सामग्री पर जाएँ

महाभाष्यम्/पञ्चमोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः

-5-3-1- प्राग्दिशो विभक्तिः (2159)
(विभक्तिसंज्ञाऽधिकरणम्)
(वार्तिकावतरणभाष्यम्)
विभक्तित्वे किं प्रयोजनम्?
(5796 विभक्तिसंज्ञाप्रयोजनबोधकवार्तिकम्।। 1 ।।)
- विभक्तित्वे प्रयोजनमित्प्रतिषेधः -
(भाष्यम्) ःथ्द्य;दानीम्, न विभक्तौ तुस्माः 1।3।4 ःथ्द्य;तीत्वप्रतिषेधः सिद्धो भवति।
यद्येवं किमोत् 5।3।12 क्व प्रेप्सन् दीव्यसे, क्वर्द्धमासाः अत्रापि प्राप्नोति।।
(5797 प्रयोजनवार्तिकम्।। 2 ।।)
- तौ चोक्तम् -
(भाष्यम्) किमुक्तम्?
विभक्तौ तवर्गप्रतिषेधः अतद्धिते ःथ्द्य;ति।।
(5798 सूत्रप्रयोजनवार्तिकम्।। 3 ।।)
- ःथ्द्य;दमो विभक्तिस्वरश्च -
(भाष्यम्) ःथ्द्य;दमो विभक्तिस्वरश्च प्रयोजनम्। ःथ्द्य;दः। ःथ्द्य;ह। ःथ्द्य;दमस्तृतीयादिर्विभक्तिरुदात्ता भवति ःथ्द्य;त्येष स्वरः सिद्धो भवति।।
(5799 सूत्रप्रयोजनवार्तिकम्।। 4 ।।)
- त्यदादिविधयश्च -
(भाष्यम्) त्यदादिविधयश्च प्रयोजनम्। यतः, यत्र। कुतः, कुत्र। विभक्तौ ःथ्द्य;ति त्यदादिविधयः सिद्धा भवन्ति।।
-5-3-2- किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (2160)
(5800 उपसंख्यानवार्तिकम्।। 1 ।।)
- बहुग्रहणे संख्याग्रहणम् -
(भाष्यम्) बहुग्रहणे संख्याग्रहणं कर्तव्यम्। ःथ्द्य;ह मा भूत्--बहौ, बहोः--ःथ्द्य;ति।।
(आक्षेपभाष्यम्)
अथ किमर्थं किम उपसंख्यानं क्रियते न सर्वनाम्न ःथ्द्य;त्येव सिद्धम्?
(5801 समाधानवार्तिकम्।। 2 ।।)
- द्व्यादिप्रतिषेधात्किम उपसंख्यानम् -
(भाष्यम्) द्व्यादिप्रतिषेधात्किम उपसंख्यानं क्रियते। अद्व्यादिभ्यः ःथ्द्य;ति प्रतिषेधे प्राप्ते किम उपसंख्यानं क्रियते।।
-5-3-5- एतदोऽन् (2163)
(आदेशाधिकरणम्)
(नकारप्रयोजनभाष्यम्)
क्वायं नकारः श्रूयते?
न क्वचित् श्रूयते, लोपोऽस्य भवति नलोपः प्रातिपदिकान्तस्य 8।2।7 ःथ्द्य;ति।
यदि न क्वचित् श्रूयते, किमर्थमुच्चार्यते?
अनेकाल्शित्सर्वस्य 1।1।55 ःथ्द्य;ति सर्वादेशो यथा स्यात्।।
(प्रयोजनाक्षेपभाष्यम्)
क्रियमाणेऽपि वै नकारे सर्वादेशो न प्राप्नोति।
किं कारणम्?
नलोपे कृते एकाल्त्वात्।
ःथ्द्य;दमिह संप्रधार्यम्--नलोपः क्रियताम्, सर्वादेश ःथ्द्य;ति।
किमत्र कर्तव्यम्?
परत्वान्नलोपः।
असिद्धो नलोपः, तस्यासिद्धत्वात्सर्वादेशो भवति।।
(समाधानभाष्यम्)
परिगणितेषु कार्येषु नलोपोऽसिद्धः, न चेदं तत्र परिगण्यते।
एवं तर्ह्यानुपूर्व्या सिद्धमेतत्। नात्राकृते सर्वादेशे प्रातिपदिकसंज्ञा प्राप्नोति, न चाकृतायां प्रातिपदिकसंज्ञायां नलोपः प्राप्नोति।
तदानुपूर्व्या सिद्धमेतत्।।
(एकदेशिनो नकाराक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम्। अलोऽन्त्यस्य विधयो भवन्तीति--अकारस्याकारवचने प्रयोजनं नास्तीति कृत्वाऽन्तरेण नकारं सर्वादेशो भविष्यति।।
(समाधानभाष्यम्)
अस्त्यन्यदकारस्याकारवचने प्रयोजनम्।
किम्?
येऽन्येऽकारादेशाः प्राप्नुवन्ति तद्वाधनार्थम्।
तद्यथा--मो राजि समः क्वौ 8।3।25 ःथ्द्य;ति मकारस्य मकारवचनसार्मथ्यादनुस्वारादयो न भवन्ति।
तस्मान्नकारः कर्तव्यः।।
(सिद्धान्तिनो नकारप्रत्याख्यानभाष्यम्)
न कर्तव्यः।
क्रियते न्यास एव। प्रश्लिष्टनिर्देशोऽयम्--अ--अ--अ ःथ्द्य;ति। सः अनेकाल्शित्सर्वस्य ःथ्द्य;ति सर्वादेशो भविष्यति।।
(5802 योगविभागे वार्तिकम्।। 1 ।।)
- एतद ःथ्द्य;ति योगविभागः -
(भाष्यम्) एतद ःथ्द्य;ति योगविभागः कर्तव्यः। एतदः एत ःथ्द्य;त् ःथ्द्य;त्येतावादेशौ भवतो रथोः।
ततः--अन्। अंश्च भवति एतद ःथ्द्य;ति।।
(वार्तिकावतरणभाष्यम्)
केन विहिते थकारे एतद आदेश उच्यते।।
(5803 उपसंख्यानवार्तिकम्।। 2 ।।)
- एतदश्च थम उपसंख्यानम् -
(भाष्यम्) एतदश्च थम उपसंख्यानं कर्तव्यम्। एतत्प्रकारमित्थम्।।
तत्तर्हि उपसंख्यानं कर्तव्यम्?
(उपसंख्यानानुपयोगे भाष्यम्)
न कर्तव्यम्। एतज्ज्ञापयति--भवत्यत्र थमुरिति यदयं थकारादावादेशं शास्ति।
कुतो नु खल्वेतत्--ज्ञापकादत्र थमुर्भविष्यति, न पुनर्य एवासावविशेषविहितस्थकारादिस्तस्मिन्नादेशः स्यात्। ःथ्द्य;दमा थकारादिं विशेषयिष्यामः। ःथ्द्य;दमो यस्थकारादिरिति।।
-5-3-7- पञ्ञ्चम्यास्तसिल् (2165)
-5-3-8- तसेश्च (2166)
(तसिलादेशाधिकरणम्)
(वार्तिकावतरणभाष्यम्)
किमर्थं तसेस्तसिलुच्यते?
(5807 प्रयोजनवार्तिकम्।। 1 ।।)
- तसेस्तसिल्वचनं स्वरार्थम् -
(भाष्यम्) तसेस्तसिल्वचनं क्रियते।
किं प्रयोजनम्?
स्वरार्थम्। लिति 6।1।193 प्रत्ययात्पूर्वमुदात्तं भवतीत्येष स्वरो यथा स्यात्।।
(सूत्राक्षेपे समाधानभाष्यम्)
ननु चायं तसिल् तसिं बाधिष्यते।
न सिद्ध्यति।
परत्वात्तसिः प्राप्नोति।
तसिलोऽवकाशः--ततो हीयते, ततोऽवरोहति।
तसेरवकाशः--ग्रामत आगच्छति, नगरत आगच्छति।
ःथ्द्य;होभयं प्राप्नोति--तत आगच्छति, यत आगच्छतीति। परत्वात्तसिः प्राप्नोति।
तस्मात्सुष्ठूच्यते तसेस्तसिल्वचनं स्वरार्थमिति।।
-5-3-9- पर्यभिभ्यां च (2167)
(तसिलोऽधिकरणम्)
(5808 उपसंख्यानवार्तिकम्।। 1 ।।)
- पर्यभिभ्यां च सर्वोभयार्थे -
(भाष्यम्) पर्यभिभ्यां चेति यदुच्यते तत्सर्वोभयार्थे द्रष्टव्यम्। यावत्सर्वतस्तावत्परितः। यावदुभयतस्तावदभितः।।
-5-3-10- सप्तम्यास्त्रल् (2168)
(त्रल्त्रसिलोरधिकरणम्)
(त्रल्तसिलोः प्रत्ययत्वादेशत्वविचारकभाष्यम्)
ःथ्द्य;दं विचार्यते--ःथ्द्य;मे तसिलादयो विभक्त्यादेशा वा स्युः परे वेति।
कथं च आदेशाः स्युः, कथं वा परे?
यदि पञ्ञ्चम्याः सप्तम्याः ःथ्द्य;ति षष्ठी, तदा--आदेशाः।
अथ पञ्ञ्चमी, ततः--परे।
कुतः संदेहः?
समानो निर्देशः।
कश्चात्र विशेषः?
(5804 आदेशपक्षे दोषवार्तिकम्।। 1 ।।)
- तसिलादयो विभक्त्यादेशाश्चेत् सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः -
(भाष्यम्) तसिलादयो विभक्त्यादेशाश्चेत् सुव्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधीनां प्रतिषेधो वक्तव्यः।
सुब्लुक्-ततस्त्यः, यतस्त्यः। तत्रत्यः, यत्रत्यः। सुपो धातुप्रातिपदिकयोः 2।4।71 ःथ्द्य;ति सुब्लुक् प्राप्नोति। सुब्लुक्।।
स्वर--यदा। तदा। अनुदात्तौ सुप्पितौ 3।1।4 ःथ्द्य;त्येष स्वरः प्राप्नोति। स्वर।।
गुण--कस्मात्, कुतः। घेर्ङिति 7।3।111 ःथ्द्य;ति गुणः प्राप्नोति। गुण।।
दीर्घ--तस्मिन्, तर्हि। अतो दीर्घो यञ्ञि सुपि च 7।3।101,102 ःथ्द्य;ति दीर्घत्वं प्राप्नोति। दीर्घ।।
एत्व--तेषु, तत्र। बहुवचने झल्येत् 7।3।103 ःथ्द्य;त्येवं प्राप्नोति। एत्व।।
औत्त्व--कस्मिन्, कुत्र। ःथ्द्य;दुद्भ्यामौत् अच्चघेः 7।3।117,119 ःथ्द्य;त्यौत्वं प्राप्नोति। औत्त्व।
स्मायादिविधिः--तस्मात्--ततः, तस्मिन्--तत्र। ङसिङ्योः स्मात्स्मिनौ 7।1।15 ःथ्द्य;ति स्मायादयः प्राप्नुवन्ति।।
(5805 प्रत्ययत्वपक्षोपपादकवार्तिकम्।। 2 ।।)
- पञ्ञ्चमीनिर्देशात्सिद्धम् -
(भाष्यम्) सन्तु परे।।
(प्रत्ययत्वाक्षेपे भाष्यम्)
यदि परे समानशब्दानां प्रतिषेधो वक्तव्यः। तस्मात्तस्यति। यस्मात्तस्यति। पञ्ञ्चम्यन्तात्परस्य तसेस्तसिल्भवतीति तसिल् प्राप्नोति।।
(5806 समाधानवार्तिकम्।। 3 ।।)
- अनादेशे स्वार्थविज्ञानात्समानशब्दाप्रतिषेधः -
(भाष्यम्) अनादेशे स्वार्थविज्ञानात्समानशब्दानामप्रतिषेधः। अनर्थकः प्रतिषेधोऽप्रतिषेधः।
तसिल्कस्मान्न भवति?
