महाभाष्यम्/षष्ठोऽध्यायः/द्वितीयः पादः
-6-2-29- ःथ्द्य;गन्तकालकपालभगालशरावेषु द्विगौ (2689)
(6332 उपसंख्यानवार्तिकम् ।। 1 ।।)
- ःथ्द्य;गन्तप्रकृतिस्वरत्वे यण्गुणयोरुपसंख्यानम् -
ःथ्द्य;गन्तप्रकृतिस्वरत्वे यण्गुणयोरुपसंख्यानं कर्तव्यम् । पञ्ञ्चारत्न्यः, दशारत्न्यः । पञ्ञ्चारत्नयः, दशारत्नयः । यण्गुणयोः कृतयोरिगन्ते द्विगावित्येष स्वरो न प्राप्नोति ।।
(6333 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 2 ।।)
- न वा बहिरङ्गलक्षणत्वात् -
न वा वक्तव्यम् ।
किं कारणम् ?
बहिरङ्गलक्षणत्वात् । बहिरङ्गौ यण्गुणौ । अन्तरङ्गः स्वरः । असिद्धं बहिरङ्गमन्तरङ्गे ।।
-6-2-148- कारकाद्दत्तश्रुतयोरेवाशिषि (2808)
(6375 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।)
- कारकाद्दत्तश्रुतयोरनाशिषि प्रतिषेधः -
कारकाद्दत्तश्रुतयोरनाशिषि प्रतिषेधो वक्तव्यः । अनाहतो नदति देवदत्तः ।।
(6376 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 2 ।।)
- सिद्धं तूभयनियमात् -
सिद्धमेतत् ।
कथम् ?
उभयनियमात् । उभयतो नियमः करिष्यते---कारकाद्दत्तश्रुतयोरेवाशिषि, आशिष्येव कारकाद्दत्तश्रुतयोरिति ।।
-6-2-1- बहुव्रीहौ प्रकृत्या पूर्वपदम् (2661)
(पूर्वपदप्रकृतिस्वराधिकरणम्)
(सूत्राक्षेपभाष्यम्)
किमर्थमिदमुच्यते ?
(सूत्रप्रयोजने श्लोकवार्तिकम्)
बहुव्रीहिस्वरं शास्ति समासान्तविधेः सुकृत् ।
सुकृत्---आचार्यः समासान्तोदात्तत्वे प्राप्ते बहुव्रीहिस्वरमपवादं शास्ति ।।
(प्रयोजनाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम् ।।
(सूत्रप्रयोजनाभावबोधकं श्लोकवार्तिकम्)
नञ्ञ्सुभ्यां नियमार्थं तु
नञ्ञ्सुभ्याम् (6-2-172) ःथ्द्य;त्येतन्नियमार्थं भविष्यति । नञ्ञ्सुभ्यामेव बहुव्रीहेरन्त उदात्तो भवति, नान्यतः---ःथ्द्य;ति ।।
(आक्षेपसमर्थकभाष्यम्)
एवमपि कुत एतत्---पूर्वपदप्रकृतिस्वरत्वं भविष्यति, न पुनः परस्येति ।।
परस्य शिति शासनात् ।। 1 ।।
शितेर्नित्याबह्वच्- (138) ःथ्द्य;त्येतन्नियमार्थं---भविष्यति शितेरेव, नान्यत ःथ्द्य;ति ।।
(आक्षेपनिरासभाष्यम्)
यत्तावदुच्यते---नञ्ञ्सुभ्यामित्येतन्नियमार्थमिति ।
(नियमाक्षेपे श्लोकवार्तिकम्)
क्षेपे विधिर्नञ्ञोऽसिद्धः
उदराश्वेषुषु क्षेपे (107-108) ःथ्द्य;त्येतस्मिन् प्राप्ते तत एतदुच्यते ।।
(आक्षेपनिरासभाष्यम्)
यदप्युच्यते---परस्य शिति शासनादिति ।
(नियमाक्षेपे श्लोकवार्तिकम्)
परस्य नियमो भवेत् ।
परस्यैष नियमः स्यात्---शितेर्नित्याबह्वजेव, नान्यदिति ।।
(सूत्राक्षेपभाष्यम्)
यदि तर्हि पूर्वपदप्रकृतिस्वरत्वं समासान्तोदात्तत्वं बाधते, चप्रियः---वाप्रियः अत्रापि बाधेत ।
(समाधाने श्लोकवार्तिकम्)
अन्तश्च वा प्रिये सिद्धम्
अन्तोदात्तत्वं च वा प्रिये सिद्धम् ।
(समाधानजिज्ञासाभाष्यम्)
कुतः ?
(समाधानसाधकं श्लोकवार्तिकम्)
संभवात्
असति खल्वपि संभवे बाधनं भवति, अस्ति च संभवो यदुभयं स्यात् ।।
(समाधानाक्षेपभाष्यम्)
सत्यपि संभवे बाधनं भवति । तद्यथा---दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति सत्यपि संभवे दधिदानस्य तक्रदानं निवर्तकं भवति । एवमिहापि सत्यपि संभवे पूर्वपदकृतिस्वरत्वं समासान्तोदात्तत्वं
बाधिष्यते ।।
(वार्तिकावतरणभाष्यम्)
एवं तर्हि---
(समाधाने श्लोकवार्तिकम्)
प्रकृताद्विधेः ।। 2 ।।
बहुव्रीहौ प्रकृत्या पूर्वपदं प्रकृतिस्वरं भवतीति ।
किं च प्रकृतम् ?
उदात्त ःथ्द्य;ति वर्तते ।।
एवमपि कार्यप्रियः--- हार्यप्रियः ःथ्द्य;त्यत्र न प्राप्नोति ।
स्वरितेऽप्युदात्तोऽस्ति ।
अथवा स्वरितग्रहणमपि प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
तित्स्वरितम् (6-1-185) ःथ्द्य;ति ।।
(पदकृत्ये श्लोकवार्तिकम्)
बहुव्रीहावृते सिद्धम्
अन्तरेणापि बहुव्रीहिग्रहणं सिद्धम् ।
तत्पुरुषे कस्मान्न भवति ?
तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्यवद्वितीयाकृत्याः (6-2-2) ःथ्द्य;त्येतन्नियमार्थं भविष्यति ।
द्विगौ तर्हि कस्मान्न भवति ?
ःथ्द्य;गन्ते द्विगावित्येतन्नियमार्थं भविष्यति ।
द्वन्द्वे तर्हि प्राप्नोति ।
राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु (6-2-34) ःथ्द्य;ति नियमार्थं भविष्यति ।
अव्ययीभावे तर्हि प्राप्नोति ।
परिप्रत्युपापा र्वज्यमानाहोरात्रावयवेषु (6-2-33) ःथ्द्य;त्येतन्नियमार्थं भविष्यति ।।
(ःथ्द्य;ष्टनियमसम्भवबोधकं भाष्यम्)
एवमपि कुत एतत्---एवं नियमो भविष्यति---एतेषामेव तत्पुरुषादिषु---ःथ्द्य;ति, न पुनरेवं नियमः स्यात्---एतेषां तत्पुरुषादिष्वेव---ःथ्द्य;ति ।।
(ःथ्द्य;ष्टनियमे श्लोकवार्तिकम्)
ःथ्द्य;ष्टतश्चावधारणम् ।
ःथ्द्य;ष्टतश्चावधारणं भविष्यति ।
(ःथ्द्य;ष्टनियमाक्षेपभाष्यम्)
एतेषां तर्हि बहुव्रीहेश्च पर्यायः प्राप्नोति ।।
(समाधाने श्लोकवार्तिकम्)
द्विपाद्दिष्टेर्वितस्तेश्च पर्यायो न प्रकल्पते ।। 3 ।।
यदयं द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ दिष्टिवितस्त्योश्च (6-2-197, 31) ःथ्द्य;ति सिद्धे पर्याये पर्यायं शास्ति तज्ज्ञापयत्याचार्यः---पर्यायो न भवतीति ।।
(ज्ञापनसमर्थकं श्लोकवार्तिकम्)
उदात्ते ज्ञापकं त्वेतत् ।
उदात्त एतज्ज्ञापकं स्यात् ।।
(ज्ञापकसमर्थकं श्लोकवार्तिकम्)
स्वरितेन समाविशेत् ।।
स्वरितेन च समावेशः प्राप्नोति । स्वरितेऽप्युदात्तोऽस्ति ।।
(संग्रहः)
बहुव्रीहिस्वरं शास्ति समासान्तविधेः सुकृत् ।
नञ्ञ्सुभ्यां नियमार्थं तु परस्य शिति शासनात् ।। 1 ।।
क्षेपे विधिर्नञ्ञोऽसिद्धः परस्य नियमो भवेत् ।
अन्तश्च वा प्रिये सिद्धं संभवात्प्रकृताद्विधेः ।। 2 ।।
बहुव्रीहावृते सिद्धमिष्टतश्चावधारणम् ।
द्विपाद्दिष्टेर्वितस्तेश्च पर्यायो न प्रकल्पते ।। 3 ।।
उदात्ते ज्ञापकं त्वेतत्स्वरितेन समाविशेत् ।।
-6-2-2- तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः (2662)
(6325 एकदेशिनः प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः -
तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधो वक्तव्यः । परमं कारकम्---परमकारकम् । परमेण कारकेण---परमकारकेण । परमे कारके---परमकारके ःथ्द्य;ति ।।
(6326 उपसंख्यानानर्थक्यबोधकं वार्तिकम् ।। 2 ।।)
- सिद्धं तु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात् -
सिद्धमेतत् ।
कथम् ?
