सामग्री पर जाएँ

महाभाष्यम्/द्वितीयोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः

-2-2-2- अर्द्धं नपुंसकम् (422)
(तत्पुरुषप्रकरण एकदेशिसमासप्रकरणम्)
(267 तत्पुरुषसंज्ञासूत्रम् ।। 2।2।1 आ.1)
(अनिष्टापत्तिनिराकरणाधिकरणम्)
(आक्षेपभाष्यम्)
इह कस्मान्न भवति--ग्रामर्द्धो नगरार्द्ध इति?।।
(समाधानभाष्यम्)
अर्द्धशब्दस्येदं नपुंसकलिङ्गस्य ग्रहणम्। पुल्लिङ्गश्चात्रार्धशब्दः।।
(आक्षेपभाष्यम्)
क्व पुनरयं नपुंसकलिङ्गः, क्व पुल्लिङ्गः?।।
(समाधानभाष्यम्)
समप्रविभागे नपुंसकलिङ्गः, अवयवाची पुल्लिङ्गः।।
(आक्षेपभाष्यम्)
इह कस्मान्न भवति--अर्द्धं पिप्पलीनामिति?।।
(प्रत्याक्षेपभाष्यम्)
न वा भवति--अर्द्धपिप्पल्य इति?।।
(प्रत्याक्षेपसमाधानभाष्यम्)
भवति, यदा खण्डसमुच्चयः--अर्द्धपिप्पचली चार्द्धपिप्पली चार्धपिप्पली चार्द्धपिप्पल्य इति। यदा त्वेतद्वाक्यं भवति--अर्द्धं पिप्पलीनामिति, तदा न भवितव्यम्।।
<M.2.417>
(आक्षेपस्मारणभाष्यम्)
तदा कस्मान्न भवति?।।
(समाधानभाष्यम्)
एकाधिकरण इति वर्तते प्र्
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं भवति--अर्द्धराशिरिति?।।
(समाधानभाष्यम्)
भवति। एकमेवेदमधिकरणं योसौ राशिर्नाम।। अर्धं नपुंसकम् ।। 2 ।।
-2-2-3- द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् (423)
(268 एकदेशितत्पुरुषसंज्ञासूत्रम् ।। 2।2।1 आ.2।।
(अन्यतरस्यांग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अन्यतरस्यांग्रहणं किमर्थम्?।।
(आक्षेपबाधकभाष्यम्)
अन्यतरस्यां समासो यथा स्यात्--समासेन मुक्ते वाक्यमपि यथा स्याद्--द्वितीयं भिक्षाया इति।।
(आक्षेपसाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। प्रकृता महाविभाषा तया वाक्यमपि भविष्यति।।
(आक्षेपबाधकप्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्। एकदेशिसमासेन मुक्ते षष्ठीसमासो यथा स्याद्--भिक्षाद्वितीयमिति।।
(आक्षेपबाधकभाष्यम्)
एतदपि नास्ति प्रयोजनम्। अयमपि विभाषा, षष्ठीसमासोपि। तावुभौ वचनाद्भविष्यतः।।
(समाधानभाष्यम्)
अत उत्तरं पठति--
(1341 समाधानवार्तिकम् ।। 1 ।।)
।। द्वितीयादीनां विभाषाप्रकरणे विभाषावचनं ज्ञापकमवयवविधाने सामान्यविधानाभावस्य ।।
(व्याख्याभाष्यम्)
द्वितीयादीनां विभाषाप्रकरणे विभाषावचनं क्रियते। ज्ञापनार्थम्। किं ज्ञाप्यते? एतज्ज्ञापयत्याचार्यः--अवयवविधौ सामान्यविधिर्न भवतीति। किमेतस्य ज्ञापने प्रयोजनम्?। भिनत्ति छिनत्तीति श्नमि कृते शम्न भवतीति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। शबादेशाः श्यन्नादयः करिष्यन्ते।।
<M.2.418>
(आक्षेपभाष्यम्)
तत्तर्हि शपो ग्रहणं कर्तव्यम्।।
(आक्षेपबाधकभाष्यम्)
न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। कर्तरि शब् इति।।
(आक्षेपसाधकभाष्यम्)
तद्वै प्रथमानिर्दिष्टम्। षष्ठीनिर्दिष्टेन चेहार्थः ।।
(आक्षेपबाधकभाष्यम्)
रुधादिभ्य इत्येषा पञ्चमी शबिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य इति।।
(आक्षेपसाधकभाष्यम्)
प्रत्ययविधिरयम् प्र् न च प्रत्ययविधौ पञ्चम्य: प्रकल्पिका भवन्ति प्र्प्र्
(आक्षेपबाधकभाष्यम्)
नायं प्रत्ययविधिः। विहितः प्रत्ययः प्रकृत एवानुवर्तते।।
(समाधानसाधकभाष्यम्)
एवं तर्हि ज्ञापयत्याचार्यः यत्रोत्सर्गापवादं विभाषा तत्रापवादेन मुक्ते उत्सर्गो न भवति इति।।
(आक्षेपभाष्यम्)
किमेतस्य ज्ञापने प्रयोजनम्?।।
(प्रयोजनभाष्यम्)
दिक्पूर्वपदान् ङीप् प्राङ्मुखी। प्राङ्मुखा। प्रत्यङ्मुखी। प्रत्यङ्मुखा। ङीपा मुक्ते ङीष् न भवति।।
(प्रयोजनबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। वक्ष्यत्येतद्--।दिकपूर्वपदान्ङीषोनुदात्तत्वम्। ङीब्विधाने ह्यन्यत्रापि ङीष्विषयाद् ङीप्प्रसङ्ग। इति।।
(प्रयोजनान्तरभाष्यम्)
इदं तर्हि प्रयोजनम्--अर्द्धपिप्पली, अर्द्धकोशातकी एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति।। उन्मत्तगङ्गं लोहितगङ्गम् अव्ययीभावेन मुक्ते बहुव्रीहिर्न भवति।। दाक्षिः प्लाक्षिः, इञ्ञा मुक्तेऽण् न भवति।।
(आक्षेपभाष्यम्)
यद्येतज्ज्ञाप्यते, उपगोरपत्यमौपगवः तद्धितेन मुक्ते उपग्वपत्यमिति न सिध्यति।।
(समाधानभाष्यम्)
अस्त्यत्र विशेषः-- द्वे ह्यत्र विभाषे दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् समर्थानां प्रथमाद्वा इति
च। तत्रैकया वृत्तिर्विभाषा। अपरया वृत्तिविषये विभाषापवादः।।
(आक्षेपभाष्यम्)
क्रियमाणेपि वै अन्यतरस्यांग्रहणे षष्ठीसमासो न प्राप्नोति। किं कारणम्?। पूरणेनेति प्रतिषेधात्।।
(समाधानभाष्यम्)
नैतत्पूरणान्तम्। अना एतत्पर्यवसन्नम्।।
<M.2.419>
(समाधानबाधकभाष्यम्)
एतदपि पूरणान्तमेव। कथम्?। पूरणं नामार्थः तमाह तीयशब्दः, अतः पूरणम्। योसौ पूरणान्तात्स्वार्थे भागे अन् सोपि पूरणमेव।।
(समाधानान्तरभाष्यम्)
एवं तर्ह्यन्तरस्यांग्रहणसार्मथ्यात्षष्ठीसमासो भविष्यति।। द्वितीयतृतीय--।। 3 ।।
(इत्येकदेशिसमासप्रकरणम्)
-2-2-4- प्राप्तापन्ने च द्वितीयया (424)
(269 तत्पुरुषसंज्ञासूत्रम् ।। 2। 2। 1 आ.3)
(चकारस्याकारविधानार्थत्वाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थश्चकारः?।।
(समाधानभाष्यम्)
अनुकर्षणार्थः।। किमनुकृष्यते?। अन्यतरस्यामित्येतदनुकृष्यते।। किं प्रयोजनम्?। अन्यतरस्यां समासो यथा स्यात्। समासेन मुक्ते वाक्यमपि यथा स्यात्--जीविकां प्राप्त इति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। प्रकृता महाविभाषा तया वाक्यमपि भविष्यति।।
(समाधानान्तरभाष्यम्)
इदं तर्हि प्रयोजनम्। द्वितीयासमासोपि यथा स्याद्--जीविकाप्राप्त इति।।
(समाधानान्तरबाधकभाष्यम्)
एतदपि नास्ति प्रयोजनम्। अयमप्युच्यते, द्वितीयासमासोपि। तदुभयं वचनाद्भविष्यति।।
(समाधानान्तरभाष्यम्)
एवं तर्हि नायमनुकर्षणार्थश्चकारः।। किं तर्हि?। अत्वमनेन विधीयते--प्राप्तापन्ने द्वितीयान्तेन समस्येते, अत्वं च भवति प्राप्तापन्नयोरिति। प्राप्ता जीविकां प्राप्तजीविका। आपन्ना जीविकामापन्नजीविका।। प्राप्तापन्ने।। 4 ।।
<M.2.420>
-2-2-5- काला: परिमाणिना (425)
(270 तत्पुरुषसंज्ञासूत्रम् ।। 2।2।1 आ.4)
(उत्तरपदार्थप्रधानतादिकरणम्)
(आक्षेपभाष्यम्)
किंप्रधानोयं समासः?।।
(समाधानभाष्यम्)
उत्तरपदार्थप्रधानः।।
(आक्षेपभाष्यम्)
यद्युत्तरपदार्थप्रधानः सधर्मणानेनान्यैरुत्तरपदार्थप्रधानैर्भवितव्यम्। अन्येषु चौत्तरपदार्थप्रधानेषु यैवासावन्तर्वर्तिनी विभक्तिस्तस्याः समासेपि श्रवणं भवति। तद्यथा--राज्ञः पुरुषो राजपुरुष इति। इह पुनर्वाक्ये षष्ठी, समासे प्रथमा।
केनैतदेवं भवति?।।
(समाधानभाष्यम्)
योसौ मासजातयोरभिसंबन्धः समासे स निवर्तते। अभिहितः सोर्थोन्तर्भूतः प्रातिपदिकार्थः संपन्नः। तत्र प्रातिपदिकार्थे प्रथमेति प्रथमा भविष्यति।।
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं भवति--मासजातस्येति?।।
(समाधानभाष्यम्)
भवति बाह्यमर्थमभिसमीक्ष्य षष्ठी।।
(अनुपपत्तिपरिहाराधिकरणम्)
(1342 आक्षेपवार्तिकम् प्र्प्र् 1 प्र्प्र्)
।। कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देशः ।।
(व्याख्याभाष्यम्)
कालस्य येन समासः सोपरिमाणी। तस्यापरिमाणित्वाद् अनिर्देशः--अगमको निर्देशः अनिर्देशः। नहि जातस्य मासः परिमाणम्। कस्य तर्हि?। त्रिंशद्रात्रस्य। तद्यथा द्रोणो बदराणां देवदत्तस्य इति न देवदत्तस्य द्रोणः परिमाणम्। कस्य तर्हि? बदराणाम्।।
<M.2.421>
(1343 समाधानवार्तिकम् ।। 2 ।।)
।। सिद्धं तु कालपरिमाणं यस्य स कालस्तेन ।।
(व्याख्याभाष्यम्)
सिद्धमेतत्। कथम्?। कालपरिमाणं यस्य स कालस्तेन समस्यत इति वक्तव्यम्।।
(आक्षेपभाष्यम्)
सिध्यति। सूत्रं तर्हि भिद्यते?।।
(समाधानभाष्यम्)
यथान्यासमेवास्तु।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--।कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देशः। इति।।
(प्रत्यक्षेपभाष्यम्)
कं पुनर्भवान्कालं मत्त्वाह--। कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देशः। इति?।
(प्रत्याक्षेपसमाधानभाष्यम्)
येन मूर्तीनामुपचयाश्चापचयाश्च लक्ष्यन्ते तं कालमित्याहुः। तस्यैव कयाचित्क्रियया युक्तस्याहरिति च भवति रात्रिरिति च।। कया क्रियया?। आदित्यगत्या। तयैवासकृदावृत्तया मास इति भवति। संवत्सर इति च भवति।।
तस्यात्मा बहुधा भिन्नो भेदैर्धर्मान्तराश्रयैः।
न हि भिन्नमभिन्नं वा वस्तु किञ्चन विद्यते ।। 1 ।।
नैको न चाप्यनेकोस्ति न शुक्लो नापि चासितः।
द्रव्यात्मा स तु संसर्गादेवंरूपः प्रकाशते ।। 2 ।।
संसर्गिणां तु ये भेदा विशेषास्तस्य ते मताः।
संभिन्नस्तैर्व्यस्थानां कालो भेदाय कल्पते ।। 3 ।।
<M.2.422>
(प्रत्यक्षेपसमाधानेन समाधानभाष्यम्)
यद्येवम्, भवति--जातस्य मासः परिमाणम्।।
(1344 आक्षेपवार्तिकम् ।। 4 ।।)
।। एकवचनद्विगोश्चोपसंख्यानम् ।।
(व्याख्याभाष्यम्)
एकवचनान्तानामिति वक्तव्यम्। इह मा भूत् मासौ जातस्य मासा जातस्येति।। द्विगोश्चेति वक्तव्यम्। इहापि यथा स्यात्--द्विमासजातस्त्रिमासजातः।।
(समाधानभाष्यम्)
उक्तं वा।। किमुक्तम्?। एकवचने तावदुक्तम्--अनभिधानादिति।। द्विगोः किमुक्तम्? ।उत्तरपदेन परिमाणिना द्विगोः समासवचनम्। इति।। कालाः परि ।। 5 ।।
<M.2.423>
-2-2-6- नञ् (426)
(271 तत्पुरुषसंज्ञासूत्रम् ।। 2।2।1। आ.5 )
(नञ्ञ्समासस्याप्युत्तरपदार्थप्रधानतासाधनाधिकरणम्)
(आक्षेपभाष्यम्)
किंप्रधानोयं समासः?।।
(समाधानभाष्यम्)
उत्तरपदार्थप्रधानः।।
(आक्षेपभाष्यम्)
यद्युत्तरपदार्थप्रधानः, अब्राह्मणमानयेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोति।।
(समाधानभाष्यम्)
अन्यपदार्थप्रधानस्तर्हि भविष्यति।।
(आक्षेपभाष्यम्)
यदि अन्यपदार्थप्रधानः अवर्षा हेमन्तः इति हेमन्तस्य यल्लिङ्गं वचनं च तत्समासस्यापि प्राप्नोति।।
(समाधानभाष्यम्)
पूर्वपदार्थप्रधानस्तर्हि भविष्यति।।
(आक्षेपभाष्यम्)
यदि पूर्वपदार्थप्रधानः, अव्ययसंज्ञा प्राप्नोति। अव्ययं ह्यस्य पूर्वपदमिति।।
(आक्षेपबाधकभाष्यम्)
नैष दोषः। पाठेनाव्ययसंज्ञा क्रियते। न च नञ्समासस्तत्र पठ्यते।।
<M.2.424>
(आक्षेपसाधकभाष्यम्)
यद्यपि नञ्ञ्समासो न तत्र पठ्यते, नञ् तु पठ्यते।। पाठेनाप्यव्ययसंज्ञायां सत्यामभिधेयवल्लिङ्गवचनानि भवन्ति। यश्चेहार्थोभिधीयते न तस्य लिङ्गसंख्याभ्यां योगोस्ति।।
(समाधानभाष्यम्)
नेदं वाचनिकमलिङ्गता असंख्यता वा।। किं तर्हि?। स्वाभाविकमेतत्। तद्यथा--समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते। अपरे न। न चेदानीं कश्चिदर्थवानिति कृत्वा सर्वैरर्थवदि्भः शक्यं भवितुम्, कश्चिद्वानर्थक इति सर्वैरनर्थकैः। तत्रकिमस्माभिः शक्यं कर्तुम्--यन्नञ्ञः प्राक् समासाल्लिङ्गसंख्याभ्यां योगो नास्ति, समासे च भवति। स्वाभाविकमेतत्।।
(समाधानान्तरभाष्यम्)
अथ वा आश्रयतो लिङ्गवचनानि भविष्यन्ति। गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति। तद्यथा--शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला इति यदंसौ द्रव्यं श्रितो
भवति गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्यापि भवति। एवमिहापि यदसौ द्रव्यं श्रितो भवति समासस्तस्य यल्लिङ्गं वचनं च तत्समासस्यापि भविष्यति।।