स्वार्थविज्ञानात्। पञ्ञ्चम्यन्तात्परस्य तसेः स्वार्थे वर्तमानस्य तसिला भवितव्यम्। न चात्र पञ्ञ्चम्यन्तात्परस्तसिः स्वार्थे वर्तते।।
-5-3-14- ःथ्द्य;तराभ्योऽपि दृश्यन्ते (2172)
(अतिव्याप्त्याशंकाभाष्यम्)
ःथ्द्य;ह कस्मान्न भवति--सः, तौ, ते।।
(उपसंख्यानभाष्यम्)
भवदादिभिर्योगे ःथ्द्य;ति वक्तव्यम्।
के पुनर्भवदादयः?
भवान्, दीर्घायुः, देवानांप्रियः, आयुष्मानिति।
स भवान्, तत्र भवान्, ततो भवान्।
तं भवन्तम्, ततो भवन्तम्, तत्र भवन्तम्।
तेन भवता, तत्र भवता, ततो भवता।
तस्मै भवते, तत्र भवते, ततो भवते।
तस्माद्भवतः, तत्र भवतः, ततो भवतः।
तस्य भवतः, तत्र भवतः ततो भवतः।
तस्मिन् भवति, तत्र भवति, ततो भवति।।
स दीर्घायुः, तत्र दीर्घायुः, ततो दीर्घायुः।
तं दीर्घायुषम्, तत्र दीर्घायुषम्, ततो दीर्घायुषम्।।
स देवानांप्रियः, तत्र देवानांप्रियः, ततो देवानांप्रियः।
तं देवानांप्रियम्, तत्र देवानांप्रियम्, ततो देवानांप्रियम्।।
स आयुष्मान्, तत्रायुष्मान्, तत आयुष्मान्।
तमायुष्मन्तम्, तत्रायुष्मन्तम्, तत आयुष्मन्तम्।।
-5-3-17- अधुना (2175)
(अधुनाऽधिकरणम्)
(व्युत्पादकभाष्यम्)
अधुनेति किं निपात्यते?
ःथ्द्य;दमोऽश्भावो धुना च प्रत्ययः,
ःथ्द्य;दमो वा लोपः, अधुना च प्रत्ययः। अस्मिन् काले--अधुना।।
-5-3-18- दानीं च (2176)
(दानींप्रत्ययाधिकरणम्)
(अतिव्याप्त्याशङ्काभाष्यम्)
ःथ्द्य;दानीम्। ःथ्द्य;दमस्तृतीयादिर्विभक्तिरुदात्ता भवतीत्येष स्वरः प्राप्नोति।।
(5809 अतिव्याप्तिनिरासवार्तिकम्।। 1 ।।)
- दानीमिति निपातनात्स्वरसिद्धिः -
(भाष्यम्) दानीमिति निपातनात्स्वरसिद्धिर्भविष्यति। आद्युदात्तनिपातनं करिष्यते स निपातनस्वरो विभक्तिस्वरस्य बाधको भविष्यति।।
(5810 प्रकारान्तरेण सिद्धिसाधकवार्तिकम्।। 2 ।।)
- उक्तं वा -
किमुक्तम्?
आदौ सिद्धमिति।।
-5-3-19- तदो दा च (2177)
(दाप्रत्ययाधिकरणम्)
(5811 सूत्रप्रत्याख्यानवार्तिकम्।। 1 ।।)
- तदो दावचनमनर्थकं विहितत्वात् -
(भाष्यम्) तदो दावचनमनर्थकम्।
किं कारणम्?
विहितत्वात्।
विहितोऽत्र दाप्रत्ययः--सर्वैकान्यकिंयत्तदः काले दा 5।3।15 ःथ्द्य;ति।।
-5-3-20- तयोर्दार्हिलौ च च्छन्दसि (2178)
(5812 तयोः ःथ्द्य;त्यस्यार्थनिर्देशवार्तिकम्।। 1 ।।)
- तयोरिति प्रातिपदिकनिर्देशः -
(भाष्यम्) तयोरिति प्रातिपदिकनिर्देशो द्रष्टव्यः।।
द्वेष्यं विजानीयात्--तयोः--योगयोर्वा प्रत्यययोर्वेति।
तदाचार्यः सुहृद् भूत्वाऽन्वाचष्टे--तयोरिति प्रातिपदिकनिर्देश ःथ्द्य;ति।।
-5-3-22- सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः (2180)
(निपातनाधिकरणम्)
(वार्तिकावतरणभाष्यम्)
सद्य ःथ्द्य;ति किं निपात्यते?
(5813 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्।। 1 ।।)
- समानस्य सभावो द्यश्चाहनि -
(भाष्यम्) समानस्य सभावो निपात्यते द्यश्च प्रत्ययोऽहन्यभिधेये। समानेऽहनि सद्यः।।
(वार्तिकावतरणभाष्यम्)
परुत्परारीति किं निपात्यते?
(5814 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्।। 2 ।।)
- पूर्वपूर्वतरयोः परभाव उदारी च संवत्सरे -
(भाष्यम्) पूर्वपूर्वतरयोः परभावो निपात्यते, उदारी च प्रत्ययौ संवत्सरेऽभिधेये। पूर्वस्मिन् संवत्सरे परुत्। पूर्वतरे संवत्सरे परारि।।
(वार्तिकावतरणभाष्यम्)
ऐषम ःथ्द्य;ति किं निपात्यते?
(5815 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्।। 3 ।।)
- ःथ्द्य;दमः समसण् -
(भाष्यम्) ःथ्द्य;दमः समसण्प्रत्ययो निपात्यते संवत्सरेऽभिधेये। अस्मिन् संवत्सरे--ऐषमः।।
(वार्तिकावतरणभाष्यम्)
परेद्यवीति किं निपात्यते?
(5816 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्।। 4 ।।)
- परस्मादेद्यव्यहनि -
(भाष्यम्) परस्मादेद्यविप्रत्ययो निपात्यतेऽहन्यभिधये। परस्मिन्नहनि--परद्येवि।।
(वार्तिकावतरणभाष्यम्)
अद्येति किं निपात्यते?
(5817 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्।। 5 ।।)
- ःथ्द्य;दमोऽश्भावो द्यश्च -
(भाष्यम्) ःथ्द्य;दमोऽश्भावो निपात्यते द्यश्च प्रत्ययोऽहन्यभिधेये। अस्मिन्नहनि--अद्य।।
(वार्तिकावतरणभाष्यम्)
पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युरिति किं निपात्यते?
(5818 निपातने प्रकृतिप्रत्ययबोधकवार्तिकम्।। 6 ।।)
- पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युसुच् -
(भाष्यम्) पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युसुच्प्रत्ययो निपात्यतेऽहन्यभिधेये। पूर्वस्मिन्नहनि--पूर्वेद्युः। अन्यस्मिन्नहनि--अन्येद्युः। अन्यतरस्मिन्नहनि--अन्यतरेद्युः। ःथ्द्य;तरस्मिन्नहनि--ःथ्द्य;तरेद्युः। अपरस्मिन्नहनि--अपरेद्युः। अधरस्मिन्नहनि--अधरेद्युः। उभयोरह्नोः--उभयेद्युः। उत्तरस्मिन्नहनि--उत्तरेद्युः।।
(8819 उपसंख्यानवार्तिकम्।। 7 ।।)
- द्युश्चोभयात् -
(भाष्यम्) उभयशब्दाद् द्युश्च वक्तव्यः। तस्मान्मनुष्येभ्य उभयद्युः।।
-5-3-27- दिक्शब्देभ्यः सप्तमीपञ्ञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (2185)
(अस्तातिप्रत्ययाधिकरणम्)
(अतिव्याप्त्याशङ्काभाष्यम्)
ःथ्द्य;ह कस्मान्न भवति--पूर्वस्मिन् देशे वसतीति?
(अतिव्याप्तिनिरासभाष्यम्)
नैष देशः, देशविशेषणमेतत्।।
-5-3-28- दक्षिणोत्तराभ्यामतसुच् (2186)
(अतसुच्प्रत्ययाधिकरणम्)
(न्यासाक्षेपभाष्यम्)
किमर्थमतसुच् क्रियते, न तसुजेव क्रियेत?
तत्रायमप्यर्थः--स्वरार्थश्चकारो न कर्तव्यो भवति, प्रत्ययस्वरेणैव सिद्धम्।
का रूपसिद्धिः--दक्षिणतो ग्रामस्य, उत्तरतो ग्रामस्य?
दक्षिणोत्तरशब्दावकारान्तौ तसुशब्दः प्रत्ययः।।
(एकदेशिनः प्रयोजनभाष्यम्)
भवेत्सिद्धम्--यदा अकारान्तौ।।
यदा तु खलु आकारान्तौ तदा न सिद्ध्यति।।
(प्रत्याक्षेपभाष्यम्)
तदाऽपि सिद्धम्।
कथम्?
पुंवद्भावेन।
कथं पुंवद्भावः?
तसिलादिष्वाकृत्वसुचः 6।3।35 ःथ्द्य;ति।।
(प्रत्याक्षेपसमाधानभाष्यम्)
न सिध्यति। भाषितपुंस्कस्य पुंवद्भावः, न चैतौ भाषितपुंस्कौ।।
(दक्षिणोत्तराशब्दयोर्भाषितपुंस्कत्वाभावबोधकभाष्यम्)
ननु च भोः दक्षिणशब्द उत्तरशब्दश्च पुंसि भाष्येते।
समानायामाकृतौ यद्भाषितपुंस्कमित्युच्यते, आकृत्यन्तरे चैतौ भाषितपुंस्कौ--
दक्षिणोत्तरेति दिक्शब्दौ,
दक्षिण उत्तर ःथ्द्य;ति व्यवस्थाशब्दौ।।
(व्यवस्थावाचित्वेऽपि दिग्वाचकत्वव्यवस्थाभाष्यम्)
यदि पुनर्दिक्शब्दा अपि व्यवस्थाशब्दाः स्युः, कथं यानि दिगपदिष्टानि कार्याणि?
दिशो यदा व्यवस्थां वक्ष्यन्ति।।
(व्यवस्थावाचित्वेऽतिप्रसङ्गापादकभाष्यम्)
यदि तर्हि यो यो दिशि वर्तते स स दिक्शब्दः। रमणीयादिष्वतिप्रसङ्गो भवति--रमणीया दिक्, शोभना दिगिति।।
(अतिप्रसङ्गनिरासभाष्यम्)
अथ मतमेतत्--दिशि दृष्टो दिग्दृष्टः, दिग्दृष्टः शब्दो दिक्शब्द ःथ्द्य;ति दिशं यो न व्यभिचरति न रमणीयादिष्वतिप्रसङ्गो भवति।
पुंवद्भावस्तु न प्राप्नोति।
एवं तर्हि सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः--दक्षिणोत्तरपूर्वाणामित्येवमर्थम्।।
(न्यासप्रयोजनभाष्यम्)
विशेषणार्थं तर्हि।
क्व विशेषणार्थेनार्थः?
षष्ठ्यतसर्थप्रत्ययेन 2।3।30 ःथ्द्य;ति। षष्ठी तसर्थप्रत्ययेनेत्युच्यमाने ःथ्द्य;हापि स्यात्--ततो ग्रामात्, यतो ग्रामादिति।।
-5-3-31- उपर्युपरिष्टात् (2189)
(निपातनाधिकरणम्)
(वार्तिकावतरणभाष्यम्)
उपर्युपरिष्टादिति किं निपात्यते?
(5820 सूत्रार्थनिर्देशवार्तिकम्।। 1 ।।)
- ःढ़द्य;र्ध्वस्योपभावो रिल्रिष्टातिलौ च -
(भाष्यम्) ःढ़द्य;र्ध्वस्योपभावो रिल्रिष्टातिलौ च प्रत्ययौ निपात्येते। उपरि, उपरिष्टात्।।
-5-3-32- पश्चात् (2190)
(वार्तिकावतरणभाष्यम्)
पश्चादिति किं निपात्यते?
