महाभाष्यम्/प्रथमोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः

-1-4-1- आकडारादेका संज्ञा (241)
किमर्थमिदमुच्यते ?
अन्यत्र संज्ञासमावेशान्नियमार्थं वचनम् ।। 1 ।।
अन्यत्र संज्ञासमावेशो भवति । क्वान्यत्र ? लोके व्याकरणे च । लोके तावत् -- इन्द्रः शक्रः पुरुहूतः पुरन्दरः कन्दुः कोष्ठः कुसूल इति । एकस्य द्रव्यस्य बह्वयः संज्ञा भवन्ति । व्याकरणेपि कर्तव्यं हर्तव्यमित्यत्र प्रत्ययकृत्कृत्यसंज्ञानां समावेशो भवति । पाञ्ञ्चालः वैदेहः वैदर्भ इति प्रत्ययतद्धिततद्राजसंज्ञानां समावेशो भवति । अन्यत्र संज्ञासमावेशादेतस्मात्कारणादाकडारादपि संज्ञानां समावेशः प्राप्नोति । इष्यते चैकैव संज्ञा स्यादिति । तच्चान्तरेण यत्नं न सिद्ध्यतीति नियमार्थं वचनम् । एवमर्थमिदमुच्यते ।
अस्ति प्रयोजनमेतत् । किं तर्हीति ।
कथं त्वेतत्सूत्रं पठितव्यम्, किंम् आकडारादेका संज्ञाःथ्द्य;ति, आहोस्वित् प्राक्कडारात्परं कार्यमिति ? कुतः पुनरयं सन्देहः ? उभयथा ह्याचार्येण शिष्याः सूत्रं प्रतिपादिताः । केचिद् आकडारादेका संज्ञाःथ्द्य;ति। केचित् प्राक्कडारात्परं कार्यमिति । कश्चात्र विशेषः ?
तत्रैकसंज्ञाधिकारे तद्वचनम् ।। 2 ।।
तत्रैकसंज्ञाधिकारे तद्वक्तव्यम् । किम् ? एका संज्ञा भवतीति ।
ननु च यस्यापि परंकार्यत्वं तेनापि परग्रहणं कर्तव्यम् । परार्थं मम भविष्यति -- विप्रतिषेधे चःथ्द्य;ति । ममापि तर्ह्येकग्रहणं परार्थं भविष्यति -- सरूपाणामेकशेष एकविभक्तौ (1.2.64) इति । संज्ञाधिकारश्चायम् । तत्र किमन्यच्छक्यं विज्ञातुमन्यदतः संज्ञायाः । तत्रैतावद्वाच्यम् -- आकडारादेका। किम् ? एक संज्ञा भवतीति ।
अङ्गसंज्ञया भपदसंज्ञयोरसमावेशः ।। 3 ।।
अङ्गसंज्ञया भपदसंज्ञायोः समावेशो न प्राप्नोति । सार्पिष्कः बार्हिष्कः। याजुष्कः। धानुष्कः। बाभ्रव्यः माण्डव्य इति । अनवकाशे भपदसंज्ञे अङ्गसंज्ञां बाधेयाताम् । परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः । यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः । कथम् ? पूर्वे तस्य भपदसंज्ञे पराऽङ्गसंज्ञा । कथम् ? एवं स वक्ष्यति -- यस्मात्प्रत्ययविधिस्तदादि सुप्तिङन्तं पदम् । नः क्ये सिति च स्वादिष्वसर्वनामस्थाने यचि भम् । तस्यान्ते प्रत्ययेङ्गमिति । तत्रारम्भसार्मथ्याच्च भपदसंज्ञे। परंकार्यत्वाच्चाङ्गसंज्ञा भविष्यति ।
ननु च यस्याप्येकसंज्ञाधिकारस्तस्याप्यङ्गसंज्ञापूर्विके भपदसंज्ञे । कथम् ? अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ।
कर्मधारयत्वे तत्पुरुषग्रहणम् ।। 4 ।।
कर्मधारयत्वे तत्पुरुषग्रहणं कर्तव्यम् -- तत्पुरुषः समानाधिकरणः कर्मधारय (1.2.42) इति । एक संज्ञाधिकार इति चोदितम् । अक्रियमाणे हि तत्पुरुषग्रहणे ह्यनवकाशा कर्मधारयसंज्ञा तत्पुरुषसंज्ञां बाधेत । परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ।
यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः । कथम् ? पूर्वा तस्य
कर्मधारयसंज्ञा परा तत्पुरुषसंज्ञा । कथम् ? एवं स वक्ष्यति -- पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारय इति । एवं सर्वं कर्मधारयप्रकरणमनुक्रम्य तस्यान्ते श्रितादिभिस्तत्पुरुषः इति । तत्रारम्भसार्मथ्याच्च कर्मधारयसंज्ञा, परंकार्यत्वाच्च तत्पुरुषसंज्ञा भविष्यति ।
ननु च यस्याप्येकसंज्ञाधिकारस्तस्यापि तत्पुरुषसंज्ञापूर्विका कर्मधारयसंज्ञा । कथम् ? अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ।
तत्पुरुषत्वे द्विगुचग्रहणम् ।। 5 ।।
तत्पुरुषत्वे द्विगुचग्रहणं कर्तव्यम् । तत्पुरुषः (2.1.22) द्विगुश्च (23) इति चकारः कर्तव्यः । अक्रियमाणे हि चकारग्रहणेऽनवकाशा द्विगुसंज्ञा तत्पुरुषसंज्ञां बाधेत । परवचने हि
नियमानुपपत्तेरुभयसंज्ञाभावः ।
यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः । कथम् ? पूर्वा तस्य द्विगुसंज्ञा परा
तत्पुरुषसंज्ञा । कथम् ? एवं स वक्ष्यति -- तद्धितार्थोत्तरपदसमाहारे च (2.1.51) संख्यापूर्वो द्विगुः (52) इति । एवं सर्वं द्विगुप्रकरणमनुक्रम्य तस्यान्ते श्रितादिभिस्तत्पुरुषः इति । तत्रारम्भसार्मथ्याच्च द्विगुसंज्ञा, -- - परंकार्यत्वाच्च तत्पुरुषसंज्ञा भविष्यति ।
ननु च यस्याप्येकसंज्ञाधिकारस्तस्यापि तत्पुरुषसंज्ञापूर्विका द्विगुसंज्ञा । कथम् ? अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ।
गतिदिवः कर्महेतुमत्सु चग्रहणम् ।। 6 ।।
गतिदिवःकर्महेतुमत्सु चग्रहणं कर्तव्यम् ।। उपसर्गाः क्रियायोगे (1.4.59) गतिश्च (60) इति चकारः कर्तव्यः । अक्रियमाणे हि चकारेऽनवकाशोपसर्गसंज्ञा गतिसंज्ञां बाधेत । परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ।
यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः । कथम् ? पूर्वा तस्योपसर्गसंज्ञा परा गतिसंज्ञा। तत्राम्भसार्मथ्याच्चोपसर्गसंज्ञा, परंकार्यत्वाच्च गतिसंज्ञा भविष्यति।
   ननु च यस्याप्येकसंज्ञाधिकारस्तस्याऽप्युपसर्गसंज्ञापूर्विका गतिसंज्ञा । कथम्? अनुवृत्तिः क्रियते।
  पर्यायः प्रसज्येत। एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः। गतिसंज्ञाप्यनवकाशा वचनाद्भविष्यति।
सावकाशा गतिसंज्ञा। कोऽवकाशः? ऊर्यादीन्यवकाशः। प्रादीनां या गतिसंज्ञा सानवकाशा गति।
       दिवः कर्म -- साधकतमं करणम् (1.4.42) दिवः कर्म च (43) इति चकारः कर्तव्यः । अक्रियमाणे हि चकारेऽनवकाशा कर्मसंज्ञा करणसंज्ञां बाधेत । परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ।। यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभियोः संज्ञयोर्भावः सिद्धः । कथम् ? पूर्वा तस्य कर्मसंज्ञा, परा करणसंज्ञा । कथम् ? एवं स वक्ष्यति -- दिवः साधकतमं कर्म । ततः करणम् । करणसंज्ञं च भवति साधकतमम् । दिव इति निवृत्तम् । तत्रारम्भसार्मथ्याच्च कर्मसंज्ञा परंकार्यत्वाच्च करणसंज्ञा भविष्यति ।। ननु च यस्याप्येकसंज्ञाधिकारस्तस्यापि करणसंज्ञापूर्विका कर्मसंज्ञा । कथम् ? अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः । दिवः कर्म ।
हेतुमत्। स्वतन्त्रः कर्ता (1.4.54) तत्प्रयोजको हेतुश्च (55) इति चकारः कर्तव्यः ।
अक्रियमाणे हि चकारेऽनवकाशा हेतुसंज्ञा कर्तृसंज्ञां बाधेत । परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ।। यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः । कथम् ? पूर्वा तस्य हेतुसंज्ञा, परा कर्तृसंज्ञा । कथम् ? एवं स वक्ष्यति -- स्वतन्त्रः प्रयोजको हेतुरिति । ततः कर्ता । कर्तृसंज्ञश्च भवति स्वतन्त्रः । प्रयोजकःथ्द्य;ति निवृत्तम् । तत्रारम्भसार्मथ्याच्च हेतुसंज्ञा, परंकार्यत्वाच्च कर्तृसंज्ञा भविष्यति ।। ननु च यस्याप्येकसञ्ञ्ज्ञाधिकारस्तस्यापि कर्तृसंज्ञापूर्विका हेतुसंज्ञा । कथम् ? अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ।
गुरुलघुसंज्ञे नदीघिसंज्ञे ।। 7 ।।
गुरुलघुसंज्ञे नदीघिसंज्ञे बाधेयाताम् । गार्गीबन्धुः वात्सीबन्धुः । वैनम् विविनय्य । परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ।। यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः । कथम् ? पूर्वे तस्य नदीधिसंज्ञे, परे गुरुलघुसंज्ञे । तत्रारम्भसार्मथ्याच्च नदीघिसंज्ञे, परंकार्यत्वाच्च गुरुलघुसंज्ञे भविष्यतः ।। ननु च यस्याप्येकसंज्ञाधिकारस्तस्यापि नदीघिसंज्ञापूर्विके गुरुलघुसंज्ञे । कथम् ? अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ।
परस्मैपदसंज्ञां पुरुषसंज्ञा ।। 8 ।।
परस्मैपदसंज्ञां पुरुषसंज्ञा बाधेत। परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः ।। यस्य पुनः परंकार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोर्भावः सिद्धः कथम् ? पूर्वा तस्य पुरुषसंज्ञा परा परस्मैपदसंज्ञा । कथम् ? एवं स वक्ष्यति -- तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमा इति । एवं सर्वं पुरुषनियममनुक्रम्य तस्यान्ते लः
परस्मैपदमिति । तत्रारम्भसार्मथ्याच्च पुरुषसंज्ञा, परंकार्यत्वाच्च परस्मैपदसंज्ञा भविष्यति ।। ननु च यस्याप्येकसंज्ञाधिकारस्तस्यापि परस्मैपदसंज्ञापूर्विका पुरुषसंज्ञा । कथम् ? अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः ।
परस्मैपदसंज्ञाप्यनवकाशा सा वचनाद्भविष्यति । सावकाशा परस्मैपदसंज्ञा । कोऽवकाशः ? शतृक्वसू अवकाशः।
परवचने सिति पदं भम् ।। 9 ।।
परवचने सिति पदं भसंज्ञमपि प्राप्नोति । अयं ते योनिर्ॠत्वियः । प्रजां विन्दाम ऋत्वियः । आरम्भसार्मथ्याच्च पदसंज्ञा, परंकार्यत्वाच्च भसंज्ञा प्राप्नोति ।
गतिबुद्ध्यादीनां ण्यन्तानां कर्म कर्तृसंज्ञम् ।। 10 ।।
गतिबुद्ध्यादीनां ण्यन्तानां कर्म कर्तृसंज्ञमपि प्राप्नोति। आरम्भसार्मथ्याच्च कर्मसंज्ञा, परंकार्यत्वाच्च कर्तृसंज्ञा प्राप्नोति ।
नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति -- न कर्म संज्ञायां कर्तृसंज्ञा भवतीति। यदयं हृकोरन्यतरस्याम् (1.4.53) इत्यन्तरस्याङ्ग्रहणं करोति ।
शेषवचनं च घिसंज्ञानिवृत्त्यर्थम् ।। 11 ।।
शेषवचनं च कर्तव्यम् -- शेषो घ्यसखि (1.4.7) इति । किं प्रयोजनम् ? घिसंज्ञानिवृत्त्यर्थम् । नदीसंज्ञायां घिसंज्ञा मा भूदिति । शकट्यै पद्धत्यै बुद्धयै धेन्वै । इतरथा
हि परंकार्यत्वाच्च घिसंज्ञा आरम्भसार्मथ्याच्च ङिति ह्रस्वश्च (1.4.6) इति नदीसंज्ञा ।
न वाऽसंभवात् ।। 12 ।।
न वा कर्तव्यम् । नदीसंज्ञायां घिसंज्ञा कस्मान्न भवति ? असंभवात् । कोसावसंभवः ?
ह्रस्वलक्षणा हि नदीसंज्ञा घिसंज्ञायां च गुणः।
ह्रस्वलक्षणा हि नदीसंज्ञा, घिसंज्ञायां च गुणेन भवितव्यम् । तत्र वचनप्रामाण्यान्नदीसंज्ञायां घिसंज्ञाभावः । तत्र वचनप्रामाण्यान्नदीसंज्ञायां घिसंज्ञा न भविष्यति । किं कारणम् ? आश्रयाभावात् ।
आश्रयाभावान्नदीसंज्ञायां घिसंज्ञानिवृत्तिरिति
चेद्यणादेशाभावः ।। 13।।
आश्रयाभावान्नदीसंज्ञायां घिसंज्ञानिवृत्तिरिति चेदेवमुच्यते यणादेशोऽपि न प्राप्नोति ।। नैष दोषः ।
नद्याश्रयत्वाद्यणादेशस्य ह्रस्वस्य नदीसंज्ञाभावः ।। 14 ।।
नद्याश्रयो यणादेशः । यदा नदीसंज्ञया घिसंज्ञा बाधिता तत उत्तरकालं यणादेशेन भवितव्यम् । नद्याश्रयत्वाद्यणादेशस्य ह्रस्वस्य नदीसंज्ञा भविष्यति ।
बहुव्रीह्यर्थं तु ।। 15 ।।
बहुव्रीहिप्रतिषेधार्थं तु शेषग्रहणं कर्तव्यम् -- शेषो बहुव्रीहिः(2.2.23) इति ।
किं प्रयोजनम् ?
प्रयोजनमव्ययीभावोपमानद्विगुकृल्लोपेषु ।। 16 ।।
अव्ययीभाव -- उन्मत्तगङ्गम् लोहितगङ्गम् । उपमान -- शस्त्रीश्यामा कुमुदश्येनी । द्विगु -- पञ्चगवं दशगवम्। कृल्लोपे -- निष्कौशाम्बिः निर्वाराणसिः ।
तत्र शेषवचनाद्दोषः संख्यासमानाधिकरणनञ्ञ्समासेषु
बहुव्रीहिप्रतिषेधः ।। 17 ।।
तत्र शेषवचनाद्दोषो भवति । सङ्ख्यासमानाधिकरणनञ्ञ्समासेषु बहुव्रीहेः प्रतिषेधः प्राप्नोति । सङ्ख्या -- द्वीरावतीको देशः, त्रीरावतीको देशः । समानाधिकरण -- वीरपुरुषको ग्रामः । नञ्ञ्समासे -- अब्राह्मणको देशः, अवृषलको देशः ।
कृल्लोपे च शेषवचनात्प्रादिभिर्न बहुव्रीहिः ।। 18 ।।
कृल्लोपे च शेषवचनात्प्रादिभिर्बहुव्रीहिर्न प्राप्नोति । प्रपतितपर्णः प्रपर्णकः । प्रपतिपलाशः प्रपलाशक इति। अथैकसंज्ञाधिकारे कथं सिद्ध्यति ?
एकसंज्ञाधिकारे विप्रतिषेधाद्बहुव्रीहिः ।। 19 ।।
एकसंज्ञाधिकारे विप्रतिषेधाद्बहुव्रीहिर्भविष्यति ।
एकसंज्ञाधिकारे विप्रतिषेधाद्बहुव्रीहिरिति चेत्क्तार्थे प्रतिषेधः ।। 20 ।।
एकसंज्ञाधिकारे विप्रतिषेधाद् बहुव्रीहिरिति चेत्क्तार्थे प्रतिषेधो वक्तव्यः । निष्कौशाम्बिः निर्वाराणसिः ।। तत्पुरुषोऽत्र बाधको भविष्यति ।
तत्पुरुष इति चेदन्यत्र क्तार्थात्प्रतिषेधः ।। 21 ।।
तत्पुरुष इति चेदन्यत्र क्तार्थात्प्रतिषेधो वक्तव्यः । प्रपतितपर्णः प्रपर्णकः । प्रपतितपलाशः प्रपलाशक इति ।
सिद्धं तु प्रादीनां क्तार्थे तत्पुरुषवचनात् ।। 22 ।।
सिद्धमेतत् । कथम् ? प्रादीनां क्तार्थे तत्पुरुषो भवतीति वक्तव्यम् ।
कानि पुनरस्य योगस्य प्रयोजनानि ?
प्रयोजनं ह्रस्वसंज्ञां दीर्घप्लुतौ ।। 23 ।।
ह्रस्वसंज्ञां दीर्घप्लुतसंज्ञे बाधेते ।
तिङ्सार्वधातुकं लिङ्लिटोरार्धधातुकम् ।। 24 ।।
तिङ्सार्वधातुकसंज्ञां लिङ्टोरार्धधातुकसंज्ञा बाधते ।
अपत्यं वृद्धं युवा ।। 25 ।।
अपत्यं वृद्धं युवसंज्ञा बाधते ।
घिन्नदी ।। 26 ।।
धिसंज्ञां नदीसंज्ञा बाधते ।
लघु गुरु ।। 27 ।।
लघुसंज्ञां गुरुसंज्ञा बाधते।
पदं भम् ।। 28 ।।
पदसंज्ञां भसंज्ञा बाधते ।
अपदानमुत्तराणि ।। 29 ।।
अपदानसंज्ञामुत्तराणि कारकाणि बाधन्ते। क्व ? धनुषा विध्यति, कंसपात्र्यां भुङ्क्ते, गां दोग्धि, धनुर्विध्यति ।
 धनुषा विध्यतीत्यपाययुक्तत्वाच्च ध्रुवमपायेऽपादानम् (1.4.24) इत्यपादानसंज्ञा प्राप्नोति, साधकतमं करणम् (42) इति च करणसंज्ञा । परा, सा भवति । कंसपात्र्यां भुङ्क्ते इत्यत्रापाययुक्तत्वाच्च ध्रुवमपायेऽपादानमित्यपादानसंज्ञा प्राप्नोति। आधारोऽधिकरणम् (45) इति चाऽधिकरणसंज्ञा । सा परा, भवति । गां दोग्धीत्यत्रापाययुक्तत्वाच्चाऽपादानसंज्ञा प्राप्नोति। कर्त्तुरीप्सिततमं कर्म (49) इति कर्मसंज्ञा । सा परा,भवति । धनुर्विध्यतीत्यत्रापाययुक्तत्वाच्चापादानसंज्ञा प्राप्नोति। स्वतन्त्रः कर्ता (54) इति कर्तृसंज्ञा । सा परा भवति ।
क्रुधद्रुहोरुपसृष्टयोः कर्म संप्रदानम् ।। 30 ।।
क्रुधद्रुहोरुपसृष्टयोः कर्मसंज्ञा संप्रदानसज्ञां बाधते। .
करणं पराणि ।। 31 ।।
करणसंज्ञा पराणि कारकाणि बाधन्ते । क्व ? धनुर्विध्यति, असिश्छिनत्तीति ।
अधिकरणं कर्म ।। 32 ।।
   अधिकरणसंज्ञां कर्मसंज्ञा बाध्यते । क्व? गेहं प्रविशतीति ।
अधिकरणं कर्ता स्थाली पचति ।। 33 ।।
अधिकरणसंज्ञां कर्तृसंज्ञा बाधते। क्व ? स्थाली पचतीति ।
अध्युपसृष्टं कर्म ।। 34 ।।
अध्युपसृष्टं कर्माऽधिकरणसंज्ञां बाधते।
गत्युपसर्गसंज्ञे कर्मप्रवचनीयसंज्ञा ।। 35 ।।
गत्युपसर्गसंज्ञे कर्मप्रवचनीयसंज्ञा बाधते ।
परस्मैपदमात्मनेपदम् ।। 36 ।।
परस्मैपदसंज्ञामात्मनेपदसंज्ञा बाधते ।
समाससंज्ञाश्च ।। 37 ।।
समाससंज्ञाश्च या याः परा अनवकाशाश्च, तास्ताः पूर्वाः सावकाशाश्च बाधन्ते ।
अर्थवत्प्रातिपदिकम् ।। 38 ।।
अर्थवत्प्रातिपदिकसंज्ञं भवति ।
गुणवचनं च ।।39 ।।
गुणवचनसंज्ञं च भवत्यर्थवत् ।
समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ्गा जातिः ।। 40 ।।
समास -- समाससंज्ञा च वक्तव्या । कृत्-कृत्संज्ञा च वक्तव्या । तद्धित-तद्धितसंज्ञा च वक्तव्या । अव्यय -- अव्ययसंज्ञा च वक्तव्या । सर्वनाम -- सर्वनामसंज्ञा च वक्तव्य । असर्वलिङ्गा जातिरित्येतच्च वक्तव्यम् ।
संख्या ।। 41 ।।
संङ्ख्यासंज्ञा च वक्तव्या ।
डु च ।। 42 ।।
डुसंज्ञा च वक्तव्या ।। का पुनर्डुसंज्ञा ? षट्संज्ञा ।
एकद्रव्योपनिवेशिनी संज्ञा ।। 43 ।।
एकद्रव्योपनिवेशिनी संज्ञेत्येतच्च वक्तव्यम् । किमर्थमिदमुच्यते। यथान्यास एव भूयिष्ठाः संज्ञाः क्रियन्ते ?
सन्ति चैवात्र काश्चिदपूर्वाः संज्ञाः । अपि चैतेनानुपूर्व्येण संनिविष्टानां बाधनं यथा स्यात् । गुणवचनसंज्ञायाश्चैताभिः संज्ञाभिर्बाधनं यथा स्यादिति ।। 1 ।।
-1-4-2- विप्रतिषेधे परं कार्यम् (242)
विप्रतिषेध इति कोऽयं शब्दः ? विप्रतिपूर्वात्सिधेः कर्मव्यतिहारे घञ्ञ् । इतरेतरप्रतिषेधो विप्रतिषेधः । अन्योन्यप्रतिषेधो विप्रतिषेधः ।
    कः पुनर्विप्रतिषेधः ?
द्वौ प्रसङ्गावन्यार्थावेकस्मिन्स विप्रतिषेधः ।। 1 ।।
द्वौ प्रसङ्गौ यदान्यार्थौ भवत एकस्मिंश्च युगपत्प्राप्नुतः स विप्रतिषेधः । क्व पुनरन्यार्थौ क्व चैकस्मिन्युगपत्प्राप्नुतः ? वृक्षाभ्यां वृक्षेष्वित्यन्यार्थौ, वृक्षेभ्य इत्यत्र युगपत्प्राप्नुतः ।। किं च स्यात् ?
एकस्मिन्युगपदसंभवात्पूर्वपरप्राप्तेरुभयप्रसङ्गः ।। 2 ।।
एकस्मिन्युगपदसंभवात्पूर्वस्याश्च परस्याश्च प्राप्तेरुभयप्रसङ्गः ।। इदं विप्रतिषिद्धं यदुच्यते -- एकस्मिन्युगपदसंभवात्पूर्वपरप्राप्तेरुभयप्रसङ्गः इति । कथं ह्येकस्मिंश्च युगपदसंभवः स्यात्पूर्वस्याश्च परस्याश्च प्राप्तेरुभयप्रसङ्गश्च स्यात् ? नैतद्विप्रतिसिद्धम् । यदुच्यते -- एकस्मिन्युगपदसंभवादिति। कार्ययोर्युगपदसंभवः, शास्त्रयोरुभयप्रसङ्गः ।
तृजादिभिस्तुल्यम् ।। 3 ।।
तृजादिभिस्तुल्यं पर्यायः प्राप्नोति । तद्यथा तृजादयः पर्यायेण भवन्ति ।
किं पुनः कारणं तृजादयः पर्यायेण भवन्ति ?
