महाभाष्यम्/तृतीयोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
Jump to navigation Jump to search

-3-3-1- उणादयो बहुलम् (966)
(534 उणादीनामपि त्वीकरसूत्रम्।। 3 । 3 । 1 आ.1)
(आक्षेपभाष्यम्)
बहुलवचनं किमर्थम्?
(3086 वार्तिकम्।। 1 ।।)
- बाहुलकं प्रकृतेस्तनुदृष्टेः-
(भाष्यम्) तन्वीभ्यः प्रकृतिभ्य उणादयो दृश्यन्ते न सर्वाभ्यो दृश्यन्ते।।
(3087 वार्तिकम्।। 2 ।।)
- प्रायसमुच्चयनादपि तेषाम्-
(भाष्यम्) प्रायेण खल्वपि ते समुच्चिता न सर्वे समुच्चिताः।
(3088 वार्तिकम्।। 3 ।।)
- कार्यसशेषविधेश्च तदुक्तम्-
(भाष्यम्) कार्याणि खल्वपि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि।
(आक्षेपभाष्यम्)
किं पुनः कारणं तन्वीभ्यः प्रकृतिभ्य उणादयो दृश्यन्ते न सर्वाभ्यः? किं च कारणं प्रायेण समुच्चिता न सर्वे समुच्चिताः? किं च कारणं कार्याणि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि?
(3089 समाधानवार्तिकम्।। 4 ।।)
- नैगमरूढिभवं हि सुसाधु-
(भाष्यम्) नैगमाश्च रूढिभावाश्चौणादिकाः सुसाधवः कथं स्युः।
(3090 वार्तिकम्।। 5 ।।)
- नाम च धातुजमाह निरुक्ते -
(भाष्यम्) नाम खल्वपि धातुजमेवमाहुर्नैरुक्ताः।।
(3091 वार्तिकम्।। 6 ।।)
- व्याकरणे शकटस्य च तोकम्-
(भाष्यम्) वैयाकरणानां च शाकटायन आह धातुजं नामेति।।
(आक्षेपभाष्यम्)
अथ यस्य विशेषपदार्थो न समुत्थितः कथं तत्र भवितव्यम्।
(3092 समाधानवार्तिकम्।। 7 ।।)
- यन्न विशेषपदार्थसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम्-
(भाष्यम्) प्रकृतिं दृष्ट्वा प्रत्यय ऊहितव्यः। प्रत्ययं च दृष्ट्वा प्रकृतिरूहितव्या।।
संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे।
कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु।। उणादयो।। 1 ।।
-3-3-3- भविष्यति गम्यादयः (968)
(भविष्यत्कालाधिकारः)
(565 भविष्यति गम्यादीनां साधकसूत्रम्।। 3। 3। 1 आदृ2 )
(3093 दूषणवार्तिकम्।। 1 ।।)
- भविष्यतीत्यनद्यतन उपसंख्यानम्-
(भाष्यम्) भविष्यतीत्यनद्यतन उपसंख्यानं कर्तव्यम्।श्वो ग्रामं गमी।।
किं पुनः कारणं न सिध्यति?
लृटायं निर्देशः क्रियते। लृट् चानद्यतने लुटा बाध्यते। तेन लृट एव विषये एते प्रत्ययाः स्युः लुटो विषये न स्युः।
(3094 दूषणान्तरवार्तिकम्।। 2 ।।)
- इतरेतराश्रयं च-
(भाष्यम्) इतरेतराश्रयं च भवति। का इतरे तराश्रयता? भविष्यत्कालेन अयं निर्देशः क्रियते, निर्देशोत्तरकाला च भविष्यत्कालता। तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च न प्रकल्पन्ते।।
(3095 समाधानवार्तिकम्।। 3 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्? एकं तावदुक्तम्--- न वाऽपवादस्य निमित्ताभावादनद्यतने हि तयोर्विधानम् इति।।
(शेषभाष्यम्)
अपरमप्युक्तम्------ अव्ययनिर्देशात्सिद्धम् इति। अव्ययवता शब्देन निर्देशः कर्तव्यः। अवर्तमाने भूत इति।
स तथा निर्देशः कर्तव्यः।
न कर्तव्यः। अव्ययमेष भविष्यतिशब्दः। नैष भवतेर्लृट् ।।
कथमव्ययसंज्ञा? विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा ठनिपातोव्ययम् इत्यव्ययसंज्ञा। अथापि भवतेर्लृट्, एवमप्यव्ययमेव। कथम्? न व्येतीत्यव्ययमिति। क्व पुनर्न व्येति। एतौ कालविशेषौ भूतवर्तमानौ स्वभावतो भविष्यत्येव वर्तेते।।
