माण्डूक्योपनिषद्भाष्यम्

विकिस्रोतः तः
माण्डूक्योपनिषद्भाष्यम्
श्रीशङ्करः

माण्डूक्योपनिषद्

शान्तिपाठः

ओं भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः ॥

ओं शान्तिः !! शान्तिः !! शान्तिः !!!

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ओं शान्तिः !! शान्तिः !! शान्तिः!!!

आगमप्रकरणम्[सम्पाद्यताम्]

मङ्गलाचरणम्‌

प्रज्ञानांशुप्रतानैः स्थिरचरनिकरव्यापिभिर्व्याप्य लोकान् भुक्त्वा भोगान्स्थविष्ठान्पुनरपि धिषणोद्भासितान्कामजन्यान् ।
पीत्वा सर्वान् विशेषान् स्वपिति मधुरभुङ्मायया भोजयन्नो मायासंख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतोऽस्मि ॥१॥

यो विश्वात्मा विधिजविषयान् प्राश्य भोगान् स्थविष्ठान् पश्चाच्चान्यान् स्वमतिविभवाञ्ज्योतिषा स्वेन सूक्ष्मान् ।
सर्वानेतान् पुनरपि शनैः स्वात्मनि स्थापयित्वा हित्वा सर्वान्विशेषान्विगतगुणगणः पात्वसौ नस्तुरीयः ॥२॥



ओमित्येतदक्षरमिदं सर्वम् ।
तस्योपव्याख्यानं वेदान्तार्थसारसंग्रहभूतमिदं प्रकरणचतृष्टयमोमित्येतदक्षरमित्याद्यारभ्यते ।
अत एव न पृथक्सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि ।
यान्येव तु वेदान्ते सम्बन्धाभिधेय प्रयोजनानि तान्येवेह भवितुमर्हन्ति ।
तथापि प्रकरणव्याचिख्यासुना संक्षेपतो वक्तव्यानि ।


तत्र प्रयोजनवत्साधनाभिव्यञ्जकत्वेनाभिधेयसम्बद्धं शास्त्रं पारम्पर्येण विशिष्टसंबन्धाभिधेयप्रयोजनवद्भवति ।
किं पुनस्तत्प्रयोजनमित्युच्यते रोगार्तस्यैव रोगनिवृत्तौ स्वस्थता ।
तथा दुःखात्मकस्यात्मनो द्वैतप्रपञ्चोपशमे स्वस्थता ।
अद्वैतभावः प्रयोजनम् ।

द्वैतप्रपञ्चस्याविद्याकृतत्वाद्विद्यया तदुपशमः स्यादिति ब्रह्मविद्याप्रकाशनायास्य आरम्भः क्रियते ।

"यत्र हि द्वैतमिव भवति"(बृ.उ २ । ४ । १४) "यत्र वान्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यद्विजानीयात्"(बृ.उ ४ । ३ । ३१) "यत्र वास्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्केन कं विजानीयात्"(बृ.उ २ । ४ । १४) इत्यादि श्रुतिभ्योऽस्यार्थस्य सिद्धिः ।

तत्र तावदोंकारनिर्णयाय प्रथमं प्रकरणमागमप्रधानामात्मतत्त्वप्रतिपत्त्युपायभूतम् ।
यस्य द्वैतप्रपञ्चस्योपशमेऽद्वैतप्रतिपत्ती रज्ज्वामिव सर्पादिविकल्प उपशमे रज्जुतत्त्वप्रतिपत्तिस्तस्य द्वैतस्य हेतुतो वैतथ्यप्रतिपादनाय द्वितीयं प्रकरणम् ।
तथाद्वैतस्यापि वैतथ्यप्रसङ्गप्राप्तौ युक्तितस्तथात्वदर्शनाय तृतीयं प्रकरणम् ।
अद्वैतस्य तथात्वप्रतिपत्तिपक्षभूतानि यानि वादान्तराण्यवैदिकानि तेषामन्योन्यविरोधित्वादतथार्थत्वेन तदुपपत्तिभिरेव निराकरणाय चतुर्थं प्रकरणम् ।

कथं पुन ओंकारनिर्णय आत्मतत्त्वप्रतिपत्त्युपायत्वं प्रतिपद्यत इत्युच्यते"ओं इत्येतत्"(क.उ १ । २ । १५) "एतदालम्बनम्"(क.उ.१ । २ । १७) "एतद्वै सत्यकाम"(प्र.उ.५ । २) "ओं इत्यात्मानं युञ्जीत"(मैत्र्यु.६ । ३) "ओं इति ब्रह्म"(तै.उ.१ । ८ । १) "ओंकार एवेदं सर्वम्" (छा.उ.२ । २३ । ३) इत्यादि श्रुतिभ्यः ।

रज्जुरादिरिव सर्पादिविकल्पस्यास्पदोऽद्वय आत्मा परमार्थः सन्प्राणादिविकल्पस्यास्पदो यथा तथा सर्वोऽपि वाक्प्रपञ्चः प्राणाद्यात्मविकल्पविषय ओंकार एव ।
स चात्मस्वरूपमेव तदभिधायकत्वात् ।
ओंकारविकारशब्दाभिधेयश्च सर्वः प्राणादिरात्मविकल्पोऽभिधानव्यतिरेकेण नास्ति ।
"वाचारम्भणं विकारो नामधेयम्"(छा.उ.६ । १ । ४) "तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितम्" "सर्वं हीदं नामानि"इत्यादि श्रुतिभ्यः ।

अत आह

ओं इत्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोंकार एव ।
यच्चान्यत्त्रिकालातीतं तदप्योंकार एव ॥ १ ॥
भाष्य १
ओं इत्येतदक्षरमिदं सर्वमिति ।
यदिदमर्थजातमभिधेयभूतं तस्याभिधानाव्यतिरेकादभिधानस्य च ओंकाराव्यतिरेकादोंकार एवेदं सर्वम् ।
परं च ब्रह्माभिधानाभिधेय उपायपूर्वकमेव गम्यत इत्योंकार एव ।

तस्यैतस्य परापर ब्रह्मरूपस्याक्षरस्य ओं इत्येतस्योपव्याख्यानम्॑ ब्रह्मप्रतिपत्त्युपायत्वाद्ब्रह्मसमीपतया विस्पष्टं प्रकथनमुपव्याख्यानं प्रस्तुतं वेदितव्यमिति वाक्यशेषः ।

भूतं भवद्भविष्यदिति कालत्रयपरिच्छेद्यं यत्तदप्योंकार एवोक्तन्यायतः ।
यच्चान्यत्त्रिकालातीतं कार्याधिगम्यं कालापरिच्छेद्यमव्याकृतादि तदप्योंकार एव ॥१॥



अभिधानाभिधेययोरेकत्वेऽप्यभिधानाप्राधान्येन निर्देशः कृतः ।
ओं इत्येतदक्षरमिदं सर्वमित्याद्यभिधानप्राधान्येन निर्दिष्टस्य पुनोऽभिधेयप्राधान्येन निर्देशोऽभिधानाभिधेययोरेकत्वप्रतिपत्त्यर्थः ।
इतरोऽथा ह्यभिधानतन्त्राभिधेयप्रतिपत्तिरित्यभिधेयस्याभिधानत्वं गौणामित्याशङ्का स्यात् ।
एकत्वप्रतिपत्तेश्च प्रयोजनमभिधानाभिधेययोरेकेनैव प्रयत्नेन युगपत्प्रविलापर्यस्तद्विलक्षणं ब्रह्म प्रतिपद्येत इति ।
तथा च वक्ष्यति"पादा मात्रा मात्राश्च पादाः" (मा.उ.८) इति ।
तदाह

सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २ ॥

भाष्य २
सर्वं ह्येतद्ब्रह्मेति ।
सर्वं यदुक्तमोंकारमात्रमिति तदेतद्ब्रह्म ।
तच्च ब्रह्म परोक्षाभिहितं प्रत्यक्षतो विशेषेण निर्दिशत्ययमात्मा ब्रह्मेति ।
अयमिति चतुष्पात्वेन प्रविभज्यमानं प्रत्यगात्मतयाभिनयेन निर्दिशति अयमात्मेति ।
सोऽयमात्म ओंकाराभिधेयः परापरत्वेन व्यवस्थितश्चतुष्पात्कार्षापणवन्न गौरिवेति ।
त्रयाणां विश्वादीनां पूर्वपूर्वप्रविलापनेन तुरीयस्य प्रतपत्तिरिति करणसाधनः पादशब्दः ।
तुरीयस्य पद्यत इति कर्मसाधनः पादशब्दः ॥२॥



कथं चतुष्पात्वमित्याह
जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥

भाष्य ३
जागरितं स्थानमस्येति जागरितस्थानः ।
बहिष्प्रज्ञः स्वात्मव्यतिरिक्ते विषये प्रज्ञा स बहिष्प्रज्ञो बहिर्विषय एव प्रज्ञाविद्याकृताववभासत इत्यर्थः ।
तथा सप्ताङ्गान्यस्य"तस्य ह वैतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदोहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ" (छा.उ.५ । १८ । २) इत्यग्निहोत्रकल्पनाशेषत्वेनाहवनीयोऽग्निरस्य मुखत्वेनोक्त इत्येवं सप्ताङ्गानि यस्य स सप्ताङ्गः ।

तथैकोनविंशतिर्मुखान्यस्य बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश वायवश्च प्राणादयःपञ्च मनो बुद्धिरहङ्कारच्चित्तमिति मुखानीव मुखानि तान्युपलब्धिद्वाराणित्यर्थः स एवं विशिष्टो वैश्वानरो यथोक्तैर्द्वारैः शब्दादीन् स्थूलान् विषयान् भुङ्क्त इति स्थूलभुक् ।
विश्वेषां नराणामनेकधा नयनाद्वैश्वानरः ।
यद्वा विश्वश्चासौ नरश्चेति विश्वानरः ।
विश्वानर एव वैश्वानरः ।
सर्वपिण्डात्मनन्यत्वात्सः प्रथमः पादः ।
एतत्पूर्वकत्वादुत्तरपादाधिगमस्य प्राथम्यमस्य ।

कथमयमात्मा ब्रह्मेति प्रत्यगात्मनोऽस्य चतुष्पात्त्वे प्रकृते द्युलोकादीनां मूर्धाद्यङ्गत्वमिति ।
नैष दोषः ।
सर्वस्यप्रपञ्चस्य साधिदैविकस्यानेन आत्मना चतुष्पात्त्वस्य विवक्षितत्वात् ।
एवं च सति सर्वप्रपञ्च उपशमेऽद्वैतसिद्धिः ।
सर्वभूतस्थश्चात्मैको दृष्टः स्यात्सर्वभूतानि चात्मनि ।
"यस्तु सर्वाणि भूतानि"(ई.उ.६) इत्यादिश्रुत्यर्थोपसंहृतश्चैवं स्यात् ।
अन्यथा हि स्वदेहपरिच्छिन्न एव प्रत्यागात्मा सांख्यादिभिरिव दृष्टः स्यात्तथा च सत्यद्वैतमिति श्रुतिकृतो विशेषो न स्यात्सांख्यादिदर्शनेनाविशेषात् ।
इष्यते च सर्व उपनिषदां सर्वात्मैक्यप्रतिपादकत्वम् ।
अतो युक्तमेवास्याध्यात्मिकस्य पिण्डात्मनो द्युलोकाद्यङ्गत्वेन विराडात्मनाधिदैविकेनैकत्वमभिप्रेत्य सप्ताङ्गत्ववचनम् ।
"मूर्धा ते व्यपतिष्यत्"(छा.उ ५ । १२ । २) इत्यादि लिङ्गदर्शनाच्च ।

विराज एकत्वमुपलक्षणार्थं हिरण्यगर्भाव्याकृतात्मनोः ।
उक्तं चैतन्मधुब्राह्मणे"यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यच्चायमध्यात्मम्"(बृ.उ.२ । ५ । १) इत्यादि ।
सुषुप्ताव्याकृतयः स त्वेकत्वं सिद्धमेव निर्विशेषत्वात् ।
एवं च सत्येतत्सिद्धं भविष्यति सर्वद्वैत उपशमे चाद्वैतमिति ॥३॥




स्वप्रस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४ ॥

भाष्य ४
स्वप्नः स्थानस्य तैजसस्य स्वप्नस्थानः ।
जाग्रत्प्रज्ञानेकसाधना बहिर्विषय एवावभासमाना मनःस्पन्दनमात्रा सती तथाभूतं संस्कारं मनस्याधत्ते ।
तन्मनस्तथा संस्कृतं चित्रित इव पटो बाह्यसाधनाननपेक्षमविद्याकामकर्मभिः प्रेर्यमाणं जाग्रद्वदवभासते ।
तथा चोक्तम्"अस्य लोकस्य सर्वावतो मात्रामपादाय"(बृ.उ.४ । ३ । ९) इति ।
तथा"परे देवे मनस्येकीभवति"(प्र.उ.४ । २) इति प्रस्तुत्य"अत्रैष देवः स्वप्ने महिमानमनुभवति"(प्र.उ.४ । ५) इत्याथर्वणे ।

इन्द्रियापेक्षयान्तःस्थत्वान्मनसस्तद्वासनारूपा च स्वप्ने प्रज्ञा यस्यात्यन्तःप्रज्ञः ।
विषयशून्यानां प्रज्ञायां केवलप्रकाशस्वरूपायां विषयित्वेन भवतीति तैजसः ।
विश्वस्य सविषयत्वेन प्रज्ञायाः स्थूलाया भोज्यत्वम् ।

इह पुनः केवला वासनामात्रा प्रज्ञा भोज्येति प्रविविक्तो भोग इति ।
समानमन्यत् ।
द्वितीयः पादस्तैजसः ॥४॥



दर्शनादर्शनवृत्त्यस्तत्वाप्रबोधलक्षणस्य स्वापस्य तुल्यत्वात्सुषुप्तिग्रहणार्थं यत्र सुप्त इत्यादि विशेषणम् ।
अथ वा त्रिष्वपि स्थानेषु तत्त्वाप्रतिबोधलक्षणः स्वापोऽविशिष्ट इति पूर्वाभ्यां सुषुप्तं विभजते

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् ।
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवान्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञः तृतीयः पादः ॥ ५ ॥


भाष्य ५
यत्र यस्मिन् स्थाने काले वा सुप्तो न कञ्चन स्वप्नं पश्यति न कञ्चन कामं कामयते ।
न हि सुषुप्ते पूर्वयोरिवान्यथाग्रहणलक्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यने ।
तदेतत्सुषुप्तं स्थानमस्येति सुषुप्तस्थानः ।

स्थानद्वयप्रविभक्तं मनः स्पन्दितं द्वैतजातं तथा रूपापरित्यागेनाविवेकापन्नं नैशतमोग्रस्तमिवाहः सप्रपञ्चमेकीभूतमित्युच्यते ।
अत एव स्वप्नजाग्रन्मनःस्पन्दनानि प्रज्ञानानि घनीभूतानीव सेयमवस्थाविवेकरूपत्वात्प्रज्ञानघनोच्यते ।
यथा रात्रौ नैशेन तमसा विभज्यमानं सर्वं घनमिव तद्वत्प्रज्ञानघन एव ।
एव शब्दान्न जात्यन्तरं प्रज्ञानव्यतिरेकेणास्तीतार्थः ।

मनसो विषयीविषय्याकारस्पन्दनायासदुःखाभावादानन्दमय आनन्दप्रायो नानन्द एव ।
यथा लोके निरायासस्थितः सुख्यानन्दभुगुच्यतेऽत्यन्तानायासरूपा हीयं स्थितिरनेनानुभूयत इत्यानन्दभुक्"एषोऽस्य परम आनन्दः"(बृ.उ.४ । ३ । ३२) इति श्रुतेः ।

स्वप्नादिप्रतिबोधिचेतः प्रति द्वारीभूतत्वाच्चेतोमुखः ।
बोधलक्षणं वा चेतो द्वारं मुखमस्य स्वप्नाद्यागमनं प्रतीति चेतोमुखः ।
भूतभविष्यज्ज्ञातृत्वं सर्वविषयज्ञातृत्वमस्यैति प्राज्ञः ।
सुषुप्तोऽपि हि भूतपूर्वगत्या प्राज्ञोच्यते ।
अथवा प्रज्ञप्तिमात्रमस्यैवासाधारणं रूपमिति प्राज्ञ इतरयोर्विशिष्टमपि विज्ञानमस्ति ।
सोऽयं प्राज्ञस्तृतीयः पादः ॥५॥


एषः सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥

भाष्य ६
एष हि स्वरूपावस्थः सर्वेश्वरः साधिदैविकस्य भेदजातस्य सर्वस्येशिता नैतस्माज्जात्यन्तरभूतोऽन्येषामिव ।
"प्राणबन्धनं हि सोम्य मनः"(छा.उ.६ । ८ । २) इति श्रुतेः ।
अयमेव हि सर्वस्य सर्वभेदावस्थो ज्ञातेत्येष सर्वज्ञः ।
एषोऽन्तर्याम्यन्तरनुप्रविश्य सर्वेषां भूतानां नियन्ताप्येष एव ।
अत एव यथोक्तं सभेदं जगत्प्रसूयत इत्येष योनिः सर्वस्य ।
यत एवं प्रभवश्चापि यश्च प्रभवाप्ययौ हि भूतानामेष एव ॥६॥

==[सम्पाद्यताम्]

गौडपादीयकारिकाः[सम्पाद्यताम्]

१.१

अत्रैतस्मिन् यथोक्तेऽर्थ एते श्लोका भवन्ति

बहिःप्रज्ञो विभुः विश्वो ह्यन्तःप्रज्ञस्तु तैजसः ।
घनप्रज्ञः तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ १.१ ॥

भाष्य १.१
बहिःप्रज्ञ इति ।
पर्यायेण त्रिस्थानत्वात्स अहमिति स्मृत्या प्रतिसन्धानाच्च स्थानत्रयव्यतिरिक्तमेकत्वं शुद्धत्वमसङ्गत्वं च सिद्धमित्यभिप्रायः ।
महामत्स्यादिदृष्टान्तश्रुतेः ॥१॥

१.२

जागरितावस्थायामेव विश्वादीनां त्रयाणामनुभवप्रदर्शनार्थोऽयं श्लोकः

दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।
आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ १.२ ॥

भाष्य १.२
दक्षिणमक्ष्येव मुखं तस्मिन्प्राधान्येन द्रष्टा स्थूलानां विश्वोऽनुभूयते"इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः" ।
इति श्रुतेः ।
इन्धो दीप्तिगुणो वैश्वानरः ।
आदित्यान्तर्गतो वैराज आत्मा चक्षुषि च द्रष्टैकः ।

नन्वयो हिरण्यगर्भः क्षेत्रज्ञो दक्षिणोऽक्षि(क्ष)ण्यक्ष्णोर्नियन्ता द्रष्टा चान्यो देहस्वामी ।

न स्वतो भेदानभ्युपगमात् ।
"एको देवः सर्वभूतेषु गूढः"(श्वे.उ.६ । ११) इति श्रुतेः ।
"क्षेत्रज्ञं चापि मां विद्धिं सर्वक्षेत्रेषु भारत" ।
(गीता १३ । २) "आविभक्तं च भूतेषु विभक्तमिव च स्थितम्" ।
(गीता १३ । १६) इति स्मृतेः ।
"सर्वेषु करणेष्वविशेषेऽपि दक्षिणाक्षण्युपलब्धिपाटवदर्शनात्तत्र विशेषेण निर्देशो विश्वस्य ।

दक्षिणाक्षिगतो रूपं दृष्ट्वा निमीलिताक्षस्तदेव स्मरन्मनस्यन्तः स्वप्न इव तदेव वासनारूपाभिव्यक्तं पश्यति ।
यथात्र तथा स्वप्ने ।
अतो मनस्यन्तस्तु तैजसोऽपि विश्व एव ।

आकाशे च हृदि स्मरणाख्यव्यापारोपरमे प्राज्ञ एकीभूतो घनप्रज्ञ एव भवति मनोव्यापाराभावात् ।
दर्शनस्मरण एव हि मनःस्पन्दिते तदभावे हृद्येवाविशेषेण प्राणात्मनावस्थानम् ।
"प्राणो ह्येवैतान् सर्वान् संवृङ्क्ते"(छा.४ । ३ । ३) इति श्रुतेः ।
तैजसो हिरण्यगर्भो मनःस्थत्वात् ।
"लिङ्गं मनः"(बृ.उ४.४.६) ।
"मनोमयोऽयं पुरुषः" (बृ.उ५ । ३ । १) इत्यादिश्रुतिभ्यः ।

ननु व्याकृतः प्राणः सुषुप्ते ।
तदात्मकानि करणानि भवन्ति ।
कथमव्याकृतता?

नैष दोषोऽव्याकृतस्य देशकालविशेषाभावात् ।
यद्यपि प्राणाभिमाने सति व्याकृततैव प्राणस्य तथापि पिण्डपरिच्छिन्नविशेषाभिमाननिरोधः प्राणोभवतीत्यव्याकृत एव प्राणः सुषुप्ते परिच्छिन्नाभिमानवताम् ।

यथा प्राणलये परिच्छिन्नाभिमानिनां प्राणोऽव्याकृतस्तथा प्राणाभिमानिनोऽप्यविशेषापत्तावव्याकृतता समाना प्रसवबीजात्मकत्वं च तदध्यक्षश्चैकोऽव्याकृतावस्थः ।
परिच्छिन्नाभिमानिनामध्यक्षाणां च तेन एकत्वमिति पूर्वोक्तं विशेषणमेकीभूत प्रज्ञानघन इत्याद्युपपन्तम् ।
तस्मिन्नुक्तहेतुत्वाच्च ।

कथं प्राणशब्दत्वमव्याकृतस्य ।

"प्राणबन्धनं हि सोम्य मनः"(छा.उ६ । ८ । २) इति श्रुतेः ।

ननु तत्र"सदेव सोम्य"(छा.उ६ । २ । १) इति प्रकृतं सद्ब्रह्म प्राणशब्दवाच्यम् ।

नैष दोषो बीजात्मकत्वाभ्युपगमात्सतः ।
यद्यपि तद्ब्रह्म प्राणशब्दवाच्यं तत्र तथापि जीवप्रसवबीजात्मकत्वमपिरत्यज्य एव प्राणशब्दत्वं सतः सच्छब्दवाच्यता च ।
यदि हि निर्बीजरूपं विवक्षितं ब्रह्माभविष्यत्"नेति नेति"(बृ.उ.४.४.२.२४.५.१५)"यतो वाचो निवर्तन्ते"(तै.उ.२.९)"अन्यदेव तद्विदितादथाविदितात्"(के.उ१.३) इत्यवक्ष्यत"न सत्तन्नासदुच्यते"(गीता.१३.१२) इति स्मृतेः ।

निर्बीजतयैव चेत्सति लीनानां सुषुप्तप्रलययोः पुनरुत्थानानुपपत्तिः स्यात् ।
मुक्तानां च पुनरुत्पत्तिप्रसङ्गो बीजाभावाविशेषात् ।
ज्ञानदाह्यबीजाभावे च ज्ञानानर्थक्यप्रसङ्गः ।
तस्मात्स बीजत्वाभ्युपगमेन एव सतः प्राणत्वव्यपदेशः सर्वश्रुतिषु च कारणत्वव्यपदेशः ।

अत एव"अक्षरात्परतः परः"(मु.उ२.१.२) ।
"सबाह्याभ्यान्तरो ह्यजः" (मु.उ२.१.२) ।
"यतो वाचो निवर्तन्ते"(तै.उ२.९) ।
"नेति नेति"(बृ.उ४.४.१२) इत्यादिना बीजवत्वापनयनेन व्यपदेशः ।
तां बीजावस्थां तस्यैव प्राज्ञशब्दवाच्यस्य तुरीयत्वेन देहादिसंबन्धजाग्रदादिरहितां पारमार्थिकीं पृथग्वक्ष्यति ।
बीजावस्थापि न किञ्चिदवेदिषमित्युत्थितस्य प्रत्ययदर्शनाद्देहेऽनुभूयत एवेति त्रिधा देहे व्यवस्थितेत्युच्यते ॥२॥

१.३४

विश्वः हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ १.३ ॥

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥ १.४ ॥

भाष्य १.३४
उक्तार्थौ श्लोकौ ॥३४ ॥

१.५

त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः ।
वदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ १.५ ॥


भाष्य १.५

त्रिषु धामसु जाग्रदादिषु स्थूलप्रविविक्तानन्दाख्यं भोज्यमेकं त्रिधाभूतम् ।
यश्च विश्वतैजसप्राज्ञाख्यो भोक्तैकः स अहमित्येकत्वेनप्रतिसंधानाद्द्रष्टुत्वाविशेषाच्च प्रकीर्तितः ।
यो वेदैतदुभयं भोज्यभोक्तृतयानेकधा भिन्नं स भुञ्जानो न लिप्यते ।
भोज्यस्य सर्वस्यैकस्य भोक्तुर्भोज्यत्वात् ।
न हि यस्य यो विषयः स तेन हीयते वर्धते वा न ह्यग्निः स्वविषयं दग्ध्वा काष्ठादि तद्वत् ॥५॥

१.६

प्रभवः सर्वभावानां सतामिति विनिश्चयः ।
सर्वं जनयति प्राणश्चेतोऽंशून् पुरुषः पृथक् ॥ १.६ ॥

भाष्य १.६

सतां विद्यमानानां स्वेनाविद्याकृतनामरूपमायास्वरूपेण सर्वभावानां विश्वतैजसप्राज्ञभेदानां प्रभवोत्पत्तिः ।
वक्ष्यति च"वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते"इति ।
यदि ह्यसतामेव जन्म स्याद्ब्रह्मणोऽव्यवहार्यस्य ग्रहणद्वाराभावादसत्वप्रसङ्गः ।
दृष्टं च रज्जुसर्पादीनामविद्याकृतमायाबीजोत्पन्नानां रज्ज्वाद्यात्मना सत्वम् ।
न हि निरास्पदा रज्जुसर्पमृगतृष्णिकादयः क्वचिदुपलभ्यन्ते केनचित् ।
यथा रज्ज्वां प्राक्सर्पोत्पत्ते रज्ज्वात्मनां सर्पः सन्नेव आसीदेवं सर्वभावानामुत्पत्तेः प्राक्प्राणबीजात्मनैव सत्वम् ।
इत्यतः श्रुतिरपि वक्ति"ब्रह्मैवेदम्"(मु.उ२.२.११)"आत्मैवेदमग्र आसीत्"(बृ.उ.१.४.१) इति ।

सर्वं जनयति प्राणश्चेतोंऽशूनंशव इव रवेश्चिदात्मकस्य पुरुषस्य चेतोरूपा जलार्कसमाः प्राज्ञतैजसविश्वभेदेन देवतिर्यगादिदेहभेदेषु विभाव्यमानाश्चेतोंशवोयेतान् पुरुषः पृथग्विषयभावविलक्षणानग्निविष्फुलिङ्गवत्सलक्षणाञ्जलार्कवच्च जीवलक्षणांस्त्वितरान् सर्वभावान् प्राणो बीजात्मा जनयति"यथोर्णनाभिः"(मु.उ.१.१.७)"यथाग्नेः क्षुद्रार्विस्फुलिङ्गाः"(बृ.उ.२.१.२०) इत्यादिश्रुतेः ॥६॥

१.७

विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायासरूपेति सृष्टिरन्यैः विकल्पिता ॥ १.७ ॥

भाष्य १.७
विभूतिर्विस्तारेश्वरस्य सृष्टिरिति सृष्टिचिन्तका मन्यन्ते न तु परमार्थचिन्तकानां सृष्टवादर इत्यर्थः ।
"इन्द्रो मायाभिः पुरुरूपेयते" (बृ.उ.२.५.१९) इति श्रुतेः ।
न हि मायाविनं सूत्रमाकाशे निक्षिप्य तेन सायुधमारुह्य चक्षुर्गोचरतामतीत्य युद्धेन खण्डशश्छिन्नं पतितं पुनरुत्थितं च पश्यतां तत्कृतं मायादिसतत्वचिन्तायामादरो भवति ।
तथैवायं मायाविनः सूत्रप्रसारणसमः सुषुप्तस्वप्नादिविकासस्तदारूढमयाविसमश्च तत्स्थः प्राज्ञतैजसादिः ।
सूत्रतदारूढाभ्यामन्यः परमार्थमायावी स एव भूमिष्ठो मायाछन्नोऽदृश्यमान एव स्थितो यथा तथा तुरीयाख्यं परमार्थतत्त्वम् ।
अतस्तच्चिन्तायामेवादरो मुमुक्षूणामार्याणां न निष्प्रयोजनायां सृष्टवादर इत्यतः सृष्टिचिन्तकानामेवैते विकल्पेत्याह स्वप्नमायासरूपेति ।
स्वप्नरूपा मायासरूपा चेति ॥७॥

१.८

इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ १.८ ॥

भाष्य १.८
इच्छामात्रं प्रभोः सत्यसंकल्पत्वात्सृष्टिर्घटादिः संकल्पनामात्रं न संकल्पनातिरिक्तम् ।
कालादेव सृष्टिरिति केचित् ॥८॥


१.९

भोगार्थं सृष्टिरिति अन्ये क्रीडार्थमिति चापरे ।
देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ १.९ ॥

भाष्य १.९
भोगार्थं क्रीडार्थमिति चान्ये सृष्टिं मन्यन्ते ।
अनयोः पक्षयोर्दूषणं देवस्यैष स्वभावोऽयमिति देवस्य स्वभावपक्षमाश्रित्य सर्वेषां वा पक्षाणामाप्तकामस्य का स्पृहेति ।
न हि रज्ज्वादीनामविद्यास्वभावव्यतिरेकेण सर्पाद्याभासत्वे कारणं शक्यं वक्तुम् ॥९॥



चतुर्थः पादः क्रमप्राप्तो वक्तव्य इत्याहनान्तःप्रज्ञमित्यादिना ।
सर्वशब्दप्रवृत्तिनिमित्तशून्यत्वात्तस्य शब्दानभिधेयत्वमिति विशेषप्रतिषेधेन एव च तुरीयं निर्दिदिक्षति ।

शून्यमेव तर्हि तत् ।

न मिथ्याविकल्पस्य निर्निमित्तत्वानुपपत्तेर्न हि रजतसर्पपुरुषमृगतृष्णिकादिविकल्पाः शुक्तिकारज्जुस्थाणुरूषरादि व्यतिरेकेणावस्त्वास्पदाः शक्याः कल्पयितुम् ।

एवं तर्हि प्राणादिसर्वविकल्पास्पदत्वात्तुरीयस्य शब्दवाच्यत्वमिति न प्रतिषेधैः प्रत्याय्यत्वम् ।
उदकाधारादेरिव घटादेः ।

न प्राणादिविकल्पस्यासत्वाच्छुक्तिकादिष्विव रजतादेः ।
न हि सदसतोः संबन्धः शब्दप्रवृत्तिनिमित्तभागवस्तुत्वात् ।
नापि प्रमाणान्तरविषयत्वं स्वरूपेण गवादिवदात्मनो निरुपाधिकत्वाद् ।
गवादिवन्नापि जातिमत्वमद्वितीयत्वेन सामान्यविशेषाभावात् ।
नापि क्रियावत्वं पाचकादिवदविक्रियत्वात् ।
नापि गुणवत्वं नीलादिवन्निर्गुणत्वात् ।
अतो नाभिधानेन निर्देशमर्हति ।