अनवयवप्रसङ्गात्प्रतिपदं विधेश्च ।। 4 ।।
अनवयवेन प्रसज्यन्ते प्रतिपदं च विधीयन्ते ।
अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वात् ।। 5 ।।
अप्रतिपत्तिर्वा पुनरुभयोः शास्त्रयोः स्यात् । किं कारणम् ? तुल्यबलत्वात् । तुल्यबले ह्युभे शास्त्रे । तद्यथा -- द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति स तयोः पर्यायेण कार्यं करोति । यदा तु तमुभौ युगपत्प्रेषयतो नानादिक्षु च कार्ये भवतस्तदा यद्यसावविरोधार्थी भवति उभयोर्न करोति । किं पुनः कारणमुभयोर्न करोति ? योगपद्यासंभवात्
। नास्ति यौगपद्येन संभवः । तत्र प्रतिपत्त्यर्थं वचनम्। तत्र प्रतिपत्त्यर्थमिदं वक्तव्यम् ।
तव्यदादीनां त्वप्रसिद्धिः ।। 6 ।।
तव्यदादीनां तु कार्यस्याऽप्रसिद्धिः । नहि किंचित्तव्यदादिषु नियमकारि शास्त्रमारभ्यते येन तव्यदादयः स्युः । यश्च भवता हेतुर्व्यपदिष्टः ।अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वात्।इति, तुल्यः स तव्यदादिषु ।
नैषः दोषः । अनवकाशास्तव्यदादयः। उच्यन्ते च। ते वचनाद्भविष्यन्ति । यश्च भवता हेतुर्व्यपदिष्टः -- तृजादिभिस्तुल्यं पर्यायः प्राप्नोतीति, तुल्यः स तव्यदादिषु ।
एतावदिह सूत्रम् विप्रतिषेधे परमिति । पठिष्यति ह्याचार्यः सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेवेति । पुनश्च पठिष्यति -- पुनः प्रसङ्गविज्ञानात्सिद्धमिति ।
किं पुनरियता सूत्रेणोभयं लभ्यम् ? लभ्यमित्याह । कथम् ? इह भवता द्वौ हेतू व्यपदिष्टौ -- तृजादिभिस्तुल्यं पर्यायः प्राप्नोतीति च, अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वादिति च ।
तद्यदा तावदेष हेतुस्तृजादिभिस्तुल्यं पर्यायः प्राप्नोतीति, तदा विप्रतिषेधे परमित्यनेन किं क्रियते ? नियमः -- विप्रतिषेधे परमेव भवतीति । तदैतदुपपन्नं भवति -- सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेवेति । यदा त्वेष हेतुरप्रतिपत्तिरुभयोस्तुल्यबलत्वादिति, तदा विप्रतिषेधे परमित्यनेन किं क्रियते ? द्वारम् -- विप्रतिषेधे परं तावद्भवति तस्मिन्कृते यदि पूर्वमपि प्राप्नोति तदपि भवति । तदैतदुपपन्नं भवति -- पुनः प्रसङ्गविज्ञानात्सिद्धमिति ।
विप्रतिषेधे परमङ्गाधिकारे पूर्वम् ।। 7।।
विप्रतिषेधे परमित्युक्त्वाऽङ्गाधिकारे पूर्वमिति वक्तव्यम् । किं कृतं भवति ? पूर्वविप्रतिषेधा न पठितव्या भवन्ति -- गुणवृद्ध्यौत्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रतिषिद्धम् नुमचिरतृज्वद्भावेभ्यो नुट् इति । कथं ये परविप्रतिषेधाः -- इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेनेति । सूत्रं च भिद्यते ।
यथान्यासमेवास्तु । कथं ये पूर्वविप्रतिषेधाः ? विप्रतिषेधे परमित्येव सिद्धम् । कथम् ? परशब्दोऽयं बह्वर्थः । अस्त्येव व्यवस्थायां वर्तते । तद्यथा -- पूर्वः परः इति । अस्त्यन्यार्थे वर्तते -- परपुत्रः परभार्या अन्यपुत्रः अन्यभार्येति गम्यते । अस्ति प्राधान्ये वर्त्तते ।
तद्यथा -- परमियं ब्राह्मण्यस्मिन्कुटुम्बे प्रधानमिति गम्यते । अस्तीष्टवाची परशब्दः । तद्यथा -- परं धाम गतः इष्टं धामेति गम्यते । तद्य इष्टवाची परशब्दस्तस्येदं ग्रहणं विप्रतिषेधे परं यदिष्टं तद्भवतीति ।
अन्तरङ्गं च ।। 8 ।।
अन्तरङ्गं च बलीयो भवतीति वक्तव्यम् । किं प्रयोजनम् ?
प्रयोजनं यणेकादेशेत्त्वोत्त्वानि गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः ।। 9 ।।
गुणाद्यणादेशः -- स्योनः स्योना । गुणश्च प्राप्नोति यणादेशश्च । परत्वाद् गुणः स्यात् । यणादेशो भवत्यन्तरङ्गतः । वृद्धेर्यणादेशः -- द्यौकामिः स्यौकामिः । वृद्धिश्च प्राप्नोति यणादेशश्च। परत्वाद्वृद्धिः स्यात् । यणादेशो भवत्यन्तरङ्गतः । द्विर्वचनाद्यणादेशः -- दुद्यूषति सुस्यूषति । द्विर्वचनं च प्राप्नोति यणादेशश्च। नित्यत्वाद् द्विर्वचनं स्यात् । यणादेशो भवत्यन्तरङ्गतः ।। अल्लोपस्य च यणादेशस्य च नास्ति संप्रधारणा । स्वराद्यणादेशः -- द्यौकामिः स्यौकामिः । स्वरश्च प्राप्नोति यणादेशश्च । परत्वात्स्वरः स्यात् । यणादेशो भवत्यन्तरङ्गतः । गुणादेकादेशः -- काद्रवेयो मन्त्रमपश्यत् । गुणादेशश्च प्राप्नोत्येकादेशश्च। परत्वाद्गुणः स्यात् । एकादेशो भवत्यन्तरङ्गतः । वृद्धेरेकादेशः -- वैक्षमाणिः सौत्थितिः । वृद्धिश्च प्राप्नोत्येकादेशश्च । परत्वाद्वृद्धिः स्यात् । एकादेशो भवत्यन्तरङ्गतः । द्विर्वचनादेकादेशः -- ज्ञाया ओदनः ज्ञौदनः । ज्ञौदनमिच्छति ज्ञौदनीयति । ज्ञौदनीयतेः सन् । जुज्ञौदनीयिषति । द्विर्वचनं च प्राप्नोत्येकादेशश्च। नित्यत्वाद् द्विर्वचनं स्यात् । एकादेशो भवत्यन्तरङ्गतः । अल्लोपादेकादेशः -- शुना शुने । अल्लोपश्च प्राप्नोत्येकादेशश्च । परत्वादल्लोपः स्यात् । एकादेशो भवत्यन्तरङ्गतः ।
नैतदस्ति प्रयोजनम् । नास्त्यत्र विशेषोऽल्लोपेन वा निवृत्तौ सत्यां, पूर्वत्वेन वा । अयमस्ति विशेषोऽल्लोपेन निवृत्तौ सत्यामुदात्तनिवृत्तिस्वरः प्रसज्येत । नात्रोदात्तनिवृत्तिस्वरः प्राप्नोति । किं कारणम् ? न गोश्वन्साववर्ण
(6.1.182) इति प्रतिषेधात् । नैष उदात्तनिवृत्तिस्वरस्य प्रतिषेधः ।
कस्य तर्हि ? तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिस्वरो नास्ति शुनः पश्येति । एवं तर्हि न लाक्षणिकस्य प्रतिषेधं शिष्मः । किं तर्हि ? येन केन चित्प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः । यत्र तर्हि विभक्तिर्नास्ति -- बहुशुनीति ।
यदि पुनरयमुदात्तनिवृत्तिस्वरस्यापि प्रतिषेधो विज्ञायेत । नैवं शक्यम् । इहापि प्रसज्येत -- कुमारीति । एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति -- नोदात्तनिवृत्तिस्वरः शुन्यवतरतीति। यदयं श्वन्शब्दं गौरादिषु पठति अन्तोदात्तार्थं यत्नं करोति । सिद्धं हि स्यान्ङीपैव ।
स्वरादेकादेशः -- सौत्थितिः वैक्षमाणिः । स्वरश्च प्राप्नोत्येकादेशश्च । परत्वात्स्वरः स्यात् । एकादेशो भवत्यन्तरङ्गतः । गुणस्य चेत्त्वौत्त्वयोश्च नास्ति संप्रधारणा । वृद्धेरित्त्वोत्त्वे -- स्तैर्णिः पौर्तिः । वृद्धिश्च प्राप्नोतीत्त्वोत्त्वे च । परत्वाद्वृद्धिः स्यात् , इत्त्वोत्त्वे भवतोन्तरङ्गतः । द्विर्वचनादित्त्वोत्त्वे -- आतेस्तीर्यते आपोपूर्यते । द्विर्वचनं च प्राप्नोतीत्त्वोत्त्वे च । नित्यत्वाद् द्विर्वचनं स्यात् । इत्त्वोत्त्वे भवतोऽन्तरङ्गतः ।। अल्लोपस्य चेत्त्वोत्त्वयोश्च नास्ति संप्रधारणा ।। स्वरो नास्ति विशेषः ।
इण्ङिशीनामाद्गुणः सवर्णदीर्घत्वात् ।। 10 ।।
इण्ङिशीनामाद्गुणः सवर्णदीर्घत्वात् प्रयोजनम् । अयज इन्द्रम् अवप इन्द्रम् । वृक्ष इन्द्रं प्लक्ष इन्द्रम् ।त इन्द्रम् । यःथ्द्य;न्द्रम् । आद्गुणश्च प्राप्नोति सवर्णदीर्घत्वं च। परत्वात्सवर्णदीर्घत्वं स्यात् । आद्गुणो भवत्यन्तरङ्गतः ।
न वा सवर्णदीर्घत्वस्यानवकाशत्वात् ।। 11 ।।
न वैतदन्तरङ्गेणाऽपि सिध्यति । किं कारणम् ? सवर्णदीर्घत्वस्यानवकाशत्वात् । अनवकाशं सवर्णदीर्घत्वमाद्गुणं बाधेत ।। नैतदन्तरङ्गेऽस्त्यनवकाशं परमिति । इहापि स्योनः स्योनेति शक्यं वक्तुम् ।न
वा परत्वाद् गुणस्येति ।
ऊङापोरेकादेश इर्त्त्वलोभ्याम् ।। 12 ।।
ऊङापोरेकादेश इर्त्त्वलोपाभ्यां भवत्यन्तरङ्गतः प्रयोजनम् । इर्त्त्वादेकादेशः -- खट्वीयति मालीयति । इर्त्त्वं च प्राप्नोत्येकादेशश्च। परत्वादीत्त्वं स्याद् । एकादेशो भवत्यन्तरङ्गतः ।। लोपादेकादेशः -- कामण्डलेयः भाद्रवाहेयः । लोपश्च प्राप्नोत्येकादेशश्च । परत्वाल्लोपः स्याद् । एकादेशो भवत्यन्तरङ्गतः ।। अथ किमर्थमीत्त्वलोपाभ्यामित्युच्यते, न लोपेत्त्वाभ्यामित्येवोच्येत ? संख्यातानुदेशो मा भूदिति । आपोप्येकादेशो लोपे प्रयोजयति -- चौडिः बालाकिः ।
आत्त्वनपुंसकोपसर्जनह्रस्वत्वान्ययवायावेकादेशतुग्विधिभ्यः ।। 13 ।।
आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यो भवन्त्यन्तरङ्गतः ।
वेञ्ञ् -- वानीयम् । शो -- शानीयम् । ग्लै -- ग्लानीयम् । म्लै -- म्लानीयम् । ग्लाच्छत्र्रम् । आत्त्वं च प्राप्नोत्येते च विधयः । परत्वादेते विधयः स्युः । आत्त्वं भवत्यन्यरङ्गतः ।। नपुंसकोपसर्जनह्रस्वत्वं च प्रयोजनम् । अतिर्यत्र। अतिन्वत्र । अतिरिच्छत्र्रम् अतिनुच्छत्र्रम् । आराशस्त्रीदम्। धानाशष्कुलीदम् । निष्कौशाम्बीदम्। निर्वारणसीदम् । निष्कौशाम्बिच्छत्र्रम्। निर्वाराणसिच्छत्र्रम् । नपुंसकोपसर्जनह्रस्वत्वं च प्राप्नोत्येते च विधयश्च । परत्वादेते विधयः स्युः । नपुंसकोपसर्जनह्रस्वत्वं भवत्यन्तरङ्गतः ।
तुग्यणेकादेशगुणवृद्ध्यौत्त्वदीर्घेत्वेत्त्वमुमेत्त्वरीविधिभ्यः ।। 14 ।।
यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्त्वमुमेत्त्वरीविधिभ्यस्तुग्भवत्यन्तरङ्गतः । यणादेशात् -- अग्निचिदत्र सोमसुदत्र । एकादेशात् -- अग्निचिदिदम् सोमसुदुदकम् । गुणात् -- अग्निचिते सोमसुते । वृद्धेः -- प्रऋच्छकः प्रार्च्छकः । औत्त्वात् -- अग्निचिति सोमसुति । दीर्घत्वात् -- जगद्भ्याम् ,जनगद्भ्याम् । इर्त्त्वात् -- जगत्यति जनगत्यति । मुमः -- अग्निचिन्मन्यः सोमसुन्मन्यः । एत्त्वात् -- जगद्भ्यः जनगद्भ्यः । रीविधेः -- सुकृत्यति पापकृत्यति । (तुक् च प्राप्नोत्येते विधयश्च। परत्वादेते विधयः स्युः। तुग्भवत्यन्तरङ्गतःट
अनङानङ्भ्यां च ।। 15 ।।
अनङानङ्भ्यां चेति वक्तव्यम् । अनङ्- सुकृत् । आनङ्- सुकृद्दुष्कृतौ । (तुक् च प्राप्नोति अनङ्गानङ्गौ स्याताम् । तुग्भवत्यन्तरङ्गतः )
इयङादेशा गुणात् ।। 16।।
इयङादेशो गुणाद्भवत्यन्तरङ्गतः प्रयोजनम् । धियति रियति । इयङादेशः प्राप्नोति गुणश्च । परत्वाद् गुणः स्यात्। इयङादेशो भवत्यन्तरङ्गतः ।
 उवङ्गादेश्च ।। 17 ।।
उवङादेशश्चेति वक्तव्यम् । प्रादुद्रुवत्। प्रासुस्रुवत् ।
श्वेः सम्प्रसारणपूर्वत्वं यणादेशात् ।। 18 ।।
श्वेः सम्प्रसारणपूर्वत्वं यणादेशाद्भवत्यन्तरङ्गतः प्रयोजनम् । शुशुवतुः शुशुवुः । पूर्वत्वं च
प्राप्नोति यणादेशश्च । परत्वाद्यणादेशः स्याद् । पूर्वत्वं भवत्यन्तरङ्गतः ।
ह्व आकारलोपात् ।। 19 ।।
ह्व आकारलोपात्पूर्वत्वं भवत्यन्तरङ्गतः प्रयोजनम् । जुहुवतुः जुहुवुः । पूर्वत्वं च प्राप्नोत्याकारलोपश्च। परत्वादाकारलोपः स्यात् । पूर्वत्वं भवत्यन्तरङ्गतः ।
स्वरो लोपात् ।। 20 ।।
स्वरो लोपाद्भवत्यन्तरङ्गतः प्रयोजनम् । औपगवी। सौदामनी । स्वरश्च प्राप्नोति लोपश्च। परत्वाल्लोपः स्यात् । स्वरो भवत्यन्तरङ्गतः ।
प्रत्ययविधिरेकादेशात् ।। 21 ।।
प्रत्ययविधिरेकादेशाद्भवत्यन्तरङ्गतः प्रयोजनम् । अग्निरिन्द्रः वायुरुदकम् । प्रत्ययविधिश्च प्राप्नोत्येकादेशश्च । परत्वादेकादेशः स्यात् । प्रत्ययविधिर्भवत्यन्तरङ्गतः ।
यणादेशाश्च ।। 22 ।।
यणादेशाच्चेति वक्तव्यम् । अग्निरत्र वायुरत्र ।
लादेशो वर्णविधेः ।। 23 ।।
लादेशो वर्णविधेर्भवत्यन्तरङ्गतः प्रयोजनम् । पचत्वत्र पठत्वत्र । लादेशश्च प्राप्नोति यणादेशश्च। परत्वाद्यणादेशः स्यात् । लादेशो भवत्यन्तरङ्गतः ।
तत्पुरुषान्तोदात्तत्वं पूर्वपदप्रकृतिस्वरात् ।। 24 ।।
तत्पुरुषान्तोदात्तत्वं पूर्वपदप्रकृतिस्वराद्भवत्यन्तरङ्गतः प्रयोजनम्। पूर्वशालाप्रियः। अपरशालाप्रियः । तत्पुरुषान्तोदात्तत्वं च प्राप्नोति, पूर्वपदप्रकृतिस्वरत्वं च। परत्वात्पूर्वपदप्रकृतिस्वरत्वं स्यात्। तत्पुरुषान्तोदात्तत्वं भवत्यन्तरङ्गतः ।
एतान्येतस्याः परिभाषायाः प्रयोजनानि यदर्थमेषा परिभाषा कर्तव्या ।
यदि सन्ति प्रयोजनानीत्येषा परिभाषा क्रियते। ननु चेयं च कर्तव्या असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति । किं प्रयोजनम् ? पचावेदम्। पचामेदम् । बहिरङ्गलक्षणस्य गुणस्यान्तरङ्गलक्षणमैत्वं मा भूदिति । उभे तर्हि कर्तव्ये । नेत्याह । अनयैव
सिद्धम् । इहापि स्योनः स्योनेति,-असिद्धत्वाद्बहिरङ्गलक्षणस्य गुणस्याऽन्तरङ्गलक्षणो यणादेशो भविष्यति ।
यद्यसिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इत्युच्यते-अक्षद्यूः हिरण्यद्यूः-असिद्धत्वाद् बहिरङ्गलक्षणस्योठोऽन्तरङ्गलक्षणो यणादेशो न प्राप्नोति । नैषः दोषः । असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इत्युक्त्वा ततो वक्ष्यामि -- नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिरिति । सा तर्ह्येषा परिभाषा कर्तव्या ? न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति -- भवत्येषा परिभाषेति, यदयं षत्वतुकोरसिद्धः (6.1.86) इत्याह ।
इयं तर्हि परिभाषा कर्तव्या-असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति। एषा च न कर्तव्या, आचार्यप्रवृत्तिर्ज्ञापयतिभवत्येषा परिभाषेति, यदयं वाह ऊठ् (6.4.132) इत्यूठं शास्ति ।
तस्य दोषः पूर्वपदोत्तरपदयोर्वृद्धिस्वरावेकादेशात् ।। 25 ।।
तस्यैतस्य लक्षणस्य दोषः पूर्वोत्तरपदयोर्वृद्धिस्वरावेकादेशादन्तरङ्गतोभिनिर्वृत्तान्न प्राप्नुतः । पूर्वैषुकामशमः अपरैषुकामशमः। गुडोदकं तिलोदकम् । उदके केवले (6.2.96) इति
पूर्वोत्तरपदयोर्व्यपवर्गाभावान्न स्यात् ।
नैषः दोषः । आचार्यप्रवृत्तिर्ज्ञापयति -- पूर्वोत्तरपदयोस्तावत्कार्यं भवति नैकादेशः इति, यदयं नेन्द्रस्य परस्य (7.3.22) इति प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकम् ? इन्द्रे द्वावचौ । तत्रैको यस्येति च (6.4.148) इति लोपेनाऽपह्रि्यते, अपर एकादेशेन , ततोऽनच्क इन्द्रः संपन्नः , तत्र कः प्रसङ्गो वृद्धेः ? पश्यति त्वाचार्यः पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेशः इति। ततो नेन्द्रस्य परस्येति प्रतिषेधं शास्ति ।
यणादेशादियुवौ ।। 26 ।।
यणादेशादियुवौ अन्तरङ्गतोभिनिर्वृत्तान्न प्राप्नुतः । वैयाकरणः सौवश्व इति । लक्षणं हि भवति -- -य्वोरचि वृद्धिप्रसङ्गे इयुवौ भवतः इति । नैषः दोषः । अनवकाशावियुवौ । अचीत्युच्यते ।। किं पुनः कारणमचीत्युच्यते ? इह मा भूताम्-ऐतिकायनः औपगव इति । स्तामत्रेयुवौ, लोपो व्योर्वलि (6.1.66) इति लोपो भविष्यति । यत्र तर्हि लोपो नास्ति -- प्रैयमेधः प्रैयङ्गव इति ।
उसि पररूपाच्च ।। 27 ।।
उसि पररूपाच्चान्तरङ्गतोभिनिर्वृत्तादियादेशो न प्राप्नोति । पचेयुः यजेयुः .
नैषः दोषः । नैवं विज्ञायते -- याःथ्द्य;त्येतस्येय् भवतीति । कथं तर्हि ? यास्इत्येस्येय् भवतीति ।
लुक्लोपयणयवायावेकादेशेभ्यः ।। 28 ।।
लोपयणयवायावेकादेशेभ्यो लुक्बलीयानिति वक्तव्यम् ।। लोपात् -- गोमान् प्रियोऽस्य गोमत्प्रियः । यवमत्प्रियः । गोमानिवाचरति गोमत्यते यवयत्यते । यणादेशात् -- ग्रामण्यः कुलं ग्रामणिकुलम् । सेनान्यः कुलं सेनानिकुलम् । अयवायावेकादेशेभ्यः -- गवे हितं गोहितम् । रायः कुलं रैकुलम् । नावः कुलं नौकुलम् । वृकाद्भयं वृकभयम् ।। लुक् च प्राप्नोत्येते च विधयश्च परत्वादेते विधयः स्युः । लुग्बलीयानिति वक्तव्यम्। लुक्यथा स्यात् ।। 2 ।।
चतुर्थे पादे प्रथममाह्निकम् ।।
-1-4-3- यू स्त्र्याख्यौ नदी (243)
यू इति किमर्थम् ? खट्वा। माला । किंच स्यात् ? खट्वाबन्धुः। मालाबन्धुः । नदी बन्धुनि (6.2.109) इत्येष स्वरः प्रसज्येत । इह च बहुखट्वक इति नद्यृतश्च (5.4.153) इति नित्यः कप्प्रसज्येत ।
नैषः दोषः । आचार्यप्रवृत्तिर्ज्ञापयति नापो नदीसंज्ञा भवतीति यदयं ङेराम्नद्याम्नीभ्यः (7.3.116) इति पृथगाब्ग्रहणं करोति ।। इह तर्हि -- मात्रे मातुरिति आण्नद्याः (112) इत्याट्प्रसज्येत ।
किं पुनरिदं दीर्घयोर्ग्रहणमाहोस्विदह्रस्वयोः ? किं चातः ? यदि दीर्घयोर्ग्रहणं यू इति निर्देशो नोपपद्यते । दीर्घाद्धि पूर्वसवर्णदीर्घः प्रतिषिध्यते । उत्तरत्र च (संज्ञि) विशेषणं न प्रकल्पेत यू ह्रस्वाविति । यदि यू, न ह्रस्वौ, अथ ह्रस्वौ, न यू । यू ह्रस्वौ चेति विप्रतिषिद्धम् ।। अथ ह्रस्वयोः, हे शकटे अत्रापि प्रसज्येत । नैषः दोषः । अवश्यमत्र विभाषा नदीसंज्ञैषितव्या । उभयं हीष्यते -- हे शकटि, हे शकटे इति (च) ।
इह तर्हि -- शकटिबन्धुः इति नदी बन्धुनि (6.2.109) इत्येष स्वरः प्रसज्येत । इह च
बहुशकटिरिति नद्यृतश्च (5.4.153) इति कप्प्रसज्येत ।। नैषः दोषः । ङिति ह्रस्वश्च (1.4.6)
इत्ययं नियमार्थो भविष्यति -- ङित्येव यू ह्रस्वौ नदीसंज्ञौ भवतो नान्यत्रेति । कैमर्थक्यान्नियमो भवति ? विधेयं नास्तीति कृत्वा । इह चास्ति विधेयम् । किम् ? नित्या नदी संज्ञा प्राप्ता, सा विभाषा विधेया । तत्रापूर्वो विधिरस्तु नियमो (वाटऽस्त्वित्यपूर्व एव विधिर्भविष्यति न नियमः ।
अथायं नित्यो योगः स्यात्प्रकल्पेत नियमः ? बाढं प्रकल्पेत । नित्यस्तर्हि भविष्यति । तत्कथम् ? योगविभागः करिष्यते । इदमस्ति, -- यू स्त्र्याख्यौ नदी नेयङुवङ्स्थानावस्त्री (4) वामि (5) । ततो ङिति । ङिति चेयङुवङ्स्थानौ यू वाऽस्त्री नदीसंज्ञौ न भवतः । ततो ह्रस्वौ ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसंज्ञौ भवतः । इयङुवङ्स्थानौ वा नेति निवृत्तम् ।
यद्येवं शकटये अत्र गुणो न प्राप्नोति । द्वितीयो योगविभागः करिष्यते। शेषग्रहणं न करिष्यते । कथम् ?
इदमस्ति -- यू स्त्र्याख्यौ नदी नेयङुवङ्स्थानावस्त्री वामि । ततो ङिति ङिति चेयङुवङ्स्थानौ यू वाऽस्त्री नदीसंज्ञौ न भवतः । ततो ह्रस्वौ ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसंज्ञौ भवतः । इयङुवङ्स्थानौ वा नेति निवृत्तम् । ततो घि । घिंसज्ञौ च भवतः स्त्र्याख्यौ यू ह्रस्वौ ङिति । ततोऽसखि । सखिवर्जितौ च यू ह्रस्वौ घिसंज्ञौ भवतः । स्त्र्याख्यौ ङितीति च निवृत्तम् ।। यदि तर्हि शेषग्रहणं न क्रियते नार्थ एकेनापि योगविभागेन । अविशेषेण नदीसंज्ञोत्सर्गः । तस्याः ह्रस्वयोर्घिसंज्ञा बाधिका । तस्यां नित्यं प्राप्तयामियं ङिति विभाषाऽऽरभ्यते ।
अथवा पुनरस्तु दीर्घयोः । ननु चोक्तम् -- निर्देशो नोपपद्यते । दीर्घाद्धि पूर्वसवर्णदीर्घः प्रतिषिध्यत इति । वा छन्दसि (6.1.106) इत्येवं भविष्यति । छन्दसीत्युच्यते। न चेदं छन्दः । छन्दोवत्सूत्राणि भवन्तीति ।
यदप्युच्यते -- उत्तरत्र विशेषणं न प्रकल्पेत यू ह्रस्वाविति,यदि यू, न ह्रस्वौ । अथ ह्रस्वौ, न यू । यू ह्रस्वाविति च विप्रतिषिद्धमिति । नैतद्विप्रतिषिद्धम् । आहायं यू ह्रस्वाविति । यदि यू, न ह्रस्वौ । अथ ह्रस्वौ, न यू । त एवं विज्ञास्यामः -- य्वोर्यौ ह्रस्वाविति । कौ च य्वोर्ह्रस्वौ ?
