सामग्री पर जाएँ

मातृकाभेदतन्त्रम्

विकिस्रोतः तः
मातृकाभेदतन्त्रम्
[[लेखकः :|]]

प्रथमः पटलः

[सम्पाद्यताम्]

कैलासशिखरे रम्ये नानारत्नोपशोभिते ।
पप्रच्छ परया भक्त्या भैरवं परमेश्वरम् ॥ १.१
श्रीचण्डिकोवाच ।
त्रिपुरापूजनं नाथ स्वर्णरत्नैर्विशेषतः ।
कलिकाले स्वर्णरूप्यं गुप्तभावं तथा मणिम् ॥ १.२
केनोपायेन देवेश स्वर्णरूप्यादि लभ्यते ।
तद्वदस्व विशेषेण यथा रत्नादिकं भवेत् ॥ १.३
यन्नोक्तं सर्वतन्त्रेषु तद्वदस्व दयानिधे ॥ १.४
श्रीशङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि यथा रत्नादिकं भवेत् ।
मत्तेजसा पारदेन किं रत्नं न हि लभ्यते ॥ १.५
तथा सामुद्रकेणैव सुशुभ्रलवणेन च ।
सम्बलस्य प्रकारं हि शृणु देवि प्रयत्नतः ॥ १.६
चीनतन्त्रानुसारेण पूजयेत्सिद्धकालिकाम् ।
अथवा पूजयेद्देवीं दक्षिणां कालिकां पराम् ।
कालीतन्त्रोक्तविधिना सप्ताहं जपपूजनम् ॥ १.७
सत्ये चैकं तु त्रेतायां द्विगुणं द्वापरे त्रयम् ।
एवं सर्वत्र जानीयाच्चतुर्गुणजपः कलौ ॥ १.८
आनीय बहुयत्नेन सम्बलं तोलद्वयम् ।
वसुराद्यं शिवं चाद्यं मायाबिन्दुविभूषितम् ।
बीजत्रयं चाष्टशतं प्रजपेत्सम्बलोपरि ॥ १.९
अशीतितोलकं मानं कृष्णधेनुसमुद्भवम् ।
दुग्धमानीय यत्नेन चाष्टोत्तरशतं जपेत् ॥ १.१०
वस्त्रयुक्तेन सूत्रेण दुग्धमध्ये विनिक्षिपेत् ।
उत्तापं जनयेद्धीमान्मन्दमन्देन वह्निना ॥ १.११
बिन्दु वेदान्तपर्यन्तमर्धशोषं भवेद्यदा ।
तदैवोत्तोल्य तद्द्रव्यं तोयमध्ये विनिक्षिपेत् ॥ १.१२
ततः परीक्षा कर्तव्या प्रदद्यात्पावकोपरि ।
निर्धूमं वावके द्रव्यं दृष्ट्वा उत्थाप्य यत्नतः ॥ १.१३
तत्रैव प्रजपेन्मन्त्रं सर्ववन्द्यनवात्मकम् ।
आनीय बहुयत्नेन शुद्धं ताम्रं मनोहरम् ॥ १.१४
सार्धेन तोलकं ताम्रं वह्निमध्ये विनिक्षिपेत् ।
यथा वह्निस्तथा ताम्रं दृष्ट्वा उत्थाप्य यत्नतः ॥ १.१५
गुञ्जाप्रमाणं तद्द्रव्यं तत्क्षणाद्यदि योजयेत् ।
सत्यं सत्यं हि गिरिजे रौप्यं भवति निश्चितम् ॥ १.१६
श्रीचण्डिकोवाच ।
कारणं दुग्धरूपं वा केन रूपेण शङ्करः ।
तत्प्रकारं महादेव कृपया वद शङ्कर ॥ १.१७
श्रीशङ्कर उवाच ।
टङ्कनमानयेद्धीमान् तोलकं तु चतुष्टयम् ।
वह्नियोगेन गिरिजे लाजरूपं चकार ह ॥ १.१८
आम्रपुष्पं तद्द्विगुणं पिष्ट्वा मिलनमाचरेत् ।
तस्योपरि जपेन्मन्त्रं महामायां हि चण्डिके ॥ १.१९
एतत्तु गुटिकां कृत्वा मेलनं कारयेद्यदि ।
तदैव दुग्धरूपं स्यात्सत्यं सत्यं हि शैलजे ॥ १.२०
श्रीचण्डिकोवाच ।
गन्धहीनं भवेन्मद्यं केनोपायेन शङ्कर ।
तत्सर्वं श्रोतुमिच्छामि यदि स्नेहोऽस्ति मा प्रति ॥ १.२१
श्रीशङ्कर उवाच ।
शिवं वह्निसमारूढं वामनेत्रविभूषितम् ।
बिन्दुनादसमायुक्तं गन्धमादाय संलिखेत् ॥ १.२२
उह्यतां पदमुच्चार्यं चाष्टोत्तरशतं यदि ।
प्रजपेत्साधकश्रेष्ठो दुर्गन्धादिविनाशनम् ॥ १.२३

द्वितीयः पटलः

[सम्पाद्यताम्]

श्रीदेव्युवाच ।
वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर ।
यत्त्वया कथितं नाथ मम सङ्गे विहारतः ॥ २.१
कथं वा जायते पुत्रः शुक्रस्य कत्र संस्थितिः ।
वर्धमानं सदा लिङ्गं प्रवेशो वा कथं भवेत् ॥ २.२
भीतियुक्ता ह्यहं नाथ त्राहि मां दुःखसङ्कटात् ॥ २.३
श्रीशङ्कर उवाच ।
मणिपूरं महापद्मं सुषुम्णामध्यसंस्थितम् ।
तस्य नालेन देवेशि नाभिपद्मं मनोहरम् ॥ २.४
वक्रत्रयसमायुक्तं सदा शुक्रविभूषितम् ।
ऊर्ध्वं नालं सहस्रारे अतः शुक्रविभूषितम् ॥ २.५
तस्मादेव स्तनद्वन्द्वं वर्धमानं दिने दिने ॥ २.६
मध्यनालं सुषुम्णान्तं वृन्ताकारं सुशीतलम् ।
आयोन्यग्रमधोनालं सदानन्दमयि शिवे ॥ २.७
शृणु चार्वङ्गि सुभगे तन्मध्ये लिङ्गताडनात् ।
यद्रूपं परमानन्दं तन्नास्ति भुवनत्रये ॥ २.८
नाभिपद्मं तु यद्रूपं तच्छृणुष्व समाहितः ।
बिन्दुस्थानं मध्यदेशे सदा पद्मविराजितम् ॥ २.९
बाह्यदेशे चाष्टपत्रं चतुरस्रं तु तद्बहिः ।
चतुर्द्वारसमायुक्तं सुवर्णाभं सवृत्तकम् ॥ २.१०
तत्पत्रेण भवेत्पुष्पं वृन्तयुक्तं त्रिपत्त्रकम् ।
प्रफुल्ले तु त्रिपत्रारे बाह्ये रुधिरदर्शनम् ॥ २.११
एतन्मध्ये महेशानि यदि स्याल्लिङ्गताडनम् ।
पद्ममध्ये गते शुक्रे संततिस्तेन जायते ॥ २.१२
पुरुषस्य तु यच्छुक्रं शक्तेरक्ताधिको भवेत् ।
तदा कन्या भवेद्देवि विपरीतः पुमान् भवेत् ॥ २.१३
उभयोस्तुल्यशुक्रेण क्लीबं भवति निश्चितम् ॥ २.१४
शृणु चार्वङ्गि सुभगे पुष्पमाहात्म्यमुत्तमम् ।
मध्ये तच्छुक्रसंयोगे वर्धते तद्दिने दिने ।
एवं दिङ्माससम्प्राप्ते तत्पुष्पं वृन्तसंयुतम् ॥ २.१५
गलिते परमेशानि व्यक्तो भवति संततिः ॥ २.१६
श्रीदेव्युवाच ।
किंचिद्रोगादिसम्भूते कृमिकीटादिसम्भवे ।
तस्मज्जीवं प्रणश्यन्ति सा नारी जीव्यते कथम् ॥ २.१७
श्रीशङ्कर उवाच ।
अस्य पुष्पस्य माहात्म्यं किं वक्तुं शक्यते मया ।
बिन्दुस्थानं सहस्रं तु पुष्पमध्ये प्रियंवदे ॥ २.१८
बुद्बुदा यत्र तिष्ठन्ति तत्रैव संततिर्भवेत् ।
एवं क्रमेण देवेशि सहस्रं संततिर्यदि ।
वर्धमानं महापुष्पं पीडा किंचिन्न जायते ॥ २.१९
मया सार्धं महेशानि विहारं कुरु यत्नतः ।
विहारे यो भवेत्पुत्रो गणेशः स च कीर्तितः ॥ २.२०
अपरे परमेशानि तव पुत्रप्रसादतः ।
पृथिव्यां जायते सृष्टिर्निर्विघ्नेन यथोचितम् ॥ २.२१
एतच्छ्रुत्वा ततो देवि मदनानलविह्वला ।
शिवेनालिङ्गिता देवी शिवाकारेण वै तदा ॥ २.२२

तृतीयः पटलः

[सम्पाद्यताम्]

 
श्रीदेव्युवाच ।
सर्वत्राहं श्रुता नाथ भोगं चेन्द्रियपुष्टिदम् ।
भोगेन मोक्षमाप्नोति कथं वदसि योगभृत् ॥ ३.१
श्रीशङ्कर उवाच ।
भोगेन लभते योगं भोगेन कुलसाधनम् ।
भोगेन सिद्धिमाप्नोति भोगेन मोक्षमाप्नुयात् ॥ ३.२
तस्माद्भोगं सदा कार्यं बाह्यपूजा यथेच्छया ।
भोजनस्य विधानं यत्तच्छृणुष्व प्रियंवदे ॥ ३.३
आधारे तु या शक्तिर्भुजगाकाररूपिणी ।
आत्मा परमेशानि तन्मध्ये वर्तते सदा ॥ ३.४
भोजनेच्छा भवेत्तस्मान्निर्लिप्तो जीवसंज्ञकः ।
सैव साक्षाद्गुणमयो निर्गुणो जीव उच्यते ॥ ३.५
जीवस्य भोजनं देवि भ्रान्तिरेव न संशयः ।
गुणयुक्ता कुण्डलिनी चन्द्रसूर्याग्निरूपिणी ॥ ३.६
मूलाधाराच्च तां देवीमाजिह्वान्तां विभावयेत् ।
शोधितान्मत्स्यमांसादीन् संमुखे स्थापयेद्बुधः ॥ ३.७
मूलमन्त्रं समुच्चार्य जुहोमि कुण्डलीमुखे ।
अनेन मनुना देवि प्रतिग्रासं समाहरेत् ॥ ३.८
प्रतिग्रासे परेशानि एवं कुर्याद्विचक्षणः ।
तदैव ब्रह्मरूपोऽसौ सत्यं सत्यं सुरेश्वरि ॥ ३.९
भुज्यते कुण्डली देवी इति चिन्तापरो हि यः ।
मन्त्रसिद्धिर्भवेत्तस्य ज्ञानसिद्धिर्न चान्यथा ॥ ३.१०
एवं कृते ब्रह्मरूपः शिवरूपः स्वयं हरिः ।
योगसिद्धिर्भवेत्तस्य चाष्टसिद्धिर्भविष्यति ॥ ३.११
शत्रुभिर्दीयते यत्तु कृत्रिमं दारुणं विषम् ।
भक्षणात्तत्क्षणे देवि ह्यमृतं नात्र संशयः ॥ ३.१२
मन्त्रेण शोधितं द्रव्यं भक्षणादमृतं भवेत् ।
यदैव कालकूटं तु समुद्रमथने प्रिये ॥ ३.१३
तदा चानेन मनुना तत्क्षणात्खादितं मया ॥ ३.१४
सर्पाकारा कुण्डलिनी या देवी परमा कला ।
भुज्यते सर्परूपेण तत्रैव दारुणं विषम् ॥ ३.१५
इति ते कथितं कान्ते भोजनस्य विधानकम् ।
एतत्सर्वं महेशानि गोप्तव्यं पशुसंकटे ॥ ३.१६
श्रीदेव्युवाच ।
शृणु नाथ परानन्द परापरकुलात्मक ।
वद मे परमेशान होमकुण्डं तु कीदृशम् ॥ ३.१७
श्रीशिव उवाच ।
मणिपूरस्य बाह्ये तु नाभिपद्मं मनोहरम् ।
अष्टपत्रं तथा वृत्तं तन्मध्ये कुण्डदुर्लभम् ॥ ३.१८
चतुरस्रादिकं देवि तत्कुण्डं कामरूपकम् ।
सर्वकुण्डस्य देवेशि विप्रः कर्ता विधीयते ॥ ३.१९
वर्तुलं बाहुजातस्य वैश्यस्य चार्धचन्द्रकम् ॥ ३.२०
त्रिकोणं पादजातस्य होमकुण्डं सुरेश्वरि ।
एवं कुण्डं महेशानि नालत्रयविभूषितम् ॥ ३.२१
ऊर्ध्वनालं सहस्रारे परामृतविभूषितम् ।
मध्यनालं नाभिपद्मे मूलाधारे च सुन्दरि ॥ ३.२२
आलिङ्गाग्रमधोनालं सदानन्दमयं शिवे ।
होमकुण्डमिदं देवि सर्वतन्त्रे परिष्कृतम् ॥ ३.२३
येन होमप्रसादेन साक्षाद्ब्रह्ममयो भवेत् ।
विप्रस्य चाहुतिहोमं विज्ञातव्यं चतुष्टयम् ॥ ३.२४
क्षत्रियस्य त्रयं देवि वैश्यस्य चाहुतिद्वयम् ।
शूद्रस्यैकाहुतिर्देवि मुक्तिश्चापि चतुर्विधा ॥ ३.२५
महामोक्षं ब्राह्मणस्य सायुज्यं क्षत्रियस्य च ।
सारूप्यं चोरुजातस्य सालोक्यं शूद्रजातिषु ॥ ३.२६
बाह्यकुण्डं बाह्यहोमे एव हि सुरवन्दिते ।
जातिभेदे कुण्डभेदं कुर्यात्साधकसत्तमः ॥ ३.२७
बाह्यहोमे काम्यसिद्धिर्भविष्यति न संशयः ।
ज्ञानहोमे मोक्षसिद्धिर्लभते नात्र संशयः ॥ ३.२८
इति ते कथितं कान्ते तन्त्राणां सारमुत्तमम् ।
न वक्तव्यं पशोरग्रे शपथो मे त्वयि प्रिये ॥ ३.२९
श्रीदेव्युवाच ।
मद्यपाने महापुण्यं सर्वतन्त्रे श्रुतं मया ।
जातिभेदं न कथितमिदानीं तत्प्रकाशय ॥ ३.३०
श्रीशङ्कर उवाच ।
सर्वयज्ञाधिपो विप्रः संशयो नास्ति पार्वति ।
सौत्रामण्यां कुलाचारे चत्वारो ब्राह्मणादयः ॥ ३.३१
ब्राह्मणस्य महामोक्षं मद्यपाने प्रियंवदे ।
ब्राह्मणः परमेशानि यदि पानादिकं चरेत् ॥ ३.३२
तत्क्षणाच्छिवरूपोऽसौ सत्यं सत्यं हि शैलजे ॥ ३.३३
तोये तोयं यथा लीनं यथा तेजसि तेजसम् ।
घटे भग्ने यथाकाशं वायौ वायुर्यथा प्रिये ॥ ३.३४
तथैव मद्यपानेन ब्राह्मणो ब्रह्मणि प्रिये ।
लीयते नात्र संदेहः परमात्मनि शैलजे ॥ ३.३५
सायुज्यादि महामोक्षं नियुक्तं क्षत्रियादिषु ।
सा नारी मानवी मद्यपाने देवि न संशयः ॥ ३.३६
सूक्ष्मसूत्रे यथा वह्निर्देहमध्ये तथा शिवा ।
तपोरूपं बृहत्सूत्रं पूजारूपं तथा हरिः ॥ ३.३७
संयुक्तं कुरुते यत्र वर्धमानो महाङ्कुशः ।
मद्यपानं विना देवि तज्ज्ञानं न हि लभ्यते ।
अत एव हि विप्रेण मद्यपानं सदा चरेत् ॥ ३.३८
वेदमाताजपेनैव ब्राह्मणो न हि शैलजे ।
ब्रह्मज्ञानं यदा देवि तदा ब्राह्मण उच्यते ॥ ३.३९
देवानाममृतं ब्रह्म तदियं लौकिकी सुरा ।
सुरत्वं भोगमात्रेण सुरा तेन प्रकीर्तिता ॥ ३.४०
मन्त्रत्रयं सदा पाठ्यं ब्रह्मशापादि मोचनम् ।
प्रकुर्यात्तु द्विजेनैव तदा ब्रह्ममयी सुरा ॥ ३.४१
हविरारोपमात्रेण वह्निर्दीप्तो यथा भवेत् ।
शापमोचनमात्रेण सुरा मुक्तिप्रदायिनी ॥ ३.४२
अत एव हि देवेशि ब्राह्मणः पानमाचरेत् ।
स ब्राह्मणः स वेदज्ञः सोऽग्निहोत्री स दीक्षितः ॥ ३.४३
बहु किं कथ्यते देवि स एव त्रिगुणात्मकः ॥ ३.४४
मुक्तिमार्गमिदं देवि गोप्तव्यं पशुसंकटे ।
प्रकाशात्कायहानिः स्यान्निन्दनीयो न चान्यथा ॥ ३.४५