(प्रागुक्तपक्षाश्रयणभाष्यम्)
अथ वा पुनरस्तु--उत्तरपदार्थप्रधानः।।
(आक्षेपस्मारणम्)
ननु चोक्तम्--अब्राह्मणमानयेत्युक्तेब्राह्मणमात्रस्यानयनं प्राप्नोति-- इति।।
<M.2.425>
(समाधानभाष्यम्)
नैष दोषः प्र् इदं तावदयं प्रष्टव्यः--अथेह राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं कस्मान्न भवति?।। अस्त्यत्र विशेषः--राजा विशेषकः प्रयुज्यते, तेन एवंविशिष्टस्यानयनं भवति।। इहापि तर्हि नञ्ञ्विशेषकः प्रयुज्यते, तेन नञ्ञ्विशिष्टस्यानयनं भविष्यति।।
(आक्षेपभाष्यम्)
कः पुनरसौ?।।
(समाधानभाष्यम्)
निवृत्तपदार्थकः।।
(नञ्ञो वाचकत्वद्योतकत्वान्यतरनिर्णयाधिकरणम्)
(आक्षेपस्मारणम्)
यदा पुनरस्यार्थो निवर्तते। किं स्वाभाविकी निवृत्तिः, आहोस्विद्वाचनिकी?।।
(प्रत्याक्षेपभाष्यम्)
किं चातः?।
(स्वाभाविकपक्षे दूषणभाष्यम्)
यदि स्वाभाविकी, किं नञ् प्रयुज्यमानः करोति?।।
(वाचनिकपक्षे दूषणभाष्यम्)
अथ वाचनिकी। तद्वक्तव्यम्--नञ् प्रयुज्यमानः पदार्थं निवर्तयति--इति।।
<M.2.426>
(प्रथमपक्षाभ्युपगमभाष्यम्)
एवं तर्हि--स्वाभाविकी निवृत्तिः।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--किं नञ् प्रयुज्यमानः करोतीति।।
(समाधानभाष्यम्)
नञ् प्रयुज्यमानः पदार्थं निवर्तयति। कथम्?। कीलप्रतिकीलवत्। तद्यथा--कील आहन्यमानः प्रतिकीलं निर्हन्ति।।
(आक्षेपभाष्यम्)
यद्येतन्नञ्ञो माहात्म्यम्, स्याद्--न जातु चिद्राजानो हस्त्यश्वं बिभृयुः, नेत्येव राजानो ब्रूयुः।।
(सिद्धान्तपक्षाभ्युपगमभाष्यम्)
एवं तर्हि स्वाभाविकी निवृत्तिः।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--किं नञ् प्रयुज्यमानः करोतीति।।
(समाधानभाष्यम्)
नञ्ञ्निमित्ता तूपलब्धिः। तद्यथा--समन्धकारे द्रव्याणां समवस्थितानां प्रदीपनिमित्तं दर्शनम्। नच तेषां प्रदीपो
निर्वर्तको भवति।।
(आक्षेपभाष्यम्)
यदि पुनरयं निवृत्तपदार्थकः, ब्राह्मणशब्दः किमर्थं प्रयुज्यते?।।
(समाधानभाष्यम्)
एवं यथा विज्ञायेत--अस्य पदार्थो निवर्तते इति। नेत्युक्ते संदेहः स्यात्--कस्य पदार्थो निवर्तत इति।
तत्रासंदेहार्थो ब्राह्मणशब्दः प्रयुज्यते। एवं चैतत्।।
<M.2.427>
(समाधानान्तरभाष्यम्)
अथ वा सर्व एते शब्दा गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति।।
तपः श्रुतं च योनिश्चेत्येतद् ब्राह्मणकारकम्।।
तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ।। 1 ।।
तथा गौरः शुच्याचारः पिङ्गलः कपिलकेश इत्येतानप्यभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति।। समुदायेषु च वृत्ताः शब्दा अवयवेष्वपिं वर्तन्ते। तद्यथा--पूर्वे पञ्ञ्चालाः। तैलं भुक्तम्। घृतं भुक्तम्। शुक्लो नीलः कपिलः कृष्ण इति। एवमयं समुदाये ब्राह्मणशब्दः प्रवृत्तोऽवयवेष्वपि वर्तते जातिहीने गुणहीने च। गुणहीने तावत्--अब्राह्मणोयम् यस्तिष्ठन् मूत्रयतिअब्राह्मणोयं, यस्तिष्ठन्भक्षयति।। जातिहीने संदेहाद् दुरुपदेशाच्च ब्राह्मणशब्दो वर्तते। संदेहात्तावद्गौरं शुच्याचारं पिङ्गलं कपिलकेशं दृष्ट्वाध्यवस्यति ब्राह्मणोयमिति। तत उपलभते नायं ब्राह्मणः- अब्राह्यणोयमिति। तत्र संदेहाद् ब्राह्मणशब्दो वर्तते। जातिकृता चार्थस्य निवृत्तिः।। दुरुपदेशाच्च। दुरुपदिष्टमस्य भवति अमुष्मिन्नवकाशे ब्राह्मणस्तमानयेति। स तत्र गत्वा यं पश्यति तमध्यवस्यति ब्राह्मणोयमिति। ततश्च पश्चादुपलभते नायं ब्राह्मणः-अब्राह्मणोयमिति(निर्ज्ञातं तस्य भवति)। तत्र दुरुपदेशाच्च ब्राह्मणशब्दो वर्तते। जातिकृता चार्थस्य निवृत्तिः।। आतश्च संदेहाद् दुरुपदेशाद्वा। न ह्ययं कालं माषराशिवर्णमापणे आसीनं दृष्ट्वाध्यवस्यति ब्राह्मणोयमिति निर्ज्ञातं तस्य भवति।।
<M.2.428>
(फलान्तरसंग्रहभाष्यम्)
इदं खल्वपि भूय उत्तरपदार्थप्राधान्ये सति संगृहीतं भवति।। किम्?। अनेकमिति।। किमत्र संगृहीतम्?। एकवचनम्।।
(आक्षेपभाष्यम्)
कथं पुनरेकस्य प्रतिषेधे (द्वि) बहूनां संप्रत्ययः स्यात्?।।
(समाधानभाष्यम्)
प्रसज्यायं क्रियागुणौ ततः पश्चान्निवृत्तिं करोति। तद्यथा--आसय शायय भोजय अनेकमिति।।
<M.2.429>
(आक्षेपभाष्यम्)
यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्र क्रियागुणौ प्रसज्येते। यत्र तु खलु पुनर्न प्रसज्येते तत्र कथम्-अनेकं तिष्ठतीति?।।
(समाधानभाष्यम्)
भवति चैवंजातीयकानामप्येकस्य प्रतिषेधेन बहूनां संप्रत्ययः। तद्यथा--न न एकं प्रियम् न न एकं सुखमिति।।
(भावप्रत्यये स्वरदोषपरिहाराधिकरणम्)
(आक्षेपभाष्यम्)
इहाब्राह्मणत्वमब्राह्मणता परत्वात् त्वतलौ प्राप्नुतः।। तत्र को दोषः?। स्वरे हि दोषः स्यात्। अब्राह्मणत्वमित्येवं स्वरः प्रसज्येत। अब्राह्मणत्वमिति चेष्यते।।
(समाधानभाष्यम्)
नञ्ञ्समासे भाववचने उक्तम्। किमुक्तम्?।। त्वतल्भ्यां नञ्ञ्समासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्ध्यर्थम्। इति।। नञ् ।। 6 ।।
-2-2-7- इर्षदकृता (427)
(272 तत्पुरुषसंज्ञासूत्रम् ।। 2।2।1 आ.6)
(इष्टानुपपत्तिनिराकरणाधिकरणम्)
(1345 समासविधानवार्तिकम् ।। 1 ।।)
प्र्प्र्। प्र्प्र् इर्षद् गुणवचनेन प्र्प्र्।प्र्प्र्
।। इर्षद् गुणवचनेनेति वक्तव्यम्। अकृतेति ह्युच्यमाने इह च प्रसज्यते--इर्षद्गार्ग्यः, इह च न स्यात्--इर्षत्कडार इति।। इर्षद् ।। 7 ।।
-2-2-8- षष्ठी (428)
(273 तत्पुरुषसंज्ञासूत्रम् ।। 2 । 2 । 1 आ.7)
(इष्टानुपपत्तिनिराकरणाधिकरणम्)
(1346 समासप्रतिप्रसववार्तिकम् ।। 1 ।।
।। कृद्योगा च ।।
कृद्योगा च षष्ठी समस्यत इति वक्तव्यम्। इध्मप्रव्रश्चनः। पलाशशातनः।।
<M.2.430>
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते?।।
(समाधानभाष्यम्)
प्रतिपदविधाना च षष्ठी न समस्यते। इति वक्ष्यति। तस्यायं पुरस्तादपकर्षः।।
(आक्षेपभाष्यम्)
का पुनः षष्ठी प्रतिपदविधाना, का च कृद्योगा?।।
(समाधानभाष्यम्)
सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणां वर्जयित्वा। कर्तृकर्मणोः कृति इति तु या षष्ठी सा कृद्योगा।।