सवर्णौ ।
अथ स्त्र्याख्याविति कोयं शब्दः ? स्त्रियमाचक्षाते स्त्र्याख्यौ । यद्येवं स्त्र्याख्यायाविति प्राप्नोति । अनुपसर्गे हि को विधीयते । न तर्हीदानीमिदं भवति --
यस्मिन्दश सहस्राणि पुत्रे जाते गवां ददौ ।
 ब्राह्मणेभ्यः प्रियाख्येभ्यः सोयमुञ्ञ्छेन जीवति ।।
छन्दोवत्कवयः कुर्वन्ति । नह्येषेष्टिः ।। एवं तर्हि कर्मसाधनो भविष्यति। स्त्रियामाख्यायेते स्त्राख्यौ । यदि कर्मसाधनः कृत्स्त्रिया धातुस्त्रियाश्च न सिध्यति, तन्त्र्यै लक्ष्मयै श्रियै भ्रुवै ।। एवं तर्हि
बहुव्रीहिर्भविष्यति, -- स्त्रियामाख्याऽनयोः स्त्र्याख्यौ । एवमपि कृत्स्त्रिया धातुस्त्रियाश्च न सिध्यति, -- तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै । एवं तर्हि विज्भविष्यति। अथ वा पुनरस्तु क एव -- स्त्रियमाचक्षाते स्त्र्याख्याविति । ननु चोक्तं स्त्र्याख्यायाविति प्राप्नोति । अनुपसर्गे हि को विधीयते इति । मूलविभुजादिपाठात्को भविष्यति । एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तम् --
यस्मिन्दश सहस्राणि पुत्रे जाते गवां ददौ ।
ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्ञ्छेन जीवति ।। इति ।
अथाख्याग्रहणं किमर्थम् ?
नदीसंज्ञायामाख्याग्रहणं स्त्रीविषयार्थम् ।। 1 ।।
नदीसंज्ञायामाख्याग्रहणं क्रियते स्त्रीविषयार्थम् । स्त्रीविषयावेव यौ नित्यं तयोरेव नदीसंज्ञा यथा स्यात् । इह मा भूत् -- ग्रामण्ये सेनान्ये स्त्रियै इति ।
प्रथमलिङ्गग्रहणं च ।। 2 ।।
प्रथमलिङ्गग्रहणं च कर्तव्यम् । प्रथमलिङ्गे यौ स्त्राख्यौ इति वक्तव्यम् ।
किं प्रयोजनम् ?
प्रयोजनं क्विब्लुप्समसाः ।। 3 ।।
क्विप् -- कुमार्यै ब्राह्मणाय । लुप् -- खरकुट्यै ब्राह्मणाय । समास -- अतितन्त्र्यै ब्राह्मणाय । अतिलक्ष्म्यै ब्राह्मणाय । ततर्हि वक्तव्यम् ? न वक्तव्यम् ।
      अवयवस्त्रीविषयत्वात्सिद्धम् ।। 4 ।।
 अवयवोत्र स्त्रीविषयस्तदाश्रया नदीसंज्ञा भविष्यति ।
अवयवस्त्रीविषयत्वात्सिद्धमिति चेदियङुवङ्स्थानप्रतिषेधप्रसङ्गे
यण्स्थानप्रतिषेधप्रसङ्गोवयवस्येयङुवङ्स्थानत्वात् ।। 5 ।।
अवयवस्त्रीविषयत्वात्सिद्धमिति चेदियङुवङ्स्थानप्रतिषेधप्रसङ्गे यण्स्थानयोरपि य्वोः प्रतिषेधः प्रसज्येत । आध्यै प्रध्यै ब्राह्मण्यै । किं कारणम् ? अवयवस्य इयङ्स्थानत्वात् । अवयवोऽत्र इयङ्स्थानः ।
सिद्धं त्वङ्गरूपग्रहणाद्यस्याङ्गस्येयुवौ तत्प्रतिषेधात् ।। 6 ।।
सिद्धमेतत् । कथम् ? अङ्गरूपं गृह्यते । यस्याऽङ्गस्येयुवौ भवतस्तस्येदं ग्रहणम्। न चैतस्याङ्गस्येयुवौ भवतः ।
ह्रस्वेयुव्स्थानप्रवृत्तौ च स्त्रीवचने ।। 7 ।।
ह्रस्वौ चेयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनावेव नदीसंज्ञौ भवत इति वक्तव्यम् । शकट्यै। अतिशकट्यै ब्राह्मण्यै । क्व मा भूत्? शकटये अतिशकटये ब्राह्मणाय। धेन्वै अतिधेन्वै
ब्राह्मण्यै । क्व मा भूत् ? धेनवे अतिधेनवे ब्राह्मणाय । श्रियै अतिश्रियै ब्राह्मण्यै । क्व मा भूत् ? श्रिये अतिश्रिये ब्राह्मणाय । भ्रुवै अतिभ्रुवै ब्राह्मण्यै । क्व मा भूत् ? भ्रुवे अतिभ्रुवे ब्राह्मणाय ।
अपर आह --
ह्रस्वेयुव्स्थानप्रवृत्तौ स्त्रीवचने ।। 8 ।।
 ह्रस्वौ चेयुव्स्थानौ च प्रवृत्तावपि स्त्रीवचनावेव नदीसंज्ञौ भवत इति वक्तव्यम् । किं प्रयोजनम् ? शकट्यै अतिशकट्यै ब्राह्मण्यै । क्व मा भूत् ? शकटये अतिशकटये ब्राह्मणाय । धेन्वै अतिधेन्वै ब्राह्मण्यै । क्व मा भूत् ? धेनवे अतिधेनवे ब्राह्मणाय । श्रियै अतिश्रियै ब्राह्मण्यै । क्व मा भूत् ? श्रिये अतिश्रिये ब्राह्मणाय । भ्रुवै अतिभ्रुवै ब्राह्मण्यै । क्व मा भूत् ? भ्रुवे अतिभ्रुवे ब्राह्मणाय ।
किमर्थं पुनरिदमुच्यते ? प्रथमलिङ्गग्रहणं चोदितं तद्द्वेष्यं विजानीयात्सर्वमेतद्विकल्पते इति । तदाचार्यः सुहृद्भूत्वान्वाचष्टे ह्रस्वौ चेयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनावेवेति ।। 3 ।।
-1-4-9- षष्ठीयुक्तश्छन्दसि वा (249)
योगविभागः कर्तव्यः । षष्ठीयुक्तश्छन्दसि षष्ठीयुक्तः पतिशब्दश्छन्दसि घिसंज्ञो भवति
। ततो वा वा छन्दसि सर्वे विधयो भवन्ति । सुपां व्यत्ययः, तिङां व्यत्ययः, वर्णव्यत्ययः, लिङ्गव्यत्ययः, कालव्यत्ययः, पुरुषव्यत्ययः, आत्मनेपदव्यत्ययः, परस्मैपदव्यत्ययः ।
सुपां व्यत्ययः-युक्ता मातासीद्धुरि दक्षिणायाः दक्षिणायामिति प्राप्ते। तिङां व्यत्ययः-चषालं ये अश्वयूपाय तक्षति तक्षन्तीति प्राप्ते । वर्णव्यत्ययः-त्रिष्टुभौजः शुभितमुग्रवीरम् सुहितमिति प्राप्ते। लिङ्गव्यत्ययः-मधोर्गृह्णाति मधोस्तृप्ता इवासते मधुन इति प्राप्ते। कालव्यत्ययः-श्वोऽग्नीनाधास्यमानेन श्वः सोमेन यक्ष्यमाणेन श्व आधाता, शवो यष्टेति प्राप्ते। पुरुषव्यत्ययः-अधा स वीरैर्दशभिर्वियूयाः वियूयादिति प्राप्ते। आत्मनेपदव्यत्ययः -- ब्रह्मचारिणमिच्छते इच्छतीति प्राप्ते। परस्मैपदव्यत्ययः-प्रतीपमन्य ऊर्मिर्युध्यति अन्वीपमन्य ऊर्मिर्युध्यति युध्यत इति प्राप्ते ।। 9 ।।
-1-4-13- यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेङ्गम् (253)
(अथ यस्माद् ग्रहणं किमर्थम् ?) यस्मादिति व्यपदेशाय ।
अथ प्रत्ययग्रहणं किमर्थम् ? यस्माद्विधिस्तदादि प्रत्ययेङ्गमितीयत्युच्यमाने स्त्री इयती स्त्रीयतीत्यत्रापि प्रसज्येत। प्रत्ययग्रहणे पुनः क्रियमाणे न दोषो भवति ।
अथ विधिग्रहणं किमर्थम् ? यस्मात्प्रत्ययस्तदादि प्रत्ययेङ्गमितीयत्युच्यमाने दधि अधुना, मधु अधुना,अत्रापि प्रसज्येत। विधिग्रहणे पुनः क्रियमाणे न दोषो भवति ।। तदेतत्प्रत्ययग्रहणेन विधिग्रहणेन च समुदितेन क्रियते संनियोगः -- यस्माद्यः प्रत्ययो विधीयते तदादि तस्मिन्नङ्गसंज्ञं भवतीति ।
अथ तदादिग्रहणं किमर्थम् ?
अङ्गसंज्ञायां तदादिग्रहणं स्यादिनुमर्थम् ।। 1 ।।
अङ्गसंज्ञायां तदादिग्रहणं क्रियते स्याद्यर्थं नुमर्थं च। स्याद्यर्थं तावत् -- करिष्यावः करिष्यामः। नुमर्थम् -- कुण्डानि वनानि ।
मित्सुटोरुपसंख्यानम् ।। 2 ।।
मित्वतः सुड्वतश्चोपसंख्यानं कर्तव्यम् । मित्वतः -- भिनत्ति छिनत्ति । अभिनत् अच्छिनत् । सुड्वतः -- संचस्करतुः संचस्करुः ।
किं पुनः कारणं न सिध्यति ? सुटो बहिरङ्गत्वात् । बहिरङ्गः सुट्, अन्तरङ्गो गुणः । असिद्धं
बहिरङ्गमन्तरङ्गे । वक्ष्यत्येतत् ।संयोगादेर्गुणविधाने संयोगोपधग्रहणं कृञ्ञर्थम्।। यदि संयोगोपधग्रहणं क्रियते नार्थः संयोगादिग्रहणेन । इहापि सस्वरतुः सस्वरुः इति संयोगोपधस्येत्येव सिद्धम्। भवेदेवमर्थेन नार्थः। इदं तु न सिध्यति -- संचस्करतुः संचस्करुरिति ।। किं पुनः कारणं न सिध्यति ? इह तस्य वा ग्रहणं तदादेर्वा। न चेदं तद्,नापि तदादि ।
सिद्धं तु तदाद्यादिवचनात् ।। 3 ।।
सिद्धमेतत् । कथम् ? तदाद्याद्यङ्गसंज्ञं भवतीति वक्तव्यम् । किमिदं तदाद्यादीति ? तस्यादिस्तदादिः, तदादिरादिर्यस्य तदिदं तदाद्यादीति ।
स तर्हि तथा निर्देशः कर्तव्यः ? न कर्तव्यः । उत्तरपदलोपत्र द्रष्टव्यः । तद्यथा, -- उष्ट्रमुखमिव मुखमस्योष्ट्रमुखः, खरमुखः । एवं तदाद्यादि तदादीति ।
तदेकदेशविज्ञानाद्वा सिद्धम् ।। 4 ।।
तदेकदेशविज्ञानाद्वा सिद्धमेतत् । तदेकदेशभूतं तद्ग्रहणेन गृह्यते । तद्यथा, -- गङ्गा यमुना देवदत्तेति । अनेका नदी गङ्गां यमुनां च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते । तथा देवदत्तास्थो
गर्भो देवदत्ताग्रहणेन गृह्यते ।
विषम उपन्यासः । इह केचिच्छब्दा अक्तपरिमाणानामर्थानां वाचका भवन्ति -- य एते संख्याशब्दाः परिमाणशब्दाश्च । पञ्च सप्तेति, -- एकेनाप्यपाये न भवन्ति । द्रोणः खारी आढकमिति, -- नैवाधिके भवन्ति न च न्यूने । केचिद्यावदेव तद्भवति तावदेवाहुः -- यथैते जातिशब्दा गुणशब्दाश्च । तैलं घृतमिति खार्यामपि भवति द्रोणेपि । शुक्लो नीलः कृष्ण इति हिमवत्यपि भवति वटकणिकामात्रेपि द्रव्ये । अङ्गसंज्ञा चाप्यक्तपरिमाणानां क्रियते, सा केनाधिकस्य स्यात् ।
एवं तर्ह्याचर्याप्रवृत्तिर्ज्ञापयति -- तदेकदेशभूतं तद्ग्रहणेन गृह्यते इति यदयं नेदमदसोरकोः
(7.1.11) इति सककारयोः प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकम् ? इदमदसोः कार्यमुच्यमानं कः प्रसङ्गो यत्सककारयोः स्यात् । पश्यति त्वाचार्यः -- तदेकदेशभूतं तद्ग्रहणेन गृह्यते इति, ततः सककारयोः प्रतिषेधं शास्ति ।
अथ द्वितीयं प्रत्ययग्रहणं किमर्थम् ?
प्रत्ययग्रहणं पदादावप्रसङ्गार्थम् ।। 5 ।।
प्रत्ययग्रहणं क्रियते पदादावङ्गसंज्ञा मा भूदिति । किं च स्यात् ? स्त्र्यर्थम् श्र्यर्थं भ्वर्थम्,
अङ्गस्येयङुवङौ स्याताम् ।
परिमाणार्थं च ।। 6 ।।
परिमाणार्थं च द्वितीयं प्रत्ययग्रहणं क्रियते । यस्मात्प्रत्ययविधिस्तदाद्यङ्गमितीयत्युच्यमाने दाशतयस्याप्यङ्गसंज्ञा प्रसज्येत ।
तत्तर्हि कर्तव्यम् ? न कर्तव्यम् । केनेदानीमङ्गकार्यं भविष्यति ? प्रत्यय इति प्रकृत्याङ्गकार्यमध्येष्ये । यदि प्रत्यय इति प्रकृत्याङ्गकार्यमधीषे। प्राकरोत् उपैहिष्ट। उपसर्गात्पूर्वावडाटौ प्राप्नुतः ।
सिद्धं तु प्रत्ययग्रहणे यस्मात्स तदादितदन्तविज्ञानात् ।। 7 ।।
सिद्धमेतत् । कथम् ? प्रत्ययग्रहणे यस्मात्स प्रत्ययो विहितस्तदादेस्तदन्तस्य च ग्रहणं भवतीत्येषा परिभाषा कर्तव्या ।
कः पुनरत्र विशेषः, एषा परिभाषा क्रियेत, प्रत्ययग्रहणं वा ? अवश्यमेषा परिभाषा कर्तव्या । बहून्येतस्याः परिभाषायाः प्रयोजनानि ।
प्रयोजनं धातुप्रातिपदिकप्रत्ययसमासतद्धितविधिस्वराः ।। 8 ।।
धातु -- देवदत्तश्चिकीर्षति । संघातस्य धातुसंज्ञा प्राप्नोति। प्रातिपदिक -- देवदत्तो गार्ग्यः । संघातस्य प्रातिपदिकसंज्ञा प्राप्नोति। प्रत्यय -- महान्तं पुत्रमिच्छति । संघातात्प्रत्ययोत्पत्तिः प्राप्नोति। समास -- ऋद्धस्य राज्ञः पुरुषः । संघातस्य समाससंज्ञा प्राप्नोति। तद्धितविधि -- देवदत्तो गार्ग्यायणः । संघातात्तद्धितोत्पत्तिः
प्राप्नोति । स्वर -- देवदत्तो गार्ग्यः । संघातस्य ञ्ञिनित्यादिर्नित्यम् (6.1.197) इत्याद्युदात्तत्वं प्राप्नोति। प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति न दोषो भवति ।
सा तर्ह्येषा परिभाषा कर्तव्या ? न कर्तव्या । एवं वक्ष्यामि -- यस्मात् प्रत्ययविधिस्तदादि
प्रत्यये गृह्यमाणे गृह्यते । ततः -- अङ्गम् अङ्गसंज्ञं च भवति यस्मात्प्रत्ययविधिस्तदादि प्रत्यये ।
यदि प्रत्ययग्रहणे यस्मात्स विहितः तदादेर्ग्रहणं भवतीत्युच्यते -- अवतप्तेनकुलस्थितं त
एतत् । उदकेविशीर्णं त एतत् सगतिकेन सनकुलेन च समासो न प्राप्नोति । एवं तर्हि प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीत्युक्त्वा ततो वक्ष्यामि -- कृद्ग्रहणे गतिकारकपूर्वस्यापि कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीत्येषा परिभाषा कर्तव्या । कान्तेतस्याः परिभाषायाः प्रयोजनानि ?
प्रयोजनं समासतद्धितविधिस्वराः ।। 9 ।।
समास -- अवतप्तेनकुलस्थितं त एतत् । उदकेविशीर्णं त एतत् । सगतिकेन सनकुलेन च
समासः सिद्धो भवति । समास। तद्धितविधि -- सांकूटिनम् व्यावक्रोशी । संघातात्तद्धितोत्पत्तिः सिद्धा भवति। तद्धितविधि। स्वर -- दुराद् आगतः दूरादागत इति। अन्तः थाथघञ्ञ्क्ताजबित्रकाणाम् (6.2.143 ; 144) इत्येष स्वरः सिद्धो भवति ।। कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति ।
सा तर्ह्येषा परिभाषा कर्तव्या ? न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति -- - भवत्येषा परिभाषेति, यदयं गतिरनन्तरः (6.2.49) इत्यनन्तरग्रहणं करोति ।। 13 ।।
-1-4-14- सुप्तिङन्तं पदम् (254)
अन्तग्रहणं किमर्थम्। न सुप्तिङ्पदमित्येवोच्येत ? केनेदानीं तदन्तानां भविष्यति ? तदन्तविधिना । अत उत्तरं पठति --
पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् ।। 1 ।।
पदसंज्ञायामन्तग्रहणं क्रियते ज्ञापकार्थम् । किं ज्ञाप्यम् ? एतज्ज्ञापयत्याचार्योऽन्यत्र संज्ञाविधौ प्रत्ययग्रहणं तदन्तविधिर्न भवति इति । किमेतस्य ज्ञापने प्रयोजनम् ?तरप्तमपौ घः (1.1.22) तरप्तमबन्तस्य घसंज्ञा न भवति । किं च स्यात् ? कुमारी गौरितरा । घादिषु नद्या ह्रस्वो भवतीति ह्रस्वत्वं प्रसज्येत ।
यद्येतज्ज्ञाप्यते सनाद्यन्ता धातवः (3.1.32) इत्यन्तग्रहणं कर्तव्यम् । कृत्तद्धितसमासाश्च (1.2.46) अन्तग्रहणं कर्तव्यम् । इदं तृतीयं ज्ञापकार्थम् ।। द्वे तावत्क्रियेते न्यास एव । यदप्युच्यते -- कृत्तद्धितसमासाश्चेत्यन्तग्रहणं कर्तव्यमिति । न कर्तव्यम् । अर्थवदिति वर्तते। कृत्तद्धितान्तं चैवार्थवन्न केवलाः कृतस्तद्धिता वा ।। 14 ।।
-1-4-15- नः क्ये।
किमर्थमिदमुच्यते न सुबन्तं पदमित्येव सिद्धम्? नियमार्थोऽयमारम्भः । नान्तमेव क्ये पदसंज्ञं भवति नान्यत् । क्व मा भूत् ? वाच्यति स्रुच्यति ।। 15 ।।
-1-4-17- स्वादिष्वसर्वनामस्थाने (257)
असर्वनामस्थान इत्युच्यते तत्र ते राजा तक्षा असर्वनामस्थान इति प्रतिषेधः प्रसज्येत। नाप्रतिषेधात् ।। 1 ।।
 नाऽयं प्रसज्यप्रतिषेधः -- सर्वनामस्थाने नेति । किं तर्हि ? पर्युदासोऽयम् -- यदन्यत्सर्वनामस्थानादिति । सर्वनामस्थानेऽव्यापारः । यदि केनचित्प्राप्नोति तेन भविष्यति । पूर्वेण च प्राप्नोति।
अप्राप्तेर्वा।। 2 ।।
 अथवाऽनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुत
एतत् ? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति । पूर्वा प्राप्तिरप्रतिषिद्धा, तया भविष्यति। ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते । नोत्सहते प्रतिषिद्धा सती बाधितुम् ।
योगविभागद्वा ।। 3 ।।
 अथ वा योगविभागः करिष्यते -- स्वादिषु पूर्वं पदसंज्ञं भवति । ततः सर्वनामस्थानेऽयचिपूर्वं पदसंज्ञं भवति । ततः भम् भसंज्ञं च भवति यजादावसर्वनामस्थान इति। यदि तर्हि सावपि पदं भवति, एचः प्लुतविकारे पदान्तग्रहणं चोदितम्। इह माभूत् -- भद्रं करोषि गौरिति । तस्मिन्क्रियमाणेऽपि प्राप्नोति ।
वाक्यपदयोरन्त्यस्येत्येवं तत् ।
भुवद्वद्भ्यो धारयद्वद्भ्यः पदसंज्ञा।। 4 ।।
एतयोः पदसंज्ञा वक्तव्या । भुवद्वद्भ्यः धारयद्वद्भ्यः ।। 17 ।।
-1-4-18- यचि भम् (258)
भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधः ।। 1 ।।
भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधो वक्तव्यः । अनुकम्पितः षडङ्गुलिः षडिकः।
सिद्धमचः स्थानिवत्त्वात् ।। 2 ।।
सिद्धमेतत् । कथम् ? अचः स्थानिवद्भावाद्भसंज्ञा न भविष्यति। इहापि तर्हि प्राप्नोति -- वागाशीर्दत्तः वाचिक इति । वक्ष्यत्येतत् -- सिद्धमेकाक्षरपूर्वपदानामुत्तरपदलोपवचनादिति। । इहापि तर्हि प्राप्नोति -- षडङ्गुलिः षडिक इति । वक्ष्यत्येतत् -- षषष्ठाजादिवचनात्सिद्धमिति।
नभोङि्गरोमनुषां वत्युपसंख्यानम् ।। 3 ।।
नभोङि्गरोमनुषां वत्युपसंख्यानं कर्तव्यम् । नभस्वत्। अङि्गरस्वत्। मनुष्वत्।
वृषण्वस्वश्वयोश्च ।। 4 ।।
वृषणित्येतस्य वस्वश्वयोर्भसंज्ञा वक्तव्या। वृषण्वसुः । वृषणश्वस्य .यच्छिरः, वृषणश्वस्य मेने ।। 18 ।।
-1-4-19- तसौ मत्वर्थे (259)
अर्थग्रहणं किमर्थम्। न तसौ मतौ इत्येवोच्येत ? तसौ मतौःथ्द्य;तीयत्युच्यमान इहैव स्यात् -- पयस्वान् यशस्वान् । इह न स्यात् -- पयस्वी यशस्वी । अर्थग्रहणे पुनः क्रियमाणे मतुपि च सिद्धं भवति, यश्चान्यस्तेन समानार्थस्तस्मिंश्च ।
यद्यर्थग्रहणं क्रियते पयस्वान् अत्र न प्राप्नोति । किं कारणम् ? न हि मतुब्मतुबर्थे वर्तते । मतुबपि मतुबर्थे वर्तते । तद्यथा -- देवदत्तशालायां ब्राह्मणा आनीयन्तामित्युक्ते यदि देवदत्तोपि ब्राह्मणो भवति, सोऽप्यानीयते ।। 19 ।।
-1-4-20- अयस्मयादीनि च्छन्दसि (260)
उभयसंज्ञान्यपि।। 1 ।।
उभयसंज्ञान्यपीति वक्तव्यम् । स सुष्टुभा स ऋक्वता गणेन ।। 20 ।।
-1-4-21- बहुषु बहुवचनम् (261)
बहुषु बहुवचनमित्युच्यते । केषु बहुषु ? अर्थेषु । यद्येवं वृक्षः प्लक्षः अत्रापि प्राप्नोति । बहवस्तेऽर्थाः -- मूलं स्कन्धः फलं पलाशमिति ।
एवं तर्हि एकवचनं द्विवचनं बहुवचनमिति शब्दसंज्ञा एताः । येष्वर्थेषु स्वादयो विधीयन्ते तेषु बहुषु । केषु च स्वादयो विधीयन्ते ? कर्मादिषु । न वै कर्मादयो विभक्त्यर्थाः । के
तर्हि ? एकत्वादयः । एकत्वादिष्वपि वै विभक्त्यर्थेष्ववश्यं कर्मादयो निमित्तत्वेनोपादेयाः -- कर्मण एकत्वे, कर्मणो द्वित्वे, कर्मणो बहुत्वे इति ।
स तर्हि तथा निर्देशः कर्तव्यः। न ह्यन्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देशः । इह च
इत्येके मन्यन्ते तदेके मन्यन्ते इति परत्वादेकवचनं प्राप्नोति। बहुषु बहुवचनमित्येष योगः परः करिष्यते । सूत्रविपर्यासः कृतो भवति । इह च बहुरोदनो बहुः सूप इति परत्वाद् बहुवचनं प्राप्नोति ।
नैषः दोषः । यत्तावदुच्यते -- न ह्यन्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देश इति, तन्न । अन्तरेणापि भावप्रत्ययं गुणप्रधानो भवति निर्देशः । कथम् ? इह कदाचिद्गुणो गुणिविशेषको भवति । तद्यथा -- पटः शुक्लः इति । कदाचिच्च गुणिना गुणो व्यपदिश्यते -- पटस्य शुक्लः इति । तद्यदा तावद्गुणो गुणिविशेषको भवति पटः शुक्लः इति तदा सामानाधिकरण्यं गुणगुणिनोः,तदा नान्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देशः । यदा तु गुणिना गुणो व्यपदिश्यते पटस्य शुक्लः इति स्वप्रधानस्तदा गुणो भवति -- - तदा द्रव्ये षष्ठी,तदाऽन्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देशः ।
न चेह वयमेकत्वादिभिः कर्मादीन्विशेषयिष्यामः । किं तर्हि ? कर्मादिभिरेकत्वादीन्विशेषयिष्यामः । कथम् ?