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति प्रतिपदं यो द्वितीयासप्तमीतृतीयासमासस्तस्य ग्रहणम्,
लक्षणोक्तश्चायम् ।।
(वार्तिकावतरणभाष्यम्)
अव्यये परिगणनं कर्तव्यम् ।।
(6327 परिगणनोपसंख्यानवार्तिकम् ।। 3 ।।)
- अव्यये नञ्ञ्कुनिपातानाम् -
अव्यये नञ्ञ्कुनिपातानामिति वक्तव्यम् ।
नञ्ञ्--अब्राह्मणः, अवृषलः । नञ्ञ् ।।
कु---कुब्राह्मणः, कुवृषलः । कु ।।
निपात---निष्कौशाम्बिः, निर्वाराणसिः ।
क्व मा भूत् ?
स्नात्वाकालकः, पीत्वास्थिरकः ।
(6328 एकदेशिन उपसंख्यानवार्तिकम् ।। 4 ।।)
- क्त्वायां वा प्रतिषेधः -
क्त्वायां वा प्रतिषेधो वक्तव्यः । स्नात्वाकालकः, पीत्वास्थिरकः ।।
उभयं न वक्तव्यम् ।।
(6329 सिद्धान्तवार्तिकम् ।। 5 ।।)
- निपातनात्सिद्धम् -
निपातनादेतत्सिद्धम् ।
किं निपातनम् ?
अवश्यमत्र समासार्थं ल्यबभावार्थं च निपातनं कर्तव्यम्, तेनैव यत्नेन स्वरो न भविष्यति ।।
-6-2-11- सदृशप्रतिरूपयोः सादृश्ये (2671)
(6330 सदृशपदाक्षेपवार्तिकम् ।। 1 ।।)
- सदृशग्रहणमनर्थकं तृतीयासमासवचनात् -
सदृशग्रहणमनर्थकम् ।
किं कारणम् ?
तृतीयासमासवचनात् । सदृशशब्देन तृतीयासमास उच्यते, तत्र तृतीयापूर्वपदं प्रकृतिस्वरं भवतीत्येवं सिद्धम् ।।
(पदसमर्थकभाष्यम्)
षष्ठ्यर्थं तर्हीदं वक्तव्यम्, पितुः सदृशः---पितृसदृश ःथ्द्य;ति ।।
(6331 पदसमर्थनाक्षेपवार्तिकम् ।। 2 ।।)
- षष्ठ्यर्थमिति चेत्तृतीयासमासवचनानर्थक्यम् -
षष्ठ्यर्थमिति चेत् तृतीयासमासवचनमनर्थकं स्यात् ।
किं कारणम् ?
ःथ्द्य;हास्माभिस्त्रैशब्द्यं साध्यम्---पित्रा सदृशः, पितुः सदृशः, पितृसदृश ःथ्द्य;ति । तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः, अपरेण वृत्तिर्भविष्यति अविरविकन्यायेन । तद्यथा---अवेर्मांसमिति विगृह्याविकशब्दादुत्पत्तिर्भवति---आविकमिति ।
एवं पितुः सदृश ःथ्द्य;ति विगृह्य पितृसदृश ःथ्द्य;ति भविष्यति ।
पित्रा सदृश ःथ्द्य;ति विगृह्य वाक्यमेव भविष्यति ।।
(समाधानभाष्यम्)
अवश्यं तृतीयासमासो वक्तव्यः । यत्र षष्ठ्यर्थो नास्ति तदर्थम्---भोजनसदृशः, अध्ययनसदृश ःथ्द्य;ति
।
यदि तर्हि तस्य निबन्धनमस्ति तदेव वक्तव्यम्, ःथ्द्य;दं न वक्तव्यम् ।
ःथ्द्य;दमप्यवश्यं वक्तव्यम्, यत्र षष्ठी श्रूयते तदर्थम्---दास्याः सदृशः, वृषल्याः सदृश ःथ्द्य;ति ।।
-6-2-33- परिप्रत्युपापा र्वज्यमानाहोरात्रावयवेषु (2693)
(6334 एकदेशिनो विप्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- परिप्रत्युपापेभ्यो वनं समासे विप्रतिषेधेन -
परिप्रत्युपापेभ्यः नवं समासे (6-2-178) ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।
परिप्रत्युपापा र्वज्यमानाहोरात्रावयवेष्वित्यस्यावकाशः---परित्रिगर्तम्, परिसौवीरम् ।
वनं समास ःथ्द्य;त्यस्यावकाशः---प्रवणे यष्टव्यम् ।
ःथ्द्य;होभयं प्राप्नोति---परिवनम्, अपवनम् ।
वनं समासे ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।।
(6335 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 2 ।।)
- न वा वनस्यान्तोदात्तवचनं तदपवादनिवृत्त्यर्थम् -
न वाऽर्थो विप्रतिषेधेन ।
किं कारणम् ?
वनस्यान्तोदात्तवचनं तदपवादनिवृत्त्यर्थम् ।
सिद्धमत्रान्तोदात्तत्वमुत्सर्गेणैव । तस्य पुनर्वचन एतत् प्रयोजनं---येऽन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।
स यथैव तदपवादमव्ययस्वरं बाधते, एवमिममपि बाधिष्यते ।।
-6-2-36- आचार्योपसर्जनश्चान्तेवासी ( 2696)
(6336 आक्षेपवार्तिकम् ।। 1 ।।)
- आचार्योपसर्जनेऽनेकस्यापि पूर्वपदत्वात्संदेहः -
आचार्योपसर्जनेऽनेकस्यापि पदस्य पूर्वपदत्वात्संदेहो भवति---आपिशलपाणिनीयव्याडीयगौतमीयाः ।
एवं पदं वर्जयित्वा सर्वाणि पूर्वपदानि, तत्र न ज्ञायते---कस्य पूर्वपदस्य स्वरेण भवितव्यमिति ।।
(6337 समाधानवार्तिकम् ।। 2 ।।)
- लोकविज्ञानात्सिद्धम् -
तद्यथा---लोकेऽमीषां ब्राह्मणानां पूर्वमानयेति यः सर्वपूर्वः स आनीयते । एवमिहापि यत्सर्वपूर्वपदं तस्य प्रकृतिस्वरत्वं भविष्यति ।।
-6-2-38- महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु (2699)
(प्रवृद्धशब्दाक्षेपसमाधानभाष्यम्)
किमर्थं महतः प्रवृद्धशब्द उत्तरपदे पूर्वपदप्रकृतिस्वरत्वमुच्यते, न कर्मधारयेऽनिष्ठा (6-2-46) ःथ्द्य;त्येव सिद्धम् ?
न सिध्यति ।
किं कारणम् ?
श्रेण्यादिसमास ःथ्द्य;त्येवं तत् ।
किं पुनः कारणं श्रेण्यादिसमास ःथ्द्य;त्येवं तत् ?