चतुर्थः पटलः

[सम्पाद्यताम्]

श्रीचण्डिकोवाच ।
कारणेन महामोक्षं निर्माल्येन शिवस्य च ।
श्रुतं वेदे पुराणे च तव वक्त्रे सुरेश्वर ॥ ४.१
अग्राह्यं तव निर्माल्यमग्राह्यं कारणं विभो ।
मृषा वाक्यं महादेव कथं वदसि योगभृत् ॥ ४.२
कारणेन विना देवि मोक्षज्ञानादिकं न हि ।
महाशङ्खं विना देवि न मन्त्रः सिद्धिदायकः ॥ ४.३
साक्षाद्ब्रह्ममयी माला महाशङ्खाख्यया पुनः ।
शिलायन्त्रे च वृन्दायां गङ्गायां सुरपूजिते ।
नैव स्पृशेन्महाशङ्खं स्पर्शनात्काष्ठवद्भवेत् ॥ ४.४
श्रीचण्डिकोवाच ।
गङ्गा तु कारणं वारि मद्यं परमकारणम् ।
कारणस्पर्शमात्रेण मालाः शुद्धा भवन्ति हि ॥ ४.५
गङ्गास्पर्शेन देवेश काष्ठवन्मालिका कथम् ।
वद मे परमेशान इति मे संशयो हृदि ॥ ४.६
श्रीशंकर उवाच ।
कारणं देवदेवेशि मोक्षदं सर्वजातिषु ।
तथा स्वर्गादिजनकं गङ्गातोयं न संशयः ॥ ४.७
कारणे निवसेद्देवि महाकाली परा कला ।
महाविद्या वसेन्नित्यं सुरायां परमेश्वरि ॥ ४.८
महाशङ्खे वसेन्नित्यं पञ्चाशद्वर्णरूपिणी ।
महाविद्या वसेन्नित्यं महाशङ्खे च सर्वदा ॥ ४.९
गङ्गास्पर्शनमात्रेण गङ्गायां लीयते प्रिये ।
काष्ठस्पर्शनमात्रेण काष्ठे वह्निस्तृणे यथा ॥ ४.१०
गङ्गास्पर्शे तथा देवि गङ्गायां लीयते प्रिये ।
तत्क्षणे च महाशङ्खः काष्ठवन्नात्र संशयः ॥ ४.११
शिलायन्त्रे तुलस्यादौ तथैव परमेश्वरि ॥ ४.१२
महाशङ्खाख्यमालायां यो जपेत्साधकोत्तमः ।
अष्टसिद्धिः करे तस्य स एव शम्भुरव्ययः ।
मौलौ गङ्गा स्थिता यस्य गङ्गास्नानेन तस्य किम् ॥ ४.१३
वाराणसी कामरूपं हरिद्वारं प्रयागकम् ।
गण्डकी बदरिका देवि गङ्गासागरसंगमम् ॥ ४.१४
यस्य भक्तिर्महाशङ्खे तस्य दर्शनमात्रतः ।
तीर्थस्नानफलं सर्वं लभते नात्र संशयः ॥ ४.१५
इति ते कथितं कान्ते सर्वं परमदुर्लभम् ।
न वक्तव्यं पशोरग्रे प्राणान्ते परमेश्वरि ॥ ४.१६

पञ्चमः पटलः

[सम्पाद्यताम्]


श्रीचण्डिकोवाच ।
पारदं भस्मनिर्माणं केनोपायेन शंकर ।
तदहं श्रोतुमिच्छामि यदि तेऽस्ति कृपा मयि ॥ ५.१
श्रीशंकर उवाच ।
पारदे भस्मनिर्माणे नानाविघ्नानि पार्वति ।
अत एव हि तत्रादौ शान्तिं कुर्याद्द्विजोत्तमः ॥ ५.२
वरयेत्कर्मकर्तारं वक्ष्यमाणविधानतः ।
पूजयेत्षोडशलिङ्गं पार्थिवं पर्वतात्मजे ॥ ५.३
षोडशेनोपचारेण तोडलोक्तविधानतः ।
भोगयोग्यं प्रदातव्यं मधुपर्कं सुरेश्वरि ॥ ५.४
पञ्चामृतेन देवेशं स्नापयेच्छुद्धवारिणा ।
पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् ॥ ५.५
चतुरङ्गुलिविस्तारं रौप्यनिर्माणपीठकम् ।
अलंकारं यथायोग्यं पुरुषस्य निवेदयेत् ॥ ५.६
अलक्तकयुतं वापि दद्यान्मलयजं शिवे ।
षडङ्गधूपं देवेशि प्रदद्याच्च पुनः पुनः ॥ ५.७
घृतयुक्तं तथा दीपं दद्यात्कल्याणहेतवे ।
नैवेद्यं विविधं रम्यं नानाफलसमन्वितम् ॥ ५.८
शर्करासंयुतं कृत्वा पायसं विनिवेदयेत् ।
दद्यात्तोयं महेशानि विजयासंयुतं प्रिये ॥ ५.९
षडक्षरं महामन्त्रं गजान्तकसहस्रकम् ।
प्रजपेत्साधकश्रेष्ठस्ततः सिद्धो भवेद्ध्रुवम् ॥ ५.१०
अथवा परमेशानि धनदां धनदायिनीम् ।
पूजयेद्बहुयत्नेन षोडशेनोपचारतः ॥ ५.११
द्वादशाह्वं यजेद्धीमान् दिक्सहस्रं ततो जपेत् ।
तद्दशांशं महेशानि होमं कुर्याद्विचक्षणः ॥ ५.१२
होमकर्माद्यशक्तश्चेद्द्विगुणं जपमाचरेत् ।
यदि प्रीता भवेत्सा हि तदा किं वा न सिध्यति ॥ ५.१३
प्रत्यहं परमेशानि कुबेरो दीयते वसु ।
भस्मनिर्माणकं देवि विचित्रं तस्य किं शिवे ॥ ५.१४
गुरवे दक्षिणां दद्याद्यथाविभवविस्तरैः ।
ततः सिद्धो भवेन्मन्त्री नात्र कार्या विचारणा ॥ ५.१५
श्रीचण्डिकोवाच ।
विधानं देवदेवेश भस्मनिर्माणकर्मणि ।
सकृत्कृते येन रूपे भस्मसाज्जायते विभो ॥ ५.१६
श्रीशंकर उवाच ।
आनीय पारदं देवि स्थापयेत्प्रस्तरोपरि ।
तस्योपरि जपेन्मन्त्रं सर्ववन्द्यनवात्मकम् ॥ ५.१७
साष्टसहस्रं देवेशि प्रजपेत्साधकाग्रणीः ।
स्ययम्भुपुष्पसंयुक्ते वस्त्रे चारुणसंनिभे ॥ ५.१८
संस्थाप्य पारदं देवि मृत्पात्रयुगले शिवे ।
पुष्पयुक्तेन सूत्रेण बध्नीयाद्बहुयत्नतः ॥ ५.१९
मुक्तिधाराजलेनैव धान्यस्य परमेश्वरि ।
लेपयेद्बहुयत्नेन रौद्रे शुष्कं च कारयेत् ॥ ५.२०
पुनश्च लेपयेद्धीमान् ततो वह्नौ विनिक्षिपेत् ।
अष्टमीनवमीरात्रौ क्षिपेन्नैव सुरेश्वरि ॥ ५.२१
अथवा परमेशानि मृत्पात्रे स्थापयेद्रसम् ।
वल्लीरसेन तद्द्रव्यं शोधयेद्बहुयत्नतः ॥ ५.२२
घृतनारीरसेनैव तथैव शोधनं चरेत् ।
एवं कृते तु गुटिका यदि स्याद्दृढबन्धनम् ॥ ५.२३
धुस्तुरं च समानीय मध्ये शून्यं च कारयेत् ।
कृष्णाख्यतुलसीयोगे तथा घृतकुमारिका ॥ ५.२४
एवं कृते वह्नियोगे भस्मसाज्जायते किल ।
भस्मयोगे भवेत्स्वर्णं धनदायाः प्रसादतः ॥ ५.२५
विवर्णं जायते द्रव्यं यदि पूजां न चाचरेत् ॥ ५.२६
श्रीचण्डिकोवाच ।
स्वयम्भु कीदृशं नाथ कुण्डगोलं तु कीदृशम् ।
स्वपुष्पं कीदृशं नाथ वज्रपुष्पं तु कीदृशम् ।
सर्वकालोद्भवं नाथ कीदृशं वद शंकर ॥ ५.२७
श्रीशंकर उवाच ।
विवाहरहिता कन्या प्रथमं पुष्पसंयुता ।
तच्छोणितं महेशानि स्वयम्भु नात्र संशयः ॥ ५.२८
भर्तरि विद्यमाने तु या कन्या चान्यजा शिवे ।
तदुद्भवं कुण्डपुष्पं सर्वकार्यार्थसाधकम् ॥ ५.२९
मृते भर्तरि देवेशि या कन्या अन्यजा शिवे ।
तदुद्भवं गोलपुष्पं देववश्यकरं परम् ॥ ५.३०
विवाहितायाः कन्यायाः प्रथमे ऋतुसम्भवे ।
तच्छोणितं महेशानि स्वपुष्पं सर्वमोहनम् ॥ ५.३१
विवाहितायाः कन्यायाः पुरुषस्य च ताडनात् ।
यदि पुष्पं समुद्भूतं वज्रं तत्परिकीर्तितम् ॥ ५.३२
विवाहितायाः कन्यायाः प्रतिमासे च यद्भवेत् ।
सर्वकालोद्भवं पुष्पं कथितं वीरवन्दिते ॥ ५.३३
समक्रोशं वह्निमध्ये स्थापयेद्बहुयत्नतः ।
तत उत्थाय तद्द्रव्यं स्वर्णपात्रे निधाय च ॥ ५.३४
प्रजपेत्परमेशानि प्रासादाख्यं महामनुम् ।
ततः सिद्धो भवेन्मन्त्री नान्यथा मम भाषितम् ॥ ५.३५
एतन्मन्त्रं महेशानि गजान्तकसहस्रकम् ।
जपित्वा पूजयेत्पश्चात्पार्थिवं शिवलिङ्गकम् ॥ ५.३६
ततः परीक्षा कर्तव्या शृणु मत्प्राणवल्लभे ।
शुद्धताम्रं वह्निमध्ये मृत्पात्रे तोलकं मितम् ॥ ५.३७
द्रवीभूते च ताम्रे च गुञ्जामानं क्षिपेद्यदि ।
तत्क्षणे परमेशानि स्वर्णं भवति निश्चितम् ॥ ५.३८
गुञ्जाप्रमाणं तद्द्रव्यं भोजनं कुरुते यदि ।
सर्वरोगपरित्यक्तो जायते मदनोपमः ।
मन्त्रसिद्धिर्भवेत्तस्य जायते चिरजीविता ॥ ५.३९
प्रत्यहं परमेशानि शतनारीं रमेद्यदि ।
वीर्यादिरहितं न स्यात्तेजोवृद्धिकरं परम् ॥ ५.४०
मरणं नैव पश्यामि यदि ध्यानयुतो भवेत् ।
तस्य वित्तं विलोक्यैव कुबेरोऽपि तिरस्कृतः ॥ ५.४१
गानेन तुम्बुरुः साक्षाद्दानेन वासवो यथा ।
महेश इव योगीन्द्रो निरृतिरिव दुर्धरः ॥ ५.४२
महाबलो महावीर्यो महासाहसिकः शुचिः ।
महास्वच्छो दयावांश्च सर्वप्राणिहिते रतः ।
बहु किं कथ्यते देवि स एव गणनायकः ॥ ५.४३

