
मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः
कषाया मारुतं पित्तमूषरा मधुरा कफम् ८
कोपयेन्मृद्र सादींश्च रौक्ष्याद् भुक्तं च रूक्षयेत्
पूरयत्यविपक्वैव स्रोतांसि निरुणद्ध्यपि ९
इन्द्रि याणां बलं हत्वा तेजो वीर्यौजसी तथा
पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् १०
शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः
क्रिमिकोष्ठोऽतिसार्येत मलं सासृक्कफान्वितम् ११
पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति
कालप्रकर्षाच्छूनानां यो वा पीतानि पश्यति १२
बद्धाल्पविट् सहरितं सकफं योऽतिसार्यते
दीनः श्वेतातिदिग्धाङ्गश्छर्दिमूर्च्छातृडर्दितः १३
सनास्त्यसृक्क्षयाद्यश्च पाण्डुः श्वेतत्वमाप्नुयात्
पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत्
पाण्डुसंघातदर्शी च पाण्डुरोगी विनश्यति १४
अन्तेषु शूनं परिहीणमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम्
गुदे च शेफस्यथ मुष्कयोश्च शूनं प्रताम्यन्तमसंज्ञकल्पम्
विवर्जयेत्पाण्डुकिनं यशोऽथी तथाऽतिसारज्वरपीडितं च १५
पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते
तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते १६
हारिद्र नेत्रः स भृशं हारिद्र त्वङ्नखाननः
रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रि यः १७
दाहाविपाकदौर्बल्य सदनारुचिकर्षितः
कामला बहुपित्तौघ कोष्ठशाखाश्रया मता १८
कालान्तरात् खरीभूता कृच्छ्रा स्यात्कुम्भकामला
कृष्णपीतशकृन्मूत्रो भृशं शूनश्च मानवः १९
सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति
दाहारुचितृडानाहतन्द्रा मोहसमन्वितः २०
नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान्विपद्यते
छर्द्यरोचकहृल्लासज्वरक्लमनिपीडितः २१
नश्यति श्वासकासार्तो विड्भेदी कुम्भकामली
यदा तु पाण्डोर्वर्णः स्याद्धरितः श्यावपीतकः २२
बलोत्साहक्षयस्तन्द्रा मन्दाग्नित्वं मृदुज्वरः
स्त्रीष्वहर्षोऽङ्गमर्दश्च दाहस्तृष्णाऽरुचिर्भ्रमः
हलीमकं तदा तस्य विद्यादनिलपित्ततः २३
सन्तापो भिन्नवर्चस्त्वं बहिरन्तश्च पीतता
पाण्डुता नेत्रयोर्यस्य पानकीलक्षणं भवेत्

रक्तपित्तनिदानम्[सम्पाद्यताम्]

अथ रक्तपित्तनिदानम्
घर्मंव्यायामशोकाध्वव्यवायैरतिसेवितैः
तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च १
पित्तं विदग्धं स्वगुणैर्विदहत्याशु शोणितम्
ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा २
ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते ३
सदनं शीतकामित्वं कण्ठधूमायनं वमिः
लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति ४
सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम्
श्यावारुणं सफेनं च तनु रूक्षं च वातिकम् ५
रक्तपित्तं कषायाभं कृष्णं गोमूत्रसंनिभम्
मेचकागारधूमाभमञ्जनाभं च पैत्तिकम् ६
संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्
ऊर्ध्वगं कफसंसृष्टमधोगं पवनानुगम्
द्विमार्गं कफवाताम्यामुभाभ्यामनुवर्तते ७
ऊर्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम्
एकमार्गं बलवतो नातिवेगं नवोत्थितम् ८
रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्र वम्
एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते ९
यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत्
व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत् १०
दौर्बल्यश्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्च्छा
भुक्ते घोरो विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा
तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूतिनिष्ठीवनत्वैं
भक्तद्वेषाविपाकौ विकृतिरपि भवेद्र क्तपित्तोपसर्गाः ११
मांसप्रक्षालनाभं कुथितमिव च यत्कर्दमाम्भोनिभं वौ
मेदंपूयास्रकल्पं यकृदिव यदि वा पक्कजम्बूफलाभम्
यत्कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारा-
स्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति १२
येन चोपहतो रक्तं रक्तपित्तेन मानवः
पश्येद् दृश्यं वियच्चापि तच्चासाध्यमसंशयम् १३
लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः
लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिकः १४

राजयक्ष्मक्षतक्षीणनिदानम्[सम्पाद्यताम्]

अथ राजयक्ष्मक्षतक्षीणनिदानम्
वेगारोधात् क्षयाच्चैव साहसाद्विषमाशनात्
त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् १
कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु
अतिव्यवायिनोवाऽपि क्षीणे रेतस्यनन्तराः
क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः २
श्वासाङ्गमर्दकफसंस्रवतालुशोषवम्यग्निसादमदपीनसकासनिद्रा ः!
शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरोरिरंसुः ३
स्वप्नेषु काकशुकशल्लकिनीलकण्ठा गृध्रास्तथैव कपयः कृकलासकाश्च
तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छ्रुष्कांस्तरून्पवनधूमदवार्दितांश्च ४
अंसपार्श्वाभितापश्च सन्तापः करपादयोः
ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः ५
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्
स्वरभेदश्च जायेत षड्रूपं राजयक्ष्मणि
स्वरभेदोऽनिलाच्छूलं संकोचश्चांसपार्श्वयोः
ज्वरो दाहो ऽतिसारश्च पित्ताद्र क्तस्य चागमः ६
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च
कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः ७
एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम्
कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः ८
त्रिभिर्वा पीडितं लिङ्गैः कासश्वासासृगामयैः
जह्याच्छोषार्दितं जन्तुमिच्छन् सुविमलं यशः ९
सर्वैरर्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये
युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा १०
महाशनं क्षीयमाणमतिसारनिपीडितम्
शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ११
शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम्
कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् १२
ज्वरानुबन्धरहितं बलवन्तं क्रियासहम्
उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् १३
व्यवायशोकवार्धक्यव्यायामाध्वप्रशोषितान्
व्रणोरःक्षतसंज्ञौ च शोषिणौ लक्षणैः शृणु १४
व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः
पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः १५
प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः
जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रि यः १६
कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः
ष्ठीवति श्लेष्मणा हीनं गौरवारतिपीडितः १७
संप्रस्रुतास्यनासाक्षः शुष्करूक्षमलच्छविः
अध्वशोषी च स्रस्ताङ्गः संभृष्टपरुषच्छविः १८
प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः
व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः
लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना १९
रक्तक्षयाद् वेदनाभिस्तथैवाहारयन्त्रणात्
व्रणितस्य भवेच्छोषः स चासाध्यतमो मतः २०
धनुषाऽयस्यतोऽत्यर्थं भारमुद्वहतो गुरुम्
युध्यमानस्य बलिभिः पततो विषमोच्चतः २१
वृषं हयं वा धावन्तं दम्यं वाऽन्य निगृह्णतः
शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः परान् २२
अधीयानस्य वाऽत्युच्चैर्दूरं वा व्रजतो द्रुतम्
महानदीर्वा तरतो हयैर्वा सह धावतः २३
सहसोत्पत्ततो दूरं तूर्णं चाऽपि प्रनृत्यतः
तथाऽन्यै कर्मभिः क्रूरैर्भृशमभ्याहतस्य वा २४
विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते
स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः २५
उरो विभज्यतेऽत्यर्थं भिद्यतेऽथ विरुज्यते
प्रपीड्येते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते २६
क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते
ज्वरो व्यथा मनोदैन्यं विड्भेदाग्निबधावपि २७
दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः
कासमानस्य चाभीक्ष्णं कफः सासृक् प्रवर्तते २८
स क्षती क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात्
अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम् २९
उरोरुक् शोणितच्छर्दिः कासो वैशेषिकः क्षते
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः ३०
अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः
परिसंवत्सरो याप्यः सर्वलिङ्गं तु वर्जयेत् ३१

कासनिदानम्[सम्पाद्यताम्]

अथ कासनिदानम्
धूमोपघाताद्र सतस्तथैव व्यायामरूक्षान्ननिषेवणाच्च
विमार्गगत्वाच्च हि भोजनस्य वेगावरोधात् क्षवथोस्तथैव १
प्राणो ह्युदानानुगतः प्रदुष्टः स भिन्नकांस्यस्वनतुल्यघोषः
निरेति वक्त्रात्सहसा सदोषो मनीषिभिः कास इति प्रदिष्टः २
पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ३
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ४
हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः
प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव ५
उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः
पित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः ६
प्रलिप्यमानेन मुखेन सीदञ् शिरोरुजार्तः कफपूर्ण देहः
अभक्तरुग्गौरवकण्डुयुक्तः कासेद् भृशं सान्द्र कफः कफेन ७
अतिव्यवायभाराध्व युद्धाश्वगजविग्रहैः
रूक्षस्योरःक्षतं वायुर्गृहीत्वा कासमाचरेत् ८
स पूर्वं कासते शुष्कं ततः ष्ठीवेत्सशोणितम्
कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा ९
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना
दुःखस्पर्शेन शूलेन भेदपीडाभितापिना १०
पर्वभेदज्वरश्वास तृष्णावैस्वर्यपीडितः
पारावत इवाकूजन् कासवेगात् क्षतोद्भवात् ११
विषमासात्म्यभोज्या तिव्यवायाद्वेगनिग्रहात्
घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः
कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम् १२
स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी
शुष्यन्विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम्
तं सर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति १३
इत्येष क्षयजः कासः क्षीणानां देहनाशनः
साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः १४
नवौ कदाचित्सिध्येतामपि पादगुणान्वितौ
स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः
त्रीन् पूर्वान्साधयेत्साध्यान्पथ्यैर्याप्यांस्तु यापयेत् १५

हिक्काश्वासनिदानम्[सम्पाद्यताम्]

अथ हिक्काश्वासनिदानम्
विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः
शीतपानाशनस्थानरजोधूमातपानिलैः १
व्यायामकर्मभाराध्व वेगाघातापतर्पणैः
हिक्काश्वासश्च कासश्च नृणां समुपजायते २
मुहुर्मुहुर्वायुरुदेति सस्वनो यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्
स घोषवानाशु हिनस्त्यसून् यतस्ततस्तु हिक्केत्यभिधीयते बुधैः ३
अन्नजां यमलां क्षुद्रा ं! गम्भीरां महतीं तथा
वायुः कफेनानुगतः पञ्च हिक्काः करोति हि ४
कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च ५
पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनिलः
हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् ६
चिरेण यमलैर्वेगैर्या हिक्का सम्प्रवर्तते
कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत् ७
प्रकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते
क्षुद्रि का नाम सा हिक्का जत्रुमूलात्प्रधाविता ८
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी
अनेकोपद्र ववती गम्भीरा नाम सा स्मृता ९
मर्माण्युत्पीडयन्तीव सततं या प्रवर्तते
महाहिक्केति सा ज्ञेया सर्वगात्रविकम्पिनी १०
आयम्यते हिक्कतो यस्य देहोऐ! दृष्टिश्चोर्ध्वं नाम्यते यस्य नित्यम्
क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रैं तौ द्वौ चान्त्यौ वर्जयेद्धिक्कमानौ ११
अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य च
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः १२
आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम्
यमिका च प्रलापार्तिमोहतृष्णासमन्विता १३
अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रि यश्च यः
तस्य साधयितुं शक्यायमिकाहन्त्यतोऽन्यथा १४
महोर्ध्वच्छिन्नतमकक्षुद्र भेदैस्तु पञ्चधा
भिद्यते स महाव्याधिः श्वासएको विशेषतः १५
वाताधिको भवेत् क्षुद्र स्तमकस्तु कफोद्भवः
कफवाताधिकश्चैव संसृष्टश्छिन्नसंज्ञकः
श्वासो मारुतसंसृष्टो महानूर्ध्वस्ततो मतः १२
प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च
आनाहो वक्त्रवैरस्यं शङ्खनिस्तोद एव च १६
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः
विष्वग्व्रजति संरुद्धस्तदा श्वासान् करोति सः १७
उद्धूयमानवातो यः शब्दवद् दुःखितो नरः
उच्चैः श्वसिति संरुद्धो मत्तर्षभ इवानिशम् १८
प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः
विवृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक् १९
दीनः प्रश्वसितं चास्य दूराद्विज्ञायते भृशम्
महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते २०
ऊर्ध्वं श्वसिति यो दीर्घ न च प्रत्याहरत्यधः
श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः २१
ऊर्ध्वदृष्टिर्विपश्यंस्तु विभ्रान्ताक्ष इतस्ततः
प्रमुह्यन् वेदनार्तश्च शुक्लास्योऽरतिपीडितः २२
ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुध्यते
मुह्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून् २३
यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः
न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः २४
आनाहस्वेदमूर्च्छार्तो दह्यमानेन वस्तिना
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः २५
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः
छिन्नश्वासेन विच्छिन्नः स शीघ्रं विजहात्यसून् २६
प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते
ग्रीवां शिरश्च संगृह्य श्लेष्माणं समुदीर्य च २७
करोति पीनसं तेन रुद्धो घुर्घुरकं तथा
अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम् २८
प्रताम्यति स वेगेन तृष्यते सन्निरुध्यते
प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः २९
श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः
तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम् ३०
तथाऽस्योद्ध्वंसतेकण्ठःकृच्छ्राच्छक्नोति भाषितुम्
न चापि लभते निद्रा ं! शयानः श्वासपीडितः ३१
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः
आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति ३२
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान्
विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते ३३
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते
स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः ३४
ज्वरमूर्च्छापरीतस्य विद्यात्प्रतमकं तु तम्
उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः ३५
तमसा वर्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति
मज्जतस्तमसीवास्य विद्यात्संतमकं तु तम् ३६
रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन्
क्षुद्र श्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः ३७
हिनस्ति न स गात्राणि न च दुःखो यथेतरे
न च भोजनपानानां निरुणद्ध्युचितांगतिम् ३८
नेन्द्रि याणां व्यथां नापि कांचिदापादयेद्रुजम्
स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः ३९
क्षुद्र ः! साध्यो मतस्तेषां तमकः कृच्छ्र उच्यते
त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च ४०
कामं प्राणहरा रोगा बहवो न तु ते तथा
यथा श्वासश्च हिक्का च हरतः प्राणमाशु च ४१

स्वरभेदनिदानम्[सम्पाद्यताम्]

अथ स्वरभेदनिदानम्
अत्युच्चभाषण विषाध्यय नाभिघात-
सन्दूषणैः प्रकुपिता पवनादयस्तु
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां
हन्युः स्वरं भवति चापि हि षड्विधः सः १
वातादिभिः पृथक् सर्वैर्मेदसा च क्षयेण च
वातेन कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गर्दभवत् खरं च
पित्तेन पीतनयनाननमूत्रवर्चा ब्रूयाद् गलेन स च दाहसमन्वितेन २
ब्रूयात्कफेन सततं कफरुद्धकण्ठःस्वल्पं शनैर्वदति चापि दिवा विशेषात्
सर्वात्मकेभवति सर्वविकारसंपत्तं चाप्यसाध्यमृषयः स्वरभेदमाहुः ३
धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्चवागेष चापि हतवाक् परिवर्जनीयः
अन्तर्गतरस्वरमलक्ष्यपदं चिरेण मेदोऽन्वयाद्वदति दिग्धगलस्तृषार्त्तः ४
क्षीणस्य वृद्धस्य कृशस्य वाऽपि चिरोत्थितो यश्च सहोपजातः
मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति ५

अरोचकनिदानम्[सम्पाद्यताम्]

अथारोचकनिदानम्
वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनरूपगन्धैः
अरोचकाः स्युः परिहृष्टदन्तः कषायवक्त्रश्च मतोऽनिलेन १
कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्यात् लवणं च वक्त्रम्
अरोचके शोकभयातिलोभक्रोधाद्यहृद्याशुचिगन्धजे स्यात् २
स्वाभाविकं चास्यमथारुचिश्चत्रिदोषजे नैकरसं भवेत्तु ३
हृच्छूलपीडनयुतं पवनेनै पित्तात्तृड्दाहचोषबहुलैं सकफप्रसेकम्
श्लेष्मात्मकैं बहुरुजं बहुभिश्च विद्याद्वैगुण्यमोहजडताभिरथापरं च ४

छर्दिनिदानम्[सम्पाद्यताम्]

अथ छर्दिनिदानम्
दुष्टैर्दोषैः पृथक् सर्वैर्बीभत्सालोचनादिभिः
छर्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते १
अतिद्र वैरतिस्निग्धैरहृद्यैर्लवणैरति
अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः २
श्रमाद्भयात्तथोद्वेगादजीर्णात् क्रिमिदोषतः
नार्याश्चापन्नसत्त्वायास्तथाऽतिद्रुतमश्नतः ३
बीभत्सैर्हेतुभिश्चान्यैः द्रुतमुत्क्लेशितो बलात्
छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः
निरुच्यते छर्दिरिति दोषो वक्त्रं प्रधावितः ४
हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः
द्वेषोऽन्नपाने च भृशं वमीनां पूर्वलक्षणम् ५
हृत्पार्श्वपीडामुखशोषशीर्षनाभ्यर्तिकासस्वरभेदतोदैः
उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम्
कृच्छ्रेण चाल्पं महता च वेगेनार्तोऽनिलाच्छर्दयतीह दुःखम् ६
मूर्च्छापिपासामुखशोषमूर्धताल्वक्षिसन्तापतमोभ्रमार्तः
पीतं भृशोष्णं हरितं सतिक्तंधूम्रं च पित्तेन वमेत्सदाहम् ७
तन्द्रा ऽस्यमाधुर्यकफप्रसेकसन्तोषनिद्रा ऽरुचिगौरवार्तः
स्निग्धं घनं स्वादु कफाद्विशुद्धं सरोमहर्षोऽल्परुजं वमेत्तु ८
शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम्
छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रो ष्णरक्तं वमतां नृणां स्यात् ९
विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति
उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात् १०
विण्मूत्रयोस्तत्समगन्धवर्णं तृट्श्वासहिक्कार्तियुतं प्रसक्तम्
प्रच्छर्दयेद् दुष्टमिहातिवेगात्तयाऽदितश्चाशु विनाशमेति ११
वीभत्सजा दौहृदजाऽमजा च ह्यसात्म्यजा च क्रिमिजा च या हि
सा पञ्चमी तां चविभावयेच्च दोषोच्छ्रयेणैव यथोक्तमादौ १२
शूलहृल्लासबहुला क्रिमिजा च विशेषतः
क्रिमिहृद्रो गतुल्येन लक्षणेन च लक्षिता १३
क्षीणस्य या छर्दिरतिप्रसक्ता सोपद्र वा शोणितपूययुक्ता
सचन्द्रि कां तां प्रवदेदसाध्यौं साध्यां चिकित्सेन्निरुपद्र वां च १४
कासश्वासोऽज्वरो हिक्का तृष्णा वैचित्त्यमेव च
हृद्रो गस्तमकश्चैव ज्ञेयाश्छर्देरुपद्र वाः १५

तृष्णानिदानम्[सम्पाद्यताम्]

अथ तृष्णानिदानम्
भयश्रमाभ्यां बलसंक्षयाद्वा ह्यूर्ध्वं चितं पित्तविवर्धनैश्च
पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत्पिपासाम्
स्रोतस्स्वपांवाहिषु दूषितेषु दोषैश्च तृट् सम्भवतीह जन्तोः १
ताल्वोष्ठकण्ठास्यविशेषदाहसंतापमोहभ्रमविप्रलापाः
पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकाले तु विशेषतो हि
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथा ह्यामसमुद्भवा च
भक्तोद्भवा सप्तमिकेति तासां निबोध लिङ्गान्यनुपूर्वशस्तु २
क्षामास्यता मारुतसंभवायां तोदस्तथा शङ्खशिरःसु चापि
स्रोतोनिरोधो विरसं च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ३
मूर्च्छाऽन्नविद्वेषविलापदाहा रक्तेक्षणत्वं प्रततश्च शोषः
शीताभिनन्दा मुखतिक्तता च पित्तात्मिकायां परिदूयनं च ४
वाष्पावरोधात्कफसंवृतेऽग्नौ तृष्णा बलासेन भवेत्तथा तु
निद्रा गुरुत्वं मधुरास्यता च तयाऽदितः शुष्यति चातिमात्रम् ५
क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु
रसक्षयाद्या क्षयसभवा सा तयाऽभिभूतश्च निशादिनेषु ६
पेपीयतेऽम्भ स सुखं न याति तां सन्निपातादिति केचिदाहुः
रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत् ७
त्रिदोषलिङ्गाऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री
स्निग्धं तथाऽम्ल लवणं च भुक्तं गुर्वन्नमेवाशु तृषां करोति ८
दीनस्वरः प्रताम्यन् दीनः संशुष्कवक्त्रगलतालुः
भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा ९
ज्वरमोहक्षयकासश्वा साद्युपसृष्टदेहानाम्
सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रयुक्तानाम्
घोरोपद्र वयुक्तास्तृष्णा मरणाय विज्ञेयाः १०

मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासनिदानम्[सम्पाद्यताम्]

अथ मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासनिदानम्
क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः
वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः १
करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च
निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः २
संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ३
सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत्
मोहो मूर्च्छेति तामाहुः षड्विधा सा प्रकीर्तिता ४
वातादिभिः शोणितेन मद्येन च विषेण च
षट्स्वप्येतासु पित्तं तु प्रभुत्वेनावतिष्ठते ५
हृत्पीडा जृम्भणं ग्लानिः संज्ञादौर्बल्यमेव च
सर्वासां पूर्वरूपाणि यथास्वं ता बिभावयेत् ६
नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम्
पश्यंस्तमः प्रबिशति शीघ्रं च प्रतिबुध्यते ७
वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च
कार्श्यं श्यावाऽरुणाच्छाया मूर्च्छाये वातसंभवे ८
रक्तं हरितवर्णं वा वियत्पीतमथापि वा
पश्यंस्तमः प्रविशति सस्वेदश्च प्रबुध्यते ९
सपिपासः ससन्तापो रक्तपीताकुलेक्षणः
जातमात्रे पतति च शीघ्रं च प्रतिबुध्यते
संभिन्नवर्चाः पीताभो मूर्च्छाये पित्तसंभवे १०
मेघसंकाशमाकाशमावृतं वा तमोघनैः
पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ११
गुरुभिः प्रावृतैरङ्गैर्यथैवाद्रे र्ण! चर्मणा
सप्रसेकः सहृल्लासो मूर्च्छाये कफसंभवे १२
सर्वाकृतिः सन्निपातादपस्मार इवागतः
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः १३
पृथिव्यापस्तमोरूपं रक्तगन्धस्तदन्वयः
तस्माद्र क्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः १४
द्र व्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति
गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः १५
त एव तस्मात्ताभ्यां तु मोहौ स्यातां यथेरितौ
स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः १६
मद्येन विलपञ्शेते नष्टविभ्रान्तमानसः
गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् १७
वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्च्छिते
वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः १८
मूर्च्छा पित्ततमः प्राया रजःपित्तानिलाद् भ्रमः
तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा १९
चक्रवद् भ्रमतो गात्रं भूमौ पतति सर्वदा
भ्रमरोग इति ज्ञेयो रजःपित्तानिलात्मकः १
इन्द्रि यार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः
निद्रा र्तस्येव यस्येहा तस्य तन्द्रा ं! विनिर्दिशेत् २०
दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्
स्वयमेवोपशाम्यन्ति संन्यासो नौषधैर्विना २१
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः
संन्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः २२
स ना संन्याससंन्यस्तः काष्ठीभूतो मृतोपमः
प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यः फलां क्रियाम् २३

पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानम्[सम्पाद्यताम्]