यदि तर्हि नव्येतीत्यव्ययमिति।
न वा तद्विधानस्यान्यत्राभावात् । न वा भविष्यदधिकारेणार्थः।। किं कारणम्? तद्विधानस्यान्यत्राभावात्। येऽपि ह्येते इत उत्तरं प्रत्ययाः शिष्यन्ते, एतेऽप्येतौ कालविशेषौ न वियन्ति भूतवर्तमानौ स्वभावतो भविष्यत्येव वर्तन्ते।।
(समाधानभाष्यम्)
अत उत्तरं पठति।
(3096 वार्तिकम्।। 4 ।।)
- भविष्यदधिकारस्य प्रयोजनं यावत्पचति पुरापचतीत्यनपशब्दत्वाय-
भविष्यतिग।। 6 ।।
-3-3-4- यावत्पुरानिपातयोर्लट् (939)
(3097 वार्तिकम्।। 1 ।।)
- यावत्पुरादिषु लडि्वधिर्लुटः पूर्वविप्रतिषिद्धम्-
(भाष्यम्) यावत् पुरादिषु लडि्वधिर्भवति लुटः पूर्वविप्रतिषेधेन। यावत्पुरानिपातयोर्लङ्गवतीत्यस्यावकाशः-----यावद्भुङ्क्ते। पुराभुङ्क्ते। लुटोवकाशः श्वः कर्ता श्वोध्येता। इहोभयं प्राप्नोति----यावत् श्वो। पुरा श्वो भुङ्क्ते। लड् भवति पूर्वविप्रतिषेधेन।।
(प्रश्नभाष्यम्)
स तर्हि पूर्विप्रतिषेधो वक्तव्यः।।
(समाधानभाष्यम्)
न वक्तव्यः। अनद्यतने लुड् इत्यत्र यावत्पुरानिपातयोर्लड् इत्येतदनुवर्तिष्यते।। यावत्पुरा।। 4 ।।
-3-3-7- लिप्स्यमानसिद्धौ च।। (972)
(536 लट्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आदृ 4)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते । न निप्स्यमानसिद्धिरपि लिप्सैव। तत्र किंवृत्ते लिप्सायामित्येव सिद्धम्।।
(समाधानभाष्यम्)
अकिंवृत्तार्थायमारम्भः। यो भवतामोदनं ददाति स स्वर्गे लोकं गच्छति। यो भवतामोदनं दास्यति स स्वर्गे लोकं गमिष्यति।। लिप्स्यमादृ।। 7 ।।
-3-3-10- तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (975)
(537 तुमुन्ण्वुल्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1आ.5)
(आक्षेपभाष्यम्)
किमर्थे क्रियायामुपपदे क्रियार्थायां ण्वुल्विधीयते, न अविशेषेण विहितः ण्वुल्। स क्रियायां चोपपदे क्रियार्थायामन्यत्र च भविष्यति।।
(समाधानभाष्यम्)
ण्वुलि सकर्मकग्रहणं चोदितम्। अकर्मकार्थोयमारम्भः। आसको व्रजति। शायको व्रजतीति।।
(समाधानबाधकभाष्यम्)
प्रत्याख्यातं तत् न वा धातुमात्राद्दर्शनाद्दर्शनाद् ण्वुलः इति।।
(समाधानान्तरभाष्यम्)
एवं तर्हि तृजादिषु वर्तमानकालोपादानं चोदितम्। अवर्तमानकालार्थोयमारम्भः।।
(समाधानबाधकभाष्यम्)
तदपि प्रत्याख्यातम्---- न वा कालमात्रे दर्शनादन्येषाम् इति।।
(प्रयोजनान्तरभाष्यम्)
इदं तर्हि प्रयोजनम्-----अकेनोर्भविष्यदाधर्मण्ययोः इत्यत्र षष्ठ्याः प्रतिषेध उक्तः। स यथा स्यात्।
(प्रयोजननिराकरणभाष्यम्)
एतदपि नास्ति प्रयोजनम्। य एवासावविशेषेण विहितः स यदा भविष्यति तदास्य प्रतिषेधो भविष्यति।
(प्रयोजनभाष्यम्)
एवं तर्हि भविष्यदधिकारविहितस्य प्रतिषेधो यथा स्यात्। इह माभूत्---अङ्ग यजतां लप्स्यन्तेऽस्य याजकाःउय एनं याजयिष्यन्तीति।
(प्रयोजननिरासभाष्यम्)
नैष भविष्यत्कालः।। कस्तर्हि? भूतकालः।।
कथं तर्हि भविष्यत्कालता गम्यते?
धातुसंबन्धे प्रत्ययाः इति।।
(आक्षेपभाष्यम्)
यस्तर्हि न धातुसंबन्धः। इमेऽस्य याजकाः। इमेऽस्य लावका इति।।
(समाधानभाष्यम्)
एषोपि भूतकालः।।
कथं तर्हि भविष्यत्कालता गम्यते?