(1347 समासप्रतिप्रसववार्तिकम् ।। 2 ।।)
।। तत्स्थैश्च गुणैः ।।
(भाष्यम्) तत्स्थैश्च गुणैः षष्ठी समस्यत इति वक्तव्यम्। ब्राह्मणवर्णः। चन्दनगन्धः। पटहशब्दः। नदीघोषः।।
<M.2.431>
(1348 समासनिषेधवार्तिकम् ।। 3 ।।)
।। न तु तद्विशेषणैः ।।
(भाष्यम्) न तु तद्विशेषणैरिति वक्तव्यम्। इह मा भूत्--घृतस्य तीव्रो गन्धः। चन्दनस्य मृदुरिति।।
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते?।।
(समाधानभाष्यम्)
गुणेन नेति प्रतिषेधं वक्ष्यति तस्यायं पुरस्तादपकर्षः।।
(आक्षेपभाष्यम्)
किं पुनः कारणं गुणेन नेत्युच्यते, न पुनर्गुणवचनेन नेत्युच्येत?।।
(समाधानभाष्यम्)
नैवं शक्यम्। इह हि न स्यात्--काकस्य कार्ष्ण्यं बलाकायाः शौक्ल्यमिति। एतदेव खल्वपि तस्मिन्योगे
उदाहरणम्। यद्धीदं ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णा इति। असार्मथ्यादत्र न भविष्यति।। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति।। द्रव्यमत्रापेक्ष्यते दन्ताः।। तस्माद् गुणेन न इति वक्तव्यम्। तत्स्थैश्च गुणैरित्युच्यमाने । न तु तद्विशेषणैः। इति वक्तव्यम्।। षष्ठी ।। 8 ।।
-2-2-10- न निर्धारणे (430)
(274 तत्पुरुषसमासनिषेधसूत्रम् ।। 2 । 2। 1आ.9 सू.)
(अनिष्टपरिहाराधिकरणम्)
(1349 समासनिषेधवार्तिकम् ।। 1 ।।)
।। प्रतिपदविधाना च ।।
(भाष्यम्) प्रतिपदविधाना च षष्ठी न समस्यत इति वक्तव्यम्। इह मा भूत्--सर्पिषो ज्ञानम्, मधुनो ज्ञानम्।। न निर्धारणे।। 10 ।।
-2-2-11- पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (431)
(275 तत्पुरुषसमासनिषेधसूत्रम् ।। 2।2।1 आ.9 सू.)
(गुणशब्दार्थनिरूपणाधिकरणम्)
<M.2.432>
(गुणोदाहरणाधिकरणम्)
(आक्षेपभाष्यम्)
गुणे किमुदाहरणम्?।।
(समाधानभाष्यम्)
ब्राह्मणस्य शुक्लाः, वृषलस्य कृष्णा इति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। असार्मथ्यादत्र न भविष्यति। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति द्रव्यमत्रापेक्ष्यते दन्ताः।।
(प्रयोजनान्तरभाष्यम्)
इदं तर्हि--काकस्य कार्ष्ण्यम्, कण्टकस्य तैक्ष्ण्यम्, बलाकायाः शौक्ल्यमिति।।
(पूर्वोक्ताभ्युपगमभाष्यम्)
इदं चाप्युदाहरणम्--ब्राह्मणस्य शुक्लाः, वृषलस्य कृष्णा इति।।
(बाधकस्मारणभाष्यम्)
ननु चोक्तम्--असार्मथ्यादत्र न भविष्यति। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति द्रव्यमत्रापेक्ष्यते दन्ता--इति।।
(बाधकपरिहारभाष्यम्)
नैष दोषः। भवति वै कस्यचिदर्थात्प्रकरणाद्वाऽपेक्ष्यं निर्ज्ञातं तदा वृत्तिः प्राप्नोति।।
(सदुदाहरणनिरूपणाधिकरणम्)
(आक्षेपभाष्यम्)
सति किमुदाहरणम्?।।
(उदाहरणभाष्यम्)
ब्राह्मणस्य पक्ष्यन्, ब्राह्मणस्य पक्ष्यमाणः।।
(उदाहरणनिराकरणभाष्यम्)
नैतदस्ति। प्रतिषिध्यतेऽत्र षष्ठी लप्रयोगे ने ति। या च श्रूयते। एषा बाह्यमर्थमपेक्ष्य भवति तत्रासार्मथ्यान्न भविष्यति। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति। द्रव्यमत्रापेक्ष्यते ओदनः।।
(उदाहरणान्तरभाष्यम्)
इदं तर्हि--चोरस्य द्विषन्, वृषलस्य द्विषन्।।
<M.2.433>
(आक्षेपभाष्यम्)
ननु चात्रापि प्रतिषिध्यते।।
(समाधानभाष्यम्)
वक्ष्यत्येतद् ।द्विषः शतुर्वावचनम्। इति।।
(अव्ययोदाहरणनिरूपणाधिकरणम्)
(आक्षेपभाष्यम्)
अव्यये किमुदाहरणम्?।।
(प्रयोजनभाष्यम्)
ब्राह्मणस्योच्चैः, वृषलस्य नीचैरिति।।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्र् असार्मथ्यादत्र न भविष्यति प्र्प्र् कथमसार्मथ्यम् ? सापेक्षमसमर्थं भवतीति प्र् द्रव्यमत्रापेक्ष्यते आसनम् प्र्प्र्
(प्रयोजनभाष्यम्)
इदं तर्हि--ब्राह्मणस्य कृत्वा, वृषलस्य कृत्वेति।।
(प्रयोजननिराकरणभाष्यम्)
एतदपि नास्ति। प्रतिषिध्यते तत्र षष्ठी अव्ययप्रयोग न इति। या च श्रूयते एषा बाह्यार्थमपेक्ष्य भवति, तत्रासार्मथ्यान्न भवति।। कथमसामर्थम्?। सापेक्षमसमर्थं भवतीति। द्रव्यमत्रापेक्ष्यते कटः।।
(प्रयोजनान्तरभाष्यम्)
इदं तर्हि--पुरा सूर्यस्योदेतोराधेयः। पुरावत्सानामपाकर्तोः।।
(आक्षेपभाष्यम्)
ननु चात्रापि प्रतिषिध्यते--अव्ययम् इति कृत्वा ।।
(समाधानभाष्यम्)
वक्ष्यत्येतत्--।अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः। इति।।
(समानाधिकरणोदाहरणाधिकरणम्)
(आक्षेपभाष्यम्)
समानाधिकरणे किमुदाहरणम्?।
(समाधानभाष्यम्)
राज्ञः पाटलिपुत्रकस्य। शुकस्य माराविकस्य। पाणिनेः सूत्रकारस्य।।
(समाधानबाधकभाष्यम्)
नैतदस्ति। असार्मथ्यादत्र न भविष्यति।। कथमसार्मथ्यम्?। समानाधिकरणमसमर्थवद्भवतीति।।
(उदाहरणान्तरभाष्यम्)
इदं तर्हि--सर्पिषः पीयमानस्य, यजुषः क्रियमाणस्य।।
<M.2.434>
(उदाहरणबाधकभाष्यम्)
ननु चात्राप्यसार्मथ्यादेव भविष्यति।। कथमसामर्थम्?। समानाधिकरणमसमर्थवद्भवतीति।।
(उदाहरणसाधकभाष्यम्)
अधात्वभिहितमित्येवं तत्।। पूरणगुण ।। 11 ।।
-2-2-14- कर्मणि च(434)
(276 तत्पुरुषनिषेधसूत्रम् ।। 2। 2। 1 आ.10सू)
(चकारस्येत्यर्थकतानिरूपणाधिकरणम्)
(आक्षेपभाष्यम्)
कथमिदं विज्ञायते--कर्मणि या षष्ठी सा न समस्यत इति। आहोस्वित्--कर्मणि यः क्तः--इति।। कुतः संदेहः? उभयं प्रकृतम्। तत्रान्यतरच्छक्यं विशेषयितुम्।।
(विशेषजिज्ञासाभाष्यम्)
कश्चात्र विशेषः?।।
(1350 प्रथमपक्षे दूषणवार्तिकम् ।। 1 ।।)
।। कर्मणीति षष्ठीनिर्देशश्चेदकर्तरि कृता समासवचनम् ।।
(व्याख्याभाष्यम्)
कर्मणीतिषष्ठीनिर्देशश्चेदकर्तरि कृता समासो वक्तव्य: प्र् इध्मप्रव्रश्चन: पलाशशातन: प्र्प्र्
(1351 सूत्रवेर्यथ्यापत्तिवार्तिकम् ।। 2 ।।)
।। तृजकाभ्यां चानर्थकः प्रतिषेधः ।।
(भाष्यम्) तृजकाभ्यां चानर्थकः कर्तरि प्रतिषेधो भवति। अपां स्रष्टा। पुरां भेत्ता। यवानां लावकः। कर्मणीत्येव सिद्धम्।।
(द्वितीयपक्षाभ्युपगमभाष्यम्)
अस्तु तर्हि--कर्मणि यः क्त इति।। किमुदाहरणम्?। ब्राह्मणस्य भुक्तं वृषलस्य पीतमिति।।
(1352 दूषणवार्तिकम् ।। 3 ।।)
।। क्तनिर्देशेऽसमर्थत्वादप्रतिषेधः ।।
(व्याख्याभाष्यम्)
क्तनिर्देशेऽसमर्थत्वाद् अप्रतिषेधः अनर्थकः प्रतिषेधः अप्रतिषेधः।। समासः कस्मान्न भवति?। असार्मथ्यात्।। कथमसामर्थम्?। सापेक्षमसमर्थं भवतीति। द्रव्यमत्रापेक्ष्यते ओदनः।।
(1353 वार्तिकम् ।। 4 ।।)
।। प्रतिषेध्यमिति चेत्कर्तर्यपि प्रतिषेधः ।।
(व्याख्याभाष्यम्)
अथैवं सति प्रतिषेधः कर्तव्य इति मन्यसे, कर्तर्यपि प्रतिषेधो वक्तव्यः स्यात्-ब्राह्मणस्य गतः ब्राह्मणस्य ज्ञात इति ।।
<M.2.435>
(1354 वार्तिकम् ।। 5 ।।)
।। पूजायां च प्रतिषेधानर्थक्यम् ।।
(भाष्यम्) पूजायां च प्रतिषेधोऽनर्थकः--राज्ञां पूजितः राज्ञामर्चित इति। कर्मणीत्येव सिद्धम्।।
(1355 सिद्धान्तवार्तिकम् ।। 6 ।।)
।। तस्मादु भयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः ।।
(भाष्यम्) तस्माद् उभयप्राप्तौ कर्मणि इत्येवं या षष्ठी तस्याः प्रतिषेधो वक्तव्यः।।
(आक्षेपभाष्यम्)
स तर्हि वक्तव्यः?।।
(समाधानभाष्यम्)
न वक्तव्यः। इत्यर्थेऽयं चः पठितः--कर्मणि च कर्मणीत्येवं या षष्ठी।। कर्मणि च ।। 14 ।।
-2-2-17- नित्यं क्रीडाजीविकयोः (437)
(277 तत्पुरुषसंज्ञासूत्रम् ।। 2 । 2। 1 अ.11 सू.)
(नित्यग्रहणसंबन्धविचाराधिकरणम्)
(आक्षेपभाष्यम्)
किमिह नित्यग्रहणेनाभिसंबध्यते विधिः, आहोस्वित्--प्रतिषेधः?।।
(समाधानभाष्यम्)
विधिरित्याह।। कुत एतत्?। विधिर्हि विभाषा, नित्यः प्रतिषेधः।। नित्यम्।। 17 ।।
-2-2-18- कुगतिप्रादयः (438)
(278 तत्पुरुसंज्ञासूत्रम् ।। 2।2।1 आ.12 सू.)
(अनिष्टपरिहाराधिकरणम्)
(1356 समासप्रतिषेधवार्तिकम् ।। 1 ।।)
।। प्रादिप्रसङ्गे कर्मप्रवचनीयप्रतिषेधः ।।
(भाष्यम्) प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः। वृक्षं प्रति विद्योतते विद्युत्। साधुर्देवदत्तो मातरं प्रति।।
(1357 समासप्रतिषेधवार्तिकम् ।। 2 ।।
।। व्यवेतप्रतिषेधश्च ।।
(भाष्यम्) व्यवेतानां प्रतिषेधो वक्तव्यः। आ मन्द्रैरिन्द्र हरिभिर्याहि ।।
<M.2.436>
(1358 उक्तवार्तिकप्रत्याख्यानवार्तिकम् ।। 3 ।।)
।। सिद्धं तु क्वाङ्स्वतिदुर्गतिवचनात् ।।
(भाष्यम्) सिद्धमेतत्।। कथम्? क्वाङ्स्वतिदुर्गतयः समस्यन्ते इति वक्तव्यम्। कु--कुब्राह्मणः कुवृषलः। कु।। आङ्--आकडारः, आपिङ्गलः। आङ्।। सु--सुब्राह्मणः, सुवृषलः। सु।। अति-- अतिब्राह्मणः, अतिवृषलः। अति।। दुर्--दुर्ब्राह्मणः, दुर्वृषलः। दुर्।। गति--प्रकारकः, प्रणायकः, प्रसेवकः, ःढ़द्य;रीकृत्य, उररीकृत्य। गति।।
(1359 समासवार्तिकम् ।। 4 ।।)
।। प्रादयः क्तार्थे ।।
(व्याख्याभाष्यम्)
प्रादयः क्तार्थे समस्यन्त इति वक्तव्यम्। प्रगत आचार्यः प्राचार्यः, प्रान्तेवासी, प्रपितामहः।।
(संवादभाष्यम्)
एतदेव च सौनागैर्विस्तरतरकेण पठितम्---
(1360 सौनागवार्तिकम् ।। 1 ।।
।। स्वती पूजायाम् ।।
(व्याख्याभाष्यम्)
स्वती पूजायामिति वक्तव्यम्। सुराजा, अतिराजा ।।
(1361 सौनागवार्तिकम् ।। 2 ।।)
।। दुर्निन्दायाम् ।।
(व्याख्याभाष्यम्)
दुर्निन्दायामिति वक्तव्यम्। दुष्कुलम्, दुर्गवः।।
(1362 सौनागवार्तिकम् ।। 3 ।।)
।। आङीषदर्थे ।।
(व्याख्याभाष्यम्)
आङीषदर्थ इति वक्तव्यम्। आकडारः, आपिङ्गलः।।
(1363 सौनागवार्तिकम् ।। 4 ।।)
।। कुः पापार्थे ।।
(व्याख्याभाष्यम्)
कुः पापार्थ इति वक्तव्यम्।। कुब्राह्मणः, कुवृषलः।।
<M.2.437>
(1364 सौनागवार्तिकम् ।। 5 ।।)
।। प्रादयो गताद्यर्थे प्रथमया ।।
(व्याख्याभाष्यम्)
प्रादयो गताद्यर्थे प्रथमया समस्यन्त इति वक्तव्यम्। प्रगत आचार्यः-प्राचार्यः प्रान्तेवासी प्रपितामहः।।
(1365 सौनागवार्तिकम् ।। 6 ।।)
।। अत्यादयः क्रान्ताद्यर्थे द्वितीयया ।।
(व्याख्याभाष्यम्)
अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्त इति वक्तव्यम्। अतिक्रान्तः खट्वाम्-अतिखट्वः अतिमालः।।
(1366 सौनागवार्तिकम् ।। 7 ।।)
।। अवादयः क्रुष्टाद्यर्थे तृतीयया ।।
(व्याख्याभाष्यम्)
अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्त इति वक्तव्यम्। अवक्रुष्टः कोकिलया-अवकोकिलः।।
(1367 सौनागवार्तिकम् ।। 8 ।।)
।। पर्यादयो ग्लानाद्यर्थे चतुर्थ्या ।।
(व्याख्याभाष्यम्)
पर्यादयो ग्लानाद्यर्थे चतुर्थ्या समस्यन्त इति वक्तव्यम्। परिग्लानोऽध्ययनाय पर्यध्ययनः।।
(1368 सौनागवार्तिकम् ।। 9 ।।)
।। निरादयः क्रान्ताद्यर्थे पञ्चम्या ।।
(व्याख्याभाष्यम्)
निरादयः क्रान्ताद्यर्थे पञ्चम्या समस्यन्त इति वक्तव्यम्। निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः निर्वाराणसिः।।
(1369 वार्तिकम् ।। 5 ।।)
।। अव्ययं प्रवृद्धादिभिः ।।
(व्याख्याभाष्यम्)
अव्ययं प्रवृद्धादिभिः समस्यत इति वक्तव्यम्। पुनःप्रवृद्धं बहिर्भवति, पुनर्गवः, पुनःसुखम्।।
(1370 वार्तिकम् ।। 6 ।।)
।। इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ।।
(व्याख्याभाष्यम्)
इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। वाससीःथ्द्य;व कन्येःथ्द्य;व।।
(1371 वार्तिकम् ।। 7 ।।)
।। अव्ययमव्ययेन ।।
(व्याख्याभाष्यम्)
अव्ययमव्ययेन समस्यत इति वक्तव्यम्। प्रप्रयज्ञपतिम् ।।
(1372 वार्तिकम् ।। 8 ।।)
।। उदात्तगतिमता च तिङा ।।
(भाष्यम्) उदात्तवता तिङा गतिमता च तिङाऽव्ययं समस्यत इति वक्तव्यम्। अनुव्यचलत्, अनुव्याकरोति, यत्परियन्ति।। कुगति ।। 18 ।।
<M.2.438>
-2-2-19- उपपदमतिङ् (439)
(279 तत्पुरुषसंज्ञासूत्रम् ।। 2।2।1 आ.13)
(गतिकारकोपपदानामितिपरिभाषाधिकरणम्)
(आक्षेपभाष्यम्)
अतिङिति किमर्थम्?।।
(समाधानभाष्यम्)
कारको व्रजति, हारको व्रजति।।
(प्रत्याख्यानभाष्यम्)
अतिङिति शक्यमवक्तुम्।।
(आक्षेपभाष्यम्)
कस्मान्न भवति--कारको व्रजति, हारको व्रजति?।।
(समाधानभाष्यम्)
सुप्सुपेति वर्तते।।
(समाधानवार्तिकावतरणभाष्यम्)
अत उत्तरं पठति--
(1373 समाधानवार्तिकम् ।। 1 ।।)
।। उपपदमतिङिति तदर्थप्रतिषेधः ।।
(व्याख्याभाष्यम्)
उपपदमतिङिति तदर्थस्यायं प्रतिषेधः।। कस्य?। तिङर्थस्य।। कः पुनस्तिङर्थः? क्रिया।।

(1374 न्यासान्तरवार्तिकम् ।। 2 ।।)
।। क्रियाप्रतिषेधो वा ।।
(व्याख्याभाष्यम्)
अथ वा व्यक्तमेवेदं पठितव्यम्--उपपदमक्रियेति।।
(आक्षेपभाष्यम्)
अथ--अक्रियेति किं प्रत्युदाह्रियते?।।
(प्रत्युदाहरणभाष्यम्)
कारको गतः, कारको यातः।।
<M.2.439>
(बाधकभाष्यम्)
नैतत्क्रियावाचि।। किं तर्हि? द्रव्यवाचि।।
(प्रत्युदाहरणान्तरभाष्यम्)
इदं तर्हि--कारकस्य गतिः कारकस्य व्रज्येति।।
(बाधकभाष्यम्)
एतदपि द्रव्यवाचि। कथम्?। कृदभिहितो भावो द्रव्यवद्भवतीति।।

(सिद्धान्तसमाधानभाष्यम्)
एवं तर्हि सिद्धे सति यद् अतिङ् इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः--अनयोर्योगयोर्निवृत्तं
सुप्सुपेति।। किमेतस्य ज्ञापने प्रयोजनम्?।गतिकारकोपपदानां कृदि्भः सह समासो भवति इत्येषा परिभाषा न
कर्तव्या भवति।।
<M.2.440>
(आक्षेपभाष्यम्)
यद्येतज्ज्ञाप्यते केनेदानीं समासो भविष्यति?।।
(समाधानभाष्यम्)
समर्थेन।।
(आक्षेपभाष्यम्)
यद्येवं धातूपसर्गयोरपि समासः प्राप्नोति पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेनेति।।
(समाधानभाष्यम्)
नैतदस्ति। पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण। साधनं हि क्रियां निर्वर्तयति। तामुपसर्गो विशिनष्टि। अभिनिर्वृत्तस्य चार्थस्योपसर्गेण विशेषः शक्यो वक्तुम्।।
(उपपदसमासबलीयस्त्वाधिकरणम्)
<M.2.441>
(1375 विप्रतिषेधवार्तिकम् ।। 3 ।।)
।। षष्ठीसमासादुपपदसमासो विप्रतिषेधेन ।।
(भाष्यम्) षष्ठीसमासादुपपदसमासो भवति विप्रतिषेधेन। षष्ठीसमासस्यावकाशः--राज्ञः पुरुषो राजपुरुषः। उपपदसमासस्यावकाशः--स्तम्बेरमः कर्णेजपः। इहोभयं प्राप्नोति--कुम्भकारो नगरकारः। उपपदसमासो भवति विप्रतिषेधेन।।
(1376 विप्रतिषेधप्रत्याख्यानवार्तिकम् ।। 4 ।।)
।। न वा षष्ठीसमासाभावादुपपदसमासः ।।
(भाष्यम्) न वार्थो विप्रतिषेधेन। किं कारणम्? षष्ठीसमासस्याभावादुपपदसमासो भविष्यति गतिकारकोपपदानां कृदि्भः सह समासवचनं प्राक्सुबुत्पत्तेः इति समासवचनात्।।
(उक्तवार्तिकद्वयवैर्यथ्यभाष्यम्)
अथ वा विभाषा षष्ठीसमासः। यदा न षष्ठीसमासस्तदोपपदसमासो भविष्यति।।