अथ पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानम्
ये विषस्य गुणाः प्रोक्तास्तेऽपि मद्ये प्रतिष्ठिताः
तेन मिथ्योपयुक्तेन भवत्युग्रो मदात्ययः १
किंतु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् २
प्राणाः प्राणभृतामन्नं तदयुक्त्या हिनस्त्यसून्
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ३
विधिना मात्रया काले हितैरन्नैर्यथाबलम्
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतोपमम् ४
स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम्
भवेदायुःप्रकर्षाय बलायोपचयाय च ५
काम्यता मनसस्तुष्टिस्तेजो विक्रम एव च
विधिवत्सेव्यमाने तु मद्ये संनिहिता गुणाः ६
बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्ननिद्रा रतिवर्धनश्च
संपाठगीतस्वरवर्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि ७
अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाकृतिरप्रशान्तः
आलस्यनिद्रा भिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन ८
गच्छेदगम्यान्न गुरूंश्च मन्येत् खादेदभक्ष्याणि च नष्टसंज्ञाः
ब्रूयाच्च गुह्यानि हृदि स्थितानि मदे तृतीये पुरुषोऽस्वतन्त्रः ९
चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रियः
कार्याकार्यविभागज्ञो मृतादप्यपरो मृतः १०
को मदं तादृशं गच्छेदुन्मादमिव चापरम्
बहुदोषमिवामूढः कान्तारं स्ववशः कृती ११
निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्
आपादयेत्कष्टतमान्विकारानापादयेच्चापि शरीरभेदम् १२
क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन वुभुक्षितेन
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि १३
अत्यम्वुभक्षावततोदरेण साजीर्णभुक्तेन तथाऽबलेन
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् १४
पानात्ययं परमदं पानाजीर्णमथापि वा
पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् १५
हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः
विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् १६
तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् १७
छर्द्यरोचकहृल्लास तन्द्रा स्तैमित्यगौरवैः
विद्याच्छीतपरीतस्य कफप्रायं मदात्यम्
ज्ञेयस्त्रिदोषजश्चापि सर्वलिङ्गैर्मदात्ययः १८
श्लेष्मोच्छ्रयोऽङ्गगुरुता विरसास्यता चै
विण्मूत्रसक्तिरथ तन्द्रि ररोचकश्च
लिङ्गं परस्य च मदस्य वदन्ति तज्ज्ञा
स्तृष्णा रुजा शिरसि सन्धिषु तापि भेदः १९
आध्मानमुग्रमथ चोद्गिरणं विदाहः
पानेऽजरां समुपगच्छति लक्षणानि
हृद्गात्रतोदकफसंस्रव कण्ठधूमा
मूर्च्छावमिज्वर शिरोरुजनप्रदाहाः २०
द्वेपः सुरान्नविकृतेष्वपि तेषु तेषु
तं पानविभ्रममुशन्त्यखिलेन धीराः
हीनोत्तरौष्ठमति शीतममन्ददाहं
तैलप्रभास्यमपि पानहतं त्यजेत्तु २१
जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं
पीते च यस्य नयने रुधिरप्रभे वा
हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः
कासभ्रमावपि च पानहतं भजन्ते २२
दाहनिदानम्
त्वचं प्राप्तः स पानोष्मा पित्तरक्ताभिमूर्च्छितः
दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् १
कृत्स्नदेहानुगं रक्तमुद्रि क्तं दहति ध्रुवम्
स उष्यते तृष्यते च ताम्राभस्ताम्रलोचनः २
लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते
पित्तज्वरसमः पित्तात्स चाप्यस्य विधिः स्मृतः ३
तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम्
सबाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतसः ४
संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य वेपते
असृजा पूर्णकोष्ठस्य दाहोऽन्य स्यात्सुदुःसहः ५
धातुक्षयोत्थो यो दाहस्तेन मूर्च्छातृडर्दितः
क्षामस्वरः क्रियाहीनः स सीदेद् भृशपीडितः ६
क्षतजोऽनश्नतश्चान्नं शोचतो वाऽप्यनेकधा
तेनान्तर्दह्यतेत्यर्थं तृष्णा मूर्च्छा प्रलापवान्
मर्माभिघातजोऽप्यस्ति सोऽसाध्यः सप्तमो मतः
सर्व एव च वर्ज्याः स्यु शीतगात्रस्य देहिनः ७

उन्मादनिदानम्[सम्पाद्यताम्]

अथोन्मादनिदानम्
मदयन्त्युद्गता दोषा यस्मादुन्मार्गमागताः
मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः १
एकैकशः सर्वशश्च दोषैरत्यर्थमूर्च्छितैः
मानसेन च दुःखेन स च पञ्चविधो मतः २
विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम्
स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्ति च ३
विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्
उन्मादहेतुर्भयहर्षपूर्वो मनोऽभिघातो विषमाश्च चेष्टाः ४
तैरल्पसत्त्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य
स्रोतांस्यधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः ५
धीविभ्रमः सत्त्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च
अबद्धवाक्त्वं हृदयं च शून्यं सामान्यमुन्मादगदस्य लिङ्गम् ६
रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः
चिन्तादिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम् ७
अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि
पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलं चानिलजस्य रूपम् ८
अजीर्ण कट्वम्लविदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम्
उन्मादमत्युग्रमनात्मकस्य हृदि स्थितं पूर्ववदाशु कुर्यात् ९
अमर्षसंरम्भविनग्नभावाः सन्तर्जनातिद्र वणौष्ण्यरोषाः
प्रच्छायशीतान्नजलाभिलाषः पीता च भाः पित्तकृतस्य लिङ्गम् १०
संपूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि संप्रदुष्टः
वुद्धिं स्मृतिं चाप्युपहत्य चित्तं प्रमोहयन् संजनयेद्विकारम् ११
वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽतिनिद्रा
छर्दिश्च लाला च बलं च भुङ्क्ते नखादिशौक्ल्यं च कफात्मके स्यात् १२
यः सन्निपातप्रभवोऽतिघोरः सर्बैः समस्तैः स च हेतुभिः स्यात्
सर्बाणि रूपाणि बिभर्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः १३
चोरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसंक्षयाद्वा
गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतमो मनसो विकारः १४
चित्रं ब्रवीति च मनोऽनुगतं विसंज्ञो
गायत्यथो हसति रोदिति चापि मूढः
रक्तेक्षणो हतबलेन्द्रि यभाः सुदीनः
श्यावाननो विषकृतेऽथ भवेद्विसंज्ञः १५
अवाञ्ची वाप्युदञ्ची वा क्षीणमांसबलो नरः
जागरूको ह्यसंदेहमुन्मादेन विनश्यति १६
अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादिभिर्यः
उन्मादकालोऽनियतश्च यस्य भूतोत्थमुन्मादमुदाहरेत्तम् १७
संतुष्टः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्री रवितथसंस्कृतप्रभाषी
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः १८
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः
संतुष्टो न भवति चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुजुष्टः १९
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः
नृत्यन्वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः २०
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतगतिरल्पवाक् सहिष्णुः
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः २१
प्रेतानां स दिशति संस्तरेषु पिण्डाञ् शान्तात्मा जलमपि चापसव्यवस्त्रः
मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो भवति पितृग्रहाभिजुष्टः २२
यस्तूर्व्यां प्रसरति सर्पवत्कदाचित् सृक्कण्यौ विलेढि वै जिह्वया तथैव
क्रोधालुर्गुडमधुदुग्धपायसेप्सुर्ज्ञातव्यो भवति भुजङ्गमेन जुष्टः २३
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः
क्रोधालुर्विपुलबलो निशाबिहारी शौचद्विड् भवति सराक्षसैर्गृहीतः २४
उद्धस्तः कृशपरुषोऽचिरप्रलापीदुर्गन्धो भृशमशुचिस्तथातिलोलः
बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टन् भ्रमति रुदन् पिशाचजुष्टः २५
स्थूलाक्षो द्रुतमटनः स फेनलेही निद्रा लुः पतति च कम्पते च यो हि
यश्चाद्रि द्विरदनगादिविच्युः स्यात् सोऽसाध्यो भवति तथा त्रयोदशाब्दे २६
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ २७
पित्र्! याःकृष्णक्षये हिंस्युः पञ्चम्यामपि चोरगाः
रक्षांसि रात्रौ पैशाचाश्चतुर्दश्यां विशन्ति हि २८
दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा
स्वमणिं भास्करार्चिश्च यथा देहं च देहधृक्
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणः २९
प्रविश्याशु शरीरं हि पीडां कुर्वन्ति दुःसहाम् ३०
तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमश्च सत्यम्
गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ३१
न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्कचिदाविशन्ति
ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः ३२
तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसंख्याः
असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तथाऽविशन्ति

अपस्मारनिदानम्[सम्पाद्यताम्]

अथापस्मारनिदानम्
चिन्ताशोकादिभिर्दोषाः क्रुद्धा हृत्स्रोतसि स्थिताः
कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते १
तमः प्रवेशः संरम्भो दोषोद्रे कहतस्मृतेः
अपस्मार इति ज्ञेयो गदो घोरश्चतुर्विधः १
हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता
निद्रा नाशश्च तस्मिंश्च भविष्यति भवत्यथ २
कम्पते प्रदशेद्दन्तान् फेनोवामी श्वसित्यपि
परुषारुणकृष्णानि पश्येद्रू पाणि चानिलात् ३
पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शकः
सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः ४
शुक्लफेनाङ्गवक्त्राक्षः शीतहृष्टाङ्गजो गुरुः
पश्येच्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात् ५
सर्वैरेतैः समस्तैश्च लिङ्गैर्ज्ञेयस्त्रिदोषजः
अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ६
प्रतिस्फुरन्तं बहुशः क्षीणं प्रचलितभ्रुवम्
नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् ७
पक्षाद्वा द्वादशाहाद्वा मासाद्वाकुपिता मलाः
अपस्माराय कुर्वन्ति वेगं किंचिदथान्तरम् ८
देवे वर्षत्यपि यथा भूमौ वीजानि कानिचित्
शरदि प्रतिरोहन्ति तथा व्याधिसमुच्छ्रयाः ९

वातव्याधिनिदानम्[सम्पाद्यताम्]

अथ वातव्याधिनिदानम्
रूक्षशीताल्पलघ्वन्न व्यवायातिप्रजागरैः
विषमादुपचाराच्च दोषासृक्स्रवणादपि १
लङ्घनप्लवनात्यध्व व्यायामादिविचेष्टितैः
धातूनां संक्षयाच्चिन्ताशोकरोगातिकर्षणात् २
वेगसंधारणादामाद भिघातादभोजनात्
मर्माबाधाद्गजोष्ट्राश्वशीघ्र यानापतंसनात् ३
देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली
करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रयान् ४
अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम्
आत्मरूपं तु यद्व्यक्तमपायो लघुता पुनः ५
संकोचः पर्वणां स्तम्भो भङ्गोऽस्थ्ना पर्वणामपि
रोमहर्षः प्रलापश्च पाणिपृष्ठशिरोग्रहः ६
खाञ्ज्यपाङ्गुल्यकुब्जत्वं शोथोऽङ्गानामनिद्र ता
गर्भशुक्ररजोनाशः स्पन्दनं गात्रसुप्तता ७
शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम्
भेदस्तोदोऽतिराक्षेपो मुहुश्चायास एव च ८
एवंविधानि रूपाणि करोति कुपितोऽनिलः
हेतुस्थानविशेषाच्च भवेद्रो गविशेषकृत् ९
तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः
ब्रध्नहृद्रो गगुल्मार्शः पार्श्वशूलं च मारुते १०
सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जनम्
वेदनाभिः परीताश्च स्फुटन्तीवास्य सन्धयः ११
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः
लङ्घोरुत्रिकपात्पृष्ठरोगशोषौ गुदे स्थिते १२
रुक् पार्श्वोदरहृन्नाभेस्तृष्णोद्गारविसूचिकाः
कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते १३
पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् १४
श्रोत्रादिष्विन्द्रि यवधं कुर्याद् दुष्टः समीरणः
त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते
आतन्यते सरागा च पर्वरुक् त्वग्गतेऽनिले १५
रुजस्तीब्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः
गात्रे चारूंषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले १६
गुर्वङ्गं तुद्यतेऽत्यर्थं दण्डमुष्टिहतं यथा
सरुक् श्रमितमत्यर्थं मांसमेदोगतेऽनिले १७
भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः
अस्वप्नः संतता रुक् च मज्जास्थिकुपितेऽनिले १८
क्षिप्रं मुञ्चति वध्नातिशुक्रं गर्भमथापि वा
विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः १९
कुर्यात्सिरागतः शूलं सिराकुञ्चनपूरणम्
स बाह्याभ्यन्तरायामं खल्लीं कौब्ज्यमथापि वा २०
सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः
हन्ति सन्धिगतः सन्धीञ् शूलाटोपौ करोति च २१
प्राणोदानौ समानश्च व्यानश्चापान एव च
स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम्
प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते
दौर्बल्यं सदनं तन्द्रा वैरस्यं च कफावृते २२
उदाने पित्तयुक्ते तु दाहो मूर्च्छा भ्रमः क्लमः
अस्वेदहर्षौ मन्दोऽग्नि शीतता च कफावृते २३
स्वेददाहौष्ण्यमूर्च्छाः स्युः समाने पित्तसंवृते
कफेन सक्ते विण्मूत्रे गात्रहर्षश्च जायते २४
अपाने पित्तयुक्ते तु दाहौष्ण्यं रक्तमूत्रता
अधः काये गुरुत्वं च शीतता च कफावृते २५
व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः
स्तम्भनो दण्डकश्चापि शूलशोथौ कफावृते २६
यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः
तदाऽक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः २७
मुहुर्मुहुश्चाक्षेपणादाक्षेपक इति स्मृतः
क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रवर्तते २८
पीडयन् हृदयं गत्वा शिरं शङ्खौ च पीडयन्
धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तदा २९
स कृच्छ्रादुच्छ्वसेच्चापि स्तब्धाक्षोऽथ निमीलकः
कपोत इव कूजेच्च निःसंज्ञः सोऽपतन्त्रकः ३०
दृष्टिं संस्तभ्य संज्ञा च हत्वा कण्ठेन कूजति
हृदि मुक्ते नरं स्वास्थ्यं याति मोहं वृते पुनः ३१
वायुना दारुणं प्राहुरेके तदपतानकम्
कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति ३२
दण्डवत्स्तम्भयेद्देहं स तु दण्डापतानकः
धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसंज्ञकः ३३
अङ्गुलीगुल्फजठरहृद्वक्षोगलसंश्रितः
स्नायुप्रतानमनिलो यदाऽक्षिपति वेगवान् ३४
विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन्
अभ्यन्तरं धनुरिव यदा नमति मानवम् ३५
तदाऽस्याभ्यन्तरायामं कुरुते मारुतो बली
बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च ३६
तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनम्
कफपित्तान्वितो वायुर्वायुरेव च केवलः ३७
कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम्
गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः ३८
अभिघातनिमित्तश्च न सिद्ध्यत्यपतानकः
गृहीत्वाऽध तनोर्वायुः सिराः स्नायूर्विशोष्य च ३९
पक्षमन्यतरं हन्ति सन्धिबन्धान्विमोक्षयन्
कृत्स्नोऽधकायस्तस्य स्यादकर्मण्यो विचेतनः ४०
एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः
सर्वाङ्गरोगस्तद्वच्च सर्वकायाश्रितेऽनिले ४१
दाहसन्तापमूर्च्छाः स्युर्वायौ पित्तसमन्विते
शैत्यशोथगुरुत्वानि तस्मिन्नेव कफान्विते ४२
शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः
साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम् ४३
गर्भिणी सूतिकाबालवृद्धक्षीणेष्वसृक्स्रुते
पक्षाघातं परिहरेद् वेदनारहितो यदि
उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि वा
हसतो जृम्भतो वाऽपि भाराद्विषमशायिनः ४४
शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः
अर्दयत्यनिलो वक्त्रमर्दितं जनयत्यतः
वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते ४५
शिरश्चलति वाक्सङ्गोनेत्रादीनां च वैकृतम्
ग्रीवाचिबुकदन्तानां तस्मिन्पार्श्वे च वेदना ४६
यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम्
वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः
तमर्दितमिति प्राहुर्व्याधिं व्याधिविचक्षणाः
क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः ४७
न सिध्यत्यर्दितं गाढं त्रिवर्षं वेपनस्य च
गते वेगे भवेत् स्वास्थ्यं सर्वेष्वाक्षेपकादिषु ४८
जिह्वानिर्लेखनाच्छुष्क भक्षणादभिघाततः
कुपितो हनुमूलस्थः स्रंसयित्वाऽनिलो हनुम् ४९
करोति विवृतास्यत्वमथवा संवृतास्यताम्
हनुग्रहः स तेन स्यात्कृच्छ्राच्चर्बणभाषणम् ५०
दिवास्वप्नासमस्थान विवृतोर्ध्वनिरीक्षणैः
मन्यास्तम्भ प्रकुरुते स एव श्लेष्मणाऽवृतः ५१
वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयतेऽनिलः
जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता ५२
रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः
रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्यात्सिराग्रहः ५३
स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात्
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः ५४
वाताद्वातकफात्तन्द्रा गौरवारोचकान्विता
वातजायां भवेत्तोदो देहस्यापि प्रवक्रता
जानुकट्यूरुसंधीनां स्फुरणं स्तब्धता भृशम् ५५
वातश्लेष्मोद्भवायां तु निमित्तं वह्निमार्दवम्
तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च ५६
तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः ५७
बाह्वोः कर्मक्षयकरी विश्वाची चेति सोच्यते
वातशोणितजः शोथो जानुमध्ये महारुजः ५८
ज्ञेयक्रोष्टुकशीर्षस्तु स्थूलः कोष्टुकशीर्षवत्
वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा ५९
खञ्जस्तदा भवेज्जन्तु पङ्गुः सक्थ्नोर्द्वयोर्वधात्
प्रक्रामन् वेपते यस्तु खञ्जन्निव च गच्छति ६०
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्
रुक् पादे विषमन्यस्ते श्रमाद्वा जायते यदा ६१
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम्
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः ६२
विशेषतश्चङ्क्रमतः पाददाहं तमादिशेत्
हृष्येते चरणौ यस्य भवेतां चापि सुप्तकौ ६३
पादहर्षः स विज्ञेयः कफवातप्रकोपतः
अंसदेशस्थितो वायुः शोषयेदंसबन्धनम् ६४
सिराश्चकुञ्च्य तत्रस्थो जनयेदवबाहुकम्
आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः ६५
नरान्करोत्यक्रियकान्मूकमिन्मिनगद्गदान्
अधो या वेदना याति वर्चोमूत्राशयोत्थिता ६६
भिन्दतीव गुदोपस्थं स तूनी नाम नामतः
गुदोपस्थोत्थिता या तु प्रतिलोमं प्रधाविता ६७
वेगैः पक्वाशयं याति प्रतितूनीति सोच्यते
साटोपमत्युग्ररुजमाध्मातमुदरं भृशम् ६८
आध्मानमिति तं विद्याद्धोरं वातनिरोधजम्
विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् ६९
प्रत्याध्मानं विजानीयात्कफव्याकुलितानिलम्
नाभेरधस्तात्संजातः संचारी यदि वाऽचलः ७०
अष्ठीलावद्धनो ग्रन्थिरूर्ध्वमायत उन्नतः
वाताष्ठीलां विजानीयाद्वहिर्मार्गावरोधिनीम् ७१
एतामेव रुजोपेतां वातविण्मूत्ररोधिनीम्
प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ७२
मारुतेऽनुगुणे वस्तौ मूत्रं सम्यक् प्रवर्तते
विकारा विविधाश्चास्य प्रतिलोमे भवन्ति च ७३
सर्वाङ्गकम्पः शिरसो वायुर्वेपथुसंज्ञकः
खल्ली तु पादजङ्घोरुकरमूलावमोटनी ७४
अधः प्रतिहतो वायुः श्लेष्मणा मारुतेन वा
करोत्युद्गारबाहुल्यमूर्ध्ववातः स उच्यते ७५
स्थाननामानुरूपैश्च लिङ्गैः शेषान्विनिर्दिशेत्
सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत् ७६
हनुस्तम्भार्दिता क्षेपपक्षाघातापतानकाः
कालेन महता वाता यत्नात्सिध्यन्ति वा न वा ७७
नरान् बलवतस्त्वेतान् साधयेन्निरुपद्र वान्
विसर्पदाहरुक्सङ्गमूर्च्छाऽरुच्यग्निमार्दवैः ७८
क्षीणमांसबलं वाता घ्नन्ति पक्षवधादयः
शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम्
रुजार्तिमन्तं च नरं वातव्याधिर्विनाशयेत् ७९
अव्याहतगतिर्यस्य स्थानस्थः प्रकृतिस्थितः
वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम् ८०

वातरक्तनिदानम्[सम्पाद्यताम्]

अथ वातरक्तनिदानम्
लवणाम्लकटुक्षारस्निग्धोष्णाजीर्ण भाजनैः
क्लिन्नशुष्काम्बु जानूपमांसपिण्याकमूलकैः १
कुलत्थमाष निष्पावशाकादिपललेक्षुभिः
दध्यारनालसौवीर शुक्ततक्रसुरासवैः २
विरुद्धाध्यशनक्रोध दिवास्वप्नप्रजागरैः
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्
स्थूलानां सुखिनां चापि कूप्यते वातशोणितम् ३
हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं स विदाहोऽशनस्य
कृत्स्नं रक्तं विदहत्याशु तच्च स्रस्तं दुष्टं पादयोश्चीयते तु
तत्संपृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ४
स्वेदोऽत्यर्थं नवा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेऽतिरुक्
सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः ५
जानुजङ्घोरुकट्यंस हस्तपादाङ्गसन्धिषु
निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ६
कण्डूः सन्धिषु रुग्भूत्वा भूत्वा नश्यति चासकृत्
वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् ७
वातेऽधिकेऽधिकं तत्र शूलस्फुरणभञ्जनम्
शोथस्य रौक्ष्यं कृष्णत्वं श्यावतावृद्धिहानयः ८
धमन्यङ्गुलिसन्धीनां संकोचोऽङ्गग्रहोऽतिरुक्
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ९
रक्ते शोथोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः १०
पित्ते विदाहः संमोहः स्वेदो मूर्च्छा मदः सतृट्
स्पर्शासहत्वं रुग्रागः शोथः पाको भृशोष्मता ११
कफे स्तैमित्यगुरुता सुप्तिस्निग्धत्वशीतताः
कण्डूर्मन्दा च रुग्द्वन्द्वसर्वलिङ्गं च संकरात् १२
पादयोर्मूलमास्थाय कचाचिद्धस्तयोरपि
आखोर्विषमिव क्रुद्धं तद्देहमुपसर्पति १३
आजानु स्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत्
उपद्र वैश्च यज्जुष्टं प्राणमांसक्षयादिभिः १४
वातरक्तमसाध्यं स्याद्याप्यं संवत्सरोत्थितम्
अस्वप्नारोचकश्वासमांस कोथशिरोग्रहाः १५
संमूर्च्छामदरुक्तृष्णा ज्वरमोहप्रवेपकाः
हिक्कापाङ्गुल्य वीसर्पपाकतोदभ्रमक्लमाः १६
अङ्गुलीवक्रता स्फोटदाहमर्मग्रहार्बुदाः
एतैरुपद्र वैर्वर्ज्यं मोहेनैकेन वाऽपि यत् १७
अकृत्स्नोपद्र वं याप्यं साध्यं स्यान्निरुपद्र वम्
एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम्
त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्र वाः १८

उरुस्तम्भनिदाम्[सम्पाद्यताम्]

अथोरुस्तम्भनिदाम्
शीतोष्णद्र वसंशुष्क गुरुस्निग्धैर्निषेवितैः
जीर्णाजीर्णे तथाऽयाससंक्षोभस्वप्नजागरैः १
सश्लेष्ममेदः पवनः साममत्यर्थसंचितम्
अभिभूयेतरं दोषमूरू चेत्प्रतिपद्यते २
सक्थ्यस्थिनी प्रपूर्यान्तः लेष्मणा स्तिमितेन च
तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ३
परकीयाविव गुरू स्यातामतिभृशव्यथौ
ध्यानाङ्गमर्दस्तैमित्य तन्द्रा च्छर्द्यरुचिज्वरैः ४
संयुक्तौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः
तमूरुस्तम्भमित्याहुराढ्य वातमथापरे ५
प्राग्रूपं तस्य निद्रा ऽतिध्यानं स्तिमितता ज्वरः
रोमहर्षोऽरुचिच्छर्दिर्जङ्घोर्वोः सदनं तथा ६
वातशङ्किभिरज्ञानात्तस्य स्यात्स्नेहनात्पुनः
पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ७
जङ्घोरुग्लानिरत्यर्थं शश्वच्चादाहवेदने
पादं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ८
संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः
अन्यस्येव हि संभाग्नावूरू पादौ च मन्यते ९
यदा दाहार्तितोदार्तो वेपनः पुरुषो भवेत्
ऊरुस्तम्भस्तदा हन्यात्साधयेदन्यथा नवम् १०

आमवातनिदानम्[सम्पाद्यताम्]