(5821 सूत्रार्थप्रत्यायकवार्तिकम्।। 1 ।।)
- अपरस्य पश्चभाव आतिश्च प्रत्ययः -
(भाष्यम्) अपरस्य पश्चभावो निपात्यते, आतिश्च प्रत्ययः। पश्चात्।।
(5822 उपसंख्यानवार्तिकम्।। 2 ।।)
- दिक्पूर्वपदस्य च -
(भाष्यम्) दिक्पूर्वपदस्य चापरस्य पश्चभावो वक्तव्यः, आतिश्च प्रत्ययः। दक्षिणपश्चात्, उत्तरपश्चात्।।
(5823 उपसंख्यानवार्तिकम्।। 3 ।।)
- अर्धोत्तरपदस्य च समासे -
(भाष्यम्) अर्धोत्तरपदस्य च समासे अपरस्य पश्चभावो वक्तव्यः। दक्षिणपश्चार्धः, उत्तरपश्चार्धः।।
(5824 उपसंख्यानवार्तिकम्।। 4 ।।)
- अर्धे च -
(भाष्यम्) अर्धे च परतोऽपरस्य पश्चभावो वक्तव्यः। पश्चार्धः।।
-5-3-35- एनबन्यतरस्यामदूरेऽपञ्ञ्चम्याः (2193)
(एनप्प्रत्ययाधिकरणम्)
(5825 अनुवृत्तिनिर्द्धारकवार्तिकम्।। 1 ।।)
- अपञ्ञ्चम्या ःथ्द्य;ति प्रागसः -
(भाष्यम्) अपञ्ञ्चम्या ःथ्द्य;ति यदुच्यते प्रागसस्तद् द्रष्टव्यम्।
द्वेष्यं विजानीयात् अविशेषेण ःथ्द्य;त उत्तरमपञ्ञ्चम्या ःथ्द्य;ति। तदाचार्यः सुहृद् भूत्वाऽन्वाचष्टे--अपञ्ञ्चम्या ःथ्द्य;ति प्रागसः ःथ्द्य;ति।।
-5-3-36- दक्षिणादाच् (2194)
(आच्प्रत्ययाधिकरणम्)
(चकारप्रयोजनभाष्यम्)
किमर्थश्चकारः?
स्वरार्थः,
चितोऽन्त उदात्तो भवतीति अन्तोदात्तत्वं यथा स्यात्।।
(प्रयोजनाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम्। एकाजयं, तत्र नार्थः स्वरार्थेन चकारेणानुबन्धेन। प्रत्ययस्वरेणैव सिद्धम्।।
(सिद्धान्तिनः समाधानभाष्यम्)
विशेषणार्थस्तर्हि।
क्व विशेषणार्थेनार्थः?
अन्यारादितरर्तेदिक्शब्दाञ्ञ्चूत्तरपदाजाहियुक्ते 2।3।39।।
-5-3-42- संख्याया विधार्थे धा (2200)
(धाप्रत्ययाधिकरणम्)
(विधार्थजिज्ञासाभाष्यम्)
विधार्थ ःथ्द्य;त्युच्यते, को विधार्थो नाम?
विधाया अर्थो विधार्थः।।
यद्येवम्--एका गोविधा, एका हस्तिविधा--अत्रापि प्राप्नोति।
एवं तर्हि--
(5826 विधार्थनिर्धारकवार्तिकम्।। 1 ।।)
- धाविधानं धात्वर्थपृथग्भावे -
(भाष्यम्) धाविधानं धात्वर्थपृथग्भाव ःथ्द्य;ति वक्तव्यम्।
(धात्वर्थपृथग्भावजिज्ञासाभाष्यम्)
कः पुनर्धात्वर्थपृथग्भावः?
किं यत्तद्देवदत्तः कंसपात्र्यां पाणिना ओदनं भुङ्क्त ःथ्द्य;ति।
नेत्याह।
कारकपृथक्त्वमेतत्।।
यत्तर्हि तत्--कल्ये भुङ्क्ते, सायं भुङ्क्त ःथ्द्य;ति।
नेत्याह।
कालपृथक्त्वमेतत्।।
यत्तर्हि शीतं भुङ्क्ते, उष्णं भुङ्क्ते ःथ्द्य;ति।
नेत्याह।
गुणपृथक्त्वमेतत्।।
(धात्वर्थपृथग्भावनिर्द्धारकभाष्यम्)
कस्तर्हि धात्वर्थपृथग्भावः?
कारकाणां प्रवृत्तिविशेषः--क्रिया।।
यद्येवं क्रियाप्रकारेऽयं भवति। विधयुक्तगताश्च प्रकारे भवन्ति। एवंविधम्, एवंयुक्तम्, एवंगतम्--एवंप्रकारमिति।।
-5-3-44- एकाद्धो ध्यमुञ्ञन्यतरस्याम् (2202)
(ध्यमुञ्ञोऽधिकरणम्)
(5827 पूर्वपक्षिवार्तिकम्।। 1 ।।)
- सहभावे ध्यमुञ्ञ् -
(भाष्यम्) सहभावे ध्यमुञ्ञ् वक्तव्यः। ऐकध्यं राशिं कुरु।
स तर्हि वक्तव्यः?
(समाधानभाष्यम्)
न वक्तव्यः। अधिकरणविचाले ःथ्द्य;त्युच्यते, न चावश्यं स एवाधिकरणविचालः--यदेकमनेकं क्रियते, यदप्यनेकमेकं क्रियते सोऽप्यधिकरणविचालः।।
-5-3-45- द्वित्र्योश्च धमुञ्ञ् (2203)
(धमुञ्ञोऽधिकरणम्)
(5828 उपसंख्यानवार्तिकम्।। 1 ।।)
- धमुञ्ञन्तात् स्वार्थे डदर्शनम् -
(भाष्यम्) धमुञ्ञन्तात्स्वार्थे डो दृश्यते, स च विधेयः। पथि द्वैधानि। संशये द्वैधानि।।
-5-3-47- याप्ये पाशप् (2205)
(पाशपोऽधिकरणम्)
(5829 याप्यार्थबोधकवार्तिकम् ।। 1 ।।)
- पाशपि कुत्सितग्रहणम् -
(भाष्यम्) पाशपि कुत्सितग्रहणं कर्तव्यम्। वैयाकरणपाशः। याज्ञिकपाशः।
यो हि यापयितव्यो याप्यः तत्र मा भूदिति।।
(अतिप्रसक्तिनिवारकभाष्यम्)
अथ वैयाकरणः शरीरेण कृशो व्याकरणेन च शोभनः, कर्तव्यो वैयाकरणपाश ःथ्द्य;ति।
न कर्तव्यः।
कथम्?
यस्य भावाद् द्रव्ये शब्दनिवेशस्तदबिधाने--तद्गुणे वक्तव्ये प्रत्ययेन भवितव्यम्। न च कार्श्यस्य भावात् द्रव्ये वैयाकरणशब्दः।।
-5-3-48- पूरणाद्भागे तीयादन् (2206)
(अन्प्रत्ययाधिकरणम्)
(पूरणग्रहणप्रयोजनभाष्यम्)
पूरणग्रहणं शक्यमकर्तुम्, न ह्यपूरणस्तीयशब्दोऽस्ति यत्र दोषः स्यात्।
ननु चायमस्ति--मुखतीयः, पार्श्वतीय ःथ्द्य;ति।
अर्थवद्ग्रहणे नानर्थकस्य--ःथ्द्य;त्येवमस्य न भविष्यति।
उत्तरार्थं तर्हि पूरणग्रहणं कर्तव्यम्--प्रागेकादशभ्योऽच्छन्दसि(49) ःथ्द्य;ति पूरणाद्यथा स्यात्।।
-5-3-52- एकादाकिनिच्चासहाये (2210)
(आकिनिचोऽधिकरणम्)
(5830 पूर्वपक्षिण उपसंख्यानवार्तिकम्।। 1 ।।)
- एकादाकिनिचि द्विबह्वर्थे प्रत्ययविधानम् -
(भाष्यम्) एकादाकिनिचि द्विबह्वर्थे प्रत्ययो विधेयः। एकाकिनौ। एकाकिन ःथ्द्य;ति।
किं पुनः कारणं न सिध्यति?
एकशब्दोऽयं संख्यापदम्, संख्यायाश्च संख्येयमर्थः।।
(5831 समाधानवार्तिकम्।। 2 ।।)
- सिद्धं तु संख्यादेशवचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
द्विबह्वर्थायाः संख्याया एकशब्द आदेशो वक्तव्यः।।
(5832 प्रकारान्तरेण समाधानवार्तिकम्।। 3 ।।)
- असहायस्य वा -
(भाष्यम्) असहायस्य वा एकशब्द आदेशो वक्तव्यः। असहायः-एकाकी। असहायौ-एकाकिनौ। असहायाः-एकाकिनः।
सिद्ध्यति।
सूत्रं तर्हि भिद्यते।।
(सिद्धान्तभाष्यम्)
यथान्यासमेवास्तु।
ननु चोक्तमेकादाकिनिचि द्विबह्वर्थे प्रत्ययविधानमिति।
नैष दोषः।
अयमेकशब्दोऽस्त्येव संख्यापदम्। तद्यथा--एकः, द्वौ, बहव ःथ्द्य;ति।
अस्त्यन्यार्थे वर्तते। तद्यथा--सधमादो द्युम्न एकास्ताः। अन्या ःथ्द्य;त्यर्थः।
अस्त्यसहायवाची। तद्यथा--एकाग्नयः, एकहलानि, एकाकिभिः क्षुद्रैर्जितमिति।
तद्योऽसहायवाची तस्यैष प्रयोगः।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य तृतीये पादे प्रथममाह्निकम्।।
-5-3-55- अतिशायने तमबिष्ठनौ (2213)
(तमपोऽधिकरणम्)
(अतिशयनार्थबोधकभाष्यम्)
अतिशायन ःथ्द्य;त्युच्यते--किमिदमतिशायन ःथ्द्य;ति?
देश्याः सूत्रनिबन्धाः क्रियन्ते। यावद् ब्रूयात्प्रकर्षे अतिशय ःथ्द्य;ति तावदतिशायन ःथ्द्य;ति।।
(प्रकर्षान्वयबोधकभाष्यम्)
कस्य पुनः प्रकर्षे प्रत्यय उत्पद्यते?
ङ्याप्प्रातिपदिकात्(4।1।1) ःथ्द्य;ति वर्तते, ङ्याप्प्रातिपदिकस्य प्रकर्षे।
ङ्याप्प्रातिपदिकं वै शब्दः, न च शब्दस्य प्रकर्षापकर्षौ स्तः।
शब्देऽसंभवादर्थे कार्यं विज्ञास्यते।।
(प्रातिपदिकार्थप्रदर्शकभाष्यम्)
कः पुर्नङ्याप्प्रातिपदिकार्थः?
द्रव्यम्। न वै द्रव्यस्य प्रकर्ष ःथ्द्य;ष्यते।
एवं तर्हि--गुणः।।
(एकदेशिन गुणोपसंख्यानभाष्यम्)
एवमपि गुणग्रहणं कर्तव्यम्। द्रव्यमपि ङ्याप्प्रातिपदिकार्थो गुणोऽपि। तत्र कुत एतत्--गुणस्य प्रकर्षे भविष्यति, न पुनर्द्रव्यस्य प्रकर्ष ःथ्द्य;ति।।
(एकदेशिनः समानोपसंख्यानभाष्यम्)
क्रियमाणे चापि गुणग्रहणे समानगुणग्रहणं कर्तव्यम्, शुक्लात्कृष्णे मा भूदिति।।
(प्रत्याक्षेपभाष्यम्)
न तर्हीदानीमिदं भवति--अध्वर्युर्वै श्रेयान्, पापीयान्प्रतिप्रस्थाता, अन्धानां काणतम ःथ्द्य;ति?