षष्टः पटलः

[सम्पाद्यताम्]


श्रीचण्डिकोवाच ।
वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर ।
महारोगे महादुःखे महादारिद्र्यसंकटे ॥ ६.१
नाना व्याधिगते वापि नानापीडादिसंकटे ।
राज्यनाशे राजभये कारागारगते पुनः ॥ ६.२
रायदण्डे च देवेश तथा च ग्रहपीडिते ।
केनोपायेन देवेश मुच्यते वद शंकर ॥ ६.३
श्रीशंकर उवाच ।
शृणु चार्वङ्गि सुभगे यन्मां त्वं परिपृच्छसि ।
तत्तत्सर्वं प्रवक्ष्यामि सावधानावधारय ॥ ६.४
या चाद्या परमा विद्या चामुण्डा कालिका परा ।
तस्याः प्रयोगमात्रेण किं न सिध्यति भूतले ॥ ६.५
श्रीचण्डिकोवाच ।
राहुश्चण्डालो विख्यातः सर्वत्र परमेश्वर ।
पुण्यकालः कथं देव तस्य स्पर्शे दिवाकरे ॥ ६.६
निशाकरे तथा नाथ इति मे संशयो हृदि ।
कथयस्व परानन्द पश्चादन्यत्प्रकाशय ॥ ६.७
श्रीशंकर उवाच ।
शृणु चार्वङ्गि सुभगे ग्रहणं चोत्तमोत्तमम् ।
ग्रहणं त्रिविधं देवि चन्द्रसूर्याग्निसंयुतम् ॥ ६.८
शक्तेर्ललाटके नेत्रे वह्निस्तिष्ठति सर्वदा ।
वामनेत्रे तथा चन्द्रो दक्षे सूर्यः प्रतिष्ठितः ॥ ६.९
शम्भुनाथेन देवेशि रमणं क्रियते यदा ।
तदैव ग्रहणं देवि शक्तियुक्तो यदा शिवः ॥ ६.१०
वामनेत्रे चुम्बने तु शशाङ्कग्रहणं तदा ।
दक्षनेत्रे चुम्बने च भास्करग्रहणं तदा ॥ ६.११
ललाटे चुम्बने चाग्निग्रहणं परमेश्वरि ।
शिववीर्यं यतो वह्निरतोऽदृश्यः सुरेश्वरि ॥ ६.१२
राहुः शिवः समाख्यातस्त्रिगुणा शक्तिरीरिता ।
शिवशक्त्योः समायोगो ग्रहणं परमेश्वरि ॥ ६.१३
शिवशक्तिसमायोगः कालं ब्रह्ममयं प्रिये ।
अत एव महेशानि राश्यादीन्न विचारयेत् ॥ ६.१४
तिथिनक्षत्रयोगेन यद्योगं परमेश्वरि ।
तदैव परमेशानि राश्यादिगणनं चरेत् ॥ ६.१५
शिवशक्तिसमायोगात्सर्वं ब्रह्ममयं जगत् ।
मासपक्षतिथीनां च नोच्चार्यं परमेश्वरि ॥ ६.१६
दृष्टिमात्रेण जप्तव्यं तदा सिद्धिर्भवेद्ध्रुवम् ।
तत्कालं परमं कालं विज्ञेयं वीरवन्दिते ॥ ६.१७
तत्र यद्यत्कृतं सर्वमनन्तफलमीरितम् ।
पुरैव कथितं सर्वं बहु किं कथ्यतेऽधुना ॥ ६.१८
एतत्सुगुप्तभेदं हि तव स्नेहात्प्रकाशितम् ।
न वक्तव्यं पशोरग्रे न वक्तव्यं सुरेश्वरि ॥ ६.१९
एतत्तत्त्वं प्रयत्नेन ब्रह्मा जानाति माधवः ।
प्रगोप्तव्यं प्रयत्नेन स्वयोनिरिव शैलजे ॥ ६.२०
श्रीचण्डिकोवाच ।
चामुण्डाया महामन्त्रं कीदृशं परमेश्वर ।
आराधनं कीदृशं वा तद्वदस्व दयानिधे ॥ ६.२१
श्रीशंकर उवाच ।
शृणु चार्वङ्गि सुभगे चामुण्डामन्त्रमुत्तमम् ।
यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ ६.२२
कालीबीजयुगं देवि कूर्चबीजं ततः परम् ।
त्र्यक्षरी परमा विद्या चामुण्डा कालिका स्वयम् ॥ ६.२३
सप्ताहं पूजयेद्देवीमुपचारैश्च षोडशैः ।
पूजान्ते प्रजपेन्मन्त्रं त्रिसहस्रं वरानने ॥ ६.२४
रात्रौ तु पञ्चतत्त्वेन पूजयेत्परमेश्वरीम् ।
तथा रात्रौ जपेन्मन्त्रं कुलशक्तिसमन्वितम् ॥ ६.२५
यन्त्रनिर्माणयोग्यं हि पीठं दद्यात्सुविस्तरम् ।
भोगयोग्यं प्रदातव्यं मधुपर्कं यथोचितम् ॥ ६.२६
शक्तेर्यथा विधेयं स्याद्युवत्याः परमेश्वरि ।
तथा वस्त्रं प्रदातव्यं सर्वकल्याणहेतवे ॥ ६.२७
अलंकारं यथायोग्यं तत्र तत्र नियोजयेत् ।
नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् ॥ ६.२८
सामिषान्नं प्रदातव्यं परमान्नं सशर्करम् ।
पूजयेत्परया भक्त्या बलिदानं ततः परम् ॥ ६.२९
प्रत्यहं परमेशानि चाद्यन्ते वा बलिं हरेत् ।
साङ्गे जाते महेशानि चाथवा बलिमाहरेत् ॥ ६.३०
एवं कृते महासिद्धिं लभते नात्र संशयः ।
धनार्थी धनमाप्नोति पुत्रार्थी पुत्रवान् भवेत् ॥ ६.३१
विवादे जयमाप्नोति राजद्वारे जयी भवेत् ।
सर्वत्र विजयी भूत्वा देवीपुत्र इव क्षितौ ॥ ६.३२
रोगेभ्यो घोररूपेभ्यः पूजयित्वा प्रमुच्यते ।
इच्छासिद्धिर्भवेत्तस्य सर्वसिद्धिर्न चान्यथा ॥ ६.३३
कारागारगते देवि मुच्यते नात्र संशयः ।
प्रयोगं परमेशानि सारं परमदुर्लभम् ॥ ६.३४
अतिस्नेहेन देवेशि तव स्थाने प्रकाशितम् ।
अथवा परमेशानि पठेच्चण्डीं सनातनीम् ॥ ६.३५
पूजयेच्चण्डिकां देवीं सुगन्धिपुष्पसंयुतैः ।
धूपदीपेन गन्धेन नैवेद्येन सुरेश्वरि ॥ ६.३६
अवश्यं पञ्चतत्त्वेन पूजयेच्चण्डिकां पराम् ॥ ६.३७
आदावृष्यादिसूक्तेन चार्घ्यान्ते परमेश्वरि ।
पञ्चतत्त्वं समानीय शोधयेच्छास्त्रवित्तमः ॥ ६.३८
तर्पणं च ततः कृत्वा चार्घ्यपात्रे विनिक्षिपेत् ।
अर्घ्योदकेन संप्रोक्ष्य पूजयेत्पीठदेवताम् ॥ ६.३९
प्रणवं च समुद्धृत्य मायाबीजं ततः परम् ।
प्रभां मायां जयां सूक्ष्मां विशुद्धां नन्दिनीं तथा ॥ ६.४०
सुप्रभां विजयां सर्वसिद्धिदां परिपूजयेत् ।
वज्रनखदंष्ट्रायुधाय हूं फडित्यन्ततस्ततः ॥ ६.४१
नमोऽन्तेन तु देवेशि आसनं च समर्चयेत् ।
गुरुपङ्क्तिं पूजयित्वा पुनर्ध्यानं समाचरेत् ॥ ६.४२
आवाहनं ततो मुद्रां जीवन्यासं प्रपूजनम् ।
षडङ्गेन तु सम्पूज्य परिवारान् प्रपूजयेत् ॥ ६.४३
शङ्खनिधिं पद्मनिधिं तथा ब्राह्म्यादिकं यजेत् ।
इन्द्रादींश्चैव वज्रादीन् पूजयेत्साधकोत्तमः ॥ ६.४४
प्रणवादिनमोऽन्तेन पूजयेत्साधकोत्तमः ।
पुनर्देवीं महेशानि पञ्चतत्त्वेन पूजयेत् ॥ ६.४५
प्राणायामं ततः कृत्वा गुरुमन्त्रेष्टदेवताम् ।
ऐक्यं विभाव्य देवेशि मूलमन्त्रं जपेच्छतम् ॥ ६.४६
प्राणायामं ततः कृत्वा कारणादीन् समाहरेत् ।
तस्यै दत्त्वा स्वयं पीत्वा पठेच्चण्डीं सुरेश्वरि ॥ ६.४७
साङ्गे जाते तु माहात्म्ये पुनः पानं समाचरेत् ।
ततस्तु प्रपठेद्धीमान् क्रमेण पानमाचरेत् ॥ ६.४८
समाप्ते तु विलोमेन पुनर्मन्त्रं शतं जपेत् ।
यदि भाग्यवशाद्देवि शक्तियोगं लभेन्नरः ॥ ६.४९
तत्क्षणे हि विजानीयात्सर्वसिद्धिः करे स्थिता ।
एवं कृत्वा महेशानि यदि पाठं समाचरेत् ॥ ६.५०
माहात्म्यं तस्य पाठस्य किं वक्तुं शक्यते मया ।
शतवक्त्रं यदि भवेत्तदा वक्तुं न शक्यते ॥ ६.५१
पञ्चवक्त्रेण देवेशि किं वक्तुं शक्यतेऽधुना ।
सकृत्पाठेन देवेशि किं पुनर्ब्रह्म केवलम् ॥ ६.५२
अवश्यं लभते शान्तिं सर्वत्र परमेश्वरि ।
यदि शान्तिं न लभते मम वाक्यं मृषा तदा ॥ ६.५३
षोडशेनोपचारेण प्रथमं पूजनं चरेत् ।
द्वितीये पञ्चतत्त्वेन पूजयेच्चण्डिकां प्रिये ॥ ६.५४
सहस्रावृत्तिपाठेन यत्फलं लभते नरः ।
सकृत्पाठस्य देवेशि कलां नार्हति षोडशीम् ॥ ६.५५
ध्यानमस्याः प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ ६.५६
ओं या चण्डी मधुकैटभादिदैत्यदलनी माहिषोन्मादिनी या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिलक्ष्मीः परा सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॥ ६.५७
ध्यानमेतच्चण्डिकायाः शृणुष्व वीरवन्दिते ॥ ६.५८
शृणु मन्त्रं प्रवक्ष्यामि त्रैलोक्येषु च दुर्लभम् ।
वेदाद्यं वाग्भवं मायां कामबीजं ततः परम् ॥ ६.५९
स्थिरमायां महामायां कामबीजं ततो नमः ।
नवाक्षरं महामन्त्रं जपेदादौ शतं प्रिये ॥ ६.६०
विपरीतं महामन्त्रं पाठान्ते तु शतं जपेत् ।
शृणु देवि प्रवक्ष्यामि ऋषिच्छन्दः सुदुर्लभम् ॥ ६.६१
ओं सप्तशतीमहास्तोत्रस्य मेधातिथिऋषिर्गायत्र्यनुष्टुब्बृहतीपंक्तित्रिष्तुब्जगत्यश्छन्दांसि महाकालीमहालक्ष्मीमहासरस्वीदेवतास्तवकमैं ह्रीं क्लीं बीजानि क्ष्रौं शक्तिः ममामुककामसिद्ध्यर्थे विनियोगः ॥ ६.६२
प्रणवेन महेशानि षडङ्गन्यासमाचरेत् ।
इति ते कथितं कान्ते चण्डीपाठस्य लक्षणम् ॥ ६.६३
सार्वणिः सूर्य इत्यादि सार्वणिर्भविता मनुः एतन्मात्रं पठेद्देवि किंचिन्न्यूनाधिकं न हि ॥ ६.६४
वारत्रयं पठेद्देवि संजप्य तु दिनत्रयम् ॥ ६.६५
महारोगे सहादुःखे राजपीडादिदारुणे ।
नाना व्याधिगते वापि राज्यनाशे तथा भये ॥ ६.६६
ग्रहपीडादिसंजाते ब्रह्महत्यादिपातके ।
एवं पाठेन देवेशि मुच्यते नात्र संशयः ॥ ६.६७
बहु किं कथ्यते देवि सर्वशान्तिं लभेन्नरः ।
सर्वशङ्काविनिर्मुक्तो जायते मदनोपमः ॥ ६.६८
एवं कृते महेशानि यदि सिद्धिर्न जायते ।
पुनस्तेनैव कर्तव्यं ततः सिद्धो भवेद्ध्रुवम् ॥ ६.६९

