महाभाष्यम्/प्रथमोऽध्यायः/तृतीयः पादः
-1-3-1- भूवादयो धातवः
कुतोऽयं वकारः ? यदि तावत्संहितया निर्देशः क्रियते भ्वादय इति भवितव्यम् । अथाऽसंहितया भू-आदय इति भवितव्यम् । अत उत्तरं पठति--
भूवादीनां वकारोयं मङ्गलार्थः प्रयुज्यते ।
माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वकारमागमं प्रयुङ्क्ते ? मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्त्यायुष्मत्पुरुषाणि चाऽध्येतारश्च मङ्गलयुक्ता यथा स्युरिति ।
अथाऽऽदिग्रहणं किमर्थम् ? यदि तावत्पठ्यन्ते नार्थ आदिग्रहणेन । अन्यत्रापि ह्ययं पठन्नादिग्रहणं न करोति । क्वान्यत्र ? मृडमृदगुधकुषक्लिशवदवसः क्त्वा (1.2.7) इति । अथ न पठ्यन्ते नतरामर्थ आदिग्रहणेन । नह्यपठिताः शक्या आदिग्रहणेन विशेषयितुम् । एवं तर्हि सिद्धे सति यदादिग्रहणं करोति, तज्ज्ञापयत्याचार्योऽस्ति च पाठो बाह्यश्च सूत्राद्इति । किमेतस्य ज्ञापने प्रयोजनम् ? पाठेन धातुसंज्ञेत्येतदुपपन्नं भवति ।
पाठेन धातुसंज्ञायां समानशब्दप्रतिषेधः ।। 1 ।।
पाठेन धातुसंज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः । या इति धातुः, या इत्याबन्तः । वा इति धातुः, वा इति निपातः । नु इति धातुः, नु इति प्रत्ययश्च निपातश्च । दिविति धातुः, दिविति प्रातिपदिकम् ।
किं च स्याद्यद्येतेषामपि धातुसंज्ञा स्यात् ? धातोः (3.1.91 ) इति तव्यदादीनामुत्पत्तिः प्रसज्येत। । नैष दोषः । साधने तव्यदादयो विधीयन्ते साधनं च क्रियायाः । क्रियाऽभावात्साधनाऽभावः । साधनाभावात्सत्यामपि धातुसंज्ञायां तव्यदादयो न भविष्यन्ति ।
इदं तर्हि--याः पश्य आतो धातोः (6.4.140) इति लोपः प्रसज्येत । नैष दोषः । अनापः इत्येवं सः ।
अस्य तर्हि वाशब्दस्य निपातस्याऽधातुरिति प्रातिपदिकसंज्ञायाः प्रतिषेधः प्रसज्येत । अप्रातिपदिकत्वात्स्वाद्युत्पत्तिर्न स्यात् । नैष दोषः । निपातस्याऽनर्थकस्य प्रातिपदिकत्वं चोदितं तत्रानर्थकग्रहणं न करिष्यते, निपातः प्रातिपदिकमित्येव ।
इह तर्हि--त्रस्नू इति--अचिश्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इत्युवङादेशः प्रसज्येत । नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति न प्रत्ययस्योवङादेशो भवतीति, यदयं तत्र श्नु ग्रहणं करोति ।
अस्य तर्हि दिव्शब्दस्याऽधातुरिति प्रातिपदिकसंज्ञायाः प्रतिषेधः प्रसज्येत । अप्रातिपदिकत्वात्स्वाद्युत्पत्तिर्न स्यात् । नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयत्युत्पद्यन्ते दिव्शब्दात्स्वादय इति, यदयं दिवः सावौत्त्वं शास्ति।। नैतदस्ति ज्ञापकम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् । किम् ? दिव्शब्दो यः प्रातिपदिकं तदर्थमेतत्स्यात्--अक्षद्यूरिति । न वै अत्रेष्यते । अनिष्टं च प्राप्नोतीष्टं च न सिध्यति ।
एवं तर्हि--अननुबन्धकग्रहणे न सानुबन्धकस्येत्येवमेतस्य न भविष्यति । एवमप्यननुबन्धको दिव्शब्दो नास्तीति कृत्वा सानुबन्धकस्य ग्रहणं विज्ञास्यते ।
परिमाणग्रहणं च ।। 2 ।।
परिमाणग्रहणं च कर्तव्यम् । इयानवधिर्धातुसंज्ञो भवतीति वक्तव्यम् । कुतो ह्येतद् भूशब्दो धातुसंज्ञो भविष्यति न पुर्नभ्वेधशब्दः -- इति ?
यदि पुनः--क्रियावचनो धातुरित्येतल्लक्षणं क्रियेत ? का पुनः क्रिया ? इर्हा । का पुनरीहा ? चेष्टा । का पुनश्चेष्टा ? व्यापारः ।
सर्वथा भवाञ्ञ्छब्देनैव शब्दानाचष्टे--न किंचिदर्थजातं निदर्शयत्येवंजातीयिका क्रियेति । क्रिया नामेयमत्यन्ताऽपरिदृष्टा । अशक्या क्रिया पिण्डीभूता निदर्शयितुं, यथा गर्भो निर्लुठितः । साऽसावनुमानगम्या । कोऽसावनुमानः ? इह सर्वेषु साधनेषु संनिहितेषु कदाचित्पचतीत्येतद्भवति, कदाचिन्न भवति ।
यस्मिन्साधने संनिहिते पचतीत्येतद्भवति सा नूनं क्रिया । अथवा यया देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा नूनं क्रिया ।
कथं पुनर्ज्ञायते क्रियावचनाः पचादय इति । यदेतेषां करोतिना सामानाधिकरण्यम् । किं करोति ? पचति । किं
करिष्यति ? पक्ष्यति । किमकार्षीत् ? आपाक्षीदिति । तत्र--
क्रियावचन उपसर्गप्रत्ययप्रतिषेधः ।। 3 ।।
क्रियावचने धातावुपसर्गप्रत्यययोः प्रतिषेधो वक्तव्यः । पचति प्रपचति । किं पुनः कारणं प्राप्नोति ?
संघातेनाऽर्थगतेः ।। 4 ।।
संघातेन ह्यर्थो गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च ।
अस्ति भवतिविद्यतीनां च धातुत्वम् ।। 5 ।।
अस्तिभवतिविद्यतीनां च धातुसंज्ञा वक्तव्या । यथा हि भवता करोतिना पचादीनां सामानाधिकरण्यं निदर्शितं, न तथाऽस्त्यादीनां निर्दश्यते । नहि भवति--किं करोति ? अस्तीति ।
प्रत्ययार्थस्याऽव्यतिरेकात्प्रकृत्यन्तरेषु ।
प्रत्ययार्थस्याऽव्यतिरेकात्प्रकृत्यन्तरेषु मन्यामहे धातुरेव क्रियामाहेति । पचति पठति । प्रकृत्यर्थोऽन्यश्चान्यश्च प्रत्ययार्थः स एव ।
धातोश्चाऽर्थाभेदात्प्रत्ययान्तरेषु ।
धातोश्चाऽर्थाभेदात्प्रत्ययान्तरेषु मन्यामहे--धातुरेव क्रियामाहेति । पक्तिः पचनं पाक इति । प्रत्ययार्थोऽन्यश्चान्यश्च भवति। प्रकृत्यर्थः स एव ।। कथं पुनर्ज्ञायते--अयं प्रकृत्यर्थः, अयं प्रत्ययार्थ इति ?
सिद्धन्त्वन्वयव्यतरेकाभ्याम् ।। 6 ।।
(सिद्धमेतत् । कथम् ?) अन्वयाच्च व्यतिरेकाच्च । कोऽसावन्वयो व्यतिरेको वा ? इह पचतीत्युक्ते कश्चिच्छब्दः श्रूयते पच्छब्दश्चकारान्तः, अतिशब्दश्च प्रत्ययः । अर्थोऽपि कश्चिद् गम्यते--विक्लित्तिः, कर्तृत्वमेकत्वं च । पठतीत्युक्ते कश्चिच्छब्दो हीयते, कश्चिदुपजायते, कश्चिदन्वयी । पच्छब्दो हीयते, पठ्शब्द उपजायते, अतिशब्दोऽन्वयी । अर्थोपि कश्चिद्वीयते, कश्चिदुपजायते, कश्चिदन्वयी । विक्लित्तिर्हीयते, पठिक्रियोपजायते, कर्तृत्वं चैकत्वं चान्वयी । ते मन्यामहे--यः शब्दो हीयते तस्यासावर्थः योर्थो हीयते, यः शब्द उपजायते तस्यासावर्थः योर्थ उपजायते, यः शब्दोऽन्वयी तस्यासावर्थः योऽर्थोन्वयी ।
विषम उपन्यासः । बहवो हि शब्दा एकार्था भवन्ति । तद्यथा--इन्द्रः शक्रः पुरुहूतः पुरन्दरः । कन्दुः कोष्ठः कुसूल इति । एकश्च शब्दो बह्वर्थः । तद्यथा--अक्षाः पादा माषा इति । अतः किं।। न साधीयोऽर्थवत्ता सिद्धा भवति ? नापि ब्रूमोऽर्थवत्ता न सिध्यतीति । वर्णिता ह्यर्थवत्ताऽन्वयव्यतिरेकाभ्यामेव । तत्र कुत एतदयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति, न पुनः प्रकृतरेवोभावर्थौ ब्रूयात्प्रत्यय एव वा ? सामान्यशब्दा एत एवं स्युः । सामान्यशब्दाश्च नान्तरेण प्रकरणं विशेषणं वा विशेषेष्ववतिष्ठन्ते । यतस्तु खलु नियोगतः पचतीत्युक्ते स्वभावतः कस्मिंश्चिद्विशेषे पच्शब्दो वर्ततेऽतो मन्यामहे--नेमे सामान्यशब्दा इति । न चेत्सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्त्तते, प्रत्ययः प्रत्ययार्थे ।
क्रियाविशेषक उपसर्गः ।। 7 ।।
पचतीति क्रिया गम्यते, तां प्रो विशिनष्टि । यद्यपि तावदत्रैतच्छक्यते वक्तुं--यत्र धातुरुपसर्गं व्यभिचरति । यत्र न खलु तं व्यभिचरति, तत्र कथम्--अध्येति अधीते इति ? यद्यप्यत्र धातुरुपसर्गं न व्यभिचरति, उपसर्गस्तु धातुं व्यभिचरति । ते मन्यामहे--य एवास्याऽधेरन्यत्राऽर्थः स इहापीति । कः पुनरन्यत्राऽधेरर्थः ? अधिरुपरिभावे वर्तते ।
इह तर्हि व्यक्तमर्थान्तरं गम्यते--तिष्ठति प्रतिष्ठते इति । तिष्ठतीति व्रजिक्रियायाः निवृत्तिः। प्रतिष्ठत इति व्रजिक्रिया गम्यते । ते मन्यामहे--उपसर्गकृतमेतद्येनाऽत्र व्रजिक्रिया गम्यत इति । प्रोऽयं दृष्टापचार आदिकर्मणि वर्तते । न चेदं नास्ति--बह्वर्था अपि धातवो भवन्तीति । तद्यथा--वपिः प्रकिरणे दृष्टश्छेदने चापि वर्त्तते--केशश्मश्रु वपतीति । इर्डिः स्तुतिचोदनायाच्ञ्ञासु दृष्टः प्रेरणे चापि वर्तते--अग्निर्वा इतो
वृष्टिमीट्टे, मरुतोऽमुतश्च्यावयन्तीति । करोतिरभूतप्रादुर्भावे दृष्टो निर्मलीकरणे चापि वर्तते--पृष्ठं कुरु पादौ कुरु । उन्मृदानेति गम्यते । निक्षेपणे चापि वर्तते--कटे कुरु घटे कुरु अश्मानमितः कुरु । स्थापयेति गम्यते । एवमिहापि तिष्ठतिरेव व्रजिक्रियामाह तिष्ठतिरेव व्रजिक्रियायाः निवृत्तिम् । अयं तर्हि दोषः--अस्तिभवतिविद्यतीनां
धातुत्वमिति ?