(प्रत्याक्षेपपरिहारभाष्यम्)
समानगुणे एषा स्पर्धा भवति--अध्वर्युर्वै श्रेयान् अन्येभ्यः प्रशस्येभ्यः। पापीयान् प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः। अन्धानां काणतम ःथ्द्य;ति कणिरयं सौक्ष्म्ये वर्तते। सर्व ःथ्द्य;मे किंचित्पश्यन्ति, अयमेषां काणतम ःथ्द्य;ति।।
(एकदेशिन उपसंख्यानभाष्यम्)
अदूरविप्रकर्ष ःथ्द्य;ति वक्तव्यम्।
ःथ्द्य;ह मा भूत्--महान् सर्षपः, महान् हिमवानिति।।
(एकदेशिन उपसंख्यानभाष्यम्)
जातेर्नेति वक्तव्यम्।
ःथ्द्य;ह मा भूत्--वृक्षोऽयम्, प्लक्षोऽयमिति।।
(प्रत्याक्षेपभाष्यम्)
न तर्हीदानीमिदं भवति--गोतरः, गोतरा, अश्वतरः, अश्वतरा--ःथ्द्य;ति।
(प्रत्याक्षेपसमाधानभाष्यम्)
नैष जातेः प्रकर्षः।
कस्य तर्हि?
गुणस्य।
गौरयं यः शकटं वहति, गोतरोऽयं यः शकटं वहति सीरं च।
गौरियं या समां समां विजायते, गोतरेयं या समां समां विजायते स्त्रीवत्सा च।
अश्वोऽयं यश्चात्वारि योजनानि गच्छति, अश्वतरोऽयं योऽष्टौ योजनानि गच्छति।।
(एकदेशिन उपसंख्यानभाष्यम्)
तथा तिङश्च 5।3।56 ःथ्द्य;त्यत्र क्रियाग्रहणं कर्तव्यम्, साधनप्रकर्षे मा भूत्।।
(एकदेशिमतानां समाधानभाष्यम्)
नैष दोषः।
यत्तावदुच्यते--गुणग्रहणं कर्तव्यम् ःथ्द्य;ति।
न कर्तव्यम्। यस्य प्रकर्षोऽस्ति तस्य प्रकर्षे भविष्यति। गुणस्य चैव प्रकर्षो न द्रव्यस्य।
कथं ज्ञायते?
एवं हि दृश्यते लोके--ःथ्द्य;ह समाने आयामे विस्तारे पटस्यान्योऽर्घो भवति काशिकस्य, अन्यो माथुरस्य।
गुणान्तरं च खल्वपि शिल्पिन उत्पादयमाना द्रव्यान्तरेण प्रक्षालयन्ति। अन्येन शुद्धं धौतकं कुर्वन्ति, अन्येन शैफालिकम्, अन्येन माध्यमिकम्।।
(एकदेश्याक्षेपस्य समाधानभाष्यम्)
यदप्युच्यते--क्रियमाणे चापि गुणग्रहणे समानगुणग्रहणं कर्तव्यम्, शुक्लात्कृष्णे मा भूत् ःथ्द्य;ति।
न कर्तव्यम्।
समानगुण एव स्पर्धा भवति, न ह्याढ्याभिरूपौ स्पर्धेते।
वाचकेन खल्वप्युत्पत्तव्यम्, न च शुक्लात्कृष्णे प्रत्यय उत्पद्यमानो वाचकः स्यात्।।
(एकदेश्याक्षेपस्य समाधानभाष्यम्)
यदप्युच्यते--अदूरविप्रकर्षे ःथ्द्य;ति वक्तव्यम् ःथ्द्य;ति।
न वक्तव्यम्।
अदूरविप्रकर्षे एव स्पर्धा भवति, न हि निष्कधनः शतनिष्कधनेन स्पर्धते।।
(एकदेश्याक्षेपस्य समाधानभाष्यम्)
यदप्युच्यते--जातेर्नेति वक्तव्यम् ःथ्द्य;ति।
न वक्तव्यम्।
जननेन या प्राप्यते सा जातिः, न चैतस्यार्थस्य प्रकर्षापकर्षौ स्तः।।
(एकदेश्याक्षेपस्य समाधानभाष्यम्)
यदप्युच्यते--तिङश्च ःथ्द्य;त्यत्र क्रियाग्रहणं कर्तव्यम्, साधनप्रकर्षे मा भूत्--ःथ्द्य;ति।
न कर्तव्यम्।
साधनं वै द्रव्यं, न च द्रव्यस्य प्रकर्षापकर्षौ स्तः।।
(शौक्ल्यगुणस्यैकत्वप्रस्थापकभाष्यम्)
किं पुनरेकं शौक्ल्यमाहोस्विन्नाना?
किं चातः?
यद्येकं, प्रकर्षो नोपपद्यते। न हि तेनैव तस्य प्रकर्षो भवति।
अथ नाना, समानगुणग्रहणं कर्तव्यम्--शुक्लात् कृष्णे मा भूदिति।
अस्त्वेकं शौक्लयं, तत्तु विशेषवत्।।
(गुणे विशेषप्रतिपादकभाष्यम्)
किं कृतो विशेषः?
अल्पत्वमहत्त्वकृतः।
अथवा पुनरस्त्वेकं निर्विशेषं च।
ननु चोक्तं प्रकर्षो नोपपद्यते न हि तेनैव तस्य प्रकर्षो भवति ःथ्द्य;ति।
गुणान्तरेण प्रच्छादनात् प्रकर्षो भविष्यति।।
(नानात्वेऽपि दोषाभावप्रतिपादकभाष्यम्)
अथवा पुनरस्तु नाना। ननु चोक्तं--समानगुणग्रहणं कर्तव्यम्, शुक्लात् कृष्णे मा भूत् ःथ्द्य;ति।
न कर्तव्यम्। समानगुण एव स्पर्धा भवति। न ह्याढ्याभिरूपौ स्पर्धेते।।
वाचकेन खल्वप्युत्पत्तव्यम्, न च शुक्लात्कृष्णे उत्पद्यमानो वाचकः स्यात्।।
(अतिशायनार्थस्य प्रत्ययार्थत्वं प्रकृतिविशेषणत्वं वेतिविचारभाष्यम्)
किमन्तात्पुनरुत्पत्त्या भवितव्यम्?
(अतिशायनार्थस्यप्रत्ययार्थत्वप्रस्थापकभाष्यम्)
द्वितीयाऽन्तात् अतिशय्यमानात्। शुक्लमतिशेते--शुक्लतरः। कृष्णमतिशेते--कृष्णतरः।।
(प्रत्ययार्थत्वे दोषदर्शकभाष्यम्)
यदि द्वितीयान्तादतिशय्यमानात्--
कालोऽतिशेते कालीम्--कालितर ःथ्द्य;ति प्राप्नोति, कालतर ःथ्द्य;ति चेष्यते।
तथा काली अतिशेते कालम्--
कालतरा ःथ्द्य;ति प्राप्नोति, कालितरेति चेष्यते।
तथा गार्ग्योऽतिशेते गर्गान्--
गर्गतर ःथ्द्य;ति प्राप्नोति, गार्ग्यतर ःथ्द्य;ति चेष्यते।
तथा गर्गा अतिशेरते गार्ग्यं--गार्ग्यतरा ःथ्द्य;ति प्राप्नोति, गर्गतरा ःथ्द्य;ति चेष्यते।।
(अतिशायनार्थस्य प्रकृत्यविशेषणत्वाभिप्रायकभाष्यम्)
एवं तर्हि प्रथमान्तात्स्वार्थिको भविष्यति--कालोऽतिशेते--कालतरः। काली अतिशेते--कालितरा। गार्ग्योऽतिशेते--गार्ग्यतरः। गर्गा अतिशेरते--गर्गतराः।।
(प्रकृत्यर्थविशेषणत्वे दोषदर्शकभाष्यम्)
यदि प्रथमान्तात्स्वार्थिकः--कुमारितरा, किशोरितरा--अव्यतिरिक्तं वय ःथ्द्य;ति कृत्वा वयसि प्रथमे 4।1।20 ःथ्द्य;ति ङीप् प्राप्नोति।
तरपोक्तत्वात् स्त्रीत्वस्य प्रत्ययो न भविष्यति।
टाबपि तर्हि न प्राप्नोति।
उक्तेऽपि हि भवन्त्येते टाबादयः। उक्तमेतत्--स्वार्थिकाष्टाबादय ःथ्द्य;ति।
ङीबपि तर्हि प्राप्नोति।।
(अतिशायनशब्देन प्रकृत्यर्थगतगुणाभिधानप्रस्तावभाष्यम्)
एवं तर्हि गुणोऽभिधीयते।।
(गुणाभिधाने दोषदर्शनपूर्वकं तन्निराकरणभाष्यम्)
एवमपि लिङ्गवचनानि न सिध्यन्ति--शुक्लतरम्। शुक्लतरा। शुक्लतरः। शुक्लतरौ। शुक्लतरा ःथ्द्य;ति।
आश्रयतो लिङ्गवचनानि भवन्ति। गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति। तद्यथा--शुक्लं वस्रं, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला ःथ्द्य;ति।
यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्यापि भविष्यति।।
(अतिशायनशब्देन प्रकृत्यर्थगतक्रियाऽभिधानप्रस्तावभाष्यम्)
अथवा क्रियाऽभिधीयते।।
(क्रियाऽभिधाने दोषदर्शनपूर्वकं तन्निराकरणभाष्यम्)
एवमपि लिङ्गवचनानि न सिध्यन्ति।
आश्रयतो लिङ्गवचनानि भविष्यन्ति।
एवमपि द्विवचनं प्राप्नोति--यश्च हि अतिशेते यश्चातिशय्यते उभौ तौ तस्याश्रयौ भवतः।
नैष दोषः।
कथम्?
शेतिरकर्मकः।
अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्ति।
कर्मापदिष्टा विधयः कर्मस्थभावकानां कर्मस्थक्रियाणां वा भवन्ति, कर्तृस्थभावकश्च शेतिः।।
(एकेनैव न्यासेन पक्षद्वयस्याप्युपपादनपरं भाष्यम्)
अथ यद्येव द्वितीयान्तादुत्पत्तिः, प्रथमान्ताद्वा स्वार्थिकः, अथापि गुणोऽभिधीयते, अथापि क्रिया, किं गतमेतदियता सूत्रेण आहो स्विदन्यतरस्मिन् पक्षे भूयः सूत्रं कर्तव्यम्?
गतमिंत्याह।
कथम्? यदा तावद् द्वितीयान्तादुत्पत्तिः प्रथमान्ताद्वा स्वार्थिकः, तदा कृत्यल्युटो बहुलम् 3।3।113
ःथ्द्य;त्येवमत्र ल्युट् भविष्यति।।
यद गुणोऽभिधीयते तदा न्यायसिद्धमेव।।
यदाऽपि क्रिया तदाऽपि न्यायसिद्धमेव।।
अथवाऽतिशाययतीत्यतिशायनम्।
कः प्रयोज्यार्थः?
गुणा गुणिनं प्रयोजयन्ति,गुणी वा गुणान्परयोजयति।
कः पुनरिह शेत्यर्थः?
ःथ्द्य;ह यो यत्र भवति शेतेऽसौ तत्र गुणाश्च गुणिनि शेरते।।
शेत्यर्थः कारितार्थो वा निर्देशोऽयं समीक्षितः।
शेत्यर्थे नास्ति वक्तव्यं कारितार्थं ब्रवीमि ते।।
गुणी वा गुणसंयोगाद् गुणो वा गुणिना यदि।
अभिव्यज्येत संयोगात्कारितार्थो भविष्यति।।
(वार्तिकावतरणभाष्यम्)
ःथ्द्य;हास्यापि सूक्ष्माणि वस्त्राणि, अस्यापि सूक्ष्माणि वस्त्राणीति परत्वादातिशायिकः प्राप्नोति।।
(5833 अतिव्याप्तिप्रत्याक्षेपे वार्तिकम्।। 1 ।।)
- अतिशायने बहुव्रीहावुक्तम् -
(भाष्यम्) किमुक्तम्?