एकस्मिन्नेकवचनम् । कस्यैकस्मिन् ? कर्मणः । द्वयोर्द्विवचनम् । कयोर्द्वयोः ? कर्मणोः । बहुषु बहुवचनम् । केषां बहुषु ? कर्मणामिति ।। कथं बहुषु बहुवचनमिति ? एतदेव ज्ञापयत्याचार्यः -- नानाधिकरणवाची यो बहुशब्दस्तस्येदं ग्रहणम्। न वैपुल्यवाचिनः इति । किमेतस्य ज्ञापने प्रयोजनम् ? यदुक्तं बहुरोदनो बहुः सूप इति परत्वाद्बहुवचनं प्राप्नोतीति न स दोषो न भवति ।
यदप्युच्यते -- इत्येके मन्यन्ते, तदेके मन्यन्ते इति परत्वादेकवचनं प्राप्नोतीति। नैषः दोषः । एकशब्दोऽयं बह्वर्थः । अस्त्येव संख्यावाची । तद्यथा -- एको द्वौ बहव इति । अस्त्यसहायवाची । तद्यथा -- एकाग्नयः। एकहलानि एकाकिभिः क्षुद्रकैर्जितमिति । अस्त्यन्यार्थे वर्तते । तद्यथा -- सधमादो द्युम्न एकास्ताः । अन्या इत्यर्थः । तद्योऽन्यार्थे वर्तते तस्यैव प्रयोगः ।
किमर्थं पुनरिदमुच्यते ?
सुप्तिङामविशेषेण विधानाद् दृष्टविप्रयोगाच्च नियमार्थं वचनम् ।। 1 ।।
सुपोऽविशेषेण प्रातिपदिकमात्राद्विधीयन्ते। । तिङोऽविशेषेण धातुमात्राद्विधीयते। तत्रैतत्स्याद्यद्यप्यविशेषेण विधीयन्ते नैव विप्रयोगो लक्ष्यते इति । दृष्टविप्रयोगाच्च । दृश्यते खल्वपि विप्रयोगः । तद्यथा -- अक्षीणि मे दर्शनीयानि पादा मे सुकुमाराः इति । सुप्तिङोरविशेषविधानाद् दृष्टविप्रयोगत्वाच्च व्यतिकरः प्राप्नोति । इष्यते चाऽव्यतिकरः स्यादिति। तच्चाऽन्तरेण यत्नं न सिध्यतीति नियमार्थं वचनम् । एवमर्थमिदमुच्यते ।
अथैतस्मिन्नियमार्थे सति किं पुनरयं प्रत्ययनियमः -- एकस्मिन्नेवैकवचनं, द्वयोरेव द्विवचनं, बहुष्वेव बहुवचनमिति । आहोस्विदर्थनियमः -- एकस्मिन्नेकवचनमेव, द्वयोर्द्विवचनमेव, बहुषु बहुवचनमेवेति । कश्चात्र विशेषः ?
तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञाऽभावोऽसुबन्तत्वात् ।। 2 ।।
तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञा न प्राप्नोति -- उच्चैः नीचैरिति । किं कारणम् ?
असुबन्तत्वात् ।
अर्थनियमे सिद्धम् ।। 3 ।।
अर्थनियमे सिद्धं भवति । अस्त्वर्थनियमः । अथ वा पुनरस्तु प्रत्ययनियमः । ननु
चोक्तम् -- ।तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञाभावोऽसुबन्तत्वादिति । नैषः दोषः ।
सुपां कर्मादयोऽप्यर्थाः संख्या चैव, तथा तिङाम् ।। 4।।
सुपां संख्या चैवाऽर्थः कर्मादयश्च । तथा तिङाम् ।
प्रसिद्धो नियमस्तत्र ।। 5।।
प्रसिद्धस्तत्र नियमः ।
नियमः प्रकृतेषु वा ।। 6।।
अथ वा प्रकृतानर्थानपेक्ष्य नियमः । के च प्रकृताः ? एकत्वादयः । एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु । द्वयोरेव द्विवचनं नैकस्मिन्न बहुषु । बहुष्वेव बहुवचनं न द्वयोर्नैकस्मिन्निति ।
अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति -- उत्पद्यन्तेऽव्ययेभ्यः स्वादयः इति। यदयम् -- अव्ययादाप्सुपः (2.4.82) इत्यव्ययाल्लुकं शास्ति ।। 21 ।।
इति श्रीभगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमाध्यायस्य चतुर्थेपादे द्वितीयमाह्निकम् ।
-1-4-23- कारके (263)
किमिदं कारके इति ?(कारक इति) संज्ञानिर्देशः । किं वक्तव्यमेतत् ? न हि कथमनुच्यमानं गंस्यते ? इह हि व्याकरणे ये वैते लोके प्रतीतपदार्थकाः शब्दास्तैर्निर्देशाः क्रियन्ते , या वैताः कृत्रिमाष्टिघुभादिसंज्ञाः । न चायं लोके ध्रुवादीनां प्रतीतपदार्थकः शब्दः, न खल्वपि कृत्रिमा संज्ञा अन्यत्राऽविधानात् । संज्ञाधिकारश्चायम्। तत्र किमन्यच्छक्यं विज्ञातुमन्यदतः संज्ञायाः ।
कारक इति संज्ञानिर्देशश्चेत्संज्ञिनोपि निर्देशः ।। 1 ।।
कारक इति संज्ञानिर्देशश्चेत्संज्ञिनोपि निर्देशः कर्तव्यः । साधकं निर्वर्तकं कारकसंज्ञं भवतीति वक्तव्यम् ।
इतरथा ह्यनिष्टप्रसङ्गो ग्रामस्य समीपादागच्छतीत्यकारकस्य ।। 2 ।।
इतरथा ह्यनिष्टं प्रसज्येत । अकारकस्याप्यपादानसंज्ञा प्रसज्येत । क्व ? ग्रामस्य समीपादागच्छतीति। नैषः दोषः । नात्र ग्रामोऽपाययुक्तः । किं तर्हि ? समीपम् । यदा च ग्रामोऽपाययुक्तो भवति, भवति तदाऽपादानसंज्ञा । तद्यथा, -- ग्रामादागच्छतीति ।
कर्मसंज्ञाप्रसङ्गोऽकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति ।। 3 ।।
कर्मसंज्ञा च प्राप्नोत्यकथितस्य । क्व ? ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति ।
नैषः दोषः । अयमकथितशब्दोऽस्त्येवाऽसंकीर्तिते वर्तते तद्यथा -- कश्चित्कंचित्सञ्चक्ष्याह -- असावत्राकथितः । असंकीर्तित इति गम्यते । अस्त्यप्राधान्ये वर्तते । तद्यथा -- अकथितोऽसौ ग्रामे अकथितोऽसौ नगरे इत्युच्यते यो यत्राऽप्रधानो भवति। तद्यदाऽप्राधान्येऽकथितशब्दो वर्तते तदैष दोषः -- कर्मसंज्ञाप्रसङ्गोऽकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति ।
अपादानं च वृक्षस्य पर्णं पततीति ।। 4 ।।
अपादानसंज्ञा च प्राप्नोति । क्व ?वृक्षस्य पर्णं पतति, कुड्यस्य पिण्डः पततीति ।
न वाऽपायस्याऽविवक्षितत्वात् ।। 5 ।।
न वैष दोषः । किं कारणम् ? अपायस्याऽविवक्षितत्वात् । नात्रापायो विवक्षितः । किं तर्हि ? सम्बन्धः । यदा चापायो विवक्षितो भवति, भवति तदाऽपादानसंज्ञा । तद्यथा, -- वृक्षात्पर्णं पततीति । सम्बन्धस्तु तदा न विवक्षितो भवति न ज्ञायते कङ्कस्य वा कुरस्य वेति ।
अयं तर्हि दोषः -- कर्मसंज्ञाप्रसङ्गश्चाऽकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति । नैषः दोषः । कारक इति महती संज्ञा क्रियते । संज्ञा च नाम यतो न लघीयः । कुत एतत् ? लघ्वर्थं हि संज्ञाकरणम् । तत्र महत्याः संज्ञायाः करणे एतत्प्रयोजनम् -- अन्वर्थसंज्ञा यथा विज्ञायेत -- करोतीति कारकमिति ।
अन्वर्थमिति चेदकर्तरि कर्तृशब्दानुपपत्तिः ।। 6 ।।
अन्वर्थमिति चेदकर्तरि कर्तृशब्दो नोपपद्यते करणं कारकमअधिकरणं कारकमिति ।
सिद्धं तु प्रतिकारकं क्रियाभेदात्पचादीनां करणाऽधिकरणयोः कर्तृभावः ।। 7 ।।
सिद्धःकरणाऽधिकरण्योः कर्तृभावः । कुतः ? प्रतिकारकं क्रियाभेदात् । पचादीनां तु प्रतिकारकं क्रिया भिद्यते । किमिदं प्रतिकारकमिति ? कारकं कारकं प्रति
प्रतिकारकम् । कोसौ प्रतिकारकं क्रियाभेदः पचादीनाम् ?
अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणक्रियाः प्रधानस्य कर्तुः पाकः ।। 8 ।।
अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणादिक्रियाः कुर्वन्नेव देवदत्तः पचतीत्युच्यते । तत्र तदा पचिर्वर्तते । एष प्रधान(स्यटकर्तुः पाकः । एतत्प्रधानकर्तुः कर्तृत्वम् ।
द्रोणं पचत्याढकं पचतीति सम्भवनक्रिया धारणक्रिया चाधिकरणस्य पाकः ।। 9 ।।
द्रोणं पचत्याढकं पचतीति सम्भवनक्रियां धारणक्रियां च कुर्वती स्थाली पचतीत्युच्यते । तत्र तदा पचिर्वर्तते । एषोऽधिकरणस्य पाकः । एतदधिकरणस्य कर्तृत्वम् ।
एधाः पक्ष्यन्त्या विक्लित्तेर्ज्वलिष्यन्तीति ज्वलनक्रियां करणस्य पाकः ।। 10 ।।
एधाः पक्ष्यन्त्या विक्लितेर्ज्वलिष्यन्तीति ज्वलनक्रियां कुर्वन्ति काष्ठानि पचन्तीत्युच्यन्ते । तत्र तदा पचिर्वर्तते । एष करणस्य पाकः । एतत्करणस्य कर्तृत्वम् ।
उद्यमननिपातनानि कर्तुश्चिदिक्रिया ।। 11 ।।
उद्यमननिपातनानि कुर्वन् देवदत्तश्छिनत्तीत्युच्यते । तत्र तदा छिदिर्वर्तते । एष प्रधानकर्तुश्छेदः । एतत्प्रधानकर्तुः कर्तृत्वम् ।
यत्तन्न तृणेन तत्परशोश्छेदनम् ।। 12 ।।
यत्तत्समाने उद्यमने निपतने च परशुना छिद्यते न तृणेन तत्परशोश्छेदनम् । अवश्यं चैददेवं विज्ञेयम् ।
इतरथा ह्यसितृणयोश्छेदनेऽविशेषः स्यात् ।। 13 ।।
यो हि मन्यत उद्यमननिपातनादेवैतद्भवति च्छिनत्तीति, असितृणयोश्छेदने न तस्य विशेषः स्याद् यदसिना
छिद्यते तृणेनापि तच्छिद्येत ।
अपादानादीनां त्वप्रसिद्धिः ।। 14 ।।
अपादानादीनां (तु) कर्तृत्वस्याऽप्रसिद्धिः । यथा हि भवता करणादीनां कर्तृत्वं निदर्शितं न तथाऽपादानादीनां कर्तृत्वं निर्दश्यते ।
न वा स्वतन्त्र्रपरतन्त्र्रत्वात्तयोः पर्यायेण वचनं वचनाश्रया च संज्ञा ।। 15 ।।
न वैष दोषः । किं कारणम् ? स्वतन्त्र्रपरतन्त्र्रत्वात् । सर्वत्रैवात्र स्वातन्त्र्र्य पारतन्त्र्र्यं च विवक्षितम् । तयोः पर्यायेण वचनम् । तयोः स्वातन्त्र्र्यपारतन्त्र्र्ययोः पर्यायेण वचनं भविष्यति । वचनाश्रया च संज्ञा भविष्यति । तद्यथा, -- बलाहकाद्विद्योतते विद्युत् । बलाहके विद्योतते । बलाहको विद्योतत इति ।
किं तर्ह्युच्यते -- अपादानादीनां त्वप्रसिद्धिरिति ? एवं तर्हि न ब्रूमोऽपादानादीनां कर्तृत्वस्याऽप्रसिद्धिरिति । पर्याप्तं करणाधिकरण्योः कर्तृत्वं निदर्शितमपादानादीनां कर्तृत्वनिदर्शनाय, पर्याप्तो ह्येकः पुलाकः स्थाल्या निदर्शनाय । किं तर्हि ? संज्ञाया अप्रसिद्धिः । यावता सर्वत्रैवाऽत्र स्वातन्त्र्र्य विद्यते पारतन्त्र्र्यं च। तत्र परत्वात्कर्तृसंज्ञैव प्राप्नोति। अत्रापि न वा स्वतन्त्र्रत्वात्तयोः पर्यायेण वचनं वचनाश्रया च संज्ञेत्येव ।
यथा पुनरिदं भवता स्थाल्याः स्वातन्त्र्र्यं निदर्शितं संभवनक्रियां धारणक्रियां च कुर्वती स्थाली स्वतन्त्रेति, क्वेदानीं परतन्त्रा स्यात् ? यत्तत्प्रक्षालनं परिवर्तनं वा । न वा एवमर्थं स्थाल्युपादीयते प्रक्षालनं परिवर्तनं च करिष्यामीति । किं तर्हि ? संभवनक्रियां धारणक्रियां च
करिष्यतीति । तत्र चासौ स्वतन्त्रा । क्वेदानीं परतन्त्रा ?
एवं तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा, कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा । ननु च भोः कर्तृस्थेऽपि यत्ने कथ्यमाने स्थाली संभवनक्रियां धारणक्रियां च करोति, तत्रासौ स्वतन्त्रा । क्चेदानीं परतन्त्रा स्यात् ?
एवं तर्हि प्रधानेन समवाये स्थाली परतन्त्रा, व्यवाये स्वतन्त्रा । तद्यथा -- अमात्यादीनां राज्ञा सह समवाये परतन्त्र्यं, व्यवाये स्वातन्त्र्यम् । किं पुनः प्रधानम् ? कर्ता । कथं पुनर्ज्ञायते -- कर्ता प्रधानमिति ? यत्सर्वेषु साधनेषु संनिहितेषु कर्ता प्रवर्तयिता भवति ।
ननु च भोः प्रधानेनापि वै समवाये स्थाल्या अनेनार्थः अधिकरणं कारकमिति । न हि कारकमित्यनेनाऽधिकरणत्वमुक्तम्, अधिकरणमिति वा कारकत्वम् । उभौ चान्योन्यविशेषकौ भवतः । कथम् ? एकद्रव्यसमवायित्वात् । तद्यथा, -- गार्ग्यो देवदत्त इति । न हि गार्ग्य इत्यनेन देवदत्तत्वमुक्तं, देवदत्त इत्यनेन वा गार्ग्यत्वम् । उभौ चान्योन्यविशेषकौ भवत एकद्रव्यसमवायित्वात् ।
एवं तर्हि सामान्यभूता क्रिया वर्तते, तस्या निर्वर्तकं कारकम् ।
अथ वा यावद् ब्रूयात् क्रियायामिति, तावत् कारके इति । एवं च कृत्वा निर्देश उपपन्नो भवति
कारके इति । इतरथा हि कारकेषु इति ब्रूयात् ।। 23 ।।
-1-4-24- ध्रुवमपायेऽपादानम् (264)
ध्रुवग्रहणं किमर्थम् ? ग्रामादागच्छति शकटेन। नैतदस्ति । करणसंज्ञाऽत्र बाधिका भविष्यति। इदं तर्हि -- ग्रामादागच्छन्कंसपात्र्यां पाणिनौदनं भुङ्क्ते इति । अत्राप्यधिकरणसंज्ञा बाधिका भविष्यति ।
इदं तर्हि -- वृक्षस्य पर्णं पतति, कुड्यस्य पिण्डः पततीति ।
जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् ।। 1 ।।
जुगुप्साविरामप्रामादार्थानामुपसंख्यानं कर्तव्यम् । जुगुप्सा -- अधर्माज्जुगुप्सते । अधर्माद्बीभत्सते। विराम -- धर्माद्विरमति । धर्मान्निवर्तते । प्रमाद -- धर्मात्प्रमाद्यति । धर्मान्मुह्यति ।
इदं चोपसंख्यानं कर्तव्यम् -- सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति ।
तत्तर्हीदं बहु वक्तव्यम् ? न वक्तव्यम् । इह तावद् -- -अधर्माज्जुगुप्सते अधर्माद्बीभत्सते इति। य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति -- दुःखोऽधर्मो नाऽनेन कृत्यमस्तीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम्। इह धर्माद्विरमति धर्मान्निवर्तते इति। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। इह य एष मनुष्यः संभिन्नबुद्धिर्भवति स पश्यति -- नेदं किंचिद्धर्मो नाम नैनं करिष्यामीति । स बुद्ध्या संप्राप्य निवर्तते ।
तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् । इह च साङ्काश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति यस्तैः साम्यं गतवान्भवति स एतत्प्रयुङ्क्ते ।
गतियुक्तेष्वपादानसंज्ञा नोपपद्यतेऽध्रुवत्वात् ।। 2 ।।
गतियुक्तेष्वपादानसंज्ञा नोपपद्यते । रथात्प्रवीतात्पतितः । अश्वात्र्रस्तात्पतितः। सार्थाद्गच्छतो हीन इति । किं कारणम् ? अध्रुवत्वात् ।
न वाऽध्रौव्यस्याविवक्षितत्वात् ।। 3 ।।
न वैष दोषः । किं कारणम् ? अध्रौव्यस्याविवक्षितत्वात् नाऽत्राऽध्रौव्यं विवक्षितम् । किं तर्हि ? ध्रौव्यम् । इह तावदश्वात्त्रस्तात्पतित इति, यत्तदश्वेऽश्वत्वमाशुगामित्वं तद्ध्रुवं तच्च विवक्षितम् । रथात्प्रवीतात्पतित इति यद्रथे रथत्वं रमन्तेऽस्मिन् रथ इति तद्ध्रुवं तच्च विवक्षितम् । सार्थाद्गच्छतो हीन इति, यत्तत्सार्थे सार्थत्वं सहार्थीभावस्तद्ध्रुवं तच्च विवक्षितम् ।
यद्यपि तावदत्रैतच्छक्यते वक्तुम्। ये त्वेतेऽत्यन्तंगतियुक्तास्तत्र कथम् -- धावतः पतितस्त्वरमाणात्पतित इति ? अत्रापि -- ।न वाऽध्रौव्यस्याऽविवक्षितत्वादित्येव सिद्धम्। कथं पुनः सतो नामाऽविवक्षा स्यात् ? सतोऽप्यविवक्षा भवति । तद्यथा -- अलोमिका एडका। अनुदरा कन्येति । असतश्च विवक्षा भवति -- समुद्रः कुण्डिका, विन्ध्यो वर्धितकमिति ।। 24 ।।
-1-4-25- भीत्रार्थानां भयहेतुः (265)
अयं योगः शक्योऽवक्तुम् । कथं वृकेभ्यो बिभेति दस्युभ्यो बिभेति, चोरेभ्यस्त्राते दस्युभ्यस्त्रायत इति ? इह तावद् -- वृकेभ्यो बिभेति दस्युभ्यो बिभेतीति। य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति -- यदि मां वृकाः पश्यन्ति ध्रुवो मे मृत्युरिति । स बुद्ध्या संप्राप्य निवर्तते , तत्र ध्रुवमपायेऽपादानम् (1.4.24) इत्येव सिद्धम् । इह चौरेभ्यस्त्रायते दस्युभ्यस्त्रायत इति, य एष मनुष्यः प्रेक्षापूर्वकारी सुहृद्भवति स पश्यति -- यदीमं चौराः पश्यन्ति ध्रुवमस्य वधबन्धनादिपरिक्लेशा इति । स बुद्ध्या संप्राप्य निवर्तयति । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् ।। 25 ।।
-1-4-26- पराजेरसोढः (266)
अयमपि योगः शक्योऽवक्तुम् । कथम्-अध्ययनात्पराजयते इति ? य एष मनुष्यः प्रेक्षापूर्वकारी भवति ,स पश्यति -- दुःखमध्ययनं दुर्धरं च, गुरवश्च दुरुपचारा इति,स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानम् (1.4.24) इत्येव सिद्धम् ।। 26 ।।
-1-4-27- वारणार्थानामीप्सितः (267)
किमुदाहरणम् ? माषेभ्यो गा वारयति । भवेद्यस्य माषा न गावः, तस्य माषा इर्प्सिताः स्युः । यस्य तु खलु गावो न माषाः, कथं तस्य माषा इर्प्सिताः स्युः ? तस्याऽपि माषा एवेप्सिताः । आतश्चेप्सिताः, यदेभ्यो गा वारयति ।
इह कूपादन्धं वारयतीति कूपेऽपादानसंज्ञा न प्राप्नोति । न हि तस्य कूप इर्प्सितः । कस्तर्हि ? अन्धः । तस्यापि कूप एवेप्सितः । पश्यत्ययम् -- अन्धः कूपं मा प्रापदिति । अथ वा यथैवाऽस्यान्यत्राऽपश्यत इर्प्सैवं कूपेऽपि ।
इह-अग्रेर्माणवकं वारयतीति माणवकेऽपादानसंज्ञा प्राप्नोति । कर्मसंज्ञाऽत्र बाधिका भविष्यति। अग्रावपि तर्हि बाधिका स्यात् । तस्माद्वक्तव्यम् कर्मणो यदीप्सितमिति । इर्प्सितेप्सितमिति वा ।
वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुरीप्सिततमं कर्मेति वचनात् ।। 1 ।।
वारणार्थेषु कर्मग्रहणमनर्थकम् । किं कारणम् ? कर्तुरीप्सिततमं कर्म (1.4.49) इति वचनात् । कर्तुरीप्सिततमं कर्मेत्येव सिद्धम् ।
अयमपि योगः शक्योऽवक्तुम् । कथं माषेभ्यो गा वारयतीति ? पश्यत्ययं यदीमा गावस्तत्र गच्छन्ति ध्रुवः सस्यविनाशः, सस्यविनाशेऽधर्मश्चैव राजभयं च । स बुद्ध्या सम्प्राप्य निवर्तयति । तत्र ध्रुवमपायेऽपादानम् (1.4.24) इत्येव सिद्धम् ।। 27 ।।
-1-4-28- अन्तर्द्धौ येनाऽदर्शनमिच्छति (268)
अयमपि योगः शक्योऽवक्तुम् । कथम् -- उपाध्यायादन्तर्धत्त इति ? पश्यत्ययं यदि मामुपाध्यायः पश्यति ध्रुवं मे
प्रेषणमुपालम्भो वेति ,स बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानम् (1.2.24) इत्येव सिद्धम् ।। 28 ।।
-1-4-29- आख्यातोपयोगे (269)
उपयोग इति किमर्थम् ? नटस्य शृणोति, ग्रन्थिकस्य शृणोति ।। उपयोगःथ्द्य;त्यप्युच्यमानेऽप्यत्र प्राप्नोति । एषोऽपि ह्युपयोगः । आतश्चोपयोगो यदारम्भका रङ्गं गच्छन्ति नटस्य श्रोष्यामः, ग्रन्थिकस्य श्रोष्याम इति ।
एवं तर्ह्युपयोग इत्युच्यते, सर्वश्चोपयोगः। तत्र प्रकर्षगतिर्विज्ञास्यते -- साधीयो य उपयोग इति । कश्च साधीयः ? यो ग्रन्थाऽर्थयोः ।
अथवोपयोगः को भवितुमर्हति ? यो नियमपूर्वकः । तद्यथा -- उपयुक्ता माणवकाःथ्द्य;त्युच्यन्ते य एते नियमपूर्वकमधीतवन्तो भवन्ति ।
किं पुनराख्यातानुपयोगे कारकमाहोस्विदकारकम् ? कश्चात्र विशेषः ?