अथामवातनिदानम्
विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्य च
स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्वतस्तथा १
वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति
तेनात्यर्थं विदग्धोऽसौ धमनीः प्रतिपद्यते २
वातपित्तकफैर्भूयो दूषितः सोऽन्नजो रसः
स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः ३
जनयत्याशु दौर्बल्यं गौरवं हृदयस्य च
व्याधीनामाश्रयो ह्येष आमसंज्ञोऽतिदारुणः ४
युगपत्कुपितावन्तस्त्रिक सन्धिप्रवेशकौ
स्तब्धं च कुरुतो गात्रमामवातः स उच्यते ५
अङ्गमर्दोऽरुचिस्तृष्णा ह्यालस्यं गौरवं ज्वरः
अपाकः शूनताऽङ्गानामामवातस्य लक्षणम् ६
स कष्टः सर्वरोगणां यदा प्रकुपितो भवेत्
हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु ७
करोति सरुजं शोथं यत्र दोषः प्रपद्यते
स देशो रुज्यतेऽत्यर्थं व्याविद्ध इव वृश्चिकैः ८
जनयेत्सोऽग्निदौर्बल्यं प्रसेकारुचिगौरवम्
उत्साहहानिं वैरस्यं दाहं च बहुमूत्रताम् ९
कुक्षौ कठिनतां शूलं तथा निद्रा विपर्ययम्
तृट्छर्दिभ्रममूर्च्छाश्च हृद्ग्रहं विड्विबद्धताम्
जाड्यान्त्रकूजमानाहं कष्टांश्चान्यानुपद्र वान् १०
पित्तात्सदाहरागं च सशूलं पवनानुगम्
स्तिमितं गुरुकण्डूं च कफदुष्टं तमादिशेत् ११
एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते
सर्वदेहचरः शोथः सः कृच्छ्रः सान्निपातिकः १२

शूलपरिणामशूलान्नद्र वशूलनिदानम्[सम्पाद्यताम्]

अथ शूलपरिणामशूलान्नद्र वशूलनिदानम्
दोषैः पृथक् समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत्
सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः १
व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात्
कलायमुद्गाढकिकोरदूषादत्यर्थरूक्षाध्यशनाभिघातात् २
कषायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकात्
विट्शुक्रमूत्रानिलवेगरोधाच्छोकोपवासादतिहास्यभाष्यात् ३
वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पार्श्वपृष्ठत्रिकबस्तिदेशे
जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् ४
मुहुर्मुहुश्चोपशमप्रकोपी विड्वातसंस्तम्भनतोदभेदैः
संस्वेदनाभ्यञ्जनमर्दनाद्यैः स्निग्धोष्णभोज्यैश्च शमं प्रयाति ५
क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः
कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ६
ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याशु करोति शूलम्
तृण्मोहदाहातिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमचोषयुक्तम् ७
मध्यन्दिने कुप्यति चार्धरात्रे विदाहकाले जलदात्यये च
शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनैश्च ८
आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः
अन्यैर्बलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम् ९
हृल्लासकाससदनारुचिसंप्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः
भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रं सूर्योदयेऽथ शिशिरे कुसुमागमे च १०
सर्वेषु दोषेषु च सर्वलिङ्गं विद्याद्भिषक् सर्वभवं हि शूलम्
सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः ११
आटोपहृल्लासवमी गुरुत्वस्तैमित्यकानाह कफप्रसेकैः
कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति १२
बस्तौ हृत्पार्श्वपृष्ठेषु स शूलः कफवातिकः
कुक्षौ हृन्नाभिमध्येषु स शूलः कफपैत्तिकः १३
दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः
एकदोषोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः १४
सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्र वः
स्वैर्निदानैः प्रकुपितो वायुः संनिहितस्तदा १५
कफपित्ते समावृत्य शूलकारी भवेद्वली
भुक्ते जीर्यति यच्छूलं तदेव परिणामजम् १६
तस्य लक्षणमप्येतत्समासेनाभिधीयते
आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः १७
स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक्
तृष्णादाहारतिस्वेदं कट्वम्लवणोत्तरम् १८
शूलं शीतशमप्रायं पैत्तिकं लक्षयेद् बुधः
छर्दिहृल्लाससंमोहं स्वल्परुग्दीर्घसन्तति १९
कटुतिक्तोपशान्तं च तच्च ज्ञेयं कफात्मकम्
संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत् २०
त्रिदोषजमसाध्यं तु क्षीणमांसबलानलम्
जीर्णे जीर्यत्यजीर्णे वा यच्छूलमुपजायते २१
पथ्यापथ्यप्रयोगेण भोजनाभोजनेन च
न शमं याति नियमात्सोऽन्नद्र व उदाहृतः २२
अन्नद्र वाख्यशूलेषु न तावत्स्वास्थ्यमश्नुते
वान्तमात्रे जरत्पित्तं शूलमाशु व्यपोहति २२-१

उदावर्त्तानाहनिदानम्[सम्पाद्यताम्]

अथोदावर्त्तानाहनिदानम्
वातविण्मूत्रजृम्भाश्रु क्षवोद्गारवमीन्द्रि यैः
क्षुत्तृष्णोच्छ्वासनिद्राणां धृत्योदावर्तसंभवः १
वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा
जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् २
आटोपशूलौ परिकर्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः
पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ३
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा
विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ४
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात्पवनात्मकाः स्युः
तथाऽक्षिनासावदनामयाश्च भवन्ति तीव्राः सह कर्णरोगैः ५
आनन्दजं वाऽप्यथ शोकजं वा नेत्रोदकं प्राप्तममुञ्चतो हि
शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन ६
मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदकौ
इन्द्रि याणां च दौर्बल्यं क्षवथोः स्याद्विधारणात् ७
कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरथवाऽप्रवृत्तिः
उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः ८
कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः
कुष्ठवीसर्पहृल्लासाश्छर्दिनिग्रहजा गदाः ९
मूत्राशये वै गुदमुष्कयोश्च शोथो रुजा मूत्रविनिग्रहश्च
शुक्राश्मरी तत्स्रवणं भवेच्च ते ते विकारा विहते च शुक्रे १०
तन्द्रा ऽङ्गमर्दावरुचिः श्रमश्च क्षुधाभिघातात्कृशता च दृष्टेः
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाविघाताद्धृदये व्यथा च ११
श्रान्तस्य निःश्वासविनिग्रहेण हृद्रो गमोहावथवाऽपि गुल्मः
जृम्भाऽङ्गमर्दोऽक्षिशिरोऽतिजाड्यं निद्रा भिघातादथवाऽपि तन्द्रा १२
वायुः कोष्ठानुगो रूक्षः कषायकटुतिक्तकैः
भोजनैः कुपितः सद्य उदावर्तं करोति हि १३
वातमूत्रपुरीषासृक्कफ मेदोवहानि वै
स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् १४
ततो हृद्बस्तिशूलार्तो हृल्लासारतिपीडितः
वातमूत्रपुरीषाणि कृच्छ्रेण लभते नरः १५
श्वासकास प्रतिश्याय दाहमोहतृषाज्वरान्
वमिहिक्काशिरोरोगमनः श्रवणविभ्रमान्
बहूनन्यांश्च लभते विकारान् वातकोपजान् १६
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन
प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति १७
तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः
आमाशये शूलमथो गुरुत्वं हृत्स्तम्भ उद्गारविघातनं च १८
स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा शकृतश्च छर्दिः
श्वासश्च पक्वाशयजे भवन्ति तथाऽलसोक्तानि च लक्षणानि १९
तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम्
शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् २०

गुल्मनिदानम्[सम्पाद्यताम्]

अथ गुल्मनिदानम्
दुष्टा वातादयोऽत्यर्थं मिथ्याहारविहारतः
कुर्वन्ति पञ्चधा गुल्मं कोष्ठान्तर्ग्रन्थिरूपिणम्
तस्य पञ्चविधं स्थानं पार्श्वहृन्नाभिवस्तयः १
हृन्नाभ्योरन्तरे ग्रन्थिः संचारी यदि वाऽचलः
वृत्तश्चयापचयवान् स गुल्म इति कीर्तितः २
स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः
पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः ३
उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि
आटोप आध्मानमपक्तिशक्तिरासन्नगुल्मस्य वदन्ति चिह्वम् ४
अरुचिः कृच्छ्रविण्मूत्रवातताऽन्त्रविकूजनम्
आनाहश्चोर्ध्ववातत्वं सर्वगुल्मेषु लक्षयेत् ५
रूक्षान्नपानं विषमातिमात्रं विचेष्टनं वेगविनिग्रहश्च
शोकोऽभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः ६
यः स्थानसंस्थानरुजां विकल्पं विड्वातसङ्गं गलवक्त्रशोषम्
श्यावारुणत्वं शिशिरज्वरं च हृत्कुक्षिपार्श्वांसशिरोरुजं च ७
करोति जीर्णे त्वधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च
वातात्स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते ८
कट्वम्लतीक्ष्णोष्णविदाहि रूक्षक्रोधातिमद्यार्कहुताशसेवा
आमाभिघातो रुधिरं च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम् ९
ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजने च
स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम् १०
शीतं गुरु स्निग्धमचेष्टनं च संपूरणं प्रस्वपनं दिवा च
गुल्मस्य हेतुः कफसंभवस्य सर्वस्तु दुष्टो निचयात्मकस्य ११
स्तैमित्यशीतज्वरगात्र सादहृल्लासकासारुचिगौरवाणि
शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य १२
निमित्तरूपाण्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलं च
व्यामिश्रलिङ्गानपरांश्च गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम् १३
महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम्
मनः शरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत् १४
नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा
वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम्
पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध १५
यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात्सशूलः समगर्भलिङ्गः
स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः १६
संचितः क्रमशो गुल्मो महावास्तुपरिग्रहः
कृतमूलः सिरानद्धो यदा कूर्म इवोत्थितः १७
दौर्बल्यारुचिहृल्लास कासच्छर्द्यरतिज्वरैः
तृष्णातन्द्रा प्रतिश्यायैर्युज्यते स न सिध्यति १८
गृहीत्वा सज्वरं श्वासच्छर्द्यतीसारपीडितम्
हृन्नाभिहस्तपादेषु शोथः कर्षति गुल्मिनम् १९
श्वासः शूलं पिपासाऽन्नविद्वेषो ग्रन्थिमूढता
जायते दुर्बलत्वं च गुल्मिनो मरणाय वै २०

हृद्रोगनिदानम्[सम्पाद्यताम्]

अथ हृद्रोगनिदानम्
अत्युष्णगुर्वन्नकषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गैः
संचिन्तनैर्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः १
दूषयित्वा रसं दोषा विगुणा हृदयं गताः
हृदि बाधां प्रकुर्वन्ति हृद्रो गं तं प्रचक्षते २
आयम्यते मारुतजे हृद्रो गं तुद्यते तथा
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च ३
तृष्णोष्मादाहचोषाः स्युः पैत्तिके हृदयक्लमः
धूमायनं च मूर्च्छा च स्वेदः शोषो मुखस्य च ४
गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम्
माधुर्यमपि चास्यस्य बलासावतते हृदि ५
विद्यात्त्रिदोषं त्वपि सर्वलिङ्गम् तीव्रार्तितोदं क्रिमिजं सकण्डूम्
उत्क्लेदः ष्ठीवनं तोदः शूलं हृल्लासकस्तमः
अरुचिः श्यावनेत्रत्वं शोथश्च क्रिमिजे भवेत् ६
क्लमः सादो भ्रमः शोषो ज्ञेयास्तेषामुपद्र वाः
क्रिमिजे क्रिमिजातीनां श्लैष्मिकाणां च ये मताः ७

मूत्रकृच्छ्रनिदानम्[सम्पाद्यताम्]

अथ मूत्रकृच्छ्रनिदानम्
व्यायामतीक्ष्णौषध रूक्षमद्यप्रसङ्गनित्यद्रुतपृष्ठयानात्
आनूपमांसाध्यशनादजीर्णात्स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ १
पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथवा कोपमुपेत्य वस्तौ
मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् २
तीव्रार्तिरुग्वङ्क्षणवस्तिमेढ्रेस्वल्पं मुहुर्मूत्रयतीह वातात्
पीतं सरक्तं सरुजं सदाहं कृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ३
वस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे
सर्वाणि रूपाणि तु सान्निपाताद्भवन्ति तत्कृच्छ्रतमं हि कृच्छ्रम् ४
मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु वा
मूत्रकृच्छ्रं तदाघाताज्जायते भृशदारुणम् ५
वातकृच्छ्रेण तुल्यानि तस्य लिङ्गानि निर्दिशेत्
शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः ६
आध्मानं वातशूलं च मूत्रसङ्गं करोति च
अश्मरीहेतु तत्पूर्वं मूत्रकृच्छ्रमुदाहरेत् ७
शुक्रे दोषैरुपहते मूत्रमार्गं विधाविते
सशुक्रं मूत्रयेत्कृच्छ्राद् वस्तिमेहनशूलवान् ८
अश्मरी शर्करा चैव तुल्यसंभवलक्षणे
विशेषणं शर्करायाः शृणु कीर्तयतो मम ९
पच्यमानाऽश्मरी पित्ताच्छोष्यमाणा च वायुना
विभुक्तकफसन्धाना क्षरन्ती शर्करा मता १०
हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः
तथा भवति मूर्च्छा च मूत्रकृच्छ्रं च दारुणम् ११
मूत्रवेगनिरस्ताभिः प्रशमं याति वेदना
यावदस्याः पुनर्नैति गुडिका स्रोतसो मुखम् १२

मूत्राघातनिदानम्[सम्पाद्यताम्]

अथ मूत्राघातनिदानम्
जायन्ते कुपितैर्दोषैर्मूत्राघातास्त्रयोदश
प्रायो मूत्रविघाताद्यैर्वातकुण्डलिकादयः १
रौक्ष्याद्वेगविघाताद्वा वायुर्वस्तौ सवेदनः
मूत्रमाविश्य चरति विगुणः कुण्डलीकृतः २
मूत्रमल्पाल्पमथवा सरुजं स्रंपवर्तते
वातकुण्डलिकां तां तु व्याधिं विद्यात्सुदारुणाम् ३
आध्मापयन्वस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्
कुर्यात्तीव्रार्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम् ४
वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः
निरुणद्धि मुखं तस्य वस्तेर्वस्तिगतोऽनिलः ५
मूत्रसङ्गो भवेत्तेन वस्तिकुक्षिनिपीडितः
वातवस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ६
चिरं धारयतो मूत्रं त्वरया न प्रवर्तते
मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते ७
मूत्रस्य वेगेऽभिहते तदुदावर्तहेतुकः
अपानःकुपितो वायुरुदरं पूरयेद् भृशम् ८
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम्
तन्मूत्रजठरं विद्यादधोवस्तिनिरोधनम् ९
वस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः
मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः १०
स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम्
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः ११
रूक्षस्य क्लान्तदेहस्य वस्तिस्थौ पित्तमारुतौ
मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् १२
अन्तर्वस्तिमुखे वृत्तः स्थिरोऽल्प सहसा भवेत्
अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते १३
मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धतम्
स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद्वा प्रवर्तते १४
व्यायामाध्वातपैः पित्तं वस्तिं प्राप्यानिलान्वितम् १५
वस्तिं मेढ्रं गुदं चैव प्रदहेत्स्रावयेदधः
मूत्रं हारिद्र मथवा सरक्तं रक्तमेव वा १६
कृच्छ्रात्पुनः पुनर्जन्तोरुष्णवातं ब्रुवन्ति तम्
पित्तं कफो द्वावपि वा संहन्येतेऽनिलेन चेत् १७
कृच्छ्रान्मूत्रं तदा पीतं श्वेतं रक्तं घनं सृजेत्
सदाहं रोचनाशङ्खचूर्णवर्णं भवेत्तु तत् १८
शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम्
रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा १९
मूत्रस्रोतोऽनुपद्येत विट्संसृष्टं तदा नरः
विड्गन्धं मूत्रयेत्कृच्छ्राद्विड्विघातं विनिर्दिशेत् २०
द्रुताध्वलङ्घनायासै रभिघातात्प्रपीडनात्
स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत् २१
शूलस्पन्दनदाहार्तो विन्दुं बिन्दुं स्रवत्यपि
पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान् २२
वस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्
पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः २३
तस्मिन्पित्तान्विते दाहः शूलं मूत्रविवर्णता २४
श्लेष्मणा गौरवं शोथः स्निग्धं मूत्रं घनं सितम्
श्लेष्मरुद्धबिलो वस्तिः पित्तोदीर्णो न सिध्यति
अविभ्रान्तबिलः साध्यो न तु यः कुण्डलीकृतः २५
स्यादस्तौ कुण्डलीभूते तृण्मोहः श्वास एव च २६

अश्मरीनिदानम्[सम्पाद्यताम्]

अथाश्मरीनिदानम्
वातपित्तकफैस्तिस्रश्चतुर्थी शुक्रजाऽपरा
प्रायः श्लेष्माश्रयाः सर्वा अश्मर्यः स्युर्यमोपमाः १
विशोषयेद्वस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा
यदा तदाश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः २
नैकदोषाश्रयाः सर्वाः -- अथासां पूर्वलक्षणम्
बस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक् ३
मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः
सामान्यलिङ्गं रुङ्नाभिसेवनीबस्तिमूर्धसु ४
विशीर्णधारं मूत्रं स्यात्तया मार्गे निरोधिते
तद्व्यपायात्सुखं मेहेदच्छं गोमेदकोपमम् ५
तत्संक्षोभात्क्षते सास्रमायासाच्चातिरुग्भवेत्
तत्र वाताद् भृशं चार्तो दन्तान् खादति वेपते ६
गृह्णाति मेहनं नाभिं पीडयत्यनिशं क्कणन्
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः ७
श्यावारुणाऽश्मरी चास्य स्याच्चिता कण्टकैरिव
पित्तेन दह्यते वस्तिः पच्यमान इवोष्मवान् ८
भल्लातकास्थिसंस्थाना रक्तपीताऽसिताश्मरी
वस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ९
अश्मरी महती श्लक्ष्णा मधुवर्णाऽथवा सिता
एता भवन्ति बालानां तेषामेव च भूयसा १०
आश्रयोपचयाल्पत्वाद् ग्रहणाहरणे सुखाः
शुक्राश्मरी तु महतां जायते शुक्रधारणात् ११
स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः
शोषयत्युपसंगृह्य शुक्रं तच्छुक्रमश्मरी १२
वस्तिरुङ्मूत्रकृच्छ्रत्वमुष्कश्वयथुकारिणी
तस्यामुत्पन्नमात्रायां शुक्रमेति बिलीयते १३
पीडिते त्ववकाशेऽस्मिन् अश्मर्येब च शर्करा
अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे १४
निरेति सह मूत्रेण प्रतिलोमे निरुध्यते
मूत्रस्रोतः प्रवृत्ता सा सक्ता कुर्यादुपद्र वान् १५
दौर्वल्यं सदनं कार्श्यं कुक्षिशूलमथारुचिम्
पाण्डुत्वमुष्णवातं च तृष्णां हृत्पीडनं वमिम् १६
प्रशूननाभिवृषणं बद्धमूत्रं रुजातुरम्
अश्मरी क्षपयत्याशु सिकता शर्करान्विता १७
इति श्रीमाधवकरविरचिते माधवनिदानेऽश्मरीनिदानं समाप्तम् ३३
समाप्तं चेदमश्मरीनिदानम्

प्रमेह निदानम्[सम्पाद्यताम्]

अथ प्रमेह निदानम्
उत्तरार्द्ध
आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि
न वान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम् १
मेदश्च मासं च शरीरजं च क्लेदं कफो वस्तिगतः प्रदूष्य
करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि २
क्षीणेषु दोषेष्ववकृष्य धातून् संदूष्य मेहान् कुरुतेऽनिलश्च
साध्याः कफोत्था दशै पित्तजाः षड्याप्या न साध्यः पवनाच्चतुष्कः ३
समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते
कफः सपित्तः पवनश्च दोषौ मेदोऽस्रशुक्राम्बुवसालसीकाः
मज्जारसौजः पिशितं च दूष्यौः प्रमेहिणां विंशतिरेव मेहाः ४
दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयोः
दाहश्चिक्कणता देहे तृट् स्वाद्वास्यं च जायते ५
सामान्यं लक्षणं तेषां प्रभूताबिलमूत्रता
दोषदूष्याविशेषेऽपि तत्संयोगविशेषतः ६
मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते
अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम् ७
मेहत्युदकमेहेन किंचिदाविलपिच्छिलम्
इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः ८
सान्द्री भवेत् पर्युषितं सान्द्र मेहेन मेहति
सुरामेही सुरातुल्यमुपर्यच्छमधो घनम् ९
संहृष्टरोमा पिष्टेन विष्टवद्वहुलं सितम्
शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति १०
मूर्ताणून्सिकतामेही सिकतारूपिणो मलान्
शीतमेही सुबहुशो मधुरं भृशशीतलम् ११
शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् १२
गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत्
नीलमेहेन नीलाभं कालमेही मसीनिभम् १३
हारिद्र मेही कटुकं हरिद्रा संनिभं दहत्
विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम् १४
विस्रमुष्णं सलवणं रक्ताभं रक्त मेहतः
वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः १५
मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः
कषायं मधुरं रूक्षं क्षौद्र मेहं वदेद् बुधः १६
हस्ती मत्त इवाजस्रं मूत्रं वेगविवर्जितम्
सलसीकं विबद्धं च हस्तिमेही प्रमेहति १७
अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः
उपद्र वाः प्रजायन्ते मेहानां कफजन्मनाम् १८
बस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः
दाहस्तृष्णाऽम्लिका मूर्च्छा विड्भेदः पित्तजन्मनाम् १९
वातजानामुदावर्तः कम्पहृद्ग्रहलोलताः
शूलमुन्निद्र ता शोषः कासः श्वासश्च जायते २०
यथोक्तोपद्र वाविष्टमतिप्रस्रुतमेव च
पिडकापीडितं गाढः प्रमेहो हन्ति मानवम् २१
जातः प्रमेही मधुमेहिनो वा न साध्य उक्तः स हि बीजदोषात्
ये चापि केचित्कुलजा विकारा भवन्ति तांस्तान् प्रवदन्त्यसाध्यान् २२
सर्व एवप्रमेहास्तु कालेनाप्रतिकारिणः
मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि २३
मधुमेह मधुसमं जायते स किल द्विधा
क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा २४
आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयन्
क्षणात्क्षीणः क्षणात्पूर्णो भजते कृच्छ्रसाध्यताम् २५
मधुरं यच्च मेहेषु प्रायो मध्विव मेहति
सर्वेऽपि मधुमेहाख्या माधुर्याच्च तनोरतः २६
शराविका कच्छपिका जालिनी विनताऽलजी
मसूरिका सर्षपिका पुत्रिणी सविदारिका २७
विद्र धिश्चेति पिडकाः प्रमेहोपेक्षया दश
सन्धिमर्मसु जायन्ते मांसलेषु च धामसु २८
अन्तोन्नता तु तद्रू पा निम्नमध्या शराविका
गौरसर्षपसंस्थाना तत्प्रमाणा च सर्षपी २९
सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः
जालिनी तीव्रदाहा तु मांसजालसमावृता ३०
अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा
महती पिडका नीला विनता नाम सा स्मृता ३१
महत्यल्पचिता ज्ञेया पिडका चापि पुत्रिणी
मसूराकृतिसंस्थाना विज्ञेया तु मसूरिका ३२
रक्ता सिता स्फोटचिता दारुणात्वलजीभवेत्
विदारीकन्दवद् वृत्ता कठिना च विदारिका ३३
विद्र धेर्लक्षणैर्युक्ता ज्ञेया विद्र धिका तु सा
ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तन्मया ३४
विना प्रमेहमप्येता जायन्ते दुष्टमेदसः
तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहः ३५
गुदे हृदि शिरस्यंसे पृष्ठे मर्मसु चोत्थिताः
सोपद्र वा दुर्वलाग्नेः पिडकाः परिवर्जयेत् ३६

मेदोरोगनिदानम्[सम्पाद्यताम्]

अथ मेदोरोगनिदानम्
अव्यायामदिवास्वप्नश्लेष्मलाहारसेविनः
मधुरोऽन्नरसः प्रायः स्नेहान्मेदं प्रवर्धयेत् १
मेदसाऽवृतमार्गत्वात् पुष्यन्त्यन्ये न धातवः
मेदस्तु चीयते तस्मादशक्तः सर्वकर्मसु २
क्षुद्र श्वासतृषा मोहस्वप्नक्रथनसादनैः
युक्तः क्षुत्स्वेददौर्गन्ध्यैरल्पप्राणोऽल्पमैथुनः ३
मेदस्तु सर्वभूतानामुदरेष्वस्थिषु स्थितम्
अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ४
मेदसाऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः
चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि ५
तस्मात् स शीघ्रं जरयत्याहारमभिकाङ्क्षति
विकारांश्चाप्नुते घोरान् कांश्चित् कालव्यतिक्रमात् ६
एतावुपद्र वकरौ विशेषादग्निमारुतौ
एतौ तु दहतः स्थूलं वनदावो वनं यथा ७
मेदस्यतीव संवृद्धे सहसैवानिलादयः
विकारान् दारुणान् कृत्वा नाशयन्त्याशु जीवितम् ८
मेदोमांशाति वृद्धत्वाच्चलस्फिगुदरस्तनः
अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ९