ठ पूर्वपदातिशये आतिशायिकाद्बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः उत्तरपदातिशये आतिशायिको बहुव्रीहेर्बह्वाढ्यतराद्यर्थः ःथ्द्य;ति।।
(वार्तिकावतरणभाष्यम्)
ःथ्द्य;ह त्रीणि शुक्लानि वस्त्राणि प्रकर्षापकर्षयुक्तानि। तत्र पूर्वमपेक्ष्य उत्तरे द्वे तरबन्ते। तत्र द्वयोस्तरबन्तयोरेकस्मात्प्रकर्षयुक्ताच्छुक्लतरशब्दादुत्पत्तिः प्राप्नोति, शुक्लशब्दादेवेष्यते।।
(5834 अतिव्याप्तिनिरासवार्तिकम्।। 2 ।।)
- शुक्लतरस्य शुक्लभावात्प्रकृतेः प्रत्ययविज्ञानम् -
(भाष्यम्) शुक्लतरस्य शुक्लभावात्प्रकृतेः प्रत्ययो विज्ञायते। शुक्लतरशब्दे शुक्लशब्दोऽस्ति तस्मादुत्पत्तिर्भविष्यति।
नैतद्विवदामहे शुक्लतरशब्दे शुक्लशब्दोऽस्ति नास्तीति।
किं तर्हि?
शुक्लतरशब्दोऽप्यस्ति तत उत्पत्तिः प्राप्नोति।।
(5835 अतिव्याप्तिनिरासवार्तिकम्।। 3 ।।)
- तदन्ताच्च स्वार्थे छन्दसि दर्शनं श्रेष्ठतमायेति -
(भाष्यम्) तदन्तादातिशायिकान्तात्स्वार्थे छन्दसि आतिशायिको दृश्यते--देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे।।
(अतिव्याप्तिनिरासभाष्यम्)
एवं तर्हि--मध्यमात् शुक्लशब्दात्पूर्वपरापेक्षादुत्पत्तिर्वक्तव्या। मध्यमश्च शुक्लशब्दः पूर्वमपेक्ष्य प्रकृष्टः, परमपेक्ष्य न्यूनः। न च
न्यूनः प्रवर्तते।।
अथ वा उत्पद्यताम्, लुग्भविष्यति।।
वाचकेन खल्वप्युत्पत्तव्यम्,
न च शुक्लतरशब्दादुत्पद्यमानो वाचकः स्यात्।।
न खल्वपि बहूनां प्रकर्षे तरपा भवितव्यम्।
केन तर्हि?
तमपा।
पूर्वेण स्पर्धनामोऽयं मध्यमो लभते सितः।
परस्मिन् न्यूनतामेति न च न्यूनः प्रवर्तते।।
अपेक्ष्य मध्यमःपूर्वमाधिक्यं लभते सितः।
परस्मिन्न्यूनतामेति यथाऽमात्यः स्थिते नृपे।।
अस्तु वाऽपि तरस्तास्मान्नापशब्दो भविष्यति।
वाचकश्चेत्प्रयोक्तव्यो वाचकश्चेत्प्रयुज्यताम्।।
-5-3-57- द्विवचनविभज्योपपदे तरबीयसुनौ (2215)
(तरप्प्रत्ययाधिकरणम्)
(न्यासाक्षेपभाष्यम्)
द्विवचन ःथ्द्य;त्युच्यते, तत्रेदं न सिध्यति--दन्तोष्ठस्य दन्ताः स्निग्धतराः पाणिपादस्य पादौ सुकुमारतरौ अस्माकं च देवदत्तस्य च देवदत्तोऽभिरूपतरः ःथ्द्य;ति।।
(न्यासान्तरोपपादकभाष्यम्)
यदि पुनर् द्व्यर्थोपपदे ःथ्द्य;त्युच्येत, तत्रायमप्यर्थः--विभज्योपपदग्रहणं न कर्तव्यं भवति। ःथ्द्य;हापि--सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतराः ःथ्द्य;ति द्व्यर्थोपपदे ःथ्द्य;त्येव सिद्धम्।।
(न्यासान्तराक्षेपभाष्यम्)
नैवंजातीयिका द्व्यर्थता शक्या विज्ञातुम्।
ःथ्द्य;हापि प्रसज्येत--सांकाश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रका अभिरूपतमाः ःथ्द्य;ति।।
अवश्यं खल्वपि विभज्योपपदग्रहणं कर्तव्यम्। यो हि बहूनां विभागस्तदर्थम्--सांकाश्यकेभ्यश्च पाटलिपुत्रकेभ्यश्च माथुरा अभिरूपतराः ःथ्द्य;ति।
तत्तर्हि द्व्यर्थोपपद ःथ्द्य;ति वक्तव्यम्।।
(न्यासान्तरनिराकरणभाष्यम्)
न वक्तव्यम्। नेदं पारिभाषिकस्य द्विवचनस्य ग्रहणम्।
किं तर्हि?
अन्वर्थग्रहणम्--उच्यते ःथ्द्य;ति वचनम्, द्वयोरर्थयोर्वचनं द्विवचनमिति।
एवमपि--
(5836 एकदेशिन उपसंख्यानवार्तिकम्।। 4 ।।)
- तरबीयसुनोरेकद्रव्यस्योत्कर्षापकर्षयोरुपसंख्यानम् -
(भाष्यम्) तरबीयसुनोरेकद्रव्यस्योत्कर्षापकर्षयोरुपसंख्यानं कर्तव्यम्। परुद्भवान् पटुरासीत्, पटुतरश्चैषमः ःथ्द्य;ति।।
(5837 सिद्धान्तवार्तिकम्।। 5 ।।)
- सिद्धं तु गुणप्रधानत्वात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
गुणप्रधानत्वात्। गुणप्रधानोऽयं निर्देशः क्रियते, गुणान्तरयोगाच्चान्यत्वं भवति। तद्यथा--तमेव गुणान्तरयुक्तं वक्तारो भवन्ति--अन्यो भवान् संवृत्त ःथ्द्य;ति।।
-5-3-58- अजादी गुणवचनादेव (2216)
(नियमाधिकरणम्)
(एवकारप्रयोजनभाष्यम्)
एवकारः किमर्थः?
नियमार्थः।
नेतदस्ति प्रयोजनम्,
सिद्धे विधिरारभ्यमाणोऽन्तरेणैवकारं नियमार्थो भविष्यति।।
ःथ्द्य;ष्टतोऽवधारणार्थस्तर्हि। यथैवं विज्ञायेत--अजादी गुणवचनादेवेति।
मैवं विज्ञायि--अजादी एव गुणवचनादिति।
किं च स्यात्?
न व्यञ्ञ्जनादी गुणवचनात्स्याताम्।।
-5-3-60- प्रशस्यस्य श्रः(2218)
(श्रादेशाधिकरणम्)
(सूत्रार्थोपपादकभाष्यम्)
ःथ्द्य;दमयुक्तं वर्तते।
किमत्रायुक्तम्?
अजादी गुणवचनादेव 58 ःथ्द्य;त्युक्त्वा अगुणवचनानामपि अजाद्योरादेशा उच्यन्ते।
नैष दोषः। एतदेव ज्ञापयति--भवत एतेभ्यो।?गुणवचनेभ्योऽपि अजादी ःथ्द्य;ति, यदयमजाद्योः परत आदेशान् शास्ति।
एवमपि तयोः ःथ्द्य;ति वक्तव्यं स्यात्, तयोः परत ःथ्द्य;ति।।
यदि पुनरयं विधिर्ज्ञायेत।
नैवं शक्यम्, व्यञ्ञ्जनादी हि न स्याताम्, उपाधीनां च संकरः स्यात् पुनर्विधानादजाद्योः।
ननु चैते विशेषा अनुवर्तेरन्।
यद्यप्येते अनुवर्तेरन् व्यञ्ञ्जनादी तर्हि न स्याताम्।
एवं तर्हि आचार्यप्रवृत्तिर्ज्ञापयति--भवत एतेभ्योऽगुणवचनेभ्योऽप्यजादी ःथ्द्य;ति--यदयमजाद्योरादेशं शास्ति।
ननु चोक्तं तयोरिति वक्तव्यमिति।
न वक्तव्यम्। प्रकृतमजादिग्रहणमनुवर्तते।
क्व प्रकृतम्?
अजादी गुणवचनादेवेति।
तद्वै प्रथमानिर्दिष्टम्, सप्तमीनिर्दिष्टेन चेहार्थः।
अर्थाद्विभक्तिविपरिणामो भविष्यति। तद्यथा--उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्वैनम्; देवदत्तमिति गम्यते।
देवदत्तस्य गावोऽश्वा हिरण्यम्, आढ्यो वैधवेयः; देवदत्त ःथ्द्य;ति गम्यते।
पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात्प्रथमानिर्दिष्टं द्वितीयानिर्दिष्टं च भवति।
एवमिहापि--पुरस्तात्प्रथमानिर्दिष्टं सदर्थात्सप्तमीनिर्दिष्टं भविष्यति।।
-5-3-66- प्रशंसायां रूपप् (2224)
(रूपप्प्रत्ययाधिकरणम्)
(प्रशंसायामित्यस्य प्रकृत्यर्थविशेषणबोधकं भाष्यम्)
स्त्रीलिङ्गेनायं निर्देशः क्रियते, एकवचनान्तेन च। तेन स्त्रीलिङ्गादेवोत्पत्तिः स्यादेकवचनान्ताच्च। पुंनपुंसकलिङ्गात् द्विवचनबहुवचनान्ताच्च न स्यात्।
नैष दोषः। नायं प्रत्ययार्थः।
किं तर्हि?
प्रकृत्यर्थविशेषणमेतत्--प्रशंसायां यत्प्रातिपदिकं वर्तते तस्माद्रूपब्भवति।
कस्मिन्नर्थे?
स्वार्थ ःथ्द्य;ति। स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते।।
(5838 पूर्वपक्षिण उपसंख्यानवार्तिकम्।। 1 ।।)
- प्रकृतेर्लिङ्गवचनाभावात् तिङ्प्रकृतेरम्भाववचनम् -
(भाष्यम्) प्रकृतेर्लिङ्गवचनाभावात्तिङ्प्रकृते रूपपोऽम्भावो वक्तव्यः। पचतिरूपम्, पचतोरूपम्, पचन्तिरूपमिति।।
(5839 सिद्धान्तवार्तिकम्।। 2 ।।)
- सिद्धं तु क्रियाप्रधानत्वात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
क्रियाप्रधानत्वात्।
क्रियाप्रधानमाख्यातं भवति, एका च क्रिया। द्रव्यप्रधानं नाम।।
(आख्यातस्य क्रियाप्राधान्यसाधकं भाष्यम्)
कथं पुनर्ज्ञायते क्रियाप्रधानमाख्यातं भवति, द्रव्यप्रधानं नामेति?
यत्क्रियां पृष्टस्तिङाऽऽचष्टे--किं देवदत्तः करोति? पचतीति।
द्रव्यं पृष्टः कृताऽऽचष्टे--कतरो देवदत्तः? यः कारको हारक ःथ्द्य;ति।।
(क्रियाप्राधान्येऽपि द्विवचनबहुवचनसाधकभाष्यम्)
यदि तर्ह्येका क्रिया द्विवचनबहुवचनानि न सिद्ध्यन्ति--पचतः, पचन्तीति।
नैतानि क्रियाऽपेक्षाणि,
किं तर्हि?
साधनापेक्षाणि।
ःथ्द्य;हापि तर्हि प्राप्नुवन्ति--पचतिरूपम्, पचतोरूपम्, पचन्तिरूपमिति।
तिङोक्तत्वात्तस्याभिसंबन्धस्य न भविष्यति।
एकवचनामपि तर्हि न प्राप्नोति?