यदि पुनः-
भाववचनो धातुः
इत्येतल्लक्षणं क्रियेत । कथं पुनर्ज्ञायते--भाववचनाः पचादय इति ? यदेषां भवतिना सामानाधिकरण्यम्--भवति पचति, भवति पक्ष्यति, भवति अपाक्षीदिति ।
कः पुनर्भावः ? भवतेः स्वपदार्थो भवनं भाव इति । यदि भवतेः स्वपदार्थो भवनं भावः। विप्रतिषिद्धानां धातुसंज्ञा न प्राप्नोति--भेदः छेदः । अन्यो हि भावोऽन्योऽभावः । आतश्चान्यो भावोऽन्योऽभाव इति, यो हि यस्य भावमिच्छति स न तस्याऽभावम्। यस्य चाऽभावं न तस्य भावम् ।
पचादीनां च धातुसंज्ञा न प्राप्नोति । यथा हि भवता क्रियावचने धातौ करोतिना पचादीनां सामानाधिकरण्यं निदर्शितं, न तथा भाववचने धातौ निर्दश्यते । करोतिः पचादीनां सर्वान्कालान्सर्वान्पुरुषान्सर्वाणि वचनान्यनुवर्त्तते, भवतिः पुनर्वर्तमानकालं चैकत्वं च ।
का तर्हीयं वाचोयुक्तिः--भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीदिति ? एषैषा वाचोयुक्तिः--पचादयः क्रिया भवति क्रियायाः र्कत्र्यो भवन्ति ।। यद्यपि तावदत्रैतच्छक्यते वक्तुं--यत्रान्या चान्या च क्रिया, यत्र खलु सैव क्रिया तत्र कथं--भवेदपि भवेत् स्यादपि स्यादिति । अत्राप्यन्यत्वमस्ति । कुतः ? कालभेदात्साधनभेदाच्च । एकस्यात्र भवतेर्भवतिः
साधनं सर्वकालश्च प्रत्ययः । अपरस्य बाह्यं साधनं वर्त्तमानकालश्च प्रत्ययः ।
यावताऽत्राप्यन्यत्वमस्ति, पचादयश्च क्रिया भवति क्रियायाः र्कत्र्यो भवन्तीति।। अस्त्वयं कर्तृसाधनः--भवतीति भाव इति । किं कृतं भवति ? विप्रतिषिद्धानां धातुसंज्ञा सिद्धा भवति । भवेद्विप्रतिषिद्धानां धातुसंज्ञा सिद्धा स्यात्, प्रातिपदिकानामपि तु प्राप्नोति वृक्षः प्लक्ष इति । किं कारणम् ? एतान्यपि हि भवन्ति ।
एवं तर्हि कर्मसाधनो भविष्यति--भाव्यते यः स भाव इति । क्रिया चैव हि भाव्यते स्वभावसिद्धं तु द्रव्यम् । एवमपि भवेत्केषांचिन्न स्यात्-- यानि न भाव्यन्ते, ये त्वेते संबन्धिशब्दास्तेषां प्राप्नोति--माता पिता भ्रातेति । सर्वथा वयं प्रातिपदिकपर्युदासान्न मुच्यामहे ।
पठिष्यति ह्याचार्यः-- भूवादिपाठः प्रातिपदिकाणवयत्यादिनिवृत्त्यर्थः- इति । यावता पठिष्यति--पचादयश्च क्रियाः भवति क्रियायाः र्कत्र्यो भवन्तीति, अस्त्वयं कर्तृसाधनो, भवतीति भाव इति ।। किं वक्तव्यमेतत् ? नहि ।। कथमनुच्यमानं गंस्यते ?।। एतेनैवाभिहितं सूत्रेण भूवादयो धातवः इति । कथम् ? नेदमादिग्रहणम् । वदेरयमौणादिक इञ्ञ्कर्तृसाधनः--भुवं वदन्तीति भूवादय इति ।।
भाववचने (धातौ) तदर्थप्रत्ययप्रतिषेधः ।। 8 ।।
भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधो वक्तव्यः । शिश्ये इति । किं च स्यात् ? अशितीत्यात्वं प्रसज्येत । तद्धि धातोर्विहितम् ।
इतरेतराश्रयं च प्रत्यये भाववचनत्वं तस्माच्च प्रत्ययः ।। 9 ।।
इतरेतराश्रयं च भवति । का इतरेतराश्रयता ? प्रत्यये भाववचनत्वं तस्माच्च प्रत्ययः। उत्पन्ने हि प्रत्यये भाववचनत्वं गम्यते, स च तावद्भाववचनादुत्पाद्यः । तदेतदितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।।
सिद्धं तु नित्यशब्दत्वादनाश्रित्य भाववचनत्वं प्रत्ययः ।। 10 ।।
सिद्धमेतत् । कथम् ? (नित्यशब्दत्वात्) नित्याः शब्दाः । नित्येषु च शब्देनाश्रित्य भाववचनत्वं प्रत्यय उत्पद्यते ।
प्रथमभावग्रहणं च ।। 11 ।।
प्रथमभावग्रहणं च कर्तव्यम् । प्रथमं यो भावमाहेति । कुतः पुनः प्राथम्यम्, किं शब्दत आहोस्विदर्थतः ? किं चातः ?। यदि शब्दतः, सनादीनां धातुसंज्ञा न प्राप्नोति--पुत्रीयति वस्त्रीयतीति । अथाऽर्थतः, सिद्धा सनादीनां धातुसंज्ञा, स एव तु दोषो भाववचने तदर्थप्रत्ययप्रतिषेध इति ।। एवं तर्हि नापि शब्दतो नाप्यर्थतः । किं तर्हि ? अभिधानतः । सुमध्यमेऽभिधाने यः प्रथमं भावमाह ।।
इह ये एव भाववचने धातौ दोषास्ते क्रियावचनेऽपि । तत्र त एव परिहाराः । तत्रेदमपरिहृतम्--अस्तिभवतिविद्यतीनां धातुत्वमिति । तस्य परिहारः । कां पुनः क्रियां भवान्मत्वाह--अस्तिभवतिविद्यतीनां धातुसंज्ञा न प्राप्नोतीति । किं यत्तदेवदत्तः कंसपात्र्यां पाणिनौदनं भुङ्क्ते इति ?। न ब्रूमः कारकाणि क्रियेति । किं तर्हि ? कारकाणां प्रवृत्तिविशेषः क्रिया । अन्यथा च कारकाणि शुष्कौदने प्रवर्तन्ते, अन्यथा च मांसौदने । यद्येवं सिद्धाऽस्तिभवतिविद्यतीनां धातुसंज्ञा । अन्यथा हि कारकाण्यस्तौ प्रवर्तन्तेऽन्यथा हि म्रियतौ ।
षड्भावविकारा इति ह स्माह वार्ष्यायणिः । जायतेऽस्ति विपरिणमते
वर्द्धतेऽपक्षीयते विनश्यतीति । सर्वथास्थितःथ्द्य;त्यत्र धातुसंज्ञा न प्राप्नोति । बाह्यो ह्येतेभ्यस्तिष्ठतिः । एवं तर्हि क्रियायाः क्रिया निवर्त्तिका भवति, द्रव्यं द्रव्यस्य निवर्तकम् । एवं हि कश्चित्कंचित्पृच्छति--किमवस्थो देवदत्तस्य व्याधिरिति ? स आह--वर्द्धते इति । अपर आह--अपक्षीयते इति । अपर आह--स्थित इति । स्थित इत्युक्ते वर्द्धतेश्चाऽपक्षीयतेश्च निवृत्तिर्भवति ।
अथ वा नान्तरेण क्रियां भूतभविष्यद्वर्त्तमानाः काला व्यज्यन्ते । अस्त्यादिभिरपि भूतभविष्यद्वर्तमानकालाः व्यज्यन्ते ।
अथ वा नाऽन्यत्पृष्टे नाऽन्यदाख्येयम् । तेन न भविष्यति--किं करोति--अस्तीति ।
अथ यद्येवक्रियावचनो धातुरित्येष पक्षोऽथापि भाववचनो धातुरिति। किं गतमेतदियता सूत्रेण, आहोस्वदन्यतरस्मिन्पक्षे यः सूत्रं कर्तव्यम् ?।। गतमित्याह । कथम् ?। अयमादिशब्दोऽस्त्येव व्यवस्थायां वर्तते, तद्यथा--देवदत्तादीन्समुपविष्टानाह देवदत्तादय आनीयन्तामिति । ते उत्थाप्याऽऽनीयन्ते । अस्ति प्रकारे वर्तते, तद्यथा--देववत्तादय आढ्या अभिरूपा दर्शनीयाः पक्षवन्तः । देवदत्तप्रकारा इति गम्यते । प्रत्येकं चाऽऽदिशब्दः परिसमाप्यते--भ्वादय इति च वादय इति च । तद्यदा तावत् क्रियावचनो धातुरित्येष पक्षस्तदा भू इत्यत्र य आदिशब्दः स व्यवस्थायां वर्तते, वा इत्यत्र य आदिशब्दः स प्रकारे, भूःथ्द्य;त्येवमादयो वा इत्येवं प्रकारा इति । यदा तु भाववचनो धातुरित्येष पक्षस्तदा वाःथ्द्य;त्यत्र य आदिशब्दः स व्यवस्थायाम्, भू इत्यत्र य आदिशब्दः स प्रकारे, वाःथ्द्य;त्येवमादयो भू इत्येवं प्रकारा इति ।।
यदि तर्हि लक्षणं क्रियते, नेदानीं पाठः कर्तव्यः । कर्तव्यश्च । किं प्रयोजनम् ?।
भूवादिपाठः प्रातिपदिकाणवयत्यादिनिवृत्त्यर्थः ।। 12 ।।
भूवादिपाठः कर्तव्यः । किं प्रयोजनम् ? प्रातिपदिकाणवयत्यादिनिवृत्त्यर्थः । प्रातिपदिकनिवृत्त्यर्थ, आणवयत्यादिनिवृत्त्यर्थश्च । के पुनराणवयत्यादयः ? आणवयति वट्टति वड्ढयति इति ।
स्वरानुबन्धज्ञापनाय च ।। 13 ।।
स्वरानुबन्धज्ञापनाय च पाठः कर्तव्यः । स्वराननुबन्धांश्च ज्ञास्यामीति । नह्यन्तरेण पाठं स्वरा अनुबन्धा वा शक्या विज्ञातुम् ।
ये त्वेते न्याय्यविकरणा उदात्ता अननुबन्धकाः पठ्यन्ते तेषां पाठः शक्योऽकर्तुम् ।। एतेषामप्यवश्यमाणवयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः । न कर्तव्यः ।
शिष्टप्रयोगादाणवयत्यादीनां निवृत्तिः
शिष्टप्रयोगादाणवयत्यादीनां निवृत्तिर्भविष्यति । स चावश्यं शिष्ट प्रयोग उपास्यः। येऽपि पठ्यन्ते तेषामपि विपर्यासनिवृत्त्यर्थः । लोके हि कृष्यर्थे कसिं प्रयुञ्ञ्जते, दृश्यर्थे च दिसिम्।। भूवादय धातवः ।। 1 ।।
-1-3-2- उपदेशेऽजनुनासिक इत्
उपदेश इति किमर्थम् ?। अभ्रआँ। अपः । उद्देशे योऽनुनासिकस्तस्य मा भूदिति ।
कः पुनरुद्देशोपदेशयोर्विशेषः ?। प्रत्यक्षमाख्यानमुपदेशः गुणैः प्रापणमुद्देशः । प्रत्यक्षं तावदाख्यानमुपदेशः । तद्यथाट्ठट्ठअगोज्ञाय कश्चिद् गां सक्थनि कर्णे वा गृहीत्वोपदिशति--अयं
गौरिति । स प्रत्यक्षमाख्यातमाह--उपदिष्टो मे गौरति । गुणैः प्रापणमुद्देशः । तद्यथा--
कश्चित्कंचिदाहट्ठट्ठदेवदत्तं मे भवानुद्दिशतु इति । स इहस्थः पाटलिपुत्रस्थं देवदत्तमुद्दिशति--अङ्गदी
कुण्डली किरीटी व्यूढोरस्को वृतबाहुर्लोहिताक्षस्तुङ्गनासो विचित्राभरण इर्दृशो देवदत्तः इति । स गुणैः प्राप्यमाणमाह--उद्दिष्टो मे देवदत्तः इति ।।
इत्संज्ञायां सर्वप्रसङ्गोऽविशेषात् ।। 1 ।।
इत्संज्ञायां सर्वप्रसङ्गः । सर्वस्याऽनुनासिकस्येत्संज्ञा प्राप्नोति । अस्यापि प्राप्नोति--अभ्र आँ अपः । किं कारणम् ? अविशेषात् । नहि कश्चिद्विशेष उपादीयते--एवं जातीयकस्यानुनासिकस्येत्संज्ञा भवतीति । अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।
किमुच्यते--अनुपादीयमाने विशेष इति। कथं न नामोपादीयते यदोपदेश इत्युच्यते ?। लक्षणेना ह्युपदेशः । सङ्कीर्णावुद्देशोपदेशौ । प्रत्यक्षमाख्यानमुद्देशः गुणैश्च प्रापणमुपदेशः । प्रत्यक्षं तावदाख्यानामुद्देशः । तद्यथा, कश्चित्कंचिदाह--अनुवाकं मे भवानुद्दिशतु इति । स तस्मायाचष्टे इषेत्वकमधीष्व, शंनोदेवीयकमधीष्वेति । स प्रत्यक्षमाख्यातमाह--उद्दिष्टो मेऽनुवाकस्तमध्येष्ये इति । गुणैश्च प्रापणमुपदेशः । तद्यथा, कश्चित्कंचिदाह--ग्रामान्तरं गमिष्यामि पन्थानं मे भवानुपदिशतु इति । स तस्मायाचष्टे--अमुष्मिन्नवकाशे हस्तदक्षिणो ग्रहीतव्योऽमुष्मिन्हस्तवामः इति । स गुणैः प्राप्यमाणमाह--उपदिष्टो मे पन्थाः इति । एवमेतौ सङ्कीर्णावुद्देशोपदेशौ । एवं तर्हीत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति । ननु च लोप एवेत्कार्यं स्यात् । अकार्यं लोपः । इह हि शब्दस्य द्व्यर्थ उपदेशः । कार्यार्थो वा भवत्युपदेशः श्रवणार्थो वा । कार्यं चेह नास्ति । कार्ये चाऽसति यदि श्रवणमपि न स्यादुपदेशोऽनर्थकः स्यात् ।
इदमस्तीत्कार्यम्--इह अभ्र आँ अटितः अनन्तरलक्षणायां सत्यामित्संज्ञायाम् आदितश्च (7.2.16) इतीट्प्रतिषेधः प्रसज्येत ।
सिद्धं तूपदेशनेऽनुनासिकवचनात् ।। 2 ।।
सिद्धमेतत् । कथम् ?। उपदेशने योऽनुनासिकः स इत्संज्ञो भवतीति वक्तव्यम् । किं पुनरुपदेशनम् ?। शास्त्रम् । सिध्यति । सूत्रं तर्हि भिद्यते ।
यथान्यासमेवास्तु । ननु चोक्तम्--इत्संज्ञायां सर्वप्रसङ्गोऽविशेषादिति । नैषः दोषः । उपदेश इति घञ्ञयं करणसाधनः । न सिध्यति । परत्वाल्ल्युट् प्राप्नोति । न ब्रूमोऽकर्तरि च कारके संज्ञायम् (3.3.19) इति । किं तर्हि ? हलश्च (3.3.121) इति । तत्रापि संज्ञायामिति वर्त्तते, न चैषा संज्ञा । प्रायवचनादसंज्ञायामपि भविष्यति । प्रायवचनात्संज्ञायामेव स्याद्वा न वा, नह्युपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम् । यदि नोपाधेरूपाधिर्भवति विशेषणस्य वा विशेषणं, कल्याण्यादीनामिनङ्; कुलटाया वा (4.1.126; 127) इनङि्वभाषा न प्राप्नोति । इनङेवाऽत्र प्रधानम् । विहितः प्रत्ययः प्रकृतश्चानुवर्तते। इह तर्हि--वाकिनादीनां कुक्च; पुत्रान्तादन्यतरस्याम् (4.1.158;159) इति कुग्विभाषा न प्राप्नोति । अत्रापि कुगेव प्रधानम् । विहितः प्रत्ययः प्रकृतश्चानुवर्तते। एवं च चेदमकृतं भवति--नोपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणमिति, न च कश्चिद्दोषो भवति । एवं च कृत्वा घञ्ञ्न प्राप्नोति ।
एवं तर्हि कृत्यल्युटो बहुलम् (3.3.113) इत्येवमत्र घञ्ञ्भविष्यति ।। 2 ।।
-1-3-3- हलन्त्यम्
हलन्त्ये सर्वप्रसङ्गः सर्वान्त्यत्वात् ।। 1 ।।
हलन्त्ये सर्वप्रसङ्गः । सर्वस्य हल इत्संज्ञा प्राप्नोति । किं कारणम् ? सर्वान्त्यत्वात् । सर्वो हि हल् तं तमवधिं प्रत्यन्तो भवति ।
सिद्धं तु व्यवसिताऽन्त्यत्वात् ।। 2 ।।
सिद्धमेतत् । कथम् ? व्यवसितान्त्यत्वात् । व्यवसिताऽन्त्यो हलित्संज्ञो भवतीति वक्तव्यम् । के पुर्नव्यवसिताः ?। धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः । सिध्यति । सूत्रं तर्हि भिद्यते ।