उदररोगनिदानम्[सम्पाद्यताम्]

अथोदररोगनिदानम्
रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि च
अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसंचयात् १
रुद्ध्वा स्वेदाम्वुवाहीनि दोषाः स्रोतांसि संचिताः
प्राणाग्न्यपानान् संदूष्य जनयन्त्युदरं नृणाम् २
आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता
शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः ३
दाहस्तन्द्रा च सर्वेषु जठरेषु भवन्ति हि
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ४
संभवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु
तत्र वातोदरे शोथः पाणिपान्ना भिकुक्षिषु ५
कुक्षिपार्श्वोदरकटी-पृष्ठरुक् पर्वभेदनम्
शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसंग्रहः ६
श्यावारुणत्वगादित्वमक स्मादवृद्धिह्रासवत्
सतोदभेदमुदरं तनुकृष्णसिराततम् ७
आध्मातदृतिवच्छब्दमाहतं प्रकरोति च
वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतोगतिः ८
पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता
भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित् ९
पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते
धूमायते मृदुस्पर्श क्षिप्रपाकं प्रदूयते १०
श्लेष्मोदरेऽङ्गसदनं स्वापः श्वयथुगौरवम्
निद्रो त्क्लेशोऽरुचिः श्वासः कासः शुक्लत्वगादिता ११
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत्
चिराभिवृद्धं कठिनं शीतस्पर्शं गुरु स्थिरम् १२
स्त्रियोऽन्नपानं नखलोममूत्रविडार्तवैर्युक्तमसाधुवृत्ताः
यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाद्वा १३
तेनाशुरक्तं कुपिताश्च दोषाः कुर्युः सुघोरं जठरं त्रिलिङ्गम्
तच्छीतवाते भृशदुर्दिने च विशेषतः कुप्यति दह्यते च १४
स चातुरो मुह्यति हि प्रसक्तं पाण्डुः मुखं शुष्यति तृष्णया च
दूष्योदरं कीर्तितमेतदेव प्लीहोदरं कीर्तयतो निबोध १५
विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च
प्लीहाभिवृद्धिं कुरुतः प्रवृद्धौ प्लीहोत्थमेतज्जठरं वदन्ति १६
तद्वामपार्श्वे परवृद्धिमेति विशेषतः सीदति चातुरोऽत्र
मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः
सव्यान्यपार्श्वे यकृति प्रवृद्धे ज्ञेयं यकृद्दाल्युदरं तदेव १७
उदावर्त रुजानाहै र्मोहतृड्दहनज्वरैः
गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात् १८
यस्यान्त्रमन्नैरुपलेपिभिर्वा बालश्मभिर्वा पिहितं यथावत्
संचीयते तस्य मलः सदोषः शनैः शनैः संकरवच्च नाड्याम् १९
निरुध्यते यस्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम्
हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति २०
शल्यं तथाऽन्नोपहितं यदन्त्रं भुक्तं भिनत्त्यागतमन्यथा वा
तस्मात्स्रुतोऽन्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः २१
नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते दाल्यति चातिमात्रम्
एतत्परिस्राव्युरं प्रदिष्टं दकोदरं कीर्तयतो निबोध २२
यः स्नेहपीतोऽत्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा विरूढः
पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्वहानि २३
स्नेहोपलिप्तेष्वथवाऽपि तेषु दकोदरं पूर्ववदभ्युपैति
स्निग्धं महत्तत्परिवृत्तनाभि समासतं पूर्णमिवाम्बुना च
यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत् २४
जन्मनैवोदरं सर्वं प्रायः कूच्छ्रतमं मतम्
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् २५
पक्षाद् बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा
प्रायो भवत्यभावाय छिद्रा न्त्रं चोदरं नृणाम् २६
शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्
बलशोणितमांसाग्निपरिक्षीणं च वर्जयेत् २७
पार्श्वभङ्गान्नविद्वेषशोथातीसारपीडितम्
विरिक्तं चाप्युदरिणं पूर्यमाणं विवर्जयेत् २८

शोथनिदाम्[सम्पाद्यताम्]

अथ शोथनिदाम्
रक्तपित्तकफान् वायुर्दुष्टो दुष्टान् बहिःसिराः
नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम् १
उत्सेधं संहतं शोथं तमाहुर्निचयादतः
सर्वं हेतुविशेषैस्तु रूपभेदान्नवात्मकम् २
दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि
तत्पूर्वरूपं दवथुः शिरायामोऽङ्गगौरवम् ३
शुद्ध्यामयाभुक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा
दध्याममृच्छाकविरोधिदुष्टगरोपसृष्टान्ननिवेषणं च ४
अर्शास्यचेष्टा न च देहशुद्धिर्मर्मोपघातो विषमा प्रसूतिः
मिथ्योपचारः प्रतिकर्मणां च निजस्य हेतु श्वयथोः प्रदिष्टः ५
सगौरवं स्यादनवस्थितत्वं सोत्सेधमूष्माऽथ सिरातनुत्वम्
सलोमहर्षश्च विवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ६
चलस्तनु त्वक् परुषोऽरुणोऽसितः सुषुप्तिहर्षातियुतोऽनिमित्ततः
प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली च श्वयथुः समीरणात् ७
मृदुः सगन्धोऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः
य उष्यते स्पष्टरुगक्षिरागकृत् स पित्तशोथो भृशदाहपाकवान् ८
गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रा वमिवह्निमान्द्यकृत्
स कृच्छ्रजन्मप्रशमो निपीडितो न चेन्नमेद्रा त्रिबली कफात्मकः ९
निदानाकृतिसंसर्गाच्छ्वयथुः स्याद् द्विदोषजः
सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रलक्षणः १०
अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः
हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः ११
रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान्
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः १२
विषजः सविषप्राणिपरिसर्पणमूत्रणात्
दंष्ट्रादन्तनखा घातादविष प्राणिनामपि १३
विण्मूत्रशुक्रो पहतमलवद्वस्त्रसंकरात्
विषवृक्षानिलस्पर्शाद्गर योगावचूर्णनात् १४
मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः
दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशयस्थिताः १५
पक्वाशयस्था मध्ये तु वर्चःस्थानगतास्त्वधः
कृत्स्नदेहमनुप्राप्ताः कुर्युः सर्वसरं तथा १६
यो मध्यदेशे श्वयथुः स कष्टः सर्वगश्च यः
अर्धाङ्गे रिष्टभूतः स्याद्यश्चोर्ध्वं परिसर्पति १७
श्वासः पिपासा छर्दिश्च दौर्बल्यं ज्वर एव च
यस्य चान्ने रुचिर्नास्ति श्वयथुं तं विवर्जयेत् १८
अनन्योपद्र वकृतः शोथः पादसमुत्थितः
पुरुषं हन्ति नारीं च मुखजो गुह्यजो द्वयम्
नवोऽनुपद्र वः शोथः साध्योऽसाध्यः पुरेरितः १९
विवर्जयेत् कुक्ष्युदराश्रितं च तथा गले मर्मणि संश्रितं च
स्थूलः खरश्चापि भवेद्विवर्ज्यो यश्चापि बालस्थविराबलानाम् २०

वृद्धिनिदानम्[सम्पाद्यताम्]

अथ वृद्धिनिदानम्
वृद्धोऽनूर्ध्वगतिर्वायुः शोथशूलकरश्चरन्
मुष्कौ वङ्क्षणतः प्राप्य फलकोषाभिवाहिनीः १
प्रपीड्य धमनीबृद्धिं करोति फलकोषयोः
दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः २
मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम्
वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक् ३
पक्वोदुम्बरसंकाशः पित्तद्दाहोष्मपाकवान्
कफाच्छीतो गुरुः स्निग्धः कण्डूमान् कठिनोऽल्परुक् ४
कृष्णस्फोटावृतः पित्तवृद्धिर्लिङ्गश्च रक्तजः
कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः ५
मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः
अम्भोभिः पूर्णदृतिवत् क्षोभं याति सरुङ्मृदुः ६
मूत्रकृच्छ्रमधः स्याच्च चालयन् फलकोषयोः
वातकोपिभिराहरैः शीततोयावगाहनैः ७
धारणेरणभाराध्व विषमान्नप्रवर्तनैः
क्षोभणैः क्षोमितोऽन्यैश्च क्षुद्रा न्त्रावयवं यदा ८
पवनो विगुणीकृत्य स्वनिदेशादधो नयेत्
कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा ९
उपेक्षमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुः
प्रपीडितोऽन्त स्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः १०
अन्त्रवृद्धिरसाध्योऽय वातवृद्धिसमाकृतिः

गलगण्डमालाऽपचीग्रन्थ्यर्बुदनिदानम्[सम्पाद्यताम्]

अथ गलगण्डमालाऽपचीग्रन्थ्यर्बुदनिदानम्
निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले
महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् १
वातः कफश्चापि गले प्रदुष्टो मन्ये च संश्रित्य तथैव मेदः
कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः २
तोदान्वितः कृष्णसिरावनद्धः श्यावोऽरुणो वा पवनात्मकस्तु
पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात् कदाचित् ३
वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः
स्थिरः सवर्णो गुरुरुग्रकण्डूः शीतो महांश्चापि कफात्मकस्तु ४
चिराभिवृद्धिं भजते चिराद्वा प्रपच्यते मन्दरुजः कदाचित्
माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः ५
स्निग्धो गुरुः पाण्डुरनिष्टगन्धो मेदोभवः कन्डुयुतोऽल्परुक् च
प्रलम्बतेऽलाबुवदल्पमूलौ देहानुरूपक्षयवृद्धियुक्तः ६
स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽनुशब्दं कुरुते च नित्यम्
कृच्छ्राच्छ्वसन्तं मृदुसर्वगात्रं संवत्सरातीतमरोचकार्तम् ७
क्षीणं च वैद्यो गलगण्डयुक्तं भिन्नस्वरं चापि विवर्जयेच्च
कर्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागलवङ्क्षणेषु ८
मेदःकफाभ्यां चिरमन्दपाकैः स्याद् गण्डमालाबहुभिश्चगण्डैः
ते ग्रन्थयः केचिदवाप्तपाकाः स्रवन्ति नश्यन्ति भवन्ति चान्ये ९
कालानुबन्धं चिरमादधाति सैवापचीति प्रवदन्ति तज्ज्ञाः
साध्याः स्मृताः पीनसपार्श्वशूलकासज्वरच्छर्दियुतास्त्वसाध्याः १०
वातादयो मांसमसृक् प्रदुष्टाः संदूष्य मेदश्च तथा सिराश्च
वृत्तोन्नतं विग्रथितं च शोथं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ११
आयम्यते वृश्च्यति तुद्यते च प्रत्यस्यते मथ्यति भिद्यते च
कृष्णो मृदुर्बस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् १२
दन्दह्यते धूप्यति वृश्च्यते च पापच्यते प्रज्वलतीव चापि
रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नः स्रवेदुष्णमतीव चास्रम् १३
शीतोऽविवर्णोऽल्परुजोऽतिकण्डुः पाषाणवत् संहननोपपन्नः
चिराभिवृद्धश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनं च पूयम् १४
शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महान् कण्डुयुतोऽरुजश्च
मेदःकृतो गच्छति चात्र भिन्नपिण्याकसर्पिःप्रतिमं तु मेदः १५
व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुस्तु सिराप्रतानम्
संकुच्य संपीड्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् १६
ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात् सरुजश्चलश्च
अरुक्स एवाप्य चलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः १७
गात्रप्रदेशे क्कचिदेव दोषाः संमूर्च्छिता मांसमसृक् प्रदूष्य
वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्यपाकम् १८
कुर्वन्ति मांसोच्छ्रयमत्यगाधं तदर्बुदं शास्त्रविदो वदन्ति
वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा वा १९
तज्जायते तस्य च लक्षणानि ग्रन्थे समानानि सदा भवन्ति
दोषः प्रदुष्टो रुधिरं सिराश्च संकुच्य संपिण्ड्य ततस्त्वपाकम् २०
सास्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैराचितमाशुवृद्धम्
करोत्यजस्रं रुधिरप्रवृत्तिमसाध्यमेतद्रुधिरात्मकं तु २१
रक्तक्षयोपद्र वपीडितत्वात् पाण्डुर्भवेदर्बुदपीडितस्तु
मुष्ठिप्रहारादिभिरर्दितेऽङ्गे मांसं प्रदुष्टं जनयेद्धि शोथम् २२
अवेदनं स्निग्धमनन्य वर्णमपाकमश्मोपममप्रचाल्यम्
प्रदुष्टमांसस्य नरस्य गाढमेतद्भवेन्मांसपरायणस्य २३
मांसार्बुदं त्वेतदसाध्यमुक्तं साध्येष्वपीमानि तु वर्जयेच्च
संप्रस्रुतं मर्मणि यच्च जातं स्रोतःसु वा यच्च भवेदचाल्यम् २४
यज्जायतेऽन्यत् खलु पूर्वजाते ज्ञेयं तदध्यर्बुदमर्बुदज्ञैः
यद् द्वन्द्वजातं युगपत् क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् २५
न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु
दोषस्थिरत्वाद् ग्रथनाच्च तेषां सर्वार्वुदान्येव निसर्गतस्तु २६

श्लीपदनिदानम्[सम्पाद्यताम्]

अथ श्लीपदनिदानम्
यः सज्वरो वङ्क्षणजो भृशार्तिः शोथो नृणां पादगतः क्रमेण
तच्छ्लीपदं स्यात् करकर्णनेत्रशिश्नौष्ठनासास्वपि केचिदाहुः १
वातजं कृष्णरूक्षं च स्फुटितं तीव्रवेदनम्
अनिमित्तरुजं तस्य बहुशो ज्वर एव च २
पित्तजं पीतसङ्काशं दाहज्वरयुतं मृदु
श्लैष्मिकं स्निग्धवर्णं च श्वेतं पाण्डु गुरु स्थिरम् ३
वल्मीकमिव संजातं कण्टकैरुपचीयते
अब्दात्मकं महत्तच्च वर्जनीयं विशेषतः ४
त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात्
गुरुत्वं च महत्वं च यस्मान्नास्ति कफं विना ५
पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः
ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ६
यच्छ्लेष्मलाहारविहारजातं पुंसः प्रकृत्याऽपि कफात्मकस्य
सास्रावमत्युन्नतसर्वलिङ्गं सकण्डुरं श्लेष्मयुतं विवर्ज्यम् ७

विद्रधिनिदानम्[सम्पाद्यताम्]

अथ विद्रधिनिदानम्
त्वग्रक्तमांसमेदासि संदूष्यास्थिसमाश्रिताः
दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् १
महामूलं रुजावन्तं वृत्तं वाऽप्यथवाऽयतम्
स विद्र धिरिति ख्यातो विज्ञेयः षड्विधश्च सः २
पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा
षण्णामपि हि तेषां तु लक्षणं संप्रवक्ष्यते ३
कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः
चित्रोत्थानप्रपाकश्च विद्र धिर्वातसंभवः ४
पक्वोदुम्बरसंकाशः श्यावो वा ज्वरदाहवान्
क्षिप्रोत्थानप्रपाकश्च विद्र धिः पित्तसंभवः ५
शरावसदृशः पाण्डुः शीतः स्निग्धोऽल्पवेदनः
चिरोत्थानप्रपाकश्च विद्र धिः कफसंभवः ६
तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः
नानावर्णरुजास्रावो घाटालो विषमो महान् ७
विषमं पच्यते चापि विद्र धिः सान्निपातिकः
तैस्तैर्भावैरभिहते क्षते वाऽपथ्यकारिणः ८
क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत्
ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ९
आगन्तुर्विद्र धिर्ह्येष पित्तविद्र धिलक्षणः
कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाकरः १०
पित्तविद्र धिलिङ्गस्तु रक्तविद्र धिरुच्यते
पृथक् संभूय वा दोषाः कुपिता गुल्मरूपिणम् ११
वल्मीकवत् समुन्नद्धमन्तः कुर्वन्ति विद्र धिम्
गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा १२
वृक्कयोः प्लीह्नि यकृति हृदि वा क्लोम्नि वाऽप्यथ
तेषामुक्तानि लिङ्गानि वाह्य विद्र धि लक्षणैः १३
अधिष्ठानविशेषेण लिङ्गंशृणुविशेषतः
गुदे वातनिरोधश्च बस्तौ कृच्छ्राल्पमूत्रता १४
नाभ्यां हिक्का तथाऽटोपः कुक्षौ मारुतकोपनम्
कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्र धौ १५
वृक्कयोः पार्श्वसंकोचः प्लीह्न्युच्छ्वासावरोधनम्
सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते
श्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः १६
नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः
अधः स्रुतेषु जीवेत्तु स्रुतेषूर्ध्वं न जीवति १७
हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः
जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन १८
साध्या विद्र धयः पञ्च विवर्ज्यः सान्निपातिकः
आमपक्वविदग्धत्वं तेषां शोथवदादिशेत् १९
आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृषान्वितम्
रुजाश्वाससमायुक्तं विद्र धिर्नाशयेन्नरम् २०

व्रणशोथनिदानम्[सम्पाद्यताम्]

अथ व्रणशोथनिदानम्
एकदेशोत्थितः शोथो व्रणानां पूर्वलक्षणम्
षड्विधः स्यात् पृथक्सर्वरक्तागन्तुनिमित्तजः १
शोथाः षडेते विज्ञेयाः प्रागुक्तैः शोथलक्षणैः
विशेषः कथ्यते चैषां पक्वापक्वादिनिश्चये २
विषमं पच्यते वातात् पित्तोत्थश्चाचिराच्चिरम्
कफजः पित्तवच्छोथो रक्तागन्तुसमुद्भवः ३
मन्दोष्मताऽल्पशोथत्वं काठिन्यं त्वक्सवर्णता
मन्दवेदनता चैतच्छोथानामामलक्षणम् ४
दह्यते दहनेनेव क्षारेणेव च पच्यते
पिपीलिकागणेनेव दश्यते छिद्यते तथा ५
भिद्यते चैव शस्त्रेण दण्डेनेव च ताड्यते
पीड्यते पाणिनेवान्तः सूचिभिरिव तुद्यते ६
सोषाचोषो विवर्णः स्यादङ्गुल्येवावघट्यते
आसने शयने स्थाने शान्तिं वृश्चिकविद्धवत् ७
न गच्छेदाततः शोथो भवेदाध्मातबस्तिवत्
ज्वरस्तृष्णाऽरुचिश्चैव पच्यमानस्य लक्षणम् ८
वेदनोपशमः शोथोऽलोहितोऽल्पो न चोन्नतः
प्रादुर्भावो वलीनां च तोदः कण्डूर्मुहुर्मुहुः ९
उपद्र वाणां प्रशमो निम्नता स्फुटनं त्वचाम्
वस्ताविवाम्बुसंचारः स्याच्छोथेऽङ्गुलिपीडिते १०
पूयस्य पीडयत्येकमन्तमन्ते च पीडिते
भक्ताकाङ्क्षा भवेच्चैतच्छोथानां पक्वलक्षणम् ११
नर्तेऽनिलाद्रुङ्न विना च पित्तं पाकः कफं चापि विना न पूयः
तस्माद्धि सर्वान् परिपाककाले पचन्ति शोथांस्त्रय एव दोषाः १२
कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः सन्दहति प्रसह्य
तथैव पूयो ह्यविनिःसृता हि मांसं सिराः स्नायु च खादतीह १३
आमं विदह्यमानं च सम्यक् पक्वं च यो भिषक्
जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः १४
यश्छिनत्त्याममज्ञानाद्यो वा पक्वमुपेक्षते
श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ १५

शारीरव्रणनिदाम्[सम्पाद्यताम्]

अथ शारीरव्रणनिदाम्
द्विधा व्रणः स विज्ञेयः शारीरागन्तुभेदतः
दोषैराद्यस्तयोरन्यः शस्त्रादिक्षतसंभवः १
स्तब्धः कठिनसंस्पर्शो मन्दस्रावो महारुजः
तद्यते स्फुरति श्यावो व्रणो मारुतसंभवः २
तृष्णामोहज्वरक्लेद दाहदुष्ट्यवदारणैः
व्रणं पित्तकृतं विद्याद्गन्धैः स्रावैश्च पूतिकैः ३
बहुपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः
पाण्डुवर्णोऽल्पसंक्लेदश्चिरपाकी कफव्रणः ४
रक्तो रक्तस्रुती रक्तात् द्वित्रिजः स्यत्तदन्वयैः
त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्र वः ५
धीमतोऽभिनवः काले सुखे साध्वः सुखं व्रणः
गुणैरन्यतमैर्हीनस्ततः कृच्छ्रो ब्रणः स्मृतः ६
सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो भूर्युपद्र वः
पूतिः पूयातिदुष्टासृक्स्राव्युत्सङ्गो चिरस्थितिः ७
दुष्टो व्रणोऽतिगन्धादिः शुद्धलिङ्गविपर्ययः
जिह्वातलाभोऽतिमृदुः श्लक्ष्णः स्निग्धोऽल्पवेदनः ८
सुव्यवस्थो निरास्रावः शुद्धो व्रण इति स्मृतः
कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः ९
स्थिराश्च पिडकावन्तो रोहतीति तमादिशेत्
रुढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम् १०
त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत्
कुष्ठिनां विषयुष्टानां शोषिणां मधुमेहिनाम् ११
व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः
वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत् १२
आगन्तुजो व्रणः सिद्ध्येन्न सिद्ध्येद्दोषसंभवः
मद्यागुर्वाज्यसुमनः पद्मचन्दनचम्पकैः १३
सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः
ये च मर्मस्वसंभूता भवन्त्यत्यर्थवेदनाः १४
दह्यन्ते चान्तरत्यर्थं बहिः शीताश्च ये व्रणाः
दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः १५
प्राणमांसक्षयश्वासकासा रोचकपीडिताः
प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु १६
क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः
वर्जयेदपि तान् वैद्यः संरक्षन्नात्मनो यशः १७

सद्योव्रणनिदानम्[सम्पाद्यताम्]

अथ सद्योव्रणनिदानम्
नानाधारमुखैः शस्त्रैर्नानास्थाननिपातितैः
भवन्ति नानाकृतयो व्रणास्तांस्तान्निबोध मे १
छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च
घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् २
तिर्यक् छिन्न ॠजुर्वाऽपि यो व्रणस्त्वायतो भवेत्
गात्रस्य पातनं तच्च छिन्नमित्यभिधीयते ३
शक्तिर्दन्तेषुखड्गाग्रविषाणैराशयो हतः
यत्किंचित् प्रस्रवेत्तद्धि भिन्नलक्षणमुच्यते ४
स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च
हृदुण्डुकः फुफ्फुसश्च कोष्ठ इत्यभिधीयते ५
तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते
मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति ६
मूर्च्छाश्वासस्तृषाऽध्मानमभक्तच्छन्द एव च
विण्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता ७
लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च
हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र मे शृणु ८
आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि
आध्मानमतिमात्रं च शूलं च भृशदारुणम् ९
पक्वाशयगते चापि रुजा गौरवमेव च
अधः काये विशेषेण शीतता च भवेदिह १०
सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयं विना
उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत् ११
नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम्
विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिधीयते १२
प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम्
सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम् १३
घर्षणादभिघाताद्वा यदङ्गं विगतत्वचम्
उषास्रावान्वितं तच्च घृष्टमित्यभिधीयते १४
श्यावंसशोथं पिडकाचितं चमुहुर्मुहुः शोणितवाहिनं च
मृदूद्गतं बुद्वुदतुल्यमांसं व्रणं सशल्यं सरुजं वदन्ति १५
त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा
कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्र वान् १६
तत्रान्तर्लोहितं पाण्डुशीतपादकराननम्
शीतोच्छासं रक्तनेत्रमानद्धं च विवर्जयेत् १७
भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं ग्लानिरथोष्णता च
स्नस्ताङ्गता मूर्च्छनमूर्ध्ववातस्तीव्रा रुजो वातकृताश्च तास्ताः १८
मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रि यार्थोपरमस्तथैव
दशार्धसंख्येष्वथ विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् १९
सुरेन्द्र गोपप्रतिमं प्रभूतं रक्तं स्रवेत्तत्क्षतजश्च वायुः
करोति रोगान्विविधान्यथोक्तान् सिरासु विद्धास्वथ वा क्षतासु २०
कौब्ज्यं शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला रुजश्च
चिराद् व्रणो रोहति यस्य चापि तं स्नायुविद्धं पुरुषं व्यवस्येत् २१
शोथाभिवृद्धिस्तुमुला रुजश्च बलक्षयः सर्वत एव शोथः
क्षतेषु सन्धिष्वचलाचलेषु स्यात् सर्वकर्मोपरमश्च लिङ्गम् २२
घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु च नैति शान्तिम्
भिषग्विपश्चिद्विदितार्थसूत्रस्तमस्थिविद्धं पुरुषं वयवस्येत् २३
यथास्वमेतानि विभावयेच्च लिङ्गानि मर्मस्वभिताडितेषु
पाण्डुर्विवर्णः स्पृशति न वेत्ति यो मांसमर्मण्यभिपीडितः स्यात् २४
विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः
मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः २५
कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः
षोडशोपद्र वाः प्रोक्ता व्रणानां व्रणचिन्तकैः २६