सप्तमः पटलः

[सम्पाद्यताम्]


श्रीशिव उवाच ।
अथातः सम्प्रवक्ष्यामि त्रिपुरामन्त्रमुत्तमम् ।
यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ ७.१
त्रिपुरा त्रिविधा देवि बाला प्रोक्ता पुरा शिवे ।
तथैव भैरवी देवी नित्यातन्त्रे मयोदिता ।
इदानीं सुन्दरीं देवी शृणु पार्वति सादरम् ॥ ७.२
श्रीदेव्युवाच ।
महामन्त्रं श्रुतं नाथ वामकेश्वरयामले ।
प्रातःकृत्यादि देवेश आराधनक्रमं वद ॥ ७.३
श्रीशिव उवाच ।
प्रातरुत्थाय मन्त्रज्ञः सहस्रारे निजं गुरुम् ।
पूर्वोक्तध्यानमुच्चार्य पूजयेद्बहुयत्नतः ॥ ७.४
तथा च श्रीगुरोर्ध्यानं गुप्तसाधनतन्त्रके ।
कथितं च मया पूर्वं मन्त्रं शृणु वरानने ॥ ७.५
वाग्बीजं च महामायां विष्णुशक्तिं समुच्चरेत् ।
हसखफ्रें तथानन्दभैरवस्य मनुं ततः ॥ ७.६
तस्य शक्तेर्मनुं पश्चात्ततश्चैवं हसौः स्मृतः ।
श्रीगुरोश्च तथा शक्तेर्मन्त्रमेतत्सुरेश्वरि ॥ ७.७
श्रीगुरोरानन्दनाथान्ते अथातः शक्तिरीरिता ।
वाग्बीजादीन् समुच्चार्य अमुकानन्दनाथ च ॥ ७.८
श्रीपादुकां समुच्चार्य पूजयामि नमस्ततः ।
वाग्बीजं च शम्भुपत्नीं तदुत्तरे हरिप्रियाम् ॥ ७.९
भूतबीजं समुच्चार्य प्रवदेच्च तदात्मकम् ।
समर्पयामि देवेशि पूजाविधिरिति प्रिये ॥ ७.१०
ततश्चाष्टाक्षरं मन्त्रमष्टोत्तरशतं जपेत् ।
जपं समर्पयित्वा तु नमेदञ्जलिना प्रिये ॥ ७.११
श्रीदेव्युवाच ।
स्तुतिं च कवचं नाथ श्रोतुमिच्छामि साम्प्रतम् ।
श्रीगुरोः कवचं स्तोत्रं त्वया प्रोक्तं पुरा प्रभो ॥ ७.१२
इदानीं स्त्रीगुरोः स्तोत्रं कवचं मयि कथ्यताम् ।
यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ ७.१३
श्रीशिव उवाच ।
शृणु देवि प्रवक्ष्यामि स्तोत्रं परमगोपनम् ।
यस्य श्रवणमात्रेण संसारान्मुच्यते नरः ॥ ७.१४
नमस्ते देवदेवेशि नमस्ते हरपूजिते ।
ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः ॥ ७.१५
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
यया चक्षुरुन्मीलितं तस्यै नित्यं नमो नमः ॥ ७.१६
भवबन्धनपारस्य तारिणी जननी परा ।
ज्ञानदा मोक्षदा नित्या तस्यै नित्यं नमो नमः ॥ ७.१७
श्रीनाथवामभागस्था सदा या सुरपूजिता ।
सदा विज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ ७.१८
सहस्रारे महापद्मे सदानन्दस्वरूपिणी ।
महामोक्षप्रदा देवी तस्यै नित्यं नमो नमः ॥ ७.१९
ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी ।
त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः ॥ ७.२०
चन्द्रसूर्याग्निरूपा च सदाघूर्णितलोचना ।
स्वनाथं च समालिङ्ग्य तस्यै नित्यं नमो नमः ॥ ७.२१
ब्रह्मविष्णुशिवत्वादिजीवन्मुक्तिप्रदायिनी ।
ज्ञानविज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ ७.२२
इदं स्तोत्रं महेशानि यः पठेद्भक्तिसंयुतः ।
स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः ॥ ७.२३
प्रातःकाले पठेद्यस्तु गुरुपूजापुरःसरम् ।
स एव धन्यो लोकेऽस्मिन् देवीपुत्र इव क्षितौ ॥ ७.२४
श्रीशङ्कर उवाच ।
स्तोत्रं समाप्तं देवेशि कवचं शृणु सादरम् ।
यस्य श्रवणमात्रेण वागीशसमतां व्रजेत् ॥ ७.२५
स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः ।
तदाख्या देवता प्रोक्ता चतुर्वर्गफलप्रदा ॥ ७.२६
क्लीं बीजं मे शिरः पातु तदाख्यातं ललाटकम् ।
क्लीं बीजं चक्षुषोः पातु सर्वाङ्गं मे सदावतु ॥ ७.२७
ऐं बीजं मे मुखं पातु ह्रीं जङ्घां परिरक्षतु ।
श्रीं बीजं स्कन्धदेशं मे वाग्भवं मे भुजद्वयम् ॥ ७.२८
हकारं मे दक्षभुजं क्षकारं वामहस्तकम् ।
क्षमणौ तदधः पातु लकारं हृदयं मम ॥ ७.२९
रकारं पृष्ठदेशं च रकारं दक्षपार्श्वकम् ।
जूङ्कारं वामपार्श्वे तु सकारं मेरुमेव तु ॥ ७.३०
मकारं चाङ्गुलीः पातु लकारं मे नखोपरि ।
वकारं मे नितम्बं च रकारं जानुयुग्मकम् ॥ ७.३१
यीःकारं पादयुगलं हसौः सर्वाङ्गमेव तु ।
हसौर्लिङ्गं च लोमं च केशं च परिरक्षतु ॥ ७.३२
ऐं बीजं पातु पूर्वे तु ह्रीं बीजं दक्षिणेऽवतु ।
श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् ॥ ७.३३
श्रीं पातु चाग्निकोणे च तदाख्यां नैरृतेऽवतु ।
देव्यम्बा पातु वायव्यां शम्भोः श्रीपादुकां तथा ॥ ७.३४
पूजयामि तथा चोर्ध्वं नमश्चाधः सदावतु ।
इति ते कथितं कान्ते कवचं परमाद्भुतम् ॥ ७.३५
गुरुमन्त्रं जपित्वा तु कवचं प्रपठेद्यदि ।
स सिद्धः सगणः सोऽपि शिवः साक्षान्न संशयः ॥ ७.३६
पूजाकाले पठेद्यस्तु कवचं मन्त्रविग्रहम् ।
पूजाफलं भवेत्तस्य सत्यं सत्यं सुरेश्वरि ॥ ७.३७
त्रिसंध्यं यः पठेद्देवि स सिद्धो नात्र संशयः ॥ ७.३८
भूर्जे विलिख्य गुटिकां स्वर्णस्था धारयेद्यदि ।
तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः ॥ ७.३९
विवादे जयमाप्नोति रणे च निरृतिरिव ।
सभायां जयमाप्नोति मम तुल्यो न संशयः ॥ ७.४०
सहस्रारे भावयं स्तां त्रिसन्ध्यं प्रपठेद्यदि ।
स एव सिद्धो लोकेशो निर्वाणपदमीहते ॥ ७.४१
समस्तमङ्गलं नाम कवचं परमाद्भुतम् ।
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥ ७.४२
देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् ।
अभक्तेभ्योऽपि देवेशि पुत्रेभ्योऽपि न दर्शयेत् ॥ ७.४३
इदं कवचमज्ञात्वा दशविद्यां च यो जपेत् ।
स नाप्नोति फलं तस्य परे च नरकं व्रजेत् ॥ ७.४४
समाप्तं कवचं देवि किमन्यच्छ्रोतुमिच्छसि ।
तव स्नेहानुबन्धेन किं मया न प्रकाशितम् ॥ ७.४५
कूर्चबीजं समुच्चार्य प्राणमन्त्रं ततः प्रिये ।
अनेन वायुयोगेन कुण्डलीचक्रं संचरेत् ॥ ७.४६
अष्टोत्तरशतं मूलमन्त्रं जप्त्वा नमेत्सुधीः ।
स्नानकर्म ततः कृत्वा संध्यां कुर्यात्पुरोदिताम् ॥ ७.४७
श्रीदेव्युवाच ।
संध्यायाः कीदृशं ध्यानं वद मे परमेश्वर ।
श्रीविद्याविषये नाथ विशेषो मयि कथ्यताम् ॥ ७.४८
श्रीशिव उवाच ।
ध्यायेच्च सुन्दरीं देवीं त्रिविधां बीजरूपिणीम् ।
प्रभाते वाग्भवां देवी मध्याह्ने मदनात्मिकाम् ॥ ७.४९
सायाह्ने शक्तिरूपां च त्रिविधां बिन्दुरूपिणीम् ।
पूजाकाले महादेवीं ध्यानानुरूपिणीं शिवाम् ॥ ७.५०
वाग्भवेनेन्दुसदृशां शुक्लवर्णां विचिन्तयेत् ।
शक्तिबीजं स्वर्णवर्णं रक्तवर्णां विभावयेत् ॥ ७.५१
प्रभाते शुक्लवर्णाभां मध्याह्ने नीलसंनिभाम् ।
सायाह्ने रक्तवर्णाभां भावयेत्साधकोत्तमः ॥ ७.५२
एवं ध्यात्वा महेशानि संध्यां कुर्याद्विचक्षणः ।
शिवपूजां ततः कृत्वा पूजयेत्परदेवताम् ॥ ७.५३
ततस्तु पूजयेद्देवीं त्रिपुरां मोक्षदायिनीम् ।
त्रिपुरा परमा विद्या महाविद्या पतिव्रता ॥ ७.५४
पतिपूजां विना पूजां न गृह्णाति कदाचन ।
अत एव महेशानि आदौ लिङ्गं प्रपूजयेत् ॥ ७.५५
पञ्चाक्षरं पञ्चवक्त्रं पूजयेद्बहुयत्नतः ।
ततस्तु पूजयेद्देवीं त्रिपुरां मोक्षदायिनीम् ॥ ७.५६
श्रीदेव्युवाच ।
किमाधारे यजेच्छम्भुं कृपया वद शंकर ।
आधारभेदे देवेश साधकः फलभाग्भवेत् ॥ ७.५७
श्रीशंकर उवाच ।
पूजयेत्पार्थिवे लिङ्गे पाषाणे लिङ्गके तथा ।
स्वर्णलिङ्गेऽथवा देवि रौप्ये ताम्रे च कांस्यके ॥ ७.५८
पारदे वाथ गङ्गायां स्फाटिके मारकतेऽपि वा ।
कार्यभेदे लौहलिङ्गे भस्मनिर्माणलिङ्गके ॥ ७.५९
वालुकानिर्मिते लिङ्गे गोमये वाथ पूजयेत् ।
पार्थिवे पूजनं देवि तोडलाख्ये मयोदितम् ॥ ७.६०
संस्कारेण विना देवि पाषाणादौ न पूजयेत् ।
संस्कारं च प्रवक्ष्यामि विशेष इह यद्भवेत् ॥ ७.६१
रौप्यं च स्वर्णलिङ्गं च स्वर्णपात्रे निधाय च ।
तस्मादुत्तोल्य तं लिङ्गं दुग्धमध्ये दिनत्रयम् ॥ ७.६२
त्र्यम्बकेण स्थापयित्वा कालरुद्रं प्रपूजयेत् ।
षोडशेनोपचारेण वेद्यान् तु पार्वतीं यजेत् ॥ ७.६३
तस्मादुत्तोल्य तं लिङ्गं गङ्गातोये दिनत्रयम् ।
ततो वेदोक्तविधिना संस्कारमाचरेत्सुधीः ॥ ७.६४
श्रीचण्डिकोवाच ।
लिङ्गप्रमाणं देवेश कथयस्व मयि प्रभो ।
पार्थिवे च शिलादौ च विशेषो यदि वा भवेत् ॥ ७.६५
श्रीशिव उवाच ।
मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् ।
एतदन्यं न कर्तव्यं कदाचिदपि पार्वति ॥ ७.६६
शिलादौ परमेशानि स्थूलं च फलदायकम् ।
अङ्गुष्ठमानं देवेशि यद्वा हेमाद्रिमानकम् ॥ ७.६७
एवं क्रमेण देवेशि फलं बहुविधं लभेत् ।
स्थूलात्स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि ॥ ७.६८
पूजनाद्धारणाद्देवि फलं बहुविधं स्मृतम् ॥ ७.६९