शशविषाणादिसमत्वान्निरर्थकत्वं तर्हि ।

नात्मत्वावगमे तुरीयस्यानात्मतृष्णाव्यावृत्तिहेतुत्वाच्छुक्तिकावगम इव रजततृष्णायाः ।
न हि तुरीयस्यात्मत्वावगमे सत्यविद्यातृष्णादिदोषाणां सम्भवोऽस्ति ।
न च तुरीयस्याऽत्मत्वानवगमे कारणमस्ति सर्वोपनिषदां तादर्थ्येनोपक्षयात् ।
"तत्वमसि"(छा.उ.६.८.१६)"अयमात्मा ब्रह्म"(बृ.उ.२.५.१९)"तत्सत्यं स आत्मा"(छा.उ.६.८.१६)"यत्साक्षादषरोक्षाद्ब्रह्म"(बृ.उ.३.४.१)"सबाह्याभ्यन्तरो ह्यजः"(मु.उ.२.१.२) ।
"आत्मैवेदं सर्वम्"(छा.उ.७.२५.२) इत्यादीनाम् ।

सोऽयमात्मा परमार्थापरमार्थरूपश्चतुष्पाद इत्युक्तस्तस्यापरमार्थरूपमविद्याकृतं रज्जुसर्पादिसममुक्तं पादत्रयलक्षणं बीजाङ्कुरस्थानीयम् ।
अथेदानीं बीजात्मकं परमार्थस्वरूपं रज्जुस्थानीयं सर्पादिस्थानीयोक्तस्थानत्रयानिराकरणेनाह नान्तः प्रज्ञमित्यादि ।

नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।
अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते ।
स आत्मा स विज्ञेयः ॥ ७ ॥

भाष्य ७
नन्वात्मनश्चतुष्पात्वं प्रतिज्ञाय प्रादत्रयकथनेन एव चतुर्थस्यान्तः प्रज्ञादिभ्यो अन्यत्वे सिद्धे नान्तः प्रज्ञ इत्यादि प्रतिषेधोऽनर्थकः ।
न सर्पादिविकल्पप्रतिषेधेन एव रज्जुस्वरूपप्रतिपत्तिवत्त्र्यवस्थस्य एवात्मनस्तुरीयत्वेन प्रतिपिपादयिषितत्वात् ।
"तत्त्वमसि"(छा.उ.६.८.१६) इतिवत् ।
यदि हि त्र्यवस्थात्मविलक्षणं तुरीयमन्यत्तत्प्रतिपत्तिद्वाराभावाच्छास्त्रोपदेशानर्थक्यं शून्यतापत्तिर्वा ।
रज्जुरिव सर्पादिभिर्विकल्प्यमाना स्थानत्रयेऽप्यात्मैक एवान्तः प्रज्ञादित्वेन विकल्प्यते यदा तदान्तः प्रज्ञत्वादिप्रतिषेधविज्ञानप्रमाणसमकालमेवात्मन्यनर्थप्रपञ्चनिवृत्तिलक्षणफलं परिसमाप्तमिति तुरीयाधिगमे प्रमाणान्तरं साधनान्तरं वा म मृग्यम् ।
रज्जुसर्पविवेकसमकाल इव रज्ज्वां सर्पनिवृत्तिफले सति रज्ज्वधिगयस्य ।
येषां पुनस्तमोऽपनयव्यतिरेकेण घटाधिगमे प्रमाणं व्याप्रियते तेषां छेद्यावयवसम्बन्धवियोगव्यतिरेकेणान्यन्यतरावयवेऽपिच्छिदिर्व्या प्रियत इत्युक्तं स्यात् ।
यदा पुनर्घटतमसो विवेककरणे प्रवृत्तं प्रमाणमनुपादित्सिततमोनिवृत्तिफलावसानं छिदिरिवच्छेद्यावयवसंबन्धविवेककरणे प्रवृत्ता तदवयवद्वैधीभावफलावसाना तथा नान्तरीयकं घटविज्ञानं न तत्प्रमाणफलम् ।
न च तद्वदप्यात्मन्यध्यारोपितान्तः प्रज्ञत्वादिविवेककरणे प्रवृत्तस्य प्रतिषेधविज्ञानप्रमाणस्यानुपादित्सितान्तः प्रज्ञत्वदिनिवृत्तिव्यतिरेकेण तुरीये व्यापार उपपत्तिः ।
अन्तः प्रज्ञत्वादिनिवृत्तिसमकालमेव प्रमातृत्वादिभेदनिवृत्तेः ।
तथा च वक्ष्यति"ज्ञाते द्वैतं न विद्यते"(माण्डू.का.१.१८) इति ।
ज्ञानस्य द्वैतनिवृत्तिक्षणव्यतिरेकेण क्षणान्तरानवस्थानात् ।
अवस्थाने चानवस्थाप्रसङ्गाद्द्वैतानिवृत्तिः ।
तस्मात्प्रतिषेधविज्ञानप्रमाणव्यापारसमकालैर्वात्मन्यध्यारोपितान्तः प्रज्ञत्वाद्यनर्थानिवृत्तिरिति सिद्धम् ।

नान्तः प्रज्ञमिति तैजसप्रतिषेधो न बहिष्प्रज्ञमिति विश्वप्रतिषेधः ।
न उभयतः प्रज्ञमिति जाग्रत्स्वप्रयोरन्तरालावस्थाप्रतिषेधः ।
न प्रज्ञानघनमिति सुषुप्तावस्थाप्रतिषेधो बीजभावाविवेकरूपत्वात् ।
न प्रज्ञमिति युगपत्सर्वविषप्रज्ञातृत्वप्रतिषेधः ।
नाप्रज्ञमिति चैतन्यप्रतिषेधः ।

कथं पुनरन्तः प्रज्ञत्वादीनामात्मनि गम्यमानानां रज्ज्वादौ सर्पादिवत्प्रतिषेधादसत्वं गम्यत इत्युच्यते ।
ज्ञस्वरूपाविशेषेऽपीतरेतरव्यभिचाराद्रज्ज्वादाविव सर्पधारादिविकल्पित भेदवत्सर्वत्राव्यभिचाराज्ज्ञस्वरूपस्य सत्यत्वम् ।

सुषुप्ते व्यभिचरतीति चेन्न ।
सुषुप्तस्यानुभूयमानत्वात्"न हि विज्ञातुर्विज्ञातेर्विपरलोपो विद्यते"(बृ.उ.४.३.३०) इति श्रुतेः ।

अत एवादृष्टम् ।
यस्माददृष्टं तस्मादव्यवहार्यम् ।
अग्राह्यं कर्मेन्द्रियैः ।
अलक्षणमलिङ्गमित्येतदननुमेयित्यर्थः ।
अत एवाचिन्त्यम् ।
अत एवाव्यपदेश्यं शब्दैः ।
एकात्मप्रत्ययसारं जाग्रदादिस्थानेष्वेकोऽयमात्मेत्यव्यभिचारी यः प्रत्ययस्तेनानुसरणीयम् ।
अथवैक आत्मप्रत्ययः सारं प्रमाणं यस्य तुरीयस्याधिगमे तत्तुरीयमेकात्मप्रत्ययसारम् ।
"आत्मेत्येवोपासीत"(बृ.उ.१.४.७) इति श्रुतेः ।

अन्तः प्रज्ञत्वादिस्थानिधर्मः प्रतिषेधः कृतः ।
प्रपञ्च उपशममिति जाग्रदादिस्थानधर्माभावोच्यते ।
अत एव शान्तमविक्रियं शिवं यतोऽद्वैतं भेदविकल्परहितम् ।
चतुर्थं तुरीयं मन्यन्ते प्रतीयमानपादत्रयरूपवैलक्षण्यात् ।
स आत्मा स विज्ञेय इति प्रतीयमानसर्पभूछिद्रदण्डादिव्यतिरिक्ता यथा रज्जुस्तथा तत्त्वमसीत्यादिवाक्यार्थ आत्मा"अदृष्टो द्रष्टा"(बृ.उ.३.७.२३)"न हि द्रष्टुर्दृष्टेविपरिलोपो विद्यते"(बृ.उ.४.३.२३) इत्यादिभिरुक्तो यः ।
स विज्ञेय इति भूतपूर्वगत्या ज्ञाते द्वैताभावः ॥७॥


१.१०

अत्रैते श्लोका भवन्ति

निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ।
अद्वैतः सर्वभावानां देवास्तुर्यो विभुः स्मृतः ॥ १.१० ॥

भाष्य १.१०
प्राज्ञतैजसविश्वलक्षणानां सर्वदुःखानां निवृत्ते ईशानस्तुरीय आत्मा ।
ईशान इत्यस्य व्याख्यानं प्रभुरिति ।
दुःखनिवृत्तिं प्रति प्रभुर्भवतीत्यर्थः ।
तद्विज्ञाननिमित्तत्वाद्दुःखनिवृत्तेः ।

अव्ययो न व्येति स्वरूपान्न व्यभिचरतीति यावत् ।
एतत्कुतः ।
यस्मादद्वैतः सर्वभावानां रज्जुसर्पवन्मृषात्वात्स एष देवो द्योतनात्तुरीयश्चतुर्थो विभुव्यापी स्मृतः ॥१०॥

१.११
विश्वादीनां सामान्यविशेषभावो निरूप्यते तुर्ययाथात्म्यावधारणार्थम्

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ॥ १.११ ॥

भाष्य १.११
कार्यं क्रियत इति फलभावः ।
कारणं करोतीति बीजभावः ।
तत्त्वाग्रहणान् यथाग्रहणाभ्यां बीजफलभावाभ्यां तौ यथोक्तौ विश्वतैजसौ बद्धौ संगृहीताविष्येते ।
प्राज्ञस्तु बीजभावेनैव बद्धः ।
तत्त्वाप्रतिबोधमात्रमेव हि बीजं प्राज्ञत्वे निमित्तम् ।
ततो द्वौ तौ बीजफलभावौ तत्वाग्रहणान् यथा ग्रहणे तुर्ये न सिध्यतो न विद्येते न सम्भवत इत्यर्थः ॥११॥


१.१२

कथं पुनः कारणबद्धत्वं प्राज्ञस्य तुरीये वा तत्त्वाग्रहणान् यथाग्रहणलक्षणौ बन्धौ न सिध्यत इति ।
यस्मात्

नात्मानं न पराश्चैव न सत्यं न अपि चानृतम् ।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ १.१२ ॥

भाष्य १.१२
आत्मविलक्षणमविद्याबीजप्रसूतं बाह्यं द्वैतं प्राज्ञो न किञ्चन संवेत्ति तथा विश्वतैजसौ ।
ततश्चासौ तत्त्वाग्रहणेन तमसान्यथा ग्रहणबीजभूतेन बद्धो भवति ।
यस्मात्तुरीयं तत्सर्वदृक्सदा तुरीयादन्यस्याभावात्सर्वदा सदैवैति सर्वं च तद्द्दृक्चेति सर्वदृक्तस्मान्न तत्त्वाग्रहणलक्षणं बीजं तत्र ।
तत्प्रसूतस्यान्यथाग्रहणस्याप्यतैवाभावो न हि सवितरि सदा प्राकाशात्मके तद्विरुद्धमप्रकाशनमन्यथा प्रकाशनं वा सम्भवति ।
"न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते"

(बृ.उ.४ । ३ । २३) इति श्रुतेः ।

अथ वा जाग्रत्स्वप्नयोः सर्वभूतावस्थः सर्ववस्तुदृगाभासस्तुरीयैवेति सर्वदृक्सदा"नान्यदतोऽस्ति द्रष्टृ"(बृ.उ.३.८.११) इत्यादि श्रुतेः ॥१२॥

१.१३
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।
बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १.१३ ॥

भाष्य १.१३
निमित्तान्तरप्राप्ताशङ्कानिवृत्यर्थोऽयं श्लोकः ।
कथं द्वैताग्रहणस्य तुल्यत्वात्कारणबद्धत्वं प्राज्ञस्य एव न तुरीयस्येति प्राप्ताशङ्का निवर्त्यते ।

यस्माद्बीजनिद्रायुतस्तत्त्वाप्रतिबोधो निद्रा ।
स एव च विशेषप्रतिबोधप्रसवस्य बीजं सा बीजनिद्रा तया युतः प्राज्ञः ।
सदा दृक्स्वभावत्वात्तत्त्वाप्रतिबोधलक्षणा निद्रा तुरीये न विद्यतेऽतो न कारणबन्धस्तस्मिन्नित्याभिप्रायः ॥१३॥

१.१४

स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चितः ॥ १.१४ ॥


भाष्य १.१४
स्वप्नोऽन्यथाग्रहणं सर्प इव रज्ज्वाम् ।
निद्रोक्ता तत्त्वाप्रतिबोधलक्षणं तम इति ।
ताभ्यां स्वप्ननिद्राभ्यां युक्तौ विश्वतैजसौ ।
अतस्तौ कार्यकारणबद्धावित्युक्तौ ।
प्राज्ञस्तु स्वप्नवर्जितकेवलैव निद्रया युत इति कारणबद्ध इत्युक्तम् ।
नोभयं पश्यन्ति तुरीये निश्चिता ब्रह्मविदो विरुद्धत्वात्सवितरीव तमः ।
अतो न कार्यकारणबद्ध इत्युक्तस्तुरीयः ॥१४॥

१.१५

कदा तुरीये निश्चितो भवतीत्युच्यते

अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ १.१५ ॥

भाष्य १.१५
स्वप्नजागरितयोरन्यथा रज्वां सर्प इव गृह्णतस्तत्त्वं स्वप्नो भवति ।
निद्रा तत्त्वमजानतस्तिसृष्ववस्थासु तुल्या ।
स्वप्ननिद्रयोस्तुल्यत्वाद्विश्वतैजसयोरेकराशित्वम् ।
अन्यथाग्रहणप्राधान्याच्च गुणभूता निद्रेति तस्मिन् विपर्यासः स्वप्नः ।
तृतीये तु स्थानेतत्त्वाज्ञानलक्षणा निद्रैव केवला विपर्यासः ।

अतस्तयोः कार्यकारणस्थानयोरन्यथाग्रहणाग्रहणलक्षणविपर्यासे कार्यकारणबन्धरूपे परमार्थतत्वप्रितबोधतः क्षीणे तुरीयं पदमश्नुते ।
तदोभयलक्षणं बन्धरूपं तत्रापश्यंस्तुरीये निश्चितो भवतीत्यर्थः ॥१५॥

१.१६

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ १.१६ ॥

भाष्य १.१६
योऽयं संसारी जीवः सोभयलक्षणेन तत्त्वाप्रतिबोधरूपेण बीजात्मनान्यथाग्रहणलक्षणेन चानादिकालप्रवृत्तेन मायालक्षणेन स्वप्नेन ममायं पिता पुत्रोऽयं नप्ता क्षेत्रं पशवोऽहमेषां स्वामी सुखी दुःखी क्षयितोऽहमनेन वर्धितश्चानेन इत्येवंप्रकारान् स्वप्नान् स्थानद्वयेऽपि पश्यन् सुप्तः ।
यदा वेदान्तार्थतत्त्वाभिज्ञेन परमकारुणिकेन गुरुणा नास्यैवं त्वं हेतुफलात्मकः किं तु तत्त्वमसीति प्रतिबोध्यमानस्तदैवं प्रतिबुध्यते
कथम्? नास्मिन् बाह्यमाभ्यन्तरं वा जन्मादिभावविकारोऽस्त्यतोऽजं सबाह्याभ्यन्तरसर्वभाविकारवर्जितमित्यर्थः ।
यस्माज्जन्मादिकारणभूतं नास्मिन्नविद्यातमोबीजं निद्रा विद्यत इत्यनिद्रम् ।
अनिद्रं हि तत्तुरीयमत एवास्वप्नं तन्निमित्तत्वादन्यथाग्रहणस्य ।
यस्माच्चानिद्रमस्वप्नं तस्मादजमद्वैतं तुरीयमात्मानं बुध्यते तदा ॥१६॥

१.१७

प्रपञ्चनिवृत्या चेत्प्रतिबुध्यतेऽनिवृत्ते प्रपञ्चे कथमद्वैतमित्युच्यते

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १.१७ ॥

भाष्य १.१७
सत्यमवं स्यात्प्रपञ्चो यदि विद्येत रज्ज्वां सर्प इव कल्पितत्वान्न तु स विद्यते ।
विद्यमानश्चेन्निवर्तेत न संशयः ।
न हि रज्ज्वां भ्रान्तिबुद्ध्या कल्पितः सर्पो विद्यमानः सन्विवेकतो निवृत्तः ।
नैव माया मायाविना प्रयुक्ता तद्दर्शिनां चक्षुर्बन्धापगमे विद्यमाना सती निवृत्ता ।
तथेदं प्रपञ्चाख्यं मायामात्रं द्वैतं रज्जुवन्मायाविवच्चद्वैतं परमार्थतस्तस्मान्न कश्चित्प्रपञ्चः प्रवृत्तो निवृत्तो वास्तीतीत्यभिप्रायः ॥१७॥

१.१८
ननु शास्ता शास्त्रं शिष्य इति विकल्पः कथं निवर्तत इत्युच्यते


विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १.१८ ॥




भाष्य १.१८
विकल्पो विनिवर्तेत यदि केनचित्कल्पितः स्यात् ।
यथायं प्रपञ्चो मायारज्जुसर्पवत्तथायं शिष्यादि भेदविकल्पोऽपि प्राक्प्रतिबोधादेवोपदेशनिमित्तोऽतोपदेशादयं वादः शिष्यः शास्ता शास्त्रमिति ।
उपदेशकार्ये तु ज्ञाने निर्वृत्ते ज्ञाते परमार्थतत्वे द्वैतं न विद्यते ॥१८॥







अभिधेयप्रधान ओंकारश्चतुष्पादात्मेति व्याख्यातो यः



सोऽयमात्माध्यक्षरमोंकारः ।
अधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ ८ ॥



भाष्य ८
सोऽयमात्माध्यक्षरमक्षरमधिकृत्याभिधानप्राधान्येन वर्ण्यमानोऽध्यक्षरम् ।
किं पुनस्तदक्षरमित्याह ओंकारः ।
सोऽयमोंकारः पादशः प्रविभज्यमानोऽधिमात्रं मात्रामधिकृत्य वर्तत इत्यधिमात्रम् ।
कथम्? आत्मनो ये पादास्त ओंकारस्य मात्राः ।
कास्ताः? अकारोकारो मकार इति ॥८॥









तत्र विशेषनियमः क्रियते


जागरितस्थानो वैश्वानरः अकारः प्रथमा मात्राप्तेरादिमत्त्वाद्वा ।
आप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ ९ ॥



भाष्य ९
जागरितस्थानो वैश्वानरो यः स ओंकारस्याकारः प्रथमा मात्रा ।
केन सामान्येनेत्याह आप्तेराप्तिर्व्याप्तिकारेण सर्वा वाग्व्याप्ता ।
"अकारो वै सर्वा वाक्"(ऐ.आ.२ । ३ । ६) इति श्रुतेः ।
तथा वैश्वानरेण जगत्"तस्य ह वैतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः"(छा.उ.५ । १८ । २) इत्यादि श्रुतेः ।
अभिधानाभिधेययरेकत्वं चावोचाम ।
आदिरस्य विद्यत इत्यादि मद्यथैवादिमदकाराख्यमक्षरं तथैव वैश्वानरस्तस्माद्वा सामान्यादकारत्वं वैश्वानरस्य ।
तदेकत्वविदः फलमाह आप्नोति ह वै सर्वान् कामानादिः प्रथमश्च भवति महतां य एवं वेद यदोक्तमेकत्वं वेदेत्यर्थः ॥९॥







१०

स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वा ।
उत्कर्षति ह वै ज्ञानसंततिम् ।
समानश्च भवति ।
नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १० ॥



भाष्य १०
स्वप्नस्थानस्तैजसो यः स ओंकारस्योकारो द्वितीया मात्रा ।
केन सामान्येत्याहोत्कर्षात् ।
अकारादुत्कृष्ट इव ह्युकारस्तथा तैजसो विश्वादुभयत्वादकारमकारयोर्मध्यस्योकारस्तथा विश्वप्राज्ञयोर्मध्ये तैजसोऽतोभयभाक्त्वसामान्यात् ।

विद्वत्फलमुच्यते उत्कर्षति ह वै ज्ञानसंततिम् ।
विज्ञानसंततिं वर्धयतीत्यर्थः ।
समानस्तुल्यश्च मित्रपक्षस्यैव शत्रुपक्षाणामप्यप्रद्वेष्यो भवति ।
अब्रह्मविदस्य कुले न भवति य एवं वेद ॥१०॥







११

सुषुप्तस्थानः प्राज्ञो मकारः तृतीया मात्रा मितेरपीतेर्वा ।
मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११ ॥



भाष्य ११

सुषुप्तस्थानः प्राज्ञो यः स ओंकारस्य मकारस्तृतीया मात्रा ।
केन सामान्येनेत्याह सामान्यमिदमत्र मितोऽमितिर्मानं मीयत इव विश्वतैजसौ प्राज्ञेन प्रलयोत्पत्त्योः ।
प्रवेशनिर्गमाभ्यां प्रस्थेनेत यवास्तथौंकारसमाप्तौ पुनः प्रयोगे च प्रविश्य निर्गच्छत इवाकारोंकारौ मकारे ।

अपीतेर्वा ।
अपीत्यप्यय एकीभावः ।
ओंकार उच्चारणे ह्यन्त्याक्षर एकीभूताविवाकार ओंकारौ ।
तथा विश्वतैजसौ सुषुप्तकाले प्राज्ञे ।
अतो वा सामान्यादेकत्वं प्राज्ञमकारयोः ।

विद्वत्फलमाह मिनोति ह वेदं सर्वं जगद्याथात्म्यं जानातीत्यर्थः ।
अपीतिश्च जगत्कारणात्मा भवतीत्यर्थः ।
अत्रावत्रावान्तरफलवचनं प्रधानसाधनस्तुत्यर्थम् ॥११॥







 १.१९

अत्रैते श्लोका भवन्ति


विश्वस्यात्वविवक्षायामादिसामान्यमुत्कृष्टम् ।
मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ १.१९ ॥




भाष्य १.१९
विश्वस्यात्वमकारमात्रत्वं यदा विवक्ष्यते तदादित्वसामान्यमुक्तन्यायेनोत्कटमुद्भृतं दृश्यत इत्यर्थः ।
अत्वविवक्षायामित्यस्य व्याख्यानं मात्रासंप्रतिपत्ताविति ।
विश्वस्याकारमात्रत्वं यदा संप्रतिपद्यत इत्यर्थः ।
आप्तिसामान्यमेव चोत्कटमित्यनुवर्तते च शब्दात् ॥१९॥







 १.२०

तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् ।
मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथा विधम् ॥ १.२० ॥




भाष्य १.२०
तैजसस्यात्वविज्ञानोकारत्वविवक्षायामुत्कर्षो दृश्यते स्फुटं स्पष्ट इत्यर्थ उभयत्वं च स्फुटमेवेति ।
पूर्ववत्सर्वम् ॥२०॥






 १.२१


मकारभावे प्राज्ञस्य मानसामन्यमुत्कटम् ।
मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च ॥ १.२१ ॥




भाष्य १.२१
मकारत्वे प्राज्ञस्य मितिलयावुत्कृष्टे सामान्य इत्यर्थः ॥२१॥






 १.२२


त्रिषु धामसु यत्तुल्यं सामान्यं वेत्ति निश्चितः ।
स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ १.२२ ॥



भाष्य १.२२
यथोक्तस्थानत्रये यस्तुल्यमुक्तं सामान्यं वेत्यवमेवैतदिति निश्चितो यः स पूज्यो वन्द्यश्च ब्रह्मविल्लोके भवति ॥२२॥






 १.२३
यथोक्तैः सामान्यैरात्मपादानां मात्राभिः सहैकत्वं कृत्वा यथोक्तमोंकारं प्रतिपद्य यो ध्यायति तम्


अकारो नयते विश्वमुकारश्चापि तैजसम् ।
मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ १.२३ ॥




भाष्य १.२३
अकारो नयते विश्वं प्रापयति ।
अकारालम्बनमोंकारं विद्वान् वैश्वानरो भवतीत्यर्थः ।
तथाकारस्तैजसम् ।
मकारश्चापि पुनः प्राज्ञम् ।
च शब्दान्नयत इत्यनुवर्तते ।
क्षीणे तु मकारे बीजभावक्षयादमात्र ओंकारे गतिर्न विद्यते क्वचिदित्यर्थः ॥२३॥









१२

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैतः ।
एवमोंकार आत्मैव ।
संविशत्यात्मनात्मानं य एवं वेद ॥ १२ ॥




भाष्य १२
अमात्रो मात्रा यस्य नास्ति स अमात्र ओंकारश्चतुर्थस्तुरीय आत्मैव केवलोऽभिधानाभिधेयरूपयोरवाङ्मनसयोः क्षीणत्वादव्यवहार्यः ।
प्रपञ्च उपशमः शिवोऽद्वैतः संवृत्त एवं यथोक्त विज्ञानवता प्रयुक्त ओंकारस्त्रिमात्रस्त्रिपाद आत्मैव ।
संविशत्यात्मना स्वेनैव ।
स्वं पारमार्थिकमात्मानं य एवं वेद ।
परमार्थदर्शी ब्रह्मवित्तृतीयं बीजभावं दग्ध्वात्मानं प्रविष्ट इति न पुनो जायते तुरीयस्याबीजत्वात् ।

न हि रज्जुसर्पयोर्विवेके रज्ज्वां प्रविष्टः सर्पो बुद्धिसंस्कारात्पुनः पूर्ववत्तद्विवेकिनामुत्थास्यति ।
मन्दमध्यमधियां तु प्रतिपन्नसाधकभावानां सन्मार्गगामिनां संन्यासिनां मात्राणां पादानां च कॢप्तसामान्यविदां यथावदुपास्यमान ओंकारो ब्रह्मप्रतिपत्तय आलम्बनी भवति तथा च वक्ष्यतिऽआश्रमास्त्रिविधाःऽ(मा.का.३.१६) इत्यादि ॥१२॥
(इति माण्डूक्यमूलमन्त्रभाष्यम्)







 १.२४

पूर्ववदत्रैते श्लोका भवन्ति


ओंकारं पादशो विद्यात्पादा मात्रा न संशयः ।
ओंकारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥ १.२४ ॥




भाष्य १.२४
यथोक्तैः सामान्यैः पादैव मात्रा मात्राश्च पादास्तस्मादोंङ्कारं पादशो विद्यादित्यर्थः ।
एवमोंकारे ज्ञाते दृष्टार्थमदृष्टार्थं वा न किञ्चित्प्रयोजनं चिन्तयेत्कृतार्थत्वादित्यर्थः ॥२४॥






 १.२५



युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।
प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ १.२५ ॥




भाष्य १.२५
युञ्जीत समादध्याद्यथाव्याख्याते परमार्थरूपे प्रणवे चेतो मनः ।
यस्मात्प्रणवो ब्रह्म निर्भयम् ।
न हि तत्र सदा युक्तस्य भयं विद्यते क्वचित्ऽविद्वान्न बिभेति कुतश्चनऽ(तै.उ.२.९) इति श्रुतेः ॥२५॥






 १.२६


प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः ।
अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ १.२६ ॥




भाष्य १.२६
परापरे ब्रह्माणि प्रणवः ।
परमार्थता क्षीणेषु मात्रापादेषु पर एवात्मा ब्रह्मेति न पूर्वं कारणमस्य विद्यत इत्यपूर्वः ।
नास्यान्तरं भिन्नजातीयं किञ्चिद्विद्यत इत्यनन्तरः ।
तथा बाह्यमन्यन्न विद्यत इत्यबाह्यः ।
अपरं कार्यमस्य न विद्यत इत्यनपरः ।
सबाह्याभ्यान्तरो ह्यजः सैन्धवघनवत्प्रज्ञानघन इत्यर्थः ॥२६॥






 १.२७


सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ १.२७ ॥




भाष्य १.२७
आदिमध्यान्तोत्पत्तिस्थितिप्रलयाः सर्वस्यैव ।
मायाहस्तिरज्जुसर्पमृगतृष्णिकास्वप्नादिवदुत्पद्यमानस्य वियदादिप्रपञ्चस्य यथा मायाव्यादयः ।
एवं हि प्रणवमात्मानं मायाव्यादिस्थानीयं ज्ञात्वा तत्क्षणादेव तदात्मभावं व्यश्नुत इत्यर्थः ॥२७॥







 १.२८


प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम् ।
सर्वव्यापिनमोंकारं मत्वा धीरो न शोचति ॥ १.२८ ॥





भाष्य १.२८
सर्वप्राणिजातस्य स्मृतिप्रत्ययास्पदे हृदये स्थितमीश्वरं प्रणवं विद्यात्सर्वव्यापिनं व्योमवदोंकारमात्मानमसंसारिणं धीरो बुद्धिमान्मत्वा न शोचति ।
शोकनिमित्ताननुपपत्तेः ।
"तरति शोकमात्मवित्"(छा.उ.७ । १ । ३) इत्यादि श्रुतिभ्यः ॥२८॥






 १.२९


अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।
ओंकारो विदितो येन स मुनिर्नेतारो जनः ॥ १.२९ ॥




भाष्य १.२९
अमात्रस्तुरीय ओंकारः ।
मीयतेऽनयेति मात्रा परिच्छित्तिः सानन्ता यस्य स अनन्तमात्रः ।
नैतावत्वमस्य परिच्छेत्तुं शक्यत इत्यर्थः ।
सर्वद्वैत उपशमत्वादेव शिवः ।
ओंकरो यथा व्याख्यातो विदितो येन स परमार्थतत्वस्य मननान्मुनिः ।
नेतरो जनः शास्त्रविदपीत्यर्थः ॥२९॥

वैतथ्यप्रकरणम्[सम्पाद्यताम्]


२.१

ज्ञाते द्वैतं न विद्यत इत्युक्तम्,"एकमेवाद्वितीयम्"(छा.उ.६ । २ । १) इत्यादि श्रुतिभ्यः ।
आगममात्रं तत् ।
तत्रोपपत्त्यापि द्वैतस्य वैतथ्यं शक्यतेऽवधारयितुमिति द्वितीयं प्रकरणमारभ्यते


वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः ।
अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥ २.१ ॥

भाष्य २.१
वितथस्य भावो वैतथ्यम्, असत्यत्वमित्यर्थः ।
कस्य? सर्वेषां बाह्याध्यात्मिकानां भावानां पदार्थानां स्वप्न उपलभ्यमानानाम्, आहुः कथयन्ति, मनीषिणः प्रमाणकुशलाः ।
वैतथ्ये हेतुमाहान्तःस्थानात्, अन्तः शरीरस्य मध्ये स्थानं येषाम् ।
तत्र हि भावोपलभ्यन्ते पर्वतहस्त्यादयो न बहिः शरीरात् ।
तस्मात्ते वितथा भवितुमर्हन्ति ।
नन्वपवरकाद्यन्तरुपलभ्यमानैर्घटादिभिरनैकान्तिको हेतुरित्याशङ्क्याह संवृतत्वेन हेतुन इति ।
अन्तः संवृतस्थानादित्यर्थः ।
न ह्यन्तः संवृते देहेन्तो नाडीषु पर्वतहस्त्यादीनां संभवोऽस्ति, न हि देहे पर्वतः, अस्ति ॥१॥

२.२

स्वप्नदृश्यानां भावानामन्तः संवृतस्थानमित्येतदसिद्धम्, यस्मात्प्राच्येषु सुप्त उदक्षु स्वप्नान् पश्यन्निव दृश्यत इत्येतदाशङ्क्याह


अदीर्घत्वाच्च कालस्य गत्वा देशान्न पश्यति ।
प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते ॥ २.२ ॥

भाष्य २.२
न देहाद्बर्हिदेशान्तरं गत्वा स्वप्नान् पश्यति ।
यस्मात्सुप्तमात्र एव देहदेशाद्योजनशतान्तरिते मासमात्रप्राप्ये देशे स्वप्नान् पश्यन्निव दृश्यते ।
न च तद्देशप्राप्तेरागमनस्य दीर्घः कालोऽस्ति ।
अतो दार्घत्वाच्च कालस्य न स्वप्नदृग्देशान्तरं गच्छति ।