यथान्यासमेवास्तु । ननु चोक्तम्-- हलन्त्ये सर्वप्रसङ्गः सर्वान्त्यत्वादिति । नैषः दोषः । आहायम्--हलन्त्यमित्संज्ञं भवतीति सर्वश्च हल् तं तमवधिं प्रत्यन्त्यो भवति। तत्र प्रकर्षगतिर्विज्ञास्यते--साधीयो योऽन्त्य इति । कश्च साधीयः ?। व्यवसितानां योऽन्त्यः ।
अथवा सापेक्षोऽयं निर्देशः क्रियते । न चान्यत्किंचिदपेक्ष्यमस्ति, तेन व्यवसितानेवापेक्षिष्यामहे ।
लकारस्यानुबन्धाऽज्ञापितत्वाद्धल्ग्रहणाऽप्रसिद्धिः ।। 3 ।।
लकारस्यानुबन्धत्वेन अज्ञापितत्वाद्धल्ग्रहणस्याऽप्रसिद्धिः । हलन्त्यमित्संज्ञं भवतीत्युच्यते, लकारस्यैव तावदित्संज्ञा न प्राप्नोति ।
सिद्धं तु लकारनिर्देशात् ।। 4 ।।
सिद्धमेतत् । कथम् ? लकारनिर्देशः कर्तव्यः । हलन्त्यमित्संज्ञं भवति लकारश्चेति वक्तव्यम् ।
एकशेषनिर्देशाद्वा ।। 5 ।।
अथ वा एकशेषनिर्देशोयम् । हल्च हल्च हल्, हलन्त्यमित्संज्ञं भवतीति ।
अथ वा लृकारस्यैवेदं गुणभूतस्य ग्रहणम्। तत्रोपदेशेऽजनुनासिक इत् (1.3.2) इतीत्संज्ञा भविष्यति ।
अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति--भवति लकारस्येत्संज्ञेति यदयं णलं लितं करोति ।
प्रातिपदिकप्रतिषेधोऽकृत्तद्धिते ।। 6 ।।
अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधो वक्तव्यः । उदश्वित् शकृत् इति । अकृत्तद्धितान्तस्येति किमर्थम् ? कुम्भकारः नगरकारः औपगवः कापटव इति। ।
इदर्थाऽभावात्सिद्धम् ।। 7 ।।
इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।
इदमस्तीत्कार्यम्--तित्स्वरितम् (1.6.185) इति स्वरितत्वं यथा स्यात् । नैतदस्ति प्रत्ययग्रहणं तत्र चोदयिष्यति ।
इह तर्हि राजा तक्षा, ञ्ञ्नितीत्याद्युदात्तत्वं यथा स्यात् । ञ्ञ्नितीत्युच्यते, तत्र व्यपवर्गाऽभावान्न भविष्यति ।
इदं तर्हि--स्वर् । उपोत्तमं रिति (6.1.217) इत्येष स्वरो यथा स्यात् । स्वरितकरणसार्मथ्यान्न भविष्यति न्यङ्स्वरौ स्वरितौःथ्द्य;ति । इह तर्हि--अन्तर् । उत्तमशब्दस्त्रिप्रभृतिषु वर्तते, न चात्र त्रिप्रभृतयः सन्ति ।
इह तर्हि--सनुतर् । उपोत्तमं रितीत्येष स्वरो यथा स्यात् । अन्तोदात्तनिपातनं करिष्यते, स निपातनस्वरो रित्स्वरस्य बाधको भविष्यति । एतच्चात्र युक्तम्--यदित्कार्याऽभावादित्संज्ञा न स्यात्, यत्रेत्कार्यं भविष्यति, तत्रेत्संज्ञा । तद्यथा--आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् (2.4.70) इति ।। 3 ।।
-1-3-4- न विभक्तौ तुस्माः
विभक्तौ तवर्गप्रतिषेधोऽतद्धिते ।। 1 ।।
विभक्तौ तवर्गप्रतिषेधोऽतद्धित इति वक्तव्यम् । इह मा भूत्--किमोऽत् (5.3.12) क्व प्रेप्सन्दीव्यसे क्वार्द्धमासा इति ।
स तर्हि प्रतिषेधो वक्तव्यः ? न वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति--न विभक्तौ तद्धिते प्रतिषेधो भवतीति, यदयम्--इदमस्थमुः (5.3.24) इति मकारस्येत्संज्ञापरित्राणार्थमुकारमनुबन्धं करोति ।
यद्येतज्ज्ञाप्यते इदानीमित्यत्रापि प्राप्नोति। । इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।
इदमस्तीत्कार्यं--मिदचोन्त्यात्परः (1.1.47) इति । आचामन्त्यात्परो यथा स्यात् । इश्भावे कृते नास्ति विशेषः मिदचोऽन्त्यात्परः इति वा परत्वे, प्रत्ययः परः इति वा । स एव तावदिश्भावो न प्राप्नोति । किं कारणम् ? प्राग्दिशः प्रत्ययेष्वित्युच्यते । कः पुनरर्हतीश्भावं प्राग्दिशः प्रत्ययेषु वक्तुम् । किं तर्हि ?। प्राग्दिशोऽर्थेष्विश्भावः, किं सर्वनामबहुम्योऽद्व्यादिभ्यः (5.3.2) प्रत्ययोत्पत्तिः । एवं तर्हि ततोऽप्ययं वक्तव्यः । ततश्च मिदचोन्त्यात्परत्वेन न सिध्यति । ननु चाऽत्राप्यत्वे कृते नास्ति विशेषः मिदचोऽन्त्यात्परः इति वा परत्वे, प्रत्ययः परः इति वा । तद्ध्यत्वं न प्राप्नोति । किं कारणम् ?। विभक्तावित्युच्यते ।
एवं तर्हि यकारान्तोदानीं करिष्यते। किं यकारो न श्रूयते ?। लुप्तनिर्दिष्टो यकारः ।। 4 ।।
-1-3-7- चुटू
चुञ्ञ्चुप्चणपोश्चकारप्रतिषेधः ।। 1 ।।
चुञ्ञ्चुप्चणपोश्चकारस्य प्रतिषेधो वक्तव्यः । । केशचुञ्ञ्चुः । केशचणः ।
इदर्थाऽभावात्सिद्धम् ।। 2 ।।
इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।। इदमस्तीत्कार्यम्। चितः अन्त उदात्तो भवतीति अन्तोदात्तत्वं यथा स्यात् । पित्करणमिदानीं किमर्थं स्यात् ?।
पित्करणं किमर्थमिति चेत्पर्यायार्थम् ।। 3 ।।
पित्करणं किमर्थमित चेत्पर्यायार्थमेतत्स्यात् । एवं तर्हि यकारादी चुञ्ञ्चुप्चणपौ । किं यकारो न श्रूयते ?। लुप्तनिर्दिष्टो यकारः ।
इर उपसंख्यानम् ।। 4 ।।
इर उपसंख्यानं कर्तव्यम् । रुधिर्--अरुधत्, अरौत्सीत् ।।
अवयवग्रहणात्सिद्धम् ।।5।।
रेफस्याऽत्र हलन्त्यम् (1.3.3) इतीत्सञ्ञ्ज्ञा भविष्यति, इकारस्य उपदेशेऽजनुनासिक इत् (2) इति ।
अवयवग्रहणादिति चेदिदिद्विधिप्रसङ्गः ।। 6 ।।
अवयवग्रहणादिति चेदिदिद्विधिरपि प्राप्नोति । भेत्ता छेत्ता । इदितो नुम्धातोः (7.1.58) इति नुम्प्राप्नोति ।
यदि पुनरयमिदिद्विधिः कुम्भीधान्यन्यायेन विज्ञायेत । तद्यथा--कुम्भीधान्यः श्रोत्रियः इत्युच्यते । यस्य कुम्भ्यामेव धान्यं स कुम्भीधान्यः । यस्य पुनः कुम्भ्यां चाऽन्यत्र च धान्यं, नाऽसौ
कुम्भीधान्यः । नायमिदिद्विधिः कुम्भीधान्यन्यायेन शक्यो विज्ञातुम् । इह हि दोषः स्यात्--टुनदिनन्दथुरिति ।
एवं तर्हि नैवं विज्ञायते--इकार इदस्य सोऽयमिदित्तस्येदिति इति । कथं तर्हि ?। इकार एवेत् इदित्, इदिदन्तस्येति ।। अथ वा ऋकारस्यैवेदमित्त्वभूतस्य ग्रहणम् । तस्य च उपदेशेऽजनुनासिक इतीत्संज्ञा भविष्यति ।। अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति--नैवं जातीयकानामिदिद्विधिर्भवतीति यदयमिरितः कांश्चिन्नुमनुषक्तान्पठति--उबुन्दिर् निशामने । स्कन्दिर्गतिशोषणयोः ।। अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति--इर् शब्दस्येत्संज्ञा भवतीति यदयमिरितो वा (3.1.57) इत्याह ।। अथ वाऽन्त इति वर्तते ।। 7 ।।
-1-3-9- तस्य लोपः
तस्यग्रहणं किमर्थम् ?। इत्संज्ञकः प्रतिनिर्दिश्यते । नैतदस्ति प्रयोजनम् । प्रकृतमिदिति वर्तते । क्व प्रकृतम् ?। उपदेशेऽजनुनासिक इद् (1.3.2) इति । तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः । अर्थाद्विभक्तिविपरिणामो भविष्यति । तद्यथा--उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्वैनम् । देवदत्तमिति गम्यते । देवदत्तस्य गावोऽश्वा हिरण्यं च, आढ्यो वैधेयः । देवदत्त इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सदर्थाद् द्वितीयानिर्दिष्टं, प्रथमानिर्दिष्टं च भवति । एवमिहापि पुरस्तात्प्रथमानिर्दिष्टं सदर्थात्षष्ठीनिर्दिष्टं भविष्यति । इदं तर्हि प्रयोजनम् । येऽनेकाल इत्संज्ञास्तेषां लोपः सर्वादेशो यथा स्यात् । अथ क्रियमाणेपि वै तस्यग्रहणे कथमिव लोपः सर्वादेशो लभ्यः । लभ्य इत्याह । कुतः ?। वचनप्रामाण्यात् । तस्यग्रहणसार्मथ्यात् ।
इतो लोपे णल्क्त्वानिष्ठासूपसंख्यानमित्प्रतिषेधात् ।। 1 ।।
इतो लोपे णत्क्त्वानिष्ठासूपसंख्यानं कर्तव्यम् । णल्--अहं पपच । क्त्वा--देवित्वा सेवित्वा । निष्ठा--शयितः शयितवान् । किं पुनः कारणं न सिद्ध्यति ? इत्प्रतिषेधात् । प्रतिषिध्यतेऽत्रेत्संज्ञा । णलुत्तमो णिद्वा भवति । क्त्वा सेण्न किद्भवति । निष्ठा सेण्न किद्भवतीति ।
सिद्धं तु णलादीनां ग्रहणप्रतिषेधात् ।। 2 ।।
सिद्धमेतत् । कथम् ? णलादीनां ग्रहणानि प्रतिषिध्यन्ते । णलुत्तमो वा णिद्ग्रहणेन गृह्यते । क्त्वा सेण्न किद्ग्रहणेन गृह्यते । निष्ठा सेण्न किद्ग्रहणेन गृह्यत इति ।
निर्दिष्टलोपाद्वा ।। 3 ।।
निर्दिष्टलोपाद्वा सिद्धमेतत् । अथवा निर्दिष्टस्याऽयं लोपः क्रियते तस्मात्सिद्धमेतत् ।
तत्र तुस्मानां प्रतिषेधः ।। 4 ।।
तत्र तुस्मानां प्रतिषेधो वक्तव्यः । तस्मात् तस्मिन् । यस्मात् यस्मिन् । वृक्षाः प्लक्षाः । अचिनवम्। असुनवम्। अकरवम् ।
न वोच्चारणसार्मथ्यात् ।। 5 ।।
न वा वक्तव्यः । किं कारणम् ? उच्चारणसार्मथ्यादत्र लोपो न भविष्यति ।
अनुबन्धलोपे भावाभावयोर्विप्रतिषेधादप्रसिद्धिः ।। 6 ।।
अनुबन्धलोपे भावाभावयोर्विरोधादप्रसिद्धिः । न ज्ञायते केनाऽभिप्रायेण प्रसजति, केन
निवृत्तिं करोतीति ।
सिद्धं त्वपवादन्यायेन ।। 7 ।।
सिद्धमेतत् । कथम् ?। अपवादन्यायेन ।। किं पुनरिह तथा यथोत्सर्गापवादौ ?।
भावो हि कार्यार्थोऽनन्यार्थो लोपः ।। 8 ।।
कार्यं करिष्यामीत्यनुबन्ध आसज्यते, कार्यादन्यन्मा भूदिति लोपः ।
अथ यस्यानुबन्ध आसज्यते किं स तस्यैकान्तो भवत्याहोस्विदनेकान्तः ?।
एकान्तस्तत्रोपलब्धेः ।। 8 ।।
एकान्त इत्याह । कुतः ?। तत्रोपलब्धेः । तत्रस्थो ह्यसावुपलभ्यते । तद्यथा--वृक्षस्था शाखा वृक्षैकान्त उपलभ्यते ।
तत्राऽसरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशोऽनाकारान्तत्वात् ।। 9 ।।
तत्राऽसरूपविधौ दोषो भवति--कर्मण्यण् (3.2.1) आतोऽनुपसर्गे कः (3) इति कविषयेऽणपि प्राप्नोति। ।। सर्वादेशे च दोषो भवति--दिव औत् औत्सर्वादेशः प्राप्नोति ।। दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः--अदाब्दैपौःथ्द्य;ति वक्तव्यम् । किं पुनः कारणं न सिद्ध्यति ?। अनाकारान्तत्वात् । ननु चात्त्वे कृते भविष्यति । तद्ध्यात्त्वं न प्राप्नोति । किं कारणम् ? अनेजन्तत्वात् ।। अस्तु तर्ह्यनेकान्तः ।
अनेकान्ते वृत्तिविशेषः ।। 10 ।।
यद्यनेकान्तो वृत्तिविशेषो न सिद्ध्यति । किति णितीति कार्याणि न सिद्ध्यन्ति । किं हि स तस्येद्भवति, येनेत्कृतं स्यात् ?। एवं तर्ह्यनन्तरः ।
अनन्तर इति चेत्पूर्वोत्तरयोरित्कृतप्रसङ्गः ।। 11 ।।
अनन्तर इति चेत्पूर्वोत्तरयोरित्कृतं प्राप्नोति । वुञ्ञ्छण् ।
सिद्धं तु व्यवसितपाठात् ।। 12 ।।
सिद्धमेतत् । कथम् ?। व्यवसितपाठः कर्तव्यः । वुञ्ञ् छण् ।। स चावश्यं पाठः कर्तव्यः ।
इतरथा ह्येकान्तेऽपि सन्देहः ।। 13 ।।
अक्रियमाणे व्यवसितपाठे एकान्तेऽपि सन्देहः स्यात् । तत्र न ज्ञायते किमयं पूर्वस्य भवत्याहोस्वित्परस्येति ।। सन्देहमात्रमेतद्भवति, सर्वसन्देहेषु चेदमुपतिष्ठते व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति, पूर्वस्येति व्याख्यास्यामः ।
वृत्ताद्वा ।। 14 ।।
वृत्ताद्वा सिद्धमेतत् । वृद्धिमन्तमाद्युदात्तं दृष्ट्वा ञ्ञिदिति व्यवसेयम् । अन्तोदात्तं दृष्ट्वा किदिति। ।
युक्तं पुनर्यद्वृत्तनिमित्तको नामाऽनुबन्धः स्यान्नाऽनुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यम् ।
वृत्तनिमित्तक एवानुबन्धः । वृत्तज्ञो ह्याचार्योऽनुबन्धानासजति ।
उभयमिदमनुबन्धेषूक्तमेकान्ता अनेकान्ता इति, किमत्र न्याय्यम् ?। एकान्ता इत्येव न्याय्यम् । कुत एतत् ? अत्र हि हेतुर्व्यपदिष्टो यच्च नाम सहेतुकं तन्न्याय्यम् । ननु चोक्तं तत्राऽसरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशोऽनाकारान्तत्वादिति । असरूपविधौ तावन्न दोषः । आचार्यप्रवृत्तिर्ज्ञापयति--नानुबन्धकृतमसारूप्यं भवतीति, यदयं ददातिदधात्योर्विभाषा (3.1.13) इति शास्ति ।। यदप्युक्तम्--सर्वादेश इति । तत्राप्याचार्यप्रवृत्तिर्ज्ञापयति--नानुबन्धकृतमनेकाल्त्वं भवतीति, यदयं शित्सर्वस्य (1.1.55) इत्याह ।। यदप्युक्तम्--दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः इति । न कर्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति नानुबन्धकृतमनेजन्तत्वं भवतीति, यदयमुदीचां माङो व्यतीहारे (3.4.19) इति मेङः सानुबन्धकस्याऽऽत्त्वभूतस्य ग्रहणं करोति ।। 9 ।।
-1-3-10- यथासंख्यमनुदेशः समानाम्