अष्टमः पटलः

[सम्पाद्यताम्]

श्रीदेव्युवाच ।
शृणु नाथ परानन्द परापरकुलात्मक ।
त्वां विना त्राणकर्ता च मम ज्ञाने न वर्तते ॥ ८.१
पूर्णलिङ्गं महेशान शिवबीजं न चान्यथा ।
शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् ॥ ८.२
पारदस्य शतांशैकं मम ज्ञाने न वर्तते ।
शिवबीजं महादेव शिवरूपं न चान्यथा ।
लिङ्गरूपं कथं देव तद्वदस्व मयि प्रभो ॥ ८.३
श्रीशिव उवाच ।
यथा ज्योतिर्मयं लिङ्गं कैलासशिखरे मम ।
तस्यैव षोडशांशैकः काश्यां विश्वेश्वरः स्थितः ॥ ८.४
पूर्णलिङ्गं महेशानि शिवबीजं न चान्यथा ।
शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् ॥ ८.५
पारदस्य शतांशैकं लक्ष्मीनारायणं न हि ।
पकारं विष्णुरूपं च आकारं कालिका तथा ॥ ८.६
रेफं शिवं दकारं च ब्रह्मरूपं न चान्यथा ।
पारदं परमेशानि ब्रह्मविष्णुशिवात्मकम् ॥ ८.७
यो यजेत्पारदं लिङ्गं स एव शम्भुरव्ययः ।
स एव धन्यो देवेशि स ज्ञानी स तु तत्त्ववित् ॥ ८.८
स ब्रह्मवेत्ता स धनी स राजा भुवि पूजितः ।
अणिमादिविभूतीनामीश्वरः साधकोत्तमः ॥ ८.९
स्त्रियः स्वभावचपला गोपितुं न हि शक्यते ।
अत एव हि देवेशि विरता भव पार्वति ॥ ८.१०
श्रीदेव्युवाच ।
कथयस्व कृपानाथ करुणा यदि वर्तते ।
तव वाक्यं विना देव क्व मुक्तिः क्व च साधुता ॥ ८.११
श्रीशिव उवाच ।
पारदं शिवबीजं हि ताडनं न हि कारयेत् ।
ताडनाद्वित्तनाशः स्यात्ताडनात्सुतहीनता ।
ताडनाद्रोगयुक्तः स्यात्ताडनान्मरणं भवेत् ॥ ८.१२
श्रीदेव्युवाच ।
एतद्विघ्नादिकं नाथ सत्यमेव न संशयः ।
विघ्नादिरहितं नाथ कथयस्व दयानिधे ॥ ८.१३
श्रीशिव उवाच ।
पारदे शिवनिर्माणे नानाविघ्नं यतः शिवे ।
अत एव हि तत्रादौ शान्तिस्वस्त्ययनं चरेत् ॥ ८.१४
द्वादशं पार्थिवं लिङ्गमुपचारैश्च षोडशैः ।
पट्टादिसूत्रनिर्माणं रचितं शुक्लमेव वा ॥ ८.१५
पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् ।
भोगयोग्यं प्रदातव्यं मधुपर्कं सुरेश्वरि ॥ ८.१६
अलंकारं यथाशक्ति दद्यात्कल्याणहेतवे ।
पूजयेद्बहुयत्नेन बिल्वपत्त्रेण पार्वति ॥ ८.१७
तोडलोक्तेन विधिना प्रत्येकेनायुतं जपेत् ।
आदौ पञ्चाक्षरं मन्त्रमष्टोत्तरशतं जपेत् ॥ ८.१८
पूजान्ते प्रजपेत्पश्चात्प्रासादाख्यं महामनुम् ।
दक्षिणान्तं समाचर्य हविष्याशी जितेन्द्रियः ॥ ८.१९
ताम्बूलं च तथा मत्स्यं वर्जयेन्न कदाचन ।
अस्मिंस्तन्त्रे हविष्यान्नं ताम्बूलं मीनमुत्तमम् ॥ ८.२०
होमयेत्परमेशानि दशांशं वा शतांशम् ।
होमस्य दक्षिणा कार्या तदा विघ्नैर्न लिप्यते ॥ ८.२१
ततः परस्मिन् दिवसे पारदमानयेद्बुधः ।
तस्योपरि जपेन्मन्त्रं सर्ववन्द्यनवात्मकम् ॥ ८.२२
व्योमबीजं शिवान्तं च वर्गाद्यं बिन्दुमस्तकम् ।
वायुबीजं च त्रितयं त्रितयं त्र्यम्बकं प्रिये ॥ ८.२३
इमं मन्त्रं महेशानि प्रजपेदौषधोपरि ।
पारदे प्रजपेन्मन्त्रमष्टोत्तरशतं यदि ॥ ८.२४
तदेवौषधयोगेन बद्धो भवति नान्यथा ॥ ८.२५
ततः परस्मिन् दिवसे शृणु मत्प्राणवल्लभे ।
वरयेत्कर्मकर्तारं यथोक्तविभवावधि ॥ ८.२६
सुवर्णं चम्पकाकारं कर्णयुग्मे निवेदयेत् ।
चतुष्कोणयुतं स्वर्णं ग्रीवायां सुमनोहरम् ॥ ८.२७
हस्तद्वये महेशानि दद्याद्वलययुग्मकम् ।
वलयं शुक्लवर्णं च अङ्गरीयं तथैव च ॥ ८.२८
ऊर्मिं दद्यात्पीतवस्त्रं क्षौमवस्त्रयुगं शिवे ।
एवं कृत्वा महेशानि शिवरूपं विचिन्तयेत् ॥ ८.२९
अथातः सम्प्रवक्ष्यामि विधानं शृणु पार्वति ।
प्रस्तरे चैव संस्थाप्य झिण्टीपत्त्ररसेन च ।
प्रस्तरेण समालोड्य कुर्यात्कर्दमवत्प्रिये ॥ ८.३०
निर्माणयोग्यं तत्रैव यदि स्यात्सुरसुन्दरि ।
तदा निर्माय तं लिङ्गं पुनर्दृढतरं चरेत् ॥ ८.३१
स्वपुष्पसंयुते वस्त्रे अङ्गारे च करीषके ।
किंचिदुष्णं प्रकर्तव्यं यतो दृढतरो भवेत् ॥ ८.३२
ततो निर्माय तं लिङ्गं पुनर्दृढतरं चरेत् ।
स्वपुष्पसंयुते वस्त्रे स्थापयेत्पार्थिवे पुनः ॥ ८.३३
किंचिदुष्णं प्रकर्तव्यं यावद्दृढतरो भवेत् ।
विना ह्यौषधयोगेन भस्म भवति नान्यथा ॥ ८.३४

नवमः पटलः

[सम्पाद्यताम्]


श्रीशिव उवाच ।
भस्मप्रकारं देवेशि शृणु मत्प्राणवल्लभे ।
कर्तारं वरयेदादौ यथोक्तविभवावधि ॥ ९.१
सुवर्णं मौक्तिकयुतं कर्णयुग्मे निवेदयेत् ।
हस्तयुग्मे च वलयमङ्गुरीयं तथैव च ॥ ९.२
तोढद्वयं बाहुयुग्मे शुद्धकाञ्चननिर्मितम् ।
ग्रीवायां दापयेत्स्वर्णं चतुष्कोणं मनोरमम् ॥ ९.३
वस्त्रयुग्मं पट्टसूत्रनिर्मितं च सुशोभनम् ।
उष्णीषं शुक्लवर्णं च उष्णीषं पीतवाससम् ॥ ९.४
एवं हि वरयेद्देवि कर्मयोग्यं विचिन्तयेत् ।
चिन्तयेच्छिवरूपं च चिन्तयेत्त्रिगुणात्मकम् ॥ ९.५
ततः परस्मिन् दिवसे शान्तिस्वस्त्ययनं चरेत् ।
निर्मितं शुद्धस्वर्णेन बिल्वपत्त्रेण सुन्दरि ॥ ९.६
सहस्रसङ्ख्यया देवि पार्थिवं द्वादशं यजेत् ।
षोडशेनोपचारेण पट्टवस्त्रयुगेन च ॥ ९.७
अलंकारविचित्रैश्च पूजयेत्परमेश्वरम् ।
भोगयोग्यं प्रदातव्यं मधुपर्कं निवेदयेत् ॥ ९.८
स्वर्णासनेन संस्थाप्य प्रत्येकं पूजनं चरेत् ।
पूजान्ते प्रजपेन्मन्त्रमष्टोत्तरशतं सुधीः ॥ ९.९
षडक्षरं महामन्त्रं प्रासादाख्यं मनुं ततः ।
दिक्सहस्रं जपेन्मन्त्रं तद्दशांशं हुनेत्प्रिये ॥ ९.१०
होमस्य द्रव्यं देवेशि शृणु मत्प्राणवल्लभे ।
वालुकानिर्मिते वापि कुण्डे वा परमेश्वरि ॥ ९.११
द्वात्रिंशदङ्गुलिमानं विस्तृतं तत्समं प्रिये ।
षोडशाङ्गुलिमानं हि कुण्डं कुर्यात्सुलक्षणम् ॥ ९.१२
तदूर्ध्वे परमेशानि वेदनेत्राङ्गुलिं शिवे ।
एव हि स्वर्णकुम्भं च ताम्रकुम्भासमर्थिना ॥ ९.१३
एतदन्यतरं कुम्भं स्थापयेद्वेदिकोपरि ।
पट्टवस्त्रेण युग्मेन संवेष्ट्य बहुयत्नतः ॥ ९.१४
होमयेद्बिल्वपत्त्रेण यथोक्तेन सुरेश्वरि ।
त्रिमध्वक्तेन विधिना ततः सिद्धो भवेद्ध्रुवम् ॥ ९.१५
ततस्तु दक्षिणा कार्या यथोक्तविभवावधि ।
सर्वद्रव्यमयं मूल्यं द्विगुणं वा प्रदापयेत् ॥ ९.१६
दक्षिणाविहीना यज्ञाः सिद्धिदा न च मोक्षदाः ।
अत एव महेशानि दक्षिणा विभवावधि ॥ ९.१७
वराहवत्समानीय जन्ममात्रेऽपि सुन्दरि ।
पारदं तोलकं मानं भक्षयेद्बहुयत्नतः ॥ ९.१८
पुनस्तोलकमानं हि मातृदुग्धं ततः परम् ।
पुनश्च भक्षयेद्धीमांस्ततो दुग्धं तु भक्षयेत् ॥ ९.१९
ततश्च वत्समानीय नवद्वारं प्रयत्नतः ।
सूत्रयोगेण देवेशि बद्धं कुर्यात्प्रयत्नतः ॥ ९.२०
ततश्च हेलकीमन्त्रमष्टोत्तरशतं जपेत् ।
गजप्रमाणं देवेशि दीर्घप्रस्थं तु खातकम् ॥ ९.२१
करीषकेण देवेशि पूर्णं कुर्याद्विचक्षणः ।
तन्मध्ये स्थापयेद्वत्सं संदहेद्बहुयत्नतः ॥ ९.२२
वह्निस्थिते महेशानि न स्पृशेत्कुण्डमुत्तमम् ।
कुण्डे सुशीतले जात उत्थाप्य बहुयत्नतः ॥ ९.२३
सर्वप्रकाशकं मन्त्रमष्टोत्तरशतं जपेत् ।
विश्वेश्वरं प्रवक्ष्यामि शृणु पार्वति सादरम् ॥ ९.२४
पारदं तोलकं मानं ताम्रपात्रे तु लेपयेत् ।
चूर्णं कुर्यान्महेशानि गन्धकं सार्धं तोलकम् ॥ ९.२५
समाच्छाद्य प्रयत्नेन चूर्णेन परमेश्वरि ।
संदहेद्बहुयत्नेन मन्दमन्देन वह्निना ॥ ९.२६
कृष्णवर्णं रेणुयुतं दृष्ट्वा उत्थाप्य सुन्दरि ।
रत्तिप्रमाणं तद्द्रव्यं भक्षयेद्यदि सुन्दरि ॥ ९.२७
सत्यं सत्यं सर्वकुष्ठं भक्षणान्नाशमाप्नुयात् ।
अनुपानमुष्णतोयं मत्स्यादीन् परिवर्जयेत् ॥ ९.२८
एवं प्रयोगं देवेशि न कुर्यात्पुत्रवान् गृही ।
प्रथमे दिवसे पुत्रान् द्वितीये दिवसे धनम् ॥ ९.२९
तृतीये दिवसे शक्तिं चतुर्थे दिवसे गृहम् ।
पञ्चमे दिवसे रोगं नाशं तु जायते ध्रुवम् ॥ ९.३०
अत एव महेशानि आत्मस्वस्त्ययनं चरेत् ।
पूर्वोक्तविधिना मन्त्री चतुर्गुणं समाचरेत् ॥ ९.३१