ःथ्द्य;ह मा भूत्---महानिरष्टो दक्षिणा दीयते ।।
-6-2-42- कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च (2702)
(6338 उपसंख्यानवार्तिकम् ।। 1 ।।)
- कुरुवृज्योर्गार्हपते -
कुरुवृज्योर्गार्हपते ःथ्द्य;ति वक्तव्यम् । कुरुगार्हपतम्, वृजिगार्हपतम् ।।
(उपसंख्यानभाष्यम्)
कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूः पण्यकम्बलोदासीभारादीनामिति वक्तव्यम् । ःथ्द्य;हापि यथा स्यात्---देवहूतिः, देवनीतिः, वसुनीतिः, ओषधिश्चन्द्रमाः ।।
(योगविभामेनोपसंख्यानार्थसाधकभाष्यम्)
तत्तर्हि वक्तव्यम् ।
न वक्तव्य् ।
योगविभागः करिष्यते---कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलः ःथ्द्य;ति ।
ततः---दासीभाराणां च---ःथ्द्य;ति । तत्र बहुवचननिर्देशात् दासीभारादीनां च--- ःथ्द्य;ति विज्ञास्यते ।।
(6339 उपसंख्यानवार्तिकम् ।। 2 ।।)
- पण्यकम्बलः संज्ञायम् -
पण्यकम्बलः संज्ञायामिति वक्तव्यम् ।
यो हि पणितव्यः कम्बलः, पण्यकम्बल एवासौ स्यात् ।।
अपर आह--पण्यकम्बल एव यथा स्यात् ।
क्व मा भूत् ?
पण्यगवः, पण्यहस्ती ।।
-6-2-47- अहीने द्वितीया (2707)
(पदकृत्यभाष्यम्)
अहीन ःथ्द्य;ति किमर्थम् ?
कान्तारातीतः, योजनातीतः ।।
(6340 उपसंख्यानवार्तिकम् ।। 1 ।।)
- अहीने द्वितीयाऽनुपसर्गे -
अहीने द्वितीयाऽनुपसर्गे ःथ्द्य;ति वक्तव्यम् ।
ःथ्द्य;ह मा भूत्---सुखं प्राप्तः---सुखप्राप्तः । दुःखं प्राप्तः---दुःखप्राप्त ःथ्द्य;ति ।।
(अहीनपदाभावे उपसंख्यानबोधकभाष्यम्)
तत्तर्हि वक्तव्यम् । यद्यप्येतदुच्यते, अत वै तर्ह्यहीनग्रहणं न करिष्यते । ःथ्द्य;हापि--कान्तारातीतः, योजनातीत ःथ्द्य;ति---अनुपसर्गे ःथ्द्य;त्येव सिद्धम् ।।
-6-2-50- तादौ च निति कृत्यतौ (2710)
(पदकृत्यभाष्यम्)
कृद्ग्रहणं किमर्थम् ?
यथा तकारादिग्रहणं कृद्विशेषणं विज्ञायेत---तकारादौ निति कृतीति ।
अथाक्रियमाणे कृद्ग्रहणे तकारादिग्रहणं कस्य विशेषणं स्यात् ?
उत्तरपदविशेषणम् ।
तत्र को दोषः ?
ःथ्द्य;हैव स्यात्---प्रतरिता, प्रतरितुम् ।
ःथ्द्य;ह न स्यात्---प्रकर्ता, प्रकर्तुम् ।
(6348 कृद्ग्रहणानर्थक्यम् ।। 1 ।।)
- तादौ निति कृद्ग्रहणानर्थक्यम् -
तादौ निति कृद्ग्रहणमनर्थकम् । क्रियमाणेऽपि वै कृद्ग्रहणेऽनिष्टं शक्यं विज्ञातुम्---तकारादौ उत्तरपदे
निति कृति---ःथ्द्य;ति ।
अक्रियमाणेऽपि चेष्टम्---निद्यस्तकारादिस्तदन्त उत्तरपद ःथ्द्य;ति ।
यावता क्रियमाणे चानिष्टं विज्ञायते, अक्रियमाणे चेष्टम् ।
अक्रियमाण एवेष्टं विज्ञास्यामः ।।
(6349 समाधानवार्तिकम् ।। 2 ।।)
- कृदुपदेशे वा ताद्यर्थमिडर्थम् -
कृदुपदेशे तर्हि ताद्यर्थमिडर्थं कृद्ग्रहणं कर्तव्यम् । कृदुपदेशे यस्तकारादिः---ःथ्द्य;त्येवं यथा विज्ञायेत ।
किं प्रयोजनम् ?
ःथ्द्य;डर्थम् । ःथ्द्य;डादावपि सिद्धं भवति---प्रलपिता, प्रलपितुम् ।।
-6-2-52- अनिगन्तोऽञ्ञ्चतौ वप्रत्यये (2712)
(6350 अतिप्रसङ्गापादकवार्तिकम् ।। 1 ।।)
- अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः -
अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृति स्वरभावः, प्राप्नोति । प्रत्यङ्, प्रत्यञ्ञ्चौ, प्रत्यञ्ञ्चः ।।
(अनिगन्तपदाक्षेपभाष्यम्)
अनिगन्तवचनमिदानीं किमर्थं स्यात् ?
(6351 अनिगन्तपदप्रयोजनवार्तिकम् ।। 2 ।।)
- अनिगन्तवचनं किमर्थमिति चेदयणादिष्टार्थम् -
अयणादेशार्थमेतत् स्यात् । यदा यणादेशो न ।
कदा च यणादेशो न ?
यदा शाकलम् ।।
(6352 आक्षेपवार्तिकम् ।। 3 ।।)
- उक्तं वा -
किमुक्तम् ?
समासे शाकलं न भवति---ःथ्द्य;ति ।।
(प्रयोजनभाष्यम्)
यत्र तर्ह्यञ्ञ्चेतरकारो लुप्यते । प्रतीचः, प्रतीचा ।
चुस्वरस्तत्र बाधको भविष्यति ।
अयमेवेष्यते ।
वक्ष्यति ह्येतत्---चोरनिगन्तोऽञ्ञ्चतावप्रत्यय ःथ्द्य;ति ।।
यत्तर्हि--न्यध्योः प्रकृतिस्वरं शास्ति ।
एष हि यणादिष्टार्थमारम्भः ।
एतदप्ययणादिष्टार्थमेव, यदा यणादेशो न ।
कदा च यणादेशो न ?
यदा शाकलम् ।
उक्तं वा ।
किमुक्तम् ?
समासे शाकलं न भवतीति ।।
यत्र तर्ह्यञ्ञ्चतेरकारो लुप्यते---अधीचः, अधीचा ।
चुस्वरस्तत्र बाधको भविष्यति ।
अयमेवेष्यते ।
वक्ष्यति ह्येतत्---चोरनिगन्तोऽञ्ञ्चतावप्रत्यय ःथ्द्य;ति ।।
यत्तर्हि नेरेव प्रकृतिस्वरं शास्ति ।
एष हि यणादिष्टार्थ आरम्भः ।
एतदप्ययणादिष्टार्थमेव ।
कथम् ?
अकृते यणादेशे पूर्वपदप्रकृतिस्वरत्वे कृते उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (8-2-4) ःथ्द्य;त्येष स्वरः सिद्धो भवति । न्यङ् ।।
तस्मात्सुष्ठूच्यते---अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्ग ःथ्द्य;ति ।।
(6353 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 4 ।।)
- चोरनिगन्तोऽञ्ञ्चतावप्रत्यये -
चुस्वरादनिगन्तोऽञ्ञ्चतावप्रत्यय ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।
चुस्वरस्यावकाशः---दधीचः पश्य, दधीचा, दधीचे ।
अनिगन्तोऽञ्ञ्चतावप्रत्यय ःथ्द्य;त्यस्यावकाशः---पराङ्, पराञ्ञ्चौ, पराञ्ञ्चः ।
ःथ्द्य;होभयं प्राप्नोति---अवाचा, अवाचे ।
अनिगन्तोऽञ्ञ्चतावप्रत्यय ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।।
(6354 विप्रतिषेधासंभवबोधकवार्तिकम् ।। 5 ।।)
- न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधादितरथा हि सर्वापवादः -
न वा एतद्विप्रतिषेधेनापि सिध्यति ।
कथं तर्हि सिध्यति ?
चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् । चुस्वरः पूर्वपदप्रकृतिस्वरभाविनः प्रतिषेध्यः । ःथ्द्य;तरथा हि सर्वापवादश्चुस्वरः । अक्रियमाणे हि प्रतिषेधे सर्वापवादोऽयं चुस्वरः ।
कथम् ?
प्रत्ययस्वरस्यापवादः---अनुदात्तौ सुप्तितौ (3-1-4) । अनुदात्तौ सुप्तितावित्यस्योदात्तनिवृत्तिस्वरः । उदात्तनिवृत्तिस्वरस्य चुस्वरः ।
स यथैवोदात्तनिवृत्तिस्वरं बाधत एवमनिगन्तस्वरमपि बाधेत ।।
यदि तावत्संख्यातः साम्यम्, अयमपि चतुर्थः ।
समासान्तोदात्तत्वस्यापवादोऽव्ययस्वरः ।
अव्ययस्वरस्य कृत्स्वरः ।
कृत्स्वरस्यायम् ।
उभयोश्चतुर्थयोर्युक्तो विप्रतिषेधः ।।
सति शिष्टस्तर्हि चुस्वरः ।
कथम् ?
चावित्युच्यते, यत्रास्यैद्रूपं भवति ।
क्वचास्यैतद्रूपम् ?
यजादावसर्वनामस्थानेऽभिनिर्वृत्ते अकारलोपे नकारलोपे च कृते ।
तस्मात्सुष्ठूच्यते---न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधादितरथा हि सर्वापवाद ःथ्द्य;ति ।।
(6355 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 6 ।।)
- विभक्तीषत्स्वरात्कृत्स्वरः -
विभक्तिस्वरात्---ःथ्द्य;र्षत्स्वराच्च कृत्स्वरो भवति विप्रतिषेधेन ।
विभक्तिस्वरस्यावकाशः---अक्षशौण्डः, स्त्रीशौण्डः ।
कृत्स्वरस्यावकाशः---ःथ्द्य;ध्मप्रव्रश्चनः, पलाशशातनः ।
ःथ्द्य;होभयं प्राप्नोति---पूर्वाह्णे स्फोटकः, अपराह्णे स्फोटकः ।
कृत्स्वरो भवति विप्रतिषेधेन ।।
ःथ्द्य;र्षत्स्वरस्यावकाशः---ःथ्द्य;र्षत्कडारः, ःथ्द्य;र्षत्पिङ्गलः ।
कृत्स्वरस्य स एव ।
ःथ्द्य;होभयं प्राप्नोति---ःथ्द्य;र्षद्भेदः ।
कृत्स्वरो भवति विप्रतिषेधेन ।।
(6356 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 7 ।।)
- चित्स्वराद्धारिस्वरः -
चित्स्वराद्धारिस्वरो भवति विप्रतिषेधेन ।
चित्स्वरस्यावकाशः---चलनः, चोपनः ।
हारिस्वरस्यावकाशः---याज्ञिकाश्वः, वैयाकरणहस्ती ।
ःथ्द्य;होभयं प्राप्नोति---पितृगवः, मातृगवः ।
हारिस्वरो भवति विप्रतिषेधेन ।।
(विप्रतिषेधोपसंख्यानभाष्यम्)
कृत्स्वराद्धारिस्वरो विप्रतिषेधेन ।
कृत्स्वरस्यावकाशः---ःथ्द्य;ध्मव्रश्चनः, पलाशशातनः ।
हारिस्वरस्य स एव ।
ःथ्द्य;होभयं प्राप्नोति---अक्षहृतः, वाडवहार्यः ।
हारिस्वरो भवति विप्रतिषेधेन ।।
(6357 कृत्स्वरविप्रतिषेधानर्थक्यबोधकवार्तिकम् ।। 8 ।।)
- न वा हरणप्रतिषेधो ज्ञापकः कृत्स्वराबाधकत्वस्य -
न वाऽर्थो विप्रतिषेधेन ।
किं कारणम् ?
हरणप्रतिषेधो ज्ञापकः कृत्स्वराबाधकत्वस्य । यदयं अहरणे ःथ्द्य;ति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः---न कृत्स्वरो हारिस्वरं बाधत ःथ्द्य;ति ।
नैतदस्ति ज्ञापकम् । अनो भावकर्मवचनः (6-2-150) ःथ्द्य;त्येतस्मिन् प्राप्ते तत एतदुच्यते ।।
यद्येवं साधीयो ज्ञापकम् । कृत्स्वरस्यापवादः---अनो भावकर्मवचनः ःथ्द्य;ति । बाधकं किलायं बाधते, किं पुनस्तन्न बाधिष्यते ?
(विप्रतिषेधबोधकभाष्यम्)
युक्तस्वरश्च कृत्स्वराद्भवति विप्रतिषेधेन ।
युक्तस्वरस्यावकाशः---गोबल्लवः, अश्वबल्लवः ।
कृत्स्वरस्य स एव ।
ःथ्द्य;होभयं प्राप्नोति---गोसंख्यः, पशुसंख्यः, अश्वसंख्यः ।
युक्तस्वरो भवति विप्रतिषेधेन ।।
-6-2-49- गतिरनन्तरः (2709)
(पदकृत्यभाष्यम्)
अनन्तर ःथ्द्य;ति किमर्थम् ?
ःथ्द्य;ह मा भूत्---अभ्युद्धृतम्, उपसमाहृतम् ।।
(6341 अनन्तरग्रहणाक्षेपवार्तिकम् ।। 1 ।।)
- गतेरनन्तरग्रहणमनर्थकं गतिर्गताविति वचनात् -
गतेरनन्तरग्रहणमनर्थकम् ।
किं कारणम् ?
गतिर्गतौ ःथ्द्य;ति वचनात् । गतौ परतो गतेरनुदात्तत्वमुच्यते, तद्बाधकं भविष्यति ।।
(6342 अनन्तरपदसत्त्वेऽपि दोषवार्तिकम् ।। 2 ।।)
- तत्र यस्याप्रकृतिस्वरत्वं तस्मादन्तोदात्तत्वप्रसङ्गः -
तत्र यस्य गतेरप्रकृतिस्वरत्वं तस्मादन्तोदात्तत्वं प्राप्नोति---अन्तः थाथघञ्ञ्क्ताजबित्रकाणाम् (6-2-143;144) ःथ्द्य;ति ।।
(6343 अनन्तरपदसत्त्वे दोषापोहवार्तिकम् ।। 3 ।।)
- प्रकृतिस्वरवचनाद्ध्यनन्तोदात्तत्वम् -
प्रकृतिस्वरवचनसार्मथ्यादन्तोदात्तत्वं न भविष्यति ।
यदि हि स्यात्, प्रकृतिस्वरवचनमिदानीं किमर्थं स्यात् ?
(6344 प्रकृतिस्वरफलबोधकवार्तिकम् ।। 4 ।।)
- प्रकृतिस्वरवचनं किमर्थमिति चेत् एकगत्यर्थम् -
प्रकृतिस्वरवचनं किमर्थमिति चेदेकगत्यर्थम् । य एको गतिस्तदर्थमेतत् स्यात् । प्रकृतम्, प्रहृतम् ।।
(अनन्तरग्रहणप्रयोजनभाष्यम्)
एवमर्थमेव तर्ह्यनन्तरग्रहणं कर्तव्यम्, अत्र यथा स्यात् ।
क्रियमाणेऽपि वै अनन्तरग्रहणेऽत्र न सिध्यति ।
किं कारणम् ?