किमिहोदाहरणम् ? इको यणचि (6.1.77) दध्यत्र मध्वत्र । नैतदस्ति । स्थानेऽन्तरतमेनाप्येतत्सिद्धम् । कुत आन्तर्यम् ?। तालुस्थानस्य तालुस्थान ओष्ठस्थानस्यौष्ठस्थानो भविष्यतीति ।
इदं तर्हि--तस्थस्थमिपां ताम्तम्तामः (3.4.101) इति । ननु चैतदपि स्थानेऽन्तरतमेनैव सिद्धम् । कुत आन्तर्यम् ?। एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थो भविष्यतीति ।
इदं तर्हि--तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्ञ्यकः (4.3.94) इति ।। किमर्थमिदमुच्यते ?।
संज्ञासमासनिर्देशात्सर्वप्रसङ्गोऽनुदेशस्य, तत्र यथासंख्यवचनं नियमार्थम् ।। 1 ।।
संज्ञया समासैश्च निर्देशाः क्रियन्ते । संज्ञया तावत्--परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति । समासैः--तूदीशलातुरवर्मतीकूचवाराङ्ढक्छण्ढञ्ञ्यकः (4.3.94) इति । संज्ञासमासनिर्देशादेतस्मात्कारणात् सर्वप्रसङ्गः सर्वस्योद्देशस्य सर्वोऽनुदेशः प्राप्नोति । इष्यते च समसंङ्ख्यं यथा स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीति तत्र यथासंख्यवचनं नियमार्थम् । एवमर्थमिदमुच्यते ।
किं पुनः कारणं संज्ञया च समासैश्च निर्देशाः क्रियन्ते ?।।
संज्ञासमासनिर्देशः पृथग्विभक्तिसंज्ञ्यनुच्चारणार्थः ।। 2 ।।
संज्ञया च समासैश्च निर्देशाः क्रियन्ते पृथग्विभक्तीः संज्ञिनश्च मोच्चीचरमिति ।
प्रकरणे च सर्वसंप्रत्ययार्थः ।। 3 ।।
प्रकरणे च सर्वेषां संप्रत्ययो यथा स्याद्--विदो लटो वा (3.4.83) इति ।
किं पुनः शब्दतः साम्ये संख्यातानुदेशो भवत्याहोस्विदर्थतः ?। कश्चात्र विशेषः ?।
संख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्याऽयवायाव एच इत्यनिर्देशः ।। 4 ।।
संङ्ख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्याऽयवायाव एच इत्यनिर्देशः । अगमको निर्देशोऽनिर्देशः । परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति । णलादयो बहवः, परस्मैपदानामित्येकः शब्दः, वैषम्यात्संख्यातानुदेशो न प्राप्नोति ।।
डारौरसः प्रथमस्य। । डारौरसो बहवः प्रथमस्येत्येकः शब्दः । वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति ।। एचोऽयवायावः (6.1.78) अयवायावो बहवः, एच इत्येकः शब्दः । वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति ।। अस्तु तर्ह्यर्थतः ।
अर्थतश्चेल्लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः ।। 5 ।।
अर्थतश्चेल्लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषो भवति ।। स्यतासी लृलुटोः (3.1.33) स्यतासी द्वौ, लृलुटोरित्यस्य त्रयोऽर्थाः । वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति ।। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3.1..134) नन्द्यादयो बहवः, ल्युणिन्यचस्त्रयः । वैषम्यात्संख्यातानुदेशो न प्राप्नोति ।। अरीहणादयो बहवः, वुञ्ञादयः सप्तदश । वैषम्यात्संख्यातानुदेशो न प्राप्नोति ।। सिन्धुतक्षशिलादिभ्योऽणञ्ञौ (4.3.93) सिन्धुतक्षशिलादयो बहवोऽणञ्ञौ द्वौ, वैषम्यात्संख्यातानुदेशो न प्राप्नोति ।
आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु ।। 6 ।।
आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषो भवति । आत्मनेपदविधिश्च न सिध्यति--अनुदात्तङित आत्मनेपदम् (1.3.2) अनुदातङितौ द्वौ, आत्मनेपदमित्यस्य द्वावर्थौ, तत्र संख्यातानुदेशः प्राप्नोति । निष्ठा--रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8.2.42) इति रेफदकारौ द्वौ, निष्ठेत्यस्य द्वावर्थौ । तत्र संख्यातानुदेशः प्राप्नोति । सार्वधातुकद्विग्रहणेषु च दोषो भवति--श्नसोरल्लोपः (6.4.111) श्नमस्ती द्वौ, सार्वधातुकमित्यस्य द्वावर्थौ । तत्र संख्यातानुदेशः प्राप्नोति ।
एङः पूर्वत्वे प्रतिषेधः ।। 7 ।।
एङः पूर्वत्वे प्रतिषेधो वक्तव्यः । एङः पदान्तादति ; ङसिङसोश्च (6.1.109;110) ङसिङसौ द्वौ,
एङित्यस्य द्वावथौ,तत्र संख्यातानुदेशः प्राप्नोति ।
अस्तु तर्हि शब्दतः । ननु चोक्तं संख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्याऽयवायाव एच
इत्यनिर्देशः इति । नैषः दोषः । स्थानेऽन्तरतमः (1.1.50) इत्यनेन व्यवस्था भविष्यति । कुत आन्तर्यम् ?। एकार्थस्यैकार्थौ द्व्यर्थस्य द्व्यर्थो, बह्वर्थस्य बह्वर्थः । संवृतावर्णस्य संवृतावर्णः, विवृताऽवर्णस्य विवृतावर्णः ।
अतिप्रसङ्गो गुणवृद्धिप्रतिषेधे क्ङिति ।। 8 ।।
अतिप्रसङ्गो भवति गुणवृद्धिप्रतिषेधे क्ङिति। गुणवृद्धी द्वे, क्ङितौ द्वौ।,तत्र संख्यातानुदेशः प्राप्नोति ।। नैषः दोषः । गकारोऽप्यत्र निर्दिश्यते । तद्गकारग्रहणं कर्तव्यम् ?। न कर्तव्यम् । क्रियते न्यास एव । ककारे गकार्रश्चत्वभूतो निर्दिश्यते । गिति किति ङितीति ।
उदिकूले रुजिवहोः ।। 9 ।।
उदिकूले द्वे, रुजिवहौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति । नैषः दोषः । नोदिरुपपदम् । किं तर्हि ?। विशेषणं रुजिवहोः । उत्पूर्वाभ्यां रुजिवहिभ्यां कूल उपपद् इति ।
तच्छीलादिषु धातुत्रिग्रहणेषु ।। 10 ।।
तच्छीलादिषु धातुत्रिग्रहणेषु दोषो भवति । विदिभिदिच्छिदेः कुरच् (3.2.162) ।
विदिभिदिच्छिदयस्त्रयः, तच्छीलादयस्त्रयः, तत्र संख्याताऽनुदेशः प्राप्नोति ।
घञ्ञादिषु द्विग्रहणेषु ।। 11 ।।
घञ्ञादिषु द्विग्रहणेषु दोषो भवति । निरभ्योः पूल्वोः (3.3.28) निरभी द्वौ, पूल्वौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।। नैषः दोषः । इष्यते चाऽत्र संख्यातानुदेशः,निष्पावः अमिलाव इति ।।
एवं तर्हि--अकर्तरि च कारके भावे चेति द्वौ पूल्वौ द्वौ । तत्र संख्यातानुदेशः प्राप्नोति ।
अवे तॄस्त्रोः करणाधिकरणयोः ।। 12 ।।
तॄस्त्रौ द्वौ, करणाधिकरणे द्वे। , तत्र संख्यातानुदेशः प्राप्नोति ।
कर्तृकर्मणोश्च भूकृञ्ञोः ।। 13 ।।
कर्तृकर्मणी, द्वे, भूकृञ्ञौ द्वौ । तत्र संख्यातानुदेशः प्राप्नोति ।
अनवक्लृप्त्यमर्षयोरकिंवृत्तेपि ।। 14 ।।
अनवक्लृप्त्यर्षौ द्वौ, किंवृत्ताऽकिंवृत्ते द्वे । तत्र संख्यातानुदेशः प्राप्नोति ।
कृभ्वोः क्त्वाणमुलौ ।। 15 ।।
कृभ्वौ द्वौ, क्त्वाणमुलौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।
अधीयानविदुषोश्छन्दोब्राह्मणानि ।। 16 ।।
छन्दोब्राह्मणानीति द्वे, अधीते वेदिति च द्वौ । तत्र संख्यातानुदेशः प्राप्नोति ।
रोपधेतोः पथिदूतयोः ।। 17 ।।
रोपधेतोः प्राचाम् (4.2.123) तद्गच्छति पथिदूतयोः (4.3.85) । रोपधेतौ द्वौ, पथिदूतौ द्वौ, तत्र संख्यातानुपदेशः प्राप्नोति ।
तत्र भवस्तस्य व्याख्यानः ऋतुयज्ञेभ्यश्च ।। 18 ।।
तत्र भवस्तस्य व्याख्यानौ द्वौ, क्रतुयज्ञौ द्वौ , तत्र संख्यातानुदेशः प्राप्नोति ।
संघादिष्वञ्ञ्प्रभृतयः ।। 19 ।।
संघादिष्वञ्ञ्प्रभृतयः संख्यातानुदेशेन न सिध्यन्ति ।
नैषः दोषः । घोषग्रहणमपि तत्र कर्तव्यम् ।
वेशोयशआदेर्भगाद्यत्खौ ।। 20 ।।
वेशोयशआदी द्वौ, यत्खौ द्वौ। । तत्र संख्यातानुदेशः प्राप्नोति ।
ङसिङसोः ख्यत्यात्परस्य ।। 21 ।।
ङसिङसौ द्वौ, ख्यत्यौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ।
न वा समानयोगवचनात् ।। 22 ।।
न वा एष दोषः । किं कारणम् ?। समानयोगवचनात् समानयोगे संख्यातानुदेशं वक्ष्यामि ।
तस्य दोषो विदो लटो वा ।। 23 ।।
तस्यैतस्य लक्षणस्य दोषः विदो लटो वा (3.4.83) इति संख्यातानुदेशो न प्राप्नोति ।
ध्माधेटोः नाडीमुष्ट्योश्च ।। 24 ।।
ध्माधेटोः नाडीमुष्ट्योश्च संख्यातानुदेशो न प्राप्नोति ।
खलगोरथादिनित्रकट्यश्च ।। 25 ।।
संख्यातानुदेशो न प्राप्नोति ।
सिन्ध्वपकाराभ्यां कन् अणञ्ञौ च ।। 26 ।।
संख्यातानुदेशो न प्राप्नोति ।
युष्मदस्मदोश्चादेशाः ।। 27 ।।
युष्मदस्मदोश्चादेशाः संख्यातानुदेशन्न सिद्ध्यन्ति ।
तस्माद्यस्मिन्पक्षेऽल्पीयांसो दोषास्तमास्थाय प्रतिविधेयं दोषेषु ।
अथवैवं वक्ष्यामि--यथासंख्यमनुदेशः समानां स्वरितेन । ततः अधिकारः । अधिकारश्च भवति स्वरितेनेति । एवमपि स्वरितं दृष्ट्वा सन्देहः स्यात्--न ज्ञायते-- किमयं समसंख्यार्थः, आहोस्विदधिकारार्थ इति ?। सन्देहमात्रमेतद्भवति, सर्वसन्देहेषु चेदमुपतिष्ठते--व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति। समसंख्यार्थ इति व्याख्यास्यामः ।। 10 ।।
-1-3-11- स्वरितेनाधिकारः
किमर्थमिदमुच्यते ?।
अधिकारः प्रतियोगं तस्यानिर्देशार्थः ।। 1 ।।
अधिकारः क्रियते--प्रतियोगं तस्यानिर्देशार्थ इति । किमिदं प्रतियोगमिति ?। योगं योगं प्रति प्रतियोगम् । योगे योगे तस्य ग्रहणं मा कार्षमिति ।
किं गतमेतदियता सूत्रेण ?। गतमित्याह । कुतः ?। लोकतः। तद्यथा लोके-- अधिकृतोऽसौ ग्रामे अधिकृतोऽसौ नगरे इत्युच्यते यो यत्र व्यापारं गच्छति । शब्देन चाप्यधिकृतेन कोन्यो व्यापारः शक्योवगन्तुमन्यदतो योगे योग उपस्थानात् ।
न वा निर्दिश्यमानाधिकृतत्वाद्यथा लोके ।। 2 ।।
न वा एतत्प्रयोजनमस्ति । किं कारणम् ?। निर्दिश्यमानाधिकृतत्वात्। यथा लोके । निर्दिश्यमानमधिकृतं गम्यते । तद्यथा--देवदत्ताय गौर्दीयतां यज्ञदत्ताय विष्णुमित्राय इति । गौरिति गम्यते । एवमिहापि पदरुजविशस्पृशो घञ्ञ् (3.3.16) सृ स्थिरे (17) भावे (18) घञ्ञिति गम्यते ।
अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा ।। 3 ।।
अन्यनिर्देशस्तु लोके निवर्तको भवति । तद्यथा--देवदत्ताय गौर्दीयताम् विष्णुमित्राय कम्बलः इति कम्बलो गोर्निवर्त्तको भवति । एवमिहापि अभिविधौ भाव इनुण् (3.3.44) घञ्ञो निवर्तकः स्यात् । तस्मात् परिभाषा कर्तव्या ।
अधिकारपरिमाणाज्ञानं तु ।। 4 ।।
अधिकारपरिमाणाज्ञानं तु भवति । न ज्ञायते कियन्तमवधिमधिकारोनुवर्तत इति ।
अधिकारपरिमाणज्ञानार्थं तु ।।5।।
अधिकारपरिमाणज्ञानार्थमेव तर्ह्ययं योगो वक्तव्यः । अधिकारपरिमाणं ज्ञास्यामीति । कथं पुनः--स्वरितेनाधिकार इत्येनेनाधिकारपरिमाणं शक्यं विज्ञातुम् ?। एवं वक्ष्यामि--स्वरिते नाधिकारः इति । स्वरितं दृष्ट्वाधिकारो न भवतीति । केनेदानीमधिकारो भविष्यति ?। लौकिकोधिकारः ।
नाधिकार इति चेदुक्तम् ।। 6।।
किमुक्तम् ? अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषेति । अधिकारार्थमेव तर्ह्ययं योगो
वक्तव्यः । ननु चोक्तम्--अधिकारपरिमाणाज्ञानं तु इति ।
यावतिथोऽलनुबन्धस्तावतो योगानिति वचनात्सिद्धम् ।। 7।।
यावतिथोऽलनुबध्यते तावतो योगानधिकारोनुवर्त्तत इति वक्तव्यम् ।
अथेदानीं यत्राल्पीयांसोऽलः भूयसश्च योगानधिकारोनुवर्तते, कथं तत्र कर्तव्यम् ?।
भूयसि प्राग्वचनम् ।। 8 ।।
भूयसि प्राग्वचनं कर्तव्यम् । प्रागमुत इति वक्तव्यम् ।। तत्तर्हि वक्तव्यम् । न वक्तव्यम् । सन्देहमात्रमेतद्भवति, सर्वसन्देहेषु चेदमुपतिष्ठते--व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् इति प्रागमुत इति व्याख्यास्यामः ।
यद्येवं नार्थोनेन । केनेदानीमधिकारो भविष्यति ?। लौकिकोधिकारः । ननु
चोक्तं--।नाधिकार इति चेदुक्तम्। । किमुक्तम् ?। ।अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा।इति। सन्देहमात्रमेतद्भवति । सर्वसन्देहेषु चेदमुपतिष्ठते व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणःथ्द्य;त्युक्तम् । इनुण्घञ्ञिति सन्देहे घञ्ञिति व्याख्यास्यामः ।
न तर्हीदानीमयं योगो वक्तव्यः ?। वक्तव्यश्च । किं प्रयोजनम् ?। स्वरितेनाधिकारगतिर्यथा विज्ञायेत अधिकं कार्यम् । अधिकः कारः ।
अधिकारगतिः--गोस्त्रियोरुपसर्जनस्य (1.2.48) इत्यत्र गोटाङ्ग्रहणं चोदितं तन्न कर्तव्यं भवति । स्त्रीग्रहणं स्वरयिष्यते । स्वरितेनाधिकारगतिर्भविष्यतीति स्त्रियाम् (4.1.3) इत्येवं प्रकृत्य ये प्रत्यया