भग्ननिदानम्[सम्पाद्यताम्]

अथ भग्ननिदानम्
भग्नं समासाद् द्विविधं हुताश काण्डे च सन्धौ च हि तत्र सन्धौ
उत्पिष्टविश्लिष्टविवर्तितं च तिर्यग्गतं क्षिप्तमधश्च षट् च १
प्रसारणाकुञ्चनवर्तनोग्रा रुक् स्पर्शविद्वेषणमेतदुक्तम्
सामान्यतः सन्धिगतस्य लिङ्गम् उत्पिष्टसन्धेः श्वयथुः समन्तात् २
विशेषतो रात्रिभवा रुजा च विश्लिष्टजे तौ च रुजा च नित्यम्
विवर्तिते पार्श्वरुजश्च तीव्रास्तिर्यग्गते तीव्ररुजो भवन्ति ३
काण्डे त्वतः कर्कटकाश्वकर्णविचूर्णितं पिच्चितमस्थिछल्लिका ४
काण्डेषु भग्नं ह्यतिपातितं च मज्जागतं च स्फुटितं च वक्रम्
छिन्नं द्विधा द्वादशधाऽपि काण्डे स्रस्ताङ्गता शोथरुजाऽतिवृद्धिः ५
सम्पीड्यमाने भवतीह शब्दः स्पर्शासहं स्पन्दनतोदशूलाः
सर्वास्ववस्थासु न शर्मलाभो भग्नस्य काण्डे खलु चिह्नमेतत् ६
भग्नं तु काण्डे बहुधा प्रयाति समासतो नामभिरेव तुल्यम् ७
अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च
उपद्र वैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिद्ध्यति ८
भिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम्
जघनं प्रतिपिष्टं च वर्जयेद्धि विचक्षणः ९
असंश्लिष्टकपालं च ललाटे चूर्णितं च यत्
भग्नं स्तनान्तरे पृष्ठे शङ्खे मूर्ध्नि च वर्जयेत् १०
सम्यक् सन्धितमप्यस्थि दुर्निक्षेपनिबन्धनात्
संक्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेत् ११
तरुणास्थीनि नम्यन्ते भिद्यन्ते नलकानि च
कपालानि विभज्यन्ते स्फुटन्ति रुचकानि च १२

नाडीव्रणनिदानम्[सम्पाद्यताम्]

अथ नाडीव्रणनिदानम्
यः शोथमाम मतिपक्कमुपेक्षतेऽज्ञो
यो वा व्रणं प्रचुरपूयमसाधुवृत्तः
अभ्यन्तरं प्रविशति प्रविदार्य तस्य
स्थानानि पूर्वविहितानि ततः स पूयः १
तस्यातिमात्र गमनाद्गतिरिष्यते तु
नाडीव यद्वहति तेन मता तु नाडी
दोषैस्त्रिभिर्भवति सा पृथगेकशश्च
संमूर्च्छितैरपि च शल्यनिमित्ततोऽन्या २
तत्रानिलात् परुषसूक्ष्ममुखी सशूला
फेनानुविद्धमधिकं स्रवति क्षपासु
पित्तात्तृषाज्वरकरी परिदाहयुक्ता
पीतं स्रवत्यधिकमुष्णमहःसुचापि ३
ज्ञेया कफाद्वहुघनार्जुनपिच्छिलास्रा
स्तब्धा सकण्डुररुजा रजनीप्रवृद्धा
दाहज्वरश्वसन मूर्च्छनवक्त्रशोषा
यस्यां भवन्त्यभिहितानि च लक्षणानि ४
तमादिशेत् पवनपित्तकफप्रकोपाद्-
घोरामसुक्षयकरीमिव कालरात्रिम्
नष्टं कथंचिदनु मार्गमुदीरितेषु
स्थानेषु शल्यमचिरेण गतिं करोति ५
साफेनिलं मथितमुष्णमसृग्विमिश्रं
स्रावं करोति सहसा सरुजा च नित्यम्
नाडी त्रिदोषप्रभवा न सिध्ये-
च्छेषाश्चतस्रः खलु यत्नसाध्याः ६

भगन्दरनिदानम्[सम्पाद्यताम्]

अथ भगन्दरनिदानम्
गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकाऽतिकृत्
भिन्ना भगन्दरो ज्ञेयः स च पञ्चविधो मतः १
कषायरूक्षैस्त्वतिकोपितोऽनिलस्त्वपानदेशे पिडकां करोति याम्
उपेक्षणात् पाकमुपैति दारुणं रुजा च भिन्नाऽरुणफेनवाहिनी २
तत्रागमो मूत्रपुरीषरेतसांव्रणैरनेकैः शतपोनकं वदेत्
प्रकोपणैः पित्तमतिप्रकोपितंकरोक्ति रक्तां पिडकां गुदाश्रिताम् ३
तदाऽशुपाकाहिमपूतिवाहिनीं भगन्दरं उष्ट्रशिरोधरं वदेत् ४
कण्डूयनो घनस्रावी कठिनो मन्दवेदनः
श्वेतावभासः कफजः परिस्रावी भगन्दरः ५
बहुवर्णरुजास्रावा पिडका गोस्तनोपमा
शम्बूकावर्तवन्नाडी शम्बूकावर्तको मतः ६
क्षताद्गतिः पायुगता विवर्धतेह्यपेक्षणात् स्युः क्रिमयो विदार्य ते
प्रकुर्वते मार्गमनेकधा मुखैव्रणैस्तदुन्मार्गि भगन्दरं वदेत् ७
घोराः साधयितुं दुःखाः सर्व एव भगन्दराः
तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च विशेषतः ८
वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च
भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम् ९

उपदंशनिदानम्[सम्पाद्यताम्]

अथोपदंशनिदानम्
हस्ताभिघातान्नखदन्त पातादधा वनाद्र त्यतिसेवनाद्वा
योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधोपचारैः १
सतोदभेदैः स्फुरणैः सकृष्णैः स्फोटैर्व्यवस्येत् पवनोपदंशम्
पीतैर्वहुक्लेदयुतैः सदाहैः पित्तेन रक्तात् पिशितावभासैः २
स्फोटैः सकृष्णै रुधिरं स्रवन्तं रक्तात्मकं पित्तसमानलिङ्गम्
सकण्डुरैः शोथयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेन ३
नानाविधस्रावरुजोपपन्नम साध्यमाहुस्त्रिमलोपदंशम्
विशीर्णमांसं कृमिभिः प्रजग्धं मुष्कावशेषं परिवर्जयेच्च ४
संजातमात्रे न करोति मूढः क्रियां नरो यो विषये प्रसक्तः
कालेन शोथक्रिमिदाहपाकैर्विशीर्णशिश्नो म्रियते स तेन ५
अङ्कुरैरिव सङ्घातैरुपर्युपरि संस्थितैः
क्रमेण जायते वर्तिस्ताम्रचूडशिखोपमा ६
कोषस्याभ्यन्तरे सन्धौ सर्वसन्धिगताऽपि वा
सवेदना पिच्छिला च दुश्चिकित्स्या त्रिदोषजा
लिङ्गवर्तिरभिख्याता लिङ्गार्श इति चापरे ७

शूकदोषनिदानम्[सम्पाद्यताम्]

अथ शूकदोषनिदानम्
अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः
व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः १
गौरसर्षपसंस्थाना शूकदुर्भुग्नहेतुका
पिडका श्लेष्मवाताभ्यां ज्ञेया सर्षपिका तु सा २
कठिना विषमैर्भुग्नैर्वायुनाऽष्ठीलिका भवेत्
शूकैर्यत् पूरितं शश्वद् ग्रथितं नाम तत् कफात् ३
कुम्भिका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुभा
तुल्यजां त्वलजीं विद्याद्यथाप्रोक्तां विचक्षणः ४
नृदितं पीडितं यच्च संरब्धं वातकोपतः
पाणिभ्यां भृशसंमूढे संमूढपिडका भवेत् ५
दीर्घा बह्व्यश्च पिडका दीर्यन्ते मध्यतस्तु याः
सोऽधिमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत् ६
पिडका पिडकाव्याप्ता पित्तशोणितसंभवा
पद्मकर्णिकसंस्थाना ज्ञेया पुष्करिका तु सा ७
स्पर्शहानिं तु जनयेच्छोणितं शूकदूषितम्
मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा तु या ८
व्याधिरेषोत्तमा नाम शूकाजीर्णनिमित्तजा
छिद्रै रणुमुखैर्लिङ्गं चितं यस्य समन्ततः ९
वातशोणितजो व्याधिः स ज्ञेयः शतपोनकः
वातपित्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहकृत् १०
कृष्णैः स्फोटैः सरक्ताभिः पिडकाभिर्निपीडितम्
यस्य वास्तुरुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् ११
मांसदोषेण जानीयादर्बुदं मांससंभवम्
शीर्यन्ते यस्य मांसानि यस्य सर्वाश्च वेदनाः १२
विद्यात्तं मांसपाकं तु सर्वदोषकृतं भिषक्
विद्र धिं सन्निपातेन यथोक्तमिति निर्दिशेत् १३
कृष्णानि चित्राण्यथवा शूकानि सविषाणि वा
पातितानि पचन्त्याशु मेढ्रं निरवशेषतः १४
कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः
सन्निपातसमुत्थांस्तु तान् विद्यात्तिलकालकान् १५
तत्र मांसार्बुदं यच्च मांसपाकश्च यः स्मृतः
विद्र धिश्च न सिद्ध्यन्ति ये च स्युस्तिकालकाः १६

कुष्ठनिदानम्[सम्पाद्यताम्]

अथ कुष्ठनिदानम्
विरोधीन्यन्नपानानि द्र वस्निग्धगुरूणि च
भजतामागतां छर्दिं वेगाश्चान्यान् प्रतिघ्नताम् १
व्यायाममतिसन्तापमतिभुक्त्वा निषेविणाम्
घर्मश्रमभयार्तानां युतं शीताम्वु सेविनाम् २
अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम्
नवान्न दधि मत्स्यातिलवणाम्ल निषेविणाम् ३
माषमूलकपिष्टान्नतिलक्षीर गुडाशिनाम्
व्यवायं चाप्यजीर्णेन्ने निद्रा ं! च भजतां दिवा ४
विप्रान् गुरून् धर्षयतां पापं कर्म च कुर्वताम्
वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च ५
दूषयन्ति स कुष्ठानां सप्तको द्र व्यसंग्रहः
अतः कुष्ठानि जायन्ते सप्त चैकादशैव च ६
कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः ७
अतिश्लक्ष्णखरस्पर्श स्वेदास्वेदविवर्णताः
दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिर्भ्रमः ८
व्रणानामधिकं मूलं शीघ्रोत्पत्तिश्चिरस्थितिः
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपिकोपनम् ९
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्
कृष्णारुणकपालाभं यद्रू क्षं परुषं तनु १०
कापालं तोदबहुलं तत् कुष्ठं विषमं स्मृतम्
रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् ११
उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत्
श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम् १२
कृच्छ्रमन्योन्यसंयुक्तं कुष्ठं मण्डलमुच्यते
कर्कशं रक्तपर्यन्तमन्तःश्याव सवेदनम् १३
यदृष्यजिह्वसंस्थानमृष्यजिह्वं यदुच्यते
सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम् १४
सोत्सेधं च सरागं च पुण्डरीकं तदुच्यते
श्वेतं ताम्रं तनु च यद्र जो घृष्टं विमुञ्चति १५
प्रायश्चोरसि तत् सिध्ममलावुकुसुमोपमम्
यत्काकणन्तिकावर्णं सपाकं तीव्रवेदनम् १६
त्रिदोषलिङ्गं तत्कुष्ठं काकणं नैव सिध्यति
अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम् १७
यदेककुष्ठं चर्माख्यं बहलं हस्तिचर्मवत्
श्यावं किणखरस्पर्शं परुषं किटिभं स्मृतम् १८
वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्
कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम् १९
सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम्
रक्तं सशूलं कण्डूमत् सस्फोटं यद्गलत्यपि
तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते २०
सूक्ष्मा वह्व्यः पिडकः स्राववत्यः
पामेत्युक्ताः कण्डुमत्यः सदाहाः
सैव स्फोटैस्ती व्रदाहैरुपेता
ज्ञेया पाण्योः कच्छुरुग्रा स्फिचोश्च २१
स्फोटाः श्यावरुणाभासा विस्फोटाः स्युस्तनुत्वचः
रक्तं श्यावं सदाहार्ति शतारुः स्याद्वहुव्रणम् २२
सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका
खरं श्यावारुणं रुक्षं वातात् कुष्ठं सवेदनम् २३
पित्तात् प्रक्वथितं दाहरागस्रावान्वितं मतम्
कफात् क्लेदि घनं स्निग्धं सकण्डूशैत्यगौरवम् २४
द्विलिङ्गं द्वन्द्वजंकुष्ठं त्रिलिङ्गं सान्निपातिकम्
त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यं च जायते २५
त्वक्स्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्तनम्
कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते २६
बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः
तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते २७
कौण्यं गतिक्षयोऽङ्गानां संभेदः क्षतसर्पणम्
भेदः स्थानगते लिङ्गं प्रागुक्तानि तथैव च २८
नासाभङ्गोऽक्षिरागश्च क्षतेषु क्रिमिसंभवः
स्वरोपघातश्च भवेदस्थिमज्जसमाश्रिते २९
दम्पत्योः कुष्ठबाहुल्याद् दुष्टशोणितशुक्रयोः
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ३०
साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकं च यत्
मेदसि द्वन्द्वजं याप्यं वर्ज्यं मज्जास्थिसंश्रितम् ३१
क्रिमितृड्दाहमन्दाग्निसंयुक्तं यत्त्रिदोषजम्
प्रभिन्नं प्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम् ३२
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह मानवम्
वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात् ३३
मण्डलाख्यं विचर्ची च ॠष्याख्यं वातपित्तजम्
चर्मैककुष्ठं किटिभं सिध्मालसविपादिकाः ३४
वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रुशतारुषी
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा ३५
सर्वैः स्यात्काकणं पूर्वत्रिकं दद्रु सकाकणम्
पुण्डरीकर्ष्यजिह्वे च महाकुष्ठानि सप्त तु ३६
कुष्ठैकसम्भवं श्वित्रं किलासं वारुणं भवेत्
निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ३७
वाताद्रू क्षारुणं पित्तात्ताम्रं कमलपत्रवत्
सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु ३८
सकण्डुरं क्रमाद्र क्तमांसमेदःसु चादिशेत्
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ३९
अशुक्लरोमाऽबहुलमसंश्लिष्टमथो नवम्
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ४०
गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्
वर्जनीयं विशेषेण किलासं सिद्धिमिच्छता ४१
प्रसङ्गाद्गात्रसंस्पर्शान्निःश्वासात् सहभोजनात्
एकशय्यासनाच्चैव वस्त्रमाल्यानुलेपनात् ४२
कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च
औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम् ४३

शीतपित्तोदर्दकोठनिदानम्[सम्पाद्यताम्]

अथ शीतपित्तोदर्दकोठनिदानम्
शीतमारुतसंस्पर्शात्प्रदुष्टौ कफमारुतौ
पित्तेनसह सम्भूय बहिरन्तर्विसर्पतः १
पिपासाऽरुचिहृल्लासदेहसादाङ्गगौरवम्
रक्तलोचनता तेषांपूर्वरूपस्य लक्षणम् २
वरटीदष्टसंस्थानः शोथः संजायते बहिः
सकण्डूस्तोदबहुलश्छर्दिज्वरविदाहवान् ३
उदर्दमिति तं विद्याच्छीतपित्तमथापरे
वाताधिकं शीतपित्तमुदर्दस्तु कफाधिकः ४
सोत्सङ्गैश्च सरागैश्च कण्डूमद्भिश्च मण्डलैः
शैशिरः कफजो व्याधिरुदर्द इति कीर्तितः ५
असम्यग्वमनोदीर्ण पित्तश्लेष्मान्ननिग्रहैः
मण्डलानि सकण्डूनि रागवन्ति बहूनि च
उत्कोठः सानुबन्धश्च कोठ इत्यभिधीयते ६

अम्लपित्तनिदानम्[सम्पाद्यताम्]

अथाम्लपित्तनिदानम्
विरुद्धदुष्टाम्लविदाहिपित्तप्रकोपिपानान्नभुजो विदग्धम्
पित्तं स्वहेतूपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्तः १
अविपाकक्लमोत्क्ले शतिक्ताम्लोद्गारगौरवैः
हृत्कण्ठदाहारुचिभिश्चाम्लपित्तं वदेद्भिषक् २
तृड्दाहमूर्च्छाभ्रममोहकारि प्रयात्यधो वा विविधप्रकारम्
हृल्लासकोठानलसादहर्षस्वेदाङ्गपीतत्वकरं कदाचित् ३
वान्तं हरित्पीतकनीलकृष्णमारक्तरक्ताभमतीव चाम्लम्
मांसोदकाभं त्वतिपिच्छिलाच्छं श्लेष्मानुजातं विविधं रसेन ४
भुक्ते विदग्धे त्वथवाऽप्यभुक्ते करोति तिक्ताम्लवमिं कदाचित्
उद्गारमेवंविधमेव कण्ठहृत्कुक्षिदाहं शिरसो रुजं च ५
करचरणदाहमौष्ण्यं महतीमरुचिं ज्वरं च कफपित्तम्
जनयति कण्डूमण्डलपिण्डकाशतनिचितगात्ररोगचयम् ६
रोगोऽयमम्लपित्ताख्यो यत्नात् संसाध्यते नवः
चिरोत्थितो भवेद्याप्यः कृच्छ्रसाध्यः स कस्यचित् ७
सानिलं सानिलकफं सकफं तच्च लक्षयेत्
दोषलिङ्गेन मतिमान् भिषङ्मोहकरं हि तत् ८
कम्पप्रलापमूर्च्छाचिमिगात्रावसादशूलानि
तमसो दर्शनविभ्रमविमोहहर्षाण्यनिलकोपात् ९
कफनिष्ठीवनगौरवजडतारुचिशीतसादवमिलेपाः
दहनबलसादकण्डूनिद्रा श्चिह्नं कफानुगते १०
उभयमिदमेव चिह्नं मारुतकफसंभवे भवत्यम्ले
तिक्ताम्लकटुकोद्गारहृत्कुक्षिकण्ठदाहकृत् ११
भ्रमो मूर्च्छारुचिश्छर्दिरालस्यं च शिरोरुजा
प्रसेको मुखमाधुर्यं श्लेष्मपित्तस्य लक्षणम् १२

विसर्पनिदानम्[सम्पाद्यताम्]

अथ विसर्पनिदानम्
लवणाम्लकटूष्णादि संसेवादोषकोपतः
विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् १
पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः
वातिकः पैत्तिकश्चैव कफजः सन्निपातिकः २
चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः
आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः ३
यस्तु कर्दमको घोरः स पित्तकफसंभवः
रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः ४
विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः
तत्र वातात् स वीसर्पो वातज्वरसमव्यथः ५
शोथस्फुरणनिस्तोद भेदायासार्तिहर्षवान्
पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ६
कफात् कण्डूयुतः स्निग्धः कफज्वरसमानरुक्
सन्निपातसमुत्थश्च सर्वलिङ्गसमन्वितः ७
वातपित्ताज्ज्वरच्छर्दि मूर्च्छातीसारतृड्भ्रमैः
ग्रन्थिभेदाग्नि सदनतमकारोचकैर्युतः ८
करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत्
यं यं देशं विसर्पश्च विसर्पति भवेत् स सः ९
शान्ताङ्गारासितो नीलो रक्तो वाऽशु च चीयते
अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद् द्रुतं च सः १०
मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः
व्यथतेऽङ्ग हरेत्संज्ञां निद्रा ं! च श्वासमीरयेत् ११
हिक्कां च स गतोऽवस्थामीदृशीं लभते न ना
क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु १२
चेष्टमानस्ततः क्लिष्टो मनोदेहप्रमोहवान्
दुस्प्रबोधोऽश्नुते निद्रा ं! सोऽग्निवीसर्प उच्यते १३
कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम्
रक्तं वा बृद्धरक्तस्य त्वक्सिरास्नायुमांसगम् १४
दूषयित्वा तु दीर्घाणुवृत्तस्थूलखरात्मनाम्
ग्रन्थीनां कुरुते मालां सरक्तां तीव्ररुग्ज्वराम् १५
श्वासकासातिसारास्य शोषहिक्कावमिभ्रमैः
मोहवैवर्ण्यमूर्च्छाङ्ग भङ्गाग्निसदनैर्युताम् १६
इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः
कफपित्ताज्ज्वरः स्तम्भो निद्रा तन्द्रा शिरोरुजा १७
अङ्गावसादविक्षेपौ प्रलेपारोचकभ्रमाः
मूर्च्छाग्निहानिर्भेदोऽस्थ्ना पिपासेन्द्रि यगौरवम् १८
आमोपवेशनं लेपः स्रोतसां स च सर्पति
प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक् १९
पिडकैरवकीर्णोऽतिपीत लोहितपाण्डुरैः
स्निग्धोऽसितो मेचकाभो मलिनः शोथवान् गुरुः २०
गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते
पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः २१
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम्
बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन् २२
वीसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम्
स्फोटैः शोथज्वररुजादाहाढ्यं श्यावशोणितम् २३
ज्वरातिसारौ वमथुस्त्वङ्मांसदरणं क्लमः
अरोचकाविपाकौ च विसर्पाणामुपद्र वाः २४
सिध्मन्ति वातकफपित्तकृता विसर्पाः
सर्वात्मकः क्षतकृतश्च न सिद्धिमेति
पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः
कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव २५

विस्फोटनिदानम्[सम्पाद्यताम्]

अथ विस्फोटनिदानम्
कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्षारैरजीर्णाध्यशनातपैश्च
तथर्तुदोषेण विपर्ययेण कुप्यन्ति दोषाः पवनादयस्तु १
त्वचमाश्रित्य ते रक्तमांसास्थीनि प्रदूष्य च
घोरान् कुर्वन्ति विस्फोटान् सर्वान् ज्वरपुरःसरान् २
अग्निदग्धनिभाः स्फोटाः सज्वरा रक्तपित्तजाः
क्कचित् सर्वत्र वा देहे विस्फोटा इति ते स्मृताः ३
शिरोरुक्शूलभूयिष्ठं ज्वरस्तृट् पर्वभेदनम्
सकृष्णवर्णता चेति वातविस्फोटलक्षणम् ४
ज्वरदाहरुजास्रावपाक तृष्णाभिरन्वितम्
पीतलोहितवर्णं च पित्तविस्फोटलक्षणम् ५
छर्द्यरोचकजाड्यानि कण्डूकाठिन्यपाण्डुताः
अवेदनश्चिरात् पाकी स विस्फोटः कफात्मकः ६
वातपित्तकृतो यस्तु कुरुते तीव्रवेदनाम्
कण्डूस्तैमित्यगुरुभिर्जानीयात् कफवातिकम् ७
कण्डूर्दाहो ज्वरश्छर्दिरेतैस्तु कफपैत्तिकः
मध्ये निम्नोन्नतोऽन्ते च कठिनोऽल्पप्रपाकवान् ८
दाहरागतृषामोहच्छर्दि मूर्च्छारुजाज्वराः
प्रलापो वेपथुस्तन्द्रा सोऽसाध्यः स्यात् त्रिदोषजः ९
रक्ता रक्तसमुत्थाना गुञ्जाविद्रुमसन्निभाः
वेदितव्यास्तु रक्तेन पैत्तिकेन च हेतुना १०
न ते सिद्धिं समायान्ति सिद्धैर्योगशतैरपि
एकदोषोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः
सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्र वः ११