(वैर्यथ्यबाधकभाष्यम्)
अनेनैव यथा स्यात्। तेन मा भूदिति।। कश्चात्र विशेषः--तेन वा स्यादनेन वा?। अयमस्ति विशेषः--उपपदसमासो नित्यसमासः, षष्ठीसमासः पुनर्विभाषा।।
(नित्यसमासलक्षणाधिकरणम्)
(वैर्यथ्यसाधकाक्षेपभाष्यम्)
ननु च नित्यं यः समासः स नित्यसमासः यस्य विग्रहो नास्ति।।
(वैर्यथ्यबाधकभाष्यम्)
नेत्याह। नित्याधिकारे यः समासः स नित्यसमासः।।
(वैर्यथ्यसाधकभाष्यम्)
नैवं शक्यम्। अव्ययीभावस्य ह्यनित्यसमासता प्रसज्येत। तस्मान्नित्यः समासो नित्यसमासः यस्य विग्रहो नास्ति।। उपपद ।। 19 ।।
<M.2.442>
-2-2-20- अमैवाव्ययेन (440)
(280 तत्पुरुषसंज्ञानियमसूत्रम् ।। 2।2।1 आ.14)
(अनिष्टपरिहाराधिकरणम्)
 (आक्षेपभाष्यम्)
एवकारः किमर्थः?।।
(समाधानभाष्यम्)
नियमार्थः।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। सिद्धे विधिरारभ्यमाणोन्तरेणैवकारं नियमार्थो भविष्यति।।
(समाधानसाधकभाष्यम्)
इष्टतोवधारणार्थस्तर्हि भविष्यति। यथैवं विज्ञायेत--अमैवाव्ययेनेति।। मैवं विज्ञायि--अमाव्ययेनैवेति।।
(आक्षेपभाष्यम्)
अस्ति चेदानीं कश्चिदनव्ययमम्शब्दो यदर्थो विधिः स्यात्।।
(समाधानभाष्यम्)
अस्तीत्याह--खश्यं ब्राह्मणकुलमिति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। अन्तरङ्गत्वादत्र समासो भविष्यति।।
(समाधानसाधकभाष्यम्)
इदं तर्हि प्रयोजनम्। अमैव यत्तुल्यविधानमुपपदं तत्र यथा स्याद् अमा चान्येन च यत्तुल्यविधानं तत्र माभूदिति। अग्रे भोजम्। अग्रे भुक्त्वा।।
(नियमफलभाष्यम्)
अग्रादिष्वप्राप्तविधेः समासप्रतिषेधं चोदयिष्यति। स न वक्तव्यो भवति।। अमैवा ।। 20 ।।
-2-2-23- शेषो बहुव्रीहिः (443)
(अथ बहुव्रीहिप्रकरणम्)
(281 बहुव्रीहिसंज्ञासूत्रम्।। 2। 2। 1 आ.15 सू.)
(शेषपदार्थनिर्वचनाधिकरणम्)
(आक्षेपभाष्यम्)
शेष इत्युच्यते कः शेषो नाम?।।
(एकदेशिसमाधानभाष्यम्)
येषां पदानामनुक्तः समासः स शेषः।।
(1377 समाधानबाधकवार्तिकम् ।। 1 ।।)
।। शेषवचनं पदतश्चेन्नाभावात् ।।
(भाष्यम्) शेषवचनं पदतश्चेत्। तन्न। किं कारणम्?। अभावात्। नहि सन्ति तानि पदानि येषां पदानामनुक्तः समासः।।
<M.2.443>
(एकदेशिसमाधानान्तरभाष्यम्)
अर्थतस्तर्हि शेषग्रहणम्--येष्वर्थेषु अनुक्तः समासः स शेषः।।
(1378 समाधानान्तरबाधकवार्तिकम् ।। 2 ।।
।। अर्थतश्चेदविशिष्टम् ।।
(भाष्यम्) अर्थतश्चेदविशिष्टमेतद्भवति। कुतः?। पदतः। नहि सन्त्यर्थाः येष्वर्थेष्वनुक्तः समासः।।
(सिद्धान्तिसमाधानभाष्यम्)
त्रिकतस्तर्हि शेषग्रहणम्। यस्य त्रिकस्यानुक्तः समासः स शेषः।। कस्य चानुक्तः?। प्रथमायाः। शेषो ब।। 23 ।।

इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यास्यद्वितीये पादे प्रथममाह्निकम् ।।
-2-2-24- अनेकमन्यपदार्थे (444)
(282 बहुव्रीहिसंज्ञासूत्रम् ।। 2। 2 । 2 । आ. 1 सू.)
(पदकृत्याधिकरणम्)
(आक्षेपभाष्यम्)
पदग्रहणं किमर्थम्?।।

(समाधानभाष्यम्)
इह अनेकमन्यार्थे इतीयत्युच्यमाने वाक्यार्थेपि बहुव्रीहिः स्यात्--यथा मे माता तथा पिता सुस्नातं भो इति। पदग्रहणे पुनः क्रियमाणे न दोषो भवति।।
(आक्षेपभाष्यम्)
अथान्यग्रहणं किमर्थम्?।।
<M.2.444>
(समाधानभाष्यम्)
अनेकं पदार्थे इतीयत्युच्यमाने स्वपदार्थेपि बहुव्रीहिः स्यात्--राजपुरुषः तक्षपुरुष इति।।
(एकदेशिसमाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। तत्पुरुषः स्वपदार्थे बाधको भविष्यति।।
(एकदेशिन आक्षेपभाष्यम्)
भवेदेकसंज्ञाधिकारे सिद्धम्। परंकार्यत्वे तु न सिध्यति। आरम्भसार्मथ्यात्तत्पुरुषः, परंकार्यत्वाच्च बहुव्रीहिः प्राप्नोति।।
(समाधानभाष्यम्)
परंकार्यत्वे च न दोषः। शेष इति वर्तते। अशेषत्वान्न भविष्यति।।
(शेषग्रहणप्रत्याख्यानभाष्यम्)
शेषवचन उक्तम्। किमुक्तम्?।।तत्र शेषवचनाद्दोषः संख्यासमानाधिकरणनञ्ञ्समासेषु बहुव्रीहिप्रतिषेध। इति।।
(आक्षेपभाष्यम्)
अथैकसंज्ञाधिकारे नार्थोन्यग्रहणेन?।।
(समाधानभाष्यम्)
एकसंज्ञाधिकारे च कर्तव्यम्। अक्रियमाणे ह्यन्यग्रहणे यथैव तत्पुरुषः स्वपदार्थे बहुव्रीहिं बाधते एवमन्यपदार्थेपि बाधेत।।
(आक्षेपभाष्यम्)
अथानेकग्रहणं किमर्थम्?।।
(आक्षेपबाधकभाष्यम्)
अन्यपदार्थ इतीयत्युच्यमाने एकस्यापि पदस्य बहुव्रीहिः स्यात्--सर्पिषोपि स्यात्, गोमूत्रस्यापि स्यात्।।
<M.2.445>
(आक्षेपसाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। सुप्सुपेति वर्तते।।
(आक्षेपबाधकभाष्यम्)
इदं तर्हि प्रयोजनम्। बहूनामपि यथा स्यात्--सुसूक्ष्मजटकेशेन सुनताजिनवाससा।।
(आक्षेपबाधकशेषभाष्यम्)
उत्तरार्थं चानेकग्रहणं कर्तव्यम्--चार्थे द्वन्द्वः अनेकमिति। इहापि यथा स्यात्--प्लक्षन्यग्रोधधवखदिरपलाशा इति।।
(आक्षेपसाधकनिराकरणभाष्यम्)
एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति बहूनामपि समासो भवति। यदयम्--उत्तरपदे द्विगुं शास्ति।।

(प्रत्याक्षेपभाष्यम्)
तत्पुरुषोपि तर्हि बहूनां प्राप्नोति।।
(प्रत्याक्षेपबाधकभाष्यम्)
नैष दोषः। ग्रहणेन तत्पुरुष उच्यते तेन बहूनां न भविष्यति।।
(समाधानभाष्यम्)
अत उत्तरं पठति--
(1379 समाधानवार्तिकम् ।। 1 ।।)
।। अनेकवचनमुपसर्जनार्थम् ।।
(व्याख्याभाष्यम्)
अनेकग्रहणं क्रियते उपसर्जनार्थम्।प्रथमानिर्दिष्टं समास उपसर्जनम् इत्युपसर्जनसंज्ञा यथा स्यात्--चित्रगुः शबलगुः इति।।
<M.2.446>
(1380 समाधानबाधकवार्तिकम् ।। 2 ।।)
।। न वैकविभक्तित्वात् ।।
(व्याख्याभाष्यम्)
न वा एतदपि प्रयोजनमस्ति। किं कारणम्?। एकविभक्तित्वात् एकविभक्ति चापूर्वनिपाते
इत्युपसर्जनसंज्ञा भविष्यति चित्रगुः शबलगुरिति। चित्रा यस्य गावश्चित्रगुस्तिष्ठति। चित्रा यस्य गावश्चित्रगुं पश्येति। चित्रा यस्य गावश्चित्रगुणा कृतम्। चित्रा यस्य यस्य गावश्चित्रगवे देहि। चित्रायस्य गावश्चित्रगोरानय। चित्रा यस्य गावश्चित्र गोः स्वम्। चित्रा यस्य गावश्चित्रगौ निधेहि। चित्रा यस्य गावो हे चित्रगो इति।।

(आक्षेपभाष्यम्)
यदि तर्हि कुतश्चिदेव किंचित्पदमध्याहृत्य एकविभक्तियोगः क्रियते, एतदप्येकविभक्तियुक्तम्, इहापि प्राप्नोति--राजकुमारी तक्षकुमारी। राज्ञो या कुमारी राजकुमारी तिष्ठति। राज्ञो या कुमारी राजकुमारीं पश्य। राज्ञो या कुमारी राजकुमार्या कृतम्। राज्ञो या कुमारी राजकुमार्यै देहि। राज्ञो या कुमारी राजकुमार्या आनय। राज्ञो या कुमारी राजकुमार्याः स्वम्। राज्ञो या कुमारी राजकुमार्यां निधेहि। राज्ञो या कुमारी राजकुमारि इति।।

(समाधानभाष्यम्)
एकविभक्तियुक्तमेव यन्नित्यम्। न चैतन्नित्यमेकविभक्तियुक्तमेव राज्ञः कुमारीं पश्य राजकुमारीं पश्येत्यपि भवति।। किं वक्तव्यमेतत्?। नहि।। कथमनुच्यमानं गंस्यते?। एकग्रहणसार्मथ्यात्। यदि हि यदेकविभक्तियुक्तं चानेकविभक्तियुक्तं च तत्र स्याद्, एकग्रहणमनर्थकं स्यात्। विभक्तियुक्तमपूर्वनिपाते इत्येव ब्रूयात्।।
(अनुप्रयोगानुपपत्तिपरिहाराधिकरणम्)
(1381 आक्षेपवार्तिकम् ।। 3 ।। )
प्र्प्र्। पदार्थाभिधानेऽनुप्रयोगानुपपत्तिराभिहितत्वात्।।
(भाष्यम्) पदार्थाभिधाने ऽनुपयोगस्यानुपपत्तिः--चित्रगुर्देवदत्त इति। किं कारणम्?। अभिहितत्वात्। चित्रगुशब्देनाभिहितः सोर्थ इति कृत्वानुप्रयोगो न प्राप्नोति।।
<M.2.447>
(1382 आक्षेपबाधकवार्तिकम् ।। 4 ।।)
।। न वानभिहितत्वात् सामान्याभिधाने हि विशेषानभिधानम् ।।
(व्याख्याभाष्यम्)
न वा एष दोषः। किं कारणम्?। अनभिहितत्वात्। चित्रगुशब्देनानभिहितः सोर्थ इति कृत्वाऽनुप्रयोगे भविष्यति।। कथमनभिहितः, यदिदानीमेवोक्तम् । पदार्थाभिधाने ऽनुप्रयोगानुपपत्तिरभिहितत्वाद्। इति?। सामान्याभिधाने हि विशेषानभिधानम्। सामान्ये ह्यभिधीयमाने विशेषोनभिहितो भवति। तत्रावश्यं विशेषार्थिना विशेषोनुप्रयोक्तव्यः। चित्रगुः क?। देवदत्त इति।।
(आक्षेपभाष्यम्)
भवेत्सिद्धं यदा सामान्ये वृत्तिः। यदा तु खलु विशेषे वृत्तिः, तदा न सिध्यति--चित्रा गावो देवदत्तस्येति चित्रगुर्देवदत्त इति।।
(समाधानभाष्यम्)
तदापि सिद्धम्। कथम्?। नेदमुभयं युगपत्संभवति। वाक्यं समासश्च। यदा वाक्यम्, न तदा समासः। यदा समासः, न तदा वाक्यम्। यदा समासः, सामान्येन तदा वृत्तिः। तत्रावश्यं विशेषार्थिना विशेषोनुप्रयोक्तव्यः--चित्रगुः कः? देवदत्त इति।।

(आक्षेपभाष्यम्)
सामान्यस्यैव तर्ह्यनुप्रयोगो न प्राप्नोति--चित्रगुः कः? चित्रगु तत्, चित्रगु किंचित्, चित्रगु सर्वमिति।।
(समाधानभाष्यम्)
सामान्यमपि यथा विशेषस्तद्वत्। तत्र चित्रग्वित्युक्ते संदेहः स्यात्--सर्वं वाऽविश्वं वेति। तत्रावश्यं विशेषार्थिना विशेषोनुप्रयोक्तव्यः--चित्रगु तदिति।।
(समाधानान्तरभाष्यम्)
अथवा विभक्त्यर्थोभिधीयते। एतच्चात्र युक्तं यद्विभक्त्यर्थोभिधीयते तत्र हि सर्वपश्चात्पदं वर्तते अस्येति।।
<M.2.448>
(1383 आक्षेपवार्तिकम् ।। 5 ।।)
।। विभक्त्यर्थाभिधाने द्रव्यस्य लिङ्गसंख्योपचारानुपपत्तिः ।।
(व्याख्याभाष्यम्)
विभक्त्यर्थाभिधानेऽद्रव्यस्य लिङ्गसंख्याभ्यामुपचारोनुपपन्नः। बहुयवं बहुयवा। बहुयवः बहुयवौ बहुयवा इति।।
अपर आह--विभक्त्यर्थाभिधाने द्रव्यस्य लिङ्गसंख्योपचारानुपपत्तिः। विभक्त्यर्थाभिधाने द्रव्यस्य ये लिङ्गसंख्ये ताभ्यां विभक्त्यर्थस्योपचारोनुपपन्नः। बहुयवं बहुयवा। बहुयवः बहुयवौ बहुयवा इति।।
(आक्षेपभाष्यम्)
कथं ह्यन्यस्य लिङ्गसंख्याभ्यामन्यस्योपचारः स्यात्?।।
(1384 समाधानवार्तिकम् ।। 6 ।।)
।। सिद्धं तु यथा गुणवचनेषु ।।
(व्याख्याभाष्यम्)
सिद्धमेतत्।। कथम्?। यथा गुणवचनेषु।। कथं गुणवचनेषु?।। गुणवचनेषूक्तम्--गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनानि भवन्तीति। तद्यथा--शुक्लं वस्त्रं शुक्ला शाटी शुक्लः कम्बलः। शुक्लौ कम्बलौ।
शुक्लाः कम्बला इति। यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्यापि भवति। एवमिहापि यदसौ द्रव्यं श्रितो भवति विभक्त्यर्थः तस्य यल्लिङ्गं वचनं तत्समासस्यापि भविष्यति।।