विहितास्तेषां ग्रहणं विज्ञास्यते । तत्र स्वरितेनाधिकारगतिर्भवतीति न दोषो भवति । (अधिकारगतिः)
अधिकं कार्यम्--अपादानमाचार्यः किं न्याय्यं मन्यते?। यत्र प्राप्य निवृत्तिः । तेनेहैव स्यात्--ग्रामादागच्छति नगरादागच्छति । सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इत्यत्र न स्यात् । स्वरितेनाधिकं कार्यं भवतीत्यत्रापि सिद्धं भवति । तथा--अधिकरणमाचार्यः किं न्याय्यं मन्यते?। यत्र कृत्स्न आधारात्मा व्याप्तो भवति । तेनेहैव स्यात्--तिलेषु तैलम्, दध्नि सर्पिरिति । गङ्गायां गावः, कूपे गर्गकुलमित्यत्र न स्यात् । स्वरितेनाधिकं कार्यं भवतीत्यत्रापि सिद्धं भवति । अधिकं कार्यम् ।
अधिकः कारः--पूर्वविप्रतिषेधाश्च न पठितव्या भवन्ति--।गुणवृद्ध्यौत्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रतिसिद्धम्। नुमचिरतृज्वद्भावेभ्यो नुट्।इति । नुम्नुटौ स्वरयिष्येते । तत्र स्वरितेनाधिकः कारो भवतीति नुम्नुटौ भविष्यतः ।
कथं पुनरधिकः कार इत्यनेन पूर्वविप्रतिषेधाः शक्या न पठितुम् ?। लोकतः । तद्यथा--लोकेऽधिकमयं कारं करोतीत्युच्यते योयं दुर्बलः सन्बलवदि्भः सह भारं वहति । एवमिहाप्यधिकमयं कारं करोतीत्युच्यते योयं पूर्वः सन्परं बाधते ।
अधिकारगतिस्त्र्यर्था विशेषायाधिकं कार्यम् ।
अथ योन्योऽधिकः कारः पूर्वविप्रतिषेधार्थः सः ।।11।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्य तृतीयपादे प्रथमाह्निकम्।।
-1-3-12- अनुदात्तङित आत्मनेपदम्
(विकरणेभ्यः प्रतिषेधः ।)
विकरणेभ्यः प्रतिषेधो वक्तव्यः । चिनुतः सुनुतः लुनीतः। ङित इत्यात्मनेपदं प्राप्नोति ।। नैषः दोषः । नैवं विज्ञायते--ङकार इद्यस्य सोयं ङिद्, ङितः इति । कथं तर्हि ?। ङकार इद् ङित् ङित् इति । अथवोपदेश इति वर्तते । अथवोक्तमेतत् ।सिद्धं तु पूर्वस्य
कार्यातिदेशादिति।।
सर्वथा चङङ्भ्यां प्राप्नोति । एवं तर्हि धातोरिति प्रकृतं वर्तते । क्व प्रकृतम् ?। भूवादयो धातवः (1.3.1) इति । तद्वै प्रथमानिर्दिष्टम्, पञ्ञ्चमीनिर्दिष्टेन चेहार्थः । अर्थाद्विभक्तिविपरिणामो भविष्यति । तद्यथा--उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्वैनं देवदत्तमिति गम्यते । देवदत्तस्य गावोश्वा हिरण्यं च, आढ्यो वैधेयः देवदत्त इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात्प्रथमानिर्दिष्टं द्वितीयानिर्दिष्टं च भवति । एवमिहापि पुरस्तात्प्रथमानिर्दिष्टं सदर्थात्पञ्ञ्चमीनिर्दिष्टं भविष्यति ।
किमर्थं पुनरिदमुच्यते ?।
आत्मनेपदवचनं नियमार्थम् ।। 2 ।।
नियमार्थोयमारम्भः । किमुच्यते नियमार्थोयमिति न पुनर्विध्यर्थोपि स्यात् ?।
लविधानाद्विहितम् ।। 3 ।।
लविधानाद्ध्यात्मनेपदं परस्मैपदं च विहितम्। अस्ति प्रयोजनमेतत् । किं तर्हीति ।
विकरणव्यवहितत्वात्तु नियमाप्राप्तिः।।4।।
विकरणैस्तु व्यवहितत्वान्नियमो न प्राप्नोति । इदमिह संप्रधार्यं विकरणाः क्रियन्तां नियम इति किमत्र कर्तव्यम् ?। परत्वाद्विकरणाः । नित्याः खल्वपि विकरणाः, कृतेपि नियमे प्राप्नुवन्त्यकृतेपि प्राप्नुवन्ति । नित्यत्वात्परत्वाच्च विकरणेषु कृतेषु विकरणैर्व्यवहितत्वान्नियमो न प्राप्नोति ।
नैषः दोषः । अनवकाशो नियमः । सावकाशः । कोऽवकाशः ?। य एते लुग्विकरणः श्लुविकरणा लिङि्लटौ च ।
यदि पुनरियं
परिभाषा।।5।।
विज्ञायेत । किं कृतं भवति ?। कार्यकालं संज्ञापरिभाषम्, यत्र कार्यं तत्र द्रष्टव्यम् लस्य तिबादयो भवन्तीत्युपस्थितमिदं भवति अनुदातङित आत्मनेपदम् शेषात्कर्तरि परस्मैपदम् (1.3.78) इति ।। एवमपीतरेतराश्रयं भवति । का इतरेतराश्रयता ?। अभिनिर्वृत्तानां लस्य स्थाने तिबादीनामात्मनेपदपरस्मैपदसंज्ञया भवितव्यम्। संज्ञया च तिबादयो भाव्यन्ते । तदितरेतराश्रयं भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।
परस्मैपदेषु तावन्नेतरेतराश्रयं भवत्ति । परस्मैपदानुक्रमणं न करिष्यते । अवश्यं कर्तव्यम् अनुपराभ्यां कृञ्ञः (1.3.79) इत्येवमर्थम् । ननु चैतदप्यात्मनेपदानुक्रमण एव करिष्यते स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले (1.3.72) आत्मनेपदं भवति, कर्तर्यनुपराभ्यां कृञ्ञो न इति ।
आत्मनेपदेषु चापि नेतरेतराश्रयं भवति । कथम् ?। भाविनी संज्ञा विज्ञास्यते सूत्रशाटकवत् । तद्यथा--कश्चित्कंचित्तन्तुवायमाह--अस्य सूत्रस्य शाटकं वयेति । स पश्यति--यदि शाटको न वातव्योऽथ वातव्यो न शाटकः, शाटको वातव्यश्चेति विप्रतिषिद्धम् । भाविनी खल्वस्य संज्ञाभिप्रेता--स मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति । एवमिहापि स लस्य स्थाने
कर्तव्यः यस्याऽभिनिर्वृत्तस्यात्मनेपदमित्येषा संज्ञा भविष्यति ।
अथ वा पुनरस्तु नियमः । ननु चोक्तं विकरणैर्व्यवहितत्वान्नियमो न प्राप्नोति । नैषः दोषः
। आचार्यप्रवृत्तिर्ज्ञापयति--विकरणेभ्यो नियमो बलीयनीति। यदयं विकरणविधावात्मनेपदपरस्मैपदान्याश्रयति--पुषादिद्युताद्यलृदितः परस्मैपदेषु (3.1.55)
आत्मनेपदेष्वन्यतरस्याम् इति । नैतदस्ति ज्ञापकम् । अभिनिर्वृत्तानि हि लस्य स्थाने
आत्मनेपदानि परस्मैपदानि च । यत्तर्हि--अनुपसर्गाद्वा (1.3.43) इति विभाषां शास्ति ।
किं पुनरयं प्रत्ययनियमः--अनुदात्तङित एवात्मनेपदं भवति, भावकर्मणोः (1.3.13) एवात्मनेपदं भवतीति । आहोस्वित्प्रकृत्यर्थनियमः--अनुदात्तङित आत्मनेपदमेव भावकर्मणोरात्मनेपदमेवेति । कश्चात्र विशेषः ?।
तत्र प्रत्ययनियमे शेषवचनं परस्मैपदस्यानिवृत्तत्वात् ।। 6।।
तत्र प्रत्ययनियमे शेषग्रहणं कर्तव्यं परस्मैपदनियमार्थं--शेषात्कर्तरि परस्मैपदम् (1.3.78) इति । किं कारणम् ?। परस्मैपदस्यानिवृत्तत्वात् । प्रत्यया नियताः, प्रकृत्यर्थावनियतौ, तत्र परस्मैपदमपि प्राप्नोति । तत्र शेषग्रहणं कर्त्तव्यं परस्मैपदनियमार्थम् शेषादेव परस्मैपदं भवति, नान्यत इति ।
क्यष आत्मनेपदवचनं तस्यान्यत्र नियमात् ।। 7 ।।
क्यष आत्मनेपदं वक्तव्यम् । लोहितायति,लोहितायते । किं पुनः कारणं न सिध्यति ?। तस्यान्यत्र नियमात् । तद्व्यन्यत्र नियम्यते ।। उच्यते च, न च प्राप्नोति। तद्वचनाद्भविष्यति ।। अस्तु तर्हि प्रकृत्यर्थनियमः ।
प्रकृत्यर्थनियमेऽन्याभावः ।। 8 ।।
प्रकृत्यर्थनियमेऽन्येषां प्रत्ययानामभावः । अनुदात्तङितस्तृजादयो न प्राप्नुवन्ति । नैषः दोषः ।
अनवकाशास्तृजादयः। उच्यन्ते च, ते वचनाद्भविष्यन्ति । सावकाशास्तृजादयः । कोऽवकाशः ?। परस्मैपदिनोऽवकाशः । तत्रापि नियमान्न प्राप्नुवन्ति ।
तव्यदादयस्तर्हि भावकर्मणोर्नियमान्न प्राप्नुवन्ति । तव्यदादयोप्यनवकाशाः । ते वचनाद्भविष्यन्ति ।। चिण्तर्हि भावकर्मणोर्नियमान्न प्राप्नोति । घञ्ञ्तर्हि भावकर्मणोर्नियमान्न प्राप्नोति । तत्रापि प्रकृतं कर्मग्रहणमनुवर्तते । क्व प्रकृतम् ?। अण्कर्मणि च (3.3.12) इति । तद्वै तत्रोपपदविशेषणम्। अभिधेयविशेषणेन चेहार्थः । न चान्यार्थं प्रकृतमन्यार्थं भवति । न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद्भवति । नहि गोधा सर्पन्ती सर्पणादहिर्भवति ।
यत्तावदुच्यते--नान्यार्थं प्रकृतमन्यार्थं भवतीत्यन्यार्थमपि प्रकृतमन्यार्थं भवति । तद्यथा--शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयते उपस्पृश्यते शालयश्च भाव्यन्ते । यदप्युच्यते--न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद्भवति, नहि गोधा सर्पन्ती सर्पणादहिर्भवतीति । भवेद्द्रव्येष्वेतदेवं स्यात् । शब्दस्तु खलु येनयेनाभिसम्बध्यते तस्य तस्य विशेषको भवति ।
शेषवचनं च ।। 9 ।।
शेषग्रहणं च कर्तव्यम् । शेषात्कर्तरि परस्मैपदम् (1.3.78) इति । किं प्रयोजनम् ?। शेषनियमार्थम् । प्रकृत्यर्थौ नियतौ, प्रत्यया अनियताः, ते शेषेपि प्राप्नुवन्ति । तत्र शेषग्रहणं
कर्तव्यम्--शेषात्कर्तरि परस्मैपदमेव नान्यदिति ।
कर्तरि चात्मनेपदविषये परस्मैपदप्रतिषेधार्थम् ।। 10 ।।
कर्तरि चात्मनेपदविषये परस्मैपदप्रतिषेधार्थं द्वितीयं शेषग्रहणं कर्तव्यम् । शेषाच्छेषे इति वक्तव्यम् । इह मा भूत्--भिद्यते कुसूलः स्वयमेवेति ।
कतरस्मिन्पक्षेऽयं दोषः ?। प्रकृत्यर्थनियमे । प्रकृत्यर्थनियमे तावन्न दोषः । प्रकृत्यर्थौ नियतौ,
प्रत्यया अनियताः, तत्र नार्थः कर्तृग्रहणेन, कर्तृग्रहणाच्चैष दोषः ।। प्रत्ययनियमे तर्ह्ययं दोषः । प्रत्यया नियताः, प्रकृत्यर्थावनियतौ, तत्र कर्तृग्रहणं कर्तव्यं भावकर्मणोर्निवृत्त्यर्थम् । कर्तृग्रहणाच्चैष दोषः ।
प्रकृत्यर्थनियमे शेषग्रहणं शक्यमकर्तुम् । कथम् ?। प्रकृत्यर्थौ नियतौ, प्रत्यया अनियताः । ततो वक्ष्यामि--परस्मैपदं भवतीति । तन्नियमार्थं भविष्यति--यत्र परस्मैपदं चान्यच्च प्राप्नोति तत्र परस्मैपदमेव भवतीति ।
तत्तर्हि प्रत्ययनियमे द्वितीयं शेषग्रहणं कर्तव्यम् ?। न कर्तव्यम् । योगविभागः करिष्यते ।
अनुदात्तङित आत्मनेपदम् । ततः--भावकर्मणोः । ततः कर्तरि । कर्तरि चात्मनेपदं भवति भावकर्मणोः । ततः कर्मव्यतिहारे कर्तरीत्येव । भावकर्मणोरिति निवृत्तम् ।
यथैव तर्हि कर्मणि कर्तरि भवति, एवं भावेपि कर्तरि प्राप्नोति--एति जीवन्तमानन्दः नास्य किं चिद्रुजतीति ।। द्वितीयो योगविभागः करिष्यते--अनुदात्तङित आत्मनेपदम्। ततः भावे । ततः कर्मणि कर्मणि चात्मनेपदं भवति । ततः कर्तरि कर्तरि चात्मनेपदं भवति । कर्मणीत्यनुवर्तते, भाव इति निवृत्तम् । ततः कर्मव्यतिहारे कर्तरीत्येव, कर्मणीति निवृत्तम् ।
एवमपि शेषग्रहणं कर्तव्य अनुपराभ्यां कृञ्ञः (1.3.79) इत्येवमर्थम् । इह मा भूत्--अनुक्रियते स्वयमेव, पराक्रियते स्वयमेव । ननु चैतदपि योगविभागादेव सिद्धम् । न सिध्यति । अनन्तरा या प्राप्तिः सा योगविभागेन शक्या बाधितुम् । कुत एतत् ?। अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति । परा प्राप्तिरप्रतिषिद्धा तया प्राप्नोति । ननु चेयं प्राप्तिः परां प्राप्तिं बाधते । नोत्सहते प्रतिषिद्धा सती बाधितुम् ।
एवं तर्हि कर्तरि कर्मव्यतिहारे (1.3.14) इत्यत्र कर्तृग्रहणं प्रत्याख्यायते । तत्प्रकृतमुत्तरत्रानुवर्तिष्यते--शेषात्कर्तरि कर्तरि इति । किमर्थमिदं--कर्तरि कर्तरीति ?। कर्तैव यः कर्ता तत्र यथा स्यात्, कर्ता चान्यश्च यः कर्ता तत्र मा भूदिति । ततः अनुपराभ्यां कृञ्ञः कर्तरि कर्तरीत्येव ।। 12 ।।
-1-3-14- कर्तरि कर्मव्यतिहारे
क्रियाव्यतिहारे ।।1।।
क्रियाव्यतिहार इति वक्तव्यम्। कर्मव्यतिहार इत्युच्यमाने इहापि प्रसज्येत -- देवदत्तस्य धान्यं व्यतिलुनन्ति इति,
इह च न स्यात् -- व्यतिलुनते व्यतिपुनते इति।
तत्तर्हि वक्तव्यम्? न वक्तव्यम्। क्रियां हि लोके कर्मेत्युपचरन्ति। कां क्रियां करिष्यसि, किं कर्म करिष्यसि इति। एवमपि कर्तव्यम्। कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययो भवति। क्रियापि कृत्रिमं कर्म। न सिद्ध्यति। कर्तुरीप्सिततमं कर्म इत्युच्यते। कथं च क्रिया नाम क्रियया इर्प्सिततमा स्यात्?। क्रियापि क्रिययेप्सिततमा भवति। कया क्रियया? संपश्यतिक्रियया प्रार्थयतिक्रियया अध्यवस्यतिक्रियया (च)। इह य एष मनुष्यः प्रेक्षापूर्वकारी भवति स बुद्ध्या तावत्कंचिदर्थं संपश्यति, संदृष्टे प्रार्थना, प्रार्थितेऽध्यवसायः, अध्यवसाये आरम्भः, आरम्भे निर्वृत्तिः, र्निर्वृत्तौ फलावाप्तिः। एवं क्रियापि कृत्रिमं कर्म।
एवमप्युभयोः कृत्रिमयोरुभयगतिः प्रसज्येत। तस्मात्क्रियाव्यतिहार इति वक्तव्यम्।
न वक्तव्यम्। इह कर्तरि व्यतिहारे इतीयता सिद्धम्। सोऽयमेवं सिद्धे सति यत्कर्मग्रहणं करोति तस्यैतत्प्रयोजनम् -- क्रियाव्यतिहारे यथा स्यात्कर्मव्यतिहारे मा भूदिति।
अथ कर्तृग्रहणं किमर्थम्?