समयात् भविष्यति।
द्विवचनबहुवचनान्यपि तर्हि समयात्प्राप्नुवन्ति।
एवं तर्हि--एकवचनमुत्सर्गतः करिष्यते, तस्य द्विबह्वोरर्थयोर्द्विवचनबहुवचने अपवादौ भविष्यतः।
एवमपि नपुंसकत्वं वक्तव्यम्।
न वक्तव्यम्।
लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य।।
(5849 पूर्वपक्षिण उपसंख्यानवार्तिकम्।। 3 ।।)
- वृषलादिभ्य उपसंख्यानम् -
(भाष्यम्) वृषलादिभ्य उपसंख्यानं कर्तव्यम्। वृषलरूपः, दस्युरूपः, चोररूप ःथ्द्य;ति।।
(5841 समाधानवार्तिकम्।। 4 ।।)
- सिद्धं तु प्रकृत्यर्थवैस्पष्ट्यवचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
प्रकृत्यर्थस्य वैस्पष्ट्य ःथ्द्य;ति वक्तव्यम्। वृषलरूपोऽयम्, अप्ययं पलाण्डुना सुरां पिबेत्। चोररूपोऽयम्, अप्ययमक्ष्णोरञ्ञ्जनं हरेत्। दस्युरूपोऽयम्, अप्ययं धावतो लोहितं पिबेत्।।
-5-3-67- ःथ्द्य;र्षदसमाप्तौ कल्पब्देश्यदेशीयरः (2225)
(कल्पप्प्रत्ययाधिकरणम्)
(5842 एकदेशिवार्तिकम्।। 1 ।।)
- ःथ्द्य;र्षदसमाप्तौ क्रियाप्रधानत्वाल्लिङ्गवचनानुपपत्तिः -
(भाष्यम्) ःथ्द्य;र्षदसमाप्तौ क्रियाप्रधानत्वाल्लिङ्गवचनयोरनुपपत्तिः। पटुकल्पः, पटुकल्पौ, पटुकल्पा ःथ्द्य;ति।
एकोऽयमर्थ ःथ्द्य;र्षदसमाप्तिर्नाम, तस्यैकत्वादेकवचनं प्राप्नोति।।
(5843 सिद्धान्तवार्तिकम्।। 2 ।।)
- प्रकृत्यर्थविशेषणत्वात्सिद्धम् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
नायं प्रत्ययार्थः।
किं तर्हि?
प्रकृत्यर्थविशेषणमेतत्--ःथ्द्य;र्षदसमाप्तौ यत्प्रातिपदिकं वर्तते तस्मात्कल्पबादयो भवन्ति।
कस्मिन्नर्थे?
स्वार्थ ःथ्द्य;ति। स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते।।
(5844 प्रकृत्यर्थाक्षेपवार्तिकम्।। 3 ।।)
- प्रकृत्यर्थे चेल्लिङ्गवचनानुपपत्तिः -
(भाष्यम्) प्रकृत्यर्थे चेल्लिङ्गवचनयोरनुपपत्तिः। गुडकल्पा द्राक्षा। तैलकल्पा प्रसन्ना। पयस्कल्पा यवागूरिति।।
(5845 समाधानवार्तिकम्।। 4 ।।)
- सिद्धं तु तत्संबन्ध उत्तरपदार्थे प्रत्ययवचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
तत्संबन्धेउःथ्द्य;र्षदसमाप्तिसंबन्धे उत्तरपदार्थे प्रत्ययो भवतीति वक्तव्यम्।
सिध्यति। सूत्रं तर्हि भिद्यते।
यथान्यासमेवास्तु।।
(यथान्यासे समीहितार्थसाधकभाष्यम्)
ननु चोक्तम् ःथ्द्य;र्षदसमाप्तौ क्रियाप्रधानत्वाल्लिङ्गवचनानुपपत्तिः ःथ्द्य;ति। परिहृतमेतत्-- प्रकृत्यर्थविशेषणत्वात्सिद्धम् ःथ्द्य;ति।
ननु चोक्तं-- प्रकृत्यर्थे चेल्लिङ्गवचनानुपपत्तिः ःथ्द्य;ति।
नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति--स्वार्थिका अतिवर्तन्ते अपि लिङ्गवचनानीति यदयं णचः स्त्रियामञ्ञ् (5।4।14) ःथ्द्य;ति स्त्रीग्रहणं करोति।
यद्येतज्ज्ञाप्यते--बहुगुडो द्राक्षा, बहुतैलं प्रसन्ना, बहुपयो यवागूरिति, अत्रापि प्राप्नोति।
नाप्यतिवर्तन्ते।।
(सूत्रोदाहरणसंपादकभाष्यम्)
किं पुनरिहोदाहरणम्?
पटुकल्पो मृदुकल्प ःथ्द्य;ति।
नैतदस्ति। निर्ज्ञातस्यार्थस्य समाप्तिर्वा भवति, विसमाप्तिर्वा, गुणश्चानिर्ज्ञातः।
ःथ्द्य;दं तर्हि--गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, पयस्कल्पा यवागूरिति।
द्रव्यमप्यनिर्ज्ञातम्।
ःथ्द्य;दं तर्हि--कृतकल्पम्, भुक्तकल्पम्, पीतकल्पम्--ःथ्द्य;ति।।
(5846 कृतकल्पस्योदाहरणत्वाभावबोधकं वार्तिकम्।।5।।)
- क्तान्तात्प्रत्ययविधानानुपपत्तिः, क्तस्य भूतकाललक्षणत्वात्कल्पादीनां चासमाप्तिवचनात् -
(भाष्यम्) क्तान्तात्प्रत्ययविधेरनुपपत्तिः।
किं कारणम्?
क्तस्य भूतकाललक्षणत्वात् भूतकाललक्षणः क्तः। कल्पादीनां चासमाप्तिवचनात् विसमाप्तिवचनाश्च कल्पादयः। न चास्तिसंभवो यद्भूतकालश्च स्यादसमाप्तिश्चेति।।
(5847 कृतकल्पस्योदाहरणत्वसंपादकवार्तिकम्।। 6 ।।)
- सिद्धं तु आशंसायां भूतवद्वचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
आशंसायां भूतवच्च (3।3।132) ःथ्द्य;त्येवमत्र क्तो भविष्यति।।
(उदाहरणसंपादकं भाष्यम्)
ःथ्द्य;दं चाप्युदाहरणं--पटुकल्पः, मृदुकल्प ःथ्द्य;ति।
ननु चोक्तं निर्ज्ञातस्यार्थस्य समाप्तिर्वा भवति विसमाप्तिर्वा गुणश्चानिर्ज्ञातः ःथ्द्य;ति।
लोकतो व्यवहारं दृष्ट्वा गुणस्य निर्ज्ञानम्। तद्यथा-पटुरयं ब्राह्मण ःथ्द्य;त्युच्यते--यो लघुनोपायेनार्थान् साधयति। पटुकल्पोऽयमित्युच्यते--यो न तथा साधयति।
ःथ्द्य;दं चाप्युदाहरणम्--गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, पयस्कल्पा यवागूरिति।
ननु चोक्तं द्रव्यमप्यनिर्ज्ञातम् ःथ्द्य;ति।
लोकतो द्रव्यमपि निर्ज्ञातम्।।
-5-3-68- विभाषा सुपो बहुच्पुरस्तात्तु (2226)
(बहुजधिकरणम्)
(विभाषापदप्रयोजनभाष्यम्)
विभाषाग्रहणं किमर्थम्?
विभाषा बहुज्यथा स्याद्, बहुचा मुक्ते वाक्यमपि यथा स्यात्।
नैतदस्ति प्रयोजनम्। प्रकृता महाविभाषा, तया वाक्यमपि भविष्यति।।
ःथ्द्य;दं तर्हि प्रयोजनम्--कल्पादयोऽपि यथा स्युः ःथ्द्य;ति।
एतदपि नास्ति प्रयोजनम्, बहुजप्युच्यते कल्पादयोऽपि, तदुभ्यं वचनाद्भविष्यति।
नैवं शक्यम्। अक्रियमाणे हि विभाषाग्रहणेऽनवकाशो बहुच् कल्पादीन् बाधेत।
कल्पादयोऽप्यनवकाशाः, ते वचनाद्भविष्यन्ति।
सावकाशाः कल्पादयः।
कोऽवकाशः?
तिङन्तान्यवकाशः।।
(सुप्पदप्रयोजनखण्डनभाष्यम्)
अथ सुब्ग्रहणं किमर्थम्?
सुबन्तादुत्पत्तिर्यथा स्यात्, प्रातिपादिकान्मा भूदिति।
नैतदस्ति प्रयोजनम्। नास्त्यत्र विशेषः सुबन्तादुत्पत्तौ सत्यां प्रातिपदिकाद्वा।।
यद्येवम्--ःथ्द्य;हापि नार्तः सुब्ग्रहणेन--सुप आत्मनः क्यज् 3।1।8 ःथ्द्य;ति। ःथ्द्य;हापि नास्ति विशेषः सुबन्तादुत्पत्तौ सत्यां प्रातिपदिकाद्वा। अयमस्ति विशेषः--सुबन्तादुत्पत्तौ सत्यां पदसंज्ञा सिद्धा भवति। प्रातिपदिकादुत्पत्तौ सत्यां पदसंज्ञा न प्राप्नोति। ननु च प्रातिपदिकादुत्पत्तौ सत्यां पदसंज्ञा सिद्धा।
कथम्?
आरभ्यते नः क्ये 1।4।15 ःथ्द्य;ति।
तच्चावश्यं वक्तव्यम्--सुबन्तादुत्पत्तौ सत्यां नियमार्थम्, तदेव प्रातिपदिकादुत्पत्तौ सत्यां विध्यर्थं भविष्यति।।
ःथ्द्य;दं तर्हि प्रयोजनम्--सुबन्तादुत्पत्तिर्यथा स्यात्, तिङन्तान्मा भूदिति।
एतदपि नास्ति प्रयोजनम्। ङ्याप्प्रातिपदिकात्(4।1।1) ःथ्द्य;ति वर्तते।
अत उत्तरं पठति--
(5848 सुप्प्रयोजनवार्तिकम्।। 1 ।।)
- बहुचि सुब्ग्रहणात्पूर्वत्र तिङो विधानम् -
(भाष्यम्) बहुचि सुब्ग्रहणं क्रियते, पूर्वत्र तिङो विधिर्यथा विज्ञायेत।
नैतदस्ति प्रयोजनम्। प्रकृतं तिङ्ग्रहणमनुवर्तते।
क्व प्रकृतम्?
अतिशायने तमबिष्ठनौ 5।3।55 तिङश्च 56 ःथ्द्य;ति।।
(वार्तिके न्यासान्तरबोधकभाष्यम्)
एवं तर्हि--बहुचि सुब्ग्रहणं पूर्वत्र तिङो विधानात् बहुचि सुब्ग्रहणं क्रियते।
किं कारणम्?
पूर्वत्र तिङो विधानात्। पूर्वत्र तिङश्चेत्यनुवर्तते, तदिहापि प्राप्नोति।
ननु च तिङ्ग्रहणं निवर्तते। अवश्यमुत्तरार्थमनुर्वत्यन्ते--अव्ययसर्वनाम्नामकच्प्राक् टेः 5।3।71 ःथ्द्य;ति। पचतकि, जल्पतकीत्येवमर्थम्।। यदि सुब्ग्रहणं क्रियते, स्वरो न सिध्यति। बहुपटवः एवं स्वरः प्रसज्येत, बहुप्टव ःथ्द्य;ति चेष्यते।
पठिष्यति ह्याचार्य्यः-- चितः सप्रकृतेर्बह्वकजर्थम् ःथ्द्य;ति स्वरः कथम्?