मसूरिकानिदानम्[सम्पाद्यताम्]

अथ मसूरिकानिदानम्
कट्वम्ललवण क्षारविरुद्धाध्यशनाशनैः
दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः १
क्रूरग्रहेक्षणाच्चापि देशे दोषाः समुद्धताः
जनयन्ति शरीरेऽस्मिन् दुष्टरक्तेन सङ्गताः २
मसूराकृतिसंस्थानाः पिडकाः स्युर्मसूरिकाः
तासां पूर्वं ज्वरः कण्डूर्गात्रभङ्गोऽरतिर्भ्रमः ३
त्वचि शोथः सवैवर्ण्यो नेत्ररागश्च जायते
स्फोटाः श्यावारुणा रूक्षास्तीव्रवेदनयाऽन्विताः ४
कठिनाश्चिरपाकाश्च भवन्त्यनिलसंभवाः
सन्ध्यस्थिपर्वणां भेदः कासः कम्पोऽरति क्लमः ५
शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता
रक्ताः पीतसिताः स्फोटाः सदाहास्तीव्रवेदनाः ६
भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः
विड्भेदश्चाङ्गमर्दश्च दाहस्तृष्णाऽरुचिस्तथा ७
मुखपाकोऽक्षिरागश्च ज्वरस्तीव्रः सुदारुणः
रक्तजायां भवन्त्येते विकाराः पित्तलक्षणाः ८
कफप्रसेकः स्तैमित्यं शिरोरुगात्रगौरवम्
हृल्लासः सारुचिर्निद्रा तन्द्रा लस्यसमन्विताः ९
श्वेताः स्निग्धाः भृशं स्थूलाः कण्डूबरा मन्दवेदनाः
मसूरिकाः कफोत्थाश्च चिरपाकाः प्रकीर्तिताः १०
नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजः
चिरपाकाः पूतिस्रावाः प्रभूताः सर्वदोषजाः ११
कण्ठरोधारुचिस्तम्भ प्रलापारतिसंयुताः
दुश्चिकित्स्याः समुद्दिष्टाः पिडकाश्चर्मसंज्ञिताः १२
रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः
कासारोचकसंयुक्ता रोमान्त्यो ज्वरपूर्विकाः १३
तोयबुद्वुदसङ्काशास्त्वग्गतास्तु मसूरिकाः
स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च १४
रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः
साध्या नात्यर्थदुष्टाश्च भिन्ना रक्तं स्रवन्ति च १५
मांसस्थाः कठिनाः स्निग्धाश्चिरपाका घनत्वचः
गात्रशूलतृषाकण्डू ज्वरारतिसमन्विताः १६
मेदोजा मण्डलाकारा मृदवः किंचिदुन्नताः
घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः १७
संमोहारतिसंतापाः कश्चिदाभ्यो विनिस्तरेत्
क्षुद्रा गात्रसमा रूक्षाश्चिपिटाः किंचिदुन्नताः १८
मज्जोत्था भृशसंमोहवेदनारतिसंयुताः
छिन्दन्ति मर्मधामानि प्राणानाशु हरन्ति हि १९
भ्रमरेणेव विद्धानि कुर्वन्त्यस्थीनि सर्वतः
पक्वाभाः पिडकाः स्निग्धाः सूक्ष्माश्चात्यर्थवेदनाः २०
स्तैमित्यारति संमोहदाहोन्माद समन्विताः
शुक्रजायां मसूर्यां तु लक्षणानि भवन्ति हि २१
निर्दिष्टं केवलं चिह्नं दृश्यते न तु जीवितम्
दोषमिश्रास्तु सप्तैता द्र ष्टव्या दोषलक्षणैः २२
त्वग्गता रक्तजाश्चैव पित्तजाः लेष्मजास्तथा
श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः २३
वातजा वातपित्तोत्थाः श्लेष्मवातकृताश्च याः
कृच्छ्रसाध्यतमास्तस्माद्यत्नादेता उपाचरेत् २४
असाध्याः सन्निपातोत्थास्तासां वक्ष्यामि लक्षणम्
प्रवालसदृशाः काश्चित् काश्चिज्जम्बूफलोपमाः २५
लोहजालसमाः काश्चिदतसीफलसन्निभाः
आसांबहुविधा वर्णा जायन्ते दोषभेदतः २६
कासो हिक्का प्रमेहश्च ज्वरस्तीव्रः सुदारुणः
प्रलापश्चारतिर्मूर्च्छा तृष्णा दाहोऽतिघूर्णता २७
मुखेन प्रस्रवेद्र क्तं तथा घ्राणेन चक्षुषा
कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थवेदनम् २८
मसूरिकाभिभूतस्य यस्यैतानि भिषग्वरैः
लक्षणानि च दृश्यन्ते न दद्यादत्र भेषजम् २९
मसूरिकाभिभूता यो भृशं घ्राणेन निःश्वसेत्
स भृशं त्यजति प्राणाँ स्तृषार्तो वायुदूषितः ३०
मसूरिकान्ते शोथः स्यात् कूर्परे मणिबन्धके
तथांऽसफलके चापि दुश्चिकित्स्यः सुदारुणः ३१

क्षुद्र रोगनिदाम्[सम्पाद्यताम्]

अथ क्षुद्र रोगनिदाम्
स्निग्धाः सवर्णा ग्रथिता नीरुजो मुद्गसंनिभाः
कफवातोत्थिता ज्ञेया बालानामजगल्लिकाः १
यवाकारा सुकठिना ग्रथिता मांससंश्रिता
पिडका कफवाताभ्यां यवप्रख्येति सोच्यते २
घनामवक्रां पिडकामुन्नतां परिमण्डलाम्
अन्त्रालजीमल्पपूयां तां विद्यात् कफवातजाम् ३
विवृतास्यां महादाहां पक्वोदुम्बरसंनिभाम्
विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ४
ग्रथिताः पञ्च वा षड् वा दारुणाः कच्छपोपमाः
कफानिलाभ्यां पिडका ज्ञेयाः कच्छपिका बुधैः ५
ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः
ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैव गतः प्रवृद्धिम् ६
मुखैरनेकैः स्रुतितोदवद्भिर्विसर्पवत् सर्पति चोन्नताग्रैः
वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात् ७
पद्मकर्णिकवन्मध्ये पिडकाभिः समाचिताम्
इन्द्र विद्धां तु तां विद्याद् वातपित्तोत्थितां भिषक् ८
मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम्
रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम् ९
वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः
स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्दभः १०
कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम्
स्थिरां पनसिकां तां तु विद्याद्वातकफोत्थिताम् ११
विसर्पवत् सर्पति यः शोथस्तनुरपाकवान्
दाहज्वरकरः पित्तात् स ज्ञेयो जालगर्दभः १२
पिडकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम्
सर्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् १३
बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां सवेदनाम्
पित्तप्रकोपसंभूतां कक्षामित्यभिनिर्दिशेत् १४
एकामेतादृशीं दृष्ट्वा पिडकां स्फोटसंनिभाम्
त्वग्गतां पित्तकोपेन गन्धमालां प्रचक्षते १५
कक्षभागेषु ये स्फोटा जायन्ते मांसदारणाः
अन्तर्दाहज्वरकरा दीप्तपावकसंनिभाः १६
सप्ताहाद्वा दशाहाद्वा पक्षाद्वा हन्ति मानवम्
तामग्निरोहिणीं विद्यादसाध्यां सर्वदोषजम् १७
नखमांसमधिष्ठाय वायुः पित्तं च देहिनाम्
कुर्वाते दाहपाकौ च तं व्याधिं चिप्पमादिशेत् १८
तदेवाल्पतरैर्दोषैः पुरुषं कुनखं वदेत् १९
गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम्
वादस्यानुशयीं तां तु विद्यादन्तःप्रपाकिनीम् २०
विदारीकन्दवद् वृत्ताकक्षावङ्क्षणसन्धिषु
विदारिका भवेद्र क्ता सर्वजा सर्वलक्षणा २१
प्राप्य मांससिरास्नायुः श्लेष्मा मेदस्तथाऽनिलः
ग्रन्थिं करोत्यसौ भिन्नो मनुसर्पिर्वसानिभम् २२
स्रवत्यास्रावमनिलस्तत्र वृद्धिं गतः पुनः
मांसं संशोष्य ग्रथितां शर्करां जनयेत्ततः २३
दुर्गन्धि क्लिन्नमत्यर्थं नानावर्णं ततः सिराः
स्रवन्ति रक्तं सहसा तं विद्याच्छर्करार्बुदम् २४
परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः
पादयोः कुरुते दारीं पाददारीं तमादिशेत् २५
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः
ग्रन्थिः कोलवदुत्सन्नो जायते कदरं हि तत् २६
क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ
दुष्टकर्दमसंस्पर्शादलसं तं विभावयेत् २७
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः २८
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसंभवः
तदिन्द्र लुप्तं रवालित्यं रुह्येतिच विभाव्यते २९
दारुणा कण्डुरा रूक्षा केशभूमिः प्रपाट्यते
कफमारुतकोपेन विद्याद्दारुणकं तु तम् ३०
अरूंषि बहुवक्त्राणि वहुक्लेदीनि मूर्घ्नि तु
कफासृक्क्रिमिकोपेन नृणां विद्यादरूंषिकाम् ३१
क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः
पित्तं च केशान् पचति प्रमितं तेन जायते ३२
शाल्मलीकण्टकप्रख्याः कफमारुतरक्तजाः
युवानपिडका यूनां विज्ञेया मुखदूषिकाः ३३
कण्टकैराचितं वृत्तं मण्डलं पाण्डुकण्डुरम्
पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् ३४
सममुत्सन्नमरुजं मण्डलं कफरक्तजम्
सहजं लक्ष्म चैकेषां लक्ष्यो जतुमणिस्तु सः ३५
अवेदनं स्थिरं चैव यस्मिन् गात्रे प्रदृश्यते
माषवत्कृष्णमुत्सन्नमनिलान्मषकं तु तत् ३६
कृष्णानि तिलमात्राणि नीरुजानि समानि च
वातपित्तकफोच्छोषात्तान् विद्यात्तिलकालकान् ३७
महद्वा यदि वा चाल्पं श्याव वा यदि वाऽसितम्
नीरुजं मण्डलं गात्रे न्यच्छमित्यभिधीयते ३८
क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः
मुखमागत्य सहसा मण्डलं विसृजत्यतः ३९
नीरुजं तनुकं श्यावं मुखे व्यंङ्गं तमादिशेत्
कृष्णमेवंगुणं गात्रे मुखे वा नीलिकां विदुः ४०
मर्दनात् पीडनाद्वाऽति तथैवाप्यभिघाततः
मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरन् ४१
तदा वातोपसृष्टत्वात्तच्चर्म परिवर्तते
मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते ४२
सरुजां वातसंभूतां तां विद्यात् परिवर्तिकाम्
सकण्डूः कटिना चापि सैव श्लेष्मसमुत्थिता ४३
अल्पीयःखां यदा हर्षाद्वलाद्गच्छेत् स्त्रियं नरः
हस्ताभिधातादपि वा चर्मण्युद्वर्तिते बलात् ४४
यस्यावपाठ्यते चर्म तां विद्यादवपाटिकाम्
वातोपसृष्टे मेढ्रे वै चर्म संश्रयते मणिम् ४५
मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च
निरुद्धप्रकशे तस्मिन् मन्दधारमवेदनम् ४६
मूत्रं प्रवर्तते जन्तोर्मणिविव्रियते न च
निरुद्धप्रकशं विद्यात् सरुजं वातसंभवम् ४७
वेगसंधारणाद्वायुर्विहतो गुदसंश्रितः
निरुणद्धि महास्रोतः सूक्ष्मद्वारं करोति च ४८
मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति
सन्निरुद्धगुदं व्याधिमेतं विद्यात् सुदारुणम् ४९
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्
स्विन्ने वाऽस्नाप्यमाने वा कण्डू रक्तकफोद्भवा ५०
कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते
एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् ५१
स्नानोत्सादनहीनस्य मलो वृषणसंस्थितः
यदा प्रक्लिद्यते स्वेदात् कण्डूं जनयते तदा ५२
कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते
प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ५३
प्रवाहणातिसाराभ्यां निर्गच्छति गुदं बहिः
रूक्षदुर्बलदेहस्य गुदभ्रंशं तमादिशेत् ५४
सदाहो रक्तपर्यन्तस्त्वक्पाकी तीव्रवेदनः
कण्डूमाञ् ज्वरकारी च स स्याच्छूकरदंष्ट्रकः ५५

मुखरोगनिदानम्[सम्पाद्यताम्]

अथ मुखरोगनिदानम्
आनूपपिशित क्षीरदधिमत्स्यातिसेवनात्
मुखमध्ये गदान् कुर्युः क्रुद्धा दोषाः कफोत्तराः १
कर्कशौ परुषौ स्तब्धौ संप्राप्तानिलवेदनौ
दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः २
चीयते पिडकाभिश्च सरुजाभिः समन्ततः
सदाहपाकपिडकौ पीताभासौ च पित्ततः ३
सवर्णाभिश्च चीयेते पिडकाभिरवेदनौ
भवतस्तु कफादोष्ठौ पिच्छिलौ शीतलौ गुरू ४
सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च
सन्निपातेन विज्ञेयावनेकपिडकाचितौ ५
खर्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ
रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ६
गुरू स्थूलौ मांसदुष्टौ मांसपिण्डवदुद्गतौ
जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात् ७
सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ गुरू
अच्छं स्फटिकसंकाशमास्रावं स्रवतो भृशम् ८
तयोर्व्रणो न संरोहेन्मृदुत्वं च न गच्छति
क्षतजाभौ विदीर्येते पाट्येते चाभिघाततः ९
ग्रथितौ च तथा स्यातामोष्ठौ कण्डूसमन्वितौ
शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते
दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदुनि च १०
दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम्
शीतादो नाम स व्याधिः कफशोणितसंभवः ११
दन्तयोस्त्रिषु वा यस्य श्वयथुर्जायते महान्
दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः १२
स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च
दन्तवेष्टः स विज्ञेयो दुष्टशोणितसंभवः १३
श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः
लालास्रावी स विज्ञेयः शैषिरो नाम नामतः १४
दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते
यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञितः १५
दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक्
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः १६
वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति च
यस्मिन् सोपकुशो नाम पित्तरक्तकृतो गदः १७
घृष्टेषु दन्तमांसेषु संरम्भो जायते महान्
चला भवन्ति दन्ताश्च स वैदर्भोऽभिघातजः १८
मारुतेनाधिको दन्तो जायते तीव्रवेदनः
खलिवर्धनसंज्ञोऽसौ जाते रुक् च प्रशाम्यति १९
शनैः शनैः प्रकुरुते वायुर्दन्तसमाश्रितः
करालान् विकटान् दन्तान् करालो न स सिध्यति २०
हानव्ये पश्चिमे दन्ते महाञ् शोथो महारुजः
लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः
दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः २१
दीर्यमाणेष्विव रुजा यस्य दन्तेषु जायते
दालनो नाम स व्याधिः सदागतिनिमित्तजः २२
कृष्णच्छिद्र श्चलः स्रावी ससंरम्भो महारुजः
अनिमित्तरुजो वाताद्विज्ञेयः क्रिमिदन्तकः २३
वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च जायते
कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः २४
शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्विजाः
पित्तमारुतकोपेन दन्तहर्षः स नामतः २५
मलो दन्तगतो यस्तु पित्तमारुतशोषितः
शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा २६
कपालेष्विव दीर्यत्सु दन्तानां सैव शर्करा
कपालिकेति विज्ञेया सदा दन्तविनाशिनी २७
योऽसृङिमश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः
श्यावतां नीलतां वापि गतः स श्यावदन्तकः २८
दन्तमांसे मलैः सास्रैर्वाह्यान्तः श्वयथुर्गुरुः
सदाहरुक् स्रवेद्भिन्नः पूयास्रं दन्तविद्र धिः २९
जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा
पित्तेन दह्यत्युपचीयते च दीर्घैः सरक्तैरपि कण्टकैश्च
कफेन गुर्वी बहुलाचिता च मांसोच्छ्रायैः शाल्मलिकण्टकाभैः ३०
जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्तिः
जिह्वां स तु स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ३१
जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नस्य जातः कफरक्तमूलः
लालाकरः कण्डुयुतः सचोषः सा तूपजिह्वा पठिता भिषग्भिः ३२
श्लेष्मासृग्भ्यां तालमूले प्रवृद्धो दीर्घः शोथो ध्मातबस्तिप्रकाशः
तृष्णाकासश्वासकृत्तं वदन्ति व्याधिं वैद्याः कण्ठशुण्डीति नाम्ना ३३
शोथः स्थूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु
मृदुः शोथो लोहितः शोणितोत्थो ज्ञेयोऽध्रुषः सज्वरस्तीव्ररुक् च ३४
कूर्मोन्नतोऽवेदनोऽशीघ्रजन्मा रोगो ज्ञेयः कच्छपः श्लेष्मणा तु
पद्माकारं तालुमध्ये तु शोथं विद्याद्र क्तादर्वुदं प्रोक्तलिङ्गम् ३५
दुष्टं मांसं नीरुजं तालुमध्ये कफाच्छूनं मांससंघातमाहुः
नीरुक्स्थायी कोलमात्रःकफात् स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे ३६
शोषोऽत्यर्थं दीर्यते चापि तालुः श्वासश्चोग्रस्तालुशोषोऽनिलाच्च
पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येवं तालुपाकंवदन्ति ३७
गलेऽनिलः पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसं च तथैव शोणितम्
गलोपसंरोधकरैस्तथाऽङकुरैर्निहन्त्यसून् व्याधिरियं हि रोहिणी ३८
जिह्वासमन्ताद्भृशवेदनास्तु मांसाङ्कुराः कण्ठविरोधिनो ये
सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्र वगाढयुक्ता ३९
क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा तु
स्रोतोविरोधिन्यचलोद्गता च स्थिराङ्कुरा या कफसंभवा सा ४०
गम्भीरपाकिन्यनिवार्यवीर्या त्रिदोषलिङ्गा त्रितयोत्थिता च
स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु ४१
कीलास्थिमात्रः कफसंभवो यो ग्रन्थिर्गले कण्टकशूकभूतः
खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति ब्रुवन्ति ४२
जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वोपरिष्टादपि रक्तमिश्रात्
ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम् ४३
वलास एवायतमुन्नतं च शोथं करोत्यन्नगतिं निवार्य
तं सर्वथैवाप्रतिवार्यवीर्यं विवर्जनीयं बलयं वदन्ति ४४
गले तु शोथं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम्
मर्मच्छिदं सुस्तरमेनमाहुर्बलाशसंज्ञं निपुणा विकारम् ४५
वृत्तोन्नतोऽन्त श्वयथुः सदाहः सकण्डुरोऽपाक्यमृदुर्गुरुश्च
नाम्नैकवृन्दः परिकीर्तितोऽसौ व्याधिर्बलासक्षतजप्रसूतः ४६
समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति
तच्चापि पित्तक्षतजप्रकोपाज्ज्ञेयं सतोदं पवनात्मकं तु ४७
वर्तिर्घना कण्ठनिरोधिनी या चिताऽतिमात्रं पिशितप्ररोहैः
अनेकरुक् प्राणहरी त्रिदोषाज्ज्ञेया शतघ्नी च शतघ्निरूपा ४८
ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽतिरुग्यः कफरक्तमूर्त्तिः
संलक्ष्यते सक्तमिवाशनं च सशस्त्रसाध्यस्तु गलायुसंज्ञः ४९
सर्वं गलं व्याप्य समुत्थितो यः शोथो रुजं सन्ति च यत्र सर्वाः
स सर्वदोषैर्गलविद्र धिस्तु तस्यैव तुल्यः खलु सर्वजस्य ५०
शोथो महानन्नजलावरोधी तीव्रज्वरो वायुगतेर्निहन्ता
कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यते तु ५१
यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः
कफोपदिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ५२
प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण
स मांस तानः कथितोऽवलम्वी प्राण प्रणुत् सर्वकृतो विकारः ५३
सदाहतोदं श्वयथुं सुताम्रमन्तर्गले पूतिविशीर्णमांसम्
पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते ५४
स्फोटैः सतोदैर्वदनं समन्ताद्यस्यावितं सर्वसरः स वातात्
रक्तैः सदाहैस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात्
अवेदनैः कण्डुयुतैः सवर्णैर्यस्याचितं चापि स वै कफेन ५५
ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः
दन्तमूलेषु वर्ज्यौ च त्रिलिङ्गगतिशौषिरौ ५६
दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः
जिह्वारोगे बलाशस्तु तालव्येष्वर्बुदं तथा ५७
स्वरघ्नो वलयो वृन्दो बलाशश्च विदारिका
गलौघो मांसतानश्च शतघ्नी रोहिणी गले ५८
असाध्याः कीर्तिता ह्येते रोगा नव दशैव तु
तेषु चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ५९

कर्णरोगनिदानम्[सम्पाद्यताम्]

अथ कर्णरोगनिदानम्
समीरणः श्रोत्रगतोऽन्यथाचरन् समन्ततः शूलमतीव कर्णयोः
करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः १
कर्णस्रोतःस्थिते वाते शृणोति विविधान् स्वरान्
भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते २
यदा शब्दवहं वायुः स्रोतः आवृत्य तिष्ठति
शुद्धःश्लेष्मान्वितो वाऽपि बाधिर्यं तेन जायते ३
वायुः पित्तादिभिर्युक्तो वेणुघोषोपमं स्वनम्
करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते ४
शिरोऽभिघातादथवा निमज्जतो जले प्रपाकादथवाऽपि विद्र धेः
स्रवेद्धि पूयं श्रवणोऽनिलादितः स कर्णसंस्राव इति प्रकीर्तितः ५
मारुतः कफसंयुक्तः कर्णकण्डूं करोति च
पित्तोष्मशोषितः श्लेष्मा कुरुते कर्णगूथकम् ६
स कर्णगूथो द्र वतां गतो यदा विलायितो घ्राणमुखं प्रपद्यते
तदा स कर्णप्रतिनाहसंदितो भवेद्विकारः शिरसोऽधभेदकृत् ७
यदा तु मूर्च्छन्त्यथवाऽपि जन्तवः सृजन्त्यपत्यान्यथवाऽपि मक्षिकाः
यद्व्यञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः क्रिमिकर्णको गदः ८
पतङ्गाः शतपद्यश्च कर्णस्रोतः प्रविश्य हि
अरतिं व्याकुलत्वं च भृशं कुर्वन्ति वेदनाम् ९
कर्णो निस्तुद्यते तस्य तथा फरफरायते
कीटे चरति रुक् तीव्रा निष्पन्दे मन्दवेदना १०
क्षताभिघातप्रभवस्तु विद्र धिर्भवेत्तथा दोषकृतोऽपरः पुनः
सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोषवान् ११
कर्णपाकस्तु पित्तेन कोथविक्लेदकृद्भवेत्
कर्णविद्र धिपाकाद्वा जायते चाम्बुपूरणात् १२
पूयं स्रवति पूतिं वा स ज्ञेयः पूतिकर्णकः
कर्णशोथार्बुदार्शांसि जानीयादुक्तलक्षणैः १३
नादोऽतिरुक् कर्णमलस्य शोषः स्रावस्तनुश्चाश्रवणं च वातात्
शोथः सरागो दरणं विदाहः सपीतपूतिस्रवणं च पित्तात् १४
वैश्रुत्यकण्डूस्थिरशोथशुक्लस्निग्धस्रुतिः स्वल्परुजः कफाच्च
सर्वाणि रूपाणि च सन्निपातात् स्रावश्च तत्राधिकदोषवर्णः १५
सौकुमार्याच्चिरोत्सृष्टे सहसाऽतिप्रवर्धिते
कर्णशोथो भवेत् पाल्यां सरुजः परिपोटवान्
कृष्णारुणनिभः स्तव्धः स वातात् परिपोटकः १६
गुर्वाभरणसंयोगात्ताडनाद् घर्षणादपि
शोथः पाल्यां भवेच्छ्यावो दाहपाकरुजान्वितः १७
रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः
कर्णं बलाद्वर्धयतः पाल्यां वायुः प्रकुप्यति १८
कफं संगृह्य कुरुते शोफं स्तब्धमवेदनम्
उन्मन्थकः सकण्डूको विकारः कफवातजः १९
संवर्ध्यमाने दुर्विद्धे कण्डूपाकरुजान्वितः
शोथो भवति पाकश्च त्रिदोषो दुःखवर्धनः २०
कफासृक्कृमयः क्रुद्धाः सर्षपाभा विसर्पिणः
कुर्वन्ति पाल्यां पिडकाः कण्डूदाहरुजान्विताः २१
कफासृक्कृमिसंभूतः स विसर्पन्नितस्ततः
लिहेत् सशष्कुलद्यं पालद्यं परिलेहीति स स्मृतः २२