कर्मव्यतिहारादिषु कर्तृग्रहणं भावकर्मनिवृत्त्यर्थम् ।। 2 ।।
कर्मव्यतिहारादिषु कर्तृग्रहणं क्रियते, भावकर्मणोरनेनात्मनेपदं मा भूदिति।
इतरथा हि तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः ।।
अक्रियमाणे कर्तृग्रहणे भावकर्मणोरप्यात्म्यनेपदमनेन प्रसज्येत। तत्र को दोषः? तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः। तत्र प्रतिषेधे भावकर्मणोरप्यनेनात्मनेपदस्य प्रतिषेधः प्रसज्येत -- व्यतिगम्यन्ते ग्रामाः, व्यतिहन्यन्ते दस्यवः इति।
न वानन्तरस्य प्रतिषेधात् ।। 3 ।।
न वा एष दोषः। किं कारणम्? अनन्तरस्य प्रतिषेधात्। अनन्तरं यदात्मनेपदविधानं तस्य प्रतिषेधात्। कुत एतत्? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति। पूर्वा प्राप्तिरप्रतिषिद्धा तया भविष्यति।
ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते।
नोत्सहते प्रतिषिद्धा सती बाधितुम्।
उत्तरार्थं तर्हि कर्तृग्रहणं कर्तव्यम्।
न कर्तव्यम्। क्रियते तत्रैव शेषात्कर्तरि परस्मैपदम् इति।
द्वितीयं कर्तृग्रहणं कर्तव्यम्। किं प्रयोजनम्? कर्तैव यः कर्ता तत्र यथा स्यात्, कर्ता चान्यश्च यः कर्ता तत्र मा भूदिति। ।। 14 ।।
-1-3-15- न गतिहिंसार्थेभ्यः
प्रतिषेधे हसादीनामुपसंख्यानम् ।। 1 ।।
प्रतिषधे हसादीनामुपसंख्यानं कर्तव्यम्। व्यतिहसन्ति। व्यतिजल्पन्ति। व्यतिपठन्ति।
हरिवह्योरप्रतिषेधः ।। 2 ।।
हरिवह्योरप्रतिषेधो भवतीति वक्तव्यम्। संप्रहरन्ते राजानः । संविवहन्ते गर्गैः इति।
न वहिर्गत्यर्थः। देशान्तरप्रापणक्रियोऽत्र वहिः ।। 15 ।।
-1-3-16- इतरेतरान्योन्योपपदाच्च
परस्परोपपदाच्च ।। 1 ।।
परस्परोपपदाच्चेति वक्तव्यम्। परस्परस्य व्यतिलुनन्ति। परस्परस्य व्यतिपुनन्ति ।। 16 ।।
-1-3-19- विपराभ्यां जेः
विपराभ्यामित्युपसर्गग्रहणम्।।1।।
(विपराभ्यामिति) उपसर्गग्रहणं कर्तव्यम्। इह मा भूत् -- पराजयति सेनेति।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम् । यद्यपि तावदयं पराशब्दो दृष्टापचार उपसर्गश्चानुपसर्गश्च, अयं खलु विशब्दोऽदृष्टापचार उपसर्ग एव। तस्यास्य कोऽन्यो द्वितीयः सहायो भवितुमर्हत्यन्यदत उपसर्गात् । तद्यथा -- अस्य गोर्द्वितीयेनार्थः
इति गौरेवोपादीयते नाश्वो न गर्दभ इति ।। 19 ।।
-1-3-20- आङो दोऽनास्यविहरणे
आङो दोऽव्यसनक्रियस्य ।। 1 ।।
आङो दोऽव्यसनक्रियस्येति वक्तव्यम्। इहापि यथा स्यात् -- विपादिकां व्याददाति। कूलं व्याददातीति।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्। इह आङो दोऽनास्य इतीयता सिद्धम्। सोऽयमेवं सिद्धे सति यद्विहरणग्रहणं करोति तस्यैतत्प्रयोजनम् -- आस्यविहरणसमानक्रियादपि यथा स्यात्। यथाजातीयका चास्यविहरणक्रिया तथाजातीयकात्रापि।
स्वाङ्गकर्मकाच्च ।। 2 ।।
स्वाङ्गकर्मकाच्चेति वक्तव्यम्। इह मा भूत् -- व्याददते पिपीलिकाः पतङ्गस्य मुखम् इति ।। 20 ।।
-1-3-21- क्रीडोऽनुसंपरिभ्यश्च
उपसर्गग्रहणम्।।1।।
उपसर्गग्रहणं कर्तव्यम्। इह मा भूत् -- अनु क्रीडति माणवकम् इति।
समोऽकूजने ।। 2 ।।
समोऽकूजन इति वक्तव्यम्। इह मा भूत् -- सङ्क्रीडन्ति शकटानि।
आगमेः क्षमायाम् ।। 3 ।।
आगमेः क्षमायामुपसंख्यानं कर्तव्यम्। माणवक आगमयस्व तावत्।
शिक्षेर्जिज्ञासायाम् ।। 4 ।।
शिक्षेर्जिज्ञासायामुपसंख्यानं कर्तव्यम्। विद्यासु शिक्षते। धनुषि शिक्षते।
किरतेर्हर्षजीविकाकुलायकरणेषु ।। 5 ।।
किरतेर्हर्षजीविकाकुलायकरणेषूपसंख्यानं कर्तव्यम्। अपस्किरते वृषभो हृष्टः । अपस्किरते कुक्कुटो भक्षार्थी। अपस्किरते श्वा आश्रयार्थी।
हरतेर्गतताच्छील्ये ।। 6 ।।
हरतेर्गतताच्छील्ये उपसंख्यानं कर्तव्यम्। पैतृकमश्वा अनुहरन्ते। मातृकं गावोऽनुहरन्ते।
आशिषि नाथः ।। 7 ।।
आशिषि नाथ उपसंख्यानं कर्तव्यम्। सर्पिषो नाथते। मधुनो नाथते।
आङि नुप्रच्छ्योः ।। 8 ।।
आङि नुप्रच्छ्योरुपसंख्यानं कर्तव्यम्। आनुते शृगालः। आपृच्छते गुरुमिति।
शप उपलम्भने ।। 9 ।।
शप उपलम्भन उपसंख्यानं कर्तव्यम्। देवदत्ताय शपते । यज्ञदत्ताय शपते इति।
-1-3-22- समवप्रविभ्यः स्थः
आङः स्थः प्रतिज्ञाने ।। 1 ।।
आङः स्थः प्रतिज्ञान इति वक्तव्यम्। अस्ति सकारमातिष्ठते। आगमौ गुणवृद्धी आतिष्ठते। विकारौ गुणवृद्धी आतिष्ठते।
-1-3-24- उदोनूर्ध्वकर्मणि
उद ईहायाम् ।।
उद इर्हायामिति वक्तव्यम्। इह मा भूत् -- उत्तिष्ठति सेनेति।
-1-3-25- उपान्मन्त्रकरणे
उपाद्देवपूजासङ्गतकरणयोः ।
उपाद्देवपूजासङ्गतकरणयोरिति वक्तव्यम्। आदित्यम् उपतिष्ठते । चन्द्रमसम् उपतिष्ठते। सङ्गतकरणे --
रथिकान् उपतिष्ठते। अश्वारोहान् उपतिष्ठन्ते।
बहूनामप्यचित्तानामेको भवति चित्तवान्।
पश्य वानरसैन्येऽस्मिन्यदर्कमुपतिष्ठते।। 1 ।।
मैवं मंस्थाः सचित्तोऽयमेषोऽपि हि यथा वयम्।
एतदप्यस्य कापेयं यदर्कमुपतिष्ठति।। 2 ।।
अपर आह ---
उपाद्देवपूजासङ्गतकरणमित्रकरणपथिषु।
उपाद्देवपूजासङ्गतकरणमित्रकरणपथिष्विति वक्तव्यम्। देवपूजासङ्गतकरणयोरुदाहृतम्। मित्रकरणे -- रथिकान् उपतिष्ठते, अश्वारोहान् उपतिष्ठते। पथिषु -- अयं पन्थाः स्रुग्ध्नम् उपतिष्ठते, अयं पन्थाः साकेतम् उपतिष्ठते।
वा लिप्सायाम्।
वा लिप्सायामिति वक्तव्यम्। भिक्षुको ब्राह्मणकुलम् उपतिष्ठते। भिक्षुको ब्राह्मणकुलम् उपतिष्ठति।
-1-3-27- उद्विभ्यां तपः
अकर्मकादित्येव। (इह मा भूत् --) उत्तपति सुवर्णं सुवर्णकारः।
स्वाङ्गकर्मकाच्च।
स्वाङ्गकर्मकाच्चेति वक्तव्यम्। उत्तपते पाणी, वितपते पाणी। उत्तपते पृष्ठम्, वितपते पृष्ठम्।
अथोद्विभ्यामित्यत्र किं प्रत्युदाह्रियते?
निष्टप्यते इति।
किं पुनः कारणमात्मनेपदमेवोदाह्रियते, न पुनः परस्मैपदं प्रत्युदाहार्यं स्यात्?
तपिरयमकर्मकः। अकर्मकाश्चापि सोपसर्गाः सकर्मका भवन्ति। न चान्तरेण कर्मकर्तारं सकर्मका अकर्मका भवन्ति।
यदुच्यते -- न चान्तरेण कर्मकर्तारं सकर्मका अकर्मका भवन्तीति। अन्तरेणापि कर्मकर्तारं सकर्मका अकर्मका भवन्ति। तद्यथा -- नदी वहतीत्यकर्मकः, भारं वहतीति सकर्मकः। तस्मात् निष्टपतीति प्रत्युदाहार्यम्।
-1-3-28- आङो यमहनः
अकर्मकादित्येव । (इह मा भूत् --) आयच्छति रज्जुं कूपात्। आहन्ति वृषलं पादेन।
स्वाङ्गकर्मकाच्च ।। 1 ।।
स्वाङ्गकर्मकाच्चेति वक्तव्यम्। आयच्छते पाणी। आहते उदरमिति।
-1-3-29- समो गम्यृच्छिभ्याम्
समो गमादिषु विदिप्रच्छिस्वरतीनामुपसंख्यानम्।
समो गमादिषु विदिप्रच्छिस्वरतीनामुपसख्यानं कर्तव्यम्। संवित्ते। संपृच्छते। संस्वरते।
अर्तिश्रुदृशिभ्यश्च ।। 2 ।।
अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम्। अर्ति -- मा समृत। मा समृषाताम्। मा समृषत। अर्ति। श्रु -- संशृणुते। दृशि -- संपश्यते।
उपसर्गादस्यत्यूह्योर्वावचनम् ।। 3 ।।
उपसर्गादस्यत्यूह्योर्वेति वक्तव्यम्। निरस्यति। निरस्यते। समूहति। समूहते।
-1-3-40- आङ् उद्गमने
ज्योतिषामुद्गमने ।। 1 ।।
ज्योतिरूद्गमने इति वक्तव्यम्। इह मा भूत् -- आक्रामति धूमो र्हम्यतलादिति।। 40 ।।
-1-3-48- व्यक्तवाचां समुच्चारणे
व्यक्तवाचामिति किमर्थम्?
वरतनु संप्रवदन्ति कुक्कुटाः।
व्यक्तवाचामित्युच्यमानेऽप्यत्र प्राप्नोति। एतेऽपि हि व्यक्तवाचः। आतश्च व्यक्तवाचः कुक्कुटेनोदिते उच्यते -- कुक्कुटो वदतीति।
एवं तर्हि व्यक्तवाचामित्युच्यते। सर्व एव हि व्यक्तवाचः। तत्र प्रकर्षगतिर्विज्ञास्यते -- साधीयो ये व्यक्तवाच इति। के च साधीयः? येषां वाच्यकारादयो वर्णा व्यज्यन्ते। न चैतेषां वाच्यकारादयो वर्णा व्यज्यन्ते।
एतेषामपि वाच्यकारादयो वर्णा व्यज्यन्ते। आतश्च व्यज्यन्ते। एवं ह्याहुः कुक्कुटाः कुकूडिति।
नैवं ते आहुः। अनुकरणमेतत्तेषाम्।
अथ वा नैवं विज्ञायते -- व्यक्ता वाग्येषां त इमे व्यक्तवाच इति। कथं तर्हि? व्यक्ता वाचि वर्णा येषां त इमे व्यक्तवाच इति।। 48 ।।
-1-3-51- अवाद्ग्रः
अवाद् ग्रो गिरतेः ।। 1 ।।
अवाद् ग्र इत्यत्र गिरतेरिति वक्तव्यम्। गृणातेर्मा भूत्।
तत्तर्हि वक्तव्यम्।
न वा प्रयोगाभावात्।
न वक्तव्यम्, प्रयोगाभावात्। अवाद् ग्र इत्युच्यते, न चावपूर्वस्य गृणातेः प्रयोगोऽस्ति।। 51 ।।
-1-3-54- समस्तृतीयायुक्तात्
तृतीयायुक्तादिति किमर्थम्?
उभौ लोकौ संचरसीमं चामुं च देवल।
तृतीयायुक्तादित्युच्यमानेऽप्यत्र प्राप्नोति। अत्रापि हि तृतीयया योग इति।
एवं तर्हि तृतीयायुक्तादित्युच्यते। सर्वत्र च तृतीयया योगः। तत्र प्रकर्षगतिर्विज्ञास्यते -- साधीयो यत्र तृतीया योग इति। क्व च साधीयः? यत्र तृतीया श्रूयते ।। 54 ।।
-1-3-55- दाणश्च सा चेच्चतुर्थ्यर्थे
सा चेत्तृतीया चतुर्थ्यर्थे इत्युच्यते। कथं नाम तृतीया चतुर्थ्यर्थे स्यात्?
एवं तर्हि --
अशिष्टव्यवहारे तु तृतीया च विधीयते।।1।।
(किं च? आत्मनेपदं च) अशिष्टव्यवहारेनेन तृतीया च विधीयत आत्मनेपदं च। दास्या सम्प्रयच्छते, वृषल्या सम्प्रयच्छते। यः शिष्टव्यवहारः ब्राह्मणीभ्यः संम्प्रयच्छतीत्येव। तत्र भवितव्यम्।
यद्येवं नार्थोऽनेन। केनेदानीं तृतीया भविष्यति, आत्मनेपदं च?