(5849 स्वरसाधकवार्तिकम्।। 2 ।।)
- स्वरः प्रातिपदिकत्वात् -
(भाष्यम्) सुब्लुकि कृते प्रातिपदिकत्वात्स्वरो भविष्यति।।
(तुपदाक्षेपभाष्यम्)
अथ तुग्रहणं किमर्थम्।।
(5650 तुपदप्रयोजनवार्तिकम्।। 3 ।।)
- तुग्रहणं नित्यपूर्वार्थम् -
(भाष्यम्) तुग्रहणं क्रियते--नित्यं पूर्वो यथा स्यात्, विभाषा मा भूदिति।
नैतदस्ति प्रयोजनम्। न विभाषाग्रहणेन पूर्वमभिसंबध्यते।
किं तर्हि?
बहुजभिसंबध्यते--विभाषा बहुज्भवतीति। यदा च भवति तदा नित्यं पूर्वो भवतीति।।
ःथ्द्य;दं तर्हि प्रयोजनम्--प्रागुत्पत्तेर्यल्लिङ्गं वचनं च तदुत्पन्नेऽपि प्रत्यये यथा स्यात्। बहुगुडो द्राक्षा, बहुतैलं प्रसन्ना, बहुपयो यवागूरिति।
एतदपि नास्ति प्रयोजनम्।
स्वार्थिकोऽयम्, स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते।।
एवं तर्हि सिद्धे सति यत्तुग्रहणं करोति तज्ज्ञापयत्याचार्यः--स्वार्थिका अतिवर्तन्ते अपि लिङ्गवचनानीति।
किमेतस्य ज्ञापने प्रयोजनम्?
गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, पयस्कल्पा यवागूरित्येतत्सिद्धं भवति।।
(5851 विप्रतिषेधोपसंख्यानवार्तिकम्।। 4 ।।)
- तमादिभ्यः कल्पादयो विप्रतिषेधेन -
(भाष्यम्) तमादिभ्यः कल्पादयो भवन्ति विप्रतिषेधेन।
तमादीनामवकाशः--प्रकर्षस्य वचनम्, ःथ्द्य;र्षदसमाप्तेरवचनम्। पटुतरः, पटुतमः।
कल्पादीनामवकाशः--ःथ्द्य;र्षदसमाप्तेर्वचनं, प्रकर्षस्यावचनम्। पटुकल्पः, मृदुकल्पः।
उभयवचने उभयं प्राप्नोति--पटुकल्पतरः, मृदुकल्पतरः। कल्पादयो भवन्ति विप्रतिषेधेन।।
(वार्तिकोक्तविप्रतिषेधाक्षेपभाष्यम्)
यद्येवमीषदसमाप्तेः प्रकर्षे तमादिः प्रत्ययः प्राप्नोति, प्रकृतेरेव च प्रकर्ष ःथ्द्य;ष्यते।।
(5852 समाधानवार्तिकम्।। 5 ।।)
- तमादिरीषत्प्रधानत्वात् -
(भाष्यम्) तमादिरीषत्प्रधानादपि भवन् यस्य प्रकर्षोऽस्ति तस्य प्रकर्षे भविष्यति।
कस्य च प्रकर्षोऽस्ति?
प्रकृतेरेव।।
-5-3-71- अव्ययसर्वनाम्नामकच्प्राक् टेः (2229)
-5-3-72- कस्य च दः (2230)
(अकजधिकरणम्)
(अकच्प्रकृतिनिर्धारकभाष्यम्)
किमयं सुबन्तस्य प्राक् टेर्भवति, आहोस्वित् ङ्याप्प्रातिपदिकस्य?
कुतः संदेहः?
उभयं प्रकृतम्, अन्यतरच्छक्यं विशेषयितुम्।
किं चातः?
यदि सुबन्तस्य--युष्मकाभिः, अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोरिति न सिध्यति।
अथ प्रातिपदिकस्य--त्वयका, मयका, त्वयकि, मयकि--ःथ्द्य;त्यत्रापि प्राप्नोति।
अस्तु सुबन्तस्य।
कथं--युष्मकाभिः, अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोरिति?
अनोकारसकारभकारादाविति वक्तव्यम्।।
(5853 उपसंख्यानवार्तिकम्।। 1 ।।)
- अकच्प्रकरणे तूष्णीमः काम् -
(भाष्यम् अकच्प्रकरणे तूष्णीमः काम्वक्तव्यः।
आसितव्यं किल तूष्णीकामेतत्पश्यत चिन्तितम्।।
(5854 उपसंख्यानवार्तिकम्।। 2 ।।)
- शीले को मलोपश्च -
(भाष्यम्) शीले को मलोपश्च वक्तव्यः। तूष्णीं शीलः--तूष्णीकः।।
(नानादेशप्रत्ययानां बाध्यबाधकभावबोधकभाष्यम्
ःथ्द्य;ह--भिनत्ति, च्छिनत्तीति श्नमि कृते शप् प्राप्नोति।
बहुकृतम्, बहुभुक्तं, बहुपीतं--बहुचि कृते कल्पादयः प्राप्नुवन्ति।
उच्चकैः, नीचकैः--अकचिकृते कादयः प्राप्नुवन्ति।
ननु च श्नम्बहुजकचोऽपवादास्ते बाधका भविष्यन्ति।।
(5855 नानादेशानां बाधकत्वबोधकवार्तिकम्।। 3 ।।)
- श्नमब्हुजकक्षु नानादेशत्वादुत्सर्गप्रतिषेधः -
(भाष्यम्0 श्र्नम्बहुजकक्षु नानादेशत्वादुत्सर्गस्य प्रतिषेधो वक्तव्यः। समानदेशैरपवादैरुत्सर्गाणां बाधनं भवति, नानादेशत्वान्न प्राप्नोति।।
(5856 पूर्वविप्रतिषेधबोधकवार्तिकम्।। 4 ।।)
- कविधेस्तमादयः पूर्वविप्रतिषिद्धम् -
(भाष्यम्) कविधेस्तमादयो भवन्ति पूर्वविप्रतिषेधेन।
कविधेरवकाशः--कुत्सादीनां वचनं प्रकर्षस्यावचनम्--पटुकः, मृदुकः।
तमादीनामवकाशः--प्रकर्षस्य वचनं कुत्सादीनामवचनम्--पटुतरः, पटुतमः। उभयवचने उभयं प्राप्नोति--पटुतरकः, पटुतमकः।
तमादयो भवन्ति पूर्वविप्रतिषेधेन।।
(5857 विप्रतिषेध बोधकवार्तिकम्।। 5 ।।)
- कदाचित् छिन्नकतरादयः -
(भाष्यम्) कदाचित् छिन्नकतरादयो भवन्ति विप्रतिषेधेन। छिन्नकतरं, छिन्नकतमम्।।
(5858 पूर्वविप्रतिषेधबोधकवार्तिकम्।। 6 ।।)
- एकदेशिप्रधानश्च समासः -
(भाष्यम्) एकदेशिप्रधानश्च समासः कविधेर्भवति पूर्वविप्रतिषेधेन। अर्धपिप्पलिका, अर्धकोशातकिका।।
(5879 पूर्वविप्रतिषेधबोधकवार्तिकम्।। 7 ।।)
- उत्तरपदार्थप्रधानश्च संज्ञायां कन्विध्यर्थम् -
(भाष्यम्) उत्तरपदार्थप्रधानश्च समासो भवति पूर्वविप्रतिषेधेन।
किं प्रयोजनम्?
संज्ञायां कन्विध्यर्थम्। संज्ञायां कन् यथा स्यात्। नवग्रामकम्, नवराष्ट्रकं, नवनगरकम्।।
(5880 पूर्वविप्रतिषेधबोधकवार्तिकम्।। 8 ।।)
- कदाचिद्द्वन्द्वः -
(भाष्यम्) कदाचिद्द्वन्द्वः कविधेर्भवति पूर्वविप्रतिषेधेन। प्लक्षकन्यग्रोधकौ, प्लक्षन्यग्रोधकाविति वा।।
-5-3-74- कुत्सिते (2232)
(प्रत्ययानुपपत्तिप्रतिपादकभाष्यम्)
ःथ्द्य;ह--कुत्सितकः, अनुकम्पितक ःथ्द्य;ति स्वशब्देनोक्तत्वात्तस्यार्थस्य प्रत्ययो न प्राप्नोति।।
(प्रत्ययोपपादकं भाष्यम्)
नैष दोषः।
कुत्सितस्यानुकम्पायां भविष्यत्यनुकम्पितस्य कुत्सायाम्।।
(प्रकारान्तरेणापि प्रत्ययोपपादकं भाष्यम्)
अथ वा--
स्वार्थमभिधाय शब्दो निर-
पेक्षो द्रव्यमाह समवेतम्।
समवेतस्य च वचने
लिङ्गं वचनं विभक्तिं च ।।
अभिधाय तान् विशेषान्-
पेक्षमाणश्च कृत्स्नमात्मानम्।
प्रियकुत्सनादिषु पुनः
प्रवर्ततेऽसौ विभक्त्यन्तः।।
(कुत्सितस्य प्रकृतिप्रत्ययविशेषणत्वाक्षेपभाष्यम्)
कथं पुनरिदं विज्ञायते--कुत्सितादीनामर्थ ःथ्द्य;ति, आहोस्वित् कुत्सितादिसमानाधिकरणात्प्रातिपदिकादिति।
कश्चात्र विशेषः?
(5881 प्रत्ययाविशेषणत्वाक्षेपवार्तिकम्।। 1 ।।)
- कुत्सितादीनामर्थे चेल्लिङ्गवचनानुपपत्तिः -
(भाष्यम्) कुत्सितादीनामर्थे चेल्लिङ्गवचनयोरनुपपत्तिः। पटुकम्, पटुका, पटुकः, पटुकौ, पटुकाः--ःथ्द्य;ति। एकोऽयमर्थः कुत्सितं नाम तस्यैकत्वादेकवचनमेव प्राप्नोति।
(वार्तिकावतरणभाष्यम्)
अस्तु तर्हि कुत्सितादिसमानाधिकरणात् प्रातिपदिकादिति।।
(5882 प्रकृतिविशेषणत्वाक्षेपवार्तिकम्।। 2 ।।)
- कुत्सितादिसमानाधिकरणादिति चेदतिप्रसङ्गो यथा टाबादिषु -
(भाष्यम्) कुत्सितादिसमानाधिकरणादिति चेदतिप्रसङ्गो भवति, यथा--टाबादिषु।
कथं च टाबादिषु?
उक्तं तत्र-- स्त्रीसमानाधिकरणादिति चेद् भूतादिष्वतिप्रसङ्गः ःथ्द्य;ति। एवमिहापि कुत्सितादिसमानाधिकरणादिति चेदतिप्रसङ्गो भवति--ःथ्द्य;दं घृतकम्, ःथ्द्य;दं तैलकम्--ःथ्द्य;दं शब्दादपि प्राप्नोति।।
(5883 सिद्धान्तवार्तिकम्।। 3 ।।)
- सिद्धं तु येन कुत्सितादिवचनं तद्युक्तात्स्वार्थे प्रत्ययविधानात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
येन कुत्सितादयोऽर्था गम्यन्ते तद्युक्तात्स्वार्थे प्रत्ययो भवतीति वक्तव्यम्।
सिद्ध्यति। सूत्रं तर्हि भिद्यते।।
यथान्यासमेवास्तु।
ननु चोक्तं--कुत्सितादीनामर्थे चेल्लिङ्गवचनानुपपत्तिरिति।
नैष दोषः। नायं प्रत्ययार्थः।
किं तर्हि?
प्रकृत्यर्थविशेषणमेतत्। कुत्सितादिषु यत्प्रातिपदिकं वर्तते तस्मात्कादयो भवन्ति।
कस्मिन्नर्थे?