गतिरनन्तरं पूर्वपदं प्रकृतिस्वरं भवतीत्युच्यते । यश्चात्र गतिरनन्तरः नासौ पूर्वपदम् । यच्च पूर्वपदम्, नासावनन्तरः ।।
अपूर्वपदार्थं तर्हीदं वक्तव्यम् । अपूर्वपदस्यापि गतेः प्रकृतिस्वरत्वं यथा स्यात् ।।
(6345 अनन्तरपदस्यापूर्वपदार्थत्वे आक्षेपवार्तिकम् ।। 5 ।।)
- अपूर्वपदार्थमिति चेत् कारकेऽतिप्रसङ्गः -
अपूर्वपदार्थमिति चेत्कारकेऽतिप्रसङ्गो भवति । आगतः, दूरादागतः । स यथैव गतिपूर्वपदस्य भवति, एवं कारकपूर्वपदस्यापि प्राप्नोति ।।
(6346 समाधानवार्तिकम् ।। 6 ।।)
- सिद्धं तु गतेरन्तोदात्ताप्रसङ्गात् -
सिद्धमेतत् ।
कथम् ?
यत्तत् अन्तः थाथघञ्ञ्क्ताजबित्रकाणाम् ःथ्द्य;त्येतद्गतेर्न प्रसङ्क्तव्यम् ।
किं कृतं भवति ?
कृत्स्वरापवादोऽयं भवति ।
तत्र गतिरन्तर ःथ्द्य;त्यस्यावकाशः---प्रकृतम्, प्रहृतम् ।
अन्तः थाथघञ्ञ्क्ताजबित्रकाणाम् ःथ्द्य;त्यस्यावकाशः---दूराद्गतः, दूराद्यातः ।
ःथ्द्य;होभयं प्राप्नोति---आगतः, दूरादागतः ।
अन्तः थाथघञ्ञ्क्ताजबित्रकाणाम् ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।।
(थाथादिसूत्रे गतिग्रहणाननुवर्तने दोषभाष्यम्)
अवश्यं गतेस्तत् प्रसङ्क्तव्यम्, भेदः---प्रभेद ःथ्द्य;त्येवमर्थम् ।।
(दोषापोहभाष्यम्)
एवं तर्हि योगविभागः करिष्यते---अन्तः, थाथघञ्ञजबित्रकाणाम् । ततः---क्तः, क्तान्तमुत्तरपदमन्तोदात्तं भवति । अत्र कारकोपपदग्रहणमनुवर्तते, गतिग्रहणं निवृत्तम् ।।
अथ वोपरिष्टाद्योगविभागः करिष्यते । ःथ्द्य;दमस्ति--सूपमानात् क्तः संज्ञायामनाचितादीनाम् प्रवृद्धादीनां च (6-2-145,146,147) ःथ्द्य;ति ।
ततो वक्ष्यामि---कारकात् । कारकाच्च क्तान्तमुत्तरपदमन्तोदात्तं भवति---ःथ्द्य;ति ।।
ततः---दत्तश्रुतयोरेवाशिषि, कारकादिति ।।
(अनन्तरग्रहणवैर्य्यथ्यबोधकभाष्यम्)
एवञ्ञ्च कृत्वा नार्थोऽनन्तरग्रहणेन ।।
कथमभ्युद्धृतम् ?
उत् हरतिक्रियां विशिनष्टि । उदा विशिष्टामभिर्विशिनष्टि । तत्र गतिरनन्तरः ःथ्द्य;ति च प्राप्नोति, गतिर्गतौ (8-1-70) ःथ्द्य;ति च ।
गतिरनन्तर ःथ्द्य;त्यस्यावकाशः---प्रकृतम्, प्रहृतम् ।
गतिर्गतावित्यस्यावकाशः---अभ्युद्धरति, उपसमादधाति ।
ःथ्द्य;होभयं प्राप्नोति---अभ्युद्धृतम्, उपसंहृतम्, उपसमाहितम् ।
गतिर्गतावित्येतत् भवति विप्रतिषेधेन ।।
(सिद्धान्तभाष्यम्)
एवं तर्हि सिद्धे सति यदनन्तरग्रहणं करोति तज्ज्ञापयत्याचार्यः---भवत्येषा परिभाषा कृद्ग्रहणे गतिकारकपूर्वस्यापि---ःथ्द्य;ति ।
(परिभाषाफलबोधकभाष्यम्)
किमेतस्य ज्ञापने प्रयोजनम् ?
अवतप्ते नकुलस्थितं त एतत्, उदके विशीर्णं त एतत् । सगतिकेन सनकुलेन च समासः सिद्धो भवति ।।
-6-2-80- उपमानं शब्दार्थप्रकृतावेव (2740)
(उपमानपदप्रयोजनभाष्यम्)
उपमानमिति किमर्थम् ?
शब्दार्थप्रकृतावेवेतीयत्युच्यमाने पूर्वेणातिप्रसक्तमिति कृत्वा नियमोऽयं विज्ञायेत ।
तत्र को दोषः ?
ःथ्द्य;ह न स्यात्---पुष्पहारी, फलहारी ।
उपमानग्रहणेन पुनः क्रियमाणे न दोषो भवति ।।
(शब्दार्थपदप्रयोजनभाष्यम्)
अथ शब्दार्थग्रहणं किमर्थम् ?
उपमानं प्रकृतावेवेतीयत्युच्यमाने ःथ्द्य;हापि प्रसज्येत---वृकवञ्ञ्ची, वृकप्रेक्षी ।
शब्दार्थग्रहणे पुनः क्रियमाणे न दोषो भवति ।।
(प्रकृतिग्रहणप्रयोजनभाष्यम्)
अथ प्रकृतिग्रहणं किमर्थम् ?
शब्दार्थप्रकृतिरेव यो नित्यं तत्र यथा स्यात् ।
ःथ्द्य;ह मा भूत्---कोकिलाभिव्याहारी, गर्दभोच्चारी ।
(एवपदप्रयोजनभाष्यम्)
अथैवकारः किमर्थः ?
नियमार्थः ।
नैतदस्ति प्रयोजनम् । सिद्धे विधिरारभ्यमाणोऽन्तरेणैवकारं नियमार्थो भविष्यति ।
ःथ्द्य;ष्टतोऽवधारणार्थस्तर्हि । यथैवं विज्ञायेत---उपमानं शब्दार्थप्रकृतावेवेति ।
मैवं विज्ञायि--उपमानमेव शब्दार्थप्रकृताविति ।
शब्दार्थप्रकृतौ ह्युपमानं चानुपमानं चाद्युदात्तमिष्यते । साध्वध्यायी, बिलम्बिताध्यायी ।।
-6-2-82- दीर्घकाशतुषभ्राष्ट्रवटं जे (2742)
(विप्रतिषेधबोधकभाष्यम्)
जे दीर्घान्तस्यादिरुदात्तो भवतीत्येतस्मात् अन्त्यात्पूर्वं बह्वचः ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।
जे दीर्घान्तस्यादिरुदात्तो भवतीत्यस्यावकाशः---कुटीजः, शमीजः ।
अन्त्यात्पूर्वं बह्वच ःथ्द्य;त्यस्यावकाशः---उपसरजः, मन्दुरजः ।
ःथ्द्य;होभयं प्राप्नोति---आमलकीजः, वलभीजः ।
अन्त्यात्पूर्वं बह्वच ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।।
-6-2-91- न भूताधिकसञ्ञ्जीवमद्राश्मकज्जलम् (2751)
(उपसंख्यानभाष्यम्)
आद्युदात्तप्रकरणे दिवोदासादीनां छन्दसि उपसंख्यानं कर्तव्यम् । दिवोदासाय गायत वध्र्यश्वाय दाशुषे ।।
-6-2-92- अन्तः ( 2752)
-6-2-93- सर्वं गुणकार्त्स्न्ये (2753)
(सर्वपदप्रयोजनभाष्यम्)
सर्वग्रहणं किमर्थम् ?
गुणकात्स्न्ये ःथ्द्य;तीयत्युच्यमाने ःथ्द्य;हापि प्रसज्येत--परमशुक्लः, परमकृष्ण ःथ्द्य;ति ।
सर्वग्रहणे पुनः क्रियमाणे न दोषो भवति ।।
(गुणपदप्रयोजनभाष्यम्)
अथ गुणग्रहणं किमर्थम् ?
सर्वं कार्त्स्न्ये ःथ्द्य;तीयत्युच्यमाने ःथ्द्य;हापि प्रसज्येत---सर्वसौवर्णः, सर्वराजत ःथ्द्य;ति ।
गुणग्रहणे पुनः क्रियमाणे न दोषो भवति ।।
(कार्त्स्न्यग्रहणप्रयोजनभाष्यम्)
अथ कार्त्स्न्यग्रहणं किमर्थम् ?