दशमः पटलः

[सम्पाद्यताम्]


श्रीदेव्युवाच ।
नराकृतिं गुरुं नाथ मन्त्रं वर्णात्मकं तथा ।
ध्यानानुरूपिणं देवमेकत्वं वा कथं वद ॥ १०.१
श्रीशिव उवाच ।
गुरुवक्त्रान्महामन्त्रो लभ्यते साधकोत्तमैः ।
यद्येको जायते वीर्यस्तस्य मूर्तिर्भवेद्ध्रुवम् ॥ १०.२
देवतायाः शरीरं च बीजादुत्पद्यते प्रिये ।
गुरोराज्ञानुसारेण चान्यमूर्तिस्तु जायते ॥ १०.३
गुर्वादिभावनाद्देवि भावसिद्धिः प्रजायते ।
अत एव महेशानि चैकत्वं परिकथ्यते ॥ १०.४
श्रीदेव्युवाच ।
यच्चाक्षुषं महादेव तदाकरं विचिन्तयेत् ।
अचाक्षुषे महादेव ध्यानं वा कीदृशं भवेत् ॥ १०.५
श्रीशिव उवाच ।
शब्दब्रह्ममयं देवि मम वक्त्राद्विनिर्गतम् ।
आकाररहिते देवि यथा ध्यानादिकं भवेत् ॥ १०.६
तथैवोच्चारणेनैव भक्तियुक्तेन चेतसा ।
सत्यं सत्यं महेशानि प्रत्यक्षं नात्र संशयः ॥ १०.७
श्रीदेव्युवाच ।
पशुप्रदाने वाक्यं तु कीदृशं वद शंकर ।
येन वाक्येन देवेश देवी तुष्टा भवत्यपि ॥ १०.८
श्रीशिव उवाच ।
मृगे महिषे चोष्ट्रे च पशुशब्दं न योजयेत् ।
छागले च तथा सिंहे व्याघ्रे च परमेश्वरि ॥ १०.९
पशुशब्दं योजयित्वा महादेव्यै निवेदयेत् ।
पशुभावस्थितो मन्त्री महिषो दीयते यदि ॥ १०.१०
बलिदानं प्रकर्तव्यं न मांसं भक्षयेन्नरः ।
सम्यक्फलं न लभते दशांशं लभते प्रिये ॥ १०.११
महिषादि प्रदातव्यं दिव्यवीरमते स्थितः ।
स एव सिद्धिमाप्नोति फलं सम्यक्प्रियंवदे ॥ १०.१२
पशुदानं विना देवि पूजयेन्न कदाचन ।
तथा च नित्यपूजायां यदि शक्तो भवेन्नरः ॥ १०.१३
केवलं बलिदानेन सिद्धो भवति नान्यथा ।
निर्धनः परमेशानि यदि पूजादिकं चरेत् ॥ १०.१४
वत्सरान्ते प्रदातव्यं बलिमेकं सुरेश्वरि ।
अन्यथा नैव सिद्धिः स्यादाजन्म पूजनादपि ॥ १०.१५
बलिदानं महायज्ञं कलिकाले च चण्डिके ।
अश्वमेधादिकं यज्ञं कलौ नास्ति सुरेश्वरि ॥ १०.१६
केवलं बलिदानेन चाश्वमेधफलं भवेत् ।
यज्ञावशेषं यद्द्रव्यं भोजनीयं न चान्यथा ॥ १०.१७
यज्ञावशेषभोगेन स यज्ञी नात्र संशयः ।
न भक्षेद्यदि मोहेन न यज्ञफलभाग्भवेत् ॥ १०.१८
त्याज्यं द्रव्यं कथं देवि महादेव्यै निवेदयेत् ।
ब्रह्मरूपं महातन्त्रं मम वक्त्राद्विनिर्गतम् ॥ १०.१९
स पूतः सर्वपापेभ्यो यदि चैकाक्षरं श्रुतम् ।
महाभक्तियुतो भूत्वा शृणोति पटलं यदि ॥ १०.२०
किं तस्य ध्यानपूजायां तीर्थस्नानेन तस्य किम् ।
शब्दब्रह्ममयं ज्ञात्वा समस्तं यदि चण्डिके ॥ १०.२१
केवलं श्रवणेनैव स सिद्धो नात्र संशयः ।
अष्टादशपुराणानां श्रवणेनैव यत्फलम् ॥ १०.२२
चतुर्वेदेन साङ्गेन श्रवणेनैव यतः फलम् ।
अस्य तन्त्रस्य देवेशि कलां नार्हन्ति षोडशीम् ॥ १०.२३
ब्रह्मरूपमिदं तन्त्रं सारात्सारं परात्परम् ॥ १०.२४

एकादशः पटलः

[सम्पाद्यताम्]

श्रीचण्डिकोवाच ।
प्रासादं मण्डपं वापि यदि देव्यै निवेदयेत् ।
विधानं तस्य माहात्म्यं वद मे परमेश्वर ॥ ११.१
कूपादिकं महादेव यदि देव्यै निवेदयेत् ।
विधानं तस्य माहात्म्यं वद मे परमेश्वर ॥ ११.२
श्रीशङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि येन प्रासादमुत्सृजेत् ।
तस्यैव पश्चिमे भागे वेदिकां चतुरस्रकाम् ॥ ११.३
प्रकुर्याद्बहुयत्नेन वस्त्रेण वेष्टनं चरेत ।
तदभावे महेशानि तृणेनैनं च वेष्टयेत् ॥ ११.४
कुम्भयुग्मं स्थापयित्वा क्षौमवस्त्रेण वेष्टयेत् ।
युग्मं युग्मं क्षौमवस्त्रं कुम्भयुग्मे नियोजयेत् ॥ ११.५
ईशकुम्भे यजेद्देवीमाग्नेयामग्निदैवतम् ।
चतुःषष्ट्युपचारेण पूजयेदिष्टदेवताम् ॥ ११.६
अभावे पूजयेद्देवीं तदर्धेन प्रयत्नतः ।
अथवा परमेशानि यथाशक्त्युपचारतः ॥ ११.७
पूजयेद्बहुयत्नेन ततो होमादिकं चरेत् ।
आगमोक्तेन विधिना कुर्यात्तत्र कुशण्डिकाम् ॥ ११.८
त्रिमध्वक्तेन देवेशि बिल्वपत्रेण होमयेत् ।
सहस्रं होमयेन्मन्त्री शतन्यूनं न कारयेत् ॥ ११.९
पूर्णाहुतिं ततो दत्त्वा ततो वाक्यं समाचरेत् ।
अद्येत्यादि समुच्चार्यं सौरमासं समुच्चरेत् ॥ ११.१०
तिथिगोत्रं चामुकोऽहं धर्मार्थकाममेव वा ।
प्राप्तये परमेशानि ततो मूलं समुच्चरेत् ॥ ११.११
देवतायै नमः पश्चाद्दक्षिणां दापयेद्गुरौ ।
कुम्भतोयेन देवेशि स्नापयेद्यजमानकम् ॥ ११.१२
सुरास्त्वादीन् समुच्चार्य शान्तिं कुर्यात्ततो गुरुः ।
सर्वादौ गुरुदेवस्य वरणं कारयेत्सुधीः ॥ ११.१३
सुवर्णं चम्पकाकारं कर्णयुग्मे निवेदयेत् ।
चतुष्कोणयुतं स्वर्णं ग्रीवायां परियोजयेत् ॥ ११.१४
उष्णीषं च ततो दद्यात्कण्ठे मालां नियोजयेत् ।
ताडयुग्मं ततो बाहौ वलयं मणिबन्धके ॥ ११.१५
अङ्गुल्यामङ्गुरी देया दिव्यवस्त्रं नियोजयेत् ।
एवं हि वरणं कृत्वा कर्मयोग्यं विचिन्तयेत् ॥ ११.१६
गुरुं वा गुरुपुत्रं वा वरयेद्यत्नतः सुधीः ।
सदस्यं न हि कर्तव्यं तन्त्रधारं न तत्र वै ॥ ११.१७
ब्रह्माणं न हि कर्तव्यं केवलं वरयेद्गुरुम् ।
गुरोर्भृत्यो महेशानि भैरवो नात्र संशयः ॥ ११.१८
स्वीयेन परिधानेन वाससा तोषयेत्स्वयम् ।
स्वयं होता भवेद्विप्रो गुरोराज्ञानुसारतः ॥ ११.१९
मायाबीजं समुच्चार्य आधारशक्तये नमः ।
अनेन मनुना देवि वेदिसंस्कारमाचरेत् ॥ ११.२०
भूरसीत्यादिमन्त्रेण घटयुग्माभिमन्त्रितम् ।
अस्त्रान्तेनैव मूलेन उष्णीषं परियोजयेत् ॥ ११.२१
वेदोक्तं चैव स्मृत्युक्तं मन्त्रं न योजयेत्सुधीः ।
एवं कूपादिदानेषु कर्तव्यं परमेश्वरि ॥ ११.२२
अन्यत्सर्वं समानं हि प्रासादादिस्थले पुनः ।
कूपादियोजनं कुर्यात्यष्टिप्रोतनमाचरेत् ॥ ११.२३
चतुर्हस्तप्रमाणं च मध्यभागे तु प्रोतनम् ।
मूलमन्त्रं समुच्चार्य ततो वह्निवधूं न्यसेत् ॥ ११.२४
ततो यष्टिं समुच्चार्य पोतयामि वदेत्सुधीः ।
तत्र संतरणं धेनुं नैव कुर्याद्विचक्षणः ॥ ११.२५
धेनुसंतरणेनैव फलहानिः प्रजायते ।
स्वर्णं रूप्यं प्रवालं च दक्षिणां परियोजयेत ॥ ११.२६
स्नापयित्वा कुम्भतोयैः शान्तिं कुर्यात्ततो गुरुः ॥ ११.२७
अनेनैव विधानेन कूपाद्युत्सर्गमाचरेत् ।
वापीकूपतडागादि ह्यनेनोत्सर्गमाचरेत् ॥ ११.२८
दीर्घिकां च पुष्करिणीं ह्यनेनैव जलाशयम् ।
उत्सृज्य परया भक्त्या महादेव्यै प्रयत्नतः ॥ ११.२९
पुरुषं सप्तमं कान्ते पितृवंशे च मातरि ।
सप्तमं पुरुषं कान्ते मातृवंशे समं प्रिये ॥ ११.३०
कैलासे निवसेन्नित्यं देव्या वरप्रसादतः ।
स्वयं देवस्वरूपश्च जीवन्मुक्तो न संशयः ॥ ११.३१
अश्वमेधसहस्रेण वाजपेयशतेन च ।
यत्फलं लभते देवि तस्माल्लक्षगुणं भवेत् ॥ ११.३२
मेरुतुल्यं सुवर्णं तु ब्राह्मणे वेदपारगे ।
दत्त्वा यत्फलमाप्नोति तस्माल्लक्षगुणं भवेत् ॥ ११.३३
पूर्णशस्येन देवेशि सप्तद्वीपां वसुंधराम् ।
प्रदद्याद्बहुयत्नेन ब्राह्मणे वेदपारगे ॥ ११.३४
तस्माल्लक्षगुणं पुण्यमनेन परमेश्वरि ॥ ११.३५
सदक्षिणं व्रतं सर्वं दानं यद्वेदसंमतम् ।
तस्माल्लक्षगुणं पुण्यमनेन परमेश्वरि ॥ ११.३६
श्रीचण्डिकोवाच ।
यज्ञसूत्रधारणेन भूपूज्यो नात्र संशयः ।
इदानीं यज्ञसूत्रस्य विधानं मयि कथ्यताम् ॥ ११.३७
श्रीशंकर उवाच ।
यज्ञसूत्रस्य यन्मानं तच्छृणुष्व वरानने ।
ऋग्वेदी धारयेत्सूत्रं नाभेरूर्ध्वं स्तनादधः ॥ ११.३८
यजुषां सूत्रमानं हि आश्चर्यं शैलजे परम् ।
बाहुमूलप्रमाणेन यज्ञसूत्रं द्विजातिभिः ।
धारणीयं प्रयत्नेन नान्यद्दैर्घ्यं कदाचन ॥ ११.३९
सामगस्य यज्ञसूत्रं त्रिविधं वरवर्णिनि ।
ब्रह्मरन्ध्रान्नाभिदेशपर्यन्तं यज्ञसूत्रकम् ॥ ११.४०
अथवापि च ग्रीवायामारोप्य नाभिं संस्पृशेत् ।
तस्मात्पृष्ठान्मेरुदण्डपर्यन्तं यज्ञसूत्रकम् ॥ ११.४१
अथवा परमेशानि प्रकारान्तरकं शृणु ।
ग्रीवाया दक्षिणाङ्गुष्ठपर्यन्तं यज्ञसूत्रकम् ॥ ११.४२
अथवा धारयेत्सूत्रं यत्नेन यजुषां मतम् ।
अथवा धारयेत्सूत्रं सामगस्य प्रमाणतः ॥ ११.४३
अथर्वी धारयेद्यज्ञसूत्रं परममोहनम् ।
आज्ञाचक्रान्नाभिदेशपर्यन्तं यज्ञसूत्रकम् ॥ ११.४४
एतत्संकेतमज्ञात्वा यः कुर्यात्सूत्रधारणम् ।
स चण्डालसमो देवि यदि व्याससमो भवेत् ॥ ११.४५

द्वादशः पटलः

[सम्पाद्यताम्]