(आक्षेपभाष्यम्)
यदि तर्हि विभक्त्यर्थोभिधीयते कृत्स्नः पदार्थः कथमभिहितो भवति सद्रव्यः सलिङ्गः ससंख्यश्च।।
(समाधानभाष्यम्)
अर्थग्रहणसार्मथ्यात्। इह अनेकमन्यपदे इतीयता सिद्धम्। कथं पुन पदे नाम वृत्तिः स्यात्। पदं नाम शब्दः शब्दो दोषः?। शब्दे ह्यसंभवादर्थे कार्यं विज्ञास्यते। सोयमेवं सिद्धे सति यदर्थग्रहणं करोति तस्यैतत्प्रयोजनं कृत्स्नः पदार्थो यथाभिधीयते सद्रव्यः सलिङ्गः ससंख्यश्चेति।।
(आक्षेपभाष्यम्)
यदि तर्हि कृत्स्नः पदार्थाभिधीयते--लैङ्गाः सांख्याश्च विधयो न सिध्यन्ति।।
<M.2.449>
(समाधानभाष्यम्)
उक्तं वा।। किमुक्तम्?। लैङ्गेषु तावदुक्तम्। सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणात्स्वार्थे टाबादय। इति।।
सांख्येष्वप्युक्तम् ।। किमुक्तम्?। कर्मादीनामनुक्ता एकत्वादय इति कृत्वा सांख्या भविष्यन्ति।।
(आक्षेपभाष्यम्)
प्रथमा तर्हि न प्राप्नोति?।।
(समाधानभाष्यम्)
समयाद्भविष्यति।।
(आक्षेपभाष्यम्)
यदि सामयिकी न नियोगतः, अन्याः कस्मान्न भवन्ति?।।
(समाधानभाष्यम्)
कर्मादीनामभावात्।।
(आक्षेपभाष्यम्)
षष्ठी तर्हि प्राप्नोति?।
(समाधानभाष्यम्)
शेषलक्षणा षष्ठी, अशेषत्वान्न भविष्यति।।
(आक्षेपभाष्यम्)
एवमपि व्यतिकरः प्राप्नोति--एकस्मिन्नपि द्विवचनबहुवचने प्राप्नुतः, द्वयोरप्येकवचनबहुवचने, बहुष्वप्येकवचनद्विवचने?।।
(समाधानभाष्यम्)
अर्थतो व्यवस्था भविष्यति।।
(समाधानान्तरभाष्यम्)
अथ वा संख्या नामेयं परप्रधाना। संख्येयमनया विशेष्यम्। यदि चात्र प्रथमा न स्यात्, संख्येयमविशेषितं स्यात्।।
<M.2.450>
(समाधानान्तरभाष्यम्)
अथ वा वक्ष्यत्येतद् वचनग्रहणस्य प्रयोजनम्--उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यात्।।
(आक्षेपभाष्यम्)
एवमपि षष्ठी प्राप्नोति।। किं कारणम्?। व्यभिचरत्येव ह्ययं समासो लिङ्गसंख्ये, षष्ठ्यर्थं पुनर्नव्यभिचरति?।।
(समाधानभाष्यम्)
अभिहितः सोर्थोन्तर्भूतः प्रातिपदिकार्थः संपन्नः। तत्र प्रातिपदिकार्थे प्रथमेति प्रथमा भविष्यति।।
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं भवति--चित्रगोर्देवदत्तस्येति।।
(समाधानभाष्यम्)
भवति बाह्यमर्थमपेक्ष्य षष्ठी।।
(परिगणनाधिकरणम्)
(भाष्यम्) परिगणनं कर्तव्यम्।।
(1385 परिगणनवार्तिकम् ।। 7 ।।
।। बहुव्रीहिः समानाधिकरणानाम् ।।
(व्याख्याभाष्यम्)
समानाधिकरणानां बहुव्रीहिर्वक्तव्यः।। किं प्रयोजनम्?। व्यधिकरणानां मा भूदिति। पञ्चभिर्भुक्तमस्येति।।
(1386 परिगणनवार्तिकम् ।। 8 ।।)
।। अव्ययानां च ।।
(व्याख्याभाष्यम्)
अव्ययानां च बहुव्रीहिर्वक्तव्यः। उच्चैर्मुखमस्येति उच्चैर्मुखः नीचैर्मुखः।।
(1387 परिगणनवार्तिकम् ।। 9 ।।)
।। सप्तम्युपमानपूर्व(पद)स्योत्तरपदलोपश्च ।।
(व्याख्याभाष्यम्)
सप्तमीपूर्वस्योपमानपूर्वस्य च बहुव्रीहिर्वक्तव्यः, उत्तरपदस्य च लोपो वक्तव्यः।। कण्ठेस्थः कालोस्य कण्ठेकालः। उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः। खरमुखः।।
<M.2.451>
(1388 परिगणनवार्तिकम् ।। 10 ।।)
।। समुदायविकारषष्ठ्याश्च ।।
(व्याख्याभाष्यम्)
समुदायविकारषष्ठ्याश्च बहुव्रीहिर्वक्तव्यः। उत्तरपदस्य च लोपो वक्तव्यः। केशसमाहारश्चूडा अस्य केशचूडः। सुवर्णविकारोलंकारो यस्य सुवर्णालंकारः।।
(1389 परिगणनवार्तिकम् ।। 11 ।।)
।। प्रादिभ्यो धातुजस्य वा ।।
(व्याख्याभाष्यम्)
प्रादिभ्यो धातुजस्य बहुव्रीहिर्वक्तव्यः। उत्तरपदस्य च वा लोपो वक्तव्यः। प्रपतितपर्णः प्रपर्णः। प्रपतितपलाशः प्रपलाशः।।
(1390 परिगणनवार्तिकम् ।। 12 ।।)
।। नञ्ञोस्त्यर्थानां च ।।
(व्याख्याभाष्यम्)
नञ्ञोस्त्यर्थानां बहुव्रीहिर्वक्तव्यः। उत्तरपदस्य च वा लोपो वक्तव्यः। अविद्यमानः पुत्रोस्य अविद्यमानपुत्र अपुत्रः। अविद्यमानभार्यः अभार्यः।।
(आक्षेपभाष्यम्)
तत्तर्हीदं बहु वक्तव्यम् ?
(1391 परिगणननिराकरणवार्तिकम् ।। 13 ।।)
।। न वाऽनभिधानादसमानाधिकरणेषु समाससंज्ञाभावः ।।
(व्याख्याभाष्यम्)
नवा वक्तव्यम्।। असमानाधिकरणानां बहुव्रीहिः कस्मान्न भवति--पञ्चभिर्भुक्तमस्येति?। अनभिधानात्। तच्चावश्यमनभिधानमाश्रयितव्यम्। क्रियमाणेपि परिगणने यत्राभिधानं न भवति तत्र न बहुव्रीहिः। यथा पञ्च भुक्तवन्तोस्येति।।
(आक्षेपभाष्यम्)
अथैतस्मिन्सत्यनभिधाने यदि वृत्तिपरिगणनं क्रियेत तर्हि वर्तिपरिगणनमपि कर्तव्यम्।।
(प्रत्याक्षेपभाष्यम्)
तत्कथं कर्तव्यम्?।।
(1392 समाधानवार्तिकम् ।। 14 ।।)
प्र्प्र् । प्र्प्र् अर्थनियमे मत्वर्थग्रहणम् प्र्प्र् । प्र्प्र्
(व्याख्यानभाष्यम्)
अर्थनियमे मत्वर्थग्रहणं कर्तव्यम्। मत्वर्थे यः, स बहुव्रीहिरिति वक्तव्यम्। इह मा भूत्--कष्टं श्रितमनेनेति।।
(1393 वार्तिकम् ।। 15 ।।)
।। तथा चोत्तरस्य वचनार्थः ।।
(भाष्यम्) एवं च कृत्वोत्तरस्य योगस्य वचनार्थ उपपन्नो भवति।।
(वार्तिकस्थोत्तरपदव्याख्याभाष्यम्)
केचित्तावदाहुः--यद्वृत्तिसूत्रे इति संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये इति।।
<M.2.452>
(सिद्धान्तिमतान्तरभाष्यम्)
अपर आहुः यद्वार्तिके इति।।
(1394 व्याख्येयवार्तिकम् ।। 16 ।।)
।। कर्मवचनेनाप्रथमायाः ।।
(व्याख्याभाष्यम्)
कर्मवचनेनाप्रथमाया बहुव्रीहिर्वक्तव्यः। ःढ़द्य;ढो रथो येन ःढ़द्य;ढरथोऽनड्वान्। उपहृतः पशू रुद्राय उपहृतपशू रुद्रः। उद्धृत ओदनः स्थाल्याः उद्धृतौदना स्थाली।।
(आक्षेपभाष्यम्)
यदि कर्मवचनेनेत्युच्यते, अथ कर्तृवचनेन कथम्--प्राप्तमुदकं ग्रामं प्राप्तोदको ग्रामः। आगता अतिथयो ग्राममागतातिथिर्ग्रामः?।।
(1395 वार्तिकम् ।। 17 ।।)
।। कर्तृवचनेनापि ।।
(व्याख्याभाष्यम्)
कर्तृवचनेनापीति वक्तव्यम्।।
(आक्षेपभाष्यम्)
अप्रथमाया इति किमर्थम्?।।
(समाधानभाष्यम्)
वृष्टे देवे गतः।।
(आक्षेपभाष्यम्)
अथ अप्रथमायाः इत्युच्यमाने इह कस्मान्न भवति--वृष्टे देवे गतं पश्येति।।
(समाधानभाष्यम्)
बहिरङ्गा अत्राप्रथमा।।
(1396 समासाक्षेपवार्तिकम् ।। 18 ।।)
(इष्टानुपपत्तिपरिहाराधिकरणम्)
।। सुबधिकारेऽस्तिक्षीरादिवचनम् ।।
(व्याख्याभाष्यम्)
सुबधिकारेस्तिक्षीरेत्युपसंख्यानं कर्तव्यम्। अस्तिक्षीरा ब्राह्मणी।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(1397 समाधानवार्तिकम् ।। 19 ।।)
।। नवाव्ययत्वात् ।।
(भाष्यम्) नवा कर्तव्यम्। किं कारणम्?। अव्ययत्वात्। अव्ययमेषोस्तिशब्दः। नैषोस्तेर्लट्। कथमव्ययत्वम्?। उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा। निपातोव्ययमित्यव्ययसंज्ञा।।
(किंसब्रह्माचारिशब्दार्थाधिकरणम्)
(आक्षेपभाष्यम्)
अथ किंसब्रह्मचारीति कोयं समासः?।।
<M.2.453>
(समाधानभाष्यम्)
बहुव्रीहिरित्याह ।।
(आक्षेपभाष्यम्)
कोस्य विग्रह:
(समाधानभाष्यम्)
के सब्रह्मचारिणोस्येति ।।
(आक्षेपभाष्यम्)
यद्येवं कठ इति प्रतिवचनं नोपपद्यते। न ह्यन्यत्पृष्टेनान्यदाख्येयम्।।
(समाधानभाष्यम्)
एवं तर्ह्येवं विग्रहः करिष्यते--केषां सब्रह्मचारी किंसब्रह्मचारीति।।
(समाधानबाधकभाष्यम्)
प्रतिवचनं चैवं नोपपद्यते। स्वरे च दोषो भवति--किंसब्रह्मचारीत्येवं स्वरः प्रसज्येत, किंसब्रह्मचारीति चेष्यते।।
(समाधानान्तरभाष्यम्)
एवं तर्ह्येवं विग्रहः करिष्यते--कः सब्रह्मचारी किंसब्रह्मचारीति।।
(समाधानान्तरबाधकभाष्यम्)
भवेत्प्रतिवचनमुपपन्नम्। स्वरे तु दोषो भवति।।
(समाधानभाष्यम्)
एवं तर्ह्येवं विग्रहः करिष्यते--कः सब्रह्मचारी तव किंसब्रह्मचारी त्वमिति।।
(प्रागुक्तपक्षाङ्गीकारभाष्यम्)
अथ वा पुनरस्त्वयमेव विग्रहः के सब्रह्मचारिणोस्येति।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--कठ इति प्रतिवचनं नोपपद्यत इति।।

(समाधानभाष्यम्)
नैष दोषः। अग्नौकरवाणिन्यायेन भविष्यति। तद्यथा--कश्चित्कंचिदाह--अग्नौकरवाणीति। स आह--कुर्विति। कर्तर्यनुज्ञाते कर्माप्यनुज्ञातं भवति।। अपर आह--अग्नौ करिष्य इति। क्रियतामिति कर्मण्यनुज्ञाते कर्ताप्यनुज्ञातो भवति। यथैव खल्वपि--के सब्रह्मचारिणोस्येति?। कठाः इत्युक्ते संबन्धादेतद्गम्यते--नूनमयमपि कठः इति। एवं कठ इत्युक्ते संबन्धादेतद्गन्तव्यं नूनं तेपि कठाः इति। न खल्वपि ते समासेन शक्याः प्रतिनिर्देष्टुम्। उपसर्जनं हि ते भवन्ति।।
<M.2.454>
(अर्धतृतीयादिशब्दार्थाधिकरणम्)
(आक्षेपभाष्यम्)
अथार्धतृतीया इति कोयं समासः?।।
(समाधानभाष्यम्)
बहुव्रीहिरित्याह।।
(आक्षेपभाष्यम्)
कोस्य विग्रहः?।।
(समाधानभाष्यम्)
अर्धं तृतीयमेषामिति।।
(आक्षेपभाष्यम्)
कः समासार्थः। समासार्थो नोपपद्यते। अन्यपदार्थो हि नाम स भवति, येषां पदानां समासस्ततोन्यस्य पदस्यार्थोन्यपदार्थः?।।
(समाधानभाष्यम्)
एवं तर्ह्येवं विग्रहः करिष्यते--अर्धं तृतीयमनयोरिति।।
(आक्षेपभाष्यम्)
एवमपि कः षष्ठ्यर्थः। षष्ठ्यर्थो नोपपद्यते। किं हि तयोरर्धं भवति?।।
(प्रथमोक्तविग्रहाभ्युपगमभाष्यम्)
अस्तु तर्ह्ययमेव विग्रहः--अर्धं तृतीयमेषामिति।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--समासार्थो नोपपद्यते इति।।
(समाधानभाष्यम्)
नैष दोषः अवयवेन विग्रहः। समुदायः समासार्थः।।
(आक्षेपभाष्यम्)
यद्यवयवेन विग्रहः समुदायः समासार्थः,
असिद्वितीयोनुससार पाण्डवम्
सङ्कर्षणद्वितीयस्य बलं कृष्णस्य वर्धताम्
इति द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति।।
(पश्चात्प्रोक्तविग्रहाभ्युपगमभाष्यम्)
अस्तु तर्ह्ययमेव विग्रहः--अर्धं तृतीयमनयोरिति।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--षष्ठ्यर्थो नोपपद्यत इति।।
(समाधानभाष्यम्)
नैष दोषः। इदं तावदयं प्रष्टव्यः--अथेह देवदत्तस्य भ्राता इति कः षष्ठ्यर्थ इति?। तत्रैतत्स्यात्--एकस्मात्प्रादुर्भाव इति। एतच्च वार्तम्। तद्यथा-- सार्थिकानामेकप्रतिश्रये उषितानां प्रातरुत्थाय प्रतिष्ठमानानां न कश्चित्परस्परमभिसंबन्धो भवति। एवंजातीयकं भ्रातृत्वं नाम।। अत्र चेद्युक्तः षष्ठ्यर्थो दृश्यते, इहापि युक्तो दृश्यताम्।।
<M.2.455>
(आक्षेपभाष्यम्)
इह तर्हि अर्धतृतीया आनीयन्तामित्युक्ते अर्धस्यानयनं न प्राप्नोति।।
(प्रथमप्रोक्तविग्रहाभ्युपगमभाष्यम्)
अस्तु तर्ह्ययमेव विग्रहः--अर्धं तृतीयमेषामिति।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--
असिद्वितीयोनुससार पाण्डवम्
सङ्कर्षणद्वितीयस्य बलं कृष्णस्य वर्द्धताम्
इति द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोतीति।।
(समाधानभाष्यम्)
नैष दोषः। अयं तीयान्तः शब्दोस्त्येव पूरणे वर्तते। अस्ति सहायवाची। तद्यः सहायवाची तस्येदं ग्रहणम्--असिद्वितीयः असिसाहाय इति गम्यते।।
(आक्षेपभाष्यम्)
एवमपि--अर्धतृतीया इत्येकस्मिन्नेकवचनं प्राप्नोति। एकार्था हि समुदाया भवन्ति। यथा---शतं यूथं वनमिति।।
(पश्चात्प्रोक्तविग्रहाभ्युपगमभाष्यम्)
ननु चोक्तम्--अर्धतृतीया आनीयन्तामित्युक्ते अर्धस्यानयनं न प्राप्नोतीति।।
(समाधानभाष्यम्)
नैष दोषः। भवति बहुव्रीहौ तद्गुणसंविज्ञानमपि। तद्यथा--शुक्लवाससमानय लोहितोष्णीषा ऋत्विजः प्रचरन्तीति तद्गुण आनियते तद्गुणाश्च प्रचरन्ति।।
(प्रथमप्रोक्तविग्रहाभ्युपगमभाष्यम्)
अथ वा पुनरस्त्वयमेव विग्रहः--अर्धं तृतीयमेषामिति।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--एकवचनं प्राप्नोतीति।।
(समाधानभाष्यम्)
नैष दोषः। संख्या नामेयं परप्रधाना। संख्येयमनया विशेष्यम्। यदि चात्रैकवचनं स्यात् संख्येयमविशेषितं स्यात् ।।
<M.2.456>
(आक्षेपभाष्यम्)
इह तर्ह्यर्धतृतीया द्रोणा इत्ययं द्रोणशब्दः समुदाये प्रवृत्तः अवयवे नोपपद्यते।।
(समाधानभाष्यम्)
नैष दोषः। समुदायेषु हि प्रवत्ताः शब्दाः अवयवेष्वपि वर्तन्ते। तद्यथा--पूर्व पञ्ञ्चालाः, उत्तरे पञ्ञ्चालाः, तैलं भुक्तं, घृतं भुक्तं, शुक्लो नीलः कपिल इति। एवमयं समुदाये द्रोणशब्दः प्रवृत्तोऽवयवेष्वपि वर्तते।।
(आक्षेपभाष्यम्)
कामं तर्ह्यनेनैव हेतुना यदा द्वौ द्रोणौ अर्धाढकं च तदा कर्तव्यमर्धतृतीया द्रोणा इति।।
(समाधानभाष्यम्)
न कर्तव्यम्। समुदायेषु वृत्ताः शब्दाः केष्ववयवेषु वर्तन्ते?, योवयवस्तं समुदायं न व्यभिचरति। कं च समुदायं न व्यभिचरति?। अर्धद्रोणो द्रोणम्। अर्धाढकं पुर्नव्यभिचरति।। अनेक ।। 24 ।।
-2-2-25- संख्ययाव्ययासन्नादूराधिक संख्याः संख्येये (283)
(283 बहुव्रीहिसंज्ञासूत्रम् ।। 2 । 2 ।2 आ.2)
(द्वित्रादिशब्दार्थाधिकरणम्)
(आक्षेपभाष्यम्)
द्वित्राः त्रिचतुरा इति कोयं समासः?।।
(समाधानभाष्यम्)
बहुव्रीहिरित्याह।।
(आक्षेपभाष्यम्)
कोस्य विग्रहः?।।
(समाधानभाष्यम्)
द्वौ वा त्रयो वेति।।
(आक्षेपभाष्यम्)
भवेद्यदा बहूनामानयनं तदा बहुवचनमुपपन्नम्। यदा तु खलु द्वावानीयेते तदा न सिध्यति।
(समाधानभाष्यम्)
तदापि सिद्धम्।। कथम्?। केचित्तावदाहुः--अनिर्ज्ञातेर्थे बहुवचनं प्रयोक्तव्यमिति। तद्यथा--कति भवतः पुत्राः, कति भवतो भार्या इति।।
अपर आह--द्वौ वेत्युक्ते त्रयो वेति गम्यते। त्रयो वेत्युक्ते द्वौ वेति गम्यते। सैषा पञ्ञ्चाधिष्ठाना वाक् तत्र युक्तं बहुवचनम्।।
<M.2.457>
(द्विदशादिशब्दार्थाधिकरणम्)
(आक्षेपभाष्यम्)
अथ द्विदशाः त्रिदशा इति कोयं समासः?।।
(समाधानभाष्यम्)
बहुव्रीहिरित्याह।।
(आक्षेपभाष्यम्)
कोस्य विग्रहः?।।
(समाधानभाष्यम्)
द्विर्दश द्विदशा इति।
(1398 आक्षेपवार्तिकम् ।। 1 ।।
।। संख्यासमासे सुजन्तत्वात्संख्याप्रसिद्धिः ।।
(भाष्यम्) संख्यासमासे सुजन्तत्वात्संख्येत्यप्रसिद्धिः। नहि सुजन्ता संख्यास्ति।।
(समाधानभाष्यम्)
एवं र्तत्द्येवं विग्रहः करिष्यते---द्वौ दशतौ द्विदशा इति।।
(आक्षेपभाष्यम्)
एवमपि अत्कारान्तत्वात्संख्येत्यप्रसिद्धिः। न ह्यत्कारान्ता संख्यास्ति।।
(प्रथमप्रोक्तविग्रहाभ्युपगमभाष्यम्)
अस्तु तर्ह्ययमेव विग्रहः--द्विर्दश द्विदशा इति।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--।संख्यासमासे सुजन्तत्वात्संख्येत्यप्रसिद्धिरिति।।
(1399 आक्षेपबाधकवार्तिकम् ।। 2 ।।)
।। नवाऽसुजन्तत्वात् ।।
(भाष्यम्) न वा एष दोषः। किं कारणम्?। असुजन्तत्वात्। सुजन्तत्वादित्युच्यते। न चात्र सुजन्तं पश्यामः।।
(आक्षेपभाष्यम्)
किं पुनः कारणं वाक्ये सुज् दृश्यते, समासे न दृश्यते?।।
<M.2.458>
(1400 समाधानवार्तिकम् ।। 3 ।।)
।। सुजभावोभिहितार्थत्वात् समासे ।।
(भाष्यम्) समासे सुजभावः।। किं कारणम्?। अभिहितार्थत्वात्। अभिहितः सुजर्थः समासेनेति कृत्वा समासे सुज् न भविष्यति।।
(प्रत्याक्षेपभाष्यम्)
किं च भोः सुजर्थे इति समास उच्यते?।।
(समाधानभाष्यम्)
न खलु सुजर्थ इत्युच्यते गम्यते तु सुजर्थः। कथम्?। यावता संख्येयो यः संख्यया संख्यायते। स च क्रियाभ्यावृत्त्यर्थः। स चोक्तः समासेनेति कृत्वा समासे सुज् न भविष्यति।।
(प्रत्याख्यानाधिकरणम्)
(1401 प्रत्याख्यानवार्तिकम् ।। 4 ।।)
।। अशिष्यः संख्योत्तरपदः संख्येयवाभिधायित्वात् ।।
(भाष्यम्) अशिष्यः संख्योत्तरपदो बहुव्रीहिः।। किं कारणम्?। संख्येयवाभिधायित्वात्। संख्येयं वार्थश्चाभिधीयते तत्रान्यपदार्थ इत्येव सिद्धम्।।
(प्रत्याख्याननिराकरणभाष्यम्)
भवेत्सिद्धमधिकविंशाः अधिकत्रिंशा इति, यत्रैतद्विचार्यते विंशत्यादयो दशदर्थे वा स्युः परिमाणिनि वेति। इदं तु न सिध्यति--अधिकदशा इति, यत्र नियोगतः संख्या संख्येये एव वर्तते।।
<M.2.459>
(उपदशादिशब्दार्थाधिकरणम्)
(आक्षेपभाष्यम्)
अथोपदशा इति कोयं समासः?।।
(समाधानभाष्यम्)
बहुव्रीहिरित्याह।।
(आक्षेपभाष्यम्)
कोस्य विग्रहः?।।
(समाधानभाष्यम्)
दशानां समीपे उपदशा इति।।
(आक्षेपभाष्यम्)
कस्य पुनः सामीप्यमर्थः?।।
(समाधानभाष्यम्)
उपस्य।।
(आक्षेपभाष्यम्)
यद्येवं, नान्यपदार्थो भवति।।
(प्रत्याख्यानभाष्यम्)
तत्र च प्रथमानिर्दिष्टं संख्याग्रहणं शक्यमकर्तुम्।।
(1402 संख्याग्रहणस्थापनवार्तिकम् ।। 5 ।। )
।। मत्वर्थे वा पूर्वस्य विधानात् ।।
(भाष्यम्) अथ वा मत्वर्थे पूर्वो योगः। अमत्वर्थार्थोयमारम्भः।।
(1403 प्रत्याख्याननिराकरणवार्तिकम्।। 6 ।।)
।। कबभावार्थं वा ।।
(भाष्यम्) अथ वा कब् मा भूदिति।। संख्ययाऽव्य ।। 25 ।।
<M.2.460>
-2-2-26- दिङ्नामान्यन्तराले (446)
(284 बहुव्रीहिसंज्ञासूत्रम् ।। 2।2।2 आ.3)