आख्यातानुपयोगे कारकमिति चेदकथितत्वात्कर्मसंज्ञाप्रसङ्गः ।। 1 ।।
आख्यातानुपयोगे कारकमिति चेदकथितत्वात्कर्मसंज्ञा प्राप्नोति।
अस्तु तर्ह्यकारकम् ।
अकारकमिति चेदुपयोगवचनानर्थक्यम्।। 2 ।।
यद्यकारकमुपयोगवचनमनर्थकम् । अस्तु तर्हि कारकम् । ननु चोक्तम् -- आख्यातानुपयोगे कारकमिति चेदकथितत्वात्कर्मसंज्ञाप्रसङ्गः इति । नैषः दोषः । परिगणनं तत्र क्रियते -- दुहियाचिरुधिप्रच्छिभिक्षिचिञामिति ।
अयमपि योगः शक्योऽवक्तुम् । कथम्-उपाध्यायादधीत इति ?. अपक्रामति तस्मात्तदध्ययनम्
। यद्यपक्रामति, किं नात्यन्तायाऽपक्रामति ? सन्ततत्वात् । अथ वा ज्योतिर्वज्ज्ञानानि भवन्ति ।। 29 ।।
-1-4-30- जनिकर्तुः प्रकृतिः (270)
अयमपि योगः शक्योऽवक्तुम् । कथं योगमयाद्वृश्चिको जायते। गोलोमाऽविलोमभ्यो दूर्वा जायन्ते इति ? आपक्रामन्ति तास्तेभ्यः । यद्यपक्रामन्ति किं नात्यन्तायाऽपक्रामन्ति ? सन्ततत्वात् ।
अथवाऽन्याश्चाऽन्याश्च प्रादुर्भवन्ति ।। 30 ।।
-1-4-31- भुवः प्रभवः (271)
अयमपि योगः शक्योऽवक्तुम् । कथं हिमवतो गङ्गा प्रभवतीति ? अपक्रामन्ति तास्तस्मादापः । यद्यपक्रामन्ति, किं नाऽन्त्यन्तायापक्रामन्ति ? सन्ततत्वात् ।। अथवान्याश्चान्याश्च प्रादुर्भवन्ति ।। 31 ।।
-1-4-32- कर्मणा यमभिप्रैति स सम्प्रदानम्
कर्मग्रहणं किमर्थम् ? यमभिप्रैति स सम्प्रादानमितीयत्युच्यमाने कर्मण एव सम्प्रदानसंज्ञा प्रसज्येत । कर्मग्रहणे पुनः क्रियमाणे न दोषो भवति । कर्म निमित्तत्वेनाश्रीयते ।
अथ यंसग्रहणं किमर्थम् ? कर्मणाऽभिप्रैति सम्प्रदानमितीयत्युच्यमाने अभिप्रयत एव सम्प्रदानसंज्ञा प्रसज्येत । यंसग्रहणे पुनः क्रियमाणो न दोषो भवति । यंसग्रहणादभिप्रयतः सम्प्रदानसंज्ञा निर्भज्यते ।
अथाऽभिप्रग्रहणं किमर्थम् ? कर्मणा यमेति स सम्प्रदानमितीयत्युच्यमाने यमेव सम्प्रत्येति तत्रैव स्यात् -- उपाध्यायाय गां ददातीति । इह न स्याद् -- उपाध्यायाय गामदादुपाध्यायाय गां दास्यतीति । अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति । अभिराभिमुख्ये वर्तते, प्रशब्द आदिकर्मणि । तेन यं चाभिप्रैति, यं चाऽभिप्रैष्यति, यं चाभिप्रागादाभिमुख्यमात्रे सर्वत्र सिद्धं भवति ।
क्रियाग्रहणम्।।
क्रियाग्रहणमपि कर्तव्यम् । इहापि यथा स्यात्-श्राद्धाय निगर्हते । युद्धाय सन्नह्यते । पत्ये शेते इति ।। तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । कथम् ? क्रियां हि नाम लोके कर्मेत्युपचरन्ति -- कां क्रियां करिष्यसि । किं कर्म करिष्यसीति । एवमपि कर्तव्यम् । कृत्रिमाऽकृत्रिमयोः कृत्रिमे सम्प्रत्ययो भवति ।। क्रियाऽपि कृत्रिमं कर्म । न सिध्यति । कर्तुरीप्सिततमं कर्म (1.4.49) इत्युच्यते, कथं च नाम क्रियया क्रियेप्सितमा स्यात् ? क्रियापि क्रिययेप्सिततमा भवति । कया क्रियया ? सन्दर्शनक्रियया वा, प्रार्थयतिक्रियया वा, अध्यवस्यतिक्रियया वा । इह
य एष मनुष्यः प्रेक्षापूर्वकारी भवति स बुद्ध्या तावत्कंचिदर्थं पश्यति, संदृष्टे प्रार्थना, प्रार्थनायामध्यवसायः, अध्यवसाय आरम्भः, आरम्भे निर्वृत्तिः, निर्वृत्तौ फलाऽवाप्तिः । एवं क्रियाऽपि कृत्रिमं कर्म ।
एवमपि -- कर्मणः करणसंज्ञा वक्तव्या, सम्प्रदानस्य च कर्मसंज्ञा । पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः । अग्नौ किल पशुः प्रक्षिप्यते तद्रुरुद्रायोपह्रियत इति ।। 32 ।।
-1-4-37- क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः
किमेत एकार्थाः, आहोस्विन्नानार्थाः ? किं चातः ? यद्येकार्थाः किमर्थं पृथङ्निर्दिश्यन्ते ? अथ नानार्थाः, कथं कुपिना शक्यन्ते विशेषयितुम् ?
एवं तर्हि नानार्थाः, कुपौ त्वेषां सामान्यमस्ति । नह्यकुपितः क्रुध्यति, न वाऽकुपितो द्रुह्यति, न वाऽकुपित इर्र्ष्यति, न वाऽकुपितोऽसूयति ।। 37 ।।
-1-4-42- साधकतमं करणम्
तमग्रहणं किमर्थं न साधकं करणमित्येवोच्येत ? साधकं करणमितीयत्युच्यमाने सर्वेषामेव कारकाणां करणसंज्ञा प्रसज्येत । सर्वाणि हि कारकाणि साधकानि । तमग्रहणे पुनः क्रियमाणे न दोषो भवति ।
नैतदस्ति प्रयोजनम् । पूर्वास्तावत्संज्ञा अपवादत्वाद्बाधिका भविष्यन्ति। पराः परत्वादनवकाशत्वाच्च ।
इह तर्हि धनुषा विध्यति अपाययुक्तत्वाच्चाऽपादानसंज्ञा , साधकत्वाच्च करणसंज्ञा प्राप्नोति । तमग्रहणे पुनः क्रियमाणे न दोषो भवति ।
एवं तर्हि लोकत एतत्सिद्धम् । तद्यथा, -- लोके अभिरूपायोदकमानेयम् अभिरूपाय कन्या देयेति, न चानभिरूपे प्रवृत्तिरस्ति, तत्र अभिरूपतमायेति गम्यते । एवमिहाऽपि साधकं करणमित्युच्यते, सर्वाणि च कारकाणि साधकानि, न चाऽसाधके प्रवृत्तिरिति, तत्र साधकतममिति विज्ञास्यते ।
एवं तर्हि सिद्धे सति यत्तमग्रहणं करोति तज्ज्ञापयत्याचार्यः -- कारकसंज्ञायां तरतमयोगो न भवतीति । किमेतस्य ज्ञापने प्रयोजनम् ? अपादानमाचार्यः किं न्याय्यं मन्यते, यत्र संप्राप्य निवृत्तिः । तेनेहैव स्यात् -- ग्रामादागच्छति, नगरादागच्छतीति । साङ्काश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इत्यत्र न स्यात् । कारकसंज्ञायां तरतमयोगो न भवतीत्यत्रापि सिद्धं भवति ।
तथाऽऽधारमाचार्यः किं न्याय्यं मन्यते, यत्र कृत्स्न आधारात्मा व्याप्तो भवति । तेनेहैव स्यात् -- तिलेषु तैलम् दध्नि सर्पिरिति । गङ्गायां गावः, कूपे गर्गकुलमित्यत्र न स्यात् । कारकसंज्ञायां तरतमयोगो न भवतीत्यत्रापि सिद्धं भवति ।। 42 ।।
-1-4-48- उपान्वध्याङ्वसः
वसेरश्यर्थस्य प्रतिषेधः ।। 1 ।।
वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः । ग्रामे उपवसतीति ।। स तर्हि वक्तव्यः ? न वक्तव्यः । नाऽत्रोपपूर्वस्य वसेर्ग्रामोऽधिकरणम् । कस्य तर्हि ? अनुपसर्गस्य । ग्रामेऽसौ वसंस्त्रिरात्रमुपवसतीति ।। 48 ।।
-1-4-49- कर्तुरीप्सिततमं कर्म
तमग्रहणं किमर्थम् ? कर्तुरीप्सितं कर्मेतीयत्युच्यमाने इहाऽग्नेर्माणवकं वारयतीति माणवकेऽपादानसंज्ञा प्रसज्येत। नैष दोषः । कर्मसंज्ञाऽत्र बाधिका भविष्यति । अग्रावपि तहि बाधिका स्यात् । इह पुनस्तमग्रहणे क्रियमाणे तदुपपन्नं भवति यदुक्तं वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुरीप्सिततमं कर्मेति वचनादिति ।
इहोच्यते -- ओदनं पचतीति, यद्योदनः पच्येत द्रव्यान्तरमभिनिर्वर्तेत । नैष दोषः । तार्दथ्यात्ताच्छब्द्यं भविष्यति -- ओदनार्थास्तण्डुला ओदन इति ।
अथेह कथं भवितव्यम् -- तण्डुलानोदनं पचतीति, आहोस्वित् -- तण्डुलानामोदनं पचतीति ? उभयथाऽपि भवितव्यम् । कथम् ? इह हि तण्डुलानोदनं पचतीति द्व्यर्थः पचिः, तण्डुलान्पचन्नोदनं निर्वर्तयतीति ।
इहेदानीं तण्डुलानामोदनं पचतीति द्व्यर्थश्चैव पचिर्विकारयोगे च षष्ठी,तण्डुलविकारमोदनं निर्वर्तयतीति ।
इह कश्चित्कंचिदामन्त्रयते -- सिद्धं भुज्यतामिति । स आमन्त्र्यमाण आह -- प्रभूतं भुक्तमस्माभिरिति । आमन्त्रयमाण आह -- दधि खलु भविष्यति, पयः खलु भविष्यति । आमन्त्र्यमाण आह -- दध्ना खलु भुञ्ञ्जीय,
पयसा खलु भुञ्ञ्जीयेति । अत्र कर्मसंज्ञा प्राप्नोति । तद्धि तस्येप्सिततमं भवति ।
तस्याप्योदन एवेप्सिततमः। न तु गुणेष्वस्याऽनुरोधः । तद्यथा, -- भुञ्ञ्जीयाहमोदनं यदि मृदुविशदः स्यादिति । एवमिहापि दधिगुणमोदनं भुञ्ञ्जीय, पयोगुणमोदनं भुञ्ञ्जीयेति ।
इर्प्सितस्य कर्मसंज्ञायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञाप्रसङ्गः क्रियेप्सितत्वात् ।। 1 ।।
इर्प्सितस्य कर्मसंज्ञायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञा न प्राप्नोति । गुडं भक्षयतीति । किं कारणम् ? क्रियेप्सितत्वात् । क्रिया तस्येप्सिता ।
न वोभयेप्सितत्वात् ।। 2 ।।
न वैष दोषः । किं कारणम् ? उभयेप्सितत्वात् । उभयं हि तस्येप्सितम् । आतश्चोभयं यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति नासौ लोष्टं भक्षयित्वा कृती भवति ।। यद्यपि तावदत्रैतच्छक्यते वक्तुम्, ये त्वेते राजकर्मिणो मनुष्यास्तेषां कश्चित्कंचिदाह -- कटं कुर्विति । स आह -- नाहं कटं करिष्यामि, घटो मयाऽऽहृतःथ्द्य;ति । तस्य क्रियामात्रभीप्सितम् ।। यद्यपि तस्य क्रियामात्रमीप्सितं, यस्त्वसौ प्रेषयति तस्योभयमीप्सितमिति ।। 49 ।।
-1-4-50- तथा युक्तं चानीप्सितम्
किमुदाहरणम् ? विषं भक्ष्यतीति । नैतदस्ति । पूर्वेणाप्येतत्सिध्यति । न सिध्यति । कर्तुरीप्सिततमं कर्म (1.4.49) इत्युच्यते, कस्य च नाम विषभक्षणमीप्सितं स्यात् । विषभक्षणमपि कस्यचिदीप्सितं भवति । कथम् ? इह य एष मनुष्यो दुःखार्तो भवति सोऽन्यानि दुःखान्यनुनिशम्य विषभक्षणमेव ज्यायो मन्यते । आतश्चेप्सितं यत्तद्भक्षयति ।। यत्तर्ह्यन्यत्करिष्यामीत्यन्यत्करोति तदुदाहरणम् । कि पुनस्तत् ? ग्रामान्तरमयं गच्छंश्चौरान् पश्यति, अहिं लङ्घयति, कण्टकान्मृदनातीति ।
इर्हेप्सितस्यापि कर्मसंज्ञाऽऽरभ्यतेऽनीप्सितस्यापि यदिदानीं नैवेप्सितं नाप्यनीप्सितं तत्र कथं भवितव्यम् -- ग्रामान्तरमयं गच्छन्वृक्षमूलान्युपसर्पति, कुड्यमूलान्युपसर्पतीति ? अत्रापि सिद्धम् । कथम् ? अनीप्सितमिति नाऽयं प्रसज्यप्रतिषेधः -- इर्प्सितं नेति । किं तर्हि पर्युदासोऽयं -- यदन्यदीप्सितात्तदनीप्सितमिति
। अन्यच्चैवेदीप्सिताद्यन्नैवेप्सितं नाप्यनीप्सितमिति ।। 50 ।।
-1-4-51- अकथितं च
केनाऽकथितम् ? अपादानादिभिर्विशेषकथाभिः ।। किमुदाहरणम् ?
दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ ।
ब्रुविशासिगुणेन च यत्सचते तदकीर्तिमाचरितं कविना ।।
दुहि -- गां दोग्धि पयः ।। नैतदस्ति । कथिताऽत्र पूर्वाऽपादानसंज्ञा। । दुहि ।। याचि -- इदं तर्हि -पौरवं गां याचत इति ।। नैतदस्ति । कथितात्र पूर्वाऽपादानसंज्ञा। ।। न याचनादेवाऽपायो भवति ।। याचितोऽसौ यदि ददाति ततोऽपायेन युज्यते । याचि ।। रुधि -- अन्ववरुणाद्धि गां व्रजम् ।। नैतदस्ति । कथिताऽत्र पूर्वाधिकरणसंज्ञा। रुधि । प्रच्छि -- माणवकं पन्थानं पृच्छति ।। नैतदस्ति । कथिताऽत्र पूर्वाऽपादानसंज्ञा। ।। न प्रश्नादेवाऽपायो भवति । पृष्टोऽसौ यद्याचष्टे ततोऽपायेन युज्यते । प्रच्छि ।। भिक्षि-पौरवं गां भिक्षते ।। नैतदस्ति । कथिताऽत्र पूर्वाऽपादानसंज्ञा। ।। न भिक्षणादेवाऽपायो भवति । भिक्षितोऽसौ यदि ददाति ततोऽपायेन युज्यते । भिक्षि ।। चिञ्ञ् -- वृक्षमवचिनोति फलानि ।। नैतदस्ति । कथिताऽत्र पूर्वाऽपादानसंज्ञा। ।। ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना।। ब्रुविशासिगुणेन यत्सचते तच्चोदाहरणम् । किं पुनस्तत् ? पुत्रं ब्रूते धर्मम्, पुत्रमनुशास्ति धर्ममिति ।। नैतदस्ति । कथिताऽत्र पूर्वा संप्रदानसंज्ञा ।। तस्मात् त्रीण्येवोदाहरणानि । पौरवं गां याचते, माणवकं पन्थानं पृच्छति, पौरवं गां भिक्षते इति ।
अथ ये धातूनां द्विकर्मकास्तेषां किं कथिते लादयो भवन्त्याहोस्विदकथिते ? कथिते लादयः ।। कथिते लादिभिरभिहिते गुणकर्मणि का कर्तव्या ?
कथिते लादयश्चेत्स्युः षष्ठीं कुर्यात्तदा गुणे ।
कथिते लादयश्चेत्स्युः षष्ठी गुणकर्मणि तदा कर्तव्या । दुह्यते गोः पयः याच्यते पौरवस्य कम्बल इति ।। कथम् ?
अकारकं ह्यकथितात्
अकारकं ह्येतद्भवति । किं कारणम् ? अकथितत्वात् ।
कारकं चेत्तु नाऽकथा ।।
अथ कारकं नाऽकथितम् ।। अथ कारके सति का कर्तव्या ?
कारकं चेद्विजानीयाद्यां यां मन्येत सा भवेत् ।।
कारकं चेद्विजानीयाद्या या प्राप्नोति सा सा कर्तव्या । दुह्यते गोः पयः । याच्यते पौरवात्कम्बल इति ।
कथितेऽभिहिते त्वविधिस्त्वमतिर्गुणकर्मणि लादिविधिः सपरे ।
कथिते लादिभिरभिहिते त्वविधिरेष भवति । किमिदं त्वविधिरिति ? तव विधिस्त्वविधिः । त्वमतिः । किमिदं त्वमतिरिति ? तव मतिस्त्वमतिरिति । नैवमन्ये मन्यन्ते ।। कथं तर्ह्यन्ये मन्यन्ते ? गुणकर्मणि लादिविधिःसपरे। गुणकर्मणिलादिविधयो भवन्ति सह परेण योगेन -- गतिबुद्धिप्रत्यवासानार्थशब्दकर्माऽकर्मकाणामणि कर्ता स णौ (1.4.52) इति ।
ध्रुवचेष्टितयुक्तिषु चाऽप्यगुणे तदनल्पमतेर्वचनं स्मरत ।।
ध्रुवयुक्तिषु चैष्टितयुक्तिषु चाऽप्यगुणे कर्मणि लादयो भवन्ति, एतदनल्पमतेराचार्यस्य वचनं स्मर्यताम् ।। अपर आह -- -
प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् ।
प्रधानकर्मण्यभिधेये द्विकर्मणां धातूना कर्मणि लादयो भवन्तीति वक्तव्यम् । अजां नयति ग्रामम् । अजा नीयते ग्रामम् । अजा नीता ग्राममिति ।
अप्रधाने दुहादीनाम्
अप्रधाने दुहादीनां कर्मणि लादयो भवन्तीति वक्तव्यम् । दुह्यते गौः पयः ।
ण्यन्ते कर्तुश्च कर्मणः ।।
ण्यन्ते कर्तुश्च कर्मणो लादयो भवन्तीति वक्तव्यम् । गम्यते, यज्ञदत्तो ग्रामं देवदत्तेन ।
के पुनर्धातूनां द्विकर्मकाः ?
नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च ।
द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः ।।
अजां नयति ग्रामम् । भारं वहति ग्रामम् । भारं हरति ग्रामम् । गत्यर्थानाम् -- गमयति देवदत्तं ग्रामम् । यापयति देवदत्तं ग्रामम् ।
सिद्धं वाऽप्यन्यकर्मणः ।
सिद्धं वा पुनरेतद्भवति । कुतः ? अन्यकर्मणः । अन्यस्याऽत्राऽजा कर्मान्यस्य ग्रामः । अजामसौ गृहीत्वा ग्रामं नयति ।
अन्यकर्मेति चेद्ब्रूयाल्लादीनामविधिर्भवेत् ।।
अन्यकर्मेति चेद्ब्रूयाल्लादीनामविधिरयं भवेत् । अजा नीयते ग्राममिति । परसाधन उत्पद्यमानेन लेनाऽजाया अभिधानं न प्राप्नोति ।
कालभावाऽध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् ।
कालभावाध्वगन्तव्या अकर्मकाणां धातूनां कर्मसंज्ञा भवन्तीति वक्तव्यम् । काल-मासमास्ते । मासं स्वपिति ।। भाव -- गोदोहमास्ते । गोदोहं स्वपिति ।। अध्वगन्तव्य-क्रोशमास्ते । क्रोशं स्वपिति ।
(देशश्च।।ट
देशश्चाऽकर्मकाणां कर्मसंज्ञो भवतीति वक्तव्यम् । कुरून्स्वपिति पञ्ञ्चालान्स्वपिति ।
विपरीतं तु यत्कर्म तत्कल्म कवयो विदुः ।।
किमिदं कल्मेति ? अपरिसमाप्तं कर्म कल्म । न वा अस्मिन्सर्वाणि कर्मकार्याणि क्रियन्ते । किं तर्हि ? द्वितीयैव ।
यस्मिंस्तु कर्मण्युपजायतेऽन्यद्धात्वर्थयोगाऽपि च यत्र षष्ठी ।
तत्कर्म कल्मेति च। कल्म नोक्तं धातोर्हि वृत्तिर्न रलत्वतोऽस्ति ।।
एतेन कर्मसंज्ञा सर्वा सिद्धा भवत्यकथितेन ।
तत्रेप्सितस्य किं स्यात्प्रयोजनं कर्मसंज्ञायाः ।।
यत्तु कथितं पुरस्तादीप्सितयुक्तं च तस्य सिद्ध्यर्थम् ।
इर्प्सितमेव तु यत्स्यात्तस्य भविष्यत्यकथितेन ।।
अथेह कथं भवितव्यम्-नेताऽश्वस्य स्रुघ्नमिति, आहोस्विन्नेताऽश्वस्य स्रुघ्नस्येति ? उभयथा गोणिकापुत्रः ।। 51 ।।
-1-4-52- गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ
शब्दकर्मेति कथमिदं विज्ञायते -- शब्दो येषां क्रियेति, आहोस्वि-च्छब्दो येषां कर्मेति ? कश्चात्र विशेषः ?
शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयत्यादीनां प्रतिषेधः ।। 1 ।।
शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयत्यादीनां प्रतिषेधो वक्तव्यः । के पुर्नह्वयत्यादयः ? ह्वयति क्रन्दति शब्दायते ।। ह्वयति देवदत्तः । ह्वाययति देवदत्तेन ।। क्रन्दति देवदत्तः । क्रन्दयति देवदत्तेन ।। शब्दायते देवदत्तः । शब्दाययति देवदत्तेनेति ।
शृणोत्यादीनामुपसंख्यानमशब्दक्रियत्वात् ।। 2 ।।
शृणोत्यादीनां चोपसंख्यानं कर्तव्यम् । के पुनः शृणोत्यादयः ? शृणोति विजानाति उपलभ्यते ।। शृणोति देवदत्तः । श्रावयति देवदत्तम् ।। विजानाति देवदत्तः । विज्ञापयति देवदत्तम् ।। उपलभते देवदत्तः । उपलम्भयति देवदत्तम् । किं पुनः कारणं न सिध्यति ? अशब्दक्रियत्वात् ।
अस्तु तर्हि -- शब्दो येषां कर्मेति ।
शब्दकर्मण इति चेज्जल्पतिप्रभृतीनामुपसंख्यानम् ।। 3 ।।
शब्दकर्मण इति चेज्जल्पतिप्रभृतीनामुपसंख्यानं कर्तव्यम् । के पुनर्जल्पतिप्रभृतयः ? जल्पति विलपति आभाषते ।। जल्पति देवदत्तः । जल्पयति देवदत्तम् ।। विलपति देवदत्तः । विलापयति देवदत्तम् ।। आभाषते देवदत्तः । आभाषयति देवदत्तम् ।
दृशेः सर्वत्र ।। 4 ।।
दृशेः सर्वत्रोपसंख्यानं कर्तव्यम् । पश्यति रूपतर्कः कार्षापणम् । दर्शयति रूपतर्कं कार्षापणम् ।
अदिखादिनीवहीनां प्रतिषेधः ।। 5 ।।
अदिखादिनीवहीनां प्रतिषेधो वक्तव्यः ।। अत्ति देवदत्तः । आदयते देवदत्तेन ।। अपर आह -- सर्वमेव प्रत्यवसानकार्यमदेर्न भवतीति वक्तव्यं परस्मैपदमपि। । इदमेकमिष्यते -- क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसनार्थेभ्यः (3.4.76) । इदमेषां जग्धम् ।। खादि -- खादति देवदत्तः । खादयति देवदत्तेन ।। नी-नयति देवदत्तः । नाययति देवदत्तेन ।
वहेरनियन्तृकर्तृकस्य ।। 6 ।।
वहेरनियन्तृकर्तकस्येति वक्तव्यम् । वहति भारं देवदत्तः । वाहयति भारं देवदत्तेन ।। अनियन्तृकर्तृकस्येति किमर्थम् ? वहन्ति बलीवर्दाः यवान् । वाहयति बलीवर्दान् यवान् ।
भक्षेरहिंसार्थस्य ।। 7 ।।
भक्षेरहिंसार्थस्येति वक्तव्यम् । भक्षयति पिण्डीं देवदत्तः । भक्षयति पिण्डीं देवदत्तेन ।। अहिंसार्थस्येति किमर्थम् ? भक्षयन्ति यवान्बलीवर्दाः । भक्षयति बलीवर्दान् यवान् ।
अकर्मकग्रहणे कालकर्मणामुपसंख्यानम् ।। 8 ।।
अकर्मकग्रहणे कालकर्मणामुपसंख्यानं कर्तव्यम् ।। मासमास्ते देवदत्तः । मासमासयति देवदत्तम् । मासं शेते देवदत्तः । मासं शाययति देवदत्तम् ।
सिद्धं तु कालकर्मणामकर्मकवद्वचनात् ।। 9 ।।
सिद्धमेतत् । कथम् ? कालकर्मका अकर्मकवद्भवन्तीति वक्तव्यम् ।। तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । अकर्मकाणामित्युच्यते न च केचित्कदाचित्कालभावाध्वभिरकर्मकाः । तं एवं विज्ञास्यामः क्वचिद्येऽकर्मका इति ।।
अथवा येन कर्मणा सकर्मकाश्चाऽकर्मकाश्च भवन्ति तेनाऽकर्मकाणाम्, न चैतेन कर्मणा कश्चिदप्यकर्मकः ।। अथवा यत्कर्म भवति, न च भवति, तेनाऽकर्मकाणाम् । न चैतत्कर्म क्वचिदपि न भवति ।। 52 ।।
-1-4-53- हृक्रोरन्यतरस्याम्
हृक्रोर्वावचनेऽभिवादिदृशोरात्मनेपद उपसंख्यानम् ।। 1 ।।
हृक्रोर्वावचनेऽभिवादिदृशोरात्मनेपद उपसंख्यानं कर्तव्यम् । अभिवदति गुरुं देवदत्तः । अभिवादयते गुरुं देवदत्तेन । अभिवादयते गुरुं देवदत्तम् ।। पश्यन्ति भृत्या राजानम् । दर्शयते भृत्यै राजा । दर्शयते भृत्यान् राजा ।। कथं चाऽत्राऽऽत्मनेपदम् ? एकस्य णेरणौ (1.3.67) इति, अपरस्य णिचश्च (1.3.74) इति ।। 53 ।।
-1-4-54- स्वतन्त्रः कर्ता
किं यस्य स्वं तन्त्रं स स्वतन्त्रः ? किं चातः ? तन्तुवाये प्राप्नोति ।
नैष दोषः । अयं तन्त्रशब्दोऽस्त्येव विताने वर्तते । तद्यथा, -- आस्तीर्णं तन्त्रम्, प्रोतं तन्त्रमिति । वितानमिति गम्यते । अस्ति प्राधान्ये वर्तते । तद्यथा, -- स्वतन्त्रोऽसौ ब्राह्मण इत्युच्यते । स्वप्रधान इति गम्यते । तद्यः प्राधान्ये वर्तते तन्त्रशब्दस्तस्येदं ग्रहणम् ।
स्वतन्त्रस्य कर्तृसंज्ञायां हेतुमत्युपसंख्यानमस्वतन्त्रत्वात् ।। 1 ।।
स्वतन्त्रस्य कर्तृसंज्ञायां हेतुमत्युपसंख्यानं कर्तव्यम् । पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति । किं पुनः कारणं न सिध्यति ? अस्वतन्त्रत्वात् ।
न वा स्वातन्त्र्यादितरथा ह्यकुर्वत्यपि कारयतीति स्यात् ।। 2 ।।
न वा कर्तव्यम् । किं कारणम् ? स्वातन्त्र्यात् । स्वतन्त्रोऽसौ भवति । इतरथा ह्यकुर्वत्यपि कारयतीति स्यात् यो हि मन्यते -- नाऽसौ स्वतन्त्रः, अकुर्वत्यपि तस्य कारयतीत्येतत्स्यात् ।
नाऽकुर्वतीति चेत्स्वतन्त्रः ।। 3 ।।
न चेदमकुर्वति तस्मिन्कारयतीत्येतद्भवति, स्वतन्त्रोऽसौ भवति ।
शक्यं तावदनेनोपसंख्यानं कुर्वता वक्तुं -- कुर्वन्स्वतन्त्रोऽकुर्वन्नेति । साधीयो ज्ञापकं भवति । प्रेषिते च किलायं क्रियां चाऽक्रियां च दृष्ट्वाऽध्यवस्यति कुर्वन्स्वतन्त्रोऽकुर्वन्नेति । यदि च प्रेषितोऽसौ न करोति स्वतन्त्रोऽसौ भवतीति ।। 54 ।।
-1-4-55- तत्प्रयोजको हेतुश्च
प्रैषेऽस्वतन्त्रप्रयोजकत्वाद्धेतुसंज्ञाऽप्रसिद्धिः ।। 1 ।।
प्रैषेऽस्वतन्त्रप्रयोजकत्वाद्धेतुसंज्ञाया अप्रसिद्धिः प्राप्नोति । स्वतन्त्रप्रयोजको हेतुसंज्ञो भवतीत्युच्यते, न चासौ स्वतन्त्रं प्रयोजयति ।।
स्वतन्त्रत्वात्सिद्धम् ।।
स्वतन्त्रत्वासिद्धमेतत् । स्वतन्त्रमसौ प्रयोजयति ।
स्वतन्त्रत्वात्सिद्धमिति चेत्स्वतन्त्रपरतन्त्रत्वं विप्रतिषिद्धम् ।। 2 ।।
यदि च स्वतन्त्रो न प्रयोज्यः अथ प्रयोज्यो न स्वतन्त्रः, प्रयोज्यः स्वतन्त्रश्चेति विप्रतिषिद्धम् ।
उक्तं वा ।। 3 ।।
किमुक्तम् ? एकं तावदुक्तम् - न वा स्वातन्त्र्यादितरथा ह्यकुर्वत्यपि कारयतीत्येतत्स्यात् इति । अपरमुक्तम् -- न वा सामान्यकृतत्वाद्धेतुतो ह्यविशिष्टम्। स्वतन्त्रप्रयोजकत्वादप्रयोजक इति चेन्मुक्तसंशयेन तुल्यम् इति ।। 55 ।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य चतुर्थे पादे तृतीयमाह्निकम् ।
। । ।
-1-4-56- प्राग्रीश्वरान्निपाताः
किमर्थं रेफाधिक इर्श्वरशब्दो गृह्यते ?
रीश्वराद्वीश्वरान्मा भूत्
रीश्वरादित्युच्यते, वीश्वरान्मा भूदिति -- शकिणमुल्कमुलावीश्वरेतोसुन्कसुनौ (3.4.12; 13) इति ।। नैतदस्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति -- अनन्तरो य इर्श्वरशब्दस्य ग्रहणमिति। यदयं कृन्मेजन्तः (1.1.39) इति कृतो मान्तस्यैजन्तस्याऽव्ययसंज्ञां शास्ति ।
कृन्मेजन्तः परोऽपि सः ।
परोऽप्येतस्मात्कृन्मान्त एजन्तश्चास्ति । तदर्थमेतत्स्यात् ।।.यत्तर्ह्यव्ययीभावस्याव्ययसंज्ञां शास्ति तज्ज्ञापयत्याचार्योऽनन्तरो य इर्श्वरशब्दस्तस्य ग्रहणमिति ।
समासेष्वव्ययीभावः
समासस्यैतज्ज्ञापकं स्यात् -- अव्ययीभाव एव समासोऽव्ययसंज्ञो भवति नाऽन्य इति ।। एवं तर्हि लोकत एतत्सिद्धम् । तद्यथा, -- लोके आ वनान्तादोदकान्तात् प्रियं पान्थमनुव्रजेदिति । य एव प्रथमो वनान्त उदकान्तश्च ततोऽनुव्रजन्ति ।
लौकिकं चाऽतिवर्तते ।।
द्वितीयं तृतीयं च वनान्तमुदकान्तं चानुव्रजन्ति ।। तस्माद्रेफाधिक इर्श्वरशब्दो ग्रहीतव्यः ।
अथ प्राग्वचनं किमर्थम् ?
प्राग्वचनं संज्ञाऽनिवृत्त्यर्थम् ।। 1 ।।
प्राग्वचनं क्रियते निपातसंज्ञाया अनिवृत्तिर्यथा स्यात् । अक्रियमाणे हि प्राग्वचनेऽनवकाशाः
गत्युपसर्गकर्मप्रवचनीयसंज्ञाः निपातसंज्ञां बाधेरन् । ताः मा बाधिषतेति प्राग्वचनं क्रियते ।। अथ क्रियमाणेऽपि प्राग्वचने यावताऽनवकाशा एताः संज्ञाः कस्मादेव न बाधन्ते ? क्रियमाणे हि प्राग्वचने सत्यां निपातसंज्ञायामेता अवयवसंज्ञा आरभ्यन्ते तत्र वचनात्समावेशो भवति ।। 56 ।।
-1-4-57- चादयोऽसत्त्वे
अयं सत्त्वशब्दोऽस्त्येव द्रव्यपदार्थकः -- तद्यथा, -- सत्त्वमयं ब्राह्मणः, सत्त्वमियं ब्राह्मणीति । अस्ति क्रियापदार्थकः -- सद्भावः सत्त्वमिति । कस्येदं ग्रहणम् ? द्रव्यपदार्थकस्य । कुत एतत् ? एवं च कृत्वा विधिश्च सिद्धो भवति, प्रतिषेधश्च ।
किं पुनरयं पर्युदासो -- यदन्यत्सत्त्ववचनादिति, आहोस्वित्प्रसज्याऽयं प्रतिषेधः -- सत्त्ववचने नेति ? किं चातः ? यदि पर्युदासो विप्र इत्यत्रापि प्राप्नोति । क्रियाद्रव्यवचनोऽयं संघातः, द्रव्यादन्यश्च विधिनाऽऽश्रीयते । अस्ति च प्रादिभिः सामान्यमिति कृत्वा तदन्तविधिना निपातसंज्ञा प्राप्नोति ।
अथ प्रसज्यप्रतिषेधो न दोषो भवति ।। यथा न दोषस्तस्थास्तु ।। 57 ।।
-1-4-58- प्रादयः
प्रादय इति योगविभागः निपातसंज्ञार्थः, एकयोगे हि निपातसंज्ञाभावः।। 1 ।।
प्रादय इति योगविभागः कर्तव्यः । प्रादयोऽसत्त्ववचना निपातसंज्ञा भवन्ति । तत उपसर्गाः क्रियायोगे इति ।। किमर्थो योगविभागः ?
निपातसंज्ञाऽर्थः ।। 2 ।।
निपातसंज्ञा यथा स्यात् ।
एकयोगे हि निपातसंज्ञाऽभावः ।। 3 ।।
एकयोगे हि सति निपातसंज्ञाया अभावः स्यात् । यस्मिन्नेव विशेषे, गत्युपसर्गकर्मप्रवचनीयसंज्ञास्तस्मिन्नेव विशेषे निपातसंज्ञा स्यात् ।
मरुच्छब्दस्योपसंख्यानम् ।। 4 ।।
मरुच्छशब्दस्योपसंख्यानं कर्तव्यम् । मरुद्दत्तो मरुतः । अच उपसर्गाद् (7.4.47) इति तत्वं यथा स्यात् ।
श्रच्छब्दस्योपसंख्यानम् ।। 5 ।।
श्रच्छब्दस्योपसंख्यानं कर्तव्यम् । श्रद्धा । ।। 58।।
-1-4-59- उपसर्गाः क्रियायोगे
प्रादय इति योगविभागः निपातसंज्ञार्थः, एकयोगे हि निपातसंज्ञाभावः।। 1 ।।
प्रादय इति योगविभागः कर्तव्यः । प्रादयोऽसत्त्ववचना निपातसंज्ञा भवन्ति । तत उपसर्गाः क्रियायोगे इति ।। किमर्थो योगविभागः ?
निपातसंज्ञाऽर्थः ।। 2 ।।
निपातसंज्ञा यथा स्यात् ।
एकयोगे हि निपातसंज्ञाऽभावः ।। 3 ।।
एकयोगे हि सति निपातसंज्ञाया अभावः स्यात् । यस्मिन्नेव विशेषे, गत्युपसर्गकर्मप्रवचनीयसंज्ञास्तस्मिन्नेव विशेषे निपातसंज्ञा स्यात् ।
मरुच्छब्दस्योपसंख्यानम् ।। 4 ।।
मरुच्छशब्दस्योपसंख्यानं कर्तव्यम् । मरुद्दत्तो मरुतः । अच उपसर्गाद् (7.4.47) इति तत्वं यथा स्यात् ।
श्रच्छब्दस्योपसंख्यानम् ।। 5 ।।
श्रच्छब्दस्योपसंख्यानं कर्तव्यम् । श्रद्धा । ।। 58।।
-1-4-60- गतिश्च
कारिकाशब्दस्य ।। 1 ।।
कारिकाशब्दयोपसंख्यानं कर्तव्यम् । कारिकाकृत्य। ।
पुनश्चनसौ छन्दसि ।। 2 ।।
पुनश्चनसौ छन्दसि गतिसंज्ञौ भवत इति वक्तव्यम् । पुनरुत्स्यूतं वासो देयम् । पुनर्निष्कृतो रथः उशिग्दूतश्चनोहित इति ।
गत्युपसर्गसंज्ञाः क्रियायोगे यत्क्रियायुक्तास्तं प्रतीति वचनम् ।। 3 ।।
गत्युपसर्गसंज्ञाः क्रियायोगे यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञा भवन्तीति वक्तव्यम् ।। किं प्रयोजनम् ?
प्रयोजनं घञ्ञ्षत्वणत्वे ।। 4 ।।
घञ्ञ् -- प्रवृद्धो भावः प्रभावः । अनुपसर्गे इति प्रतिषेधो मा भूत् ।
षत्वम् -- विगताः सेचका अस्माद्ग्रामाद्विसेचको ग्रामः । उपसर्गादिति षत्वं मा भूत् । णत्वम् -- प्रगता नायका अस्माद् ग्रामात्प्रनायको ग्रामः । उपसर्गादिति णत्वं मा भूत् ।
वृद्धिविधौ च धातुग्रहणानर्थक्यम् ।। 5 ।।
वृद्धिविधौ च धातुग्रहणमनर्थकम् -- उपसर्गादृति धातौ (6.1.91) इति । तत्र धातुग्रहणस्यैतत्प्रयोजनमिह मा भूत् -- प्रर्षभं वनमिति । क्रियमाणे चाऽपि धातुग्रहणे र्प्रच्छकःथ्द्य;त्यत्र प्राप्नोति । यत्क्रियायुक्तास्तं प्रतीति
वचनान्न भवति ।
वृद्धिधिनस्भावाऽबीत्त्वस्वाङ्गादिस्वरणत्वेषु दोषः।। 6।।
वद्विधिनस्भावाबीत्त्वस्वाङ्गादिस्वरणत्वेषु दोषो भवति। वद्विधि -- यदुद्वतो निवतो यासि वप्सन् । वद्विधिः ।। नस्भाव -- प्रणसं मुखम् । उन्नसं मुखम् । नस्भाव ।। अबीत्त्व -- प्रेपं परेपम् । अबीत्व ।। स्वाङ्गादिस्वर -- प्रस्फिक् प्रोदरः । स्वाङ्गादिस्वर ।। णत्व -- प्र णः शूद्रः, प्र ण आचार्यः, प्र णो राजा, प्र णो वृत्रहा ।। उपसर्गादित्येते विधयो न प्राप्नुवन्ति ।
वद्विधिनस्भावाबीत्वस्वाङ्गादिस्वरणत्वेषु वचनप्रामाण्यात्सिद्धम् ।। 6 ।।
अनवकाशा एते विधयस्ते वचनप्रामाण्याद्भविष्यन्ति ।
सुदुरोः प्रतिषेधो नुम्विधितत्वषत्वणत्वेषु ।। 7 ।।
सुदुरोः प्रतिषेधो नुम्विधितत्वषत्वणत्वेषु वक्तव्यः ।। नुम्विधि -- सुलभं दुर्लभम् । उपसर्गादिति नुम् मा भूदिति । न सुदुर्भ्यां केवलाभ्याम् (7.1.68) इत्येतन्न वक्तव्यं भवति ।। नैतदस्ति प्रयोजनम् । क्रियत एतन्न्यास एव ।।
<M.2.286>
तत्व -- सुदत्तम् । अच उपसर्गात्तः (7.4.47) इति तत्वं मा भूदिति ।। षत्व-सुसिक्तं घटशतेन । सुस्तुतं श्लोकशतेन उपसर्गादिति षत्वं मा भूदिति। । सुः पूजायाम् (1.4.94) इत्येतन्न वक्तव्यं भवति ।। नैतदस्ति प्रयोजनम् । क्रियत एतन्न्यास एव ।। णत्व -- दुर्नयं दुर्नीतमिति । उपसर्गादिति णत्वं मा भूदिति ।। 60 ।।
-1-4-61- ऊर्यादिच्विडाचश्च
         कृभ्वस्तियोग।। 1 ।।
कृभ्वस्तियोग इति वक्तव्यम् । इहैव यथा स्यात् -- ऊरीकृत्य उरीभूय । इह मा भूत् -- ऊरी पक्त्वा ।। तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । क्रियायोग इत्यनुवर्तते । न चाऽन्यया क्रिययोर्यादिच्विडाचां योगोऽस्ति ।। 60 ।।
-1-4-62- अनुकरणं चाऽनितिपरम्
कथमिदं विज्ञायते -- इतेः परमितिपरं न इतिपरमनितिपरमिति, आहोस्विदितिः परो यस्मात्तदिदमितिपरं न इतिपरमनितिपरमिति ।। किं चातः ? यदि विज्ञायते -- इतेः परमितिपरं न इतिपरमनितिपरमिति, खाडिति कृत्वा निरष्ठीवदित्यत्र प्राप्नोति । अथ विज्ञायते -- इतिः परो यस्मात्तदितिपरं न इतिपरमनितिपरमिति, श्रौषड्वौषडिति कृत्वा निरष्ठीवदित्यत्र प्राप्नोति ।
<M.2.287>
अस्तु तावदितिः परो यस्मात्तदिदमितिपरम्, न इति परमनितिपरमिति । ननु चोक्तम् -- श्रौषड्वौषडिति कृत्वा निरष्ठीवदित्यत्र प्राप्नोतीति । नैष दोषः । इदं तावदयं प्रष्टव्यः -- अथेह ते प्राग्धातोः (1.4.80) इति कथं गतिमात्रस्य पूर्वप्रयोगो भवति -- उपोद्धरतीति ? गत्याकृतिः प्रतिनिर्दिश्यते । इहापि तर्ह्यनुकरणाऽऽकृतिः प्रतिनिर्दिश्यते ।
किमर्थमिदमुच्यते ?
अनुकरणस्येतिकरणपरत्वप्रतिषेधोऽनिष्टशब्दनिवृत्त्यर्थः ।। 1 ।।
अनुकरणस्येतिकरणपरत्वप्रतिषेध उच्यते । किं प्रयोजनम् ? अनिष्टशब्दनिवृत्त्यर्थः । अनिष्टशब्दता मा भूदिति । इदं विचारयिष्यते- प्राग्धातुवचनं प्रयोगनियमार्थं वा स्यात्संज्ञानियमार्थं वेति। । तद्यदा प्रयोगनियमार्थं तदाऽनिष्टशब्दनिवृत्त्यर्थमिदं वक्तव्यम् । यदा हि संज्ञानियमार्थं तदा न दोषो भवति ।। 61 ।।
-1-4-63- आदराऽनादरयोः सदसती
इदमतिबहु क्रियते-आदरे अनादरे सद् असदिति । आदरे सदित्येव सिद्धम् । कथमसत्कृत्येति ? तदन्तविधिना भविष्यति । केनेदानीमनादरे भविष्यति ?
<M.2.288>
नञाऽऽदरप्रतषेधं विज्ञास्यामः - न आदरेऽनादर इति ।
नैवं शक्यम् । आदरप्रसङ्गे एव हि स्यादनादरप्रसङ्गे न स्यात् । अनादरग्रहणे पुनः क्रियमाणे बहुव्रीहिरयं विज्ञायते-अवद्यमानादरेऽनादरे इति । तस्मादनादरग्रहणं कर्तव्यम्, असतस्तु तदन्तविधिना सिद्धम् ।। 63 ।।
-1-4-65- अन्तरपरिग्रहे
अन्तःशब्दस्याऽङि्कविधिसमासणत्वेषूपसंख्यानम् ।। 1 ।।
अन्तःशब्दस्याङ्किविधिसमासणत्वेषूपसंख्यानं कर्तव्यम् । अङ्-अन्तर्द्धा ।। किविधिः-अन्तर्द्धिः ।। समासः -- अन्तर्हत्य ।। णत्वम् -- अन्तर्हण्याद्गोभ्यो गाः ।। 65 ।।
-1-4-74- साक्षात्प्रभृतीनि च
साक्षात्प्रभृतिषु च्व्यर्थवचनम् ।। 1 ।।
साक्षात्प्रभृतिषु च्व्यर्थवचनं कर्तव्यम् । असाक्षात्साक्षात्कृत्वा साक्षात्कृत्य । यदा हि साक्षादेव सत्किंचित् क्रियते तदा मा भूदिति ।
मकारान्तत्वं च गतिसंज्ञासंनियुक्तम् ।। 2 ।।
मकारान्तत्वं च गतिसंज्ञासंनियोगेन वक्तव्यम् । लवणंकृत्य ।
<M.2.289>
तत्र च च्विप्रतिषेधः ।। 3 ।।
तत्र च च्व्यन्तस्य प्रतिषेधो वक्तव्यः । लवणीकृत्य ।
न वा पूर्वेण कृतत्वात् ।। 4 ।।
न वा वक्तव्यम् । किं कारणम् ? पूर्वेण कृतत्वात् । अस्त्वनेन विभाषा, पूर्वेण नित्या भविष्यति। ।
इदं तर्हि प्रयोजनम् -- मकारान्तत्वं च गतिसंज्ञासन्नियुक्तमित्युक्तं तच्च्व्यन्तस्य मा भूदिति । एतदपि नास्ति प्रयोजनम् । लवणशब्दस्याऽयं विभाषा लवणं शब्द आदेशः क्रियते । यदि च लवणीशब्दस्याऽपि विभाषा लवणंशब्द आदेशो भवति न किंचिद् दुष्यति । त्रैशब्द्यं चेह साध्यम्, तच्चैवं सति सिद्धं भवतीति ।। 74 ।।
-1-4-80- ते प्राग्धातोः
किमिदं प्राग्धातुवचनं प्रयोगनियमार्थम् - एते प्रागेव धातोः प्रयोक्तव्याः, आहोस्वित्संज्ञानियमार्थम् -- एते प्राक्चाऽप्राक्च प्रयोक्तव्याः, प्राक्प्रयुज्यमानानां गतिसंज्ञा भवतीति । कश्चाऽत्र विशेषः ?