किं च प्रतिबुद्धश्च वै सर्वः स्वप्नदृक्स्वप्नदर्शनदेशे न विद्यते ।
यदि च स्वप्ने देशान्तरं गच्छेद्यस्मिन् देशे स्वप्नान् पश्येत्तत्रैव प्रतिबुध्येत ।
न चैतदस्ति ।
रात्रौ सुप्तोऽहनीव भावान् पश्यति, बहुभिः संगतो भवति, यश्च संगतः तैर्गृह्येत ।
न च गृह्यते, गृहीतश्चेत्वामद्य तत्रोपलब्धवन्तो वयमिति वयमिति ब्रूयुः ।
न चैतदस्ति तस्मान्न देशान्तरं गच्छति स्वप्ने ॥२॥





 २.३

इतश्च स्वप्नदृश्या भावा वितथा यतः


अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् ।
वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् ॥ २.३ ॥





भाष्य २.३
अभावश्चैव रथादीनां स्वप्नदृश्यानां श्रूयते न्यायपूर्वकं युक्तितः श्रुतौ"न तत्र रथाः"(बृ.उ.४ । ३ । १०) इत्यत्र ।
देहान्तः स्थानसंवृतत्वादिहेतुना प्राप्तं वैकथ्यं तदनुवादिन्या श्रुत्या स्वप्ने स्वयञ्ज्योतिष्ट्वप्रतिपादनपरया प्रकाशितमाहुर्ब्रह्मविदः ॥३॥





 २.४


अन्तस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् ।
यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥ २.४ ॥





भाष्य २.४
जाग्रद्दृश्यानां भावानां वैतथ्यमिति प्रतिज्ञा ।
दृश्यत्वादिति हेतुः स्वप्नदृश्यभाववदिति दृष्टान्तः ।
यथा तत्र स्वप्ने दृश्यानां भावानां वैतथ्यं तथा जागरितेऽपि दृश्यत्वमविशिष्टमिति हेतूपनयः ।
तस्माज्जागरितेऽपि वैतथ्यं स्मृतमिति निगमनम् ।
अन्तःस्थानात्संवृतत्वेन च स्वप्नदृश्यानां भावानां जाग्रद्दृश्येभ्यः भेदः ।
दृश्यत्वमसत्यत्वं चाविशिष्टमुभयत्र ॥४॥




 २.५


स्वप्नजागरितस्थाने ह्येकमाहुर्मनीषिणः ।
भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ २.५ ॥





भाष्य २.५
प्रसिद्धेनैव भेदानां ग्राह्यग्राहकत्वेन हेतुना समत्वेन स्वप्नजागरितस्थानयोरेकत्वमाहुर्विवेकिन इति पूर्वप्रमाणसिद्धस्यैव फलम् ॥५॥





 २.६

इतश्च वैतथ्यं जाग्रद्दृश्यानां भेदानामाद्यन्तयोरभावात् ।


आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ २.६ ॥





भाष्य २.६
यदादावन्ते च नास्ति वस्तु मृगतृष्णिकादि तन्मध्येऽपि नास्त्यति निश्चितं लोके तथेमे जाग्रद्दृश्या भेदाः ।
आद्यन्तयोरभावाद्वितथैरेव मृगतृष्णिकादिभिः सदृशत्वाद्वितथा एव तथापि वितथा इव लक्षिता मूढैरनात्मविद्भिः ॥६॥




 २.७

स्वप्नदृश्यवज्जागरितदृश्यानामपि सत्वमिति यदुक्तं तदयुक्तम् ।
यस्माज्जाग्रद्दृश्या अन्नपानवाहनादयः क्षुत्पिपासादिनिवृत्तिं कुर्वन्तो गमनागमनादिकार्यं च सप्रयोजाना दृष्टाः ।
न तु स्वप्नदृश्यानां तदस्ति ।
तस्मात्स्वप्नदृश्यवद्जाग्रद्दृश्यानामसत्वं मनोरथमात्रमिति ।

तन्न ।
कस्मात्? यस्मात्


सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।
तस्मादाद्यन्तवत्वेन मिथ्यैव खलु ते स्मृताः ॥ २.७ ॥





भाष्य २.७
सप्रयोजनता दृष्टा या अन्नपानादीनां सा स्वप्ने विप्रतिपद्यते ।
जागरिते हि भुक्त्वा पीत्वा च तृप्तो विनिवर्तिततृट्सुप्तमात्र एव क्षुत्पिपासाद्यार्तमहोरात्रोषितं भुक्तवन्तमात्मानं मन्यते ।
यथा स्पप्ने भुक्त्वा पीत्वा च तृप्त उत्थितस्तथा ।
तस्माद्जाग्रद्दृश्यानां स्वप्ने विप्रतिपत्तिर्दृष्टा ।
अतो मन्यामहे तेषामप्यसत्वं स्पप्नदृश्यवदनाशङ्कनीयमिति ।
तस्मादाद्यन्तवत्वमुभयत्र समानमिति मिथ्या इव खलु ते स्मृताः ॥७॥





 २.८

स्वप्नजाग्रद्भेदयोः समत्वाज्जाग्रद्भेदानामसत्वमिति यदुक्तं तदसत् ।
कस्मात्?
दृष्टान्तस्यासिद्धत्वात् ।
कथम्?
न हि जाग्रद्दृष्टा एवैते भेदाः स्वप्ने दृश्यन्ते ।
किं तर्हि?
अपूर्वं स्वप्ने पश्यति, चतुर्दन्तगजमारूठमष्टभुजमात्मानं मन्यते ।
अन्यदप्येवंप्रकारमपूर्वं पश्यति स्वप्ने ।
तन्नान्येना असता सममिति सदेव ।
अतो दृष्टान्तोऽसिद्धः ।
तस्मात्स्वप्नवज्जागरितस्यासत्वमित्ययुक्तम् ।

तन्न, स्वप्ने दृष्टमपूर्वं यन्मन्यसे न तत्स्वतः सिद्धम् ।
किं तर्हि?


अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् ।
तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ २.८ ॥





भाष्य २.८
अपूर्वं स्थानिधर्मो हि स्थानिनो द्रष्टुरेव हि स्वप्नस्थानवतो धर्मः ।
यथा स्वर्गनिवासिनामिन्द्रादीनां सहस्राक्षत्वादि तथा स्वप्नदृशोऽपूर्वोऽयं धर्मः ।
न स्वतः सिद्धो द्रष्टुः स्वरूपवत् ।
तानेवंप्रकारानपूर्वान्स्वचित्तविकल्पानयं स्थानी स्वप्नदृक्स्वप्नस्थाने गत्वा प्रेक्षते ।
यथैवेह लोके सुशिक्षितो देशान्तरमार्गस्तने मार्गेण देशान्तरं गत्वा तान्पदार्थान्पश्यति तद्वत् ।
तस्माद्यथा स्थानिधर्माणां रज्जुसर्पमृगतृष्णिकादीनामसत्वं तथा स्वप्नदृष्यानामपूर्वाणां स्थानिधर्मत्वमेवेत्यसत्त्वमतो न स्वप्नदृष्टान्तस्यासिद्धत्वम् ॥८॥





 २.९

अपूर्वत्वाशङ्का निराकृता स्वप्नदृष्टान्तस्य पुनः स्वप्नतुल्यतां जाग्रद्भेदानां प्रपञ्चयन्नाह


स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।
बहिश्चेतोगृहीतं सद्दृष्टं वैतथ्यमेतयोः ॥ २.९ ॥




भाष्य २.९
स्वप्नवृत्तावपि स्वप्नस्थानेऽप्यन्तश्चेतसा मनोरथसङ्कल्पितमसत् ।
सङ्कल्पानन्तरसमकालमेवादर्शनात्तत्रैव स्वप्ने बहिश्चेतसा गृहीतं चक्षुरादिद्वारेणोपलब्धं घटादि सत् ।
इत्येव सत्यमिति निश्चितेऽपि सदसद्विभागो दृष्टः ।
उभयोरप्यन्तर्बहिश्चेतः कल्पितयोर्वैतथ्यमेव दृष्टम् ॥९॥





 २.१०


जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।
बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः ॥ २.१० ॥





भाष्य २.१०
सदसतोर्वैतथ्यं युक्तम्, अन्तर्बहिश्चेतःकल्पितत्वाविशेषादिति व्याख्यातमन्यत् ॥१०॥





 २.११

चोदक आह


उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि ।
क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः ॥ २.११ ॥




भाष्य २.११
स्वप्नजाग्रत्स्थानयोर्भेदानां यदि वैतथ्यं क एतानर्बहिश्चेतःकल्पितान्बुध्यते ।
को वै तेषां विकल्पकः ।
स्मृतिज्ञानयोः क आलम्बनमित्यभिप्रायः, न चेन्निरात्मवाद इष्टः ॥११॥





 २.१२


कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया ।
स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ २.१२ ॥





भाष्य २.१२
स्वयं स्वमायया स्वमात्मानमात्सा देव आत्मन्येव वक्ष्यमाणं भेदाकारं कल्पयति रज्ज्वादाविव सर्पादीन् स्वयमेव त तान्बुध्यते भेदांस्तद्वदेवेत्येवं वेदान्तनिश्चयः ।
नान्योऽस्ति ज्ञानस्मृत्याश्रयो न च निरास्पद एव ज्ञानस्मृती वैनाशिकानामिवेत्यभिप्रायः ॥१२॥





 २.१३

सङ्कल्पयन्केन प्रकारेण कल्पयतीत्युच्यते


विकरोत्यपरान् भावानन्तश्चित्ते व्यवस्थितान् ।
नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ २.१३ ॥




भाष्य २.१३
विकरोति नाना करोत्यपरांल्लौकिकान् भावान् पदार्थाञ्शब्दादीनन्यांश्चान्तश्चित्ते वासनारूपेण व्यवस्थितानव्याकृतान्नियतांश्च पृथ्व्यादीननियतांश्च कल्पनाकालान्बहिश्चित्तः संस्तथान्तश्चित्तो मनोरथादिलक्षणानित्येवं कल्पयति प्रभुरीश्वर आत्मेत्यर्थः ॥१३॥





 २.१४

स्वप्नवच्चित्तपरिकल्पितं सर्वमित्येतदाशङ्क्यते ।
यस्माच्चित्तपरिकल्पितैर्मनोरथादिलक्षणैश्चित्तपरिच्छेद्यैवैलक्षण्यं बाह्यानामन्योन्यपरिच्छेद्यत्वमिति ॥
सा न युक्ताशङ्का ।


चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः ।
कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ २.१४ ॥





भाष्य २.१४
चित्तकाला हि येऽन्तस्तु चित्तपरिच्छेद्याः, नान्यश्चित्तकालव्यतिरेकेण परिच्छेदकः कालो येषां ते चित्तकालाः ।
कल्पनाकाल एवोपलभ्यन्त इत्यर्थः ।
द्वयकालाश्च भेदकाला अन्योन्यपरिच्छेद्याः ।
यथागोदोहनमास्ते, यावदास्ते तावद्गां दोग्धि यावद्गां दोग्धि तावदास्ते ।
तावानयमेतावान्स इति परस्परपरिच्छेद्यपरिच्छेदकत्वं बाह्यानां भेदानां ते द्वयकला अन्तश्चित्तकाला बाह्याश्च द्वयकालाः कल्पिता एव ते सर्वे ।
न बाह्यो द्वयकालत्वविशेषः कल्पितत्वव्यतिरेकेणान्यहेतुकः ।
अत्रापि हि स्वप्नदृष्टान्तो भवत्येव ॥१४॥





 २.१५

अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः ।
कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ २.१५ ॥





भाष्य २.१५
यदप्यन्तरव्यक्तत्वं भावानां मनोवासनामात्राभिव्यक्तानां स्फुटत्वं वा बहिश्चक्षुरादीन्द्रियान्तरे विशेषो नासौ भेदानामस्तित्वकृतः स्वप्नेऽपि तथा दर्शनात् ।
किन्तर्हि? इन्द्रियान्तरकृत एव ।
अतः कल्पिता एव जाग्तद्भावा अपि स्वप्नभाववदिति सिद्धम् ॥१५॥





 २.१६

बाह्याध्यात्मिकानां भावानामितरेतरनिमित्तनैमित्तिकतया कल्पनायां किं मूलमित्युच्यते


जीवं कल्पयते पूर्वं वचो भावान् पृथग्विधान् ।
बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः ॥ २.१६ ॥





भाष्य २.१६
जीवं हेतुफलात्मकम्, अहं करोमि मम सुखदुःखे इत्येवं लक्षणम्, अनेवंलक्षण एव शुद्ध आत्मनि रज्जाविव सर्पं कल्पयते पूर्वम् ।
ततस्तादर्थ्येन क्रियाकारकफलभेदेन प्राणादीन्नानाविधान्भावान्बाह्यानाध्यात्मिकांश्चैव कल्पते ।
तत्र कल्पनायां को हेतुरित्युच्यते ।
योऽसौस्वयङ्कल्पितो जीवः सर्वकल्पनायामधिकृतः स यथाविद्यः, यादृशी विद्या विज्ञानमस्येति यथाविद्यः, तथाविधैव स्मृतिस्तस्येति तथास्मृतिर्भवति स इति ।
अतो हेतुकल्पनाविज्ञानात्फलविज्ञानं ततो हेतिफलस्मृतिस्ततस्तद्विज्ञानं तदर्थक्रियाकारकतत्फलभेदविज्ञानानि तेभ्यस्तत्स्मृतिस्तत्स्मृतेश्च पुनस्तद्विज्ञानानीत्येवं बाह्यानाध्यात्मिकांश्चेतरेतरनिमित्तनैमित्तिकभावेनानेकधा कल्पयते ॥१६॥




 २.१७

तत्र जीवकल्पना सर्वकल्पनामूलमित्युक्तं सैव जीवकल्पना किंनिमित्तेति दृष्टान्तेन प्रतिपादयति


अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता ।
सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः ॥ २.१७ ॥





भाष्य २.१७
यथा लोके स्वेन रूपेणानिश्चितानवधारितैवमेवेति रज्जुर्मन्दान्धकारे किं सर्प उदकधारा दण्ड इति वानेकधा विकल्पिता भवति पूर्वं स्वरूपानिश्चयनिमित्तं यदि हि पूर्वमेव रज्जुः स्वरूपेण निश्चिता स्यात्, न सर्पादिविकल्पोऽभविष्यद्यथा स्वहस्ताङ्गुल्यादिषु, एष दृष्टान्तः ।
तद्वद्धेतुफलादिसंसारधर्मानर्थविलक्षणतया स्वेन विशुद्धविज्ञप्तिमात्रसत्ताद्वयरूपेणानिश्चितत्वाज्जीवप्राणाद्यनन्तभावभेदैरात्मविकल्पित इत्येष सर्वोपनिषदां सिद्धान्तः ॥१७॥





 २.१८


निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते ।
रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः ॥ २.१८ ॥





भाष्य २.१८
रज्जुरेवेति निश्चये सर्वविकल्पनिवृत्तौ रज्जुरेवेति चाद्वैतं यथा तथाऽनेति नेतिऽ(बृ.उ.४.४.२२) इति सर्वसंसारधर्मशून्यप्रतिपादकशास्त्रजनितविज्ञानसूर्यालककृतात्मविनिश्चयः ऽआत्मैवेदं सर्वम्ऽ (छा.उ.७.२५.२)ऽअपूर्वमनपरमनन्तरमबाह्यम्ऽ (बृ.उ.२.५.१९)ऽसबाह्याभ्यन्तरो ह्यजःऽ(मु.उ.२.१.२)ऽअजरोऽमरोऽमृतोऽभयःऽ(बृ.उ.४.४.२५)ऽएक एवाद्वयःऽ इति ॥१८॥





 २.१९

यद्यात्मैक एवेति निश्चयः कथं प्राणादिभिरनन्तैर्भावैरेतैः संसारलक्षणैर्विकल्पित इत्युच्यते, शृणु


प्राणादिभिरनन्तैश्च भावैरेतैर्विकल्पितः ।
मायैषा तस्य देवस्य यया संमोहितः स्वयम् ॥ २.१९ ॥





भाष्य २.१९
मायैषा तस्यात्मनो देवस्य ।
यथा मायाविना विहिता माया गगनमतिविमलं कुसुमितैः सपलाशैस्तरुभिराकीर्णमिव करोति तथेयमपि देवस्य माया ययायं स्वयमपि मोहित इव मोहितो भवति ।
ऽमम माया दुरत्ययाऽ(गीता ७.१४) इत्युक्तम् ॥१९॥





 २.२०२८



प्राण इति प्राणविदो भूतानीति च तद्विदः ।
गुणा इति गुणविदस्तत्त्वानीति च तद्विदः ॥ २.२० ॥



पादा इति पादविदो विषया इति च तद्विदः ।
लोका इति लोकविदो देवा इति च तद्विदः ॥ २.२१ ॥



वेदा इति वेदविदो यज्ञा इति च तद्विदः ।
भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः ॥ २. २२ ॥


सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः ।
मूर्त इति मूर्तविदोऽमूर्त इति च तद्विदः ॥ २.२३ ॥



काल इति कालविदो दिश इति च तद्विदः ।
वादा इति वादविदो भुवनानीति तद्विदः ॥ २.२४ ॥



मन इति मनोविदो बुद्धिरिति च तद्विदः ।
चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः ॥ २.२५ ॥



पञ्चविंशक इत्येके षड्विश इति चापरे ।
एकत्रिंशक इत्याहुरनन्त इति चापरे ॥ २.२६ ॥



लोकांल्लोकविदः प्राहुराश्रमा इति तद्विदः ।
स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे ॥ २.२७ ॥



सृष्टिरिति सृष्टिविदो लय इति च तद्विदः ।
स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥ २.२८ ॥





भाष्य २.२८
प्राणः प्राज्ञो बीजात्मा तत्कार्यभेदा हीतरे स्थत्यन्ताः ।
अन्ये च सर्वे लौकिकाः सर्वप्राणिपरिकल्पिता भेदा रज्ज्वामिव सर्पादयस्तच्छून्य आत्मन्यात्मस्वरूपानिश्चयहेतोरविद्यया कल्पिता इति पिण्डीकृतोर्ऽथः ।
प्राणादिश्लोकानां प्रत्येकं पदार्थव्याख्याने फल्गुप्रयोजनत्वात्सिद्धपदार्थत्वाच्च यत्नो न कृतः ॥२८॥




 २.२९

किं बहुना


यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति ।
तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ २.२९ ॥





भाष्य २.२९
प्राणादीनामन्यतममुक्तमनुक्तं वान्यं भावं पदार्थं दर्शयेद्यस्याचार्योऽन्यो वाप्त इदमेव तत्त्वमिति स तं भावमात्मभूतं पश्यत्ययमहमिति वा ममेति वा ।
तं च द्रष्टारं स भावोऽवति यो दर्शितो भावोऽसौ भूत्वा रक्षति ।
स्वेनात्मना सर्वतो निरुणद्धि ।
तस्मिन्ग्रहस्तद्ग्रहस्तदभिनिवेशः ।
इदमेव
तत्त्वमिति स तं ग्रहीतारमुपैति ।
तस्यात्मभावं निगच्छतीत्यर्थः ॥२९॥





 २.३०


एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः ।
एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ २.३० ॥





भाष्य २.३०
एतैः प्राणादिभिरात्मनोऽपृथग्भूतैरपृथग्भावैरेष आत्मा रज्जुरिव सर्पादि विकलप्नारूपैः पृथगेवेति लक्षितोऽभिलक्षितो निश्चितो मूढैरित्यर्थः ।
विवेकिनां तु रज्ज्वामिव कल्पिताः सर्पादयो नात्मव्यतिरेकेण प्राणादयः सन्तीत्यभिप्राय इदं सर्वं यदयमात्मा (बृ.उ.२.४.६, ४.५.७) इति श्रुतेः ।

एवमात्मव्यतिरेकेणासत्वं रज्जुसर्पवदात्मनि कल्पितानामात्मानं च केवलं निर्विकल्पं यो वेद तत्त्वेन श्रुतितो युक्तितश्च स अविशङ्कितो वेदार्थं विभागतः कल्पयेत्कल्पयतीत्यर्थः इदमेवंपरं वाक्यमदोऽन्यपरमिति ।

न ह्यनध्यात्मविद्वेदाञ्ज्ञातुं शक्नोति तत्त्वतः ।
ऽनह्यनध्यात्मवित्कश्चित्क्रियाफलमुपाश्नुतेऽ (मनु.६ । ८२) इति हि मानवं वचनम् ॥३०॥





 २.३१

यदेत्द्वैतस्यासत्त्वमुक्तं युक्तितस्तदेतद्वेदान्तप्रमाणावगतमित्याह



स्वप्नमाये यथा दृष्टं गन्धर्वनगरं यथा ।
तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ २.३१ ॥





भाष्य २.३१
स्वप्नश्च माया च स्वप्नमायेऽसद्वस्त्वात्मिकेऽसत्यौ सद्वस्त्वात्मिक इव लक्ष्येतेऽविवेकिभिः ।
यथा च प्रसारितपण्या पणगृहप्रासादस्त्रीपुञ्जनपदव्यवहाराकीर्णमिव गन्धर्वनगरं दृश्यमानमेव सदकस्मादभावतां गतं दृष्टम्, यथा च स्वप्नमाये दृष्टेऽसद्रूपे, तथा विश्वमिदं द्वैतं समस्तमसद्दृष्टम् ।

क्वेत्याह वेदान्तेषु ।
"नेह नानास्ति किञ्चन"(क.उ.२ । १ । ११, बृ.उ.४ । ४ । १९) "इन्द्रो मायाभिः"(बृ.उ.२ । ५ । १९) "आत्मैवेदमग्र आसीत्" (बृ.उ.१ । ४ । १७) "ब्रह्म वेदमग्र आसीत्"(बृ.उ.१ । ४ । १०) "द्वितीयाद्वै भयं भवति"(बृ.उ.१ । ४ । २) "न तु तद्द्वितीयस्ति"(बृ.उ.४ । ३ । २३) "यत्र स्वस्य सर्वमात्मैवाभूत्"(बृ.उ.४ । ५ । १५) इत्यादिषु विचक्षणैर्निपुणतरवस्तुदर्शिभि पण्डितैरित्यर्थः ।

"तमःश्वभ्रनिभं दृष्टं वर्षबुद्बुदसन्निभम् ।
नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम्"इति व्यासस्मृतेः ॥३१॥




 २.३२

प्रकरणार्थोपसंहारार्थोऽयं श्लौकः ।
यदा वितथं द्वैतमात्मैवैकः परमार्थतः संस्तदेदं निष्पन्नं भवति सर्वोऽयं लौकिको वैदिकश्च व्यवहारोऽविद्याविषय एवेति ।

तदा


न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ २.३२ ॥





भाष्य २.३२
न निरोधः निरोधनं निरोधः प्रलयः, उत्पत्तिर्जननम्, बद्धः संसारी जीवः, साधको माधनवान्मोक्षस्य, मुमुक्षुर्मोचनार्थी, मुक्तो विमुक्तबन्धः ।
उत्पत्तिप्रलययोरभावाद्बद्धादयो न सन्तीत्येषा परमार्थता ।

कथमुत्पत्तिप्रलयोरभावः, इत्युच्यते, द्वैतस्यासत्वात् ।
यत्र हि द्वैतमिव भवति"(बृ.उ.२ । ४ । १४) "य इह नानेव पश्यति"(क.उ.२ । १ । १०,११) "आत्मैवेदं सर्वम्"(छा.उ.७ । २५ । २) "ब्रह्मैवेदं सर्वम्"(नृसिंहोत्तर.७)"एकमेवाद्वितीयं"(छा.उ.६ । २ । १) "इदं सर्वं यदयमात्मा"(बृ.उ.२ । ४ । ६,४ । ५ । ७) इत्यादिनानाश्रुतिभ्यो द्वैतस्यासत्वं सिद्धम् ।

सतो ह्युत्पत्तिः प्रलयो वा स्यान्नासतः शशविषाणादे ।
नाप्यद्वैतमुत्पद्यते लीयते वा ।
अद्वयं चोत्पत्तिप्रलयवच्चेति विप्रतिषिद्धम् ।

यस्तु पुनर्द्वैतसंव्यवहारः स रज्जुसर्पवदात्मनि प्राणादिलक्षणः कल्पित इत्युक्तम् ।
न हि मनोविकल्पनाया रज्जुसर्पादिलक्षणाया रज्ज्वां प्रलय उत्पत्तिर्वा ।
न च मनसि रज्जुसर्पस्योत्पत्तिः प्रलयो वा न चोभयतो वा ।
तथा मानसत्वाविशेषाद्द्वैतस्य ।
न हि नियते मनसि सुषुप्ते वा द्वैतं गृह्यते ।

अतो मनोविकल्पनामात्रं द्वैतमिति सिद्धम् ।
तस्माद्सूक्तं द्वैतस्यासत्वान्निरोधाद्यभावः परमार्थतेति ।

यद्येवं द्वैताभावे शास्त्रव्यापारो नाद्वैते विरोधात् ।
तथा च सत्यद्वैतस्य वस्तुत्वे प्रमाणाभावाच्छून्यवादप्रसङ्गः, द्वैतस्य चाभावात् ।
न॑ रज्जुसर्पादिविकल्पनाया निरास्पदत्वानुपपत्तिरिति प्रत्युक्तमेतत्कथमुज्जीवयसीत्याह रज्जुरपि सर्पविकल्पस्यास्पद भूता विकल्पितैवेति दृष्टान्तानुपपत्तिः ।

न॑ विकल्पनाक्षयेऽविकल्पितस्याविकल्पितत्वादेव सत्तोपत्तेः ।
रज्जुसर्पवदसत्त्वमिति चेत्? न, एकान्तेनाविकल्पितत्वादविकल्पितरज्ज्वंशवत्प्राक्सर्पाभावविज्ञानात् ।
विकल्पयितुश्च प्राग्विकल्पनोत्पत्तेः सिद्धत्वाभ्युपगमादसत्वानुपपत्तिः ।

कथं पुनः स्वरूपेव्यापाराभावे शास्त्रस्य द्वैतविज्ञाननिवर्तकत्वम्?

नैष दोषः ।
रज्ज्वां सर्पादिवदात्मनि द्वैतस्याविद्याध्यस्तत्वात् ।
कथम्? सुख्यहं दुःखी मूढो जातो मृतो जीर्णो देहवान् पश्यामि व्यक्तोऽव्यक्तः कर्ता फली संयुक्तो वियुक्तः क्षीणो वृद्धोहं ममैत इत्येवमादयः सर्व आत्मन्यध्यारोप्यन्ते ।
आत्मैतेष्वनुगतः सर्वत्राव्यभिचारात् ।
यथा सर्पधारादिभेदेषु रज्जुः ।

यदा चैवं विशेष्यस्वरूपप्रत्ययस्य सिद्धत्वान्न कर्तव्यत्वं शास्त्रेण ।
अकृतकर्तृ च शास्त्रं कृतानुकारित्वेऽप्रामाणम् ।
यतोऽविद्याध्यारोपितसुखित्वादिविशेषप्रतिबन्धादेवात्मनः स्वरूपेणानवस्थानं स्वरूपावस्थानं च श्रेय इति सुखित्वादिनिवर्तकं शास्त्रमात्मन्यसुखित्वादिप्रत्ययकरणेन नेति नेत्यस्थूलादिवाक्यैः ।
आत्मस्वरूपवदसुखित्वाद्यपि सुखित्वादिभेदेषु नानुवृत्तोऽस्ति धर्मः ।
यद्यनुवृत्तः स्यान्नाध्यारोपितसुखित्वादिलक्षणो विशेषः ।
यथोष्णत्वगुणविशेषवत्यग्नौ शीतता ।
तस्मान्निर्विशेष एवात्मनि सुखित्वादयो विशेषाः कल्पिताः ।
यत्त्वसुखित्वादिशास्त्रमात्मनस्तत्सुखित्वादि विशेषनिवृत्यर्थमेवेति सिद्धम् ।
"सिद्धं तु निवर्तकत्वात्"इत्यागमविदां सूत्रम् ॥३२॥





 २.३३

पूर्वश्लोकार्थस्य हेतुमाह


भावैरसद्भिरेवायमद्वयेन च कल्पितः ।
भावा अप्यद्वयेनैव तस्मादद्वयता शिवा ॥ २.३३ ॥




भाष्य २.३३
यथा रज्ज्वामसद्भिः सप्रधारादिभिरद्वयेन च रज्जुद्रव्येण सतायं सर्प इयं धारा दण्डोऽयमिति वा रज्जुद्रव्यमेव कल्प्यत एवं प्राणादिभिरनन्तैरसद्भिरेवाविद्यमानैः, न परमार्थतः न ह्यप्रचलिते मनसि कश्चिद्भाव उपलक्षयितुं शक्यते केनचित्॑ न चात्मनः प्रचलनमस्ति॑ प्रचलितस्यैवोपलभ्यमाना भावा न परमार्थतः सन्तः कल्पयितुं शक्याः अतोऽसद्भिरेव प्राणादभावैरद्वयेन च परमार्थसतात्मना रज्जुवत्तर्वविकल्पास्पदभूतेनायं स्वयमेवात्मा कल्पितः॑ सदैकस्वभावोऽपि सन् ।

ते च प्राणादिभावां अप्यद्वयेनैव सतात्मना विकल्पिताः ।
न हि निरास्पदा काचित्कल्पनोपलभ्यते॑ अतः सर्वकल्पनास्पदत्वात्स्वेनात्नाद्वयस्याव्यभिचारात्कल्पनावस्थायामप्यद्वयता शिवा ।
कल्पना एव त्वंशिवाः ।
रज्जुसर्पादिवत्त्रासादिकारिण्यो हि ताः ।
अद्वयताभयातः सैव शिवा ॥३३॥





 २.३४

कुतश्चाद्वयता शिवा? नानाभूतम् ।
पृथक्त्वमन्यस्यान्यस्माद्यत्र दृष्टं तत्राशिवं भवेत् ।


नात्मभावेन नानेदं न स्वेनापि कथञ्चन ।
न पृथङ्नापृथक्किञ्चिदिति तत्त्वविदो विदुः ॥ २.३४ ॥





भाष्य २.३४
न ह्यत्राद्वये परमार्थसत्यात्मनि प्राणादिसंसारजातमिदं जगदात्मभावेन परमार्थस्वरूपेण निरीप्यमाणं नाना वस्त्वन्तरभूतं भवति ।
यथा रज्जुस्वरूपेण प्रकाशेन निरूप्यमाणो न नानाभूतः कल्पितः सर्पोऽस्ति तद्वत् ।
नापि स्वेन प्राणाद्यात्मनेदं विद्यते ।
कदाचिदपि रज्जुसर्पवत्कल्पितत्वादेव ।

तथान्योन्यं न पृथक्प्राणादि वस्तु यथाश्वान्महिषः पृथग्विद्यत एवम् ।
अतोऽस्त्वान्नापृथग्विद्यतेऽन्योन्यं परेण वा किञ्चिदित्येवं परमार्थतत्त्वमातविदो ब्राह्मणा विदुः ।
अतोऽशिवहेतुत्वाभावादद्वयतैव शिवेत्यभिप्रायः ॥३४॥





 २.३५

तदेतत्सम्यग्दर्शनं स्तूयते


वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः ।
निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ २.३५ ॥