(285 बहुव्रीहिसंज्ञासूत्रम् ।। 2।2।2 आ.4)
447 तेन सहेति तुल्ययोगे ।।2।2।27।।
(प्रत्याख्यानाधिकरणम्)
(1404 प्रत्याख्यानवार्तिकम् ।। 1 ।।)
।। दिक्समाससहयोगयोश्चान्तरालप्रधानाभिधानात् ।।
(भाष्यम्) दिक्समाससहयोगयोश्चाशिष्यो बहुव्रीहिः।। किं कारणम्?। अन्तरालप्रधानाभिधानात्। दिक्समासे सहयोगे चान्तरालं प्रधानं चाभिधीयते तत्रान्यपदार्थ इत्येव सिद्धम्।।
(आक्षेपभाष्यम्)
यद्येवं दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोति ।।
(समाधानभाष्यम्)
अद्य पुनरियं सैव दक्षिणा सैव पूर्वेति कृत्वा समानाधिकरणलक्षणः पुंवद्भावः सिद्धो भवति।।
(समाधानबाधकभाष्यम्)
न सिध्यति। भाषितपुंस्कस्य पुंवद्भावः। न चैतौ भाषितपुंस्कौ।।
(समाधानसाधकभाष्यम्)
ननु च भोः दक्षिणशब्दः पूर्वशब्दश्च पुंसि भाष्येते।।
(समाधानबाधकभाष्यम्)
समानायामाकृतौ यद्भाषितपुंस्कम्। आकृत्यन्तरे चैतौ भाषितपुंस्कौ। दक्षिणा पूर्वेति दिक्शब्दौ। दक्षिणः पूर्व इति व्यवस्थाशब्दौ।।
(आक्षेपभाष्यम्)
यदि पुनर्दिक्शब्दा अपि व्यवस्थाशब्दाः स्युः। कथं यानि दिगुपदिष्टानि कार्याणि?।।
(समाधानभाष्यम्)
यदा दिशो व्यवस्थां वक्ष्यन्ति।।
<M.2.461>
(आक्षेपभाष्यम्)
यदि हि यो यो दिशि वर्तते स दिक्शब्दः, रमणीयादिष्वतिप्रसङ्गो भवति--रमणीया दिक् शोभना दिगिति।। अथ मतमेतत्--दिशि दृष्टो दिग्दृष्टः दिग्दृष्टः शब्दो दिक्शब्दः यो दिशं न व्यभिचरतीति, न
रमणीयादिष्वतिप्रसङ्गो भवति, पुंवद्भावस्तु न प्राप्नोति ।।
(समाधानभाष्यम्)
एवं तर्हि सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः दक्षिणोत्तरपूर्वाणामित्येवमर्थम्।।
(प्रत्याख्यानाभ्युपगमभाष्यम्)
एवं च कृत्वास्तु--।दिक्समाससहयोगयोरन्तरालप्रधानाभिधानात्। इत्येव।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोतीति।।
(समाधानभाष्यम्)
नैष दोषः। सर्वनाम्नो वृत्तिमात्रे पुंवद्भावेन परिहृतः ।।
(1405 प्रत्याख्यानबाधकवार्तिकम् ।। 1 ।।)
।। मत्वर्थे वा पूर्वस्य विधानात् ।।
(भाष्यम्) अथ वा मत्वर्थे पूर्वो योगः। अमत्वर्थार्थोयमारम्भः।।
(1406 प्रत्याख्यानबाधकवार्तिकम् ।। 2 ।।)
।। कबभावार्थो वा ।।
(भाष्यम्) अथ वा कब् मा भूदिति।। दिङ्नामानि ।। 26 ।। तेन सहेति ।। 27 ।।
-2-2-28- तेन सहेति तुल्ययोगे (447)
दिङ्नामान्यन्तराले (446)
(284 बहुव्रीहिसंज्ञासूत्रम् ।। 2।2।2 आ.3)

(285 बहुव्रीहिसंज्ञासूत्रम् ।। 2।2।2 आ.4)
(प्रत्याख्यानाधिकरणम्)
(1404 प्रत्याख्यानवार्तिकम् ।। 1 ।।)
।। दिक्समाससहयोगयोश्चान्तरालप्रधानाभिधानात् ।।
(भाष्यम्) दिक्समाससहयोगयोश्चाशिष्यो बहुव्रीहिः।। किं कारणम्?। अन्तरालप्रधानाभिधानात्। दिक्समासे सहयोगे चान्तरालं प्रधानं चाभिधीयते तत्रान्यपदार्थ इत्येव सिद्धम्।।
(आक्षेपभाष्यम्)
यद्येवं दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोति ।।
(समाधानभाष्यम्)
अद्य पुनरियं सैव दक्षिणा सैव पूर्वेति कृत्वा समानाधिकरणलक्षणः पुंवद्भावः सिद्धो भवति।।
(समाधानबाधकभाष्यम्)
न सिध्यति। भाषितपुंस्कस्य पुंवद्भावः। न चैतौ भाषितपुंस्कौ।।
(समाधानसाधकभाष्यम्)
ननु च भोः दक्षिणशब्दः पूर्वशब्दश्च पुंसि भाष्येते।।
(समाधानबाधकभाष्यम्)
समानायामाकृतौ यद्भाषितपुंस्कम्। आकृत्यन्तरे चैतौ भाषितपुंस्कौ। दक्षिणा पूर्वेति दिक्शब्दौ। दक्षिणः पूर्व इति व्यवस्थाशब्दौ।।
(आक्षेपभाष्यम्)
यदि पुनर्दिक्शब्दा अपि व्यवस्थाशब्दाः स्युः। कथं यानि दिगुपदिष्टानि कार्याणि?।।
(समाधानभाष्यम्)
यदा दिशो व्यवस्थां वक्ष्यन्ति।।
(आक्षेपभाष्यम्)
यदि हि यो यो दिशि वर्तते स दिक्शब्दः, रमणीयादिष्वतिप्रसङ्गो भवति--रमणीया दिक् शोभना दिगिति।। अथ मतमेतत्--दिशि दृष्टो दिग्दृष्टः दिग्दृष्टः शब्दो दिक्शब्दः यो दिशं न व्यभिचरतीति, न रमणीयादिष्वतिप्रसङ्गो भवति, पुंवद्भावस्तु न प्राप्नोति ।।
(समाधानभाष्यम्)
एवं तर्हि सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः दक्षिणोत्तरपूर्वाणामित्येवमर्थम्।।
(प्रत्याख्यानाभ्युपगमभाष्यम्)
एवं च कृत्वास्तु--।दिक्समाससहयोगयोरन्तरालप्रधानाभिधानात्। इत्येव।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोतीति।।
(समाधानभाष्यम्)
नैष दोषः। सर्वनाम्नो वृत्तिमात्रे पुंवद्भावेन परिहृतः ।।
(1405 प्रत्याख्यानबाधकवार्तिकम् ।। 1 ।।)
।। मत्वर्थे वा पूर्वस्य विधानात् ।।
(भाष्यम्) अथ वा मत्वर्थे पूर्वो योगः। अमत्वर्थार्थोयमारम्भः।।
(1406 प्रत्याख्यानबाधकवार्तिकम् ।। 2 ।।)
।। कबभावार्थो वा ।।
(भाष्यम्) अथ वा कब् मा भूदिति।। दिङ्नामानि ।। 26 ।। तेन सहेति ।। 27 ।।
-2-2-27- तत्र तेनेदमिति सरूपे (448)
(286 बहुव्रीहिसंज्ञासूत्रम् ।। 2 । 2। 2 । आ.5सू.)
(प्रत्याख्याननिराकरणाधिकरणम्)
(1407 प्रत्याख्यानवार्तिकम् ।। 1 ।।)
।। तृतीयासप्तम्यन्तेषु च क्रियाभिधानादशिष्यो बहुव्रीहिः ।।
(भाष्यम्) तृतीयासप्तम्यन्तेषु चाशिष्यो बहुव्रीहिः। किं कारणम्?। क्रियाभिधानात्। क्रियाभिधीयते। तत्र अन्यपदार्थ इत्येव सिद्धम्।
<M.2.462>
(1408 प्रत्याख्याननिराकरणवार्तिकम् ।। 2 ।।)
।। न वैकशेषप्रतिषेधार्थम् (पूर्वदीर्घार्थं च)।।
(भाष्यम्) नवाऽशिष्यः। किं कारणम्?। एकशेषप्रतिषेधार्थमिदं वक्तव्यम्।।
पूर्वदीर्घार्थं च। पूर्वदीर्घार्थं चेदं वक्तव्यम्। केशाकेशि।।
(प्रत्याख्यानसाधकभाष्यम्)
स्यदेतत्प्रयोजनं यदि नियोगतोनेनैव दीर्घत्वं स्यात्। अथेदानीम् अन्येषामपि दृश्यते इति दीर्घत्वं न प्रयोजनं भवति।।
(1409 वार्तिकम् ।। 3 ।।)
।। मत्वर्थे वा पूर्वस्य विधानात् ।।
(व्याख्याभाष्यम्)
अथ वा मत्वर्थे पूर्वो योगः। अमत्वर्थार्थोयमारम्भः।।
(1410 वार्तिकम् ।। 4 ।।)
।। कबभावार्थं वा ।।
(व्याख्याभाष्यम्)
अथ वा कब् मा भूदिति ।। तत्र तेनेदम् ।। 28 ।।
-2-2-29- चार्थे द्वन्द्वः (449)
(अथ द्वन्द्वसमासः)
(287 अथ द्वन्द्वसंज्ञासूत्रम् ।। 2।2।2 आ 6 सू.)
(आक्षेपभाष्यम्)
चार्थ इत्युच्यते। चश्चाव्ययम्। तेन समासस्याप्यव्ययसंज्ञा प्राप्नोति।।
(समाधानभाष्यम्)
नैष दोषः। पाठेनाव्ययसंज्ञा क्रियते। न च (द्वन्द्वः) समासस्तत्र पठ्यते।।
(आक्षेपभाष्यम्)
पाठेनाप्यव्ययसंज्ञायां सत्यामभिधेयवल्लिङ्गवचनानि भविष्यन्ति। यश्चेहार्थोभिधीयते न तस्य लिङ्गसंख्याभ्यां योगोस्ति।।
(समाधानभाष्यम्)
नेदं वाचनिकम्--अलिङ्गता असंख्यता च। किं तर्हि? स्वाभाविकमेतत्। तद्यथा--समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते अपरे न। न चेदानीं कश्चिदर्थवानिति कृत्वा सर्वैरर्थवदि्भः शक्यं भवितुम्, कश्चिद्वानर्थक इति सर्वैरनर्थकैः। तत्र किमस्माभिः शक्यं कर्तुम्--यत्प्राक् समासाच्चार्थस्य लिङ्गसंख्याभ्यां योगो नास्ति, समासे च भवति। स्वाभाविकमेतत्।।
<M.2.463>
(समाधानान्तरभाष्यम्)
अथ वा आश्रयतो लिङ्गवचनानि भविष्यन्ति यथा गुणवचनेषु। गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति। तद्यथा--शुक्लं वस्त्रं शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला इति यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद् गुणस्यापि भवति। एवमिहापि यदसौ द्रव्यं श्रितो भवति समासस्तस्य यल्लिङ्गं वचनं च तत्समासस्यापि भविष्यति।।
(आक्षेपभाष्यम्)
अथेह कस्मान्न भवति--याज्ञिकश्चायं वैयाकरणश्च, कठश्चायं बह्वृचश्च, औक्थिकश्चायं मीमांसकश्चेति।।
(समाधानभाष्यम्)
शेष इति वर्तते। अशेषत्वान्न भविष्यति।।
(आक्षेपभाष्यम्)
यदि शेष इति वर्तते,
उपास्नातं स्थूलसिक्तं तूष्णींगङ्गं महाह्रदम्।।
द्रोणं चेदशको गन्तुं मा त्वा ताप्तां कृताकृते।।
इत्येतन्न सिध्यति।।
(समाधानभाष्यम्)
नैष दोषः। अन्यद्धि कृतम्, अन्यदकृतम्।।
(युगपदधिकरणवचनताधिकरणम्)
(1411 आक्षेपवार्तिकम् ।। 1 ।।)
।। चार्थे द्वन्द्ववचनेऽसमासेपि चार्थसंप्रत्ययादनिष्टप्रसङ्गः ।।
(व्याख्याभाष्यम्)
चार्थे द्वन्द्ववचने समासेपि चार्थसंप्रत्ययादनिष्टं प्राप्नोति--
अहरहर्नयमानो गामश्वं पुरुषं पशुम् ।।
वैवस्वतो न तृप्यति सुराया इव दुर्मदी।।
इति।। इन्द्रस्त्वष्टा वरुणो वायुरादित्य इति।।
<M.2.464>
(1412 युगपदधिकरणवचनतयासमाधानवार्तिकम् ।। 2 ।।)
।। सिद्धं तु युगपदधिकरणवचने द्वन्द्ववचनात् ।।
(व्याख्याभाष्यम्)
सिद्धमेतत्।। कथम्?। युगपदधिकरणवचने द्वन्द्वो भवतीति वक्तव्यम् ।।
(1413) युगपदधिकरणतायां दूषणवार्तिकम् ।। 3 ।।
।। तत्र पुंवद्भावप्रतिषेधः ।।
(भाष्यम्) तत्रैतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधो वक्तव्यः। पट्वीमृद्व्यौ। समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति।।