प्राग्धातुवचनं प्रयोगनियमार्थमिति चेदनुकरणस्येतिकरण परप्रतिषेधोऽनिष्टशब्दनिवृत्त्यर्थः ।। 1 ।।
प्राग्धातुवचनं प्रयोगनियमार्थमिति चेदनुकरणस्येतिकरणपरप्रतिषेधो वक्तव्यः । किं प्रयोजनम् ? अनिष्टशब्दनिवृत्त्यर्थः । अनिष्टशब्दता मा भूदिति ।
छन्दसिपरव्यवहितवचनं च ।। 2 ।।
छन्दसि परेऽपि व्यवहिताश्च (1.4.81 ; 82) इति वक्तव्यम् ।
संज्ञानियमे सिद्धम् ।। 3 ।।
संज्ञानियमे सति सिद्धमेतद्भवति ।
<M.2.290>
अस्तु तर्हि संज्ञानियमः ।
उभयोरनर्थकं वचनमनिष्टाऽदर्शनात् ।। 4 ।।
उभयोरपि पक्षयोर्वचनमनर्थकम् । किं कारणम् ? अनिष्टाऽदर्शनात् । न हि कश्चित्प्रपचतीति प्रयोक्तव्ये पचति प्रेति प्रयुङ्क्ते । यदि चाऽनिष्टं दृश्येत, ततो यत्नार्हं स्यात् ।
उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् ।। 5 ।।
उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थमेतद्वक्तव्यम् -- ऋषभं कूलमुद्रुजम्, ऋषभं कूलमुद्वहम् । । अत्र गतेः प्राग्धातोः प्रयोगो यथा स्यात् ।
यद्युपसर्जनसन्निपाते पूर्वपरव्यवस्थार्थमिदमुच्यते, सुकटङ्कराणि वीरणानीत्यत्र गतेः प्राग्धातोः प्रयोगः प्राप्नोति । आचार्यप्रवृत्तिर्ज्ञापयति - नाऽत्र गतेः प्राक्प्रयोगो भवतीति। यदयम् इर्षद्दुःसुषु कृच्छ्राऽकृच्छ्रार्थेषु खलु (3.3.126) इति खकारमनुबन्धं करोति । कथं कृत्वा ज्ञापकम् ? खित्करणे एतत्प्रयोजनं खितीति मुम् यथा स्यादिति । यदि चाऽत्र गतेः प्राक्प्रयोगः स्यात्, खित्करणमनर्थकं स्यात् । अस्त्वत्र मुम् । अनव्ययस्येति प्रतिषेधो भविष्यति । पश्यति त्वाचार्यो नात्र गतेः प्राग्धातोः प्रयोगो भवतीति। ततः खकारमनुबन्धं करोति ।
नैतदस्ति ज्ञापकम् । यद्यत्र गतेः प्राक्प्रयोगः स्यात्। स्यादेवाऽत्र मुमागमः । कथम् ? कृदग्रहणे
गतिकारकपूर्वस्यापि ग्रहणं भवतीति । तस्मान्नार्थ एवमर्थेन प्राग्धातुवचनेन ।। कथम्-ऋषभं कूलमुद्रुजम्, ऋषभं कूलमुद्वहम् ? नैष दोषः । नैष उदिरुपपदम् । किं तर्हि ? विशेषणम् । उदि कूले रुजिवहोः (3.2.31) उत्पूर्वाभ्यां रुजिवहिभ्यां कूले उपपद इति ।। 80 ।।
-1-4-83- कर्मप्रवचनीयाः
किमर्थं महती संज्ञा क्रियते ? अन्वर्थसंज्ञा यथा विज्ञायेत-कर्म प्रोक्तवन्तः कर्मप्रवचनीया इति । के पुनः कर्म प्रोक्तवन्तः ? ये संप्रति क्रियां नाहुः । के च संप्रति क्रियां नाहुः ? येऽप्रयुज्यमानस्य क्रियामाहुस्ते कर्मप्रवचनीयाः ।। 83 ।।
-1-4-84- अनुर्लक्षणे
किमर्थमिदमुच्यते ? कर्मप्रवचनीयसंज्ञा यथा स्यात्, गत्युपसर्गसंज्ञे मा भूतामिति । किं च स्यात् ? शाकल्यस्य संहितामनु प्रावर्षत् -- गतिर्गतौ (8.1.70) इति निघातः प्रसज्येत ।
यद्येवं वेरपि कर्मप्रवचनीयसंज्ञा वक्तव्या । वेरपि निघातो नेष्यते-प्रादेशं विपरिलिखति । अस्त्यत्र विशेषः । नाऽत्र वेर्लिखिं प्रति क्रियायोगः । किं तर्हि ? अप्रयुज्यमानम्-प्रादेशं विमाय परिलिखतीति ।
यद्येवमनोरपि कर्मप्रवचनीयसंज्ञया नार्थः । अनोरपि हि न वृषिं प्रति क्रियायोगः । किं तर्हि ? अप्रयुज्यमानम् -- शाकल्येन सुकृतां संहितामनुनिशम्य देवः प्रावर्षत् । इदं तर्हि प्रयोजनं, द्वितीया यथा स्यात् -- कर्मप्रवचनीययुक्ते द्वितीया (2.3.8) इति ।। अत उत्तरं पठति --
अनुर्लक्षणेवचनानर्थक्यं सामान्यकृतत्वात् ।। 1 ।।
अनुर्लक्षणेवचनमनर्थकम् । किं कारणम् ? सामान्यकृतत्वात् । सामान्येनैवात्र कर्मप्रवचनीयसंज्ञा भविष्यति लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः ( 1.4.90) इति ।
हेत्वर्थं तु वचनम् ।। 2 ।।
हेत्वर्थमिदं वक्तव्यम् । हेतुः शाकल्यस्य संहिता वर्षस्य, न लक्षणम् । किं वक्तव्यमेतत् ? नहि कथमनुच्यमानं गंस्यते ? लक्षणं हि नाम स भवति येन पुनः पुनर्लक्ष्यते, न यः सकृदपि निमित्तत्वाय कल्पते । सकृच्चाऽसौ शाकल्येन सुकृतां संहितामनुनिशम्य देवः प्रावर्षत् ।
स तर्हि तथा निर्देशः कर्तव्योऽनुर्हेताविति ।। अथेदानीं लक्षणेन हेतुरपि व्याप्तो नार्थोऽनेन । लक्षणेन हेतुरपि व्याप्तः । न ह्यवश्यं तदेव लक्षणं भवत-येन पुनः पुनर्लक्ष्यते । किं तर्हि ? यत्सकृदपि निमित्तत्वाय कल्पते तदपि लक्षणं भवति । तद्यथा, -- अपि भवान्कमण्डलुपाणिं छात्रमद्राक्षीदिति । सकृदसौ कमण्डलुपाणिश्छात्रो दृष्टस्तस्य तदेव लक्षणं भवति ।
एतदेव तर्हि प्रयोजनम् -- द्वितीया यथा स्यात्, कर्मप्रवचनीययुक्ते द्वितीयेति । एतदपि नास्ति प्रयोजनम् । सिद्धाऽत्र द्वितीया कर्मप्रवचनीययुक्ते इत्येव । न सिध्यति । परत्वाद्धेत्वाश्रया तृतीया प्राप्नोति। ।। 84 ।।
-1-4-89- आङ् मर्यादावचने
आङ्मर्यादाऽभिव्रिध्योः।। 1 ।।
आङ्मर्यादाऽभिविध्योरिति वक्तव्यम् । इहापि यथा स्यात् -- आकुमारं यशः पाणिनेरिति ।। तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । मर्यादावचने इत्येव सिद्धम् । एषाऽस्य यशसो मर्यादा ।। 89 ।।
-1-4-90- लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः
कस्य लक्षणादयोऽर्था निर्दिश्यन्ते ? वृक्षादीनाम् ।। किमर्थं पुनरिदमुच्यते ? कर्मप्रवचनीयसंज्ञा यथा स्यात्, गत्युपसर्गसंज्ञे मा भूतामिति । नैतदस्ति प्रयोजनम् । यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो न च वृक्षादीन्प्रति क्रियायोगः ।
इदं तर्हि प्रयोजनम्, द्वितीया यथा स्यात् -- कर्मप्रवचनीययुक्ते द्वितीया (2.3.8) इति । वृक्षं प्रति विद्योतते वृक्षमनु विद्योतते इति ।। 90 ।।
-1-4-93- अधिपरी अनर्थकौ
किमर्थमधिपर्योरनर्थकयोः कर्मप्रवचनीयसंज्ञोच्यते ? कर्मप्रवचनीयसंज्ञा यथा स्यात्, गत्युपर्सगसंज्ञे मा
भूतामिति । नैतदस्ति प्रयोजनम् । यत्क्रियायुक्तौ तं प्रति गत्युपसर्गसंज्ञौ भवतः। अनर्थकौ चेमौ ।
इदं तर्हि प्रयोजनम्, पञ्चमी यथा स्यात् -- पञ्चम्यपाङ्परिभिः (2.3.10) इति, कुतः पर्यागम्यत इति ।
सिद्धं तु पञ्चम्यपादाने इत्येव । आतश्चापादानपञ्चम्येव, यत्राधिशब्देन योगे पञ्चमी न विधीयते तत्रापि श्रूयते -- कुतोऽध्यागम्यते इति ।
एवं तर्हि सिद्धे सति यदनर्थकयोरुपसर्गसंज्ञाबाधिकां कर्मप्रवचनीयसंज्ञां शास्ति तज्ज्ञापयत्याचार्योऽनर्थकानामप्येषां भवत्यर्थवृत्कृतमिति । किमेतस्य ज्ञापने प्रयोजनम् ? निपातस्याऽनर्थकस्य प्रातिपदिकत्वं चोदितं तन्न वक्तव्यं भवति ।
अथवा नेमावनर्थकौ । किं तर्ह्यनर्थकावित्युच्यते ? अनर्थान्तरवाचिनावनर्थकौ, धातुनोक्तां क्रियामाहतुः ।
तदविशिष्टं भवति, यथा शङ्खे पयः ।
यद्येवं धातुनोक्तत्वात्तस्यार्थस्योपसर्गप्रयोगो न प्राप्नोति -- उक्तार्थानाम प्रयोगः इति । उक्तार्थानामपि प्रयोगो दृश्यते । तद्यथा, -- अपूपौ द्वावानय, ब्राह्मणौ द्वावानयेति ।। 93 ।।
-1-4-96- अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु
इह कस्मान्न भवति -- सर्पिषोऽपि स्यात् गोमूत्रस्यापि स्यात्  ? किं च स्यात् । द्वितीया प्रसज्येत कर्मप्रवचनीययुक्ते द्वितीया इति। नैष दोषः । नेमेऽप्यर्था निर्दिश्यन्ते । किं तर्हि ? परपदार्था इमे निर्दिश्यन्ते -- एतेष्वर्थेषु यत्पदं वर्तते तत्प्रति अपिः कर्मप्रवचनीयसंज्ञो भवतीति ।
अथवा यदत्र कर्मप्रवचनीययुक्तं नाऽदः प्रयुज्यते । किं पुनस्तत् ? बिन्दुः । बिन्दोस्तर्हि कस्मान्न भवति ? उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यतीति ।। 96 ।।
-1-4-96- अधिरीश्वरे
अधिरीश्वरवचने उक्तम् ।। 1 ।।
किमुक्तम् ? यस्य चेश्वरवचनमिति कर्तृनिर्देशश्चेदवचनात्सिद्धम् । प्रथमानुपपत्तिस्तु । स्ववचनात्सिद्धमिति। । अधिः स्वं प्रति कर्मप्रवचनीयसंज्ञो भवतीति वक्तव्यम् ।। 96 ।।
-1-4-99- लः परस्मैपदम्
लादेशे परस्मैपदग्रहणं पुरुषबाधितत्वात् दिह वचने हि संज्ञाबाधनम् ।। 1 ।।
लादेशे परस्मैपदग्रहणं कर्तव्यम् । किं कारणम् ? पुरुषबाधितत्वात् । इह वचने हि संज्ञाबाधनम् ।
इह हि क्रियमाणेऽनवकाशा पुरुषसंज्ञा परस्मैपदसंज्ञां बाधेत ।
परस्मैपदसंज्ञाऽप्यनवकाशा, सा वचनाद्भविष्यति । सावकाशा परस्मैपदसंज्ञा । कोऽवकाशः ? शतृक्वसू। अवकाशः ।
सिचि वृद्धौ तु परस्मैपदग्रहणं ज्ञापकं पुरुषाऽबाधकत्वस्य ।। 3 ।।
यदयं सिचिवृद्धिः परस्मैपदेषु (7.2.1) इति परस्मैपदग्रहणं करोति तज्ज्ञापयत्याचार्यः न पुरुषसंज्ञा परस्मैपदसंज्ञां बाधते इति ।। 99 ।।
-1-4-101- तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः
प्रथममध्यमोत्तमसंज्ञायामात्मनेपदग्रहणं समसंख्यार्थम् ।। 1 ।।
प्रथममध्यमोत्तमसंज्ञायामात्मनेपदग्रहणं कर्तव्यम् । आत्मनेपदानां च प्रथममध्यमोत्तमसंज्ञा भवन्तीति वक्तव्यम् । किं प्रयोजनम् ? समसंख्यार्थम् । संख्यातानुदेशो यथा स्यात् । अक्रियमाणे ह्यात्मनेपदग्रहणे तिस्रः संज्ञाः, षट् संज्ञिनः, वैषम्यात्संख्यातानुदेशो न स्यात्।। क्रियमाणेऽपि चात्मनेपदग्रहणे --
आनुपूर्व्यवचनं च ।। 2 ।।
आनुपूर्व्यवचनं च कर्तव्यम् । अक्रियमाणे हि कस्यचिदेव त्रिकस्य-प्रथमसंज्ञा स्यात्, कस्यचिदेव मध्यमसंज्ञा, कस्यचिदेवोत्तमसंज्ञा ।
न वैकशेषर्निर्देशात् ।। 3 ।।
यत्तावदुच्यते-आत्मनेपदग्रहणं कर्तव्यं समसंख्यार्थमिति, तन्न कर्तव्यम् । संज्ञा अपि षडेव निर्दिश्यन्ते ।
कथम् ? एकशेषनिर्देशात् । एकशेषनिर्देशोऽयम् ।। अथैतस्मिन्नेकशेषनिर्देशे सति किमयं कृतैकशेषाणां द्वन्द्वः-प्रथमश्च प्रथमश्च प्रथमौ। मध्यमश्च मध्यमश्च मध्यमौ, उत्तमश्चोत्तमश्चोत्तमौ । प्रथमौ च मध्यमौ चोत्तमौ च प्रथममध्यमोत्तमा इति । आहोस्वित्कृतद्वन्द्वानामेकशेषः प्रथमश्च मध्यमश्चोत्तमश्च प्रथममध्यमोत्तमाः, प्रथममध्यमोत्तमाश्च प्रथममध्यमोत्तमाश्च -- प्रथममध्यमोत्तमा इति। किं चातः ? यदि कृतैकशेषाणां द्वन्द्वः, प्रथममध्यमयोः प्रथमसंज्ञा प्राप्नोति। उत्तमप्रथमयोर्मध्यमसंज्ञा प्राप्नोति। मध्यमोत्तमयोरुत्तमसंज्ञा प्राप्नोति । अथ कृतद्वन्द्वानामेकशेषः न दोषो भवति । यथा न दोषस्तथास्तु ।
किं पुनरत्र न्याय्यम् ? उभयमित्याह । उभयं हि दृश्यते । तद्यथा, -- बहु शक्तिकिटकम्, बहूनि शक्तिकिटकानि । बहुस्थालीपिठरम्, बहूनि स्थालीपिठराणि ।
यदुप्युच्यते -- क्रियमाणेऽप्यात्मनेपदग्रहणे आनुपूर्व्यवचनं कर्तव्यमिति । न कर्तव्यम् । लोकत एतत्सिद्धम् । तद्यथा, -- लोके विहव्यस्य द्वाभ्यां द्वाभ्यामग्निरुपस्थेय इति। न चोच्यते-आनुपूर्व्येणेति, आनुपूर्व्येण चोपस्थीयत इति ।। 101 ।।
-1-4-104- विभक्तिश्च
त्रीणि त्रीणीत्यनुवर्तते।, उताहो न ? किं चातः ? यद्यनुवर्त्तते, -- - अष्टन आ विभक्तौ (7.2.84) इत्यात्वं न प्राप्नोति । अथ निवृत्तं, प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यत्र प्रत्यययोरेव ग्रहणं प्राप्नोति । यथेच्छसि तथास्तु ।। अस्तु तावदनुवर्तत इति । ननु चोक्तम् अष्टन आ विभक्तावित्यात्वं न प्राप्नोतीति । वचनाद्भविष्यति ।
अथवा पुनरस्तु -- निवृत्तम् । ननु चोक्तं प्रथमयोः पूर्वसवर्णः इत्यत्र प्रत्ययोरेव ग्रहणं प्राप्नोतीति । नैष दोषः । अचीत्यनुवर्तते न चाऽजादी प्रथमौ प्रत्ययौ स्तः । ननु चैवं विज्ञायते -- अजादी यौ प्रथमौ, अजादीनां वा यौ प्रथमाविति । यत्तर्हि तस्माच्छसो नः पुंसि (6.1.103) इत्यनुक्रान्तं पूर्वसवर्णं प्रतिनिर्दिशति तज्ज्ञापयत्याचार्यः विभक्त्योर्ग्रहणमिति ।
अथवा वचनग्रहणमेव कुर्याद् -- औजसोः पूर्वसवर्णः इति ।। 104 ।।
-1-4-105- युस्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः
किमर्थमिदमुच्यते ?
युष्मदस्मच्छेषवचनं नियमार्थम् ।। 1 ।।
नियमार्थोऽयमारम्भः ।। अथैतस्मिन्नियमार्थे विज्ञायमाने किमयमुपपदनियमः-युष्मदि मध्यम एव, अस्मद्युत्तम एव । आहोस्वित्पुरुषनियमः -- युष्मद्येव मध्यमः, अस्मद्येवोत्तम इति ? किं चातः ? यदि पुरुषनियमः शेषग्रहणं कर्तव्यं शेषे प्रथमः इति । किं कारणम् ? मध्यमोत्तमौ नियतौ, युष्मदस्मदी अनियते, तत्र प्रथमोऽपि प्राप्नोति । तत्र शेषग्रहणं कर्तव्यं प्रथमनियमार्थम्-शेष एव प्रथमो भवति नान्यत्रेति । अथाप्युपपदनियमः, एवमपि शेषग्रहणं कर्तव्यं शेषे प्रथमः इति । युष्मदस्मदी नियते, मध्यमोत्तमावनियतौ, तौ शेषेऽपि प्राप्नुतः । तत्र शेषग्रहणं कर्तव्यं शेषनियमार्थं -- शेषे प्रथम एव भवति नान्य इति ।
उपपदनियमे शेषग्रहणं शक्यमकर्तुम् । कथम् ? युष्मदस्मदी नियते, मध्यमोत्तमावनियतौ, तौ शेषेऽपि प्राप्नुतः । ततो वक्ष्यामि प्रथमो भवतीति । तन्नियमार्थं भविष्यति -- यत्र प्रथमश्चाऽन्यश्च प्राप्नोति तत्र प्रथम एव भवतीति ।
तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधः शेषत्वात् ।। 2 ।।
तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधो वक्तव्यः । त्वं च देवदत्तश्च पचथः । अहं च देवदत्तश्च पचावः किं कारणम् ? शेषत्वात् । शेषे प्रथमः इति प्रथमः प्राप्नोति ।
सिद्धं तु युष्मदस्मदोः प्रतिषेधात् ।। 3 ।।
सिद्धमेतत् । कथम् ? युष्मदस्मदोः प्रतिषेधात् । शेषे प्रथमः युष्मदस्मदोर्नेति वक्तव्यम् ।
युष्मदि मध्यमादस्मद्युत्तमो विप्रतिषेधेन ।। 4 ।।
युष्मदि मध्यमादस्मद्युत्तम इत्येतद्भवति विप्रतिषेधेन । युष्मदि मध्यम इत्यस्यावकाशः -- त्वं पचसि । अस्मद्युत्तम इत्यस्यावकाशः -- अहं पचामि । इहोभयं प्राप्नोति -- त्वं चाहं च पचावः । अस्मद्युत्तमः इत्येतद्भवति विप्रतिषेधेन ।
स तर्हि विप्रतिषेधो वक्तव्यः ? न वक्तव्यः । त्यदादीनां यद्यत्परं तत्तच्छिष्यते इत्येवमस्मदः शेषो भविष्यति । तत्राऽस्मद्युत्तमः इत्येव सिद्धम् ।
अनेकशेषभावार्थं तु ।। 5 ।।
अनेकशेषभावार्थं तु स विप्रतिषेधो वक्तव्यः। यदा चैकशेषो न । कदा चैकशेषो न ? सहविवक्षायामेकशेषः, यदा न सहविवक्षा तदैकशेषो नास्ति ।
न वा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेधः ।। 6 ।।
न वाऽर्थो विप्रतिषेधेन । किं कारणम् ? युष्मदस्मदोरनेकशेषभावात् तदधिकरणानामपि -- युष्मदस्मदधिकरणानामप्येकशेषेण न भवितव्यम् । त्वं चाहं च पचसि च पचामि चेति ।
क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्राऽनेकशेषभावस्य ।। 7 ।।
क्रियापृथक्त्वे च द्रव्यपृथक्त्वं दृश्यते । तद्यथा, -- पचसि पचामि च त्वं चाहं चेति । तदनुमानमुत्तरयोरपि क्रिययोरेकशेषो न भवतीति । एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तं तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति । तत्रापि ह्येवं भवितव्यम् -- त्वं च देवदत्तश्च पचसि पचति च । अहं च देवदत्तश्च पचामि पचति चेति ।
यत्तावदुच्यते -- न वा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेध इति, दृश्यते हि युष्मदस्मदोश्चाऽनेकशेषस्तदधिकरणानां चैकशेषः । तद्यथा, -- त्वं चाहं च वृत्रहन्नुभौ संप्रयुज्यावहा इति ।
यदप्युच्यते -- क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्राऽनेकशेषभावस्येति, क्रियापृथक्त्वे स्वल्वपि द्रव्यैकशेषो भवतीति दृश्यते । तद्यथा, -- अक्षाः भज्यन्तां दीव्यन्तामिति । एवं च कृत्वा सोऽपि दोषो भवति यदुक्तं -- तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति ।
नैष दोषः । परिहृतमेतत् सिद्धं तु युष्मदस्मदोः प्रतिषेधादिति ।
स तर्हि प्रतिषेधो वक्तव्यः ? न वक्तव्यः । शेषे प्रथमो विधीयते, न हि शेषश्चाऽन्यश्च शेषग्रहणेन गृह्यते । भवेत्, प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावुच्येते, न च युष्मदस्मदी अन्यश्च युष्मदस्मद्ग्रहणेन गृह्यते । यदत्र युष्मद्यच्चाऽस्मत्तदाश्रयौ मध्यमोत्तमौ भविष्यतः । यथैव तर्हि यदत्र युष्मद्यच्चाऽस्मत्तदाश्रयौ मध्यमोत्तमौ भवतः, एवं योऽत्र शेषस्तदाश्रयः प्रथमः प्राप्नोति ।
एवं तर्हि शेष उपपदे प्रथमो विधीयते । उपोच्चारि पदमुपपदम् । यच्चाऽत्रोपोच्चारि, न स शेषः, यश्च शेषः, न तदुपोच्चारि । भवेत् प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावुच्येते । उपोच्चारि पदमुपपदम्, यच्चाऽत्रोपोच्चारि, न ते युष्मदस्मदी, ये च युष्मदस्मदी, न तदुपोच्चारि ।
एवं तर्हि शेषेण सामानाधिकरण्ये प्रथमो विधीयते, न चाऽत्र शेषेणैव सामानाधिकरण्यम् । भवेत् प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मद्भ्यां सामानाधिकरण्ये मध्यमोत्तमावुच्येते, न चाऽत्र युष्मदस्मद्भ्यामेव सामानाधिकरण्यम् ।
एवं तर्हि त्यदादीनि सर्वैनित्यम् (1.2.72) इत्येवमत्र युष्मदस्मदोः शेषो भविष्यति । तत्र युष्मदि मध्यमोऽस्मद्युत्तम इत्येव सिद्धम् ।
न सिध्यति । स्थानिन्यपीति प्रथमः प्राप्नोति ।। त्यदादीनां खल्वपि यद्यत्परं तत्तच्छिष्यते इति यदा भवतः शेषस्तदाश्रयः प्रथमः प्राप्नोति ।
युष्मदि मध्यमोऽस्मद्युत्तम इत्येवोच्यते । ताविह न प्राप्नुतः -- परमत्वं पचसि, परमाऽहं पचामीति । तदन्तविधिना। भविष्यति । इहापि तर्हि तदन्तविधिना प्राप्नुतः -- अतित्वं पचति, अत्यहं पचतीति । ये चाऽप्येते
समानाधिकरणवृत्तयस्तद्धित्तास्तत्र च मध्यमोत्तमौ न प्राप्नुतः -- त्वत्तरः पचसि, मत्तरः पचामीति । त्वद्रूपः पचसि, मद्रूपः पचामीति । त्वत्कल्पः पचसि, मत्कल्पः पचामीति ।। एवं तर्हि युष्मदस्मद्वतीत्येवं भविष्यति । इहापि तर्हि प्राप्नुतः-अतित्वं पचति, अत्यहं पचतीति ।
एवं तर्हि युष्मदि साधने अस्मदि साधने इत्येवं भविष्यति । एवं च कृत्वा सोऽप्यदोषो भवति, यदुक्तं -- -तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति ।। अथवा प्रथमः उत्सर्गः करिष्यते।तस्य युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावपवादौ भविष्यतः । तत्र युष्मद्गन्धश्चाऽस्माद्गन्धश्चास्तीति कृत्वा मध्यमोत्तमौ भविष्यतः ।
अथेह कथं भवितव्यम् -- अत्वं त्वं संपद्यते इति त्वद्भवति मद्भवतीति। आहोस्वित्त्वद्भवसि मद्भवामीति ? त्वद्भवति मद्भवतीत्येवं भवितव्यम् । मध्यमोत्तमौ कस्मान्न भवतः ? गौणमुख्ययोर्मुख्ये संप्रत्ययो भवति । तद्यथा, -- गौरनुबन्ध्योऽजोऽग्नीषोमीयः इति न वाहीकोऽनुबध्यते । कथं तर्हि वाहीके वृद्ध्यात्वे भवतः -- गौर्वाहीकस्तष्ठति गामानयेति ? अर्थाश्रय एतदेवं भवति । यद्धि शब्दाश्रयं शब्दमात्रे तद्भवति । शब्दाश्रये च वृद्ध्यात्वे ।। 104-106-107 ।।
-1-4-107- अस्मद्युत्तमः
किमर्थमिदमुच्यते ?