श्रीशंकर उवाच ।
अथातः सम्प्रवक्ष्यामि पूजाधारं सुदुर्लभम् ॥ १२.१
शालग्रामे मणौ यन्त्रे प्रतिमायां घटे जले ॥ १२.२
पुस्तिकायां च गङ्गायां शिवलिङ्गे प्रसूनके ।
शालग्रामे शतगुणं मणौ तद्वत्फलं लभेत् ॥ १२.३
यन्त्रे लक्षगुणं पुण्यं मूर्तौ लक्षं सुलोचने ।
घटे चैकगुणं पुण्यं जले चैकगुणं प्रिये ॥ १२.४
पुस्तिकायां सहस्रं तु गङ्गायां तत्समं फलम् ।
शिवलिङ्गे ह्यनन्तं हि विना पार्थिवलिङ्गके ॥ १२.५
पुष्पयन्त्रे महेशानि पूजनात्सर्वसिद्धिभाक् ।
शालग्रामे च पूजायां न लिखेद्यन्त्रमुत्तमम् ॥ १२.६
मणौ स्थिते महेशानि न लिखेद्यन्त्रमुत्तमम् ।
प्रतिमायां च पूजायां न लिखेद्यन्त्रमुत्तमम् ॥ १२.७
प्रतिमायाश्च पुरतो घटं संस्थाप्य यत्नतः ।
परिवारान् यजेत्तत्र घटे तु परमेश्वरि ॥ १२.८
यन्त्राधिष्ठातृदेवांश्च घटे यन्त्रे प्रपूजयेत् ।
समस्तदेवतारूपं घटं तु परिचिन्तयेत् ।
सुरद्रुमस्वरूपोऽयं घटो हि परमेश्वरि ॥ १२.९
जन्मस्थानं महायन्त्रं यदि कुर्यात्तु साधकः ।
तत्र मूर्तिं न कुर्यात्तु कदाचिदपि मोहतः ॥ १२.१०
यदि मूर्तिं प्रकुर्यात्तु तत्र यन्त्रं न कारयेत् ।
यदि कुर्यात्तु मोहेन यजेद्वारद्वयं प्रिये ॥ १२.११
द्विगुणं पूजनं तत्र द्विगुणं बलिदानकम् ।
द्विगुणं प्रजपेन्मन्त्रं द्विगुणं होमयेत्सुधीः ॥ १२.१२
अन्यथा विफला पूजा विफलं बलिदानकम् ।
सर्वं हि विफलं यस्मात्तस्माद्यन्त्रं न कारयेत् ॥ १२.१३
इति ते कथितं कान्ते पूजाधारं सुदुर्लभम् ॥ १२.१४
अथातः सम्प्रवक्ष्यामि शिवलिङ्गस्य लक्षणम् ।
पार्थिवे शिवपूजायां सर्वसिद्धियुतो भवेत् ॥ १२.१५
पाषाणे शिवपूजायां द्विगुणं फलमीरितम् ।
स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् ॥ १२.१६
सर्वसिद्धीश्वरो रौप्ये फलं तस्माच्चतुर्गुणम् ।
ताम्रे पुष्टिं विजानीयात्कांस्ये च धनसंचयम् ॥ १२.१७
पारदस्य च माहात्म्यं पुरैव कथितं मया ।
गङ्गायां च लक्षगुणं लाक्षायां रोगवान् भवेत् ॥ १२.१८
स्फाटिके सर्वसिद्धिः स्यात्तथा मारकते प्रिये ।
लौहलिङ्गे रिपोर्नाशं कामदं भस्मलिङ्गके ॥ १२.१९
वालुकायां काम्यसिद्धिर्गोमये ऋतुहिंसनम् ।
सर्वलिङ्गस्य माहात्म्यं धर्मार्थकाममोक्षदम् ॥ १२.२०
आधारभेदे यत्पुण्यं चाधिकं कथितं तु ते ।
अतिरिक्तफलान्येतद्धारस्य सुलोचने ॥ १२.२१
शिवस्य पूजनाद्देवि चतुर्वर्गाधिपो भवेत् ।
अष्टैश्वर्ययुतो मर्त्यः शम्भुनाथस्य पूजनात् ॥ १२.२२
स्वयं नारायणः प्रोक्तो यदि शम्भुं प्रपूजयेत् ।
स्वर्गे मर्त्ये च पाताले ये देवाः संस्थिताः सदा ।
तेषां पूजा भवेद्देवि शम्भुनाथस्य पूजनात् ॥ १२.२३
स्वर्णपुष्पसहस्रेण यत्फलं लभते नरः ।
तस्माल्लक्षगुणं पुण्यं भग्नैकबिल्वपत्त्रके ॥ १२.२४
भग्नैकबिल्वपत्त्रस्य सहस्रकेन भागतः ।
मेरुतुल्यसुवर्णेन तत्फलं न हि लभ्यते ॥ १२.२५
शुद्धाशुद्धविचारोऽपि नास्ति तच्छिवपूजने ।
येन तेन प्रकारेण बिल्वपत्त्रैः प्रपूजनात् ।
सर्वसिद्धियुतो भूत्वा स नरः सिद्धो हि ॥ १२.२६
ब्रह्माण्डमध्ये ये देवास्तद्बाह्ये याश्च देवताः ।
ते सर्वे तृप्तिमायान्ति केवलं शिवपूजनात् ॥ १२.२७
पुष्पं गन्धं जलं द्रव्यं लिङ्गोपरि नियोजयेत् ।
लिङ्गमध्ये महावह्निः सैव रुद्रः प्रकीर्तितः ॥ १२.२८
रुद्रोपरि क्षिपेद्यत्तु तदेव भस्मतां गतः ॥ १२.२९
साक्षाद्धोमो महेशानि शिवस्य पूजनाद्भवेत् ।
महायज्ञेश्वरो मर्त्यः शिवस्य पूजनाद्भवेत् ॥ १२.३०
कुशाग्रमानं यत्तोयं तत्तोयेन यजेद्यदि ।
सत्यं सत्यं हि गिरिजे तज्जलं सागरोपमम् ॥ १२.३१
पुष्पं च मेरुसदृशं लिङ्गोपरि नियोजनात् ।
लिङ्गस्य मस्तके देवि यदन्नं परितिष्ठति ॥ १२.३२
तदन्नस्य च दानेन क्षितिदानफलं लभेत् ॥ १२.३३
एकेन तण्डुलेनैव यदि लिङ्गं प्रपूजयेत् ।
ब्रह्माण्डपात्रसम्पूर्णमन्नदानफलं लभेत् ॥ १२.३४
एकया दूर्वया वापि योऽर्चयेच्छिवलिङ्गकम् ।
सर्वदेवस्य शीर्षे तु चार्धदानफलं लभेत् ॥ १२.३५
सामान्यतोयमानीय यदि स्नायान्महेश्वरम् ।
सार्धत्रिकोटितीर्थस्य स्नानस्य फलभाग्भवेत् ॥ १२.३६
श्रीचण्डिकोवाच ।
तारिणी ब्रह्मणः शक्तिस्त्रिपुरा वैष्णवी परा ।
कथं शाकम्भरी तारा त्रिपुरा शाम्भवी कथम् ॥ १२.३७
श्रीशंकर उवाच ।
काली देहाद्यदा जाता सावित्री वेदमातृका ।
त्रिवर्गदात्री सा देवी ब्रह्मणः शक्तिरेव च ॥ १२.३८
गुप्तरूपा महाविद्या शैवी सैकजटा परा ।
तस्माल्लक्ष्मीर्वैष्णवी या त्रिवर्गदायिनी शिवा ॥ १२.३९
गुप्तरूपा महाविद्या श्रीमत्त्रिपुरसुन्दरी ।
शाम्भवी परमा माया त्रिपुरा मोक्षदायिनी ॥ १२.४०
एकैव हि महाविद्या नाममात्रं पृथक्पृथक् ।
तथैव पुरुषश्चैको नाममात्रविभेदकः ॥ १२.४१
श्रीचण्डिकोवाच ।
मन्त्रधारणमात्रेण तदात्मा तन्मयो भवेत् ।
कथं वा वातुलः सोऽपि कथं वा रोगवान् भवेत् ॥ १२.४२
श्रीशंकर उवाच ।
मन्त्रच्छन्नाद्वातुलत्वं रोगो देहे न जायते ।
मन्त्रच्छन्नं प्रवक्ष्यामि शृणु देवि समाहिता ॥ १२.४३
अभक्तिश्चाक्षरे भ्रान्तिर्लुप्तिश्छन्नस्तथैव च ।
ह्रस्वो दीर्घश्च कथनं स्वप्ने तु चाष्टधा स्मृतः ॥ १२.४४
अभक्त्या नैव सिद्धिः स्यात्कल्पकोटिशतैरपि ।
एवं मन्त्रश्चान्यथा वा चेति भ्रान्त्या च वातुलः ॥ १२.४५
लुप्तवर्णे बुद्धिनाशश्छिन्ने नाशो भवेत्किल ।
ह्रस्वोच्चारे व्याधियुक्तो दीर्घजापे वसुक्षयः ॥ १२.४६
कथने मृत्युमाप्नोति स्वप्नेऽपि शृणु शैलजे ।
कालिकायाश्च ताराया मन्त्रोऽपि ज्वलदग्निवत् ॥ १२.४७
विप्ररूपेण देवेन प्रेमभावेन चेतसा ।
यदि मन्त्रं हरेद्देवि शृणु साधकलक्षणम् ॥ १२.४८
सर्वाङ्गे वै भवेज्ज्वाला देहमध्ये विशेषतः ।
तोये शैत्यं न जायेत तथैवौषधसेवने ॥ १२.४९
सदा वातुलवत्सर्वं प्रत्यक्षे स्वप्नवद्भवेत् ।
वर्षमध्ये त्रिवर्षे वा मृत्युस्तस्य न संशयः ॥ १२.५०
श्रीचण्डिकोवाच ।
मन्त्रच्छन्नं चाष्टविधं तव वक्त्राच्छ्रुतं मया ।
यदि दैवाद्भवेद्देव तस्योपायं वदस्व मे ॥ १२.५१
श्रीशंकर उवाच ।
बहुजापात्तथा होमात्कायक्लेशादिविस्तरात् ।
यदि भक्तिर्भवेद्देवि तस्य सिद्धिरदूरतः ॥ १२.५२
गुरुणा तत्सुतेनैव साधकेन वरानने ।
अक्षरे दूषणं हित्वा पुनर्मन्त्रं प्रकाशयेत् ॥ १२.५३
गुरुणा तत्सुतेनैव साधकेन समाहितः ।
लुप्तवर्णं समुत्थाप्य पुनर्मन्त्रं प्रकाशयेत् ॥ १२.५४
चक्रभेदेन षट्कोणं तथैव योनिमुद्रया ।
एकोच्चारे जपेन्मन्त्रं लक्षमेकं वरानने ।
गुर्वादिना महेशानि छिन्नदोषनिकृन्तनम् ॥ १२.५५
गुरुणा लक्षजापेन तन्मन्त्रं श्रावयेत्त्रिधा ।
दूषणं ह्रस्वदीर्घस्य शान्तिश्चात्र न संशयः ॥ १२.५६
गुरुणा तत्सुतेनैव साधकेनैव शैलजे ।
उक्तमार्गेण देवेशि जपेल्लक्षचतुष्टयम् ॥ १२.५७
तद्दशांशं हुनेत्पश्चात्तर्पणादि समाचरेत् ॥ १२.५८
ततोऽपि यदि नैवाभूत्साधकः स्थिरमानसः ।
चतुर्गुणं हि कर्तव्यं शिष्यस्य मुक्तिहेतवे ॥ १२.५९
यदि मृत्युर्भवेत्तस्य तथापि मुक्तिभाग्भवेत् ।
कथनस्य दोषशान्तिर्भवत्येव न संशयः ॥ १२.६०
स्वप्नेऽपि मन्त्रकथने श्मशाने चैव शैलजे ।
उक्तमार्गेण देवेशि जपेल्लक्षं चतुष्टयम् ॥ १२.६१
तद्दशांशं हुनेत्पश्चात्तर्पणादि समाचरेत् ।
ततोऽपि यदि नैवाभूत्साधकः स्थिरमानसः ॥ १२.६२
चतुर्गुणं हि कर्तव्यं पूर्वोक्तं पूजनं चरेत् ।
कुजे वा शनिवारे वा प्रथमे गमनं चरेत् ।
सप्ताहं वा यजेद्देवीं तुरीयं वादिनं यजेत् ॥ १२.६३
श्मशानसाधनं वक्ष्ये शृणु चैकाग्रचेतसा ।
स्वर्णं रौप्यं तथा वस्त्रं दत्त्वा वरणमाचरेत् ॥ १२.६४
स्वर्णपीठं प्रदातव्यं चतुरङ्गुलिविस्तृतम् ।
भोगयोग्यं प्रदातव्यं मधुपर्कं यथोदितम् ॥ १२.६५
राजपत्नी येन तुष्टा तोषयेत्तेन वाससा ।
अलंकारं यथायोग्यं तत्र तत्र नियोजयेत् ॥ १२.६६
नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् ।
सामिषान्नं गुडं छागं सुरापिष्टकपायसम् ॥ १२.६७
भोग्यद्रव्यं जले दद्याद्यदि भोक्ता न तिष्ठति ।
एवं पूजां समाप्यादौ शिवपूजां समाचरेत् ॥ १२.६८
षोडशैरुपचारैश्च लिङ्गानां चैकविंशतिम् ।
अष्टोत्तरशतेनैव बिल्वपत्त्रैः सचन्दनैः ॥ १२.६९
प्रत्येकं पूजयेन्मन्त्रं गजान्तकसहस्रकम् ।
सहस्रं होमयेत्पश्चाद्बिल्वपत्त्रैर्वरानने ॥ १२.७०
एवं कृते लभेच्छान्तिं दीर्घायुर्नात्र संशयः ॥ १२.७१