(1414 दूषणान्तरवार्तिकम् ।। 4 )
।। विप्रतिषिद्धेषु चानुपपत्तिः ।।
(भाष्यम्) विप्रतिषिद्धेषु युगपदधिकरणवचनताया अनुपपत्तिः। शीतोष्णे सुखदुःखे जननमरणे। किं कारणम्?। सुखप्रतिघातेन हि दुःखम्, दुःखप्रतिघातेन च सुखम्।।
(प्रथमदूषणबाधकभाष्यम्)
यत्तावदुच्यते ।तत्र पुंवद्भावप्रतिषेधः। इति। इदं तावदयं प्रष्टव्यः अथेह पुंवद्भावः कस्मान्न भवति--दर्शनीयाया माता दर्शनीयामातेति?। अथ मतमेतत्--प्राक् समासाद्यत्र सामानाधिकरण्यं तत्र पुंवद्भावो भवतीति। इहापि न दोषो भवति।।
(द्वितीयदूषणबाधकभाष्यम्)
यदप्युच्यते ।विप्रतिषिद्धेषु चानुपपत्तिः। इति। सर्व एव शब्दाः विप्रतिषिद्धाः। इहापि प्लक्षन्यग्रोधाविति प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थं संप्रत्याययति, न्यग्रोधार्थं संप्रत्याययति, प्लक्षार्थं निवर्तयति। अथात्र चेद्युक्ता युगपदधिकरणवचनता दृश्यते, इहापि युक्ता दृश्यताम्।।
<M.2.465>
(युगपदधिकरणवचनतानुपपत्तिभाष्यम्)
एवमपि---
(1415 युगपदधिकरणवचनताया असंभववार्तिकम् ।। 5 ।।)
।। शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानम् ।।
(भाष्यम्) शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानं प्राप्नोति।। अतः किम्?। युगपदधिकरणवचनताया अनुपपत्तिः। प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा इति। यथैव हि शब्दानां पौर्वापर्यं तद्वदर्थानामपि भवितव्यम्।।
(1416 पौर्वापर्याभिधाने दूषणवार्तिकम् ।। 6 ।।)
।। शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानमिति चेदि्द्ववचनबहुवचनानुपपत्तिः ।।
(भाष्यम्) शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानमिति चेद् द्विवचनबहुवचनयोरनुपपत्तिः--प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा इति। प्लक्षशब्दः सार्थको निवृत्तो न्यग्रोधशब्द उपस्थितः। एक एकार्थः तस्यैकार्थत्वादेकवचनं प्राप्नोति।।
(1417 दूषणोद्धारवार्तिकम् ।। 7 ।।)
।। विग्रहे च युगपद्वचनं ज्ञापकं युगपद्वचनस्य ।।
(भाष्यम्) विग्रहे खल्वपि युगपद्वचनता दृश्यते--द्यावा ह क्षामा द्यावा चिदस्मै पृथिवी संनमेते इति।। किमेतत्?। युगपदधिकरणवचनताया उपोद्वलकम्।। विग्रहे किल नाम युगपदधिकरणवचनता स्यात्, किं पुनः समासे।।
<M.2.466>
(1418 द्वितीयदूषणोद्धारवार्तिकम् ।। 8 ।।)
।। समुदायात्सिद्धम् ।।
(भाष्यम्) समुदायात्सिद्धमेतत्।। किमेतत्समुदायात्सिद्धमिति?। द्विवचनबहुवचनताप्रसिद्धिरिति चोदितम्, तस्यायं परिहारः।।
(1419 दूषणसाधकवार्तिकम् ।। 9 ।।)
।। समुदायात्सिद्धमिति चेन्नैकार्थत्वात्समुदायस्य ।।
(भाष्यम्) समुदायात्सिद्धमिति चेत्। तन्न। किं कारणम्?। एकार्थत्वात्समुदायस्य। एकार्था हि समुदाया भवन्ति। तद्यथा -- शतं यूथं वनमिति।।
(1420 दूषणबाधकवार्तिकम् ।। 10 ।।)
।। नैकार्थ्यम् ।।
(भाष्यम्) नायमेकार्थः। किं तर्हि?। द्व्यर्थो बह्वर्थश्च। प्लक्षोपि द्व्यर्थः न्यग्रोधोपि द्व्यर्थः।।
(आक्षेपभाष्यम्)
यदि तर्हि प्लक्षोपि द्व्यर्थो न्यग्रोधोपि द्व्यर्थः,--
(1421 दूषणवार्तिकम् ।। 11 ।।)
।। तयोरनेकार्थत्वाद्बहुवचनप्रसङ्गः ।।
(भाष्यम्) तयोरनेकार्थत्वाद् बहुषु बहुवचनम् इति बहुवचनं प्राप्नोति।।
(1422 दूषणोद्धारसमाधानवार्तिकम् ।। 12 ।।)
।। तयोरनेकार्थत्वाद्बहुवचनप्रसङ्ग इति चेन्न बहुत्वाभावात् ।।
(भाष्यम्) तयोरनेकार्थत्वाद्बहुवचनप्रसङ्ग इति चेत्।। तन्न। किं कारणम्?। बहुत्वाभावात्। नात्र बहुत्वमस्ति।। किमुच्यते--बहुत्वाभावादिति, यदा इदानीमेवोक्तम्--प्लक्षोपि द्व्यर्थो न्यग्रोधोपि द्व्यर्थ इति?। याभ्यामेवात्रैको द्व्यर्थस्ताभ्यामेवापरोपि।
(द्विवचनबहुवचनानुपपत्तिभाष्यम्)
यद्येवम्--
(1423 अनुपपत्तिवार्तिकम् ।। 13 ।।)
।। अन्यवाचकेनान्यस्य वचनानुपपत्तिः ।।
(भाष्यम्) अन्यवाचकेन शब्देनान्यस्य वचनं नोपपद्यते।।
(1424 अनुपपत्तिबाधकवार्तिकम् ।। 14 ।।)
।। अन्यवाचकेनान्यस्य वचनानुपपत्तिरिति चेत् प्लक्षस्य न्यग्रोधत्वाद् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देनाभिधानम् ।।
(भाष्यम्) अन्यवाचकेनान्यस्य वचनानुपपत्तिरिति चेद्।। एवमुच्यते--तन्न। किं कारणम्?। प्लक्षस्य न्यग्रोधत्वाद् न्यग्रोधस्य च प्लक्षत्वाच्च स्वशब्देनाभिधानं भविष्यति। प्लक्षोपि न्यग्रोधः न्यग्रोधोपि प्लक्षः।।
<M.2.467>
(आक्षेपभाष्यम्)
कथं पुनः प्लक्षोपि न्यग्रोधः न्यग्रोधोपि प्लक्षः स्यात्, यावता कारणाद् द्रव्ये शब्दनिवेशः?।।
(1425 वार्तिकम् ।। 15 ।।)
।। कारणाद् द्रव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात्सिद्धम् ।।
(भाष्यम्) कारणाद् द्रव्ये शब्दनिवेश इति चेद्।। एवमुच्यते--तन्न। तुल्यकारणत्वात् सिद्धम्। तुल्यं हि कारणम्। यदि तावत्प्रक्षरतीति व्युत्पत्त्या प्लक्षः स्याद्, न्यग्रोधेप्येतद्भावति। तथा यदि न्यग्रोहतीति न्यग्रोधः, प्लक्षेप्येतद्भवति।।

(1426 वार्तिकम् ।। 16 ।।)
।। दर्शनं वै हेतुः ।।
(भाष्यम्) न च न्यग्रोधे प्लक्षशब्दो दृश्यते।।
(1427 वार्तिकम् ।। 27 ।।)
।। दर्शनं हेतुरिति चेत्तुल्यम् ।।
(भाष्यम्) दर्शनं हेतुरिति चेत्तुल्यमेतद्भवति प्लक्षेपि न्यग्रोधशब्दो दृश्यते न्यग्रोधेपि प्लक्षशब्दः। तुल्यं हि कारणम्।।
(आक्षेपभाष्यम्)
न वै लोके एष संप्रत्ययो भवति। न हि प्लक्ष आनीयतामित्युक्ते न्यग्रोध आनीयते।।
(1428 समाधानवार्तिकम् ।। 28।।)
।। तद्विषयं च ।।
(भाष्यम्) तद्विषयं चैतद् द्रष्टव्यं प्लक्षस्य न्यग्रोधत्वम् ।। किं विषयम्? द्वन्द्वविषयम् ।।
(आक्षेपभाष्यम्)
युक्तं पुनर्यन्नियतविषया नाम शब्दाः स्युः?।।
(समाधानभाष्यम्)
बाढं युक्तम्।।
(1429 समाधानसाधकवार्तिकम् ।। 19 ।।
प्र्प्र् । प्र्प्र्अन्यत्रापि तद्विषयदर्शनात् प्र्प्र् । प्र्प्र्
(भाष्यम्) अन्यत्रापि हि नियतविषयाः शब्दा दृश्यन्ते। तद्यथा--समाने रक्ते वर्णे गौर्लोहित इति भवति, अश्वः शोण इति। समाने च कालेवर्णे गौः कृष्ण इति भवति, अश्वो हेम इति। समाने च शुक्ले वर्णे गौः श्वेत इति भवति, अश्वः कर्क इति।।
(आक्षेपभाष्यम्)
यदि तर्हि प्लक्षोपि न्यग्रोधः न्यग्रोधोपि प्लक्षः--
<M.2.468>
(1430 आक्षेपवार्तिकम् ।। 20 ।।)
।। एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्नः ।।
(भाष्यम्) एकेनोक्तत्वात्तस्यार्थस्यापरस्य प्रयोगो नोपपद्यते--प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।।
(1431 वार्तिकम् ।। 21 ।।)
।। एकेनोक्तत्वादपरस्य प्रयोगोनुपपन्न इति चेदनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।।
(भाष्यम्) एकेनोक्तत्वादपरस्य प्रयोगोनुपपन्न इति चेत्। तन्न। किं कारणम्?। अनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः। अनुक्तः प्लक्षेण न्यग्रोधार्थ इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते।। कथमनुक्तः, यावता इदानीमेवोक्तं प्लक्षोपि न्यग्रोधः न्यग्रोधोपि प्लक्ष इति?। सहभूतावेतावन्योन्यस्यार्थमाहतुः। न पृथग्भूतौ।।

(आक्षेपभाष्यम्)
किं पुनः कारणं सहभूतावेतावन्योन्यस्यार्थमाहतुर्न पृथग्भूतौ?।।
(1432 समाधानवार्तिकम् ।। 22 ।।)
।। अभिधानं पुनः स्वाभाविक् ।।
(भाष्यम्) स्वाभाविकमभिधानम् ।।
(समाधानभाष्यम्)
अथ वेह कौ चित्प्राथमकल्पिकौ प्लक्षन्यग्रोधौ, कौ चित्क्रियया वा गुणेन वा, प्लक्ष इवायं प्लक्षः-- न्यग्रोध इवायं न्यग्रोध इति। तत्र प्लक्षावित्युक्ते संदेहः स्यात्--किमिमौ प्लक्षावेव आहोस्वित्प्लक्षन्यग्रोधाविति। तत्रासंदेहार्थं
न्यग्रोधशब्दः प्रयुज्यते।।
(पूर्वपक्षिण आक्षेपोपसंहारभाष्यम्)
सेयं युगपदधिकरणवचनता नाम दुःखा च दुरुपपादा च। यच्चाप्यस्या निबन्धनमुक्तम्--द्यावा ह क्षामेति, तदपि च्छान्दसम्। तत्र सुपां सुपो भवन्तीत्येव सिद्धम्। सूत्रं च भिद्यते।।
(सिद्धान्तिसमाधानभाष्यम्)
यथान्यासमेवास्तु।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्-- । चार्थे द्वन्द्ववचनेऽसमासेऽपि चार्थसंप्रत्ययादनिष्टप्रसङ्गः । इति।।
<M.2.469>
(समाधानभाष्यम्)
नैष दोषः। इह चे द्वन्द्वः इतीयता सिद्धम्।।
कथं पुनश्चे नाम वृत्तिः स्यात्। शब्दो ह्येषः?।।
शब्दे कार्यासंभवादर्थे कार्यं विज्ञास्यते। सोयमेवं सिद्धे सति यदर्थग्रहणं करोति तस्यैतत्प्रयोजनम्--एवं यथा विज्ञायेत--चेन कृतोर्थश्चार्थ इति।।
कः पुनश्चेन कृतोर्थः?।। समुच्चयः अन्वाचय इतरेतरयोगः समाहार इति।। समुच्चये--प्लक्षश्चेत्युक्ते गम्यते एतत्--प्लक्षश्चेति।। अन्वाचये--प्लक्षश्चेत्युक्ते गम्यते एतत्--सापेक्षोयं प्रयुज्यते इति।। इतरेतरयोगे--प्लक्षश्च न्यग्रोधश्चेत्युक्ते गम्यते एतत्--प्लक्षोपि न्यग्रोधसहायो न्यग्रोधोपि प्लक्षसहायः इति।। (प्लक्षश्च न्यग्रोधश्चेत्युक्ते) समाहारेऽपि क्रियते--प्लक्षन्यग्रोधमिति।। तत्रायमप्यर्थः---द्वन्द्वैकवद्भावो न पठितव्यो भवति। समाहारैकत्वादेव सिद्धम्।।
<M.2.470>
(एकादशादिशब्दार्थनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
एकादश द्वादशेति कोयं समासः?।।
(1433 समाधानवार्तिकम् ।। 23 ।।)
।। एकादीनां दशादिभिर्द्वन्द्वः ।।
(भाष्यम्) एकादीनां सह दशादिभिर्द्वन्द्वः समासः।।
(1434 आक्षेपवार्तिकम् ।। 24 ।।)
।। एकादीनां दशादिभिर्द्वन्द्व इति चेद्विंशत्यादिषु वचनप्रसङ्गः ।।
(भाष्यम्) एकादीनां दशादिभिर्द्वन्द्व इति चेद्विंशत्यादिषु वचनं प्राप्नोति। एकविंशातिः। द्वाविंशतिः।।
(1435 समाधानवार्तिकम् ।। 25 ।।)
।। सिद्धं त्वधिकान्ता संख्या संख्यया समानाधिकरणाधिकारेऽधिकलोपश्च ।।
(भाष्यम्) सिद्धमेतत्।। कथम्?। समानाधिकरणाधिकारे वक्तव्यम्--अधिकान्ता संख्या संख्यया सह समस्यतेऽधिकशब्दस्य च लोपो भवति इति। एकाधिका विंशतिः एकविंशतिः, द्व्यधिका विंशतिः द्वाविंशतिः।।
(दूषणभाष्यम्)
यदि समानाधिकरण:, स्वरो न सिध्यति।। यद्धि तत्-- संख्या पूर्वपदं प्रकृतिस्वरं भवति इति, द्वन्द्वे
इत्येवं तत्।।
(प्रत्याक्षेपभाष्यम्)
किं पुनः कारणं द्वन्द्व इत्येवं तत्?।।
(समाधानभाष्यम्)
इह मा भूत् --- शतसहस्रमिति।।
(द्वन्द्वाभ्युपगमभाष्यम्)
अस्तु तर्हि द्वन्द्वः।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--। एकादीनां दशादिभिर्द्वन्द्व इति चेद्विंशत्यादिषु वचनप्रसङ्ग। इति।।
(समाधानभाष्यम्)
नैष दोषः। सर्वो हि द्वन्द्वो विभाषैकवद्भवति।।
<M.2.471>
(आक्षेपभाष्यम्)
यदा तर्ह्येकवचनं तदा नपुंसकलिङ्गं प्राप्नोति।।
(समाधानभाष्यम्)
लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य ।। चार्थे ।। 29 ।।
-2-2-30- उपसर्जनं पूर्वम् (450)
(अथ पूर्वनिपातप्रकारणम्)
(288 पूर्वनिपातनियमसूत्रम् ।। 2।2।2। आ. 7 सू.)
(सूत्रप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते ?