युष्मदस्मच्छेषवचनं नियमार्थम् ।। 1 ।।
नियमार्थोऽयमारम्भः ।। अथैतस्मिन्नियमार्थे विज्ञायमाने किमयमुपपदनियमः-युष्मदि मध्यम एव, अस्मद्युत्तम एव । आहोस्वित्पुरुषनियमः -- युष्मद्येव मध्यमः, अस्मद्येवोत्तम इति ? किं चातः ? यदि पुरुषनियमः शेषग्रहणं कर्तव्यं शेषे प्रथमः इति । किं कारणम् ? मध्यमोत्तमौ नियतौ, युष्मदस्मदी अनियते, तत्र प्रथमोऽपि प्राप्नोति । तत्र शेषग्रहणं कर्तव्यं प्रथमनियमार्थम्-शेष एव प्रथमो भवति नान्यत्रेति । अथाप्युपपदनियमः, एवमपि शेषग्रहणं कर्तव्यं शेषे प्रथमः इति । युष्मदस्मदी नियते, मध्यमोत्तमावनियतौ, तौ शेषेऽपि प्राप्नुतः । तत्र शेषग्रहणं कर्तव्यं शेषनियमार्थं -- शेषे प्रथम एव भवति नान्य इति ।
उपपदनियमे शेषग्रहणं शक्यमकर्तुम् । कथम् ? युष्मदस्मदी नियते, मध्यमोत्तमावनियतौ, तौ शेषेऽपि प्राप्नुतः । ततो वक्ष्यामि प्रथमो भवतीति । तन्नियमार्थं भविष्यति -- यत्र प्रथमश्चाऽन्यश्च प्राप्नोति तत्र प्रथम एव भवतीति ।
तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधः शेषत्वात् ।। 2 ।।
तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधो वक्तव्यः । त्वं च देवदत्तश्च पचथः । अहं च देवदत्तश्च पचावः किं कारणम् ? शेषत्वात् । शेषे प्रथमः इति प्रथमः प्राप्नोति ।
सिद्धं तु युष्मदस्मदोः प्रतिषेधात् ।। 3 ।।
सिद्धमेतत् । कथम् ? युष्मदस्मदोः प्रतिषेधात् । शेषे प्रथमः युष्मदस्मदोर्नेति वक्तव्यम् ।
युष्मदि मध्यमादस्मद्युत्तमो विप्रतिषेधेन ।। 4 ।।
युष्मदि मध्यमादस्मद्युत्तम इत्येतद्भवति विप्रतिषेधेन । युष्मदि मध्यम इत्यस्यावकाशः -- त्वं पचसि । अस्मद्युत्तम इत्यस्यावकाशः -- अहं पचामि । इहोभयं प्राप्नोति -- त्वं चाहं च पचावः । अस्मद्युत्तमः इत्येतद्भवति विप्रतिषेधेन ।
स तर्हि विप्रतिषेधो वक्तव्यः ? न वक्तव्यः । त्यदादीनां यद्यत्परं तत्तच्छिष्यते इत्येवमस्मदः शेषो भविष्यति । तत्राऽस्मद्युत्तमः इत्येव सिद्धम् ।
अनेकशेषभावार्थं तु ।। 5 ।।
अनेकशेषभावार्थं तु स विप्रतिषेधो वक्तव्यः। यदा चैकशेषो न । कदा चैकशेषो न ? सहविवक्षायामेकशेषः, यदा न सहविवक्षा तदैकशेषो नास्ति ।
न वा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेधः ।। 6 ।।
न वाऽर्थो विप्रतिषेधेन । किं कारणम् ? युष्मदस्मदोरनेकशेषभावात् तदधिकरणानामपि -- युष्मदस्मदधिकरणानामप्येकशेषेण न भवितव्यम् । त्वं चाहं च पचसि च पचामि चेति ।
क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्राऽनेकशेषभावस्य ।। 7 ।।
क्रियापृथक्त्वे च द्रव्यपृथक्त्वं दृश्यते । तद्यथा, -- पचसि पचामि च त्वं चाहं चेति । तदनुमानमुत्तरयोरपि क्रिययोरेकशेषो न भवतीति । एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तं तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति । तत्रापि ह्येवं भवितव्यम् -- त्वं च देवदत्तश्च पचसि पचति च । अहं च देवदत्तश्च पचामि पचति चेति ।
यत्तावदुच्यते -- न वा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेध इति, दृश्यते हि युष्मदस्मदोश्चाऽनेकशेषस्तदधिकरणानां चैकशेषः । तद्यथा, -- त्वं चाहं च वृत्रहन्नुभौ संप्रयुज्यावहा इति ।
यदप्युच्यते -- क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्राऽनेकशेषभावस्येति, क्रियापृथक्त्वे स्वल्वपि द्रव्यैकशेषो भवतीति दृश्यते । तद्यथा, -- अक्षाः भज्यन्तां दीव्यन्तामिति । एवं च कृत्वा सोऽपि दोषो भवति यदुक्तं -- तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति ।
नैष दोषः । परिहृतमेतत् सिद्धं तु युष्मदस्मदोः प्रतिषेधादिति ।
स तर्हि प्रतिषेधो वक्तव्यः ? न वक्तव्यः । शेषे प्रथमो विधीयते, न हि शेषश्चाऽन्यश्च शेषग्रहणेन गृह्यते । भवेत्,
प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावुच्येते, न च युष्मदस्मदी अन्यश्च युष्मदस्मद्ग्रहणेन गृह्यते । यदत्र युष्मद्यच्चाऽस्मत्तदाश्रयौ मध्यमोत्तमौ भविष्यतः । यथैव तर्हि यदत्र युष्मद्यच्चाऽस्मत्तदाश्रयौ मध्यमोत्तमौ भवतः, एवं योऽत्र शेषस्तदाश्रयः प्रथमः प्राप्नोति ।
एवं तर्हि शेष उपपदे प्रथमो विधीयते । उपोच्चारि पदमुपपदम् । यच्चाऽत्रोपोच्चारि, न स शेषः, यश्च शेषः, न तदुपोच्चारि । भवेत् प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावुच्येते । उपोच्चारि पदमुपपदम्, यच्चाऽत्रोपोच्चारि, न ते युष्मदस्मदी, ये च युष्मदस्मदी, न तदुपोच्चारि ।
एवं तर्हि शेषेण सामानाधिकरण्ये प्रथमो विधीयते, न चाऽत्र शेषेणैव सामानाधिकरण्यम् । भवेत् प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मद्भ्यां सामानाधिकरण्ये मध्यमोत्तमावुच्येते, न चाऽत्र युष्मदस्मद्भ्यामेव सामानाधिकरण्यम् ।
एवं तर्हि त्यदादीनि सर्वैनित्यम् (1.2.72) इत्येवमत्र युष्मदस्मदोः शेषो भविष्यति । तत्र युष्मदि मध्यमोऽस्मद्युत्तम इत्येव सिद्धम् ।
न सिध्यति । स्थानिन्यपीति प्रथमः प्राप्नोति ।। त्यदादीनां खल्वपि यद्यत्परं तत्तच्छिष्यते इति यदा भवतः शेषस्तदाश्रयः प्रथमः प्राप्नोति ।
युष्मदि मध्यमोऽस्मद्युत्तम इत्येवोच्यते । ताविह न प्राप्नुतः -- परमत्वं पचसि, परमाऽहं पचामीति । तदन्तविधिना। भविष्यति । इहापि तर्हि तदन्तविधिना प्राप्नुतः -- अतित्वं पचति, अत्यहं पचतीति । ये चाऽप्येते
समानाधिकरणवृत्तयस्तद्धित्तास्तत्र च मध्यमोत्तमौ न प्राप्नुतः -- त्वत्तरः पचसि, मत्तरः पचामीति । त्वद्रूपः पचसि, मद्रूपः पचामीति । त्वत्कल्पः पचसि, मत्कल्पः पचामीति ।। एवं तर्हि युष्मदस्मद्वतीत्येवं भविष्यति । इहापि तर्हि प्राप्नुतः-अतित्वं पचति, अत्यहं पचतीति ।
एवं तर्हि युष्मदि साधने अस्मदि साधने इत्येवं भविष्यति । एवं च कृत्वा सोऽप्यदोषो भवति, यदुक्तं -- -तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति ।। अथवा प्रथमः उत्सर्गः करिष्यते।तस्य युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावपवादौ भविष्यतः । तत्र युष्मद्गन्धश्चाऽस्माद्गन्धश्चास्तीति कृत्वा मध्यमोत्तमौ भविष्यतः ।
अथेह कथं भवितव्यम् -- अत्वं त्वं संपद्यते इति त्वद्भवति मद्भवतीति। आहोस्वित्त्वद्भवसि मद्भवामीति ? त्वद्भवति मद्भवतीत्येवं भवितव्यम् । मध्यमोत्तमौ कस्मान्न भवतः ? गौणमुख्ययोर्मुख्ये संप्रत्ययो भवति । तद्यथा, -- गौरनुबन्ध्योऽजोऽग्नीषोमीयः इति न वाहीकोऽनुबध्यते । कथं तर्हि वाहीके वृद्ध्यात्वे भवतः -- गौर्वाहीकस्तष्ठति गामानयेति ? अर्थाश्रय एतदेवं भवति । यद्धि शब्दाश्रयं शब्दमात्रे तद्भवति । शब्दाश्रये च वृद्ध्यात्वे ।। 104-106-107 ।।
-1-4-108- शेषे प्रथमः
किमर्थमिदमुच्यते ?
युष्मदस्मच्छेषवचनं नियमार्थम् ।। 1 ।।
नियमार्थोऽयमारम्भः ।। अथैतस्मिन्नियमार्थे विज्ञायमाने किमयमुपपदनियमः-युष्मदि मध्यम एव, अस्मद्युत्तम एव । आहोस्वित्पुरुषनियमः -- युष्मद्येव मध्यमः, अस्मद्येवोत्तम इति ? किं चातः ? यदि पुरुषनियमः शेषग्रहणं कर्तव्यं शेषे प्रथमः इति । किं कारणम् ? मध्यमोत्तमौ नियतौ, युष्मदस्मदी अनियते, तत्र प्रथमोऽपि प्राप्नोति । तत्र शेषग्रहणं कर्तव्यं प्रथमनियमार्थम्-शेष एव प्रथमो भवति नान्यत्रेति । अथाप्युपपदनियमः, एवमपि शेषग्रहणं कर्तव्यं शेषे प्रथमः इति । युष्मदस्मदी नियते, मध्यमोत्तमावनियतौ, तौ शेषेऽपि प्राप्नुतः । तत्र शेषग्रहणं कर्तव्यं शेषनियमार्थं -- शेषे प्रथम एव भवति नान्य इति ।
उपपदनियमे शेषग्रहणं शक्यमकर्तुम् । कथम् ? युष्मदस्मदी नियते, मध्यमोत्तमावनियतौ, तौ शेषेऽपि प्राप्नुतः । ततो वक्ष्यामि प्रथमो भवतीति । तन्नियमार्थं भविष्यति -- यत्र प्रथमश्चाऽन्यश्च प्राप्नोति तत्र प्रथम एव भवतीति ।
तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधः शेषत्वात् ।। 2 ।।
तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधो वक्तव्यः । त्वं च देवदत्तश्च पचथः । अहं च देवदत्तश्च पचावः किं कारणम् ? शेषत्वात् । शेषे प्रथमः इति प्रथमः प्राप्नोति ।
सिद्धं तु युष्मदस्मदोः प्रतिषेधात् ।। 3 ।।
सिद्धमेतत् । कथम् ? युष्मदस्मदोः प्रतिषेधात् । शेषे प्रथमः युष्मदस्मदोर्नेति वक्तव्यम् ।
युष्मदि मध्यमादस्मद्युत्तमो विप्रतिषेधेन ।। 4 ।।
युष्मदि मध्यमादस्मद्युत्तम इत्येतद्भवति विप्रतिषेधेन । युष्मदि मध्यम इत्यस्यावकाशः -- त्वं पचसि । अस्मद्युत्तम इत्यस्यावकाशः -- अहं पचामि । इहोभयं प्राप्नोति -- त्वं चाहं च पचावः । अस्मद्युत्तमः इत्येतद्भवति विप्रतिषेधेन ।
स तर्हि विप्रतिषेधो वक्तव्यः ? न वक्तव्यः । त्यदादीनां यद्यत्परं तत्तच्छिष्यते इत्येवमस्मदः शेषो भविष्यति । तत्राऽस्मद्युत्तमः इत्येव सिद्धम् ।
अनेकशेषभावार्थं तु ।। 5 ।।
अनेकशेषभावार्थं तु स विप्रतिषेधो वक्तव्यः। यदा चैकशेषो न । कदा चैकशेषो न ? सहविवक्षायामेकशेषः, यदा न सहविवक्षा तदैकशेषो नास्ति ।
न वा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेधः ।। 6 ।।
न वाऽर्थो विप्रतिषेधेन । किं कारणम् ? युष्मदस्मदोरनेकशेषभावात् तदधिकरणानामपि -- युष्मदस्मदधिकरणानामप्येकशेषेण न भवितव्यम् । त्वं चाहं च पचसि च पचामि चेति ।
क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्राऽनेकशेषभावस्य ।। 7 ।।
क्रियापृथक्त्वे च द्रव्यपृथक्त्वं दृश्यते । तद्यथा, -- पचसि पचामि च त्वं चाहं चेति । तदनुमानमुत्तरयोरपि क्रिययोरेकशेषो न भवतीति । एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तं तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति । तत्रापि ह्येवं भवितव्यम् -- त्वं च देवदत्तश्च पचसि पचति च । अहं च देवदत्तश्च पचामि पचति चेति ।
यत्तावदुच्यते -- न वा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेध इति, दृश्यते हि युष्मदस्मदोश्चाऽनेकशेषस्तदधिकरणानां चैकशेषः । तद्यथा, -- त्वं चाहं च वृत्रहन्नुभौ संप्रयुज्यावहा इति ।
यदप्युच्यते -- क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्राऽनेकशेषभावस्येति, क्रियापृथक्त्वे स्वल्वपि द्रव्यैकशेषो भवतीति दृश्यते । तद्यथा, -- अक्षाः भज्यन्तां दीव्यन्तामिति । एवं च कृत्वा सोऽपि दोषो भवति यदुक्तं -- तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति ।
नैष दोषः । परिहृतमेतत् सिद्धं तु युष्मदस्मदोः प्रतिषेधादिति ।
स तर्हि प्रतिषेधो वक्तव्यः ? न वक्तव्यः । शेषे प्रथमो विधीयते, न हि शेषश्चाऽन्यश्च शेषग्रहणेन गृह्यते । भवेत्, प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावुच्येते, न च युष्मदस्मदी अन्यश्च युष्मदस्मद्ग्रहणेन गृह्यते । यदत्र युष्मद्यच्चाऽस्मत्तदाश्रयौ मध्यमोत्तमौ भविष्यतः । यथैव तर्हि यदत्र युष्मद्यच्चाऽस्मत्तदाश्रयौ मध्यमोत्तमौ भवतः, एवं योऽत्र शेषस्तदाश्रयः प्रथमः प्राप्नोति ।
एवं तर्हि शेष उपपदे प्रथमो विधीयते । उपोच्चारि पदमुपपदम् । यच्चाऽत्रोपोच्चारि, न स शेषः, यश्च शेषः, न तदुपोच्चारि । भवेत् प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावुच्येते । उपोच्चारि पदमुपपदम्, यच्चाऽत्रोपोच्चारि, न ते युष्मदस्मदी, ये च युष्मदस्मदी, न तदुपोच्चारि ।
एवं तर्हि शेषेण सामानाधिकरण्ये प्रथमो विधीयते, न चाऽत्र शेषेणैव सामानाधिकरण्यम् । भवेत् प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मद्भ्यां सामानाधिकरण्ये मध्यमोत्तमावुच्येते, न चाऽत्र युष्मदस्मद्भ्यामेव सामानाधिकरण्यम् ।
एवं तर्हि त्यदादीनि सर्वैनित्यम् (1.2.72) इत्येवमत्र युष्मदस्मदोः शेषो भविष्यति । तत्र युष्मदि मध्यमोऽस्मद्युत्तम इत्येव सिद्धम् ।
न सिध्यति । स्थानिन्यपीति प्रथमः प्राप्नोति ।। त्यदादीनां खल्वपि यद्यत्परं तत्तच्छिष्यते इति यदा भवतः शेषस्तदाश्रयः प्रथमः प्राप्नोति ।
युष्मदि मध्यमोऽस्मद्युत्तम इत्येवोच्यते । ताविह न प्राप्नुतः -- परमत्वं पचसि, परमाऽहं पचामीति । तदन्तविधिना। भविष्यति । इहापि तर्हि तदन्तविधिना प्राप्नुतः -- अतित्वं पचति, अत्यहं पचतीति । ये चाऽप्येते
समानाधिकरणवृत्तयस्तद्धित्तास्तत्र च मध्यमोत्तमौ न प्राप्नुतः -- त्वत्तरः पचसि, मत्तरः पचामीति । त्वद्रूपः पचसि, मद्रूपः पचामीति । त्वत्कल्पः पचसि, मत्कल्पः पचामीति ।। एवं तर्हि युष्मदस्मद्वतीत्येवं भविष्यति । इहापि तर्हि प्राप्नुतः-अतित्वं पचति, अत्यहं पचतीति ।
एवं तर्हि युष्मदि साधने अस्मदि साधने इत्येवं भविष्यति । एवं च कृत्वा सोऽप्यदोषो भवति, यदुक्तं -- -तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति ।। अथवा प्रथमः उत्सर्गः करिष्यते।तस्य युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावपवादौ भविष्यतः । तत्र युष्मद्गन्धश्चाऽस्माद्गन्धश्चास्तीति कृत्वा मध्यमोत्तमौ भविष्यतः ।
अथेह कथं भवितव्यम् -- अत्वं त्वं संपद्यते इति त्वद्भवति मद्भवतीति। आहोस्वित्त्वद्भवसि मद्भवामीति ? त्वद्भवति मद्भवतीत्येवं भवितव्यम् । मध्यमोत्तमौ कस्मान्न भवतः ? गौणमुख्ययोर्मुख्ये संप्रत्ययो भवति । तद्यथा, -- गौरनुबन्ध्योऽजोऽग्नीषोमीयः इति न वाहीकोऽनुबध्यते । कथं तर्हि वाहीके वृद्ध्यात्वे भवतः -- गौर्वाहीकस्तष्ठति गामानयेति ? अर्थाश्रय एतदेवं भवति । यद्धि शब्दाश्रयं शब्दमात्रे तद्भवति । शब्दाश्रये च वृद्ध्यात्वे ।। 104-106-107 ।।
-1-4-109- परः संनिकर्षः संहिता
परः संनिकर्षः संहिता चेदद्रुतायामसंहितम् ।। 1 ।।
परः संनिकर्षः संहिता चेदद्रुतायां वृत्तौ संहितासंज्ञां न प्राप्नोति । द्रुतायामेव हि परः सन्निकर्षो वर्णानां, नाऽद्रुतायाम् ।
तुल्यः संन्निकर्षः ।। 2 ।।
तुल्यः संन्निकर्षो वर्णानां द्रुतमध्यमविलम्बितासु वृत्तिषु ।। किंकृतस्तर्हि विशेषः ?
वर्णकालभूयस्त्वं तु ।। 3 ।।
वर्णानां तु कालभूयस्त्वम् । तद्यथा, -- हस्तिमशकयोस्तुल्यः सन्निकर्षः , प्राणिभूयस्त्वं तु ।। यद्येवम् --
द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं काल भेदात् ।। 4 ।।
द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कर्तव्यम् । किं कारणम् ? कालभेदात् । ये द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायाम्, ये मध्यमायां वृत्तौ वर्णास्त्रिभागाधिकास्ते विलम्बितायाम् ।
उक्तं वा ।। 5 ।।
किमुक्तम् ? सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराऽचिरवचनाद् वृत्तयो विशिष्यन्ते इति। ।
अथवा शब्दाऽविरामः संहितेत्येतल्लक्षणं करिष्यते ।
शब्दाऽविरामे प्रतिवर्णमवसानम् ।। 6 ।।
शब्दाऽविरामे प्रतिवर्णमवसानसंज्ञा प्राप्नोति । किमिदं प्रतिवर्णमिति ? वर्णं वर्णं प्रति प्रतिवर्णम् । येनैव यत्नेनैको वर्ण उच्चार्यते विच्छिन्ने वर्ण उपसंहृत्य तमन्यमुपादाय द्वितीयः प्रयुज्यते तथा तृतीयस्तथा चतुर्थः ।। एवं तर्ह्यनवकाशा संहितासंज्ञाऽवसानसंज्ञां बाधिष्यते ।। अथवाऽवसानसंज्ञायां प्रकर्षगतिर्विज्ञास्यते -- साधीयो यो विराम इति । कश्च साधीयः ? यः शब्दार्थयोर्विरामः ।
अथवा ह्रादाऽविरामः संहितेत्येतल्लक्षणं करिष्यते ।
ह्रादाऽविरामे स्पर्शाघोषसंयोगेऽसन्निधानादसंहितम्।।
ह्रादाऽविरामे स्पर्शानामघोषाणां (च) संयोगेऽसंनिधानात्संहितासंज्ञा न प्राप्नोति -- कुक्कुटः पिप्पकः पित्तमिति । किमुच्यते संयोग इति । अथ यत्रैकः पचतीति। एकः पूर्वपरयोर्ह्रादेन प्रच्छाद्यते । तद्यथा, -- द्वयो रक्तयोर्वस्त्रयोर्मध्ये शुक्लं वस्त्रं तद्गुणमुपलभ्यते । बदरपिटके रिक्तको लोहकंसस्तद्गुण उपलभ्यते । एकेन
तुल्यः सन्निधिः यथैवैको वर्णो ह्रादेन प्रच्छाद्यते, एवमनेकोऽपि ।
अथवा पौर्वापर्यमकालव्यवेतं संहितेत्येतल्लक्षणं करिष्यते ।
 पौर्वापर्यमकालव्यवेतं संहिता चेत्पूर्वाऽपराऽभावादसंहितम् एकवर्णवर्तित्वाद्वाचः, उच्चरितप्रध्वंसित्वाच्च वर्णानाम्।। 8 ।।
पौर्वापर्यमकालव्यवेतं संहिता चेत्पूर्वाऽपराभावात्संहितासंज्ञा न प्राप्नोति । न हि वर्णानां पौर्वापर्यमस्ति । किं कारणम् ?
एकवर्णवर्तित्वाद्वाचः उच्चरितप्रध्वंसित्वाच्च वर्णानाम्। एकैकवर्णवर्तिनी वाक्, न द्वौ युगपदुच्चारयति । गौरिति गकारे यावद्वाग्वर्तते, नौकारे, न विसर्जनीये । यावदौकारे, न गकारे, न विसर्जनीये । यावद्विसर्जनीये, न गकारे, नौकारे । उच्चरितप्रध्वंसित्वात् । उच्चरितप्रध्वंसिनः खल्वपि वर्णाः । उच्चरितः प्रध्वस्तः । अथाऽपरः प्रयुज्यते, न वर्णो वर्णस्य सहायः ।। एवं तर्हि --
बुद्धौ कृत्वा सर्वाश्चेष्टाः कर्ता धीरस्तत्वन्नीतिः ।
शब्देनाऽर्थान्वाच्यान्दृष्ट्वा बुद्धौ कुर्यात्पौर्वापर्यम् ।।
बुद्धिविषयमेव शब्दानां पौर्वापर्यम् । इह य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यत्यस्मिन्नर्थेऽयं शब्दः प्रयोक्तव्यः, अस्मिंस्तावच्छब्देऽयं तावद्वर्णः ततोऽयं ततोऽयमिति ।। 108 ।।
-1-4-110- विरामोऽवसानम्
इदं विचार्यते -- अभावो वाऽवसानलक्षणं स्याद्विरामो वेति ? कश्चात्र विशेषः ?
अभावेऽवसानलक्षणे उपर्यभाववचनम् ।। 1 ।।
अभावेऽवसानलक्षणे उपर्यभावग्रहणं कर्तव्यम् । उपरि योऽभाव इति वक्तव्यम् । पुरस्तादपि हि शब्दस्याऽभावस्तत्र मा भूदिति । किं च स्यात् ? रसः, रथः, खरवसानयोविसर्जनीयः (8.3.16) इति विसर्जनीयः प्रसज्येत ।
अस्तु तर्हि -- विरामः ।
विरामे विरामवचनम् ।। 2 ।।
यस्य विरामः, विरामग्रहणं तेन कर्तव्यम् । ननु च यस्याऽप्यभावस्तेनाऽप्यभावग्रहणं कर्तव्यम् । परार्थं मम भविष्यति -- अभावो लोपः, ततोऽवसानं चेति । ममापि तर्हि विरामग्रहणं परार्थं भविष्यति -- विरामो लोपः, अवसानं चेति ।
उपरिविरामवचनम्।।3 ।।
उपरि यो विराम इति वक्तव्यम् । पुरस्तादपि (हि) शब्दस्य विरामस्तत्र मा भूत् । किं च स्यात्? रसः रथः, खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत । नैष दोषः आरम्भपूर्वको मम विरामः ।
अथवा नेदमवसानलक्षणं विचार्यते । किं तर्हि ? संज्ञी । अभावोऽवसानसंज्ञी स्याद्विरामो वेति । कश्चात्र विशेषः ?
अभावेऽवसानसंज्ञिन्युपर्यभाववचनम् ।। 4 ।।
अभावेऽवसानसंज्ञिन्युपर्यभावग्रहणं कर्तव्यम् । उपरि योऽभाव इति वक्तव्यम् । पुरस्तादपि हि शब्दस्याऽभावस्तत्र मा भूदिति । किं च स्यात् ? रसः रथः, खरवसानयोर्विसर्जनीय इति विसर्जनीयः प्रसज्येत ।
अस्तु तर्हि -- विरामोऽवसानम् ।
विरामे विरामवचनम् ।। 5 ।।
यस्य विरामस्तेन विरामग्रहणं कर्तव्यम् । ननु च यस्याप्यभावस्तेनाप्यभावग्रहणं कर्तव्यम् । परार्थं मम भविष्यति -- अभावो लोपः, ततोऽवसानं चेति । ममापि तर्हि विरामग्रहणं परार्थं भविष्यति -- विरामो लोपोऽवसानं चेति । उपरि यो विराम इति वक्तव्यम् । ननु चोक्तम् -- आरम्भपूर्वके -- इति । नावश्यमयं रमिः प्रवृत्तावेव वर्तते । किं तर्हि ? अप्रवृत्तावपि । तद्यथा, -- उपरतान्यस्मिन्कुले व्रतानि उपरतः स्वाध्याय इति । न च तत्र स्वाध्यायो भूतपूर्वो भवति, नापि व्रतानि ।
भावाऽविरामभावित्वाच्छब्दस्याऽवसानलक्षणं न ।। 5 ।।
भावाऽविरामभावित्वाच्छब्दस्याऽवसानलक्षणं नोपपद्यते । किमिदं भावाऽविरामभावित्वादिति ? भावस्याऽविरामो भावाऽविरामः, भावाऽविरामेण भवतीति भावाऽविरामभावी, भावाऽविरामभाविनो भावो
भावाऽविरामभावित्वम् ।
अपर आह -- भावभावित्वादविरामभावित्वाच्च शब्दस्याऽवसानलक्षणं नोपपद्यते -- इति ।
तत्पर इति वा वर्णस्याऽवसानम् ।। 6 ।।
विरामपरो वर्णोऽवसानसंज्ञो भवतीति वक्तव्यम् ।
वर्णोऽन्त्यो वाऽवसानम् ।। 7 ।।
अथवा व्यक्तमेव पठितव्यम् -- अन्यो वर्णोऽवसानसंज्ञो भवतीति ।
तत्तर्हि वक्तव्यम् ? न वक्तव्यम् ।
संहिताऽवसानयोर्लोकविदितत्वात्सिद्धम् ।। 8 ।।
संहिताऽवसानमिति लोकविदितावेतावर्थौ । एवं हि कश्चित्कंचिदधीयानमाह-शन्नोदेवीयं संहितयाऽधीष्वेति । स तत्र परमसन्निकर्षमधीते । अपर आह-केनाऽवस्यसीति ? स आह -- अकारेणेकारेणोकारेणेति । एवमेतौ लोकविदितावर्थौ, तयोर्लोकविदितत्वात्सिद्धमिति ।। 110 ।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य चतुर्थे पादे चतुर्थमाह्निकम् । पादश्च समाप्तः । प्रथमोऽध्यायः समाप्तः ।