भाष्य २.३५
विगतरागभयद्वेषक्रोधादिसर्वदैषैः सर्वदा मुनिभिर्मननशीलैर्विवेकिभिर्वेदपारगैरवगतवेदार्थतत्त्वैर्ज्ञानिभिर्नि र्विकल्पः सर्वविकल्पः शून्योऽमात्मा दृष्ट उपलब्धो वेदान्तार्थतत्परैः प्रपञ्चोपशमः प्रपञ्चो द्वैतभेदविस्तारस्तस्योपशमोऽभावो यस्मिन्स आत्मा प्रपञ्चोपशमोऽत एवाद्वयो विगतदोषैरेव पण्डितैर्वेदान्तार्थतत्परैः संन्यसिभिः परमात्मा द्रष्टुं शक्यः, नान्यै रागादिकलुषितचेतोभिः स्वपक्षपातिदर्शनैस्तार्किकादिभिरित्याभिप्रायः ॥३५॥





 २.३६

यस्मात्सर्वानर्थप्रशमरूपत्वादद्वयं शिवमभयम्


तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् ।
अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ २.३६ ॥





भाष्य २.३६
अत एवं विदित्वैनमद्वैते स्मृतिं योजयेत् ।
अद्वैतावगमायैव स्मृतिं कुर्यादित्यर्थः ।
तच्चाद्वैतमवगम्याहमस्मि परं ब्रह्मेति विदित्वाशनायाद्यतीतं साक्षादपरोक्षादजमात्मानं सर्वलोकव्यवहारातीतं जडवल्लोकमाचरेत् ।
अप्रख्यापयन्नात्मानमहमेवंविध इत्यभिप्रायः ॥३६॥





 २.३७

कया चर्यया लोकमाचरेदित्याह


निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च ।
चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ २.३७ ॥





भाष्य २.३७
स्तुतिनमस्कारादिसर्वकर्मवर्जितस्त्यक्तसर्वबाह्यैषणः प्रतिपन्नपरमहंसपारिव्राज्य इत्यभिप्रायः"एतं वै तमात्मानं विदित्वा"(बृ.उ.३ । ५ । १) इत्यादिश्रुतेः॑"तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः"(गीता ५ । १७) इत्यादिस्मृतेश्च चलं शरीरं प्रतिक्षणमन्यथाभावात्, अचलमात्मतत्त्वम्, यदाकदाचिद्भोजनादिव्यवहारनिमित्तमाकाशवदचलं स्वरूपमात्मतत्त्वमात्मनो निकेतमाश्रयमात्मस्थितिं विस्मृत्याहमिति मन्यते यदा तदा चलो देहो निकेतो यस्य स अयमेवं चलाचलनिकेतो विद्वान्न पुनर्बाह्यविषयाश्रयः॑ स च यादृच्छिको भवेद्यदृच्छाप्राप्तकौपीनच्छादनग्रासमात्रदेहस्थितिरित्यर्थः ॥३७॥





 २.३८


तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः ।
तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ २.३८ ॥





भाष्य २.३८
बाह्यं पृथिव्यादितत्वं आध्यात्मिकं च देहादिलक्षणं रज्जुसर्पादिवत्स्वप्नमायादिवच्च असत्"वाचारम्भणं विकारो नामधेयम्" (छा.उ.६ । १ । ४) इत्यादिश्रुतेः ।
आत्मा च सबाह्याभ्यन्तरो ह्यजोऽपूर्वोऽनन्तरोऽबाह्यः कृत्स्न आकाशवत्सर्वगतः सूक्ष्मोऽचलो निर्गुणो निष्कलो निष्क्रियः"तत्सत्यं स आत्मा तत्त्वमसि"(छा.उ.६ । ८ । १६) इति श्रुतेः ।
इत्येवं तत्त्वं दृष्ट्वा तत्त्वीभूतस्तदारामो न बाह्यरमणो यथातत्त्वदर्शी कश्चिच्चित्तमात्मत्वेन प्रतिपन्नश्चित्तचलनमनुचलितमात्मानं मन्यमानस्ततत्त्वाच्चलितं देहादिभूतमात्मानं कदाचिन्मन्यते प्रच्युतोऽहमात्मतत्त्वादिदानीमिति॑ समाहिते चु मनसि कदाचित्तत्त्वभूतं प्रसन्नात्मानं मन्यत इदानीमस्मि तत्त्वीभूत इति॑ न तदात्मविद्भवेत् ।
आत्मन एकरूपत्त्वात्स्वरूपप्रच्यवनासम्भवाच्च ।
सदैव ब्रह्मास्मीत्यप्रच्युतो भवेत्तत्त्वात्सदाप्रच्युतात्मतत्त्वदर्शनो भवेदित्यभिप्रायः"शुनि चैव श्वपाके च पण्डिताः समदर्शिनः"(गीता १२ । १८) "समं सर्वेषु भूतेषु"(गीता १३ । १७) इत्यादि स्मृतेः ॥३८॥





अद्वैतप्रकरणम्[सम्पाद्यताम्]





 ३.१

ओंकारनिर्णय उक्तः प्रपञ्चोपशमः शिवोद्वैत आत्मेति प्रतिज्ञामात्रेण ।
ज्ञाते द्वैतं न विद्यत इति च ।
तत्र द्वैताभावस्तु वैतथ्यप्रकरणेन स्वप्नमायागन्धर्वनगरादिदृष्टान्तैर्दृश्यत्वाद्यन्तवत्त्वादिहेतुभिस्तर्केण च प्रतिपादिता ।
अद्वैतं किमागममात्रेण प्रतिपत्तव्यमाहोस्वित्तर्केणापीत्यत आह शक्यते तर्केणापि ज्ञातुम्॑ तत्कथमित्यद्वैतप्रकरणमारभ्यत उपास्योपासानादिभेदजातं सर्वं वितथं केवलश्चात्माद्वयः परमार्थ इति स्थितमतीते प्रकरणे॑ यतः


उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते ।
प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥ ३.१ ॥




भाष्य ३.१
उपासनाश्रित उपासनामात्मनो मोक्षसाधनत्वेन गत उपासकोऽहं ममोपास्यं ब्रह्म ।
तदुपासनं कृत्वा जाते ब्रह्मणीदानीं वर्तमानोऽजं ब्रह्म शरीरपातादूर्ध्वं प्रतपत्स्ये प्रागुत्पत्तेश्चाजमिदं सर्वमहं च ।
यदात्मकोऽहं प्रागुत्पत्तेरिदानीं जातो जाते ब्रह्मणि च वर्तमान उपासनया पुनस्तदेव प्रतिपत्स्य इत्येवमुपासनाश्रितो धर्मः साधको येनैवं क्षुद्रब्रह्मवित्तेनासौ कारणेन कृपणो दीनोऽल्पकः स्मृतो नित्याजब्रह्मदर्शिभिरित्यभिप्रायः ।
"यद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते"(के.उ.१ । ४) इत्यादिश्रुतेस्तलवकारणाम् ॥१॥





 ३.२

सबाह्याभ्यन्तरमजमात्मानं प्रतिपत्तुमशक्नुवन्नविद्यया दीनमात्मानं मन्यमानो जातोऽहं जाते ब्रह्मणि वर्ते तदुपासनाश्रितः सन्ब्रह्म प्रतिपत्स्य इत्येवं प्रतिपन्नः कृपणो भवति यस्मात्


अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् ।
यथा न जायते किञ्चिज्जायमानं समन्ततः ॥ ३.२ ॥




भाष्य ३.२
अतो वक्ष्याम्यकार्पण्यकृपणभावमजं ब्रह्म ।
तद्धि कार्पण्यास्पदम्"यत्रान्योऽन्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं मर्त्यमसत्"(छा.उ.७ । २४ । १) इत्यादिश्रुतिभ्यः ।
तद्विपरीतं सबाह्याभ्यन्तरमजकार्पण्यं भूमाख्यं ब्रह्म ।
यत्प्राप्याविद्याकृतसर्वकार्पण्यनिवृत्तिस्तत्कार्पण्यं वक्ष्यामीत्यर्थः ।

तदजाति, अविद्यमाना जातिरस्य समतां गतं सर्वसाम्यं गतम् ।
कस्मात्? अवयववैषम्याभावात् ।
यद्धि सावयवं वस्तु तदवयववैषम्यं गच्छज्जायत इत्युच्यते ।
इदं तु निरवयवत्वात्समतां गतमिति न कैश्चिदवयवैः स्फुटत्यतोजात्यकार्पण्यम् ।
समन्ततः समन्ताद्यथा न जायते किञ्चिदल्पमपि न स्फुटति रज्जुसर्पवदविद्याकृतदृष्ट्या जायमानं येन प्रकारेण न जायते सर्वतोऽजमेव ब्रह्म भवति तथा तं प्रकारं शृण्वित्यर्थः ॥२॥





 ३.३

अजाति ब्रह्मकार्पण्यं वक्ष्यामीति प्रतिज्ञातम् ।
तत्सिद्ध्यर्थं हेतुं दृष्टान्तं च वक्ष्यामीत्याह

आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः ।
घटादिवच्च संघातैर्जातावेतन्निदर्शनम् ॥ ३.३ ॥




भाष्य ३.३
आत्मा परो हि यस्मादाकाशवत्सूक्ष्मो निरवयवः सर्वगत आकाशवदुक्तो जीवैः क्षेत्रज्ञैर्घटाकाशैरिव घटाकाशतुल्य उदित उक्तः स एवाकाशसमः पर आत्मा ।

अथ वा घटाकाशैर्यथाकाश उदित उत्पन्नस्तथा परो जीवात्मभिरुत्पन्नः ।
जीवात्मनां परस्मादात्मन उत्पत्तिर्या श्रूयते वेदान्तेषु सा महाकाशाद्घटाकाशोत्पत्तिसमा न परमार्थ इत्यभिप्रायः ।

तस्मादेवाकाशाद्घटादयः संघाता यथेत्पद्यन्त एवमाकाशस्थानीयात्परमात्मनः पृथिव्यादिभूतसंघाता आध्यात्मिकाश्च कार्यकरणलक्षणा रज्जुसर्पवद्विकल्पिता जायन्ते ।
अत उच्यते घटादिवच्च संघातैरुदित इति ।
यदा मन्दबुद्धिप्रतिपादयिषया श्रुत्यात्मनो जातिरुच्यते जीवादीनां तदा जातावुपगम्यमानायामेतन्निदर्शनं दृष्टान्तो यथोदिताकाशवदित्यादिः ॥३॥





 ३.४

घटादिषु प्रलीनेषु घटाकाशादयो यथा ।
आकाशे संप्रलीयन्ते तद्वज्जीवा इहात्मनि ॥ ३.४ ॥




भाष्य ३.४
यथा घटाद्युत्पत्त्या घटाकाशाद्युत्पत्तिः॑ यथा वा घटादिप्रलये घटाकाशादिप्रलयस्तद्वद्देहादिसंघातोत्पत्त्या जीवोत्पत्तिस्तत्प्रलये च जीवानामिहात्मनि प्रलयो न स्वत इत्यर्थः ॥४॥





 ३.५

सर्वदेहेष्वात्मैकत्व एकस्मिञ्जननमरणसुखादिमत्यात्मनि सर्वात्मनां तत्सम्बन्धः क्रियाफलसाङ्कर्यं च स्यादिति य आहुर्द्वैतिनस्तान्प्रतीदमुच्यते

यथैकस्मिन् घाटाकाशे रजोधूमादिभिर्युते ।
न सर्वे संप्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ३.५ ॥




भाष्य ३.५
यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते संयुक्ते न सर्वे घटाकाशादयस्तद्रजोधूमादिभिः संयुज्यन्ते तद्वज्जीवाः सुखादिभिः ।
नन्वेक एवात्मा?
बाढम्॑ ननु न श्रुतं त्वयाकाशवत्सर्वसंघातेष्वेक एवात्मेति?
यद्येक एवात्मा तर्हि सर्वत्र सुखी दुःखी च स्यात्?
न चेदं साख्यचोद्यं सम्भवति ।
न हि सांख्य आत्मनः सुखदुःखादिमत्त्वमिच्छति बुद्धिसमवायाभ्युपगमात्सुखदुःखादीनाम् ।
न चोपलब्धिस्वरूपस्यात्मनो भेदकल्पनायां प्रमाणमस्ति ।
भेदाभावे प्रधानस्य पारार्थ्यानुपपत्तिरिति चेत्॑ न प्रधानकृतस्यार्थस्यात्मन्यसमवायात् ।
यदि हि प्रधाकृतो बन्धो मोक्षो वार्थः पुरुषेषु भेदेन समवैति ततः प्रधानस्य पारार्थ्यमात्मैकत्वे नोपपद्यत इति युक्ता पुरुषभेदकल्पना ।
न च साख्यैर्बन्धो मोक्षो वार्थः पुरुषसमवेतोऽभ्युपगम्यते ।
निर्विशेषाश्च चेतनमात्रा आत्मानोऽभ्युपगम्यन्ते ।
अतः पुरुषसत्तामात्रप्रयुक्तमेव प्रधानस्य पारार्थ्यं सिद्धं न तु पुरुषभेदप्रयुक्तमिति ।
अतः पुरुषभेदकल्पनायां न प्रधानस्य पारार्थ्यं हेतुः ।

न चान्यत्पुरुषभेदकल्पनायां प्रमाणमस्ति साख्यानाम् ।
परसत्तामात्रमेव चैतन्निमित्तीकृत्य स्वयं बध्यते मुच्यते च प्रधानम् ।
परश्चोपलब्धिमात्रसत्तास्वरूपेण प्रधानप्रवृत्तौ हेतुर्नकेनचिद्विशेषेणेति केवलमूढतयैव पुरुषभेदकल्पना वेदार्थपरित्यागश्च ।

ये त्वाहुर्वैशेषिकादय इच्छादय आत्मसमवायिन इति, तदप्यसत् ।
स्मृतिहेतूनां संस्काराणामप्रदेशवत्यात्मन्यसमवायात् ।
आत्ममनः संयोगाच्च स्मृत्युत्पत्तेः स्मृतिनियमानुपपत्ति ।
युगपद्वा सर्वस्मृत्युत्पत्तिप्रसङ्गः ।

न च भिन्नजातीयानां स्पर्शादिहीनानामात्मनां मन आदिभिः संबन्धो युक्तः ।
न च द्रव्याद्रूपादयो गुणाः कर्मसामान्यविशेषसमवाया वा भिन्नाः सन्ति परेषाम् ।
यदि ह्यत्यन्तभिन्ना एव द्रव्यात्स्युरिच्छादयश्चात्मनस्तथा च सति द्रव्येण तेषां सम्बन्दानुपपत्तिः ।

अयुतसिद्धानां समवायलक्षणः सम्बन्धो न विरुध्यत इति चेत्, न ।
इच्छादिभ्योऽनित्येभ्य आत्मनो नित्यस्य पूर्वसिद्धत्वान्नायुतसिद्धत्वोपपत्तिः ।
आत्मनायुतसिद्धत्वे चेच्छादीनामात्मगतमहत्ववन्नित्यत्वप्रसङ्गः ।
स चानिष्टः ।
आत्मनोऽनिर्मोक्षप्रसङ्गात् ।

समवायस्य च द्रव्यादन्यत्वे सति द्रव्येण सम्बन्धान्तरं वाच्यं यथा द्रव्यगुणयोः ।
समवायो नित्यसम्बन्ध एवेति न वाच्यमिति चेत्तथा च समवायसम्बन्धवतां नित्यसम्बन्धप्रसङ्गात्पृथक्त्वानुपपत्ति ।
अत्यन्तपृथक्त्वे च द्रव्यादीनां स्पर्शवदस्पर्शद्रव्ययोरिव षष्ट्यर्थानुपपत्तिः ।

इच्छाद्युपजनापायवद्गुणत्वे चात्मनोऽनित्यत्वप्रसङ्गः ।
देहफलादिवत्सावयवत्वं विक्रियावत्वं च देहादिवदेवेति दोषावपरिहार्यौ ।
यथा त्वाकाशस्याविद्याध्यारोपितरजोधूममलवत्वादिदोषवत्वं तथात्मनोऽविद्याध्यारोपितबुद्ध्याद्युपाधिकृतसुखदुःखादिदोषवत्वे बन्धमोक्षादयो व्यवहारिका न विरुध्यन्ते ।
सर्ववादिभिरविद्याकृतव्यवहाराभ्युपगमात्परमार्थानभ्युपगमाच्च ।
तस्मादात्मभेदपरिकल्पना वृथैव तार्किकैः क्रियत इति ॥५॥





 ३.६

कथं पुनरात्मभेदनिमित्त इव व्यवहार एकस्मिन्नात्मन्यविद्याकृत उपपद्यत इति, उच्यते


रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै ।
आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ ३.६ ॥




भाष्य ३.६
यथेहाकाश एकस्मिन्घटकरकापवरकाद्याकाशानामल्पत्वमहत्वादिरूपाणि भिद्यन्ते तथा कार्यमुदकाहरणधारणशयनादिसमाख्याश्च घटाकाशकरकाकाश इत्याद्यास्तत्कृताश्च भिन्ना दृश्यन्ते ।
तत्र तत्र वै व्यवहारविषय इत्यर्थः ।
सर्वोऽयमाकाशो रूपादिभेदकृतो व्यवहारो न परमार्थ एव ।
परमार्थतस्त्वाकाशस्य न भेदोस्ति ।
न चाकाशभेदनिमित्तो व्यवहारोऽस्त्यन्तरेण परोपाधिकृतं द्वारम् ।
यथैतत्तद्वेद्दहोपाधिभेदकृतेषु जीवेषु घटाकाशस्थानीयेष्वात्मसु निरूपणात्कृतो बुद्धिमद्भिर्निर्णयो निश्चय इत्यर्थः ॥६॥




 ३.७

ननु तत्र परमार्थकृत एव घटाकाशादिषु रूपकार्यादिभेदव्यवहार इति? नैतदस्ति, यस्मात्


नाकाशस्य घटाकाशो विकारावयवौ यथा ।
नैवात्मनः सदा जीवो विकारावयवौ तथा ॥ ३.७ ॥




भाष्य ३.७
परमार्थाकाशस्य घटाकाशो न विकारः॑ यथा सुवर्णस्य रुचकादिर्यथा वापां फेनबुद्बुदहिमादिः॑ नाप्यवयवो यथा वृक्षस्य शाखादिः ।
न तथा० आशस्य घटाकाशो विकारावयवौ यथा तथा नैवात्मनः परस्य परमार्थसतो महाकाशस्थानीयस्य घटाकाशस्थानीयो जीवः सदा सर्वदा यथोक्तदृष्टान्तवन्न विकारो नाप्यवयवः ।
अत आत्मभेदकृतो व्यवहारो मृषैवेत्यर्थः ॥७॥





 ३.८

यस्माद्यथा घटाकाशादिभेदबुद्धिनिबन्धनो रूपकार्यादिभेदव्यवहारस्तथा देहोबाधिजीवभेदकृतो जन्ममरणादिव्यवहारः ।
तस्मात्तत्कृतमेव क्लेशकर्मफलमलवत्वमात्मनो न परमार्थत इत्येतमर्थं दृष्टान्तेन प्रतिपिपादयिषन्नाह


यथा भवति बालानां गगनं मलिनं मलैः ।
तथा भवत्यबुद्धानामात्मापि मलिनो मलैः ॥ ३.८ ॥




भाष्य ३.८
यथा भवति लोके बालानामविवेकिनां गगनमाकाशं घनरजोधूमादिमलार्मलिनं मलवन्न गगनं मलवद्याथात्म्यविवेकिनाम्, तथा भवत्यात्मा परोऽपि यो विज्ञाता प्रत्यक्क्लेशकर्मफलमलैर्मलिनोऽबुद्धानां प्रत्यगात्मविवकेरहितानां नात्मविवेकवताम् ।
नह्यूषरदेशस्तृड्वत्प्राण्यध्यारोपितोदकफेनतरङ्गादिमांस्तथा नात्माबुधारोपितक्लेशादिमलैर्मलिनो भवतीत्यर्थः ॥८॥





 ३.९

पुनरप्युक्तमेवार्थं प्रपञ्चयति


मरणे संभवे चैव गत्यागमनयोरपि ।
स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः ॥ ३.९ ॥




भाष्य ३.९
घटाकाशजन्मनाशगमनागमनस्थितिवत्सर्वशरीरेष्वात्मनो जन्ममरणादिराकाशेनाविलक्षणः प्रत्येतव्य इत्यर्थः ॥९॥





 ३.१०

संघाताः स्वप्नवत्सर्वे आत्ममायाविसर्जिताः ।
आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ ३.१० ॥




भाष्य ३.१०
घटादिस्थानीयास्तु देहादिसंघाताः स्वप्नदृश्यदेहादिवन्मायाविकृतदेहादिवच्चात्ममायाविसर्जिताः॑ आत्मनो मायाविद्या तया प्रत्युपस्थापिता न परमार्थतः सन्तीत्यर्थः ।
यद्याधिक्यमधिकभावस्तिर्ग्देहाद्यपेक्षया देवादिकार्यकरणसंघातानां यदि वा सर्वेषां समतैव नैषामुपपत्तिः सम्भवः सद्भाप्रतिपादको हेतुर्विद्यते नास्ति, हि यस्मात्तस्मादविद्याकृता एव न परमार्थतः सन्तीत्यर्थः ॥१०॥





 ३.११
उत्पत्त्यादिवर्जितस्याद्वयस्यात्मतत्वस्य श्रुतिप्रमाणकत्वप्रदर्शनार्थं वाक्यान्युपन्यस्यन्ते


रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके ।
तेषामात्मा परो जीवः खं यथा संप्रकाशितः ॥ ३.११ ॥




भाष्य ३.११
रसादयोऽन्नरसमयः प्राणमय इत्येवमादयः कोशा इव कोशा अस्यादेरिवोत्तरोत्तरस्यापेक्षया बहिर्भावात्पूर्वपूर्वस्य व्याख्याता विस्पष्टमाख्यातास्तैत्तिरीयके तैत्तिरीयकशाखोपनिषद्वल्ल्यां तेषां कोशानामात्मा येनात्मना पञ्चापि कोशा आत्मवन्तोऽन्तरतमेन, स हि सर्वेषां जीवननिमित्तत्वाज्जीवः ।
कोऽसावित्याहपर एवात्मा यः पूर्वम्"सत्यं ज्ञानमनन्तं ब्रह्म"(तै.उ.२ । १) इति प्रकृतः ।
यस्मादात्मनः स्पप्नमायादिवदाकाशादिक्रमेण रसादयः कोशलक्षणाः संघाता आत्ममायाविसर्जिता इत्युक्तम् ।
स आत्मास्माभिर्यथा खं तथेति संप्रकाशितः"आत्मा ह्याकाशवत्"(अद्वैत.३) इत्यादिश्लौकैः ।
न तार्किकपरिकल्पितात्मवत्पुरुषबुद्धिप्रमाणगम्य इत्यभिप्रायः ॥११॥





 ३.१२

द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् ।
पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः ॥ ३.१२ ॥




भाष्य ३.१२
किं चाधिदैवमध्यात्मं च तेजोमयोऽमृतमयः पुरुषः पृथिव्याद्यन्तर्गतो यो विज्ञाता पर एवात्मा ब्रह्म सर्वमिति द्वयोर्द्वयोराद्वैतक्षयात्परं ब्रह्म प्रकाशितम् ।
क्वेत्याह ब्रह्मविद्याख्यं मध्वमृतममृतत्वं मोदनहेतुत्वाद्विज्ञायते यस्मिन्निति मधुज्ञानं मधुब्राह्मणं तस्मिन्नित्यर्थः ।
किमिवेत्याहपृथिव्यामुदरे चैव यथैक आकाशोऽनुमानेन प्रकाशितो लोके तद्वदित्यर्थः ॥१२॥





 ३.१३
जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते ।
नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ ३.१३ ॥




भाष्य ३.१३
यद्युक्तितः श्रुतितश्च निर्धारितं जीवस्य परस्य चात्मनो जीवात्मनोरन्यत्वमभेदेन प्रशस्यते स्तूयतेशास्त्रेण व्यासादिभिश्च ।
यच्च सर्वप्राणिसाधारणं स्वाबाविकं शास्त्रबहिष्कृतैः कुतार्किकैर्विरचितं नानात्वदर्शनं निन्द्यते"न तु तद्द्वीतीयमस्ति"(बृ.उ.४ । ३ । २३) "द्वितीयाद्वै भयं भवति"(बृ.उ.१ । ४ । २) "उदरमन्तरं कुरुते, अत तस्य भयं भवति"(तै.उ.२ । ७ । १) "इदं सर्वं यदयमात्मा"(बृ.उ.२ । ४ । ६, ४ । ५ । ७) "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति"(क.उ.२ । १ । १०) इत्यादिवाक्यैश्चान्यैश्च ब्रह्मविद्भिः ।
यच्चैतत्तदेवं हि समञ्जसमृज्ववबोधं न्याय्यमित्यर्थः ।
यास्तु तार्किकपरिकल्पिताः कुदृष्टयस्ता अनृज्व्यो निरूप्यमाणा न घटनां प्राञ्चन्तीत्यभिप्रायः ॥१३॥





 ३.१४

जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् ।
भविष्यद्वृत्या गौणं तन्मुख्यत्वं हि न युज्यते ॥ ३.१४ ॥




भाष्य ३.१४
ननु श्रुत्यापि जीवपरमात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेरुत्पत्यर्थोपनिषद्वाक्येभ्यः पूर्वं प्रकीर्तितं कर्मकाण्डेऽनेकशः कामभेदत इदङ्कामोऽदःकाम इति॑ परश्च"स दाधार पृथिवीं द्याम्"(ऋ.सं.१० । १२ । १) इत्यादिमन्त्रवर्णैः॑ तत्र कथं कर्मज्ञानकाण्डवाक्यविरोधे ज्ञानकाण्डवाक्यार्थस्यैवैकत्वस्य सामञ्जस्यमवधार्यत इति?

अत्रोच्यते"यतो वे९ आनि भूतानि जायन्ते"(तै.उ.३ । १) "यथाग्नेः क्षुद्रा विस्फुलिङ्गाः"(बृ.उ.२ । १ । १०) "तस्माद्वै९ अस्मादात्मन आकाशः संभूतः"(तै.उ.२ । १ । २) "तदैक्षत"(छा.उ.६ । २ । ३) "तत्तेजोसृजत"(छा.उ.६ । २ । ३) इत्याद्युत्पत्त्यर्थोपनिषद्वाक्येभ्यः प्राक्पृथक्त्वं कर्मकाण्डे प्रकीर्तितिं यत्तन्न परमार्थम् ।
किं तर्हि? गौणं महाकाशघटाकाशादिभेदवत् ।
यथौदनं पचतीति भविष्यद्वृत्त्या यद्वत् ।
न हि भेदवाक्यानां कदाचिदपि मुख्यभेदार्थत्वमुपपद्यते ।
स्वाभाविकाविद्यावत्प्राणिभेददृष्ट्यनुवादित्वादात्मभेदवाक्यानाम् ।

इव चोपानिषत्सूत्पत्तिप्रलयादिवाक्यैर्जीवपरमात्मनोरेकत्वमेव प्रतिपिपादयिषितम्"तत्त्वमसि" (छा.उ.६ । ८ १६)"अन्योऽसावन्योऽहमस्मीति न स वेद"(बृ.उ.१ । ४ । १०) इत्यादिभिः ।
अत उपनिषत्स्वेकत्वं श्रुत्या प्रतिपादयिषितं भविष्यतीति भाविनीमेकवृत्तिमाश्रित्य लोके भेददृष्ट्यनुवादो गौण एवेत्यभिप्रायः ।

अथ वा"तदैक्षत" (छा.उ.६ । २ । ३) "तत्तोजोऽसृजत"(छा.उ.६ । २ । ३) इत्याद्युत्पत्तेः प्राक्"एकमेवाद्वितीयम्"(छा.उ.६ । २ । २) इत्येकत्वं प्रकीर्तितम् ।
तदेव च"तत्सत्यं स आत्मा तत्त्वमसि"(छा.उ.६ । ८ १६) इत्येकत्वं भविष्यतीति तां भविष्यद्वृत्तिपेक्ष्य यज्जीवात्मनोः पृथक्त्वं यत्र क्वचिद्वाक्ये गम्यमानं तद्गौणम्, यथोदनं पचतीति तद्वत् ॥१४॥




 ३.१५

ननु यद्युत्पत्तेः प्रागजं सर्वमेकमेवाद्वितीयं तथाप्युत्पत्तेरूर्ध्वं जातमिदं सर्वं जीवाश्च भिन्ना इति, मैवम्॑ अन्यार्थत्वादुत्पत्तिश्रुतीनाम् ।
पूर्वमपि परिहृत्य एवायं दोषः स्वप्नवदात्ममायाविसर्जिताः संघाता घटाकाशोत्पत्तिभेदादिवज्जीवानामुत्पत्तिभेदादिरिति ।
इत एवोत्पत्तिभेदादिश्रुतिभ्य आकृष्ये७ अ पुनरुत्पत्तिश्रुतीनामैदंपर्यप्रतिपिपादयिषयोपन्यासः


मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा ।
उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ ३.१५ ॥




भाष्य ३.१५
मृल्लोकविस्फुलिङ्गादिदृष्टान्तोपन्यासैः सृष्टिर्या चोदिता प्रकाशितान्यथान्यथा च स सर्वः सृष्टिप्रकारो जीवपरमात्मैकत्वबुद्ध्यवतारयोपायोऽस्माकम् ।
यथा प्राणसंवादे वागाद्यासुरपाप्मवेधाद्याख्यायिका कल्पिता प्राणवैशिष्ट्यबोधावताराय ।
तदप्यसिद्धमिति चेत् ।
न॑ शाखाभेदेष्वन्यथान्यथा च प्राणादिसंवादश्रवणात् ।
यदि हि संवादः परमार्थ एवाभूदेकरूप एव संवादः सर्वशाखास्वश्रोष्यत विरुद्धानेकप्रकारेण नाश्रोष्यत ।
श्रूयते तु॑ तस्मान्न तादर्थ्यं संवादश्रुतीनाम् ।
तथोत्पत्तिवाक्यानि प्रत्येतव्यानि ।
कल्पसर्गभेदात्संवादश्रुतीनामुत्पत्तिश्रुतीनां च प्रतिसर्गमन्यथात्वमिति चेत्?
न॑ निष्प्रयोजनत्वाद्यथोक्तबुद्ध्यवतारप्रयोजनव्यतिरेकेण ।
न ह्यन्यप्रयोजनवत्त्वं संवादोत्पत्तिश्रुतीनां शक्यं कल्पयितुम् ।
तथात्वप्रतिपत्तये ध्यानार्थमिति चेन्न॑ कलहोत्पत्तिप्रलयानां प्रतिपत्तेरनिष्टत्वात् ।
तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वबुद्ध्यवतारायैव नान्यार्थाः कल्पयितुं युक्ताः ।
अतो नास्त्युत्पत्त्यादिकृतो भेदः कथञ्चन ॥१५॥





 ३.१६

यदि पर एवात्मा नित्यशुद्धबुद्धमुक्तस्वभाव एकः परमार्थः सन्"एकमेवाद्वितीयम्" (छा.उ.६ । २ । २) इत्यादिश्रुतिभ्योऽसदन्यत्किमर्थेयमुपासनोपदिष्टा"आत्मा वा९ ए द्रष्टव्यः"(बृ.उ.२ । ४ । ५) "य आत्मापहतपाप्मा"(छा.उ.८ । ७ । १,३) "स क्रतुं कुर्वीत"(छा.उ.३ । १४ । १) "आत्मेत्येवोपासीत"(बृ.उ.१ । ४ । ७) इत्यादिश्रुतिभ्यः, कर्माणि चाग्निहोत्रादीनि?
शृणु तत्र कारणम्


आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः ।
उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ ३.१६ ॥




भाष्य ३.१६
उपासनोपदिष्टेयं तदर्थं मन्दमध्यमदृष्ट्याश्रमाद्यर्थं कर्माणि च, न चात्मैक एवाद्वितीय इति निश्चितोत्तमदृष्ट्यर्थं दयालुना वेदेनानुकम्पया सन्मार्गगाः सन्तः कथमिमामुत्तमामेकत्वदृष्टिं प्राप्नुयुरिति ।
"यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्र्हम त्वं विद्धि नेदं यदिदमुपासते"(के.उ.१ । ४) "तत्त्वमसि"(छा.उ.६ । ८ १६)"आत्मैवेदं सर्वम्"(छा.उ.७ । २५ । ३) इत्यादिश्रुतिभ्यः ॥१६॥





 ३.१७

शास्त्रोपपत्तिभ्यामवधारितत्वादद्वयात्मदर्शनं सम्यग्दर्शनं तद्बाह्यत्वान्मिथ्यादर्शनमन्यत् ।
इतश्च मिथ्यादर्थनं द्वैतीनां रागद्वेषादिदोषास्पदत्वात् ।
कथम्?