(1436 समाधानवार्तिकम् प्र्प्र् 1 प्र्प्र्प्र्)
।। उपसर्जनस्य पूर्ववचनं परप्रयोगनिवृत्त्यर्थम् ।।
(भाष्यम्) उपसर्जनस्य पूर्ववचनं क्रियते। परप्रयोगो मा भूदिति।।
(1437 समाधानबाधकवार्तिकम् ।। 2 ।।)
।। न वानिष्टादर्शनात् ।।
(भाष्यम्) न वा एतत्प्रयोजनमस्ति। किं कारणम्?। अनिष्टादर्शनात्। न हि किंचिदनिष्टं दृश्यते। न हि कश्चिद्राजपुरुष इति प्रयोक्तव्ये पुरुषराज इति प्रयुङ्क्ते। यदि चानिष्टं प्रसज्येत ततो यत्नार्हं स्यात्।।
(आक्षेपभाष्यम्)
अथ यत्र द्वे षष्ठ्यन्ते भवतः कस्मात्तत्र प्रधानस्य पूर्वनिपातो न भवति। राज्ञः पुरुषस्य राजपुरुषस्येति?।।
(1438 समाधानवार्तिकम् ।। 3 ।।)
।। षष्ठ्यन्तयोः समासेऽर्थाभेदात् प्रधानस्यापूर्वनिपातः ।।
(भाष्यम्) षष्ठ्यन्तयोः समासे अर्थाभेदात्प्रधानस्य पूर्वनिपातो न भविष्यति। एवं न चेदमकृतं भवति उपसर्जनं पूर्वम् इति। अर्थश्चाभिन्न इति कृत्वा प्रधानस्य पूर्वनिपातो न भविष्यति।। उपसर्जनम् ।। 30 ।।
-2-2-34- अल्पाच्तरम् (454)
(289 पूर्वनिपातनियमसूत्रम् ।। 2 ।2।2 आ. 8 सू.)
(तरबर्थविचाराधिकरणम्)
(आक्षेपभाष्यम्)
किमयं तन्त्रं तरनिर्देशः, आहोस्विदतन्त्रम्?।।
<M.2.472>
(प्रत्याक्षेपभाष्यम्)
किं चातः?।।
(प्रथमपक्षे दूषणभाष्यम्)
यदि तन्त्रम् द्वयोर्नियमः बहुष्वनियमः।। तत्र को दोषः?। शङ्खदुन्दुभिवीणानामिति न सिध्यति। दुन्दुभिशब्दस्यापि पूर्वनिपातः प्राप्नोति।।
(द्वितीयपक्षे दूषणभाष्यम्)
अथातन्त्रम्, मृदङ्गशङ्खतूणवाः पृथङ् नदन्ति संसदि प्रासादे धनपतिरामकेशवानाम् इत्येतन्न सिध्यति।।
(प्रथमपक्षाङ्गीकारभाष्यम्)
यथेच्छसि तथाऽस्तु। अस्तु तावत्तन्त्रम्।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--द्वयोर्नियमो बहुष्वनियमः इति। तत्र शङ्खदुन्दुभिवीणानामिति न सिध्यति। दुन्दुभिशब्दस्यापि पूर्वनिपातः प्राप्नोति---इति।।
(समाधानभाष्यम्)
नैष दोषः। यदेतद् अल्पाच्तरम् इति, तद् अल्पाज् इति वक्ष्यामीति।।
(द्वितीयपक्षाभ्युपगमभाष्यम्)
अथ वा पुनरस्त्वतन्त्रम् ।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--मृदङ्गशङ्खतूणवाः पृथङ् नदन्ति संसदि प्रासादे धनपतिरामकेशवानाम् इत्येतन्न सिध्यति--इति।।
(1439 समाधानवार्तिकम् ।। 1 ।।)
।। अतन्त्रे तरनिर्देशे शङ्खतूणवयोर्मृदङ्गेन समासः ।।
(भाष्यम्) अतन्त्रे तरनिर्देशे शङ्खतूणवयोर्मृदङ्गेन सह समासः करिष्यते। शङ्खश्च तूणवश्च शङ्खतूणवौ। शङ्खतूणवौ च मृदङ्गश्च मृदङ्गशङ्खतूणवाः। रामश्च केशवश्च रामकेशवौ। रामकेशवौ च धनपतिश्च धनपतिरामकेशवाः धनपतिरामकेशवानामिति।।
(बहुनां प्राप्तौ नियमाधिकरणम्)
(आक्षेपभाष्यम्)
अथ यत्र बहूनां पूर्वनिपातप्रसङ्ग: किं तत्रैकस्य नियमो भवति। आहोस्विदविशेषेण।।
<M.2.473>
(1440 समाधानवार्तिकम् ।। 2 ।।)
।। अनेकप्राप्तावेकस्य नियमोऽनियमः शेषेषु ।।
(भाष्यम्) अनेकस्य प्राप्तावेकस्य नियमो भवति, शेषेष्वनियमः। पटुमृदुशुक्लाः। पटुशुक्लमृदव इति।।
(न्यूनतापूर्त्यधिकरणम्)
(1441 पूर्वनिपातवार्तिकम् ।। 3 ।।
।। ऋतुनक्षत्राणामानुपूर्व्येण समानाक्षराणाम् ।।
(भाष्यम्) ऋतुनक्षत्राणामानुपूर्व्यण समानाक्षराणां पूर्वनिपातो वक्तव्यः। शिशिरवसन्तावुदगयनस्थौ। कृत्तिकारोहिण्यः।।
(1442 पूर्वनिपातवार्तिकम् ।। 4 ।।)
।। अभ्यर्हितम् ।।
(भाष्यम्) अभ्यर्हितं च पूर्वं निपततीति वक्तव्यम्। मातापितरौ। श्रद्धामेधे।।
(1443 पूर्वनिपातवार्तिकम् ।। 5 ।।)
।। लघ्वक्षरम् ।।
(भाष्यम्) लघ्वक्षरं पूर्वं निपततीति वक्तव्यम्। कुशकाशम्। शरचापम् ।।
(आचार्यान्तरमतप्रदर्शकभाष्यम्)
अपर आह--
सर्वत एवाभ्यर्हितं पूर्वं निपततीति वक्तव्यम्।
लघ्वक्षरादपीति।। दीक्षातपसी श्रद्धातपसी।।
(1444 पूर्वनिपातवार्तिकम् ।। 6 ।।)
।। वर्णानामानुपूर्व्येण ।।
(भाष्यम्) वर्णानामानुपूर्व्यण पूर्वनिपातो भवतीति वक्तव्यम्। ब्राह्मणक्षत्रियविट्शूद्राः।।
(1445 पूर्वनिपातवार्तिकम् ।। 7 ।।)
।। भ्रातुश्च ज्यायसः ।।
(भाष्यम्) भ्रातुश्च ज्यायसः पूर्वनिपातो भवतीति वक्तव्यम्। युधिष्ठिरार्जुनौ।।
(1446 पूर्वनिपातवार्तिकम् ।। 8 ।।)
।। संख्याया अल्पीयसः ।।
(भाष्यम्) संख्याया अल्पीयसः पूर्वनिपातो भवतीति वक्तव्यम्। एकादश द्वादश।।
(1447 पूर्वनिपातवार्तिकम् ।। 9 ।।)
।। धर्मादिषूभयम् ।।
(भाष्यम्) धर्मादिषूभयं पूर्वं निपततीति वक्तव्यम्। धर्मार्थौ अर्थधर्मौ। कामार्थौ अर्थकामौ। गुणवृद्धी वृद्धिगुणौ। आद्यन्तौ अन्तादी।। अल्पाच्तरम् ।। 34 ।।
<M.2.474>
-2-2-35- सप्तमीविशेषणे बहुव्रीहौ (455)
(290 पूर्वनिपातनियमसूत्रम् ।। 2।2।2 आ. 9 सू.)
(न्यूनतापूरणाधिकरणम्)
(1448 पूर्वनिपातवार्तिकम् ।। 1 ।।)
।। बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्यानम् ।।
(भाष्यम्) बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्यानं कर्तव्यम्।। विश्वदेवः। विश्वयशाः। द्विपुत्रः। द्विभार्यः।।
(आक्षेपभाष्यम्)
अथ यत्र संख्यासर्वनाम्नोरेव बहुव्रीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम्?।।
(समाधानभाष्यम्)
परत्वात्संख्यायाः--द्व्यन्याय त्र्यन्याय।।
(1449 पूर्वनिपातवार्तिकम् ।। 3 ।।)
।। वा प्रियस्य ।।
(भाष्यम्) वा प्रियस्य पूर्वनिपातो भवतीति वक्तव्यम्। प्रियगुडः गुडप्रियः ।।
(1450 पूर्वनिपातबाधकवार्तिकम् ।। 4 ।।)
।। सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् ।।
(भाष्यम्) सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परा सप्तमी भवतीति वक्तव्यम्। गडुकण्ठः गडुशिराः।। सप्तमीवि ।। 35 ।।
-2-2-36- निष्ठा (456)
(291 पूर्वनिपातनियमसूत्रम् ।। 2।2।2 आ.10)
(पूर्वनिपातबाधकाधिकरणम्)
(1451 परनिपातवार्तिकम् ।। 1 ।।)
।। निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् ।।
(भाष्यम्) निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परा निष्ठा भवतीति वक्तव्यम्। शार्ङ्गजग्धी। पलाण्डुभक्षिती। मासजाता। संवत्सरजाता। सुखजाता। दुःखजाता।।
(1452 प्रत्याख्यानवार्तिकम् ।। 2 ।।)
।। न वोत्तरपदस्यान्तोदात्तवचनं ज्ञापकं परभावस्य ।।
(भाष्यम्) न वा वक्तव्यम्। कि कारणम्?। उत्तरपदस्यान्तोदात्तवचनं ज्ञापकं परभावस्य। यदयं जातिकालसुखादिभ्यः परस्या निष्ठाया उत्तरपदस्यान्तोदात्तत्वं शास्ति तज्ज्ञापयत्याचार्यः--परात्र निष्ठा भवतीति।।
(1453 आक्षेपवार्तिकम् ।। 3 ।।)
।। प्रतिषेधे तु पूर्वनिपातप्रसङ्गस्तस्माद्राजदन्तादिषु पाठः ।।
(भाष्यम्) प्रतिषेधे तु पूर्वनिपातः प्राप्नोति अकृतमितप्रतिपन्नाः इति, तस्माद्राजदन्तादिषु पाठः कर्तव्यः।।
( 1454 पाठकर्तव्यता प्रत्याख्यानवार्तिकम् ।। 4 ।।)
।। नवा प्रतिषेधवचनं ज्ञापकं परभावस्य ।।
(भाष्यम्) न वा कर्तव्यः। अत्रापि प्रतिषेधवचनं ज्ञापकम्--परा निष्ठाभवतीति।।
(1455 परनिपातवार्तिकम् ।। 5 ।।)
।। प्रहरणार्थेभ्यश्च ।।
(भाष्यम्) प्रहरणार्थेभ्यश्च परे निष्ठा सप्तम्यौ भवत इति वक्तव्यम्। अस्युद्यतः मुसलोद्यतः असिपाणिः दण्डपाणिः।।
<M.2.475>
(विप्रतिषेधाधिकरणम्)
(1456 द्वन्द्वेघिसूत्रादजाद्यदन्तसूत्रबलवत्ववार्तिकम् ।। 6 ।।
।। द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन ।।
(भाष्यम्) द्वन्द्वे घि इत्यस्मात् अजाद्यदन्तम् इत्येतद्भवति विप्रतिषेधेन। द्वन्द्वे घि इत्यस्यावकाशः--पटुगुप्तौ।अजाद्यदन्तम् इत्यस्यावकाशः--उष्ट्रखरौ। इहोभयं प्राप्नोति--इन्द्राग्नी। अजाद्यदन्तम् इत्येतद् भवति विप्रतिषेधेन।।
(1457 द्वन्द्वेधिसूत्राजाद्यदन्तसूत्राभ्यामल्पाच्तरसूत्रबलीयस्त्ववार्तिकम् ।। 7 ।।0
।। उभाभ्यामल्पाच्तरम् ।।
(भाष्यम्) उभाभ्याम् अल्पाच्तरम् इत्येतद्भवति विप्रतिषेधेन। द्वन्द्वे घि इत्यस्यावकाशः--पटुगुप्तौ। अल्पाच्तरम् इत्यस्यावकाशः--वाग्दृषदौ। इहोभयं प्राप्नोति--वागग्नी। अल्पाच्तरम् इत्येतद्भवति विप्रतिषेधेन।।
 अजाद्यदन्तम् इत्यस्यावकाशः--उष्ट्रखरौ। अल्पाच्तरम् इत्यस्यावकाशः--वाग्दृषदौ। इहोभयं प्राप्नोति--वागिन्द्रौ। अल्पाच्तरम् इत्येतद्भवति विप्रतिषेधेन ।। निष्ठा ।। 36 ।।
-2-2-38- कडाराः कर्मधारये (458)
(292 पूर्वनिपातसूत्रम् ।। 2।2।2।आ. 11 सू.)
(बहुवचनस्याद्यर्थकत्वबोधनाधिकरणम्)
(1458 वार्तिकम् 8)
।। कडारादयः ।।
(भाष्यम्) कडारादय इति वक्तव्यम्। इहापि यथा स्यात्--गडुलशाण्डिल्यः साण्डिल्यगडुलः। खण्डवात्स्यः। वात्स्यखण्डः ।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्। बहुवचननिर्देशात् कडारादय इति विज्ञास्यते।। कडाराः ।। 38 ।।

इति श्रीमद्भगवत्पतञ्जलिविरचिते द्वितीयस्याध्यायस्य द्वितीये पादे द्वितीयमाह्निकम्।। पादश्च समाप्तः ।।