सहयुक्ते तृतीया स्याद्व्यतिहारे तङो विधिः ।।2।।
सहयुक्तेऽप्रधाने इत्येव तृतीया भविष्यति, कर्तरि कर्मव्यतिहारे इत्यात्मनेपदम् ।। 55 ।।
-1-3-56- उपाद्यमः स्वकरणे
इह कस्मान्न भवति। स्वं शाटकान्तमुपयच्छति - इति? अस्वं यदा स्वं करोति तदा भवितव्यम्। यद्येवं स्वीकरणमिति प्राप्नोति। विचित्रास्तद्धितवृत्तयः। नातस्तद्धित उत्पद्यते ।। 56 ।।
-1-3-58- नानोर्ज्ञः
अनोर्ज्ञः प्रतिषेधे सकर्मकवचनम् ।। 1 ।।
अनोर्ज्ञः प्रतिषेधे सकर्मकग्रहणं कर्तव्यम्। इह मा भूत् -- औषधस्यानुजिज्ञासते इति।
न वाऽकर्मकस्योत्तरेण विधानात् ।। 2 ।।
न वा कर्तव्यम्। किं कारणम्? अकर्मकस्योत्तरेण विधानात्। अकर्मकाज्जानातेरुत्तरेण योगेनात्मनेपदं विधीयते पूर्ववत्सनः इति।
प्रतिषेधः पूर्वस्य च ।। 3 ।।
पूर्वस्य चायं प्रतिषेधः। स च सकर्मकार्थ आरम्भः। कथं पुनर्ज्ञायते -- पूर्वस्यायं प्रतिषेध इति? अनन्तरस्य विधिर्वा
भवति प्रतिषेधो वेति। कथं पुनर्ज्ञायते - सकर्मकार्थ आरम्भ इति? अकर्मकाज्जानातेः सन आत्मनेपदवचने प्रयोजनं नास्तीति कृत्वा सकर्मकार्थो विज्ञायते ।। 58 ।।
-1-3-60- शदेः शितः
शदेः शितः परस्मैपदाश्रयत्वादात्नेपदाभावः ।। 1 ।।
शदेः शितः परस्मैपदाश्रयत्वादात्मनेपदस्याभावः। शीयते शीयेते शीयन्ते।
किं च भोः शदेः शित्परस्मैपदेष्वित्युच्यते ? न खलु परस्मैपदेषु इत्युच्यते परस्मैपदेषु तु विज्ञायते। कथम् ? अनुदात्तङित आत्मनेपदम् भावकर्मणोरात्मनेपदमित्येतौ द्वौ योगावुक्त्वा शेषात्कर्त्तरि परस्मैपदमित्युच्यते। एवं च न परस्मैपदेषूच्यते परस्मैपदेषु विज्ञायते।
कः पुनरर्हत्येतौ योगावुक्त्वा शेषात्कर्तरि परस्मैपदं वक्तुम्। किं तर्हि? अविशेषेण सर्वमात्मनेपदप्रकरणमनुक्रम्य शेषात्कर्तरि परस्मैपदमित्युच्यते। एवमपि परस्मैपदाश्रयो भवति। कथम्? इदं तावदयं प्रष्टव्यः -- यदीदं नोच्येत किमिह स्यादिति? परस्मैपदमित्याह। परस्मैपदमिति चेत्परस्मैपदाश्रयो भवति।
सिद्धं तु लडादीनामात्मनेपदवचनात् ।। 2 ।।
सिद्धमेतत्। कथम्? शदेर्लडादीनामात्मनेपदं भवतीति वक्तव्यम् ।
सिद्ध्यति। सूत्रं तर्हि भिद्यते। यथान्यासमेवास्तु। ननु चोक्तम् -- शदेः शितः परस्मैपदाश्रयत्वादात्मनेपदाभावः इति। नैषः दोषः । शित इति नैषा पञ्चमी। का तर्हि? संबन्धे षष्ठी -- शितो यः शदिः। कश्च शितः शदिः? प्रकृतिः। शदेः शित्प्रकृतेरिति।
अथ वाऽऽहायं शदेः शितः इति, न च शदिः शिदस्ति। त एवं विज्ञास्यामः -- शदेः शिद्विषयादिति। अथ वा यद्यपि तावदेतदन्यत्र भवति विकरणेभ्यो नियमो बलीयानिति, इहैतन्नास्ति। विकरणो हीहाश्रीयते शितः इति।
उपसर्गपूर्वनियमेऽड्व्यवाय उपसंख्यानाम् ।। 3 ।।
उपसर्गपूर्वनियमेऽड्व्यवाय उपसंख्यानं कर्तव्यम्। न्यविशत। व्यक्रीणीत। किं पुनः कारणं न सिद्ध्यति ? अटा व्यवहितत्वात्। ननु चायमड्धातुभक्तो धातुग्रहणेन ग्रहीष्यते। न सिध्यति। अङ्गस्य ह्यडुच्यते विकरणान्तं चाङ्गम् । सोऽसौ संघातभक्तो न शक्यो धातुग्रहणेन ग्रहीतुम्।
एवं तर्हीदमिह संप्रधार्यम् -- अट् क्रयतां विकरण इति। किमत्र कर्तव्यम् ? परत्वादडागमः।
नित्या विकरणाः। कृतेऽप्यटि प्राप्नुवन्त्यकृतेऽपि। अडपि नित्यः। कृतेष्वपि विकरणेषु प्राप्नोत्यकृतेष्वपि प्राप्नोति। अनित्योऽट्। अन्यस्य कृतेषु विकरणेषु प्राप्नोत्यन्यस्याकृतेषु। शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति।
एवं तर्हीदमिह संप्रधार्यम् -- अट् क्रियतां लादेश इति। किमत्र कर्तव्यम् ? परत्वादडागमः। नित्यो लादेशः। कृतेऽप्यटि प्राप्नोत्यकृतेऽपि प्राप्नोति। नित्यत्वाल्लादेशस्यात्मनेपद एवाडागमो भविष्यति।
नित्यत्वाल्लादेशस्यात्मनेपदेऽडागम इति चेदटो नित्यनिमित्तत्वादात्मनेपदाभावः (तस्मादुपसंख्यानम्) ।। 4 ।।
नित्यत्वाल्लादेशस्यात्मनेपदेऽडागम इति चेदेवमुच्यते -- अडपि नित्यनिमित्तः कृतेऽपि लादेशे प्राप्नोत्यकृतेऽपि प्राप्नोति। अटो नित्यनिमित्तत्वादात्मनेपदस्याभावः। तस्मादुपसंख्यानम्
तस्मादुपसंख्यानं कर्तव्यम्। अन्तरङ्गस्तर्हि लादेशः ।
नैतद्विवदामहे -- अन्तरङ्गो नान्तरङ्ग इति। अस्त्वयं नित्यश्चान्तरङ्गश्च। अत्र खलु लादेशे कृते त्रीणि कार्याणि युगपत्प्राप्नुवन्ति -- विकरणाः, अडागमः, नियम इति। तद्यदि सर्वतो नियमो लभ्येत, कृतं स्यात्, तत्तु न लभ्यम्। अथापि विकरणात्पूर्वमडिति अड्लभ्येत, एवमपि कृतं स्यात्। तत्तु न लक्ष्यम्। किं कारणम् ? आङ्गात्पूर्वं विकरणा एषितव्यास्तरतस्तरन्तीत्येवमर्थम्। अडाड्भ्यामप्यन्यदाङ्गं पूर्वमेषितव्यमुपार्च्छदित्येवमर्थम्। तत्र ह्याटि कृते साट्कस्य ऋच्छिभावः प्राप्नोति। ननु च ऋच्छिभावे कृते शब्दान्तरस्याकृत आडिति कृत्वा पुनराड् भविष्यति। पुनर्ऋच्छिभावः पुनराडिति चक्रकमव्यवस्था प्राप्नोति।
नैषः दोषः। यत्तावदुच्यते -- आङ्गात्पूर्वं विकरणा एषितव्याः तरतः तरन्तीत्येवमर्थमिति। भवेत्सिद्धं यत्र विकरणा नित्या आङ्गमनित्यं तत्राङ्गात्पूर्वं विकरणाः स्युः। यत्र तु खलूभयं नित्यं परत्वात्तत्राङ्गं तावद्भवति।
यदप्युच्यते -- अडाड्भ्यामप्यन्यदाङ्गं पूर्वमेषितव्यमुपार्च्छदित्येवमर्थमिति। अस्त्वत्राट्, आटि कृते साट्कस्य
ऋच्छिभावः, ऋच्छिभावे कृते शब्दान्तरस्याकृत आडिति कृत्वा पुनराड् भविष्यति। ननु चोक्तम् -- पुनर्ॠच्छिभावः पुनराडिति चक्रकमव्यवस्था प्राप्नोतीति। नैषः दोषः। चक्रकेष्विष्टतो व्यवस्था।
अथ वा नेरिति नैषा पञ्चमी। का तर्हि ? विशेषणषष्ठी नेर्यो विशिः । कश्च नेर्विशिः
? विशेष्यः। व्यवहितश्चापि शक्यते। विशेषयितुम्। अथ वा निरपि पदं, विशिरपि पदम्। पदविधिश्च समर्थानाम् । व्यवहितेऽपि सामर्थ्यं भवति ।। 60 ।।
-1-3-62- पूर्ववत्सनः
किमिदं पूर्वग्रहणं सनपेक्षम् -- प्राक्सनो येभ्य आत्मनेपदमुक्तं तेभ्यः सन्नन्तेभ्योऽपि भवतीति। आहोस्विद्योगापेक्षम् -- प्रागेतस्माद्योगाद्येभ्यो योगेभ्य आत्मनेपदमुक्तं तेभ्यः सन्नन्तेभ्योऽपि भवतीति। किं चातः? यदि सनपेक्षम्, निमित्तमविशेषितं भवति। पूर्ववत्सनः न ज्ञायते -- किमन्ताद्भवितव्यमिति। अथ योगापेक्षमुत्तरत्र विधिर्न प्रकल्पेत -- बुभुक्षते उपयुयुक्षत इति।
यथेच्छसि तथास्तु। अस्तु तावत्सनपेक्षम्। ननु चोक्तम् -- निमित्तमविशेषितं भवतीति। निमित्तं च विशेषितम्। कथम्? सनमेवात्र निमित्तत्वेनापेक्षिप्यामहे। पूर्ववत्सन आत्मनेपदं भवति। कुतः? सन इति।
अथ वा पुनरस्तु योगापेक्षम्। ननु चोक्तम् -- उत्तरत्र विधिर्न प्रकल्पेतेति। विधिश्च प्रक्लृप्तः। कथम्? उत्तरत्रापि पूर्ववत्सनः इत्येवानुवर्तिष्यते।
किमर्थं पुनरिदमुच्यते?
पूर्ववत्सन इति शदिम्रियत्यर्थम् ।। 1 ।।
शदिम्रियत्यर्थोऽयमारम्भः। शदिम्रियतिभ्यां सन्नन्ताभ्यात्मनेपदं मा भूदिति।
इतरथा हि ताभ्यां सन्नन्ताभ्यामात्मनेपदप्रतिषेधः ।। 2 ।।
इतरथा हि अनुच्यमानेऽस्मिन् शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदस्य प्रतिषधो वक्तव्यः स्यात्। शिशत्सति मुमूर्षति।
कथं पुनः पूर्ववत्सनः इत्यनेन शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदस्य प्रतिषेधः शक्यो विज्ञातुम्? वतिनिर्देशोऽयम्। कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम्। तद्यथा -- उशीनरवन्मद्रेषु यवाः सन्ति, न सन्तीति। मातृवदस्याः कलाः सन्ति, न सन्तीति। एवमिहापि पूर्ववद्भवति, न भवतीति। न भवतीत्येवं वाक्यशेषं समर्थयिष्यामहे -- यथा पूर्वयोर्योगयोः सन्नन्ताभ्यामात्मनेपदं न भवति, एवमिहापि शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं न भवतीति।
यदि तर्हि शदिम्रियत्यर्थोऽयमारम्भः, विधिर्न प्रकल्पते -- आसिसिषते। शिशयिषते। अथ विध्यर्थः, शदिम्रियतिभ्यां सन्नन्ताभ्यात्मनेपदं प्राप्नोति।
यथेच्छसि तथास्तु। अस्तु तावत्प्रतिषेधार्थः। ननु चोक्तं विधिर्न प्रकल्पते इति । विधिश्च प्रक्लुप्तः । कथम् ? एतदेव ज्ञापयति -- सन्नन्तादात्मनेपदं भवतीति। यदयं शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदस्य प्रतिषेधं शास्ति।
अथ वा पुनरस्तु विध्यर्थः। ननु चोक्तम् -- शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं प्राप्नोति - इति। नैषः दोषः। प्रकृतं सनो न इत्यनुवर्तिष्यते। क्व प्रकृतम् ? ज्ञाश्रुस्मृदृशां सनः। नानोर्ज्ञः। सकर्मकात्सनो न भवति । प्रत्याङ्भ्यां श्रुवः सनो न । शदेः शितः सनो न । म्रियतेर्लुङ्लिङोश्च सनो नेति । इहेदानीं पूर्ववत्सनः इति, सन इत्यनुवर्तते, नेति निवृत्तम् । एवं च कृत्वा सोऽप्यदोषो भवति, यदुक्तम् -- निमित्तमविशेषितं भवतीति ।
नैव वा पुनरत्र शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं प्राप्नोति । किं कारणम् ? शदेः शितः
इत्युच्यते। न च शदिरेवात्मनेपदस्य निमित्तम् । किं तर्हि ? शिदपि निमित्तम् । अथापि शदिरेव शित्परस्तु निमित्तम् । न चायं सन्परः शित्परो भवति । यत्र तर्हि शिन्नाश्रीयते म्रियतेर्लुङ्लिङोश्च इति। अत्रापि न म्रियतिरेवात्मनेपदस्य निमित्तम् । किं तर्हि ?। लुङ्लिङावपि निमित्तम्। अथापि म्रियतिरेव लुङ्लिङ्परस्तु निमित्तम् । न चायं सन्परः लुङ्लिङ्परो भवति।
किं पुनः पूर्वस्य यदात्मनेपददर्शनं तत्सन्नन्तस्यातिदिश्यते ? एवं भवितुमर्हति ।
पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदभाव इति चेद्गुपादिष्वप्रसिद्धिः ।। 3 ।।
पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदं भवतीति चेद् गुपादिष्वप्रसिद्धिः । गुपादीनां न प्राप्नोति जुगुप्सते मीमांसत इति । न ह्येतेभ्यः प्राक्सन आत्मनेपदं नापि परस्मैपदं पश्यामः ।
सिद्धं तु पूर्वस्य लिङ्गातिदेशात् ।। 4 ।।
सिद्धमेतत् । कथम् ? पूर्वस्य यदात्मनेपदलिङ्गं तत्सन्नन्तस्याप्यतिदिश्यते ।
कृञादिषु तु लिङ्गप्रतिषेधः ।। 5 ।।
कृञादिषु तु लिङ्गस्य प्रतिषेधो वक्तव्यः । अनुचिकीर्षति पराचिकीर्षतीति ।
अस्तु तर्हि -- प्राक्सनो येभ्य आत्मनेपदं दृष्टं तेभ्यः सन्नन्तेभ्योऽपि भवतीति। ननु चोक्तं पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदभाव इति चेद्गुपादिष्वप्रसिद्धिः इति । नैषः दोषः । अनुबन्धकरणसार्मथ्याद् भविष्यति ।
अथवाऽवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति । तद्यथा --गोः सक्थनि कर्णे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति ।
यद्यवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति -- जुगुप्सयति मीमांसयतीत्यत्रापि प्राप्नोति । नैषः दोषः । अवयवे कृतं लिङ्गं कस्य समुदायस्य विशेषकं भवति। यं समुदायं योऽवयवो न व्यभिचरति । सनं च न व्यभिचरति, णिचं च पुर्नव्यभिचरति । तद्यथा -- गोः सक्थनि कर्णे वा कृतं लिङ्गं गोरेव विशेषकं भवति न गोमण्डलस्य।
प्रत्ययग्रहणं णियगर्थम् ।। 6 ।।
प्रत्ययग्रहणं कर्तव्यम् । पूर्ववत्प्रत्ययादिति वक्तव्यम् । किं प्रयोजनम् ? णियगर्थम् । णियगन्तादपि यथा स्यादिति । आकुस्मयते। विकुस्मयते। हृणीयते। महीयते इति। तत्र को दोषः?
तत्र हेतुमण्णिचः प्रतिषेधः ।। 7 ।।
तत्र हेतुमण्णिचः प्रतिषेधो वक्तव्यः। आसयति। शाययतीति । सूत्रं च भिद्यते ।
यथान्यासमेवास्तु । कथमाकुस्मयते विकुस्मयते हृणीयते महीयते इति ? अनुबन्धकरणसार्मथ्याद् भविष्यति ।
अथवा - अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति । तद्यथा -- गोः सक्थनि कर्णे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति ।
यद्यवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति, हृणीययति महीययतीत्यत्रापि प्राप्नोति । अवयवे कृतं लिङ्गं कस्य समुदायस्य विशेषकं भवति। यं समुदायं योऽवयवो न व्यभिचरति । यकं च न व्यभिचरति, णिचं तु व्यभिचरति । तद्यथा -- गोः सक्थनि कर्णे वा कृतं लिङ्गं गोरेव विशेषकं भवति न गोमण्डलस्य ।। 62 ।।
-1-3-63- आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य
कृञ्ग्रहणं किमर्थम् ? इह मा भूत् -- ईहामास ईहामासतुः ईहामासुः । कथं चात्रास्तेरनुप्रयोगो भवति ? प्रत्याहारग्रहणं हि तत्र विज्ञायते । कथं पुनर्विज्ञायते तत्र प्रत्याहारग्रहणमिति ? इह कृञ्ग्रहणात् । इह कस्मात्प्रत्याहारग्रहणं न भवति ? इहैव कृञ्ग्रहणात्।
अथेह कस्मान्न भवति -- उदुम्भाञ्चकार उदुब्जाञ्चकार ? ननु च आम्प्रत्ययवदित्युच्यते, न चात्राम्प्रत्ययादात्मनेपदं पश्यामः । न ब्रूमोऽनेनेति । किं तर्हि ? स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवतीति ।
नैषः दोषः । इदं नियमार्थं भविष्यति -- आम्प्रत्ययवदेवेति । यदि नियमार्थं विधिर्न प्रकल्पते -- ईहांचक्रे ऊहांचक्रे इति । विधिश्च प्रक्लृप्तः । कथम् ? पूर्ववदिति वर्तते ।
आम्प्रत्ययवत्पूर्ववच्चेति ।। 63 ।।
-1-3-64- प्रोपाभ्यां युजेरयज्ञापात्रेषु
स्वराद्युपसृष्टात्।
स्वराद्युपसृष्टादिति वक्तव्यम्। उद्युङ्क्ते अनुयुङ्क्ते ।
अपर आह --
स्वराद्यन्तोपसृष्टात्।
स्वराद्यन्तोपसृष्टादिति वक्तव्यम् । प्रयुङ्क्ते नियुङ्क्ते विनियुङ्क्ते ।। 64 ।।
-1-3-65- समः क्ष्णुवः
किमर्थं विदेशस्थस्य ग्रहणं क्रियते, न समो गमादिष्वित्येवोच्येत ?