स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् ।
परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ ३.१७ ॥




भाष्य ३.१७
स्वसिद्धान्तव्यवस्थासु स्वसिद्धान्तरचनानियमेषु कपिलकणादबुद्धर्हतादिदृष्ट्यनुसारिणो द्वैतिनो निश्चिताः ।
एवमेवैष परमार्थो नान्यथेति तत्र तत्रानुरक्ताः प्रतिपक्षं चात्मनः पश्यन्तस्तं द्विषन्त इत्येवं रागद्वेषोपेताः स्वसिद्धान्तदर्शननिमित्तमेव परस्परमन्योन्यं विरुध्यन्ते ।

तैरन्योन्यविरोधिभिरस्मदीयोऽयं वैदिकः सर्वानन्यत्वादात्मैकत्वदर्शनपक्षो न विरुध्यते यथा स्वहस्तपादादिभिः ।
एवं रागद्वेषादिदोषानास्पदात्मैकत्वबुद्धिरेव सम्यग्दर्शनमित्यभिप्रायः ॥१७॥




 ३.१८

केन हेतुना तैर्न विरुध्यत इत्युच्यते


अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते ।
तेषामुभयथा द्वैतं तेनायं न विरुद्ध्यते ॥ ३.१८ ॥




भाष्य ३.१८
अद्वैतं परमार्थो हि यस्मादद्वैतं नानात्वं तस्याद्वैतस्य भेदस्तद्भेदस्तस्य कार्यमित्यर्थः ।
"एकमेवाद्वितीयम्"(छा.उ.६ । २ । २) "तत्तेजोऽसृजत"(छा.उ.६ । २ । ३) इति श्रुतेरूपपत्तेश्च स्वचित्तस्पन्दनाभावे समाधौ मूर्छायां सुषुप्तौ चाभावात् ।
अतस्तद्भेद उच्यते द्वैतम् ।

द्वैतिनां तु तेषां परमार्थतश्चापरमार्थतश्चोभयथापि द्वैतमेव ।
यदि च तेषां भ्रान्तानां द्वैतदृष्टिरस्माकमद्वैतदृष्टिरभ्रान्तानाम्, तेनायं हेतुनास्मत्पक्षे न विरुध्यते तैः ।
"इन्द्रो मायाभिः षुरुरूप ईयते" (बृ.उ.२ । ५ । ११) "न तु तद्द्वितीयमस्ति"(बृ.उ.४ । ३ । २३) इति श्रुतेः ।

यथा मत्तगजारूढ उन्मत्तं भूमिष्ठं प्रति गजारूढोहं गजं वाहय मां प्रतीति ब्रुवाणमपि तं प्रति न वाहयत्यविरोधबुद्ध्या तद्वत् ।
ततः परमार्थतो ब्रह्मविदात्मैव द्वैतिनाम् ।
तेनायं हेतुनास्मत्पक्षो न विरुद्ध्यते तैः ॥२८॥





 ३.१९

द्वैतमद्वैतभेद इत्युक्ते द्वैतमप्यद्वैतवत्परमार्थसदिति स्यात्कस्यचिदाशङ्केत्यत आह


मायया भिद्यते ह्येतन्नान्यथाजं कथञ्चन ।
तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ ३.१९ ॥




भाष्य ३.१९
यत्परमार्थसदद्वैतं मायया भिद्यते ह्येतचैमिरिकानेकचन्द्रवद्रज्जुः सर्पधारादिभिर्भेदैरिव न परमार्थतो निरवयवत्वादात्मनः ।
सावयवं ह्यवयवान्यथात्वेन भिद्यते ।
यथा मृद्घटादिभेदैः ।
तस्मान्निरवयवमजं नान्पथा कथञ्चन केनचिदपि प्रकारेण न भिद्यत इत्यभिप्रायः ।

तत्त्वतो भिद्यमाने ह्यमृतमजमद्वयं स्वभावतः सन्मर्त्यतां व्रजेत्॑ यथाग्निः शीतताम् ।
तच्चानिष्टं स्वभाववैपरीत्यगमनम्, सर्वप्रमाणविरोधात् ।
अजमव्ययमात्मतत्त्वं माययैव भिद्यते न परमार्थतः ।
तस्मान्न परमार्थसदद्वैतम् ॥१९॥





 ३.२०


अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः ।
अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति ॥ ३.२० ॥




भाष्य ३.२०

ये तु पुनः केचिदुपनिषद्व्याख्यातारो ब्रह्मवादिनो वावदूका अजातस्यैवात्मतत्त्वस्य अमृतस्य स्वभावतो जातिमुत्पत्तिमिच्छन्ति परमार्थत एव तेषां जातं चेत्तदेव मर्त्यतामेष्यत्यवश्यम् ।
स चाजातो ह्यमृतो भावः स्वभावतः सन्नात्मा कथं मर्त्यतामेष्यति? न कथञ्चन मर्त्यत्वं स्वभाववैपरीत्यमेष्यतीत्यर्थः ॥२०॥





 ३.२१

यस्मात्


न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।
प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ ३.२१ ॥




भाष्य ३.२१

न भवत्यमृतं लोकेनापि मर्त्यममृतं तथा ।
ततः प्रकृतेः स्वभावस्यान्यथाभावः स्वतः प्रच्युतिर्न कथञ्चिद्भविष्यति, अग्नेरिवौष्ण्यस्य ॥२१॥





 ३.२२

स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् ।
कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ ३.२२ ॥




भाष्य ३.२२

यस्य पुनर्वादिनः स्वभावेना७ ऋतो भावो मर्त्यतां गच्छति परमार्थतो जायते तस्य प्रागुत्पत्तेः स भावः स्वभावतोऽमृत इति प्रतिज्ञा मृषैव ।
कथं तर्हि कृतकेनामृतस्तस्य भावः? कृतकेनामृतः स कथं स्थास्यति निश्चलोऽमृतस्वभावस्तथा न कथञ्चित्स्थास्यत्यात्मजातिवादिनः सर्वदाजं नाम नास्त्येव॑ सर्वमेतन्मर्त्यम् ।
अतोऽनिर्मोक्षप्रसङ्ग इत्यभिप्रायः ॥२२॥





 ३.२३

नन्वजातिवादिनः सृष्टिप्रतिपादिका श्रुतिर्न संगच्छते प्रामाण्यम्?
बाढं विद्यते सृष्टिप्रतिपादिका श्रुतिः॑ सा त्वन्यपरा ।
उपायः स अवतारायेत्यवोचाम ।
इदानीमुक्तेऽपि परिहारे पुनश्चोद्यपरिहारौ विवक्षितार्थं प्रति सृष्टिश्रुत्यक्षराणामानुलोम्यविरोधाशङ्कामात्रपरिहारार्थौ


भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः ।
निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ ३.२३ ॥




भाष्य ३.२३
भूततः परमार्थतः सृज्यमाने वस्तुन्यभूततो मायया वा मायाविनेव सृज्यमाने वस्तुनि समा तुल्या सृष्टिश्रुतिः ।
ननु गौणमुख्ययोर्मुख्ये शब्दार्थप्रतपत्तिर्युक्ता ।
न, अन्यथा सृष्टेरप्रसिद्धत्वान्निष्प्रयोजनत्वाच्चेत्यवोचाम ।
अविद्यासृष्टविषयैव सर्वा गौणी मुख्या च सृष्टिर्न परमार्थतः"सबाह्याभ्यन्तरो ह्यजः"(मु.उ.२ । १ । २) इति श्रुतेः ।

तस्माच्छ्रुत्या निश्चितं यदेकमेवाद्वितीयमजममृतमिति युक्तियुक्तं च युक्त्या च सम्पन्नं तदेवेत्यवोचाम पूर्वैर्ग्रन्थैः ।
तदेव श्रुत्यर्थो भवति नेतरत्कदाचिदपि ॥२३॥





 ३.२४

कथं श्रुतुनिश्चयः? इत्याह


नेह नानेति चाम्नायादिन्द्रो मायाभिरित्यपि ।
अजायमानो बहुधा मायया जायते तु सः ॥ ३.२४ ॥




भाष्य ३.२४
यदि हि भूतत एव सृष्टिः स्यात्ततः सत्यमेव नाना वस्त्विति तदभावप्रदर्शनार्थमाम्नायो न स्यात् ।
अस्ति च"नेह नानास्ति किञ्चन"(क.उ.२ । १ । ११) इत्यादिराम्नायो द्वैतभावप्रतिषेधार्थः ।
तस्मादात्मैकत्वप्रतिपत्यर्था कल्पिता सृष्टिरभूतैव प्राणसंवादवत् ।
"इन्द्रो मायाभिः" (बृ.उ.३ । ५ । १९) इत्यभूतार्थप्रतिपादकेन मायाशब्देन व्यपदेशात् ।
ननु प्रज्ञावचनो मायाशब्दः ।
सत्यम्॑ इन्द्रियप्रज्ञाया अवद्यामयत्वेन मायात्वभ्युपगमाददोषः ।
मायाभिरिन्द्रियप्रज्ञाभिरविद्यारूपाभिरित्यर्थः"अजायमानो बहुधा विजायते"इति श्रुतेः, तस्मान्माययैव जायते तु स ।
तु शब्दोऽवधारणार्थः माययैवेति ।
न ह्यजायमानत्वं बहुधा जन्मचैकत्र सम्भवति, अग्नाविव शैत्यमोष्ण्यं च ।
फलवत्वाच्चात्मैकत्वदर्शनमेव श्रुतिनिश्चितोर्ऽथः"तत्र को मोहः कः शोक एकत्वमनुपश्यतः"(ई.उ.७) इत्यादिमन्त्रवर्णात्॑"मृत्योः स मृत्युमाप्नोति"(क.उ.२ । १ । १०) इति निन्दितत्वाच्च सृष्ट्यादिभेददृष्टेः ॥२४॥





 ३.२५

संभूतेरपवादाच्च संभवः प्रतिषिध्यते ।
को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ ३.२५ ॥




भाष्य ३.२५
"अन्धं तमः प्रविशति ये सम्भूतिमुपासते"(ई.उ.१२) इति संभूतेरुपास्यत्वापवादात्संभवः प्रतिषिध्यते ।
न हि परमार्थतः संभूतायां संभूतौ तदपवाद उपपद्यते ।

ननु विनाशेन संभूतेः समुच्चयविध्यर्थः संभूत्यपवादः ।
यथा"अन्धं तमः प्रविशन्ति येऽविद्यामुपासते"(ई.उ.९) इति ।

सत्यमेव देवतादर्शनस्य संभूतिविषयस्य विनाशशब्दवाच्यस्य कर्मणः समुच्चयविधानार्थः संभूत्यपवादः ।

तथापि विनाशाख्यस्य कर्मणः स्वाभाविकाज्ञानप्रवृत्तिरूपस्य मृत्योरतितरणार्थत्वम् ।
एवं ह्येषणाद्वयरूपान्मृत्योरशुद्धेर्वियुक्तः पुरुषः संस्कृतः स्यादतो मृत्योरतितरणार्थादेवतादर्शनकर्मसमुच्चयलक्षणा ह्यविद्या ।

एवमेव एषणालक्षणाविद्याया मृत्योरतितीर्णस्य विरक्तस्योपनिषच्छास्त्रार्थालोचनपरस्य नान्तरीयकी परमात्मैकत्वविद्योत्पत्तिरिति पूर्वभाविनीमविद्यामपेक्ष्य पश्चाद्भाविनी ब्रह्मविद्यामृतत्वसाधनैकेन पुरुषेण सम्बध्यमानाविद्यया समुच्चीयत इत्युच्यते ।
अतोऽन्यार्थत्वादमृतत्वसाधनं ब्रह्मविद्यामपोक्ष्य निन्दार्थं एव भवति संभूत्यपवादः ।
यद्यप्यशुद्धिवियोगहेतुरतन्निष्ठत्वात् ।
अत एव संभूतेरपवादात्संभूतेरापेक्षिकमेव सत्त्वमिति परमार्थसदात्मैकत्वमपेक्ष्य अमृताख्यः संभवः प्रतिषिध्यते ।

एवं मायानिर्मितस्यैव जीवस्याविद्यया प्रत्युपस्थापितस्याविद्यानाशे स्वभावरूपत्वात्परमार्थतः को न्वेनं जनयेत् ।
न हि रज्ज्वामविद्यारोपितं सर्पं पुनर्विवेकतो नष्टं जनयेत्कश्चित् ।
तथा न कश्चिदेनं जनयेदिति को न्वित्याक्षेपार्थत्वात्कारणं प्रितषिध्यते ।
अविद्योद्भूतस्य नष्टस्य जनयितृकारणं न किञ्चिदस्तीत्यभिप्रायः"नायं कुतश्चिन्न बभूव कश्चित्"(क.उ.१ । २ । १८) इति श्रुतेः ॥२५॥





 ३.२६


स एष नेति नेतीति व्याख्यातं निह्नुते यतः ।
सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते ॥ ३.२६ ॥




भाष्य ३.२६
सर्वविशेषप्रतिषेधेन"अथात आदेशो नेति नेति"(बृ.उ.२ । ३ । ६) इति प्रतिपादितस्यात्मनो दुर्बोध्यत्वं मन्यमाना श्रुतिः पुनः पुनरुपायान्तरत्वेन तस्यैव प्रतिपिपादयिषया यद्व्याख्यातं तत्सर्वं निह्नते, ग्राह्यं जनिमद्बुद्धिविषयमपलपति ।
अर्थात्"स एष नेति नेति"(बृ.उ.३ । १ । २६) इत्यात्मनोऽदृश्यतां दर्शयन्ती श्रुतिः

उपायस्योपेयनिष्ठतामजानत उपायत्वेन व्याख्यातस्योपेयवद्ग्राह्यता मा भूदित्यग्राह्यभावेन हेतुना कारणेन निह्नुत इत्यर्थः ।
ततश्चैवमुपायस्योपेयनिष्ठतामेव जानत उपेयस्य च नित्यैकरूपत्वमिति तस्यसबाह्याभ्यन्तरमजमात्मतत्त्वं प्रकाशते स्वयमेव ॥२६॥





 ३.२७

एवं हि श्रुतिवाक्यशतैः सबाह्याभ्यन्तरमजमात्मतत्त्वमद्वयं न ततोऽन्यदस्तीति निश्चितमेतत् ।
युक्त्या चा७ हुनैतदेव पुनर्निर्धार्यत इत्याह


सतो हि मायया जन्म युज्यते न तु तत्त्वतः ।
तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ ३.२७ ॥




भाष्य ३.२७
तत्रैतत्स्यात्सदाग्राह्यमेव चेदसदेवात्मतत्त्वमिति ।
तन्न, कार्यग्रहणात् ।
यथा सतो मायाविनो मायया जन्म कार्यम् ।
एवं जगतो जन्म कार्यं गृह्यमाणं मायाविनमिव परमार्थसन्तमात्मानं जगज्जन्ममायास्पदमवगमयति ।
यस्मात्सतो हि विद्यमानात्कारणान्मायानिर्मितस्य हस्त्यादिकार्यस्येव जगज्जन्म युज्यते नासतः कारणात् ।
न तु तत्त्वत एवात्मनो जन्म युज्यते ।

अथ वा सतो विद्यमानस्य वस्तुनो रज्ज्वादेः सर्पादिवन्मायया जन्म युज्यते न तु तत्त्वतो यथा तथाग्राह्यस्यापि सत एवात्मनो रज्जुसर्पवज्जगद्रूपेण मायया जन्म युज्यते ।
न तु तत्त्वत एवाजस्यात्मनो जन्म ।

यस्य पुनः परमार्थसदजमात्मतत्त्वं जगद्रूपेण जायते वादिनो नहि तस्याजं जायत इति शक्यं वक्तुं विरोधात् ।
ततस्तस्यार्थाज्जातं जायत इत्यापन्नं ततश्चानवस्था जाताज्जायमानत्वेन ।
तस्मादजमेकमेवात्मतत्त्वमिति सिद्धम् ॥२७॥





 ३.२८

असतो मायया जन्म तत्त्वतो नैव युज्यते ।
वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥ ३.२८ ॥




भाष्य ३.२८
असद्वादिनामसतो भावस्य मायया तत्त्वतो वा न कथञ्चन जन्म युज्यते, अदृष्टत्वात् ।
न हि वन्ध्यापुत्रो मायया तत्त्वतो वा जायते तस्मादत्रासद्वादो दूरत एवानुपपन्ने७ यर्थः ॥२८॥





 ३.२९

कथं पुनः सतो माययैव जन्मेत्युच्यते


यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः ।
तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ ३.२९ ॥




भाष्य ३.२९
यथा रज्ज्वां विकल्पितः सर्पो रज्जुरूपेणावेक्ष्यमाणः सन्नेवं मनः परमार्थविज्ञप्त्यात्मरूपेणावेक्ष्यमाणं सद्ग्राह्यग्राहकरूपेण द्वयाभासं स्पन्दते स्वप्ने मायया, रज्ज्वामिव सर्पः ।
तथा तद्वदेव जाग्रज्जागरिते स्पन्दते मायया मनः स्पन्दत इवेत्यर्थः ॥२९॥





 ३.३०

अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः ।
अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ३.३० ॥




भाष्य ३.३०
रज्जुरूपेण सर्प इव परमार्थत आत्मरूपेणाद्वयं सद्द्वयाभासं मनः स्वप्ने न संशयः ।
न हि स्वप्ने हस्त्यादि ग्राह्यं तद्ग्राहकं वा चक्षुरादिद्वयं विज्ञानव्यतिरेकेणास्ति ।
जाग्रदपि तथैवेत्यर्थः ।

परमार्थसद्विज्ञानमात्राविशेषात् ॥३०॥





 ३.३१

रज्जुसर्पवद्विकल्पनारूपं द्वैतरूपेण मन एवेत्युक्तम् ।
तत्र किं प्रमाणमित्यन्वयव्यतिरेकलक्षणमनुमानमाह ।
कथम्


मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम् ।
मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३.३१ ॥




भाष्य ३.३१
तेन हि मनसा विकल्प्यमानेन दृश्यं मनोदृश्यमिदं द्वैतं सर्वं मन इति प्रतिज्ञा ।
तद्भावे भावात्तदभावेऽभावात् ।
मनसो ह्यमनीभावे निरोधे विवेकदर्शनाभ्यासवैराग्याभ्यां रज्ज्वामिव सर्पे लयं गते वा सुषुप्ते द्वैतं नैवोपलभ्यत इत्यभावात्सिद्धं द्वैतस्यासत्वमित्यर्थः ॥३१॥





 ३.३२

कथं पुनरमनीभावः? इत्युच्यते


आत्मसत्यानुबोधेन न संकल्पयते यदा ।
अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३.३२ ॥




भाष्य ३.३२
आत्मैव सत्यमात्मसत्यं मृत्तिकावत्"वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्"(छा.उ.६ । १ । ४) इति श्रुतेस्तस्य शास्त्राचार्योपदेशमन्ववबोध आत्मसत्यानुबोधः ।
तेन संकल्प्याभावतया न संकल्प्यते, दाह्याभावे ज्वलनमिवाग्नेः, यदा यस्मिन्काले तदा तस्मिन्कालेऽमनस्ताममनोभावं याति॑ ग्राह्याभावे तन्मनोऽग्रहं ग्रहणविकल्पनावर्जितमित्यर्थः ॥३२॥





 ३.३३

यद्यसदिदं द्वैतं केन स्वमजमात्मतत्त्वं विबुध्यते? इत्युच्यते


अकल्पमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते ।
ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ ३.३३ ॥




भाष्य ३.३३
अकल्पकं सर्वकल्पनावर्जितमत एवाजं ज्ञानं ज्ञप्तिमात्रं ज्ञेयेन परमार्थसता ब्रह्मणाभिन्नं प्रचक्षते कथयन्ति ब्रह्मविदः ।
न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽग्न्युष्णवत्"विज्ञानमानन्दं ब्रह्म"(बृ.उ.३ । ९ । २८) "सत्यं ज्ञानमनन्तं ब्रह्म"(तै.उ.२ । १) इत्यादिश्रुतिभ्यः ।

तस्यैव विशेषणं ब्रह्म ज्ञेयं यस्य स्वस्य तदिदं ब्रह्मज्ञेयमौष्ण्यस्येवाग्निवदभिन्नम् ।
तेनात्मस्वरूपेणाजेन ज्ञानेनाजं ज्ञेयमात्मतत्त्वं स्वयमेव विबुध्यतेऽवगच्छति ।
नित्यप्रकाशस्वरूप इव सविता नित्यविज्ञानैकरसघनत्वान्न ज्ञानान्तरमपेक्षत इत्यर्थः ॥३३॥





 ३.३४

आत्मसत्यानुबोधेन सङ्कल्पमकुर्वद्बाह्यविषयाभावे निरिन्धनाग्निवत्प्रशान्तं निगृहीतं निरुद्धं मनो भवतीत्युक्तम् ।
एवं च मनसो ह्यमनीभावे द्वैताभावश्चोक्तः ।
तस्यैवम्


निगृहीतस्य मनसो निर्विकल्पस्य धीमतः ।
प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ ३.३४ ॥



भाष्य ३.३४
निगृहीतस्य निरुद्धस्य मनसो निर्विकल्पस्य सर्वकल्पनावर्जितस्य धीमतो विवेकवतः प्रचारो यः स तु प्रचारो विशेषेण ज्ञेयो योगिभिः ।
ननु सर्वप्रत्ययाभावे यादृशः सुषुप्तस्थस्य मनसः प्रचारस्तादृश एव निरुद्धस्यापि प्रत्ययाभावाविशेषात्किं तत्र विज्ञेयमिति ।
अत्रोच्यते नैवम्॑ यस्मात्सुषुप्तेऽन्यः प्रचारोऽविद्यामोहतमोग्रस्तस्यान्तर्लीनानेकानर्थप्रवृत्तिबीजवासनावतो मनस आत्मसत्यानुबोधहुताशविप्लुष्टाविद्यानर्थप्रवृत्तिबीजस्य निरुद्धस्यान्य एव प्रशान्तसर्वक्लेशरजसः स्वतन्त्रः प्रचारः ।
अतो न तत्समः ।
तस्माद्युक्तः स विज्ञातुमित्यभिप्रायः ॥३४॥





 ३.३५

प्रचारभेदे हेतुमाह


लीयते हि सुषुप्ते तन्निगृहीतं न लीयते ।
तदेव निर्भयं ब्रह्म ज्ञानलोकं समन्ततः ॥ ३.३५ ॥




भाष्य ३.३५
लीयते सुषुप्तो हि यस्मात्सर्वाभिरविद्यादिप्रत्ययबीजवासनाभिः सह तमोरूपमविशेषरूपं बीजभावमापद्यते तद्विवेकविज्ञानपूर्वकं निरुद्धं निगृहीतं सन्न लीयते तमोबीजभावं नापद्यते ।
तस्माद्युक्तः प्रचारभेदः सुषुप्तस्य समाहितस्य मनसः ।

यथा ग्राह्यग्राहकाविद्याकृतमलद्वयवर्जितं तदा परमद्वयं ब्रह्मैव तत्संवृत्तमित्यतस्तदेव निर्भयं द्वैतग्रहणस्य भयनिमित्तस्याभावत् ।
शान्तमभयं ब्रह्म, यद्विद्वान्न बिभेति कुतश्चन ।

तदेव विशेष्यते ज्ञाप्तिर्ज्ञानमात्मस्वभावचैतन्यं तदेव ज्ञानमालोकः प्राकाशो यस्य तद्ब्रह्म ज्ञानालोकं विज्ञानैकरसघनमित्यर्थः ।
समन्ततः समन्तासर्वतो व्योमवन्नैरन्तर्येण व्यापकमित्यर्थः ॥३५॥




 ३.३६

अजमनिन्द्रमस्वप्नमनामकमरूपकम् ।
सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन ॥ ३.३६ ॥




भाष्य ३.३६
जन्मनिमित्ताभावात्सबाह्याभ्यन्तरमजम् ।
अविद्यानिमित्तं हि जन्म रज्जुसर्पवदित्यवोचाम ।
सा चाविद्यात्मसत्यानुबोधेन निरुद्धा यतोऽजमत एवानिद्रम् ।
अविद्यालक्षणानादिर्माया निद्रा ।
स्वापात्प्रबुद्धौऽद्वैयस्वरूपेणात्मनातोऽस्वप्नम् ।
अप्रबोधकृते ह्यस्यनामरूपे ।
प्रबोधाच्च ते रज्जुसर्पवद्विनष्ठ इति न नाम्नाभिधीयते ब्रह्म रूप्यते वा न केनचित्प्रकारेणेत्यनामकरूपकं च तत् ।
"यतो वाचो निवर्तन्ते"(तै.उ.२ । ४ । १) इत्यादिश्रुतेः ।

किं च सकृद्विभातं सदैव विभातं सदा भारूपमग्रहणान्यथाग्रहणाविर्भावतिरोभाववर्जितत्वात् ।
ग्रहणाग्रहणे हि रात्र्यहनी तमश्चाविद्यालक्षणं सदाप्रभातत्वे कारणम् ।
तदभावान्नित्यचैतन्यभारूपत्वाच्च युक्तं सकृद्विभातमिति ।
अत एव सर्वं च तज्ज्ञस्वरूपं चेति सर्वज्ञम् ।
नेह ब्रह्मण्येवंविध उपचरणमुपचारः कर्तव्यः ।
यथान्येषामात्मस्वरूपव्यतिरेकेण समाधानाद्युपचारः ।
नित्यशुद्धबुद्धमुक्तस्वभावत्वाद्ब्रह्मणः कथञ्चन न कथञ्चिदपि कर्तव्यसंभवोऽविद्यानाश इत्यर्थः ॥३६॥





 ३.३७

अनामकत्वाद्युक्तार्थसिद्धये हेतुमाह


सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः ।
सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ ३.३७ ॥



भाष्य ३.३७
अभिलप्यतेऽनेनेत्यभिलापो वाक्करणं सर्वप्रकारस्याभिधानस्य, तस्माद्विगतः ।
वागत्रोपलक्षणार्था सर्वब्रह्मकरणवर्जित इत्येतत् ।
तथा सर्वचिन्तासमुत्थितः ।
चिन्त्यतेऽनयेति चिन्ता बुद्धिस्तस्याः समुत्थितोऽन्तः करणवर्जित इत्यर्थः"अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः" (मु.उ.२ । १ । २) इत्यादिश्रुतेः ।
यस्मात्सर्वविषयवर्जितोऽतः सुप्रशान्तः, सकृज्ज्योतिः सदैव ज्योतिरात्मचैन्यस्वरूपेण, समाधिः समाधिनिमित्तप्रज्ञावगम्यत्वात्, समाधीयतेऽस्मिन्निति वा समाधिः, अचलोऽविक्रियः, अत एवाभयो विक्रियाभावात् ॥३७॥





 ३.३८

यस्माद्ब्रह्मैव समाधिरचलोऽभय इत्युक्तः


ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते ।
आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ॥ ३.३८ ॥




भाष्य ३.३८
न तत्र तस्मिन्ब्रह्मणि ग्रहो ग्रहणमुपादानम्, नोत्सर्ग उत्सर्जनं हानं वा विद्यते ।
यत्र हि विक्रिया तद्विषयत्वं वा तत्र हानोपादाने स्यातां न तद्द्वयमिह ब्रह्मणि संभवति ।
विकारहेतोरन्यस्याभावान्निरवयवत्वाच्च ।
अतो न तत्र हानोपादान इत्यर्थः ।
चिन्ता यत्र न विद्यते ।
सर्वप्रकारैव चिन्ता न संभवति यत्रामनस्त्वात्कुतस्तत्र हानोपादान इत्यर्थः ।
यदैवात्मसत्यानुबोधो जातस्तदैवात्मसंस्थं विषयाभावादग्न्युष्णवदात्मन्येव स्थितं ज्ञानम्, अजाति जातिवर्जितम्, समतां गतं परं साम्यमापन्नं भवति ।
यदादौ प्रतिज्ञातमतो वक्ष्याम्यकार्पण्यमजाति समतां गतमितीदं तदुपपत्तितः शास्त्रतश्चोक्तमुपसंह्रियते, अजाति समतां गतमिति ।
एतस्मादात्मसत्यानुबोधात्कार्पण्यविषयमन्यत्"यो वै९ अदक्षरं गार्ग्यविदित्वास्माल्लौकात्प्रैति स कृपणः"(बृ.उ.३ । ८ । १०) इति श्रुतेः ।
प्राप्यैतत्सर्वः कृतकृत्यो ब्राह्मणो भवतीत्यभिप्रायः ॥३८॥




 ३.३९

यद्यपीदमित्थं परमार्थतत्त्वम्


अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः ।
योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥ ३.३९ ॥




भाष्य ३.३९
अस्पर्शयोगो नामायं सर्वसंबन्धाख्यस्पर्शवर्जितत्वादस्पर्शयोगो नाम वै स्मर्यते प्रसिद्धमुपनिषत्सु ।
दुःखेन दृश्यत इति दुर्दर्शः सर्वैर्योगिभिर्वेदान्तविहितविज्ञानरहितैः सर्वयोगिभिः ।
आत्मसत्यानुबोधायासलभ्य एवेत्यर्थः ।

योगिनो बिभ्यति ह्यस्मात्सर्वभयवर्जितादप्यात्मनाशरूपमिमं योगं मन्यमाना भयं कुर्वन्त्यभयेऽस्मिन्भयदर्शिनो भयनिमित्तात्मनाशदर्शनशीला अविवेकिन इत्यर्थः ॥३९॥





 ३.४०

येषां पुनर्ब्रह्मस्वरूपव्यतिरेकेण रज्जुसर्पवत्कल्पितमेव मन इन्द्रियादि च न परमार्थतो विद्यते तेषां ब्रह्मस्वरूपाणामभयं मोक्षाख्या चाक्षया शान्तिः स्वभावत एव सिद्धा नान्यायत्ता नोपचारः कथञ्चनेत्यवोचाम ।
ये त्वतोऽन्ये योगिनो मार्गगा हीनमध्यमदृष्टयो मनोऽन्यदात्मव्यतिरिक्तमात्संबन्धि पश्यन्ति तेषामात्मसत्यानुबोधरहितानाम्


मनसो निग्रहायत्तमभयं सर्वयोगिनाम् ।
दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च ॥ ३.४० ॥




भाष्य ३.४०
मनसो निग्रहायत्तमभयं सर्वेषां योगिनाम् ।
किं च दुःखक्षयोऽपि, न ह्यात्मसंबन्धिनि मनसि प्रचलिते दुःखक्षयोऽस्त्यविवेकिनाम् ।
किं चात्मप्रबोधोऽपि मनोनिग्रहायत्त एव ।
तथाक्षयापि मोक्षाख्या शान्तिस्तेषां मनोनिग्रहायत्तैव ॥४०॥