स्वार्थ ःथ्द्य;ति। स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते।।
-5-3-83- ठाजादावूर्ध्वं द्वितीयादचः (2241)
(प्रकृतिविकाराधिकरणम्)
(पूर्वाचार्याणां कारिकाव्याख्यानभाष्यम्)
चतुर्थात्--
चतुर्थाल्लोपो वक्तव्यः बृहस्पतिदत्तकः, बृहस्पतिकः। प्रजापतिदत्तकः, प्रजापतिकः।
अनजादौ च
अनजादौ च लोपो वक्तव्यः। देवदत्तकः, देवकः। यज्ञदत्तकः, यज्ञकः।
लोपः पूर्वपदस्य च।
पूर्वपदस्य च लोपो वक्तव्यः। देवदत्तकः, दत्तकः। यज्ञदत्तकः, दत्तकः।
अप्रत्यये तथैवेष्टः
देवदत्तः, दत्तः। यज्ञदत्तः, दत्तः।
उवर्णाल्ल ःथ्द्य;लस्य च।।
उवर्णादिलस्य च लोपो वक्तव्यः। भानुदत्तकः, भानुलः। वसुदत्तकः, वसुलः।
(पदकृत्यभाष्यम्)
अथ ठग्रहणं किमर्थम्, न ःथ्द्य;के कृते अजादावित्येव सिद्धम्?
(5784 ठग्रहणप्रयोजनवार्तिकम्।। 1 ।।)
- ठग्रहणमुको द्वितीयत्वे कविधानार्थम् -
(भाष्यम्) ठग्रहणं क्रियते, उको द्वितीयत्वे कविधिर्यथा स्यात्। वायुदत्तकः, वायुकः। पितृदत्तकः, पितृकः।।
(5885 ठग्रहणाभावे दोषवार्तिकम्।। 2 ।।)
- अजादिलक्षणे हि माथितिकादिवत् प्रसङ्गः -
(भाष्यम्) अजादिलक्षणे हि माथितिकादिवत्प्रसज्येत। तद्यथा--मथितं पण्यमस्य माथितिक ःथ्द्य;ति अकारलोपे कृते तान्तादिति कादेशो न भवति।
एवमिहापि न स्यात्।।
(5886 उपसंख्यानवार्तिकम्।। 3 ।।)
- द्वितीयादचो लोपे सन्ध्यक्षरद्वितीयत्वे तदादेर्लोपवचनम् -
(भाष्यम्) द्वितीयादयो लोपे संध्यक्षरद्वितीयत्वे तदादेर्लोपो वक्तव्यः। लहोडः, लहिकः। कहोडः, कहिकः।।
-5-3-84- शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् (2242)
(5887 उपंसख्यानवार्तिकम्।। 4 ।।)
- वरुणादीनां च तृतीयात् स चाकृतसंधीनाम् -
(भाष्यम्) वरुणादीनां च तृतीयाल्लोप उच्यते, स चाकृतसंधीनां वक्तव्यः। सुपर्याशीर्दत्तः--सुपरिकः, सुपरियः, सुपरिलः।।
(आक्षेपभाष्यम्)
ःथ्द्य;ह षडङ्गुलिः षडिक ःथ्द्य;त्यजादिलोपे कृते पदसंज्ञा न प्राप्नोति।
तत्र को दोषः?
जश्त्वं न स्यात्।।
(5888 समाधानवार्तिकम्।। 5 ।।)
- षडिके जश्त्वे उक्तम् -
(भाष्यम्) किमुक्तम्?
 सिद्धमचः स्थानिवत्त्वात् ःथ्द्य;ति। यद्येवं,
(5889 प्रत्याक्षेपवार्तिकम्।। 6 ।।)
- वाचिकादिषु पदवृत्तप्रतिषेधः -
(भाष्यम्) वाचिकादिषु पदवृत्तस्य प्रतिषेधो वक्तव्यः। वागाशीर्दत्तः, वाचिक ःथ्द्य;ति।।
(5890 प्रत्याक्षेपनिरासवार्तिकम्।। 7 ।।)
- सिद्धमेकाक्षरपूर्वपदानामुत्तरपदलोपवचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
एकाक्षरपूर्वपदानामुत्तरपदस्य लोपो वक्तव्यः। वाचिकः।।
(आक्षेपभाष्यम्)
ःथ्द्य;हापि तर्हि प्राप्नोति--षडङ्गुलिः, षडिक ःथ्द्य;ति।।
(5891 समाधानवार्तिकम्।। 8 ।।)
- षषष्ठाजादिवचनात् सिद्धम् -
(भाष्यम्) षषष्ठाजादिवचनात्सिद्धमेतत्।।
-5-3-85- अल्पे (2243)
-5-3-86- ह्रस्वे (2244)
(कनोऽधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थमिमावुभावर्थौ निर्दिश्येते, न यदल्पं ह्रस्वमपि तद्भवति, यच्च ह्रस्वमल्पमपि तद्भवति?
(समाधानभाष्यम्)
नैतयोरावश्यकः समावेशः। अल्पं घृतम्, अल्पं तैलमित्युच्यते। न कश्चिदाह--ह्रस्वं वृतम्, ह्रस्वं तैलमिति।
तथा ह्रस्वः पटः, ह्रस्वः शाटक उच्यते, न कश्चिदाह--अल्पः पटः, अल्पः शाटक ःथ्द्य;ति।।
-5-3-88- कुटीशमीशुण्डाभ्यो रः (2246)
(रप्रत्ययाधिकरणम्)
(5892 एकदेशिन उपसंख्यानवार्तिकम्।। 1 ।।)
- कुटीशमीशुण्डाभ्यः प्रत्ययसंनियोगेन पुंवद्वचनम् -
(भाष्यम्) कुटीशमीशुण्डाभ्यः प्रत्ययसंनियोगेन पुंवद्भावो वक्तव्यः। कुटी--कुटीरः। शमी--शमीरः। शुण्डा--शुण्डार ःथ्द्य;ति।।
(वार्तिकप्रयोजनभाष्यम्)
किं पुनः कारणं न सिध्यति?
स्वार्थिकोऽयं, स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते।।
(5893 उपसंख्यानानर्थक्यबोधकवार्तिकम्।। 2 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
स्वार्थिका अतिवर्तन्तेऽपि लिङ्गवचनानीति।।
-5-3-91- वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे (2249)
(ष्टरच्प्रत्ययाधिकरणम्)
(5894 पूर्वपक्षिवार्तिकम्।। 1 ।।)
- वत्सादिभ्यस्तनुत्वे कार्श्ये प्रतिषेधः -
(भाष्यम्) वत्सादिभ्यस्तनुत्वे कार्श्ये प्रतिषेधो वक्तव्यः। कृशो वत्सो वत्सर ःथ्द्य;ति मा भूदिति।।
(वार्तिकान्यथासिद्धिप्रदर्शकभाष्यम्)
स तर्हि प्रतिषेधो वक्तव्यः।
न वक्तव्यः। यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशस्तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम्। न च कार्श्यस्य भावात् द्रव्ये वत्सशब्दः।।
-5-3-92- किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् (2250)
-5-3-93- वा बहूनां जातिपरिप्रश्ने डतमच् (2251)
(डतरच्डतमचोरधिकरणम्)
(5895 सूत्रांशाक्षेपवार्तिकम्।। 1 ।।)
- किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्यम् -
(भाष्यम्) किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाधिग्रहणमनर्थकम्।
किं कारणम्?
बहिर्धारणं निर्धारणमिति। यावता द्वयोरेकस्यैव बहिर्धारणं भवति।।
(वा बहूनामिति सूत्रांशाक्षेपभाष्यम्)
अपर आह--बहूनां जातिपरिप्रश्ने डतमच् ःथ्द्य;त्यत्र बहुग्रहणमनर्थकम्।
किं कारणम्?
किमित्येतत्परिप्रश्ने वर्तते, परिप्रश्नश्चानिर्ज्ञाते, अनिर्ज्ञातं च बहुषु। द्वयेकयोः पुनर्निर्ज्ञातम्। निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नो न, परिप्रश्नाभावात् किमेव नास्ति कुतः प्रत्ययः।।
-5-3-94- एकाच्च प्राचाम् (2252)
(प्राग्ग्रहणाक्षेपभाष्यम्)
प्राग्वचनं किमर्थम्?
विभाषा यथा स्यात्।
(5896 प्राग्ग्रहणानर्थक्यबोधकवार्तिकम्।। 1 ।।)
- प्राग्वचनानर्थक्यं च विभाषाप्रकरणात् -
(भाष्यम्) प्राग्वचनमनर्थकम्।
किं कारणम्?
विभाषाप्रकरणात्। प्रकृता महाविभाषा तयैव सिद्धम्।।
-5-3-95- अवक्षेपणे कन् (2253)
(कनोऽधिकरणम्)
(सूत्राक्षेपभाष्यम्)
अवक्षेपणे कन् विधीयते, कुत्सिते कः, क एतयोरर्थयोर्विशेषः?
अवक्षेपणं करणम्, कुत्सितं कर्म।
अवक्षेपणं वै कुत्सितं करणं तेन यत्कुत्स्यते तदपि कुत्सितं भवति। तत्र कुत्सितमित्येव सिद्धं भवति।।
(प्रयोजनभाष्यम्)
एवं तर्हि यत्परस्य कुत्सार्थमुपादीयते तदिहोदाहरणम्। व्याकरणकेन नामायं गर्वितः। याज्ञिक्यकेन नामायं गर्वितः।
यत्स्वकुत्सार्थमुपादीयते तत्तत्रोदाहरणम्। देवदत्तकः, यज्ञदत्तकः।।
-5-3-98- लुम्मनुष्ये (2256)
(कनो लुबधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं मनुष्ये लुबुच्यते, न लुगेवोच्येत?
(5897 समाधानवार्तिकम्।। 1 ।।)
- लिङ्गसिद्ध्यर्थम् लुब्मनुष्ये -
(भाष्यम्) लिङ्गसिद्ध्यर्थं मनुष्ये लुबुच्यते। चञ्ञ्चेव चञ्ञ्चा। वध्रिकेव वध्रिका। खरकुटीव खरकुटी।।
-5-3-99- जीविकार्थे चापण्ये (2257)
(सूत्रोदाहरणप्रदर्शकभाष्यम्)
अपण्ये ःथ्द्य;त्युच्यते, तत्रेदं न सिध्यति--शिवः, स्कन्दः, विशाख ःथ्द्य;ति।
किं कारणम्?
मौर्यैर्हिरण्यार्थिभिरर्चाः प्रकल्पिताः।
भवेत्तासु न स्यात्।
यास्त्वेताः संप्रतिपूजार्थास्तासु भविष्यति।।
-5-3-106- समासाच्च तद्विषयात् (2264)
(छप्रत्ययाधिकरणम्)
(तत्पदार्थप्रतिपादकभाष्यम्)
तदित्यनेन किं प्रतिनिर्दिश्यते?
छः।।
(सूत्रार्थोपपादकभाष्यम्)
कथं पुनः समासो नाम छविषयः स्यात्।
एवं तर्हीवार्थः।
यदि तर्हि समासोऽपीवार्थे, प्रत्ययोऽपि, समासेनोक्तत्वात्प्रत्ययो न प्राप्नोति।
एवं तर्हि द्वाविवार्थौ।
कथम्?
काकागमनमिव तालपतनमिव काकतालम्, काकतालमिव काकतालीयम्।।
-5-3-118- अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ्ञ् (2276)
(यञ्ञोऽधिकरणम्)
(5898 उपसंख्यानवार्तिकम्।। 1 ।।)
- अणो गोत्राद्गोत्रवचनम् -
(भाष्यम्) अणो गोत्रात् गोत्रग्रहणं कर्तव्यम्।
गोत्रादिति वक्तव्यम्। ःथ्द्य;ह मा भूत्--आभिजितो मुहूर्तः, आभिजितः स्थालीपाक ःथ्द्य;ति।
गोत्रमिति च वक्तव्यम्।
किं प्रयोजनम्?
आभिजितकः। गोत्राश्रयो वुञ्ञ् यथा स्यात्।
गोत्रमिति शक्यमकर्तुम्।
कथमाभिजितकः?
गोत्रादयं स्वार्थिको गोत्रमेव भवति।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य तृतीये पादे द्वितीयमाह्निकम्।।
।। पादश्च समाप्तः ।।
-9-9-999-