समः क्ष्णुवः सकर्मकार्थम् ।। 1 ।।
सकर्मकार्थोऽयमारम्भः । अकर्मकादिति तत्रानुवर्तते ।। 65 ।।
-1-3-66- भुजोऽनवने
अनवनकौटिल्ययोः।।1।।
अनवनकौटिल्ययोरिति वक्तव्यम् । इहापि यथा स्यात् -- प्रभुजति वाससी, निभुजति जानुशिरसी इति ।। तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । यस्य भुजेरवनमनवनं चाऽर्थस्तस्य ग्रहणम् । न चाऽस्य भुजेरवनमनवनं चाऽर्थः ।। 66 ।।
-1-3-67- णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने
णेरात्मनेपदविधानेऽण्यन्तस्य कर्मणस्तत्रोपलब्धिः ।। 1 ।।
णेरात्मनेपदविधानेऽण्यन्तस्य यत्कर्म यदा ण्यन्ते तदेव कर्म भवति तदात्मनेपदं भवतीति वक्तव्यम् ।
इतरथा हि सर्वप्रसङ्गः ।। 2 ।।
इतरथा हि सर्वत्र प्रसङ्गः स्यात् । इहापि प्रसज्येत -- आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान् ।
तत्तर्हि वक्तव्यम् । न वक्तव्यम् । एवं वक्ष्यामि -- णेः आत्मनेपदं भवति । ततः
अणौ यत्कर्म णौ चेत् । अण्यन्ते यत्कर्म णौ चेण्णौ यदि तदेव कर्म भवति । ततः स कर्ता कर्ता चेत्स भवति णाविति। यद्येवं कर्म कर्ताऽयं भवति तत्र कर्मकर्तृत्वात्सिद्धम्। ।
कर्मकर्तृत्वासिद्धमिति चेद्यक्चिणोर्निवृत्त्यर्थं वचनम् ।। 3 ।।
कर्मकर्तृत्वात्सिद्धमिति चेद् यक्चिणोर्निवृत्त्यर्थमिदं वक्तव्यम् । कर्मापदिष्टौ यक्चिणौ मा भूतामिति ।
न वा यक्चिणोः प्रतिषेधात् ।। 4 ।।
न वा एष दोषः । किं कारणम् ? यक्चिणोः प्रतिषेधात् । प्रतिषिद्ध्येते अत्र यक्चिणौ । यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञ्ञामुपसङ्ख्यानम् इति ।
यस्तर्हि न हेतुमण्णिच्, तदर्थमिदं वक्तव्यम् । तस्य कर्मापदिष्टौ यक्चिणौ मा भूतामिति ।
उदपुपुच्छत पुच्छं स्वयमेव । अत्रापि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यं प्रतिषेधेन -- यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञ्ञात्मनेपदाकर्मकाणामुपसंख्यानमिति । स चावश्यं प्रतिषेध आश्रयितव्यः ।
इतरथा हि यत्र नियमस्ततोऽन्यत्र प्रतिषेधः ।। 5 ।।
अनुच्यमाने ह्येतस्मिन् यत्र नियमस्ततोऽन्यत्र तेन यक्चिणोः प्रतिषेधो वक्तव्यः स्यात् ।
गणयति गणं गोपालकः । गणयति गणः स्वयमेव ।
आत्मनेपदस्य च ।। 6 ।।
आत्मनेपदस्य च प्रतिषेधो वक्तव्यः । गणयति गणः स्वयमेव ।
आत्मनेपदप्रतिषेधार्थं तु ।। 7 ।।
आत्मनेपदप्रतिषेधार्थमिदं वक्तव्यम् । गणयति गणः स्वयमेव ।
इष्यत एवात्रात्मनेपदम् । किमिष्यत एव, आहोस्वित्प्राप्नोत्यपि ? इष्यते च, प्राप्नोति च । कथम् ? अणाविति कस्येदं णेर्ग्रहणं यस्माण्णेः प्राक्कर्म वा कर्ता वा विद्यते । न चैतस्माण्णेः प्राक्कर्म कर्ता वा विद्यते ।
इदं तर्हि प्रयोजनम् -- अनाध्यान इति वक्ष्यामीति । इह मा भूत् -- स्मरति वनगुल्मस्य कोकिलः । स्मरयत्येनं वनगुल्मः स्वयमवेति ।
एतदपि नास्ति प्रयोजनम् । कर्मापदिष्टा विधयः कर्मस्थभावकानां कर्मस्थक्रियाणां वा भवन्ति।
कर्तृस्थभावकश्चायम् ।
एवं तर्हि सिद्धे सति यदनाध्यान इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः -- भवत्येवंजातीयकानामात्मनेपदमिति । किमेतस्य ज्ञापने प्रयोजनम् ? पश्यन्ति भृत्या राजानम् । दर्शयते भृत्यान् राजा । अत्रात्मनेपदं सिद्धं भवति ।
आत्मनः कर्मत्वे प्रतिषेधः ।। 8 ।।
आत्मनः कर्मत्वे प्रतिषेधो वक्तव्यः । हन्त्यात्मानम् । घातयत्यात्मा इति ।
स तर्हि वक्तव्यः ।
न वा ण्यन्तेऽन्यस्य कर्तृत्वात् ।। 9 ।।
न वा वक्तव्यः । किं कारणम् ? ण्यन्तेऽन्यस्य कर्तृत्वात् । अन्यदत्राण्यन्ते कर्मऽन्यो ण्यन्तस्य कर्ता । कथम् ? द्वावात्मानौ, अन्तरात्मा शरीरात्मा च । अन्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखःदुखे अनुभवतीति। शरीरात्मा तत्कर्म करोति येनान्तरात्मा सुखदुःखे अनुभवतीति। 67 ।।
-1-3-72- स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले
स्वरितञ्ञित इति किमर्थम् ?। याति वाति द्राति प्साति । स्वरितञ्ञित इति शक्यमकर्त्तुम् । इह कस्मान्न भवति याति वाति द्राति प्सातीति ?। कर्त्रभिप्राये क्रियाफले इत्युच्यते। सर्वेषां च कर्त्रभिप्रायं क्रियाफलमस्ति । त एवं विज्ञास्यामः येषां कर्त्रभिप्रायमकर्त्रभिप्रायं च क्रियाफलमस्ति तेभ्य आत्मनेपदं भवतीति । न चैतेषां कर्त्रभिप्रायं चाकर्त्रभिप्रायं च क्रियाफलमस्ति । तथाजातीयकाः खल्वाचार्येण स्वस्तिञ्ञितः पठिताः ये उभयवन्तः-- येषां कर्त्रभिप्रायं चाकर्त्रभिप्रायं च क्रियाफलमस्ति ।
अथाभिप्रग्रहणं किमर्थम् ?। स्वरितञ्ञितः कर्त्राये क्रियाफल इतीयत्युच्यमाने यमेव
संप्रत्येति क्रियाफलं तत्रैव स्यात्--लूञ्ञ् लुनीते, पूञ्ञ् पुनीते । इह न स्यात्--यज् यजते, वप् वपते । अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति । अभिरामुख्ये वर्तते, प्र आदिकर्मणि । तेन यं चाऽभिप्रति, यं चाभिप्रैष्यति, यं चाऽभिप्रागात्तत्र सर्वत्राभिमुख्यमात्रे सिद्धं भवति ।
कर्त्रभिप्राये क्रियाफल इति किमर्थम् ? पचन्ति भक्तकाराः । कुर्वन्ति कर्मकराः । यजन्ति याजकाः । कर्त्रभिप्राये क्रियाफल इत्युच्यमानेऽप्यत्र प्राप्नोति । अत्राऽपि हि क्रियाफलं
कर्तारमभिप्रैति । याजका यजन्ति गा लप्स्यामह इति । कर्मकराः कुर्वन्ति पादिकमहर्लप्स्यामह इति । एवं तर्हि कर्त्रभिप्राये क्रियाफल इत्युच्यते, सर्वत्र च कर्त्तारं क्रियाफलमभिप्रैति, तत्र प्रकर्षगतिर्विज्ञास्यते--साधीयो यत्र कर्तारं क्रियाफलमभिप्रैति । न चान्तरेण यजिं यजिफलं वपिं वा वपिफलं लभन्ते । याजकाः पुनरन्तरेणाऽपि यजिं गा लभन्ते भृतकाश्च पादिकमिति ।। 72 ।।
-1-3-78- शेषात्कर्तरि परस्मैपदम्
शेषवचनं पञ्ञ्चम्या चेदर्थे प्रतिषेधः ।। 1 ।।
शेषवचनं पञ्ञ्चम्या चेदर्थे प्रतिषेधो वक्तव्यः । भिद्यते कुसूलः स्वयमेव, छिद्यते रज्जुः स्वयमेवेति ।। एवं तर्हि शेषे इति वक्ष्यामि ।
सप्तम्या चेत्प्रकृतेः प्रतिषेधः ।। 2 ।।
सप्तम्या चेत्प्रकृतेः प्रतिषेधो वक्तव्यः । आस्ते शेते च्यवन्ते प्लवन्ते ।
सिद्धं तूभयनिर्देशात् ।। 3 ।।
सिद्धमेतत् । कथम् ?। उभयनिर्देशः कर्तव्यः । शेषाच्छेष इति वक्तव्यम् । कर्तृग्रहणमिदानीं किमर्थं स्यात् ?।
कर्तृग्रहणमनुपराद्यर्थम् ।। 4 ।।
अनुपराद्यर्थमेतत्स्यात्। इह मा भूत्--अनुक्रियते स्वयमेव, पराक्रियते स्वयमेवेति ।। सिद्ध्यति । सूत्रं तर्हि भिद्यते । यथान्यासमेवास्तु । ननु चोक्तं--शेषवचनं पञ्ञ्चम्या चेदर्थे प्रतिषेधः इति । नैषः दोषः । कर्तरि कर्मव्यतिहारे (1.3.14) इत्यत्र कर्तृग्रहणं प्रत्याख्यायते तत्प्रकृतमिहानुवर्तिष्यते शेषात्कर्तरि कर्तरीति । कर्तैव यः कर्ता तत्र यथा स्यात्, कर्ता चान्यश्च यः कर्ता तत्र मा भूदिति ।। 78 ।।
-1-3-79- अनुपराभ्यां कृञः
किमर्थमिदमुच्यते ?।
परस्मैपदप्रतिषेधात्कृञ्ञादिषु विधानम् ।। 1 ।।
परस्मैपदप्रतिषेधात्कृञ्ञादिषु परस्मैपदं विधीयते । प्रतिषिद्ध्यते तत्र परस्मैपदम् स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवतीति ।
अस्ति प्रयोजनमेतत् । किं तर्हीति ?।
तत्रात्मनेपदप्रतिषेधोऽप्रतिषिद्धत्वात् ।। 2 ।।
तत्रात्मनेपदस्य प्रतिषेधो वक्तव्यः । किं कारणम् ?। अप्रतिषिद्धत्वात् । नह्यात्मनेपदं प्रतिषिद्ध्यते । किं तर्हि ?। पस्मैपदमनेन विधीयते ।
न वा द्युतादिभ्यो वावचनात् ।। 3 ।।
न वा एष दोषः । किं कारणम् ?। द्युतादिभ्यो वावचनात् । यदयं द्युतादिभ्यो वावचनं करोति तज्ज्ञापयत्याचार्यः --- न परस्मैपदविषये आत्मनेपदं भवतीति ।
आत्मनेपदनियमे वा प्रतिषेधः ।। 4 ।।
आत्मनेपदनियमे वा प्रतिषेधो वक्तव्यः । स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति, कर्तर्यनुपराभ्यां कृञ्ञो नेति । सिद्ध्यति । सूत्रं तर्हि भिद्यते । यथान्यासमेवास्तु । ननु चोक्तं । तत्रात्मनेपदप्रतिषेधोऽप्रतिषिद्धत्वाद्। इति । परिहृतमेतत् न वा द्युतादिभ्यो वावचनादिति ।
अथवा इदं तावदयं प्रष्टव्यः --- स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवतीति परस्मैपदं कस्मान्न भवति । आत्मनेपदेन बाध्यते । यथैव तर्ह्यात्मनेपदेन परस्मैपदं बाध्यते, एवं परस्मैपदेनाप्यात्मनेपदं बाधिष्यते ।। 79 ।।
-1-3-86- बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः
बुधादिषु येऽकर्मकास्तेषां ग्रहणं किमर्थम् ? बुधादिषु येऽकर्मकास्तेषां ग्रहणं सकर्मकार्थमचित्तवत्कर्तृकार्थं वा ।। 86 ।।
-1-3-88- अणावकर्मकाच्चित्तवत्कर्तृकात्
अणावकर्मकादिति चुरादिणिचो ण्यन्तात्परस्मैपदवचनम् ।। 1 ।।
अणावकर्मकादिति चुरादिणिचो ण्यन्तात्परस्मैपदं वक्तव्यम् । इहापि यथा स्यात् चेतयमानं प्रयोजयति चेतयति ।
यदि तर्ह्यत्रापीष्यते अणिग्रहणमिदानीं किमर्थं स्यात् ? अकर्मकग्रहणमण्यन्तविशेषणं यथा विज्ञायेत । अथाऽक्रियमाणेऽणिग्रहणे अकर्मकग्रहणं कस्य विशेषणं स्यात् ? णेरिति वर्तते। ण्यन्तविशेषणं स्यात् । तत्र को दोषः ? इहैव यथा स्यात् -- चेतयमानं प्रयोजयति चेतयति । इह न स्यात् -- आसयति शाययतीति ।
सिद्धं त्वतस्मिण्णाविति वचनात् ।। 2 ।।
सिद्धमेतत् । कथम् ? अतस्मिण्णौ यः अकर्मकस्तत्रेति वक्तव्यम् ।
सिद्ध्यति । सूत्रं तर्हि भिद्यते । यथान्यासमेवास्तु । ननु चोक्तम् अणावकर्मकादिति चुरादिणिचो ण्यन्तात्परस्मैपदवचनमिति । नैषः दोषः । अणाविति कस्येदं णेर्ग्रहणम् । यस्माण्णेः प्राक्कर्म कर्ता वा विद्यते । न चैतस्माण्णेः प्राक्कर्म कर्ता वा विद्यते ।। 88 ।।
-1-3-89- न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः
पादिषु धेट उपसंख्यानम् ।। 1 ।।
पादिषु धेट उपसंख्यानं कर्तव्यम् । धापयेते शिशुमेकं समीची ।। 89 ।।
-1-3-93- लुटि च क्लृपः
किमर्थश्चकारः ?। स्यसनोरित्येतदनुकृष्यते । यदि तर्हि नान्तरेण चकारमनुवृत्तिर्भवति, द्युद्भ्यो लुङि (1.3.91) इत्यत्रापि चकारः कर्तव्यः विभाषेत्यनुकर्षणार्थः। अथेदानीमन्तरेणापि चकारनुवृत्तिर्भवति, इहापि नार्थश्चकारेण ।। एवं सर्वे चकाराः प्रत्याख्यायन्ते ।। 93 ।।
इति श्रीभगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमाध्यायस्य तृतीये पादे द्वितीयमाह्निकम् । पादश्च तृतीयः
समाप्तः ।
-9-9-999-