नासारोगनिदानम्[सम्पाद्यताम्]

अथ नासारोगनिदानम्
आनह्यते यस्य विशुष्यते च प्रक्लिद्यते धूप्यति चापि नासा
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन
तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम् १
दोषैर्विदग्धैर्गलतालुमूले संमूर्च्छितो यस्य समीरणस्तु
निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रोगम् २
घ्राणाश्रितं पित्तमरूंषि कुर्याद्यस्मिन् विकारे बलवांश्च पाकः
तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावथवाऽपि यत्र ३
दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तैः
नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ४
घ्राणाश्रिते मर्मणि संप्रदुष्टो यस्यानिलो नासिकया निरेति
कफानुजातो बहुशोऽतिशब्दस्तं रोगमाहुः क्षवथुं विधिज्ञाः ५
तीक्ष्णोपयोगादभिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्वा
सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्धाटितेऽन्य क्षवथुर्निरेति ६
प्रभ्रश्यते नासिकया तु यस्य सान्द्रो विदग्धो लवणः कफस्तु
प्राक्संचितो मूर्धनि सूर्यतप्तस्तं भ्रंशथुं रोगमुदाहरन्ति ७
घ्राणे भृशं दाहसमन्विते तु विनिःसरेद् धूम इवेह वायुः
नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिं तुतं दीप्तमुदाहरन्ति ८
उछ्वासमार्गं तु कफः सवातो रुन्ध्यात् प्रतीनाहमुदाहरेत्तम्
घ्राणाद् घनः पीतसितस्तनुर्वा दोषः स्रवेत् स्रावमुदाहरेत्तम् ९
घ्राणाश्रिते स्रोतसि मारुतेन गाढं प्रतप्ते परिशोषिते च
कृच्छ्राच्छ्वसेदूर्ध्वमधश्चजन्तुर्यस्मिन् स नासापरिशोष उक्तः १०
शिरोगुरुत्वमरुचिर्नासास्रावस्तनुः स्वरः
क्षामः ष्ठीवत्यथाभीक्ष्णमामपीनसलक्षम् ११
आमलिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जति
स्वरवर्णविशुद्धिं च परिपक्वस्य लक्षणम् १२
संधारणजीर्णरजोतिभाष्य क्रोधर्तुवैषम्यशिरोभितापैः
प्रजागरातिस्वपनाम्बुशीतैरवश्यया मैथुनबाष्पधूमैः
संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु १३
चयं गता मूर्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम्
प्रकुप्यमाणा विविधैः प्रकोपणैस्ततः प्रतिश्यावकरा भवन्ति हि १४
क्षवप्रवृत्तिः शिरसोऽतिपूर्णता स्तम्भोऽङ्गमर्दः परिहृष्टरोमता
उपद्र वाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः १५
आनद्धा पिहिता नासा तनुस्रावप्रसेकिनी
गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा १६
क्षवप्रवृत्तिरत्यर्थं वक्त्रवैरस्यमेव च
भवेत् स्वरोपघातश्च प्रतिश्यायेऽनिलात्मके १७
उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके
कृशोऽतिपाण्डुः संतप्तो भवेदुष्णाभिपीडितः १८
सधूममग्निं सहसा वमतीव स मानवः
घ्राणात् कफः कफकृतेशीतः पाण्डुः स्रवेद् बहुः
शुक्लावभासः शुक्लाक्षो भवेद् गुरुशिरा नरः १९
कण्ठताल्वोष्ठशिरसां कण्डूभिरभिपीडितः
भूत्वा भूत्वा प्रतिश्यायो यस्याकस्मान्निवर्तते २०
संपक्वो वाऽप्यपक्वो वा स सर्वप्रभवः स्मृतः
प्रक्लिद्यते पुनर्नासा पुनश्च परिशुष्यति २१
पुनरानह्यते वाऽपि पुनर्विव्रियते तथा
निश्वासो वाऽतिदुर्गन्धो नरो गन्धान् न वेत्ति च २२
एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम्
रक्तजे तु प्रतिश्याये रक्तस्रावः प्रवर्तते २३
ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः
दुर्गन्धोच्छ्वासवदनो गन्धानपि न वेत्ति सः २४
सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः
दुष्टतां यान्ति कालेन तदाऽसाध्या भवन्ति हि २५
मूर्च्छन्ति चात्र कृमयः श्वेताः स्निग्धास्तथाऽणवः
कृमितो यः शिरोरोगस्तुल्यं तेनास्य लक्षणम् २६
बाधिर्यमान्ध्यमघ्रत्वं घोरांश्च नयनामयान्
शोथाग्निसादकासांश्च क्रुद्धाः कुर्वन्ति पीनसाः २७
अर्बुदं सप्तधा शोथाश्चत्वारोऽशश्चचुर्विधम्
चतुर्विधं रक्तपित्तमुक्तं घ्राणेऽपि तद्विदुः २८

नेत्ररोगनिदानम्[सम्पाद्यताम्]

अथ नेत्ररोगनिदानम्
चिक्षूरक्षायां सर्वकालं मनुष्यैर्यत्नः कर्तव्यो जीविते यावदिच्छा
व्यर्थो लोकोऽय तुल्यरात्रिन्दिवानां पुसामन्धानां विद्यमानेऽपि वित्ते
उष्णाभितप्तस्य जले प्रवेशाद् दूरेक्षणात् स्वप्नविपर्ययाच्च
स्वेदाद्र जोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् १
द्र वात्तथाऽन्नान्निशि सेविताच्च विण्मूत्रवातक्रमनिग्रहाच्च
प्रसक्तसंरोदनकोप शोकाच्छिरोऽभिघातादतिमद्यपानात् २
तथा ॠतूनां च विपर्ययेण क्लेशाभिघातादतिमैथुनाच्च
बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकाराज्जनयन्ति दोषाः ३
वातात् पित्तात् कफाद्र क्तादभिष्यन्दश्चतुर्विधः
प्रायेण जायते घोरः सर्वनेत्रामयाकरः ४
निस्तोदनस्तम्भनरोमहर्ष संघर्षपारुष्यशिरोऽभितापाः
विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ५
दाहप्रपाकौ शिशिराभिनन्दा धूमायनं वाष्पसमुच्छ्रयश्च
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ६
उष्णाभिनन्दा गुरुताऽभिशोथः कण्डूपदेहावतिशीतता च
स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ७
ताम्राश्रुता लोहितनेत्रता च नाड्यः समन्तादतिलोहिताश्च
पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ८
वृद्धैरेतैरभिष्यन्दैर्नराणाम क्रियावताम्
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः ९
उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा
शिरसोऽध च तं विद्यादधिमन्थं स्वलक्षणैः १०
हन्याद् दृष्टिं श्लैष्मिकः सप्तरात्रादधीमन्थो रक्तजः पञ्चरात्रात्
यत्षड्रात्राद्वातिको वै निहन्याद् मिथ्याचारात् पैत्तिकः सद्य एव ११
उदीर्णवेदनं नेत्रं रागशोथसमन्वितम्
घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदुः १२
मन्दवेदनता कण्डूः संरम्भाश्रुप्रशान्तता
प्रशस्तवर्णता चाक्ष्णोः संपक्वं दोषमादिशेत् १३
कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसंनिभः
संरम्भी पच्यते यस्तु नेत्रपाकः स शोथजः
शोथहीनानि लिङ्गानि नेत्रपाके त्वशोथजे १४
उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसह्य
रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः १५
वारंवारं च पर्येति भ्रुवौ नेत्रे च मारुतः
रुजश्च विविधास्तीव्राः स ज्ञेया वातपर्ययः १६
यत् कूणितं दारुणरूक्षवर्त्म संदह्यते चाविलदर्शनं यत्
सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि १७
यस्यावटुः कर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा
कुर्याद्रुजं वै भ्रुवि लोचने च तमन्यतोवातमुदाहरन्ति १८
श्यावं लोहितपर्यन्तं सर्वं चाक्षि प्रपच्यते
सदाहशोथं सास्रावमम्लाध्युषितमम्लतः १९
आवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः
मुहुर्विरज्यन्ति च याः स तादृग्व्याधिः सिरोत्पात इति प्रदिष्टः २०
मोहात्सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः
ताम्राभमस्रंस्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुं च २१
निमग्नरूपं तु भवेद्धि कृष्णे सूच्येव विद्धं प्रतिभाति यद्वत्
स्रावं स्रवेदुष्णमतीव यच्च तत् सव्रणं शुक्लक्रिमिउ!दाहरन्ति २२
दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि
अवेदनं वः न च युग्मशुक्लं तत् सिद्धिमायाति कदाचिदेवं २३
स्यन्दात्मकं कृष्णगतं सचोषं शङ्खेन्दुकुन्दप्रतिमावभासम्
वैहायसाभ्रप्रतनुप्रकाशमथाव्रणं साध्यतमं वदन्ति २४
गम्भीरजातं बहुलं च शुक्लं चिरोत्थितं चापि वदन्ति कृच्छ्रम्
विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासूक्ष्ममदृष्टिकृच्च
द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् २५
उष्णाश्रपातः पिडका च नेत्रे यस्मिन् भवेन्मुद्गनिभं च शुक्लम्
तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् २६
श्वेतः समाक्रामति सर्वतो हि दोषेण यस्यासितमण्डलं च
तमक्षिपाकात्ययमक्षिरोगं सर्वात्मकं वर्जयितव्यमाहुः २७
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलास्रः
विगृह्यकृष्णं प्रचयोऽभ्युपैति तच्चाजकाजातमिति व्यवस्येत् २८
प्रथमे पटले दोषा यस्य दृष्ट्यां व्यवस्थितः
अव्यक्तानि स रूपाणि कदाचिदथ पश्यति २९
दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते
मक्षिकामशकांश्चापि जालकानि च पश्यति ३०
मण्डलानि पताकांश्च मरीचीन् कुण्डलानि च
परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च ३१
दूरस्थानि च रूपाणि मन्यते स समीपतः
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात् ३२
यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति
ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते ३३
महान्त्यपि च रूपाणि च्छादितानीव चाम्बरैः
कर्णनासाक्षिहीनानि विकृतानीव पश्यति ३४
यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि
अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते ३५
पार्श्वस्थिते तथा दोषे पार्श्वस्थं नैव पश्यति
समन्ततः स्थिते दोषे संकुलानीव पश्यति ३६
दृष्टिमध्यस्थिते दोषे महद्ध्रस्वं च पश्यति
द्विधा स्थिते द्विधा पश्येद् वहुधा चानवस्थिते ३७
दोषे दृष्ट्याश्रिते तिर्यक् स एकं मन्यतो द्विधा
तिमिराख्यः स वै दोषश्चतुर्थं पटलं गतः ३८
रुणद्धि सर्वतो दृष्टिं लिङ्गनाशमतः परम्
अस्मिन्नपि तमोभूते नातिरूढे महागदे ३९
चन्द्रा दित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः
निर्मलानि च तेजांसि भ्राजिष्णून्यथ पश्यति ४०
स एव लिङ्गनाशस्तु नीलिका काचसंज्ञितः
वातेन चापि रूपाणि भ्रमन्तीव च पश्यति ४१
आविलान्यरुणाभानि व्याविद्धानीव मानवः
पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् ४२
नृत्यतश्चैव शिखिनः सर्वं नीलं च पश्यति
कफेन पश्येद्रू पाणि स्निग्धानि च सितानि च ४३
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रमेवाभ्रसंप्लवम्
सलिलप्लावितानीव परिजाड्यानि मानवः
पश्येद्र क्तेन रक्तानि तमांसि विविधानि च ४४
स सितान्यपि कृष्णानि पीतान्यपि च मानवः
सन्निपातेन चित्राणि विप्लुतानीव पश्यति ४५
वहुधा च द्विधा चापि सर्वाण्येव समन्ततः
हीनाधिकाङ्गान्यपि तु ज्योतींष्यपि च भूयसा ४६
पित्तं कुर्यात् परिम्लायि मूर्च्छितं पित्ततेजसा
पीता दिशस्तु खद्योतान् भास्करं चापि पश्यति ४७
विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव वा
वक्ष्यामि षड्विधं रागैलिङ्गनाशमतः परम् ४८
रागोऽरुणो मारुतजः प्रदिप्तो म्लायी च नीलश्च तथैव पित्तात्
कफात् सितः शोणितजः सरक्तः समस्तदोषप्रभवो विचित्रः ४९
अरुणं मण्डलं दृष्ट्यां स्थूलकाचारुणप्रभम्
परिम्लायिनि रोगे स्यान्म्लायि नीलं च मण्डलम् ५०
दोषक्षयात् स्वयं तत्र कदाचित् स्यात्तु दर्शनम्
अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा ५१
पित्तान्मण्डलमानीलं कांस्याभं पीतमेव च
श्लेष्मणा बहुलं पीतं शङ्खकुन्देन्दुपाण्डुरम् ५२
चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः
भृज्यमाने च नयने मण्डलं तद्विसर्पति ५३
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम्
दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे
यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ५४
षड् लिङ्गनाशः षडिमे च रोगा दृष्ठ्याश्रयाः षट् च षडेव वाच्याः
पित्तेन दुष्टेन सदा तु दृष्टिः पीतः भवेद्यस्य नरस्य किञ्चित् ५५
पीतानि रूपाणि च तेन पश्येत् स वै नरः पित्तविदग्धदृष्टिः
प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि चेक्षते सः ५६
रात्रौ च शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत्
तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि तु मन्यते सः ५७
त्रिषु स्थितोऽल्प पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य
दिवा स सूर्यानुगृहीतदृष्टिः पश्येत्तु रूपाणि कफोल्पभावात् ५८
शोकज्वरायासशिरोभितापैरभ्याहता यस्य नरस्य दृष्टिः
धूम्रांस्तथा पश्यति सर्वभावात् स धूमदर्शीति नरः प्रदिष्टः ५९
यो ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च तेन पश्येत्
विद्योतते यस्य नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ६०
चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः
दृष्टिर्विरूपा श्वसनोपसृष्टा संकोचमभ्यन्तरतस्तु याति ६१
रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः
वाह्यौ पुनर्द्वाविह संप्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ६२
निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनः सः
सुरर्षिगन्धर्वमहोरगाणां संदर्शनेनापि च भास्करस्य ६३
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसंज्ञः
तत्राक्षि विस्पष्टमिवावभाति वैडूर्यवर्णा विमला च दृष्टिः ६४
प्रस्तार्यर्म तनु स्तीर्णं श्यावं रक्तनिभं सिते
सश्वेतं मृदु शुक्लार्म शुक्ले तद्वर्धते चिरात् ६५
पद्माभं मृदु रक्तार्म यन्मांसं चीयते सिते
पृथु मृद्वधिमांसार्म बहलं च यकृन्निभम्
स्थिरं प्रस्तारि मांसाढ्यं शुष्कं स्नाय्वर्म पञ्चमम् ६६
श्यावाः स्यु पिशितनिभाश्च बिन्दवो ये
शुक्त्याभाः सितनियताः स शुक्तिसंज्ञः
एको यः शशरुधिरोपमश्च बिन्दुः
शुक्लस्थो भवति तमर्जुनं वदन्ति ६७
श्लेष्ममारुतकोपेन शुक्ले पिष्टं समुन्नतम्
पिष्टवत् पिष्टकं विद्धि मलाक्तादर्शसन्निभम् ६८
जालाभः कठिनसिरो महान् सरक्तः
संतानः स्मृत इह जालसंज्ञितस्तु
शुक्लस्थाः सितपिडकाः सिरावृता या-
स्ता ब्रूयादसितसमीपजाः सिराजाः
कांस्याभोऽमृदुरथ वारिबिन्दुकल्पो
विज्ञेयो नयनसिते बलाससंज्ञः ६९
पक्वः शोथः सन्धिजो यः सतोदः स्रवेत पूयं पूति पूयालसाख्यः
ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकी कण्डूप्रायो नीरुजस्तूपनाहः ७०
गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावाँ ल्लक्षणैः स्वैरुपेतान्
तं हि स्रावं नेत्रनाडीति चैके तस्या लिङ्गं कीर्त्तयिष्ये चतुर्धा ७१
पाकात् सन्धौ संस्रवेद्यस्तु पूयं पूयास्रावोऽसौ गदः सर्वजस्तु
श्वेतं सान्द्रं पिच्छिलं यः स्रवेत्तु श्लेष्मस्रावोऽसौ विकारो मतस्तु ७२
रक्तश्रावः शोणितोत्थो विकारः स्रवेद् दुष्टं तत्र रक्तं प्रभूतम्
हरिद्रा भं पीतमुष्णं जलाभं पित्तात्स्रावः संस्रवेत् सन्धिमध्यात् ७३
ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोथा
जाता सन्धौ कृष्ण शुक्लेऽलजी स्यात्तस्मिन्नेव ख्यापिता पूर्वलिङ्गैः ७४
क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युः क्रिमयः सन्धिजाताः
नानारूपा वर्त्मशुक्लान्तसन्धौ चरन्त्यन्तर्लोचनं दूषयन्तः ७५
अभ्यन्तरमुखी ताम्रा बाह्यतो वर्त्मनश्च या
सोत्सङ्गोत्सङ्गपिडका सर्वजा स्थूलकण्डुरा ७६
वर्त्मान्ते पिडका ध्माता भिद्यन्ते च स्रवन्ति च
कुम्भीकाबीजप्रतिमाः कुम्भीकाः सन्निपातजाः ७७
स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसंनिभाः
रुजावत्यश्च पिडकाः पोथक्य इति कीर्तिताः ७८
पिडका या खरा स्थूला सूक्ष्माभिरभिसंवृता
वर्त्मस्था शर्करा नाम स रोगो वर्त्मदूषकः ७९
एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः
श्लक्ष्णाः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते ८०
दीर्घाङ्कुरः खरः स्तब्धो दारुणोऽभ्यन्तरोद्भवः
व्याधिरेषोऽभिविख्यातः शुष्कार्शो नाम नामतः ८१
दाहतोदवती ताम्रा पिडका वर्त्मसंभवा
मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका ८२
वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः
सवर्णाभिः स्थिराभिश्च विद्याद्बहुलवर्त्म तत् ८३
कण्डूमताऽल्पतोदेन वर्त्मशोथेन यो नरः
न सः संछादयेदक्षि यत्रासौ वर्त्मबन्धकः ८४
मृद्वल्पवेदनं ताम्रं मद्वर्त्म सममेव च
अकस्माच्च भवेद्र क्तं क्लिष्टवर्मेति तद्विदुः ८५
क्लिष्टं पुनः पित्तयुतं शोणितं विदहेद्यदा
ततः क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः ८६
यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्
तदाहुःश्याववर्त्मेति वर्त्मरोगविशारदाः ८७
अरुजं बाह्यतः शूनं वर्त्म यस्य नरस्य हि
प्रक्लिन्नवर्त्म तद्विद्यात् क्लिन्नमत्यर्थमन्ततः ८८
यस्य धौतान्यधौतानि संबध्यन्ते पुनः पुनः
वर्त्मान्यपरिपक्कानि विद्यादक्लिन्नवर्त्म तत् ८९
विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते
एतद्वातहतं वर्त्म जानीयादक्षिचिन्तकः ९०
वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्
आचक्षीतार्बुदमिति सरक्तमविलम्बितम् ९१
निमेषिणीः सिरा वायुः प्रविष्टः सन्धिसंश्रयाः
प्रचालयति वर्त्मानि निमेषं नाम तद्विदुः ९२
यः स्थितो वर्त्ममध्ये तु लोहितो मृदुरङ्कुरः
तद्र क्तजं शोणितार्शश्छिन्नं छिन्नं प्रवर्धते ९३
अपाकी कठिनाः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः
लगणो नाम स व्याधिर्लिङ्गतः परिकीर्तितः ९४
त्रयो दोषा बहिःशोथं कुर्युश्छिद्रा णि वर्त्मनोः
प्रस्रवन्त्यन्तरुदकं बिसवद्विसवर्त्म तत् ९५
वाताद्या वर्त्मसंकोचं जनयन्ति मला यदा
तदा द्र ष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः ९६
प्रचलितानि वातेन पक्ष्माण्यक्षि विशन्ति हि
घृष्यन्त्यक्षि मुहुस्तानि संरम्भं जलयन्ति च ९७
असिते सितभागे च मूलकोषात् पतन्त्यपि
पक्ष्मकोपः स विज्ञेयो व्याधिः परमदारुणः ९८
वर्त्मपक्ष्माशयगतं पित्तं रोमाणि शातयेत्
कण्डूं दाहं च कुरुते पक्ष्मशातं तमादिशेत् ९९
नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः
शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः १
सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु
बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ २

शिरोरोगनिदानम्[सम्पाद्यताम्]

अथ शिरोरोगनिदानम्
शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभिः
सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा
सूर्यावर्तानन्तवातार्धाव भेदकशङ्खकैः १
यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम्
बन्धोपतापैः प्रशमश्च यत्र शिरोऽभितापः स समीरणेन २
यस्योष्णमङ्गारचितं यथैव भवेच्छिरो धूप्यति चाक्षिनासम्
शीतेन रात्रौ च भवेच्छमश्च शिरोऽभितापः स तु पित्तकोपात् ३
शिरो भवेद्यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमं च
शूनाक्षिकूटं वदनं च यस्य शिरोऽभितापः स कफप्रकोपात् ४
शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति
रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ५
असृग्वसाश्लेष्मसमीरणानां शिरोगतानामिह संक्षयेण
क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम्
संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति ६
निस्तुद्यते यस्य शिरोऽतिमात्रं संभक्ष्यमाणं स्फुरतीव चान्तः
घ्राणाच्च गच्छेत् सलिलं सपूयं शिरोभितापः क्रिमिभिः स घोरः ७
सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवंरुक् समुपैति गाढा
विवर्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च
सर्वात्मकं कष्टतमं विकारं सूर्यापवर्तं तमुदाहरन्ति ८
दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य घाटासु रुजां सुतीव्राम्
कुर्वन्ति योऽक्षिभ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु ९
गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान्
अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् १०
रूक्षाशनात्यध्यशन प्राग्वातावश्यमैथुनैः
वेगसंधारणायासव्यायामैः कुपितोऽनिलः ११
केवलः सकफो वाऽध गृहीत्वा शिरसो बली
मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम् १२
शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽधावभेदकः
नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत् १३
रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः
तीव्ररुग्दाहरागं हि शोथं कुर्वन्ति दारुणम् १४
स शिरो विषवद्वेगी निरुध्याशु गलं तथा
त्रिरात्राज्जीवितं हन्ति शङ्खको नामतः परम्
त्र्! यहाज्जीवति भैषज्यं प्रत्याख्याय समाचरेत् १५

असृद्गरनिदानम्[सम्पाद्यताम्]

अथासृद्गरनिदानम्
विरुद्धमद्याध्यशनादजीर्णाद् गर्भप्रपातादतिमैथुनाच्च
यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च
तं श्लेष्मपित्तानिलसंनिपातैश्चतुष्प्रकारं प्रदरं वदन्ति १
असृग्दरं भवेत् सर्वं साङ्गमर्दं सवेदनम्
तस्यातिवृत्तौ दौर्वल्यं भ्रमो मूर्च्छा मदस्तृषा
दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः २
आमं सपिच्छाप्रतिमं सपाण्डु पुलाकतोयप्रतिमं कफात्तु
सपीतनीलासितरक्तमुष्णं पित्तार्तियुक्तं भृशवेगि पित्तात् ३
रूक्षारुणं फेनिलमल्पमल्पं वातार्तिवातात् पिशितोदकाभम्
सक्षौद्र सर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषात् ४
तं चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्र कुर्वीत भिषक् चिकित्साम्
शश्वत् स्रवन्तीमास्रावं तृष्णादाहज्वरान्विताम्
क्षीणरक्तां दुर्बलां च तामसाध्यां विनिर्दिशेत् ५
मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च
नैवातिबहुलात्यल्पमार्तवं शुद्धमादिशेत् ६
शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम्
तदार्तवं प्रशंसन्ति यच्चाप्सु न विरज्यते ७

योनिव्यापन्निदानम्[सम्पाद्यताम्]