सर्वं गुणे ःथ्द्य;तीयत्युच्यमाने ःथ्द्य;हापि प्रसज्येत सर्वेषां श्वेतः---सर्वश्वेत ःथ्द्य;ति ।
कथं चात्र समासः ?
षष्ठी सुबन्तेन समस्यते ःथ्द्य;ति ।
गुणेन नेति प्रतिषेधः प्राप्नोति ।
एवं तर्हि---
(6358 समासोपसंख्यानवार्तिकम् ।। 1 ।।)
- गुणात्तरेण समासस्तरलोपश्च -
गुणात्तरेण समासो वक्तव्यः, तरलोपश्च । सर्वेषां श्वेततरः--सर्वश्वेतः ।।
-6-2-105- उत्तरपदवृद्धौ सर्वं च (2765)
(उत्तरपदवृद्धिपदार्थबोधकभाष्यम्)
अयुक्तोऽयं निर्देशः, न ह्युत्तरपदं नाम वृद्धिरस्ति ।
कथं तर्हि निर्देशः कर्तव्यः ?
वृद्धिमत्युत्तरपद ःथ्द्य;ति ।
स तर्हि तथा निर्देशः कर्तव्यः ।
न कर्तव्यः । नैवं विज्ञायते---उत्तरपदं वृद्धिः--उत्तरपदवृद्धिः, उत्तरपदवृद्धाविति ।
कथं तर्हि ?
उत्तरपदस्य वृद्धिरस्मिन् सोऽयम्---उत्तरपदवृद्धिः,
उत्तरपदवृद्धाविति ।।
-6-2-106- बहुव्रीहौ विश्वं संज्ञायाम् (2766)
(6359 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- बहुव्रीहौ विश्वस्यान्तोदात्तात्संज्ञायां मित्राजिनयोरन्तः -
बहुव्रीहौ विश्वस्यान्तोदात्तात्संज्ञायां मित्राजिनयोरन्त ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।
बहुव्रीहौ विश्वं संज्ञायाम् ःथ्द्य;त्यस्यावकाशः---विश्वदेवः, विश्वयशाः ।
मित्राजिनयोरन्त ःथ्द्य;त्यस्यावकाशः---कुलमित्रम्, कुलाजिनम् ।
ःथ्द्य;होभयं प्राप्नोति---विश्वमित्रः, विश्वाजिनः ।
मित्राजिनयोरन्त ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।।
(उपसंख्यानभाष्यम्)
अन्तोदात्तप्रकरणे मरुद्वृधादीनां छन्दस्युपसंख्यानं कर्तव्यम् । मरुद्वृधः सुवया उपतस्थे ।।
-6-2-107- उदराश्वेषुषुन (2767)
-6-2-108- क्षेपे (2768)
(6360 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- उदरादिभ्यो नञ्ञ्सुभ्याम् -
उदराश्वेषुषु क्षेपे ःथ्द्य;त्येतस्मात् नञ्ञ्सुभ्याम् (172) ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।
उदराश्वेषुषु क्षेपे ःथ्द्य;त्यस्यावकाशः---कुण्डोदरः, घटोदरः ।
नञ्ञ्सुभ्यामित्यस्यावकाशः---अयवः, अतिलः, अमाषः, सुयवः, सुतिलः, सुमाषः ।
ःथ्द्य;होभयं प्राप्नोति---अनुदरः, सूदरः ।
नञ्ञ्सुभ्यामित्येतद्भवति विप्रतिषेधेन ।।
-6-2-117- सोर्मनसी अलोमोषसी( 2777)
(6361 विप्रतिषेधवार्तिकम् ।। 1 ।।)
- सोर्मनसोः कपि -
सोर्मनसी अलोमोषसी ःथ्द्य;त्येतस्मात् कपि पूर्वम् (173) ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।
सोर्मनसी अलोमोषसी ःथ्द्य;त्येतस्यावकाशः---सुशर्माणमधिनावं रुहेम, सुशर्मासि सुप्रतिष्ठानः, सुस्रोताः, सुपयाः, सुवर्चाः ।
कपि पूर्वम् ःथ्द्य;त्यस्यावकाशः---अयवकः, अतिलकः ।
ःथ्द्य;होभयं प्राप्नोति---सुशर्मकः, सुस्रोतस्कः ।
कपि पूर्वम् ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।।
-6-2-121- कूलतीरतूलमूलशालाक्षसममव्ययीभावे (2781)
(6362 विप्रतिषेधवार्तिकम् ।। 1 ।।)
- पर्यादिभ्यः कूलादीनामाद्युदात्तत्वम् -
पर्यादिभ्यः कूलादीनामाद्युदात्तत्वं भवति विप्रतिषेधेन ।
परिप्रत्युपापा र्वज्यमानाहोरात्रावयवेषु ःथ्द्य;त्यस्यावकाशः---परित्रिगर्तम्, परिसौवीरम् ।
कूलादीनामाद्युदात्तत्वस्यावकाशः---अनुकूलम्, अतिकूलम् ।
ःथ्द्य;होभयं प्राप्नोति---परिकूलम् ।
कूलादीनामाद्युदात्तत्वं भवति विप्रतिषेधेन ।।
-6-2-126- चेलखेटकटुककाण्डं गर्हायाम् (2786)
-6-2-130- अकर्मधारये राज्यम् (2790)
(6363 विप्रतिषेधवार्तिकम् ।। 1 ।।)
- चेलराज्यादिभ्योऽव्ययम् -
चेलराज्यादिस्वरादव्ययस्वरो भवति विप्रतिषेधेन ।
चेलराज्यादिस्वरस्यावकाशः---भार्याचेलम्, पितृचेलम्, ब्राह्मणराज्यम् ।
अव्ययस्वरस्यावकाशः---निष्कौशाम्बिः, निर्वाराणसिः ।
ःथ्द्य;होभयं प्राप्नोति---कुचेलम्, कुराज्यम् ।
अव्ययवस्वरो भवति विप्रतिषेधेन ।।
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ।
न वक्तव्यः ।
ःथ्द्य;ष्टवाची परशब्दः । विप्रतिषेधे परं यदिष्टं तद्भवति ।
-6-2-136- कुण्डं वनम् (2796)
(6364 उपसंख्यानवार्तिकम् ।। 1 ।।)
- कुण्डाद्युदात्तत्वे तत्समुदायग्रहणम् -
कुण्डाद्युदात्तत्वे तत्समुदायग्रहणं कर्तव्यम् । वनसमुदायवाची चेत्स कुण्डशब्दो भवतीति वक्तव्यम् । ःथ्द्य;ह मा भूत्---मृत्कुण्डम् ।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य द्वितीये पादे प्रथममाह्निकम् ।।
-6-2-139- गतिकारकोपपदात्कृत् (2799)
(गतिकारकपदप्रयोजनभाष्यम्)
गतिकारकोपपदादिति किमर्थम् ?
ःथ्द्य;ह मा भूत्---परमं कारकं---परमकारकम् ।
गतिकारकोपपदादित्युच्यमानेऽप्यत्र प्राप्नोति । एतदपि हि कारकम् ।
ःथ्द्य;दं तर्हि---देवदत्तस्य कारकं---देवदत्तकारकम् ।।
ःथ्द्य;दं चाप्युदाहरणम्---परमं कारकं---परमकारकमिति ।
ननु चोक्तं---गतिकारकोपपदादित्युच्यमानेऽप्यत्र प्राप्नोति, एतदपि हि कारकमिति ।
नैतत्कारकम् । कारकविशेषणमेतत् । यावद् ब्रूयात्---प्रकृष्टं कारकं शोभनं कारकमिति, तावदेतत्परमकारकमिति ।।
(कृद्ग्रहणप्रयोजनभाष्यम्)
अथ कृद्ग्रहणं किमर्थम् ?
ःथ्द्य;ह मा भूत्---निष्कौशाम्बिः, निर्वाराणसिरिति । अत उत्तरं पठति---
(6369 कृद्ग्रहणानर्थक्यबोधकवार्तिकम् ।। 1 ।।)
- गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणानर्थक्यमन्यस्योत्तरपदस्याभावात् -
गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणमनर्थकम् ।
किं कारणम् ?