 ३.४१

उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना ।
मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ ३.४१ ॥




भाष्य ३.४१
मनोनिग्रहोऽपि तेषामुदधेः कुशाग्रेणैकबिन्दुनो९ सेचनेन शोषणव्यवसायवद्व्यवसायवतामनवसन्नान्तः करणानामनिर्वेदादपरिखेदतो भवतीत्यर्थः ॥४१॥





 ३.४२

किमपरिखिन्नव्यवसायमात्रमेव मनोनिग्रह उपायः? न, इत्युच्यते ।


उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः ।
सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ३.४२ ॥




भाष्य ३.४२
अपरिखिन्नव्यवसायवान्सन् वक्ष्यमाणेनोपायेन कामभोगविषयेषु विक्षिप्तं मनो निगृह्णीयान्निरुन्ध्यादात्मन्येवेत्यर्थः ।
किं च लीयतेऽस्मिन्निति सुषुप्तो लयस्तस्मिंल्लये च सुप्रसन्नमायासवर्जितं अपी७ येतत्, निगृह्णीयादित्यनुवर्तते ।

सुप्रसन्नं चेत्कस्मान्निगृह्यत इत्युच्यते ।
यस्माद्यथा कामोऽनर्थहेतुस्तथा लयोऽपि ।
अतः कामविषयस्य मनसो निग्रहवल्लयादपि निरोद्धव्यमित्यर्थः ॥४२॥





 ३.४३

कः स उपायः? इत्युच्यते


दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत् ।
अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ३.४३ ॥




भाष्य ३.४३
सर्वं द्वैतमविद्याविजृम्भितं दुःखमेवेत्यनुस्मृत्य कामभोगात्कामनिमित्तो भोग इच्छाविषयस्तस्माद्विप्रसृतं मनो निवर्तयेद्वैराग्यभावनयेत्यर्थः ।
अजं ब्रह्मसर्वमित्येतच्छास्त्राचार्योपदेशतोऽनुस्मृत्य तद्विपरीतं द्वैतजातं नैव तु पश्यति, अभावात् ॥४३॥





 ३.४४

लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः ।
सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ ३.४४ ॥




भाष्य ३.४४
एवमनेन ज्ञानाभ्यासवैराग्यद्वयोपायेन लये सुषुप्ते लीनं संबोधयेन्मन आत्मविवेकदर्शनेन योजयेत् ।
चित्तं मन इत्यनर्थान्तरम् ।
विक्षिप्तं च कामभोगेषु शमयेत्पुनः ।
एव पुनः पुनरभ्यस्यतो लयात्संबोधितं विषयेभ्यश्च व्यावर्तितं नापि साम्यापन्नमन्तरालावस्थं सकषायं सरागं बीजसंयुक्तं मन इति विजानीयात् ।
ततोऽपि यत्नतः साम्यमापादयेत् ।
यदा तु समप्राप्तं भवति समप्राप्त्यभिमुखीभवतीत्यर्थः, ततस्तन्न विचालयेद्विषयाभिमुखं न कुर्यादित्यर्थः ॥४४॥





 ३.४५

नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् ।
निश्चलं निश्चरच्चित्तमेकीकुर्यात्प्रयत्नतः ॥ ३.४५ ॥




भाष्य ३.४५
समाधित्सतो योगिनो यत्सुखं जायते तन्नाखादयेत्, तत्र न रज्येतेत्यर्थः ।
कथं तर्हि? निःसङ्गो निःस्पृहः प्रज्ञया विवेकबुद्ध्या यदुपलभ्यते सुखं तदविद्यापरिकल्पितं मृषैवेति विभावयेत् ।
ततोऽपि सुखरागान्निगृह्णीयादित्यर्थः ।

यथा पुनः सुखरागान्निवृत्तं निश्चलस्वभावं सन्निश्चरद्बहिर्निर्गच्छद्भवति चित्तं ततस्ततो नियम्योक्तोपायेनात्मन्येवैकीकुर्यात्प्रयत्नतः ।
चित्तस्वरूपसत्तामात्रमेवापादयेदित्यर्थः ॥४५॥





 ३.४६

यदा न लीयते चित्तं न च विक्षिप्यते पुनः ।
अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ३.४६ ॥




भाष्य ३.४६
यथोक्तोपायेन निगृहीतं चित्तं यदा सुषु”ए न ™ईयतेन च पुनर्विषयेषुविक्षिप्यते, अनिङ्गनमचलं निवातप्रदीपकल्पम्, अनाभासं न केनचित्कल्पितेन विषयभावेनावभासत इति, यदैवंलक्षणं चित्तं तदा निष्पन्नं ब्रह्म बह्मस्वरूपेण निष्पन्नं चित्तं भवतीत्यर्थः ॥४६॥




 ३.४७

स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् ।
अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ ३.४७ ॥




भाष्य ३.४७
यथोक्तं परमार्थसुखमात्मसत्यानुबोधलक्षणं स्वस्थं स्वात्मनि स्थितम्, शान्तं सर्वानर्थोपशमरूपम्, सनिर्वाणं निर्वृतिनिर्माणं कैवल्यं सह निर्वाणेन वर्तते, तच्चाकथ्यं न शक्यते कथयितुम्, अत्यन्तासाधारणविषयत्वात्, सुखमुत्तमं निरतिशयं हि तद्योगिप्रत्यक्षमेव ।
न जातमित्यजं यथा विषयविषयम् ।
अजेनानुत्पन्नेन ज्ञेयेनाव्यतिरिक्तं सत्स्वेन सर्वज्ञरूपेण सर्वज्ञं ब्रह्मैव सुखं परिचक्षते कथयन्ति ब्रह्मविदः ॥४७॥





 ३.४८

सर्वोऽप्ययं मनोनिग्रहादिर्मृल्लोहादिवत्सृष्टिरुपासना चोक्ता परमार्थस्वरूपप्रतिपत्युपायत्वेन न परमार्थसत्येति ।
परमार्थसत्यं तु


न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते ।
एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ३.४८ ॥




भाष्य ३.४८
न कश्चिज्जायते जीवः कर्ता भोक्ता च नोत्पद्यते केनचिदपि प्रकारेण ।
अतः स्वभावतोऽजस्यास्यैकस्यात्मनः संभवः कारणं न विद्यते नास्ति ।
यस्मान्न विद्यतेऽस्य कारणं तस्मान्न कश्चिज्जायते जीव इत्येतत् ।
पूर्वेषूपायत्वेनोक्तानां सत्यानामेतत्तदुत्तमं सत्यं यस्मिन्सत्यस्वरूपे ब्रह्मण्यणुमात्रमपि किञ्चिन्न जायत इति ॥४८॥





अलातशान्तिप्रकरणम्[सम्पाद्यताम्]

ओंकारनिर्णयद्वारेणागमतः प्रतिज्ञातस्याद्वैतस्य बाह्यविषयभेदवैतथ्याच्च सिद्धस्य पुनरद्वैते शास्त्रयुक्तिभ्यां साक्षान्निर्धारितस्यैतदुत्तमं सत्यमित्युपसंहारः कृतोऽन्ते ।
तस्यैतत्यागमार्थस्याद्वैतदर्शनस्य प्रतिपक्षभूता द्वैतिनो वैनाशिकाश्च तेषां चान्योन्यविरोदाद्रागद्वेषादिक्लेशास्पदं दर्शनमिति मिथ्यादर्शनत्वं सूचितम् ।
क्लेशानास्पदत्वात्सम्यग्दर्शनमित्यद्वैतदर्शनं स्तूयते ।
तदिह विस्तरेणान्योन्यविरुद्धतयासम्यग्दर्शनत्वं प्रदर्श्य तत्प्रतिषेधेनाद्वैतदर्शनसिद्धिरुपसंहर्तव्यावीतन्यायेनेत्यलातशान्दिरारभ्यते ।





 ४.१

तत्राद्वैतदर्शनसम्प्रदायकर्तुरद्वैतस्वरूपेणैव नमस्कारार्थोऽयमाद्यश्लोकः ।
आचार्यपूजा ह्यभिप्रेतार्थसिद्ध्यर्थेष्यते शास्त्रारम्भे ।


ज्ञानेनाकाशकल्पेन धर्मान्यो गगनोपमान् ।
ज्ञेयाभिन्नेन संबुद्धस्तं वन्दे द्विपदां वरम् ॥ ४.१ ॥




भाष्य ४.१
आकाशेनेषदसमाप्तमाकाशकल्पमाकाशतुल्यमेतत् ।
तेनाकाशकल्पेन ज्ञानेन, किम्? धर्मानात्मनः, किंविशिष्टान्गगनोपमान्गगनमुपमा येषां ते गगनोपमास्तानात्मनो धर्मान् ।
ज्ञानस्यैव पुनर्विशेषणं ज्ञेयैर्धर्मैरात्मभिरभिन्नमग्न्युष्णवत्सवितृप्रकाशवच्च ज्ञानं तेन ज्ञेयाभिन्नेन ज्ञानेनाकाशकल्पेन ज्ञेयात्मस्वरूपाव्यतिरिक्तेन गगनोपमान्धर्मान्यः संबुद्धः संबुद्धवानिति, अयमेवेश्वरो यो नारायणाख्यस्तं वन्देऽभिवादये द्विपदां वरं द्विपदोपलक्षितानां पुरुषाणां वरं प्रधानं पुरुषोत्तममित्यभिप्रायः ।

उपदेष्टृनमस्कारमुखेन ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थदर्शनमिह प्रकरणे प्रतिपिपादयिषितं प्रतिपक्षप्रतिषेधद्वारेण प्रतिज्ञातं भवति ॥१॥





 ४.२

अधुना९ वैतदर्शनयोगस्य नमस्कारस्तत्स्तुतये


अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः ।
अविवादोऽविरुद्धश्च देशितस्तं नमाम्यहम् ॥ ४.२ ॥




भाष्य ४.२
स्पर्शनं स्पर्शः सम्बन्धो न विद्यते यस्य योगस्य केनचित्कदाचिदपि स अस्पर्शयोगो ब्रह्मस्वभाव एव, वै नामेति ब्रह्मविदामस्पर्शयोग इत्येवंप्रसिद्ध इत्यर्थः ।
स च सर्वसत्त्वसुखः ।
भवति कश्चिदत्यन्तसुखसाधनविशिष्टोऽपि दुःखरूपः, यथा तपः ।
अयं तु न तथा ।
किं तर्हि सर्वसत्त्वानां सुखः ।

तथेह भवति कश्चिद्विषयोपभोगः सुखो न हितोऽयं तु सुखो हितश्च नित्यमप्रचलितस्वभावत्वात्किं चाविवादो विरुद्ध वदनं विवादः पक्षप्रतिपक्षपरिग्रहेण यस्मिन्न विद्यते स अविवादः ।
कस्मात्? यतोऽविरुद्धश्च ।
य ईदृशो योगो देशित उपदिष्टः शास्त्रेण तं नमाम्यहं प्रणमामीत्यर्थः ॥२॥





 ४.३

कथं द्वैतिनः परस्परं विरुध्यन्ते? इत्युच्यते ।

भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि ।
अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥ ४.३ ॥




भाष्य ४.३
भूतस्य विद्यमानस्य वस्तुनो जातिमुत्पत्तिमिच्छन्ति वादिनः केचिदेव हि सांख्या न सर्वं एव द्वैतिनः ।
यस्मादभूतस्याविद्यमानस्यापरे वैशेषिका नैयायिकाश्च धीरा धीमन्तः प्रज्ञाभिमानिन इत्यर्थो विवदन्तो विरुद्धं वदन्तो ह्यन्येन्यमिच्छन्ति जेतुमित्यभिप्रायः ॥३॥





 ४.४

तैरेवं विरुद्धवदनेनान्योन्यपक्षप्रतिषेधं कुर्वद्भिः किं ख्यापितं भवत्युच्यते


भूतं न जायते किञ्चिदभूतं नैव जायते ।
विवदन्तोऽद्वया ह्येवमजातिं ख्यापयन्ति ते ॥ ४.४ ॥




भाष्य ४.४
भूतं विद्यमानं वस्तु न जायते किञ्चिद्विद्यमानत्वादेवात्मवदित्येवं वदन्नसद्वादी सांख्यपक्षं प्रतिषेधति सज्जन्म ।
तथाभूतमविद्यमानमविद्यमानत्वान्नैव जायते शशविषाणवदित्येवं वदन्सांख्योऽप्यसद्धादिपक्षमसज्जन्म प्रतिषेधति ।
विवदन्तो विरुद्धं वदन्तोऽद्वया अद्वैतिनो ह्येतेऽन्योन्यस्य पक्षौ सदसतोर्जन्मनी प्रतिषेधन्तोऽजातिमनुत्पत्तिमर्थात्ख्यापयन्ति प्रकाशयन्ति ते ॥४॥





 ४.५


ख्याप्यमानामजातिं तैरनुमोदामहे वयम् ।
विवदामो न तैः सार्धमविवादं निबोधत ॥ ४.५ ॥




भाष्य ४.५
तैरेवं ख्याप्यमान
ामजातिमेवमस्त्वित्यनुमोदामहे केवलं न तैः सार्धं विवदामः पक्षप्रतिपक्षग्रहणेन॑ यथा तेऽन्योन्यमित्यभिप्रायः ।
अतस्तमविवादं विवादरहितं परमार्थदर्शनमनुज्ञातमस्माभिर्निबोधत हे शिष्याः ॥५॥





 ४.६


अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः ।
अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥ ४.६ ॥




भाष्य ४.६
सदसद्वादिनः सर्वेऽपीति पुरस्तात्कृतभाष्यश्लोकः ॥६॥





 ४.७८


न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।
प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ ४.७ ॥


स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् ।
कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ ४.८ ॥




भाष्य ४.७८
उक्तार्थानां श्लोकानामिहोपन्यासः परवादिपक्षाणामन्योन्यविरोधख्यापितानुत्पत्यनुमोदनप्रदर्शनार्थः ॥७८॥





 ४.९

यस्माल्लौकिक्यपि प्रकृतिर्न विपर्येति, कासावित्याह


सांसिद्धिकी स्वाभाविकी सहजा अकृता च या ।
प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥ ४.९ ॥




भाष्य ४.९
सम्यक्सिद्धिः संसिद्धिस्तत्र भवा सांसिद्धिकी यथा योगिनां सिद्धानामणिमाद्यैश्वर्यप्राप्तिः प्रकृतिः ।
सा भूतभविष्यत्कालयोरपि योगिनां न विपर्येति तथैव सा ।
तथा स्वाभाविकी द्रव्यस्वभावत एव यथाग्न्यादीनामुष्णप्रकाशादिलक्षणा, सापि न कालान्तरे व्यभिचरति देशान्तरे च ।
तथा सहजा आत्मना सहैव जाता यथा पक्ष्यादीनामाकाशगमनादिलक्षणा ।

अन्यापि या काचिदकृता केनचिन्न कृता यतापां निम्नदेशगमनादिलक्षणा ।
अन्यापि या काजित्स्वभावं न जहाति सा सर्वा प्रकृतिरिति विज्ञेया लोके ।
मिथ्याकल्पितेषु लौकिकेष्वपि वस्तुषु प्रकृतिर्नान्यथा भवति किमुताजस्वभावेषु परमार्थवस्तुष्वमृतत्वलक्षणा प्रकृतिर्नान्यथा भवतीत्यभिप्रायः ॥९॥





 ४.१०
किंविषया पुनः सा प्रकृतिर्यस्या अन्यथाभावो वादिभिः कल्प्यते कल्पनायां वा को दोष इत्याह


जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः ।
जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ ४.१० ॥




भाष्य ४.१०
जरामरणनिर्मुक्ताः जरामरणादिसर्वविक्रियावर्जिता इत्यर्थः ।
के ? सर्वे धर्माः सर्व आत्मान इत्येतत्स्वभावतः प्रकृतितः ।
एवंस्वभावाः सन्तो धर्माजरामरणमिच्छन्त इच्छन्त इवेच्छन्तोरज्ज्वामिव सर्पमात्मनि कल्पयन्तश्च्यवन्ते स्वभावतश्चलन्तीत्यर्थः, तन्मनीषया जन्ममरणचिन्तया तद्भावभावितत्वादोषेणेत्यर्थः ॥१०॥




 ४.११

कथं सज्जातिवादिभिः सांख्यैरनुपपन्नमुच्यत इत्याह वैशेषिकः


कारणं यस्य वै कार्यं कारणं तस्य जायते ।
जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ४.११ ॥




भाष्य ४.११
कारणं मृद्वदुपादानलक्षणं यस्य वादिनो वै कार्यं कारणमेव कार्याकारेण परिणमते यस्य वादिन इत्यर्थः, तस्याजमेव सत्प्राधानादि कारणं महदादिकार्यरूपेण जायत इत्यर्थः ।
महदाद्याकारेण चेज्जायमानं प्रधानं कथमजमुच्यते तैर्विप्रतिषिद्धं चेदं जायतेऽजं चेति ।

नित्यं च तैरुच्यते प्रधानं भिन्नं विदीर्णं स्फुटितमेकदेशेन सत्कथं नित्यं भवेदित्यर्थः ।
न हि सावयवं घटाद्येकदेशस्फुटनधर्मि नित्यं दृष्टं लोक इत्यर्थः ।
विदीर्णं च स्यादेकदेशेनाजं नित्यं चेत्येतद्विप्रतिषिद्धं तैरभिधीयत इत्यभिप्रायः ॥११॥





 ४.१२

उक्तस्यैवार्थस्य स्पष्टीकरणार्थमाह


कारणाद्यद्यनन्यत्वमतः कार्यमजं यदि ।
जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम् ॥ ४.१२ ॥




भाष्य ४.१२
कारणादजात्कार्यस्य यद्यनन्यत्वमिष्टं त्वया ततः कार्यमजमिति प्राप्तम् ।
इदं चान्यद्विप्रतिषिद्धं कार्यमजं चेति तव ।
किं चान्यत्कार्यकारणयोनन्यत्वे जायमानाद्धि वै कार्यकारणमनन्यन्नित्यं ध्रुवं च ते कथं भवेत् ।
न हि कुक्कुट्या एकदेशः पच्यत एकदेशः प्रसवाय कल्प्यते ॥१२॥





 ४.१३

किं चान्यम्


अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै ।
जाताच्च जायामानस्य न व्यवस्था प्रसज्यते ॥ ४.१३ ॥




भाष्य ४.१३
अजादनुत्पन्नाद्वस्तुनो जायते यस्य वादिनः कार्यं दृष्टान्त्तस्तस्य नास्ति वै, दृष्टान्ताभावेर्ऽथादजान्न किञ्चिज्जायत इति सिद्धं भवतीत्यर्थः ।
यदा पुनर्जाताज्जायमानस्य वस्तुनोऽभ्युपगमस्तदप्यन्यस्माज्जातात्तदप्यन्यस्मादिति न व्यावस्था प्रसज्यते ।
अनवस्थानं स्यादित्यर्थः ॥१३॥





 ४.१४

"यत्र त्वस्य सर्वमात्मैवाभूत्"(बृ.उ.२ । ४ । १८) इति परमार्थतो द्वैताभावः श्रुत्योक्तस्तमाश्रित्याह


हेतोरादिः फलं येषामादिर्हेतुः फलस्य च ।
हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते ॥ ४.१४ ॥




भाष्य ४.१४
हेतोर्धर्मादेरादिः कारणं देहादिसंघातः फलं येषां वादिनाम् ।
तथादिः कारणं हेतुर्धर्माधर्मादिः फलस्य च देहादिसंघातस्य ।
एवं हेतुफलयोरितरेतरकार्यकारणत्वेनादिमत्त्वं ब्रुवद्भिरेवं हेतोः फलस्य चानादित्वं कथं तैरुपवर्ण्यते? विप्रतिषिद्धमित्यर्थः ।
न हि नित्यस्य कूटस्थस्यात्मनो हेतुफलात्मता सम्भवति ॥१४॥





 ४.१५

कथं तैर्विरुद्धमभ्युपगम्यत इत्युच्यते


हेतोरादिः फलं येषामादिर्हेतुः कलस्य च ।
तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा ॥ ४.१५ ॥




भाष्य ४.१५
हेतुजन्यादेव फलाद्धेतोर्जन्माभ्युपगच्छतां तेषामीदृशो विरोध उक्तो भवति यथा पुत्राज्जन्म पितुः ॥१५॥





 ४.१६

यथोक्तो विरोधो न युक्तोऽभ्युपगन्तुमिति चेन्मन्यसे


संभवे हेतुफलयोरेषितव्यः क्रमस्त्वया ।
युगपत्संभवे यस्मादसंबन्धो विषाणवत् ॥ ४.१६ ॥




भाष्य ४.१६
संभवे हेतुफलयोरुत्पत्तौ क्रम एषितव्यस्त्वयान्येष्टव्यो हेतु ॑ पूर्वं पश्चात्फलं चेति ।
इतश्च युगपत्संभवे यस्माद्धेतुफलयोः कार्यकारणत्वेनासंबन्धः, यथा युगपत्संभवतोः सव्येतरगोविषाणयोः ॥१६॥





 ४.१७

कथमसंबन्धः? इत्याह


फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति ।
अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति ॥ ४.१७ ॥




भाष्य ४.१७
जन्यात्स्वतोऽलब्धात्मकात्फलादुत्पद्यमानः सञ्शशविषाणादेरिवासतो न हेतुः प्रसिध्यति जन्म न लभते ।
अलब्धात्मकोऽप्रसिद्धः सञ्शशविषाणादिकल्पस्तव कथं फलमुत्पादयिष्यति? न हीतरेतरापेक्षसिद्ध्योः शशविषाणकल्पयोः कार्यकारणभावेन संबन्धः क्वचिद्दृष्टः, अन्यथा वेत्यभिप्रायः ॥१७॥





 ४.१८


यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः ।
कतरत्पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया ॥ ४.१८ ॥




भाष्य ४.१८
असंबन्धतादोषेणापोदितेऽपि हेतुफलयोः कार्यकारणभावे यदि हेतुफलयोरन्योन्यसिद्धिरभ्युपगम्यत एव त्वया कतरत्पूर्वनिष्पन्नं हेतुफलयोर्यस्य पश्चाद्भाविनः सिद्धिः स्यात्पूर्वसिद्ध्यपेक्षया तद्ब्रूहीत्यर्थः ॥१८॥





 ४.१९

अथैतन्न शक्यते वक्तुमिति मन्यसे


अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः ।
एवं हि सर्वथा बुद्धैरजातिः परिदीपिता ॥ ४.१९ ॥




भाष्य ४.१९
सेयमशक्तिरपरिज्ञानं तत्त्वाविवेको मूढतेत्यर्थः ।
अथ वा योऽयं त्वयोक्तः क्रमो हेतोः फलस्य सिद्धिः फलाच्च हेतोः सिद्धिरितीतरेतरानन्तर्यलक्षणस्तस्य कोपो विपर्यासोऽन्यथाभावः स्यादित्यभिप्रायः ।
एवं हेतुफलयोः कार्यकारणभावानुपपत्तेरजातिः सर्वस्यानुत्पत्तिः परिदीपिता प्रकाशितान्योन्यपक्षदोषं ब्रुवद्भिर्वादिभिर्बुद्धैः पण्डितैरित्यर्थः ॥१९॥




 ४.२०

ननु हेतुलयोः कार्यकारणभाव इत्यस्माभिरुक्तं शब्दमात्रमाश्रित्य च्छलमिदं त्वयोक्तं पुत्राज्जन्म पितुर्यथा, विषाणवच्चासंबन्ध इत्यादि ।
न ह्यस्माभिरसिद्धाद्धेतोः फलसिद्धिरसिद्धाद्वा फलाद्धेतुसिद्धरभ्युपगता ।
किं तर्हि? बीजाङ्कुरवत्कार्यकारणभावोऽभ्युपगम्यत इति ।

अत्रोच्यते


बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि स ।
न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ ४.२० ॥




भाष्य ४.२०
बीजाङ्कुराख्या दृष्टान्तो यः स साध्येन तुल्यो ममेत्यभिप्रायः ।
ननु प्रत्यक्षः कार्यकारणभावो बीजाङ्कुरयोरनादिः? न, पूर्वस्य पूर्वस्यापरवदादिमत्त्वाभ्युपगमात् ।
यथेदानीमुत्पन्नोऽपरोऽङ्कुरो बीजादादिमान्बीजं चापरमन्यस्मादङ्कुरादिति क्रमेणोत्यन्नत्वादादिमत् ।
एवं पूर्वः पूर्वोऽङ्कुरो बीजं च पूर्वं पूर्वमादिमदेविति प्रत्येकं सर्वस्य बीजाङ्कुरजातस्यादिमत्त्वात्कस्यचिदप्यनादित्वानुपपत्ति ।
एवं हेतुफलानाम् ।

अथ बीजाङ्कुरसन्ततेरनादिमत्त्वमिति चेत्? न, एकत्वानुपपत्तेः ।
न हि बीजाङ्कुरव्यतिरेकेण बीजाङ्कुरसन्ततिर्नामैकाभ्युपगम्यते हेतुफलसन्ततिर्वा तदनादित्ववादिभिस्तस्मात्सूक्तं हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यत इति ।
तथा चान्यदप्यनुपपत्तेर्नच्छलमित्यभिप्रायः ।
न च लोके साध्यसमो हेतुः साध्यसिद्धौ सिद्धिनिमित्तं प्रयुज्यते प्रमाणकुशलैरित्यर्थः ।
हेतुरिति दृष्टान्तोऽत्राभिप्रेतः, गमकत्वात् ।
प्रकृतो हि दृष्टान्तो न हेतुरिति ॥२०॥





 ४.२१
कथं बुद्धैरजातिः परिदीपितेत्याह


पूर्वापरापरिज्ञानमजातेः परिदीपकम् ।
जायमानाद्धि वै धर्मात्कथं पूर्वं न गृह्यते ॥ ४.२१ ॥




भाष्य ४.२१
यदेतद्धेतुफलयोः पूर्वापरापरिज्ञानं तच्चैतदजातेः परिदीपकमवबोधकमित्यर्थः ।
जायमानो हि चेद्धर्मो गृह्यते, कथं तस्मात्पूर्वं कारणं न गृह्यते ।
अवश्यं जायमानस्य ग्रहीत्रा तज्जनकं ग्रहीतव्यम् ।
जन्यजनकयोः संबन्धस्यानपेतत्वात् ।
तस्मादजातिपरिदीपकं तदित्यर्थः ॥२१॥





 ४.२२

इतश्च न जायते किञ्चित्, यज्जायमानं वस्तु


स्वतो वा परतो वापि न किञ्चिद्वस्तु जायते ।
सदसत्सदसद्वापि न किञ्चिद्वस्तु जायते ॥ ४.२२ ॥




भाष्य ४.२२
स्वतः परत उभयतो वा सदसत्सदसद्वा न जायते न तस्य केनचिदपि प्रकारेण जन्म संभवति ।
न तावत्स्वयमेवापरिनिष्पन्नात्स्वतः स्वरूपात्स्वयमेव जायते यथा घटस्तस्मादेव घटात् ।
नापि परतोऽन्यस्मादन्यो यथा घटात्पटः पटात्पटान्तरम् ।
तथा नोभयतः, विरोधात्॑ यथा घटपटाभ्यां घटः पटो वा न जायते ।

ननु मृदो घटो जायते पितुश्च पुत्रः ।
सत्यम्, अस्ति जायत इति प्रत्ययः शब्दश्च मूढानाम् ।
तावेव शब्दप्रत्ययौ विवेकिभिः परीक्ष्येते किं सत्यमेव तावुत मृषेति ।
यावता परीक्ष्यमाणे शब्दप्रत्यविषयं वस्तु घटपुत्रादिलक्षणं शब्दमात्रमेव तत् ।
"वाचारम्भणम्"(छा.उ.६ । १ । ४) इति श्रुतेः ।

सच्चेन्न जायते सत्त्वान्मृत्पित्रादिवद् ।
यद्यसत्तथापि न जायतेऽसत्त्वादेव शशविषाणादिवत् ।
अथ सदसत्तथापि न जायते विरुद्धस्यैकस्यासंभवात् ।
अतो न किञ्चद्वस्तु जायत इति सिद्धम् ।

येषां पुनर्जनिरेव जायत इति क्रियाकारकफलैकत्वमभ्युपगम्यते क्षणिकत्वं च वस्तुनः, ते दूरत एव न्यायापेताः ।
इदमित्थमित्यवधारणक्षणान्तरानवस्थानादननुभूतस्य स्मृत्यनुपपत्तेश्च ॥२२॥





 ४.२३

किं च हेतुफलयोरनादित्वमभ्युपगच्छता त्वया बलाद्धेतुफलयोरजन्मैवाभ्युपगतं स्यात् ।
तत्कथम्?


हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः ।
आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते ॥ ४.२३ ॥




भाष्य ४.२३
अनादेरादिरहितात्फलाद्धेतुर्न जायते ।
न ह्यनुत्पन्नादनादेः फलाद्धेतोर्जन्मेष्यते त्वया ।
फलं चादिरहितादनादेर्हेतोरजात्स्वभावत एव निर्निमित्तं जायत इति नाभ्युपगम्यते ।

तस्मादनादित्वमभ्युपगच्छता त्वया हेतुफलयोरजन्मावाभ्युपगम्यते ।
यस्मादादिः कारणं न विद्यते यस्य लोके तस्य ह्यादिः पूर्वोक्ता जातिर्न विद्यते ।
कारणवत एव ह्यादिरभ्युपगम्यते नाकारणवतः ॥२३॥




 ४.२४

उक्तस्यैवार्थस्य दृढीकरणचिकीर्षया पुनराक्षिपति


प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः ।
संक्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ ४.२४ ॥




भाष्य ४.२४
प्रज्ञानं प्रज्ञप्तिः शब्दादिप्रतीतिस्तस्याः सनिमित्तत्वम्॑ निमित्तं कारणं विषय इत्येतत्सन्निमित्तत्वं सविषत्वं स्वात्मव्यतिरिक्तविषयतेत्येतत्प्रतिजानीमहे ।
न हि निर्विषया प्रज्ञप्तिः शब्दादिप्रतीतिः स्यात्, तस्याः सनिमित्तत्वात् ।
अन्यथा निर्विषयत्वे शब्दस्पर्शनीलपीतलोहितादिप्रत्ययवैचित्र्यस्य द्वयस्य नाशतो नाशोऽभावः प्रसज्येतेत्यर्थः ।
न च प्रत्ययवैचित्र्यस्य द्वयस्याभावोऽस्ति प्रत्यक्षत्वात् ।
अतः प्रत्यवैचित्र्यस्य द्वयस्य दर्शानात्, परेषां तन्त्रं परतन्त्रमित्यन्यशास्त्रम्, तस्य परतन्त्रस्य परतन्त्राश्रयस्य बाह्यार्थस्य ज्ञानव्यतिरिक्तस्यास्थिता मताभिप्रेता ।

न हि प्रज्ञप्तेः प्रकाशमात्रस्वरूपाया नीलपीतादिबाह्यालम्बनवैचित्र्यमन्तरेण स्वभावभेदेनैव वैचित्र्यं संभवति ।
स्फटिकस्येव नीलाद्युपाध्याश्रयैर्विना वैचित्र्यं न घटत इत्यभिप्रायः ।

इतश्च परतन्त्राश्रयस्य बाह्यार्थस्य ज्ञानव्यतिरिक्तस्यास्तिता ।
संक्लेशनं संक्लेशो दुःखमित्यर्थः ।
उपलभ्यते ह्यग्निदाहादिनिमित्तं दुःखम् ।
यद्यग्न्यादिबाह्यं दाहादिनिमित्तं विज्ञानव्यतिरिक्तं न स्यात्ततो दाहादिदुःखं नोपलभ्यते ।
उपलभ्यते तु ।
अतस्तेन मन्यमहेऽस्ति बाह्योर्ऽथ इति ।
न हि विज्ञानमात्रे संक्लोशो युक्तः, अन्यत्रादर्शनादित्यभिप्रायः ॥२४॥





 ४.२५

अत्रोच्यते


प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् ।
निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात् ॥ ४.२५ ॥




भाष्य ४.२५
बाढमेवं प्रज्ञप्तेः सनिमित्तत्वं द्वयसंक्लेशोपलब्धियुक्तिदर्शनादिष्यते त्वया ।
स्थिरीभव तावत्त्वं युक्तिदर्शनं वस्तुनस्तथात्वाभ्युपगमे कारणमित्यत्र ।

ब्रूहि किं तत इति ।

उच्यते ।
निमित्तस्य प्रज्ञप्त्यालम्बनाभिमतस्य घटादेरनिमित्तत्वमनालम्बनत्वं वैचित्र्याहेतुत्वमिष्यतेऽस्माभिः ।
कथम्? भूतदर्शनात्परमार्थदर्शनादित्येतत् ।
न हि घटो यथाभूतमृद्रूपदर्शने सति तद्व्यतिरेकेणास्ति, यथाश्वान्महिषः पटो वा तन्तुव्यतिरेकेण, तन्तवश्चांशुव्यतिरेकेणेत्येवमुत्तरोत्तर भूतदर्शन आशब्दप्रत्ययनिरोधान्नैव निमित्तमुपलभामह इत्यर्थः ।

अथवा भूतदर्शनाद्बाह्यार्थस्यानिमित्तत्वमिष्यते, रज्ज्वादाविव सर्पादेरित्यर्थः ।
भ्रान्तिदर्शनविषयत्वाच्च निमित्तस्यानिमित्तत्वं भवेत् ।
तदभावेऽभावान्न हि सुषुप्तसमाहितमुक्तानां भ्रान्तिदर्शनाभाव आत्मव्यतिरिक्तो बाह्योर्ऽथ उपलभ्यते ।
न ह्युन्मत्तावगतं वस्त्वनुन्मत्तैरपि तथाभूतं गम्यते ।
एतेन द्वयदर्शनं संक्लेशोपलब्धिश्च प्रत्युक्ता ॥२५॥





 ४.२६

यस्मान्नास्ति बाह्यं निमित्तमतः


चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च ।
अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ ४.२६ ॥



भाष्य ४.२६
चित्तं न स्पृशत्यर्थं बाह्यालम्बनविषयम्, नाप्यर्थाभासं चित्तत्वात्स्वप्नचित्तवत् ।
अभूतो हि जागरितेऽपि स्वप्नार्थवदेव बाह्यः शब्दाद्यर्थो यत उक्तहेतुत्वाच्च ।
नाप्यर्थाभासश्चित्तात्पृथक्चित्तमेव हि घटाद्यर्थवदवभासते यथा स्वप्ने ॥२६॥





 ४.२७

ननु विपर्यासस्तर्ह्यसति घटादौ घटाद्याभासता चित्तस्य ।
तथा च सत्यविपर्यासः क्वचिद्वक्तव्य इति ।
अत्रोच्यते


निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु ।
अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ ४.२७ ॥




भाष्य ४.२७
निमित्तं विषयमतीतानागतवर्तमानाध्वसु त्रिष्वपि सदा चित्तं न स्पृशेदेव हि ।
यदि हि क्वचित्संस्पृशेत्स अविपर्यासः परमार्थ इति ।
अतस्तदपेक्षयासति घटे घटाद्याभासता विपर्यासः स्यान्न तु तदस्ति कदाचिदपि चित्तस्यार्थसंस्पर्शनम् ।
तस्मादनिमित्तो विपर्यासः कथं तस्य चित्तस्य भविष्यति॑ न कथञ्चिद्विपर्यासोऽस्तीत्यभिप्रायः ।

अयमेव हि स्वभावश्चित्तस्य यदुतासति निमित्ते घटादौ तद्वदवभासनम् ॥२७॥





 ४.२८

प्रज्ञप्तेः सनिमित्तत्वमित्याद्येतदन्तं विज्ञानवादिनो बौद्धस्थ वचनं बाह्यार्थवादिपक्षप्रतिषेधपरमाचार्येणानुमोदितम् ।
तदेव हेतुं कृत्वा तत्पक्षप्रतिषेधाय तदिदमुच्यते


तस्मान्न जायते चित्तं चित्तदृश्यं न जायते ।
तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ ४.२८ ॥




भाष्य ४.२८
यस्मादसत्येव घटादौ घटाद्याभासता चित्तस्य विज्ञानवादिनाभ्युपगता तदनुमोदितमस्माभिरपि भूतदर्शनात्, तस्मात्तस्यापि चित्तस्य जायमानावभासतासत्येव जन्मनि युक्ता भवितुमित्यतो न जायते चित्तम्, यथा चित्तदृश्यं न जायते ।

अतस्तस्य चित्तस्य ये जातिं पश्यन्ति विज्ञानवादिनः क्षणिकत्वदुःखित्वशून्यत्वानात्मत्वादि च, तेनैव चित्तेन चित्तस्वरूपं द्रष्टुमशक्यं पश्यन्तः खे वै पश्यन्ति ते पदं पक्ष्यादीनाम् ।
अत इतरेभ्योऽपि द्वैतिभ्योऽत्यन्तसाहसिका इत्यर्थो येऽपि शून्यवादिनः पश्यन्त एव सर्वशून्यतां स्वदर्शनस्यापि शून्यतां स्वदर्शनस्यापि शून्यतां प्रतिजानते ते ततोऽपि साहसिकतराः खं मुष्टिनापि जिघृक्षन्ति ॥२८॥





 ४.२९

उक्तैर्हेतुभिरजमेकं ब्रह्मेति सिद्धं यत्पुनरादौ प्रतिज्ञातं तत्फलोपसंहारार्थोयं श्लोकः


अजातं जायते यस्मादजातिः प्रकृतिस्ततः ।
प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ ४.२९ ॥




भाष्य ४.२९
अजातं यच्चित्तं ब्रह्मैव जायत इति वादिभिः परिकल्प्यते तदजातं जायते यस्मादजातिः प्रकृतिस्तस्य ।
ततस्तस्मादजातरूपायाः प्रकृतेरन्यथाभावो जन्म न कथञ्चिद्भविष्यति ॥२९॥




 ४.३०

अयं चापर आत्मनः संसारमोक्षयोः परमार्थसद्भाववादिनां दोष उच्यते


अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति ।
अनन्तता चादिमतो मोक्षस्य न भविष्यति ॥ ४.३० ॥




भाष्य ४.३०
अनादेरतीतकोटिरहितस्य संसारस्यान्तवत्त्वं समाप्तिर्न सेत्स्यति युक्तितः सिद्धिं नोपयास्यति ।
न ह्यनादिः सन्नन्तवान्कश्चित्पदार्थो दृष्टो लोके ।
बीजाङ्कुरसंबन्धनैरन्तर्यविच्छेदो इष्ट इति चेत्, नै७ अवस्त्वभावेनापोदित्वात् ।

तथानन्ततापि विज्ञानप्राप्तिकालप्रभवस्य मोक्षस्यादिमतो न भविष्यति, घटादिष्वदर्शनात् ।
घचादिविनाशवदवस्तुत्वाददोष इति चेत्, तथा च मोक्षस्य परमार्थसद्भावप्रतिज्ञाहानिः ।
असत्त्वादेव शशविषाणस्येवादिमत्त्वाभावश्च ॥३०॥





 ४.३१३२


आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ४.३१ ॥


सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।
तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ४.३२ ॥




भाष्य ४.३१३२
वैतथ्ये कृतव्याख्यानौ श्लोकाविह संसारमोक्षाभावप्रसङ्गेन पठितौ ॥३१३२ ॥




 ४.३३


सर्वे धर्मा मृषा स्वप्ने कायस्यान्तनिदर्शनात् ।
संवृत्तेऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः ॥ ४.३३ ॥


भाष्य ४.३३
निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनादित्ययमर्थः प्रपञ्च्यत एतैः श्लोकैः ॥३३॥





 ४.३४


न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ ।
प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते ॥ ४.३४ ॥




भाष्य ४.३४
जागरिते गत्यागमनकालो नियतो देशः प्रमाणतो यस्तस्या नियमान्नियमस्याभावात्स्वप्ने न देशान्तरागमनमित्यर्थः ॥३४॥





 ४.३५

मित्राद्यैः सह संमन्त्र्य संबुद्धौ न प्रपद्यते ।
गृहीतं चापि यत्किञ्चित्प्रतिबुद्धो न पश्यति ॥ ४.३५ ॥




भाष्य ४.३५
मित्राद्यैः सह संमन्त्र्य तदेव मन्त्रणं प्रतिबुद्धौ न प्रपद्यते ।
गृहीतं च यत्किञ्चिद्धिरण्यादि न प्राप्नोति ।
अतश्च न देशान्तरं गच्छन्ति स्वप्ने ॥३५॥





 ४.३६


स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् ।
यथा कायस्तथा सर्वं चित्तदृश्यमवस्तुकम् ॥ ४.३६ ॥




भाष्य ४.३६
स्वप्ने चाटन्दृश्यते यः कायः स अवस्तुकस्ततोऽन्यस्य स्वापदेशस्तस्य पृथक्कायान्तरस्य दर्शनात् ।
यथा स्वप्नदृश्यः कायोऽसंस्तथा सर्वं चित्तदृश्यमवस्तुकं जागरितेऽपि चित्तदृश्यत्वादित्यर्थः ।
स्वप्नसमत्वादसज्जागरितमपीति प्रकरणार्थः ॥३६॥





 ४.३७

इतश्चासत्वं जाग्रद्वस्तुनः

ग्रहणाज्जागरितवत्तद्धेतुः स्वप्न इष्यते ।
तद्धेतुत्वात्तु तस्यैव सज्जागरितमिष्यते ॥ ४.३७ ॥




भाष्य ४.३७
जागरितवज्जागरितस्ये७ अ ग्रहणाद्ग्राह्यग्राहकरूपेणास्वप्नस्य तज्जागरितं हेतुरस्य स्वप्नस्य स स्वप्नस्तद्धेतुजागरितकार्यमिष्यते ।
तद्धेतुत्वाज्जागरितकार्यत्वात्तस्यैव स्वप्नदृश्य एव सज्जागरितं न त्वन्येषाम् ।
यथा स्वप्न इत्यभिप्रायः ।

यथा स्वप्नः स्वप्नदृश्य एव सन्साधारणविद्यमानवस्तुवदवभासते तथा तत्कारणत्वात्साधारणविद्यमानवस्तुवदवभासमानं न तु साधारणं विद्यमानवस्तु स्वप्नवदेवेत्यभिप्रायः ॥३७॥





 ४.३८

ननु स्वप्नकारणत्वेऽपि जागरितवस्तुनो न स्वप्नवदवस्तुत्वम् ।
अत्यन्तचलो हि स्वप्नो जागरितं तु स्थिरं लक्ष्यते ।

सत्यमेवमविवेकिनां स्यात् ।
विवेकिनां तु न कस्यचिद्वस्तुन उत्पादः प्रसिद्धेऽतः


उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् ।
न च भूतादभूतस्य संभवोऽस्ति कथञ्चन ॥ ४.३८ ॥




भाष्य ४.३८
अप्रसिद्धत्वादुत्पादस्यात्मैव सर्वमित्यजं सर्वमुदाहृतं वेदान्तेषु"सबाह्याभ्यन्तरो ह्यजः"(मु.उ.२ । १ । २) इति ।
यद्यपि मन्यसे जागरितास्ततोऽसत्स्वप्नो जायत इति तदसत् ।
न भूताद्विद्यमानाद भूतस्यासतः सम्भवोऽस्ति लोके ।
न ह्यसतः शशविषाणादेः सम्भवो दृष्टः कथञ्चिदपि ॥३८॥




 ४.३९

ननूक्तं त्वयैव स्वप्नो जागरितकार्यमिति तत्कथमुत्पादोऽप्रसिद्ध इत्युच्यते?

शृणु तत्र यथा कार्यकारणभावोऽस्माभिरभिप्रेत इति


असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः ।
असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धौ न पश्यति ॥ ४.३९ ॥




भाष्य ४.३९
असदविद्यमानं रज्जुसर्पद्विकल्पितं वस्तु जागरिते दृष्ट्वा तद्भावभावितस्तन्मयः स्वप्नेऽपि जागरितवद्ग्राह्यग्राहकरूपेण विकल्पयन्पश्यति ।
तथासत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धौ न पश्यत्यविकल्पयन् ।
च शब्दात्तथा जागरितेऽपि दृष्ट्वा स्वप्ने न पश्यति कदाचिदित्यर्थः ।
तस्माज्जागरितं स्वप्नहेतुरुच्यते न तु परमार्थसदिति कृत्वा ॥३९॥





 ४.४०

परमार्थतस्तु न कस्यचित्केनचिदपि प्रकारेण कार्यकारणभाव उपपद्यते कथम्?


नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा ।
सच्च सद्धेतुकं नास्ति सद्धेतुकमसत्कुतः ॥ ४.४० ॥




भाष्य ४.४०
नास्त्यसद्धेतुकमसच्छशविषाणादि हेतुः कारणं यस्यासत एव स्वकुसुमादेस्तदसद्धतुकमसन्न विद्यते ।
तथा सदपि घटादिवस्त्वसद्धेतुकं शशविषाणादिकार्यं नास्ति ।
तथा सच्च विद्यमानं घटादि विद्यमानघटादिवस्त्वन्तरकार्यं नास्ति ।
सत्कार्यमसत्कुत एव सम्भवति? न चान्यः कार्यकारणभावः सम्भवति शक्यो वा कल्पयितुम्? अतो विवेकिनामसिद्ध एव कार्यकारणभावः कस्य चिदित्यभिप्रायः ॥४०॥





 ४.४१

पुनरपि जाग्रत्स्वप्नयोरसतोरपि कार्यकारणभावाशङ्कामपनयन्नाह


विपर्यासाद्यथा जाग्रदचिन्त्यान् भूतवत्स्पृशेत् ।
तथा स्वप्ने विपर्यासाद्धर्मांस्तत्रैव पश्यति ॥ ४.४१ ॥




भाष्य ४.४१
विपर्यासादविवेकतो यथा जाग्रज्जागरितेऽचिन्त्यान्भावानशक्यचिन्तनीयान् रज्जुसर्पादीन् भूतवत्परमार्थवत्स्पृशन्निव विकल्पयेदित्यर्थः कश्चिद्यथा, तथा स्वप्ने विपर्यासाद्धस्त्यादीन्धर्मान् पश्यन्निव विकल्पयति॑ तत्रैव पश्यति न तु जागरितादुत्पद्यमानानित्यर्थः ॥४१॥





 ४.४२


उपलम्भात्समाचारादस्ति वस्तुत्ववादिनाम् ।
जातिस्तु देशिता बुद्धैरजातेस्त्रसतां सदा ॥ ४.४२ ॥




भाष्य ४.४२
यापि बुद्धैरद्वैतवादिभिर्जातिर्देशितोपदिष्टा, उपलम्भनमुपलम्भस्तस्मादुपलब्धेरित्यर्थः, समाचाराद्वर्णाश्रमादिधर्मसमाचरणात्, ताभ्यां हेतुभ्यामस्तिवस्तुत्ववादिनामस्ति वस्तुभूव इत्येवं वदनशीलानां दृढाग्रहवतां श्रद्दधानानां मन्दविवेकिनामनर्थेपायत्वेन सा देशिता जातिः ।
तां गृह्णन्तु तावत् ।
वेदान्ताभ्यासिनां तु स्वयमेवाजाद्वयात्मविषयो विवेको भविष्यतीति न तु परमार्थबुद्ध्या ।
ते हि श्रोत्रियाः स्थूलबुद्धित्वादजातेरजातिवस्तुनः सदा त्रस्यन्त्यात्मनाशं मन्यमाना अविवेकिन इत्यर्थः ।
उपायः स अवतारायेत्युक्तम् ॥४२॥





 ४.४३


अजातेस्त्रसतां तेषामुपलम्भाद्वियन्ति ये ।
जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति ॥ ४.४३ ॥




भाष्य ४.४३
ये चैवमुपलम्भात्समाचराच्चाजातेरजातिवस्तुनस्त्रसन्तोऽस्तिवस्त्वित्यद्वयादात्मनो वियन्ति विरुद्धं यन्ति द्वैतं प्रतिपद्यन्त इत्यर्थः ।
तेषामजातेस्त्रसतां श्रद्धधानानां सन्मार्गावलम्बिनां जातिदोषा जात्युपलम्भकृता दोषा न सेत्स्यन्ति सिद्धिं नोपयास्यन्ति, विवेकमार्गप्रवृत्तत्वात् ।
यद्यपि कश्चिद्दोषः स्यात्सोऽप्यल्प एव भविष्यति ।
सम्यग्दर्शनाप्रतिपत्तिहेतुक इत्यर्थः ॥४३॥





 ४.४४

ननूपलम्भसमाचारयोः प्रमाणत्वादस्त्येव द्वैतं वस्त्विति, न॑ उपलम्भसमाचारयोर्व्यभिचारात् ।
कथं व्यभिचार इत्युच्यते


उपलम्भात्समाचारान्मायाहस्ती यथोच्यते ।
उपलम्भात्समाचारादस्ति वस्तु तथोच्यते ॥ ४.४४ ॥




भाष्य ४.४४
उपलभ्यते हि मायाहस्ती हस्तीव हस्तिनमिवात्र समाचरन्ति, बन्धनारोहणादिहास्तिसम्बन्धिभिर्धर्मैर्हस्तीति चोच्यतेऽसन्नपि यथा तथैवोपलम्भात्समाचाराद्द्वैतं भेदरूपमस्ति वस्त्वित्युच्यते ।
तस्मान्नोपलम्भसमाचारौ द्वैतवस्तुसद्भावे हेतु भवत इत्यभिप्रायः ॥४४॥





 ४.४५

किं पुनः परमार्थसद्वस्तु यदास्पदा जात्याह्यसद्बुद्धय इत्याह


जात्याभासं चलाभासं वस्त्वाभासं तथैव च ।
अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ ४.४५ ॥



भाष्य ४.४५
अजाति सज्जातिवदवभासत इति जात्याभासम् ।
तद्यथा देवदत्तो जायत इति ।
चलाभासं चलमिवाभासत इति ।
यथा स एव देवदत्तो गच्छतीति ।
वस्त्वाभासं वस्तु द्रव्यं धर्मि तद्वदवभासत इति वस्त्वाभासम् ।
यथा स एव देवदत्तो गौरो दीर्घ इति जायते देवदत्तः स्पन्दते दीर्घो गौर इत्येवमवभासते ।
परमार्थतस्त्वजमचलमवस्तुत्वमद्रव्यं च किं तदेवंप्रकारम्? विज्ञानं विज्ञप्तिः ।
जात्यादिरहितत्वाच्छान्तम् ।
अत एवाद्वयं च तदित्तर्थः ॥४५॥





 ४.४६

एवं न जायते चित्तमेवं धर्मा अजाः स्मृताः ।
एवमेव विजानन्तो न पतन्ति विपर्यये ॥ ४.४६ ॥




भाष्य ४.४६
एवं यथोक्तेभ्यो हेतुभ्यो न जायते चित्तमेवं धर्मा आत्मनोऽजाः स्मृता ब्रह्मविद्भिः ।
धर्मा इति बहुवचनं देहभेदानुविधायित्वादद्वयस्यैवोपचारतः ।

एवमेव यथोक्तं विज्ञानं जात्यादिरहितमद्वयमात्मतत्त्वं विजानन्तस्त्यक्तबाह्यैषणाः पुनर्नपतन्त्यविद्याध्वान्तसागरे विपर्यये ।
"तत्र को मोहः कः शोक एकत्वमनुपश्यतः" (ई.उ.७) इत्यादि मन्त्रवर्णात् ॥४६॥





 ४.४७

यथोक्तं परमार्थदर्शनं प्रपञ्चयिष्यन्नाह


ऋजुवक्रादिकाभासमलातस्पन्दितं यथा ।
ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा ॥ ४.४७ ॥




भाष्य ४.४७
यथा हि लोक ऋजुवक्रादिप्रकाराभासमलातस्पन्दितमुल्काचलनं तथा ग्रहणग्राहकाभासं विषयिविषयाभासमित्यर्थः ।
किं तद्विज्ञानस्पन्दितम् ।
स्पन्दितमिव स्पन्दितमविद्यया ।
न ह्यचस्य विज्ञानस्य स्पन्दनमस्ति ।
अजाचलमिति ह्युक्तम् ॥४७॥




 ४.४८


अस्पन्दमानमलातमनाभासमजं यथा ।
अस्पन्दमानं विज्ञानमनाभासमजं तथा ॥ ४.४८ ॥




भाष्य ४.४८
अस्पन्दमानं स्पन्दनवर्जितं तदेवालातमृज्वाद्याकारेणाजायमानमनाभासमजं यथा॑ तथाविद्यया स्पन्दमानमविद्योपरमेऽस्पन्दमानं जात्याद्याकारेणानाभासमजमचलं भविष्यितीत्यर्थः ॥४८॥





 ४.४९

किं च


अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः ।
न ततोऽन्यत्र निस्पन्दान्नालातं प्रविशन्ति ते ॥ ४.४९ ॥




भाष्य ४.४९
तस्मिन्नेवालाते स्पन्दमान ऋजुवक्राद्याभासा अलातादन्यतः कुतश्चिदागत्यालाते नैव भवन्ती७ इ नान्यतोभुवः ।
न च तस्मान्निस्पन्दादलातादन्यत्र निर्गताः ।
न च निस्पन्दमलातमेव प्रविशन्ति ते ॥४९॥





 ४.५०

किं च


न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः ।
विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः ॥ ४.५० ॥




भाष्य ४.५०
न निर्गता अलातात्त आभासा गृहादिवद्द्रव्यत्वाभावयोगतो द्रव्यस्यभावो द्रव्यत्वम्, तदभावो द्रव्यत्वाभावः, द्रव्यत्वाभावयोगतो द्रव्यत्वाभावयुक्तैर्वस्तुत्वाभावादित्यर्थः, वस्तुनो हि प्रवेशादि सम्भवति नावस्तुनः ।
विज्ञानोऽपि जात्याद्याभासास्तथैव स्युराभासस्याविशेषतस्तुल्यत्वात् ॥५०॥





 ४.५१५२

कथं तुल्यत्वमित्याह


विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः ।
न ततोऽन्यत्र निस्पन्दान्न विज्ञानं विशन्ति ते ॥ ४.५१ ॥


न निर्गतास्ते विज्ञानाद्द्रव्यत्वाभावयोगतः ।
कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते ॥ ४.५२ ॥




भाष्य ४.५१५२
अलातेन समानं सर्वं विज्ञानस्य ।
सदाचलत्वं तु विज्ञानस्य विशेषः ।
जात्याद्याभास विज्ञानेऽचले किङ्कृता इत्याह ।
कार्यकारणताभावाज्जन्यजनकत्वानुपपत्तेरभावरूपत्वादचिन्त्यास्ते यतः सदैव ।

यथासत्स्वृज्वाद्याभासेष्वृज्वादिबुद्धिर्दृष्टालातमात्रे तथास्त्वेव जात्यादिषु विज्ञानमात्रे जात्यादिबुद्धिर्मृषैवेति समुदायार्थः ॥५१५२ ॥





 ४.५३

अजमेकमात्मतत्त्वमिति स्थितं तत्र यैरपि कार्यकारणभावः कल्प्यते तेषाम् ।


द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि ।
द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते ॥ ४.५३ ॥




भाष्य ४.५३
द्रव्यं द्रव्यस्यान्यस्यान्यद्धेतुः कारणं स्यान्न तु तस्यैव तत् ।
नाप्यद्रव्यं कस्यचित्कारणं स्वतन्त्रं दृष्टं लोके ।
न च द्रव्यत्वं धर्माणामात्मानामुपपद्यतेऽन्यत्वं वा कुतश्चिद्येनान्यस्य कारणत्वं कार्यत्वं वा प्रतिपद्यते ।
अतोऽद्रव्यत्वादनन्यत्वाच्च न कस्यचित्कार्यं कारणं वात्मेत्यर्थः ॥५३॥





 ४.५४


एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम् ।
एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ ४.५४ ॥




भाष्य ४.५४
एवं यथोक्तेभ्यो हेतुभ्य आत्मविज्ञानस्वरूपमेव चित्तमिति न चित्तजा बाह्यधर्मा नापि बाह्यधर्मजं चित्तम् ।
विज्ञानस्वरूपाभासमात्रत्वात्सर्वधर्माणाम् ।
एवं न हेतोः फलं जायते नापि फलाद्धेतुरिति हेतुफलयोरजातिं हेतुफलाजातिं प्रविशन्त्यध्यवस्यन्त्यात्मनि हेतुफलयोरभावमेव प्रतिपद्यन्ते ब्रह्मविद इत्यर्थः ॥५४॥





 ४.५५

ये पुनर्हेतुफलयोरभिनिविष्टास्तेषां किं स्यादित्युच्यते धर्माधर्माख्यस्य हेतोरहं कर्ता मम धर्माधर्मौ तत्फलं कालान्तरे क्वचित्प्राणिनिकाये जातो भोक्ष्य इति


यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः ।
क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥ ४.५५ ॥




भाष्य ४.५५
यावद्धेतुफलयोरावेशो हेतुफलाग्रह आत्न्यध्यारोपणं तच्चित्ततेत्यर्थः,तावद्धेतुफलयोरुद्भवो धर्माधर्मयोसत्त्फलस्य चानुच्छेदेन प्रवृत्तिरित्यर्थः ।
यदा पुनर्मन्त्रौषधिवीर्येणेव ग्रहावेशो यथोक्ताद्वैतदशनेनाविद्योद्भूतहेतुफलावेशोऽपनीतो भवति तदा तस्मिन्क्षीणे नास्ति हेतुफलोद्भवः ॥५५॥





 ४.५६

यदि हेतुफलोद्भवस्तदा को दोष इत्युच्यते


यावद्धेतुफलावेशः संसारस्तावदायतः ।
क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥ ४.५६ ॥




भाष्य ४.५६
यावत्सम्यग्दर्शनेन हेतुफलावेशो न निवर्ततेऽक्षीणः संसारस्तावदायतो दीर्घो भवतीत्यर्थः ।
क्षीणे पुनर्हेतिफलावेशे संसारं न प्रपद्यते कारणाभावात् ॥५६॥





 ४.५७

नन्वजादात्मनोऽन्यन्नास्त्येव तत्कथं हेतुफलयोः संसारस्य चोत्पत्तिविनाशावुच्येते त्वया?

शृणु


संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै ।
सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै ॥ ४.५७ ॥




भाष्य ४.५७
संवृत्या संवरणं संवृतिरविद्याविषयो लौकिको व्यवहारस्ता संवृत्या जायते सर्वम् ।
तेनाविद्याविषये शाश्वतं नित्यं नास्ति वै ।
अत उत्पत्तिविनाशलक्षणः संसार आयत इत्युच्यते ।
परमार्थसद्भावेन त्वजं सर्वमात्मैव यस्मात् ।
अतो जात्यभावादुच्छेदस्तेन नास्ति वै कस्यचिद्धेतुफलादेरित्यर्थः ॥५७॥





 ४.५८


धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः ।
जन्म मायोपमं तेषां सा च माया न विद्यते ॥ ४.५८ ॥




भाष्य ४.५८
येऽप्यात्मानोऽन्ये च धर्मा जायन्त इति कल्प्यन्ते त इत्येवं प्रकारा यथोक्ता संवृतिनिर्दिश्यत इति संवृत्यैव धर्मा जायन्ते॑ न ते तत्त्वतः परमार्थतोय जायन्ते ।
यत्पुनस्तत्संवृत्या जन्म तेषां धर्माणां यथोक्तानां यथा मायया जन्म तथा तन्मायोपमं प्रत्येतव्यम् ।

माया नाम वस्तु तर्हि? नैवम्॑ सा च माया न विद्यते, मायेत्यविद्यमानस्याख्येत्यभिप्रायः ॥५८॥





 ४.५९

कथं मायोपमं तेषां धर्माणां जन्मेत्याह


यथा मायामयाद्बीजाज्जायते तन्मयोङ्कुरः ।
नासौ नित्यो न चोच्छेदी तद्वद्धर्मेषु योजना ॥ ४.५९ ॥




भाष्य ४.५९
यथा मायामयाद्बीजाज्जायते तन्मयो मायामयोऽङ्कुरो नासाङ्कुरो नित्यो न चोच्छेदी विनाशी वाभूतत्वात्तद्वदेव धर्मेषु जन्मनाशादियोजना युक्तिर्न तु परमार्थतो धर्माणां जन्म नाशो वा युज्यत इत्यर्थः ॥५९॥





 ४.६०


नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा ।
यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥ ४.६० ॥



भाष्य ४.६०
परमार्थतस्त्वात्मस्वजेषु नित्यैकरसविज्ञप्तिमात्रसत्ताकेषु शाश्वतोऽशाश्वत इत वा नाभिधा नाभिधानं प्रवर्तत इत्यर्थः ।
यत्र येषु वर्ण्यन्ते यैरर्थास्ते वर्णां शब्दा न प्रवर्तन्तेऽभिधातुं प्रकाशयितुं न प्रवर्तन्त इत्यर्थः ।
इदमेवमिति विवेको विविक्तता तत्र नित्योऽनित्य इति नोच्यते ।
"यतो वाचो निवर्तन्ते"(तै.उ.२ । ४ । १) इति श्रुतेः ॥६०॥





 ४.६१६२


यथा स्वप्ने द्वयाभासं चित्तं चलति मायया ।
तथा जाग्रद्द्वयाभासं चित्तं चलति मायया ॥ ४.६१ ॥


अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः ।
अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ४.६२ ॥




भाष्य ४.६१६२
यत्पुनर्वाग्गोचरत्वं परमार्थतोऽद्वयस्य विज्ञानमात्रस्य तन्मनसः स्पन्दनमात्रं न परमार्थत इति ।
उक्तार्थौ श्लोकौ ॥६१६२ ॥





 ४.६३

इतश्च वाग्गोचरस्याभावो द्वैतस्य


स्वप्नदृक्प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान् ।
अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा ॥ ४.६३ ॥



भाष्य ४.६३
स्वप्नान्पश्यतीति स्वप्नदृक्प्रचरन्पर्यटन्स्वप्ने स्वप्नस्थाने दिक्षु वै दशसु स्थितान्वर्तमानाञ्जीवान्प्राणिनोऽण्डजान्स्वेदजान्वा यान्सदा पश्यति ॥६३॥





 ४.६४

यद्येवं ततः किम्? उच्यते


स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् ।
तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते ॥ ४.६४ ॥




भाष्य ४.६४
स्वप्नदृशश्चित्तं स्वप्नदृक्चित्तं तेन दृश्यास्ते जीवास्ततस्तस्मात्स्वप्नदृक्चित्तात्पृथङ्न विद्यन्ते न सन्तीत्यर्थः ।
चित्तमेव ह्यनेकजीवादिभेदाकारेण विकल्प्यते ।
तथा तदपि स्वप्नदृक्चित्तमिदं तद्दृश्यमेव, तेन स्वप्नदृशा दृश्यं तद्दृश्यम् ।
अतः स्वप्नदृग्व्यतिरेकेण चित्तं नाम नास्तीत्यर्थः ॥६४॥





 ४.६५६६


चरञ्जागरिते जाग्रद्दिक्षु वै दशसु स्थितान् ।
अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा ॥ ४.६५ ॥