अथ योनिव्यापन्निदानम्
विंशतिर्व्यापदो योनौ निर्दिष्टा रोगसंग्रहे
मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च १
जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक्
सा फेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति २
वन्ध्यां नष्टार्तवां विद्याद्विप्लुतां नित्यवेदनाम्
परिप्लुतायां भवति ग्राम्यधर्मेण रुग्भृशम् ३
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ४
सदाहं क्षीयते रक्तं यस्यां सा लोहितक्षया
सवातमुद्गिरेद्वीजं वामिनी रजसा युतम् ५
प्रस्रंसिनी स्रंसते च क्षोभिता दुष्प्रजायिनी
स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंक्षयात् ६
अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् ७
अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति
कर्णिन्यां कर्णिका योनौश्लेष्मासृग्भ्यां प्रजायते ८
मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते
बहुशश्चातिचरणा तयोर्बीजं न विन्दति ९
श्लेष्मला पिच्छिला योनिः कण्डूग्रस्ताऽतिशीतला
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् १०
अनार्तवाऽस्तनी षण्डी खरस्पर्शा च मैथुने
अतिकायगृहीतायास्तरुण्यास्त्वण्डली भवेत् ११
विवृता च महायोनिः सूचीवक्त्राऽतिसंवृता
सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा १२
चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रयो भवेत्
पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः १३

योनिकन्दनिदानम्[सम्पाद्यताम्]

अथ योनिकन्दनिदानम्
दिवास्वप्नादतिक्रोधाद् व्यायामादतिमैथुनात्
क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यदा १
पूयशोणितसंकाशं निकुचाकृतिसंनिभम्
जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः २
रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत्
दाहरागज्वरयुतं विद्यात् पित्तात्मकं तु तम् ३
नीलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम्
सर्वलिङ्गसमायुक्तं सन्निपातात्मकं विदुः ४

मूढगर्भनिदाम्[सम्पाद्यताम्]

अथ मूढगर्भनिदाम्
सिर्वावयवसम्पूर्णो मनोबुद्ध्यादिसंयुतः
विगुणापानसंमूढो मूढगर्भोऽभिधीयते १
भयाभिघातात्तीक्ष्णोष्णपानाशननिषेवणात्
गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् १
आचतुर्थात्ततो मासात्प्रस्रवेद्गर्भविद्र वः
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः २
गर्भोऽभिघातविषमाशनपीडनाद्यैः पक्वं द्रुमादिव फलं पतति क्षणेन
मूढः करोति पवनः खलु मूढगर्भं शूलं च योनिजठरादिषु मूत्रसङ्गम् ३
भुग्नोऽनिलेन विगुणेन ततः स गर्भः संख्यामतीत्य बहुधा समुपैति योनिम्
द्वारं निरुध्य शिरसा जठरेणकश्चित् कश्चिच्छरीरपरिवर्तितकुब्जदेहः ४
एकेन कश्चिदपरस्तु भुजद्वयेन तिर्यग्गतो भवति कश्चिदवाङ्मुखोऽन्य
पार्श्वापवृत्तगतिरेति तथैव कश्चिदित्यष्टधा गतिरियं अपरा चतुर्था ५
संकीलकः प्रतिखुरः परिघोऽथ बीजस्तेषूर्ध्वबाहुचरणैः शिरसा च योनिम्
सङ्गी च यो भवति कीलकवत् स कीलो दृश्यैः खुरैः प्रतिखुरं स हि कायुसङ्गी
गच्छेद्भुजद्वयशिराः स च बीजकाख्यो योनौ स्थितः स परिघेण तुल्यः ६
अपविद्धशिरां या तु शीताङ्गी निरपत्रपा
नीलोद्गतसिरा हन्ति सा गर्भं स च तां तथा ७
गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता
भवेदुच्छ्वासपूतित्वं शूनताऽन्तर्मृते शिशौ ८
मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः
गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च निपीडितः ९
योनिसंवरणं सङ्गः कुक्षौ मक्कल्ल एव च
हन्युः स्त्रियं मूढगर्भा यथोक्ताश्चाप्युपद्र वाः १०
वायुः प्रकुपितः कुर्यात् संरुध्य रुधिरं स्रुतम्
सूताया हृच्छिरोबस्तिशूलं मक्कल्लसंज्ञकम् १

सूतिकारोगनिदाम्[सम्पाद्यताम्]

अथ सूतिकारोगनिदाम्
अङ्ग मर्दो ज्वरः कम्पः पिपासा गुरुगात्रता
शोथः शूलातिसारौ च सूतिकारोगलक्षणम् १
मिथ्योपचारात् संक्लेशाद्विषमाजीर्णभोजनात्
सूतिकायाश्च ये रोगा जायन्ते दारुणास्तु ते २
ज्वरातीसारशोथाश्च शूलानाहवलक्षयाः
तन्द्रा रुचिप्रसेकाद्याः कफवातामयोद्भवाः ३
कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाग्नितः
ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्र वाः ४

स्तनरोगनिदानम्[सम्पाद्यताम्]

अथ स्तनरोगनिदानम्
सक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियः
प्रदुष्य मांसरुधिरं स्तनरोगाय कल्पते १
पञ्चानामपि तेषां हि रक्तजं विद्र धिं विना
लक्षणानि समानानि बाह्यविद्र धिलक्षणैः २

स्तन्यदुष्टिनिदानम्[सम्पाद्यताम्]

अथ स्तन्यदुष्टिनिदानम्
विशस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते
सर्वदेहाश्रितत्वाच्च शुक्रलक्षणमुच्यते १
तदेव चेष्टयुवतेर्दर्शनात्स्मरणादपि
शब्दसंश्रवणात्स्पर्शात्संहर्षाच्च प्रवर्तते २
सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते
आहाररसयोनित्वादेवं स्तन्यमपि स्त्रियः ३
तदेवापत्यसंस्पर्शाद्दर्शनात्स्मरणादपि
ग्रहणाच्च शरीरस्य शुक्रवत्संप्रर्वते
स्नेहो निरन्तरस्तत्र प्रस्रवे हेतुरुच्यते ४
गुरुभिर्विविधैरन्नैर्दुष्टैर्दोषैः प्रदूषितम्
क्षीरं मातुः कुमारस्य नानारोगाय कल्पते ५
कषायं सलिलप्लावि स्तन्यं मारुतदूषितम्
कट्वम्ललवणं पीतराजीमत् पित्तसंज्ञितम् ६
कफदुष्टं घनं तोये निमज्जति सपिच्छलम्
द्विलिङ्गं द्वन्द्वजं विद्यात् सर्वलिङ्गं त्रिदोषजम् ७
अदुष्टं चाम्बुनिक्षिप्तमेकीभवति पाण्डुरम्
मधुरं चाविवर्णं च प्रसन्नं तत् प्रशस्यते ८

बालरोगनिदानम्[सम्पाद्यताम्]

अथ बालरोगनिदानम्
वातदुष्टं शिशुः स्तन्यं पिबन् वातगदातुरः
क्षामस्वरः कृशाङ्गः स्याद् बद्धविण्मूत्रमारुतः १
स्विन्नो भिन्नमलो बालः कामलापित्तरोगवान्
तृष्णालुरुष्णसर्वाङ्गः पित्तदुष्टं पयः पिबन् २
कफदुष्टं पिबन् क्षीरं लालालुः श्लेष्मरोगवान्
निद्रा न्वितो जडः शूनवक्त्राक्षश्छर्दनः शिशुः ३
द्वन्द्वजे द्वन्द्वजं रूपं सर्वजे सर्वलक्षणम्
शिशोस्तीव्रामतीव्रां च रोदनाल्लक्षयेद्रुजम् ४
स यं स्पृशेद् भृशं देशं यत्र च स्पर्शनाक्षमः
तत्र विद्याद्रुजं मूर्ध्नि रुजं चाक्षिनिमीलनात् ५
कोष्ठे विबन्धवमथुस्तनदंशान्त्रकूजनैः
आध्मानपृष्ठनमनजठरोन्नटनैरपि ६
बस्तो गुह्ये च विण्मूत्रसंगत्रासदिगीक्षणैः
स्रोतांस्यङ्गानि सन्धींश्च पश्येद्यत्नान्मुहुर्मुहुः ७
कुकूणकः क्षीरदोषाच्छिशूनामक्षिवर्त्मनि
जायते तेन तन्नेत्रं कण्डुरं च स्रवेन्मुहुः ८
शिशुः कुर्याल्ललाटाक्षिकूटनासावघर्षणम्
शक्तो नार्कप्रभां द्र ष्टुं न वर्त्मोन्मीलनक्षमः ९
मातुः कुमारो गर्भिण्याः स्तन्यं प्रायः पिबन्नपि
कासाग्निसादवमथु तन्द्रा कार्श्यारुचिभ्रमैः
युज्यते कोष्ठवृद्ध्या च तमाहुः पारिगर्भिकम्
रोगं परिभवाख्यं च युञ्ज्यात्तत्राग्निदीपनम् ११
तालुमांसे कफः क्रुद्धःकुरुते तालुकण्टकम्
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते १२
तालुपातः स्तनद्वेषः कृच्छ्रात् पानं शकृद्द्र वम्
तृडक्षिकण्ठास्यरुजा ग्रीवादुर्धरता वमिः १३
विसर्पस्तु शिशोः प्राणनाशनो बस्तिशीर्षजः
पद्मवर्णो महापद्मनामा दोषत्रयोद्भवः १४
शङ्खाभ्यां हृदयं याति हृदयाद्वा गुदं व्रजेत्
क्षुद्र रोगे च कथिते त्वजगल्ल्यहिपूतने १५
ज्वराद्या व्याधयः सर्वे महतां ये पुरेरिताः
बालदेहेऽपि ते तद्वद्विज्ञेयाः कुशलैः सदा १६
क्षणादुद्विजते बालः क्षणात् त्रस्यति रोदिति
नखैर्दन्तैर्दारयति धात्रीमात्मानमेव वा १७
ऊर्ध्वं निरीक्षते दन्तान् खादेत् कूजति जृम्भते
भुवौ क्षिपति दन्तौष्ठं फेनं वमति चासकृत् १८
क्षामोऽति निशि जागर्ति शूनाक्षो भिन्नविट्स्वरः
मांसशोणितगन्धिश्च न चाश्नाति यथा पुरा १९
सामान्यं ग्रहजुष्टानां लक्षणं समुदाहृतम्
एकनेत्रस्य गात्रस्यस्रावः स्पन्दनकम्पनम् २०
ऊर्ध्वं दृष्ट्या निरीक्षेत वक्रास्यो रक्तगन्धिकः
दन्तान् खादति वित्रस्तः स्तन्यं नैवाभिनन्दति २१
स्कन्दग्रहगृहीतानां रोदनं चाल्पमेव च
नष्टसंज्ञो वमेत् फेनं संज्ञावानतिरोदिति
पूयशोणितगन्धित्वं स्कन्दापस्मारलक्षणम् २२
स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः
सास्रावव्रणपरिपीडितः समन्तात्
स्फोटैश्च प्रचिततनुः सदाहपाकै-
र्विज्ञेयो भवति शिशुः क्षतः शकुन्या २३
व्रणैः स्फोटैश्चितं गात्रं पङ्कगन्धं स्रवेदसृक्
भिन्नवर्चा ज्वरी दाही रेवतीग्रहलक्षणम् २४
अतीसारो ज्वरस्तृष्णा तिर्यक्प्रेक्षणरोदनम्
नष्टनिद्र स्तथोद्विग्नो ग्रस्तः पूतनया शिशुः २५
छर्दिः कासो ज्वरस्तृष्णा वसागन्धोऽतिरोदनम्
स्तन्यद्वेषोऽतिसारश्च अन्धपूतनया भवेत् २६
वेपते कासते क्षीणो नेत्ररोगो विगन्धिता
छर्द्यतीसारयुक्तश्च शीतपूतनया शिशुः २७
प्रसन्नवर्णवदनः सिराभिरभिसंवृतः
मूत्रगन्धी च बह्वाशी मुखमण्डिकया भवेत् २८
छर्दिस्पस्यिन्दिनकण्ठास्यशोषमूर्च्छाविगन्धिताः
ऊर्ध्वं पश्येद्दशेद्दन्तान् नैगमेषग्रहं वदेत् २९
प्रस्तब्धाक्षः स्तनद्वेषी मुह्यते चानिशं मुहुः
तं बालमचिराद्धन्ति ग्रहः संपूर्णलक्षणः ३०

विषरोगनिदानम्[सम्पाद्यताम्]

अथ विषरोगनिदानम्
स्थावरं जङ्गमं चैव द्विविधं विषमुच्यते
मूलाद्यात्मकमाद्यं स्यात् परं सर्पादिसंभवम् १
निद्रा ं! तन्द्रा ं! क्लमं दाहमपाकं लोमहर्षणम्
शोथं चैवातिसारं च जङ्गमं कुरुते विषम् २
स्थावरं च ज्वरं हिक्कां दन्तहर्षं गलग्रहम्
फेनच्छर्द्यरुचिश्वासं मूर्च्छा च कुरुते भृशम् ३
इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः
जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान् ४
न ददात्युत्तरं पृष्टो विवक्षुर्मोहमेति च
अपार्थं बहु संकीर्णं भाषते चापि मूढवत् ५
हसत्यकस्मात् स्फोटयत्यङ्गुलीर्विलिखेन्महीम्
वेपथुश्चास्य भवति त्रस्तश्चान्योन्यमीक्षते ६
विवर्णवक्त्रो ध्यामश्च नखैः किञ्चिच्छिनत्त्यपि
आलभेतासनं दीनः करेण च शिरोरुहम् ७
वर्तते विपरीतं च विषदाता विचेतनः
उद्वेष्टनं मूलविषैः प्रलापो मोह एव च ८
जृम्भणं वेपनं श्वासो मोहः पत्रविषेण तु
मुष्कशोथः फलविषैर्दाहोऽन्नद्वेष एव च ९
भवेत् पुष्पविषैश्छर्दिराध्मानं श्वास एव च
त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि १०
आस्यदौर्गन्ध्यपा रुष्यशिरोरुक्कफसंस्रवाः
फेनागमः क्षीरविषैर्विड्भेदो गुरुगात्रता ११
हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि
प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् १२
सद्यः क्षतं पच्यते यस्य जन्तोः स्रवेद्र क्तं पच्यते चाप्यभीक्ष्णम्
कृष्णीभूतं क्लिन्नमत्यर्थपूति क्षतान्मांसं शीर्यते चापि यस्य १३
तृष्णा मूर्च्छा ज्वरदाहौ च यस्य दिग्धाहतं तं पुरुषं व्यवस्येत्
लिङ्गान्येतान्येव कुर्यादमित्रैर्व्रणे विषं यस्य दत्तं प्रमादात् १४
सपीतं गृहधूमाभं पुरीषं योऽतिसार्यते
फेनमुद्वमते चापि विष पीतं तमादिशेत् १५
वातपित्तकफात्मानो भोगिमण्डलिराजिलाः
यथाक्रमं समाख्याता द्व्यन्तरा द्वन्द्वरूपिणः १६
दंशो भोगिकृतः कृष्णः सर्ववातविकारकृत्
पीतो मण्डलिजः शोथो मृदुः पित्तविकारवान् १७
राजिलोत्थो भवेद् दंशः स्थिरशोथश्च पिच्छिलः
पाण्डुः स्निग्धोऽतिसान्द्रा सृक् सर्वश्लेष्मविकारकृत् १८
अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु
याम्ये च दष्टाः परिवर्जनीया ऋक्षे सिरामर्मसु ये च दष्टाः १९
दर्वीकराणां विषमाशुघाति सर्वाणि चोष्णे द्विगुणीभवन्ति
अजीर्णपित्तातपपीडितेषु बालेषु वृद्धेषु बुभुक्षितेषु २०
क्षीणक्षते मोहिनि कुष्ठयुक्ते रूक्षेऽबले गर्भवतीषु चापि
शस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न संभवन्ति २१
शीताभिरद्भिश्च न रोम हर्षो विषाभिभूतं परिवर्जयेत्तम्
जिह्मं मुखं यस्य च केशशातो नासावसादश्च सकण्ठभङ्गः २२
कृष्णः सरक्तःश्वयथुश्च दंशे हन्वोः स्थिरत्वं च विवर्जनीयः
वर्तिर्घना यस्य निरेति वक्त्राद्र क्तं स्रवेदूर्ध्वमधश्च यस्य २३
दंष्ट्रानिपाताश्चतुरश्च यस्य तं चापि वैद्यः परिवर्जयेच्च
उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाऽप्यथवा विवर्णम् २४
सारिष्टमत्यर्थमवेगिनं च ज्ञात्वा नरं कर्म न तत्र कुर्यात्
जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा २५
स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति
वीर्याल्पभावान्न निपातयेत्तत् कफान्वितं वर्षगणानुबन्धि २६
तेनार्दितो भिन्नपुरीषवर्णो वैगन्ध्यवैरस्ययुतः पिपासी
मूर्च्छा भ्रमं गद्गदवाग्वमिं च विचेष्टमानोऽरतिमाप्नुयाद्वा २७
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी
भवेत् समुद्ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः २८
स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान्
कोपं च शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तस्य रूपम् २९
निद्रा गुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवाऽङ्गमर्दम्
ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठजन्म ३०
मांसक्षयं पादकरप्रशोथं मूर्च्छा तथा छर्दिमथातिसारम्
दूषीविषं श्वासतृषाज्वरांश्च कुर्यात् प्रवृद्धिं जठरस्य चापि ३१
उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत्क्षपयेच्च शुक्रम्
गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान्विकारांश्च बहुप्रकारान् ३२
दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः
यस्मात् संदूषयेद्धातूँ स्तस्माद् दूषीविषं स्मृतम् ३३
साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम्
दूषीविषमसाध्यं स्यात् क्षीणस्याहितसेविनः ३४
सौभाग्यार्थं स्त्रियः स्वेदं रजो नानाङ्गजान् मलान्
शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान् ३५
तैः स्यात् पाण्डुः कृशोऽल्पाग्निर्गरश्चास्योपजायते
मर्मप्रधमनाध्मानं हस्तयोः शोथलक्षणम् ३६
जठरं ग्रहणीदोषो यक्ष्मा गुल्मः क्षयो ज्वरः
एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत् ३७
यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः
तस्माल्लूतास्तु भाष्यन्ते संख्यया ताश्च षोडश ३८
ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च
ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ३९
पिडका विविधाकारा मण्डलानि महान्ति च
शोथा महान्तो मृदवो रक्ताः श्यावाश्चलास्तथा ४०
सामान्यं सर्वलूतानामेतद् दंशस्य लक्षणम्
दंशमध्ये तु यत् कृष्णं श्यावं वा जालकाचितम् ४१
ऊर्ध्वाकृति भृशं पाकं क्लेदशोथज्वरान्वितम्
दूषीविषाभिर्लूताभिस्तद्दष्टमिति निर्दिशेत् ४२
शोथः श्वेताः सिता रक्ताः पीता वा पिडका ज्वरः
प्राणान्तिकाश्च जायन्ते श्वासहिक्काशिरोग्रहाः ४३
आदंशाच्छोणितं पाण्डुमण्डानि च ज्वरोऽरुचिः
लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते ४४
मूर्च्छाङ्गशोथवैवर्ण्यक्लेद शब्दाश्रुतिज्वराः
शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यमूषिकैः ४५
कार्ष्ण्यं श्यावत्वमथवा नानावर्णत्वमेव वा
मोहोऽथ वर्चसो भेदो दष्टे स्यात् कृकलासकै ४६
दहत्यग्निरिवादौ च भिनत्तीवोर्ध्वमाशु च
वृश्चिकस्य विषं याति दंशे पश्चात्तु तिष्ठति ४७
दष्टोऽसाध्यश्च हृद्घ्राणरसनोपहतो नरः
मांसैः पतद्भिरत्यर्थं वेदनार्तो जहात्यसून् ४८
विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि च
लक्षणं कणभैर्दष्टे दंशश्चैवावसीदति ४९
हृष्टलोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्तिमान्
दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ५०
एकदंष्ट्रार्दितः शूनः सरुजः पीतकः सतृट्
छर्दिर्निद्रा च सविषैर्मण्डूकैर्दष्टलक्षणम् ५१
मत्स्यास्तु सविषाः कुर्युदाहं शोथं रुजं तथा
कण्डूं शोथं ज्वरं मूर्च्छा सविषास्तु जलौकसः ५२
विदाहं श्वयथुं तोदं स्वेदं च गृहगोधिका
दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम् ५३
कण्डूमान् मशकैरीषच्छोथः स्यान्मन्दवेदनः
असाध्यकीटसदृशमसाध्यमशकक्षतम् ५४
सद्यः प्रस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता
पिडका मक्षिकांदशे तासां तु स्थगिकाऽसुहृत् ५५
चतुष्पद्भिर्द्विपद्भिश्च नखदन्तविषं च यत्
शूयते पच्यते वापि स्रवति ज्वरयत्यपि ५६
श्वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदाऽनिलः
श्लेष्मप्रदुष्टो मुष्णाति संज्ञां संज्ञावहाश्रितः ५७
तदा प्रस्रस्तलाङ्गुलहनुस्कन्धोऽतिलालवान्
अव्यक्तबधिरान्धश्च सोऽन्योन्यमभिधावति ५८
प्रमूढोऽन्यतमस्त्वेषां खादन्विपरिधावति
तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु ५९
सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक्
दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः ६०
येन चापि भवेद्दष्टतस्य चेष्टां रुतं नरः
बहुशः प्रतिकुर्वाणः क्रियाहीनो विनश्यति ६१
दंष्ट्रिणा येन दष्टश्च तद्रू पं यस्तु पश्यति
अप्सु चादर्शबिम्बे वा तस्य तद्रि ष्टमादिशेत् ६२
त्रस्यत्यकस्माद्योऽभीक्ष्णं दृष्ट्वा स्पृष्ट्वाऽपि वा जलम्
जलत्रासं तु तं विद्याद्रि ष्टं तदपि कीर्तितम् ६३
अदष्टो वा जलत्रासी न कथंचन सिद्ध्यति
प्रसुप्तो वोत्थितो वाऽपि स्वस्थस्त्रस्तो न सिद्ध्यति ६४
प्रशान्तदोषं प्रकृतिस्थधातुमन्नाभिकामं सममूत्रविट्कम्
प्रसन्नवर्णेन्द्रि यचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ६५

विषयानुक्रमणिका[सम्पाद्यताम्]

अथ विषयानुक्रमणिका
ज्वरोऽतिसारो ग्रहणी चार्शोऽजीर्णं विसूचिका
अलसश्च विलम्बी च क्रिमिरुक्पाण्डुकामलाः १
हलीमकं रक्तपित्तं राजयक्ष्मा उरःक्षतम्
कासो हिक्का सह श्वासैः स्वरभेदस्त्वरोचकः २
छर्दिस्तृष्णा च मूर्च्छाद्या रोगाः पानात्ययादयः
दाहोन्मादावपस्मारः कथितोऽथानिलामयः ३
वातरक्तमूरुस्तम्भ आमवातोऽथ शूलरुक्
पक्तिजं शूलमानाह उदावर्तोऽथ गुल्मरुक् ४
हृद्रो गो मूत्रकृच्छ्रं च मूत्राघातस्तथाऽश्मरी
प्रमेहो मधुमेहश्च पिडकाश्च प्रमेहजाः ५
मेदस्तथोदरं शोथो वृद्धिश्च गलगण्डकः
गण्डमालाऽपची ग्रन्थिरर्बुदः श्लीपदं तथा ६
विद्र धिर्व्रणशोथश्च द्वौ व्रणौ भग्ननाडिके
भगन्दरोपदंशौ च शूकदोषस्त्वगामयः ७
शीतपित्तमुदर्दश्च कोठश्चैवाम्लपित्तकम्
विसर्पश्च सविस्फोटः सरोमान्त्यो मसूरिकाः ८
क्षुद्रा स्यकर्णनासाक्षिशिरःस्त्रीबालकामयाः
विषं चेत्ययमुद्दिष्टो रुग्विनिश्चियसंग्रहः ९
सुभाषितं यत्र यदस्ति किञ्चित्तत्सर्वमेकीकृतमत्र यत्नात्
विनिश्चये सर्वरुजां नराणां श्रीमाधवेनेन्दुकरात्मजेन १०
यत्कृतं सुकृतं किञ्चित्कृत्वैवं रुग्विनिश्चयम्
मुञ्चन्तु जन्तवस्तेन नित्यमातङ्कसन्ततिम् ११
इति श्रीमाधवकरविरचितं माधवनिदानं समाप्तम्
समाप्तश्चायं ग्रन्थः

स्रोतः[सम्पाद्यताम्]

Madhava Nidana, by Madhavacharya,
edited by Vaidya Yadav ji Trikam ji Ìcharya, 1977 edition.
Typed by Om Prakash Sharma, B.A., and
proofread by Maya Nand Sastri, Ved Vyakaranacharya.
"https://sa.wikisource.org/w/index.php?title=माधवनिदानम्&oldid=75848" इत्यस्माद् प्रतिप्राप्तम्