अन्यस्योत्तरपदस्याभावात् । न ह्यन्यद्गत्यादिभ्य उत्तरपदमस्ति, अन्यदतः कृतः ।
किं कारणम् ?
धातोर्हि द्वये प्रत्यया विधीयन्ते---तिङः, कृतश्च । तत्र कृता सह समासो भवति, तिङा च न भवति । तत्रान्तरेण कृद्ग्रहणं कृत एव भविष्यति ।।
ननु चेदानीमेवोदाहृतम्---निष्कौशाम्बिः, निर्वाराणसिरिति ।
यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतः, न च निसः कौशाम्बीशब्दं प्रति क्रियायोगः ।।
(6370 कृद्ग्रहणप्रयोजनवार्तिकम् ।। 2 ।।)
- कृत्प्रकृतौ वा गतित्वादधिकार्थं कृद्ग्रहणम् -
कृत्प्रकृतौ तर्हि गतित्वादधिकार्थं कृद्ग्रहणं कर्तव्यम् ।
कृत्प्रकृतिर्धातुः । धातुं च प्रति क्रियायोगः । तत्र यत्क्रियायुक्तास्तं प्रति---ःथ्द्य;ति ःथ्द्य;हैव स्यात्---प्रणीः, उन्नीः---ःथ्द्य;ति ।
ःथ्द्य;ह न स्यात्---प्रणायकः, उन्नायकः ।।
(वार्तिकप्रयोजननिरासभाष्यम्)
एतदपि नास्ति प्रयोजनम् । यत्क्रियायुक्ता ःथ्द्य;ति नैवं विज्ञायते---यस्य क्रिया---यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत ःथ्द्य;ति ।
कथं तर्हि ?
या क्रिया---यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत ःथ्द्य;ति ।
न च कश्चित्केवलः शब्दोऽस्ति यस्तस्यार्थस्य वाचकः स्यात् । केवलस्तस्यार्थस्य वाचको नास्तीति कृत्वा कृदधिकस्य भविष्यति ।।
(कृद्ग्रहणप्रयोजनभाष्यम्)
ननु चायं तस्यैवार्थस्य वाचकः---प्रणीः, उन्नीरिति ।
एषोऽपि हि कर्तृविशिष्टस्यैव ।।
अयं तर्हि तस्यैवार्थस्य वाचकः---प्रभवनमिति ।
तस्मात्कृद्ग्रहणं कर्तव्यम् ।।
(कृद्ग्रहणेऽतिव्याप्त्यव्याप्तिनिरासभाष्यम्)
यदि कृद्ग्रहणं क्रियते, आमन्ते स्वरो न प्राप्नोति---प्रपचतितराम्, प्रजल्पतितराम्, प्रजल्पतितमाम् ।।
असति पुनः कृद्ग्रहणे क्रियाप्रधानमाख्यातम्, तस्यातिशये तरबुत्पद्यते । तरबन्तात् स्वार्थे आम्, तत्र यत्क्रियायुक्ता ःथ्द्य;ति भवत्येव संघातं प्रति क्रियायोगः ।
न च कश्चित् केवलः शब्दोऽस्ति यस्तस्यार्थस्य वाचकः स्यात्, केवलस्तस्यार्थस्य वाचको नास्तीति कृत्वाऽधिकस्य भविष्यति ।
ननु चायं तस्यार्थस्य वाचकः---प्रभवनमिति ।
एषोऽपि हि द्रव्यविशिष्टस्य वाचकः ।
कथम् ?
कृदभिहितो भावो द्रव्यवद्भवति क्रियावदपीति ।।
-6-2-143- अन्तः (2803)
(अन्तशब्दस्य विशेषणद्वयाक्षेपकभाष्यम्)
किं समासस्यान्त उदात्तो भवति, आहोस्विदुत्तरपदस्य ?
कुतः संदेहः ?
उभयं प्रकृतम्, तत्रान्यतरच्छक्यं विशेषयितुम् ।
कश्चात्र विशेषः ?
(6371 समासस्यान्तस्वीकारे दोषवार्तिकम् ।। 1 ।।)
- अन्तोदात्तत्वं समासस्येति चेत्कप्युपसंख्यानम् -
अन्तोदात्तत्वं समासस्येति चेत् कप्युपसंख्यानं कर्तव्यम् ।
ःथ्द्य;दमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने कपि चेति वक्तव्यम् ।
ःथ्द्य;हापि यथा स्यात्---ःथ्द्य;दंप्रथमकाः ।
अस्तु तर्ह्युत्तरपदस्य ।।
(6372 उत्तरपदस्यान्तस्वीकारे दोषवार्तिकम् ।। 2 ।।)
- उत्तरपदान्तोदात्तत्वे नञ्ञ्सुभ्यां समासान्तोदात्तत्वम् -
उत्तरपदस्यान्तोदात्तत्वे नञ्ञ्सुभ्यां समासान्तोदात्तत्वं वक्तव्यम् । अनृचः बह्वृचः ।।
(उत्तरपदस्यान्तस्वीकारे दोषभाष्यम्)
अपर आह---उत्तरपदान्तोदात्तत्वे नञ्ञ्सुभ्यां समासान्तोदात्तत्वं वक्तव्यम् । अज्ञकः, अस्वकः । कपि पूर्वम् (6-2-173) ःथ्द्य;त्यस्यापवादः---ह्रस्वान्तेऽन्त्यात्पूर्वम् (174) ःथ्द्य;ति ।
तत्र ह्रस्वान्तेऽन्त्यात्पूर्व उदात्तभावी नास्तीति कृत्वोत्सर्गेणान्तोदात्तत्वं प्राप्नोति ।।
(6373 अपरमतप्राप्तदोषवारकवार्तिकम् ।। 3 ।।)
- न वा कपि पूर्ववचनं ज्ञापकमुत्तरपदानन्तोदात्तत्वस्य -
न वा एष दोषः ।
किं कारणम् ?
यदयं कपि पूर्वमित्याह, तत् ज्ञापयत्याचार्यः---उत्तरपदस्यान्तोदात्तत्वं न भवतीति ।।
एवमवपि कुत एतत्---समासस्यान्त उदात्तो भवतीति ?
(6374 दोषवारणसमर्थकवार्तिकम् ।। 4 ।।)
- प्रकरणाच्च समासान्तोदात्तत्वम् -
प्रकृतं समासग्रहणमनुवर्तते ।
क्व प्रकृतम् ?
चौ समासस्य (6-1-222;223) ःथ्द्य;ति ।।
(प्रथमदोषनिवारकभाष्यम्)
ननु चोक्तम्---अन्तोदात्तत्वं समासस्येति चेत् कपि उपसंख्यानमिति ।
नैष दोषः । उत्तरपदग्रहणमपि प्रकृतमनुवर्तते ।
क्व प्रकृतम् ?
उत्तरपदादिः (6-2-111) ःथ्द्य;ति ।
तत्रैवमभिसंबन्धः करिष्यते---नञ्ञ्सुभ्यां समासस्यान्त उदात्तो भवतीति ।
ःथ्द्य;दमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने, उत्तरपदस्येति ।।
-6-2-165- संज्ञायां मित्राजिनयोः (2819)
(6377 उपसंख्यानवार्तिकम् ।। 1 ।।)
- ऋषिप्रतिषेधो मित्रे -
ऋषिप्रतिषेधो मित्रे वक्तव्यः । विश्वामित्र ऋषिः ।।
-6-2-175- बहोर्नञ्ञ्वदुत्तरपदभूम्नि (2835)
(सूत्रप्रयोजननिराकरणभाष्यम्)
किमर्थं बहोर्नञ्ञ्वदतिदेशः क्रियते, न नञ्ञ्सुबहुभ्यः ःथ्द्य;त्येवोच्येत ?
नैवं शक्यम् । उत्तरपदभूम्नि ःथ्द्य;ति वक्ष्यति तद्वहोरेव यथा स्यात्, नञ्ञ्सुभ्यां मा भूदिति ।
नैतदस्ति प्रयोजनम् । एकयोगेऽपि हि सति यस्योत्तरपदभूमाऽस्ति तस्य भविष्यति ।
कस्य चास्ति ?