जाग्रच्चित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक् ।
तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥ ४.६६ ॥




भाष्य ४.६५६६
जाग्रतो दृश्या जीवास्तच्चित्ताव्यतिरिक्ताश्चित्तेक्षणीयत्वात्स्वप्नदृक्चित्तेक्षणीयजीववत् ।
तच्च जीवेक्षणात्मकं चित्तं द्रष्टुरव्यतिरिक्तं द्रष्टुदृश्यत्वात्स्वप्नचित्तवत् ।
उक्तार्थमन्यत् ॥६५६६ ॥





 ४.६७


उभे ह्यन्योन्यदृश्ये ते किं तदस्तीति चोच्यते ।
लक्षणाशून्यमुभयं तन्मते नैव गृह्यते ॥ ४.६७ ॥




भाष्य ४.६७
जीवचित्त उभे चित्तचैत्ये तेऽन्योन्यदृश्य इतरेतरगम्ये ।
जीवादिविषयापेक्षं हि चित्तं नाम भवति ।

चित्तापेक्षं हि जीवादि दृश्यम् ।
अतस्तेऽन्येन्यदृश्ये ।
तस्मान्न किञ्चिदस्तीति चोच्यते चित्तं वा चित्तेक्षणीयं वा किं तदस्तीति विवेकिनोच्यते ।
न हि स्वप्ने हस्ती हस्तिचित्तं वा विद्यते तथेहापि विवेकिनामित्यभिप्रायः ।

कथम्? लक्षणाशून्यं लक्ष्यतेऽनयेति लक्षणा प्रमाणं प्रमाणशून्यमुभयं चित्तं चैत्यं द्वयं यतस्तन्मतेनैव तच्चित्ततयैव तद्गृह्यते ।
न हि घटमतिं प्रत्याख्याय घटो गृह्यते नापि घटं प्रत्याख्याय घटमतिः ।
न हि तत्र प्रमाणप्रमेयभेदः शक्यते कल्पयितुमित्यभिप्रायः ॥६७॥





 ४.६८७०


यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ४.६८ ॥


यथा मायामयो जीवो जायते म्रियतेऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ४.६९ ॥


यथा निर्मितको जीवो जायते म्रियतेऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ४.७० ॥




भाष्य ४.६८७०
मायामयो मायाविना यः कृतो निर्मितको मन्त्रौषध्यादिभिर्निष्पादितः ।
स्वप्नमायानिर्मितका अण्डजातयो जीवा यता जायन्ते म्रियन्ते च तछा मनुष्यादिलक्षणा अविद्यमाना एव चित्त विकल्पनामात्रा इत्यर्तः ॥६८७० ॥





 ४.७१


न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते ।
एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ४.७१ ॥




भाष्य ४.७१
व्यवहारसत्यविषये जीवानां जन्ममरणादीः स्वप्नादि जीववदित्युक्तम् ।
उत्तमं तु परमार्थसत्यं न कश्चिज्जायते जीव इति ।
उक्तार्थमन्यत् ॥७१॥





 ४.७२


चित्तस्पन्दिकमेवेदं ग्राह्यग्राहकवद्द्वयम् ।
चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम् ॥ ४.७२ ॥




भाष्य ४.७२
सर्वं ग्राह्यग्राहकवच्चित्तस्पन्दितमेव द्वयं चित्तं परमार्थत आत्मैवेति निर्विषयं तेन निर्विषयत्वेन नित्यमसङ्गं कीर्तितम् ।
"असङ्गो ह्ययं पुरुषः"(बृ.उ. ४ । ३ । १५,१६) इति श्रुतेः ।
सविषयस्य हि विषये सङ्गः ।
निर्विषयत्वाच्चित्तमसङ्गमित्यर्थः ॥७२॥





 ४.७३

ननु निर्विषयत्वेन चेदसङ्गत्वं चित्तस्य न निःसङ्गता भवति यस्माच्छास्ता शास्त्रं शिष्यश्चेत्येवमादेर्विषयस्य विद्यमानत्वात् ।

नैष दोषः ॑ कस्मात्


योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ ।
परतन्त्राभिसंवृत्या स्यान्नास्ति परमार्थतः ॥ ४.७३ ॥




भाष्य ४.७३
यः पदार्थः शास्त्रादिर्विद्यते स कल्पितसंवृत्या॑ कल्पिता च सा परमार्थप्रतिपत्युपायत्वेन संवृतिश्च सा, तया योऽस्ति परमार्थेन नास्त्यसौ न विद्यते ।
ज्ञाते द्वैतं न विद्यत इत्युक्तम् ।

यश्च परतन्त्राभिसंवृत्या परशास्त्रव्यवहारेण स्यात्पदार्थः स परमार्थतो निरूप्यमाणो नास्त्येव ।
तेन युक्तमुक्तमसङ्गं तेन कीर्तिमिति ॥७३॥




 ४.७४

ननु शास्त्रादीनां संवृतित्वेऽज इतीयमपि कल्पनां संवृतिः स्यात्?

सत्यमेवम्


अजः कल्पितसंवृत्या परमार्थेन नाप्यजः ।
परतन्त्रादिनिष्पत्त्या संवृत्या जायते तु सः ॥ ४.७४ ॥




भाष्य ४.७४
शास्त्रादिकल्पितसंवृत्यैवाज इत्युच्यते ।
परमार्थेन नाप्यजो यस्मात्परतन्त्राभिनिष्पत्त्या परशास्त्रसिद्धिमपेक्ष्य योऽज इत्युक्तः स संवृत्या जायते ।
अतोऽज इतीयमपि कल्पना परमार्थविषये नैव क्रमत इत्यर्थः ॥७४॥





 ४.७५

यस्मादसद्विषयस्तस्मात्

अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते ।
द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥ ४.७५ ॥




भाष्य ४.७५
असत्यभूते द्वैतेऽभिनिवेशोऽस्ति केवलम् ।
अभिनिवेश आग्रहमात्रम् ।
द्वयं तत्र न विद्यते ।
मिथ्याभिनिवेशमात्रं च जन्मनः कारणं यस्मात्तस्माद्द्वयाभावं बुद्ध्वा निर्निमित्तो निवृत्तमिथ्याद्वयाभिनिवेशो यः स न जायते ॥७५॥





 ४.७६


यदा न लभते हेतूनुत्तमाधममध्यमान् ।
तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥ ४.७६ ॥




भाष्य ४.७६
जात्याश्रमविहिता अशीर्वर्जितैरनुष्ठीयमाना धर्मा देवत्वादिप्राप्तिहेतव उत्तमाः केवलाश्च धर्माः ।
अधर्मव्यामिश्रा मनुष्यत्वादिप्राप्त्यर्था मध्यमाः ।
तिर्यगादिप्राप्तिनिमित्ता अधर्मलक्षणाः प्रवृत्तिविशेषाश्चाधमाः ।
तानुत्तममध्यमाधमानविद्यापरिकल्पितान्यदैकमेवाद्वितीयमात्मतत्त्वं सर्वकल्पनावर्जितं जानन्न लभते न पश्यति यथा बालैर्दृश्यमानं गगने मलं विवेकी न पश्यति तद्वत्तदा न जायते नोत्पद्यते चित्तं देवाद्याकारैरुत्तमाधममध्यमफलरूपेण न ह्यसति हेतौ फलमुत्पद्यते बीजाद्यभाव इव सस्यादि ॥७६॥





 ४.७७

हेत्वभावे चित्तं नोत्पद्यत इति ह्युक्तम् ।
स पुनरनुत्पत्तिश्चित्तस्य कीदृशीत्युच्यते


अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया ।
अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः ॥ ४.७७ ॥




भाष्य ४.७७
परमार्थदर्शनेन निरस्तधर्माधर्माख्योत्पत्तिनिमित्तस्यानिमित्तस्य चित्तस्येति या मोक्षाख्यानुत्पत्तिः सा सर्वदा सर्वावस्थासु समा निर्विशेषाद्वया च ।
पूर्वमप्यजातस्यैवानुत्पन्नस्य चित्तस्य सर्वस्याद्वयस्येत्यर्थः ।
यस्मात्प्रागपु विज्ञानाच्चित्तदृश्यं तदद्वयं जन्म च तस्मादजातस्य सर्वस्य सर्वदा चित्तस्य समाद्वयैवानुत्पत्तिर्न पुनः कदाचिद्भवति कदाचिद्वा न भवति ।
सर्वदैकरूपैवेत्यर्थः ॥७७॥





 ४.७८

यथोक्तेन न्यायेन जन्मनिमित्तस्य द्वयस्याभावात्


बुद्ध्वा निमित्ततां सत्यां हेतुं पृथगनाप्नुवन् ।
वीतशोकं तथाकाममभयं पदमश्नुते ॥ ४.७८ ॥




भाष्य ४.७८
अनिमित्ततां च सत्यां परमार्थरूपां बुद्ध्वा हेतुं धर्मादिकारणं देवादियोनिप्राप्तये पृथगनाप्नुवन्ननुपाददानस्त्यक्तबाह्यैषणः सन्कामशोकादिवर्जितमविद्यादिरहितमभयं पदमश्नुते पुनर्न जायत इत्यर्थः ॥७८॥





 ४.७९


अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते ।
वस्त्वभावं स बुध्वैव निःसङ्गं विनिवर्तते ॥ ४.७९ ॥




भाष्य ४.७९
यस्माद्भूताभिनिवेशादसति द्वये द्वयास्तित्वनिश्चयोऽभूताभिनिवेशस्तस्मादविद्याव्यामोहरूपाद्धि सदृशे तदनुरूपे तच्चित्तं प्रवर्तते ।
तस्य द्वयस्य वस्तुनोऽभावं यदा बुद्धवांस्तदा तस्मान्निःसङ्गो निरपेक्षं सद्विनिवर्ततेऽभूताभिनिवेशविषयात् ॥७९॥





 ४.८०


निवृत्तस्याप्रवृत्तस्य निश्चला हि तथा स्थितिः ।
विषयः स हि बुद्धानां तत्साम्यमजमद्वयम् ॥ ४.८० ॥




भाष्य ४.८०
निवृतस्य द्वैतविषयाद्विषयान्तरे चाप्रवृत्तस्याभावदर्शनेन चित्तस्य निश्चला चलनवर्जिता ब्रह्मस्वरूपैव तदा स्थितिः ।
यैषा ब्रह्मस्वरूपा स्थितिश्चित्तस्याद्वयविज्ञानैकरसघनलक्षणा, स हि यस्माद्विषयो गोचरः परमार्थदर्शिनां बुद्धानां तस्मात्तत्साम्यं परं निर्विशेषमजमद्वयं च ॥८०॥





 ४.८१

पुनरपि कीदृशश्चासौ बुद्धानां विषय इत्याह

अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् ।
सकृद्विभातो ह्येवैष धर्म धातुस्वभावतः ॥ ४.८१ ॥




भाष्य ४.८१
स्वयमेव तत्प्रभातं भवति, नादित्यपाद्यपेक्षम्॑ स्ययञ्ज्योतिः स्वभावमित्यर्थः ।
सकृद्विभातः सदैव विभात इत्येतदेष एवंलक्षण आत्माख्यो धर्मो धातुस्वभावतो वस्तुस्वभावत इत्यर्थः ॥८१॥





 ४.८२

एवमुच्यमानमपि परमार्थतत्त्वं कस्माल्लौकिकैर्न गृह्यत इत्युच्यते


सुखमाव्रियते नित्यं दुःखं विव्रियते सदा ।
यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ ४.८२ ॥




भाष्य ४.८२
यस्माद्यस्य कस्यचिद्द्वयवस्तुनो धर्मस्य ग्रहेण ग्रहणावेशेन मिथ्याभिनिविष्टतया सुखमाव्रियतेऽनायासेनाच्छाद्यत इत्यर्थः ।
द्वयोपलब्धिनिमित्तं हि तत्रावरणं न यत्नान्तरमपेक्ष्यते ।
दुःखं च विव्रियते प्रकटीक्रियते, परमार्थज्ञानस्य दुर्लभत्वात् ।
भगवानसावात्मद्वयो देव इत्यर्थः, अतो वेदान्तैराचार्यैश्च बहुश उच्यमानोऽपि नैव ज्ञातुं शक्य इत्यर्थः ।
"आश्चर्यो वक्ता कुशलोऽस्य लब्धा"(क.उ.१ । २ । ७) इति श्रुतेः ॥८२॥





 ४.८३

अस्ति नास्तीत्यादिसूक्ष्मविषया अपि पण्डितानां ग्रहा भगवतः परमात्मन आवरण एव किमुत मूढजनानां बुद्धिलक्षणा इत्येवमर्थं प्रदर्शयन्नाह


अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः ।
चलस्थिरोभयाभावैरावृणोत्ये व बालिशः ॥ ४.८३ ॥




भाष्य ४.८३
अस्त्यात्मेति वादी कश्चित्प्रतिपद्यते ।
नास्तीत्यपरो वैनाशिकोऽस्ति नास्तीत्यपरोर्ऽधवैनाशिकः सदसद्वादी दिग्वासाः ।
नास्ति नास्तीत्यत्यन्तशून्यवादी ।
तत्रास्तिभावश्चलः, घटाद्यनित्यविलक्षणत्वात् ।
नास्तिभावः स्थिरः सदाविशेषत्वात् ।
उभयं चलस्थिरविषयत्वात्सदसद्भावोऽभावोऽत्यन्ताभावः ।

प्रकारचतुष्टयस्यापि तैरतैश्चलिस्थिरोभयाभावैः सदसदादिवादी सर्वोऽपि भगवन्तमावृणोत्येव बालिशोऽविवेकी ।
यद्यपि पण्डितो बालिश एव परमार्थतत्त्वानवबोधाच्किमु स्वभावमूढो जन इत्यभिप्रायः ॥८३॥





 ४.८४

कीदृक्पुनः परमार्थतत्त्वं यदवबोधादबालिशः पण्डितो भवतीत्याह


कोठ्यश्चतस्र एतास्तु ग्रहैर्यासां सदा वृतः ।
भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक् ॥ ४.८४ ॥




भाष्य ४.८४
कोठ्यः प्रावादुकशास्त्रनिर्णयान्ता एता उक्ता अस्ति नास्तीत्याद्याश्चतस्रो यासां कोटीनां ग्रहैर्ग्रहणैरूपलब्धिनिश्चयैः सदा सर्वदावृत आच्छादितस्तेषामेव प्रावादुकानां यः स भगवानाभिरस्तिनास्तीत्यादिकोटिभिश्चतसृभिरप्यस्पृष्टोऽस्त्यादिविकल्पनावर्जित इत्येतद्येन मुनिना दृष्टो ज्ञातो वेदान्तेष्वौपनिषदः पुरुषः स सर्वदृक्सर्वज्ञः परमार्थपण्डित इत्यर्थः ॥८४॥




 ४.८५


प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम् ।
अनापन्नादिमध्यान्तं किमतः परमीहते ॥ ४.८५ ॥




भाष्य ४.८५
प्राप्यैतां यथोक्तां कृत्स्नां समस्तां सर्वज्ञतां ब्राह्मण्यं पदं"स ब्राह्मणः"(बृ.उ.३ । ८ । १०) "एष नित्यो महिमा ब्राह्मणस्य" (बृ.उ.४ । ४ । २३) इति श्रुतेः ॑ आदिमध्यान्ता उत्पत्तिस्थितिलया अनापन्ना अप्राप्ता यस्याद्वयस्य पदस्य न विद्यन्ते तदनापन्नादिमध्यान्तं ब्राह्मण्यं पदम्, तदेव प्राप्य लब्ध्वा किमतः परमस्मादात्मलाभादूर्ध्वमीहते चेष्टते निष्प्रयोजनमित्यर्थः ।
"नैव तस्य कृतेनार्थः"(गीता ३ । १८) इत्यादिस्मृतेः ॥८५॥





 ४.८६


विप्राणां विनयो ह्येष शमः प्राकृत उच्यते ।
दमः प्रकृतिदान्तत्वादेवं विद्वाञ्शमं व्रजेत् ॥ ४.८६ ॥



भाष्य ४.८६
विप्राणां ब्राह्मणानां विनयो विनीतत्वं स्वाभाविकं यदेतात्मस्वरूपेणावस्थानम् ।
एष विनयः शमोऽप्येष एव प्राकृतः स्वाभाविकोऽकृतक उच्यते ।
दमोऽप्येष एव प्रकृतिदान्तत्वात्स्वभावत एव चोपशान्तरूपत्वाद्ब्रह्मणः ।
एवं यथोक्तं स्वभावोपशान्तं ब्रह्म विद्वाञ्शममुपशान्तिं स्वाभाविकीं ब्रह्मस्वरूपां व्रजेद्ब्रह्मस्वरूपेणावतिष्ठत इत्यर्थः ॥८६॥




 ४.८७

एवमन्योन्यविरुद्धत्वात्संसारकारणानि रागद्वेषदोषास्पदानि प्रावादुकानां दर्शनानि ।
अतो मिथ्यादर्शनानि तानीति तद्युक्तिभिरेव दर्शयित्वा चतुष्कोटिवर्जितत्वाद्राहादिदोषानास्पदं स्वभावशान्तमद्वैतदर्शनमेव सम्यग्दर्शमित्युपसंहृतम् ।
अथेदानीं स्वप्रक्रियाप्रदर्शनार्थ आरम्भः


सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते ।
अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते ॥ ४.८७ ॥




भाष्य ४.८७
सवस्तु संवृतिसता वस्तुना सह वर्तत इति सवस्तु, तथा चोपलब्धिरुपलम्भस्तेन सह वर्तत इति सोपल्भं च शास्त्रादिसर्वव्यवहारास्पदं ग्राह्यग्राहकलक्षणं द्वयं लौकिकं लोकादनपेतं लोकिकं जागरितमित्येतत् ।
एवं लक्षणं जागरितमिष्यते वेदान्तेषु ।

अवस्तु संवृतेरप्यभावात् ।
सोपलम्भं वस्तुवदुपलम्भनमुपलम्भोऽसत्यपि वस्तुनि तेन सह वर्तत इति सोपलम्भं च ।
शुद्धं केवलं प्रविभक्तं जागरितात्स्थूलाल्लौकिकं सर्वप्राणिसाधारणत्वादिष्यते स्वप्न इत्यर्थः ॥८७॥





 ४.८८


अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् ।
ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥ ४.८८ ॥




भाष्य ४.८८
अवस्त्वनुपलम्भं च ग्राह्यग्रहणवर्जितमित्येतत्, लोकोत्तरमत एव लोकातीतम् ।
ग्राह्यग्रहणविषयो हि लोकस्तदभावात्सर्वप्रवृत्तिबीजं सुषुप्तमित्येतदेवं स्मृतम् ।

सोपायं परमार्थतत्त्वं लौकिकं शुद्धलौकिकं लोकोत्तरं च क्रमेण येन ज्ञानेन ज्ञायते तज्ज्ञानम् ।
ज्ञेयमेतान्येव त्रीणि ।
एतद्व्यतिरेकेण ज्ञेयानुपपत्तेः सर्वप्रावादुककल्पितवस्तुनोऽत्रैवान्तर्भावात् ।
विज्ञेयं परमार्थसत्यं तुर्याख्यमद्वयमजमात्मतत्त्वमित्यर्थः ।
सदा सर्वदै९ अल्लौकिकादिविज्ञेयान्तं बुद्धैः परमार्थदर्शिभिर्ब्रह्मविद्भिः प्रकीर्तितम् ॥८८॥





 ४.८९


ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् ।
सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ ४.८९ ॥




भाष्य ४.८९
ज्ञाने च लौकिकादिविषये, ज्ञेये च लौकिकादौ त्रिविधे पूर्वं लौकिकं स्थूलम्, तदभावेन पश्चाच्छुद्धं लौकिकम्, तथाभावेन लोकोत्तरमित्येवं क्रमेण स्थानत्रयाभावेन परमार्थसत्ये तुर्येऽद्वयेऽजेऽभये विदिते स्वयमेवात्मस्वरूपमेव सर्वज्ञता सर्वश्चासौ ज्ञश्च सर्वज्ञस्तद्भावः सर्वज्ञता, इहास्मिंल्लोके भवति महाधियो महाबुद्धेः ।
सर्वलोकातिशयवस्तुविषयबुद्धित्वादेवंविदः सर्वत्र सर्वदा भवति ।
सकृद्विदिते स्वरूपे व्यभिचाराभावादित्यर्थः ।
न हि परमार्थविदो ज्ञानोद्भवाभिभवौ स्तो यथान्येषां प्रावादुकानाम् ॥८९॥





 ४.९०

लौकिकादीनां क्रमेण ज्ञेयत्वेन निर्देशादस्तित्वाशङ्का परमार्थतो मा भूदित्याह


हेयज्ञेयाप्यपाक्यानि विज्ञेयान्यग्रयाणतः ।
तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः ॥ ४.९० ॥




भाष्य ४.९०
हेयानि च लौकिकादीनि त्रीणि जागरितस्वप्नसुषुप्तान्यात्मन्यसत्त्वेन रज्ज्वां सर्पवद्धातव्यानीत्यर्थः ।
ज्ञेयमिह चतुष्कोटिवर्जितं परमार्थतत्त्वम् ।
आप्यान्याप्तव्यानि त्यक्तबाह्यैषणात्रयेण भिक्षुणा पाण्डित्यबाल्यमौनाख्यानि साधनानि ।
पाक्यानि रागद्वेषमोहादयो दोषाः कषायाख्यानि पक्तव्यानि ।
सर्वाण्येतानि हेयज्ञेयाप्यपाक्यानि विज्ञेयानि भिक्षुणोपायत्वेनेत्यर्थः, अग्रयाणातः प्रथमतः ।

तेषां हेयादीनामन्यत्र विज्ञेयात्परमार्थसत्यं विज्ञेयं ब्रह्मैकं वर्जयित्वा, उपल्भनमुपलम्भोऽविद्याकल्पनामात्रम् ।
हेयाप्यापक्येषु त्रिष्वपि स्मृतो ब्रह्मविद्भिर्न परमार्थसत्यता त्रयाणामित्यर्थः ॥९०॥





 ४.९१

परमार्थतस्तु


प्रकृत्याकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः ।
विद्यते न हि नानात्वं तेषां क्वचन किञ्चनः ॥ ४.९१ ॥




भाष्य ४.९१
प्रकृत्या स्वभावत आकाशवदाकाशतुल्याः सूक्ष्मनिरञ्जनसर्वगतत्वैः सर्वे धर्मा आत्मानो ज्ञेयां मुमुक्षुभिरनादयो नित्याः ।
बहुवचनकृतभेदाशङ्कां निराकुर्वन्नाह क्वचन किञ्चन किन्दिदणुमात्रमपि तेषां न विद्यते नानात्वमिति ॥९१॥





 ४.९२

ज्ञेयतापि धर्माणां संवृत्यैव न परमार्थत इत्याह

आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः ।
यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥ ४.९२ ॥




भाष्य ४.९२
यस्मादादौ बुद्धा आदिबुद्धाः प्रकृत्यैव स्वभावत एव यथा नित्यप्रकाशस्वरूपः सवितैवं नित्यबोधस्वरूपा इत्यर्थः सर्वे धर्माः सर्व आत्मानः ।
न च तेषां निश्चयः कर्तव्यो नित्यनिश्चितस्वरूपा इत्यर्थः ।
न संदिह्यमानस्वरूपा एवं नैवं चेति ।

यस्य मुमुक्षोरेवं यथोक्तप्रकारेण सर्वदा बोधनिश्चयनिरपेक्षतात्मार्थं परार्थं वा यथा सविता नित्यं प्रकाशान्तरनिरपेक्षः स्वार्थं परमार्थं चेत्येवं भवति क्षान्तिर्बोधकर्तव्यतानिरपेक्षता सर्वदा स्वात्मनि स अमृतत्वायामृतभावाय कल्पते मोक्षाय समर्थो भवतीत्यर्थः ॥९२॥





 ४.९३

तथा नापि शान्तिकर्तव्यतात्मनीत्याह


आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः ।
सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ ४.९३ ॥




भाष्य ४.९३
यस्मादादिशान्ता नित्यमेव शान्ता अनुत्पन्ना अजाश्च प्रकृत्यैव सुनिर्वृताः सुष्ठूपरतस्वभावा इत्यर्थः, सर्वे धर्माः समाश्चाभिन्नाश्च समाभिन्नाः, अजं साम्यं विशारदं विशुद्धमात्मतत्वं यस्मात्तस्माच्छान्तिर्मोक्षो वा नास्ति कर्तव्य इत्यर्थः, न हि नित्यैकस्वभावस्य कृतं किञ्चिदर्थवत्स्यात् ॥९३॥





 ४.९४

ये यथोक्तं परमार्थतत्त्वं प्रतिपन्नास्त एवाकृपणा लोके कृपणा एवान्य इत्याह


वैशारद्यं तु वै नास्ति भेदे विचरतां सदा ।
भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः ॥ ४.९४ ॥




भाष्य ४.९४
यस्माद्भेदनिम्ना भेदानुयायिनः संसारानुगा इत्यर्थः ॑ के? पृदग्वादाः पृथङ्नाना वस्त्वित्येवं वदनं येषां ते पृथग्वादा द्वैतिन इत्यर्थः, तस्मात्ते कृपणाः क्षुद्राः स्मृताः॑ यस्माद्वैशारद्यं विशुद्धिर्नास्ति तेषां भेदे विचरतां द्वैतमार्गेऽविद्याकल्पिते सर्वदा वर्तमानानामित्यर्थः ।
अतो युक्तमेव तेषां कार्पण्यमित्यभिप्रायः ॥९४॥





 ४.९५

यदिदं परमार्थतत्त्वममहात्मभिरपण्डितैर्वेदान्तबहिःष्ठैः क्षुद्रैरल्पप्रज्ञैरनवगाह्यमित्याह


अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः ।
ते हि लोके महाज्ञानास्तच्च लोको न गाहते ॥ ४.९५ ॥




भाष्य ४.९५
अजे साम्ये परमार्थतत्त्व एवमेवेति ये केचित्स्त्रायदयोऽपि सुनिश्चिता भविष्यन्ति चेत्त एव हि लोके महाज्ञाना निरतिशय तत्त्वविषयज्ञाना इत्यर्थः ।

तच्च तेषां वर्त्म तेषां विदितं परमार्थतत्त्वं सामान्यबुद्धिरन्यो लोको न गाहते नावतरिति न विषयीकरोतीत्यर्थः ।
सर्वाभूतात्मभूतस्य सर्वभूतहितस्य च ।
देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः ।
"शकुनीनामिवाकाशे गतिर्नैवोपलभ्यते"(महा.शा.२३९ । २३,२४) इत्यादिस्मरणात् ॥९५॥




 ४.९६

कथं महाज्ञानत्वमित्याह


अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते ।
यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ ४.९६ ॥




भाष्य ४.९६
अजेष्वनुत्पन्नेष्वचलेषु धर्मेष्वात्मस्वजमचलं च ज्ञानमिष्यते सवितरीवौष्ण्यं प्रकाशश्च यतस्तस्मादसंक्रान्तमर्थान्तरे ज्ञानमजमिष्यते ।
यस्मान्न क्रमतेर्ऽथान्तरे ज्ञानं तेन कारणेनासङ्गं तत्कीर्तितमाकाशकल्पमित्युक्तम् ॥९६॥





 ४.९७


अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपश्चितः ।
असङ्गता सदा नास्ति किमुतावरणच्युतिः ॥ ४.९७ ॥




भाष्य ४.९७
इतोऽन्येषां वादिनामणुमात्रेऽपि वैधर्म्ये वस्तुनि बहिरन्तर्वा जायमान उत्पाद्यमानेऽविपश्चितोऽविवेकिनोऽसङ्गता असङ्गत्वं सदा नास्ति किमुत वक्तयव्यमावरणच्युतिर्बन्धनाशो नास्तीति ॥९७॥





 ४.९८

तेषामावरणच्युतिर्नास्तीति ब्रुवतां स्वसिद्धान्तेऽभ्युपगतं तर्हि धर्माणामावरणम् ।
नेत्युच्यते ।

अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः ।
आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः ॥ ४.९८ ॥




भाष्य ४.९८
अलब्धावरणाः अलब्धमप्राप्तमावरणमविद्यादिबन्धनं येषां ते धर्मा अलब्धावरणा बन्धनरहिता इत्यर्थः, प्रकृतिनिर्मलाः स्वभावशुद्धा आदौ बुद्धास्तथा मुक्ता यस्मान्नित्यशुद्धबुद्धमुक्तस्वभावाः ।
यद्येवं कथं तर्हि बुध्यन्त इत्युच्यते?
नायकाः स्वामिनः समर्था बोद्धुं बोधशक्तिमत्स्वभावा इत्यर्थः, यथा नित्यप्रकाशस्वरूपोऽपि सविता प्रकाशत इत्युच्यते यथा वा नित्यनिवृत्तगतयोऽपि नित्यमेव शैलास्तिष्ठन्तीत्युच्यते तद्वत् ॥९८॥





 ४.९९


क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः ।
सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम् ॥ ४.९९ ॥




भाष्य ४.९९
यस्मान्न हि क्रमते बुद्धस्य परमार्थदर्शिनो ज्ञानं विषयान्तरेषु धर्मेषु धर्मसंस्थं सवितरीव प्रभा, तायिनस्तायोऽस्यास्तीति तायी, संतानवतो निरन्तरस्याकाशकल्पस्येत्यर्थः, पूजावतो वा प्रज्ञावतो वा, सर्वे धर्मा आत्मानोऽपि तथा ज्ञानवदेवाकाशकल्पत्वान्न क्रमन्ते क्वचिदप्यर्थान्तर इत्यर्थः ।

यदादावुपन्यस्तं ज्ञानेनाकाशकल्पेनेत्यादि तदिदमाकाशकल्पस्य तायिनो बुद्धस्य तदनन्यत्वादाकाशकल्पं ज्ञानं न क्रमये क्वचिदप्यर्थान्तरे ।
तथा धर्मा इति ।
आकाशमिवाचलमविक्रियं निरवयवं नित्यमद्वितीयमसङ्गमदृश्यमग्राह्यमशनायाद्यतीतं ब्रह्मात्मतत्त्वम् ।
"न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते"(बृ.उ.४ । ३ । २३) इति श्रुतेः ।

ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्त्वमद्वयमेतन्न बुद्धेन भाषितम् ।
यद्यपि बाह्यार्थनिराकरणं ज्ञानमात्रकल्पना चाद्वयवस्तुसामीप्यमुक्तम् ।
इदं तु परमार्थतत्त्वमद्वैतं वेदान्तेष्वेव विज्ञेयमित्यर्थः ॥९९॥





 ४.१००

शास्त्रसमाप्तौ परमार्थतत्त्वस्तुत्यर्थं नमस्कार उच्यते


दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम् ।
बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम् ॥ ४.१०० ॥




भाष्य ४.१००
दुर्दर्शं दुःखेन दर्शनमस्येति दुर्दर्शम्, अस्ति नास्तीति चतुष्कोटिवर्जिततत्वाद्दुर्विज्ञेयमित्यर्थः ।
अत एवातिगम्भीरं दुष्पर्वेशं महासमुद्रवदकृतप्रज्ञैः, अजं साम्यं विशारदमीदृक्पदमनानात्वं नानात्ववर्जितं बुद्ध्वावगम्य तद्भूताः सन्तो नमस्कुर्मस्तस्मै पदाय, अव्यवहार्यमपि व्यवहारगोचरमापाद्य यथाबलं यथाशक्तीत्यर्थः ॥१००॥

इति शङ्करभगवतः कृतौ गौडपादीयागमशास्त्रविवरणेऽलातशान्त्याख्यं चतुर्थं प्रकरणम् ॥

ओं शन्तिः! शान्तिः!! शान्तिः!!!