त्रयोदशः पटलः

[सम्पाद्यताम्]


श्रीचण्डिकोवाच ।
शृणु नाथ परानन्द परापरजगत्पते ।
इदानीं श्रोतुमिच्छामि मालायाः कीदृशो जपः ।
का माला कस्य देवस्य तद्वदस्व समाहितः ॥ १३.१
श्रीशंकर उवाच ।
वैष्णवे तुलसीमाला गजदन्तैर्गणेश्वरे ।
कालिकाया महामन्त्रं जपेद्रुद्राक्षमालया ॥ १३.२
तारायाश्च जपेन्मन्त्री महाशङ्खाख्यमालया ।
महाशङ्खाख्यमालायां सर्वां विद्यां जपेत्सुधीः ॥ १३.३
अकस्माद्वै महासिद्धिर्महाशङ्खाख्यमालया ।
तथैव सकला विद्या महाशङ्खे वसेत्सदा ॥ १३.४
स्फाटिकी सर्वदेवस्य प्रवालैः सकलां जपेत् ।
स्वर्णरौप्यसमुद्भूतां सर्वदेवेषु योजिताम् ॥ १३.५
कालिकायाश्च सुन्दर्या रुद्राक्षैः प्रजपेत्सदा ।
भैरव्याः प्रजपेन्मन्त्री शङ्खपद्माख्यया प्रिये ॥ १३.६
श्मशाने धुस्तुरैर्माला जपेद्धूमावतीविधौ ।
इति ते कथितं कान्ते महामालाविनिर्णयम् ॥ १३.७
अथ ग्रन्थिं प्रवक्ष्यामि शृणु कान्ते समाहिता ।
येन माला सुसिद्धा च न्णां सर्वफलप्रदा ॥ १३.८
मालायाश्चाधिका कान्ते ग्रन्थिश्चैका फलप्रदा ।
एकपञ्चाशिकायां च मालायां परमेश्वरि ॥ १३.९
ब्रह्मग्रन्थियुतां मालां सार्धद्वितयवेष्टिताम् ।
सपादवेष्टनं देवि नागपाशं मनोहरम् ॥ १३.१०
सर्वदेवस्य मालायां सर्वत्र परमेश्वरि ।
ब्रह्मग्रन्थिं विधायेत्थं नागपाशमथापि वा ॥ १३.११
मालायां त्वधिकां देवि चैकां ग्रन्थिं प्रदापयेत् ।
मूलेन ग्रथितं कुर्यात्प्रणवेनाथवा प्रिये ॥ १३.१२
ग्रन्थिमध्ये च गुटिकां कुर्यादतिमनोहराम् ।
सूत्रद्वयं महेशानि मिलनं कारयेत्ततः ॥ १३.१३
मेरुं च ग्रथनं कुर्यात्तदूर्ध्वे ग्रन्थिसंयुतम् ।
एवं मालां विनिर्माय गोपयेद्बहुयत्नतः ॥ १३.१४
कम्पनं धूननं शब्दं नैव तत्र प्रकाशयेत् ।
करभ्रष्टं तथा छिन्नं महाविघ्नस्य कारणम् ॥ १३.१५
कम्पने सिद्धिहानिः स्याद्धूननं बहुदुःखदम् ।
शब्दे जाते भवेद्रोगः करभ्रष्टाद्विनाशकृत् ॥ १३.१६
छिन्नसूत्रे भवेन्मृत्युस्तस्माद्यत्नपरो भवेत् ।
एवं ज्ञात्वा महेशानि शान्तिस्वस्त्ययनं चरेत् ॥ १३.१७
कम्पने यो जपेन्मन्त्रं यदि सिद्धिं प्रयच्छति ।
यत्नेन गुरुमानीय द्वाविंशदुपचारतः ॥ १३.१८
कुम्भस्थापनकं कृत्वा पूजयेदिष्टदेवताम् ।
ततो हुनेद्बिल्वपत्त्रैरष्टोत्तरशताहुतिम् ॥ १३.१९
त्रिमध्वक्तेन विधिना धूननेऽपि च सुन्दरि ।
सशब्दे जपने चण्डि ह्येवं कुर्याद्विचक्षणः ॥ १३.२०
करभ्रष्टे तथा छिन्ने पुरश्चरणमाचरेत् ।
जपाद्यन्ते यजेद्देवीं षोडशैरुपचारकैः ॥ १३.२१
प्रत्यहं प्रजपेन्मन्त्रं प्रत्यहं बलिदानकम् ।
पञ्चाङ्गस्य प्रमाणेन सर्वकर्म समापयेत् ॥ १३.२२
दरिद्रः परमेशानि यदि विघ्नपरायणः ।
आद्यन्ते महतीं पूजां दिक्सहस्रं जपेन्मनुम् ॥ १३.२३
सहस्रैकं हुनेत्पश्चात्सर्वविघ्नस्य शान्तये ।
कुम्भतोयैः स्नापयित्वा पुनर्मालां प्रदापयेत् ॥ १३.२४
अनेनैव विधानेन विघ्नजालैर्न लिप्यते ॥ १३.२५

चतुर्दशः पटलः

[सम्पाद्यताम्]

श्रीचण्डिकोवाच ।
मन्त्रधारणमात्रेण तत्क्षणे तन्मयो भवेत् ।
जीवात्मा कुण्डलीमध्ये प्रदीपकलिका यथा ॥ १४.१
निजेष्टदेवतारूपा देहसंस्था च कुण्डली ।
भुज्यते सैव देहस्था का चिन्ता साधकस्य च ।
तन्मे ब्रूहि महादेव यद्यहं तव वल्लभा ॥ १४.२
श्रीशंकर उवाच ।
भोगस्तु त्रिविधो देवि दिव्यवीरपशुक्रमात् ।
निर्लिप्तो दिव्यभावस्थः कुण्डली भुज्यते यदि ॥ १४.३
अजिह्वान्ता कुण्डलिनी वीरस्य वीरवन्दिते ।
महादेव्याः प्रीतये च प्रसादं भुज्यते पशुः ॥ १४.४
द्विजातेर्दिव्यभावश्च सदा निर्वाणदायकः ।
विप्रो वीरश्च निर्वाणी भवत्येव न संशयः ॥ १४.५
सायुज्यादि महामोक्षं नियुक्तं क्षत्रियादिषु ।
पशुना भक्तियुक्तेन प्रसादं भुज्यते यदि ॥ १४.६
स्वर्गभोगी भवत्येव मरणे नाधिकारिता ।
जन्मान्तरमवाप्नोति महादेव्याः प्रसादतः ॥ १४.७
दिव्यवीरमते दृष्टिर्जायते नात्र संशयः ।
दिव्यवीरप्रसादेन निर्वाणी नात्र संशयः ॥ १४.८
प्रसादभोगी यो देवि स पशुर्नात्र संशयः ।
मरणे नाधिकारोऽस्ति पशुभावस्थितस्य च ॥ १४.९
नैव मुक्तिर्भवेत्तस्य जन्म चाप्नोति निश्चितम् ॥ १४.१०
श्रीचण्डिकोवाच ।
वद मे परमेशान दिव्यवीरस्य लक्षणम् ।
यत्कृते दिव्यवीरस्य महामुक्तिर्भविष्यति ॥ १४.११
श्रीशंकर उवाच ।
साक्षाद्ब्रह्ममयी देवी चाभिशप्ता च वारुणी ।
शापमोचनमात्रेण ब्रह्मरूपा सुधा परा ॥ १४.१२
निवेदनान्महादेव्यै तत्तद्देवी भवेत्किल ।
मूलाधारात्कुण्डलिनीमाजिह्वान्तां विभावयेत् ॥ १४.१३
तन्मुखे दानमात्रेण ज्ञानवान् साधको भवेत् ।
यथैव कुण्डली देवी देहमध्ये व्यवस्थिता ॥ १४.१४
तथैव वारुणीं ध्यायेत्कलाङ्गे स्वेष्टदेवताम् ।
कुण्डल्या समभावेन शक्तिवक्त्रे प्रदापयेत् ॥ १४.१५
आत्मोच्छिष्टं महापूतं तन्मुखात्परमामृतम् ।
अवश्यमेव गृह्णीयात्तादात्म्येन वरानने ॥ १४.१६
उत्सृष्टादिविचारोऽपि कदाचिन्नास्ति ब्रह्मणि ।
गङ्गातोयं परं ब्रह्म प्रसादं कस्य तद्वद ॥ १४.१७
गङ्गासागरतोयं वा प्रसादं कस्य वा भवेत् ।
शृणु देवि प्रवक्ष्यामि तज्जले स्नानमात्रतः ॥ १४.१८
मुक्तिभागी भवेन्मर्त्यः स्नानावगाहनात्किल ।
पादादिमस्तकान्तं वै स्नानकाले प्रमज्जति ॥ १४.१९
पादस्पर्शो न दोषाय परब्रह्मणि शैलजे ।
परमात्मनि लीने च तथैव परमेश्वरि ॥ १४.२०
इति ते कथितं देवि दिव्यवीरस्य लक्षणम् ।
वीरतन्त्रे च कथितं माहात्म्यं प्राणवल्लभे ॥ १४.२१
शृणु देवि प्रवक्ष्यामि साधिकायाश्च लक्षणम् ।
दिव्यशक्तिर्वीरशक्तिर्गुरुशक्तिस्तथा परा ॥ १४.२२
कुलशक्तिः कामिनी च नवशक्तिः कुमारिका ।
श्रीगुरुं पूजयेद्भक्त्या स्वदेहदानपूर्वकम् ॥ १४.२३
अन्यथा तु स्वदेहस्य निग्रहो जायते ध्रुवम् ।
सप्तजन्मनि सा देवी पुक्कसी पतिवर्जिता ॥ १४.२४
शिवं मत्वा स्वकान्तं च पूजासाधनमाचरेत् ।
कदाचिन्न यजेच्चान्यं पुरुषं परमेश्वरि ॥ १४.२५
अन्यस्य यजनाच्चण्डि सर्वनाशो भवेद्ध्रुवम् ।
कान्तस्यायुर्विहीनत्वं विपतिं च पदे पदे ॥ १४.२६
धननाशो भवेन्नित्यं देव्याः क्रोधश्च जायते ।
अवश्यं पूजयेन्नित्यं गुरुदेवं सनातनम् ॥ १४.२७
भद्राभद्रविचारं च या करोति गुरुस्थले ।
तस्या मन्त्रं क्रोधयुक्तं विपत्तिश्च पदे पदे ॥ १४.२८
वरं जनमुखान्निन्दा वरं प्राणान् परित्यजेत् ।
तथापि पूजयेद्देवं साक्षान्निर्वाणदायकम् ॥ १४.२९
सदा भयं च कापट्यं वर्जयेद्गुरुपूजने ॥ १४.३०
श्रीगुरोस्तेजसं भक्त्या यदि धारणमाचरेत् ।
सत्यं सत्यं पुनः सत्यं काशी सा नात्र संशयः ॥ १४.३१
अभक्त्या परमेशानि यदि धारणमाचरेत् ।
जपपूजादिकं तस्याः संदहेत्तेन तेजसा ॥ १४.३२
श्रीचण्डिकोवाच ।
सपत्नीकं यजेद्देवं गुरुं निर्वाणदायकम् ।
तस्य सङ्गं परित्यज्य कथमात्मनियोजनम् ॥ १४.३३
श्रीशंकर उवाच ।
शृणु देवि प्रवक्ष्यामि गुरोराज्ञानुसारतः ।
धारयेत्तेजसं भक्त्या स्वयं लिप्साविवर्जिता ॥ १४.३४
गुरुपत्न्याश्चात्मजश्च श्रीगुरोरात्मजो यतः ।
गुरुपत्नी गुरुः साक्षाद्गुरुपुत्रो न संशयः ॥ १४.३५
एकस्य पूजनात्कान्त उभयोः पूजनं भवेत् ।
गुरुपुत्रो गणेशश्च गुरुपुत्रः षडाननः ॥ १४.३६
एकं गुरुसुतं कान्ते पूजने या सदा रता ।
अन्यं गुरुसुतं कान्ते पूजयेन्न कदाचन ॥ १४.३७
वीरं वा दिव्यमूर्तिं वा कदाचिन्न हि पूजयेत् ।
एकस्य पूजनाद्देवि महासिद्धीश्वरो भवेत् ॥ १४.३८
उभयोस्त्रीणि चत्वारि या नारी पूजनं चरेत् ।
तस्याः समस्तं विफलं ध्यानादिजपपूजनम् ॥ १४.३९
यदि भाग्यवशाद्देवि एकं गुरुसुतं लभेत् ।
मनोज्ञं शास्त्रवेत्तारं निग्रहानुग्रहे रतम् ॥ १४.४०
सुन्दरं यौवनोन्मत्तं गुरुतुल्यं जितेन्द्रियम् ।
प्राणान्तेऽपि च कर्तव्यं पूजनं मोक्षदायकम् ॥ १४.४१
नो यजेद्यदि मोहेन सैव पापमयी भवेत् ॥ १४.४२

"https://sa.wikisource.org/w/index.php?title=मातृकाभेदतन्त्रम्&oldid=332706" इत्यस्माद् प्रतिप्राप्तम्