बहोरेव ।।
ःथ्द्य;दं तर्हि प्रयोजनम्---न गुणादयोऽवयवाः (176) ःथ्द्य;ति वक्ष्यति तत् बहोरेव यथा स्यात्, नञ्ञ्सुभ्यां मा भूदिति ।
एतदपि नास्ति प्रयोजनम् । एकयोगेऽपि हि सति यस्य गुणादयोऽवयवाः सन्ति तस्य भविष्यति ।
कस्य च सन्ति ?
बहोरेव ।।
अत उत्तरं पठति---
(6378 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।)
- बहोर्नञ्ञ्वदुत्तरपदाद्युदात्तार्थम् -
बहोर्नञ्ञ्वदतिदेशः क्रियते, उत्तरपदस्याद्युदात्तार्थम् । उत्तरपदस्याद्युदात्तत्वं यथा स्यात् ।
विदेशस्थमपि यन्नञ्ञः कार्यं तदपि बहोर्यथा स्यात्---नञ्ञो जरमरमित्रमृताः (6-2-116) । अजरः, अमरः, बहुजरः, बहुमित्रः, बहुमृतः ।।
-6-2-177- उपसर्गात्स्वाङ्गं ध्रुवमपर्शु (2837)
(6379 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।)
- मुखस्यान्तोदात्तत्वादुपसर्गात्स्वाङ्गं ध्रुवम् -
मुखस्यान्तोदात्तत्वादुपसर्गात्स्वाङ्गं ध्रुवं भवति विप्रतिषेधेन ।
मुखस्यान्तोदात्तत्वस्यावकाशः---गौरमुखः, श्लक्ष्णमुखः ।
उपसर्गात्स्वाङ्गं ध्रुवम् ःथ्द्य;त्यस्यावकाशः---प्रस्फिक्, प्रोदरः ।
ःथ्द्य;होभयं प्राप्नोति---प्रमुखः ।
उपसर्गात्स्वाङ्गं ध्रुवम् ःथ्द्य;त्येतद्भवति विप्रतिषेधेन ।।
(विप्रतिषेधप्रयोजनभाष्यम्)
कः पुनरत्र विशेषः, तेन वा सत्यनेन वा ?
सापवादः स विधिः, अयं पुनर्निरपवादः ।
अव्ययात्तस्य प्रतिषेधोऽपवादः ।।
-6-2-185- अभेर्मुखम् (2845)
-6-2-186- अपाच्च (2846)
(सूत्राक्षेपभाष्यम्)
किमर्थमिदमुच्यते, न उपसर्गात्स्वाङ्गं ध्रुवम्---ःथ्द्य;त्येव सिद्धम् ?
(6380 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।)
- अभेर्मुखमपाच्चाध्रुवार्थम् -
अध्रुवार्थोऽयमारम्भः ।।
(6381 प्रयोजनान्तरवार्तिकम् ।। 2 ।।)
- अबहुव्रीह्यर्थो वा -
अथवा बहुव्रीहेरिति वर्तते । अबहुव्रीह्यर्थोऽयमारम्भः ।।
-6-2-187- स्फिगपूतवीणाऽञ्ञ्जोऽध्वकुक्षिसीरनाम नाम च (2847)
(सूत्रप्रयोजनाक्षेपभाष्यम्)
स्फिगपूतग्रहणं किमर्थम्, न उपसर्गात्स्वाङ्गं ध्रुवम् ःथ्द्य;त्येव सिद्धम् ?
(6377 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।)
- स्फिगपूतग्रहणं च -
किम् ?
अध्रुवार्थमबहुव्रीह्यर्थमेव वा ।।
-6-2-191- अतेरकृत्पदे (2851)
(6378 न्यासान्तरबोधकवार्तिकम् ।। 1 ।।)
- अतेर्धातुलोपे -
अतेर्धातुलोप ःथ्द्य;ति वक्तव्यम् ।
अकृत्पदे ःथ्द्य;ति ह्युच्यमाने ःथ्द्य;ह च प्रसज्येत---शोभनो गार्ग्यः---अतिगार्ग्य ःथ्द्य;ति ।
ःथ्द्य;ह च न स्यात्---अतिकारकः, अतिपदा शक्वरी ।।
-6-2-197- द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ (2857)
(पक्षद्वयोपस्थापकभाष्यम्)
किमिदं द्वित्रिभ्यां मूर्धन्यकारान्तग्रहणम्, आहोस्विन्नकारान्तग्रहणम् ?
कश्चात्र विशेषः ?
(6379 प्रथमपक्षे दोषवार्तिकम् ।। 1 ।।)
- द्वित्रिभ्यां मूर्धन्यकारान्तग्रहणं चेन्नकारान्तस्योपसंख्यानम् -
द्वित्रिभ्यां मूर्धन्यकारान्तग्रहणं चेन्नकारान्तस्योपसंख्यानं कर्तव्यम् । द्विमूर्धा, त्रिमूर्धा ।।
अस्तु तर्हि नकारान्तग्रहणम् ।
(6380 द्वितीयपक्षे दोषवार्तिकम् ।। 2 ।।)
- नकारान्तेऽकारान्तस्य -
नकारान्ते सत्यकारान्तस्योपसंख्यानं कर्तव्यम् । द्विमूर्धः, त्रिमूर्धः ।।
(6381 द्वितीयपक्षे दोषोद्धारवार्तिकम् ।। 3 ।।)
- उदात्तलोपात्सिद्धम् -
अस्तु तर्हि नकारान्तग्रहणम्, अन्तोदात्तत्वे कृते लोपः, उदात्तनिवृत्तिस्वरेण सिद्धम् ।।
(दोषोद्धाराक्षेपभाष्यम्)
ःथ्द्य;दमिह संप्रधार्यम्---अन्तोदात्तत्वं क्रियतां लोप ःथ्द्य;ति, किमत्र कर्तव्यम् ?
परत्वाल्लोपः ।।
(समाधानभाष्यम्)
एवं तर्हि ःथ्द्य;दमिह संप्रधार्यम्---अन्तोदात्तत्वं क्रियतां समासान्त ःथ्द्य;ति, किमत्र कर्तव्यम् ?
परत्वादन्तोदात्तत्वम् ।
नित्यः समासान्तः । कृतेऽप्यन्तोदात्तत्वे प्राप्नोत्यकृतेऽपि प्राप्नोति ।
अन्तोदात्तत्वमपि नित्यम् । कृतेऽपि समासान्ते प्राप्नोत्यकृतेऽपि प्राप्नोति ।
अनित्यमन्तोदात्तत्वम्, न हि कृते समासान्ते प्राप्नोति । परत्वाल्लोपेन भवितव्यम् ।
भवत्येव लोपः ।।
(सिद्धान्तभाष्यम्)
यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् । न च समासान्त एवान्तोदात्तत्वस्य निमित्तं विहन्ति, अवश्यं लक्षणान्तरं लोपः प्रतीक्ष्यः । उभयोर्नित्ययोः परत्वादन्तोदात्तत्वम्, अन्तोदात्तत्वे कृते समासान्तः, टिलोपः, टिलोपे कृते उदात्तनिवृत्तिस्वरेण सिद्धम् ।।
(सिद्धान्तपक्षस्य युक्तत्वोपपादनभाष्यम्)
युक्तं पुनरिदं विचारयितुम्---नन्वनेनासन्दिग्धेन नकारान्तग्रहणेन भवितव्यम्, यावता मूर्धस्वित्युच्यते ।
यद्यकारान्तग्रहणं स्यात् मूर्धेष्विति ब्रूयात् । सैषा समासान्तार्था विचारणा ।।
एवं तर्हि ज्ञापयत्याचार्यः---विभाषा समासान्तो भवतीति ।।
-6-2-199- परादिश्छन्दसि बहुलम् (2859)
(सूत्रपूरकभाष्यम्)
अत्यल्पमिदमुच्यते ।
परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते ।
पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं स्मृतः ।।
(6382 उपसंख्यानवार्तिकम् ।। 1 ।।)
- अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दसि -
अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसंख्यानं कर्तव्यम् । त्रिचक्रेण, त्रिबन्धुरेण, त्रिवृता रथेन ।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य द्वितीये पादे द्वितीयमाह्निकम् ।।
पादश्च समाप्तः ।।
-9-9-999-