संबन्धात्। स च तावत्तैरयाजितो भवति। तस्य च तावत्तैर्यवा अलूना भवन्ति। उच्यते च।।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्---अयं क्रियायामुपपदे क्रियार्थायां तुमुन् विधीयते। स विशेषविहितः सामान्यविहितं ण्वुलं बाधेत।।
(प्रयोजननिराकरणभाष्यम्)
एतदपि नास्ति प्रयोजनम्। भावे तुमुन्विधीयते कर्तरि ण्वुल्। तत्र कः प्रसङ्गो यद्भावे विहितस्तुमुन्कर्तरि विहितं ण्वुलं बाधेत।।
(प्रयोजनभाष्यम्)
लृट् तर्हि बाधेत।।
(प्रयोजननिराकरणभाष्यम्)
वासरूपेण ण्वुलपि भविष्यति।।
(3098 वार्तिकावतरणसमाधानभाष्यम्।। 1 ।।)
अत उत्तरं पठति---
(3099 समाधानवार्तिकम्।। 2 ।।)
- ण्वुलः क्रियार्थोपपदस्य पुनर्विधानं तृजादिप्रतिषेधार्थम्-
(भाष्यम्) ण्वलुः क्रियार्थोपपदस्य पुनर्विधानं क्रियते। (किमर्थम्?) ज्ञापकार्थम्।। किं ज्ञाप्यम्? एतजू ज्ञापयत्याचार्यः----क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्ति इति। ण्वुलपि तृजादिः।। तुमन्ण्वुलौ।। 10 ।।
?B-3-3-11- भाववचनाश्च (976)
(537 भावार्थकप्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.6 )
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते, न अविशेषेण भावे ये प्रत्यया विहितास्ते क्रियायामुपपदे क्रियार्थायाम् अन्यत्र च भविष्यन्ति।।
(समाधानवार्तिकावतरणभाष्यम्।।)
अत उत्तरं पठति----
(4000 वार्तिकम्।। 1 ।।)
- भाववचनानां यथाविहितानां प्रतिपदविध्यर्थम्-
(भाष्यम्) भाववचनानां च यथाविहितानां प्रतिपदविध्यर्थोऽयमारम्भः।
इदानीमेव ह्युक्तं क्रियार्थायां वाऽसरूपेण तृजादयो न भवन्तीति। भवाववचनाश्चापि तृजादयः।।
अस्ति प्रयोजनमेतत्।
किं तर्हीति।
(4001 वार्तिकम्।। 1 ।।)
- यथाविहिता इति तु -
(भाष्यम्) यथाविहिता इति तु वक्तव्यम्। किं प्रयोजनम्? (इह) याभ्यः प्रकृतिभ्यो येन विशेषण भावे प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तनैव विशेषेण क्रियायामुपपदे क्रियार्थायां यथा स्युः। व्यतिकरो मा भूदिति।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्।।
(सामाधानभाष्यम्)
न वक्तव्यम्। इह भावे प्रत्यया भवन्तीतीयता सिद्धम्। सोयमेवं सिद्धे सति यद्वचनग्रहणं करोति। तस्यैतत्प्रयोजनम्। ---वाचका यथा स्युरिति। यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेन विशेषेण क्रियायामुपपदे क्रियार्थायामपि भवन्ति ततोमी ततोमी वाचकाः कृताः स्युः। अथ हि धातुमात्राद् वा स्युः प्रत्ययमात्रं वा स्यात्, ततो नामी वाचकाः कृताः स्युः।। भाववचनाश्च।। 11 ।।
-3-3-12- अण् कर्मणि च (977)
(539 अण्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.7)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते, न अविशेषेण कर्मण्यण् इत्यण्विहितः। स क्रियायामुपपदे क्रियार्थायाम् अन्यत्र च भविष्यति।
(4002 समाधानवार्तिकम्।। 2 ।।)
- अणः पुनर्वचनमपवादविषयेऽनिवृत्त्यर्थम्-
(भाष्यम्) अणः पुनर्वचनं क्रियते अपवादविषयेऽनिवृत्तिर्यथा स्यात्। गोदायो व्रजति कम्बलदायो व्रजतीति।।
(आक्षेपभाष्यम्)
किमुच्यते---अपवादविषये अनिवृत्त्यर्थमिति, न पुनरुत्सर्गविषये प्रतिपदविध्यर्थे स्यात्।।
इदानीमेव ह्युक्तम्---क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्तीति। अण् चापि तृजादिः।।
(समाधानभाष्यम्)
एवं तर्ह्युभयमनेन क्रियते। अपवादविषये चानिवृत्तिः। उत्सर्गविषये च प्रतिपदविधिः।।
कथं पुनरेनेन यत्नेनोभयं लभ्यम्?
लभ्यमित्याह। कथम्? कर्मग्रहणसार्मथ्यात्।। कथं पुनरन्तरेण कर्मग्रहणं कर्मण्यण् लभ्यः?
(समाधानभाष्यम्)
वचनग्रहणमपि प्रकृतमनुवर्तते।
अस्ति प्रयोजनमेतत्।
किं तर्हीति।
(4003 वार्तिकम्।। 1 ।।)
- अपर्यायेणेति तु -
(भाष्यम्) अपर्यायेणेति तु वक्तव्यम्। कदाचिद्धि कर्मणि स्यात् कदाचित् क्रियायामुपपदे क्रियार्थायामिति।।
(प्रश्नभाष्यम्)
तत्तर्हि वक्तव्यम्?
(समाधानभाष्यम्)
न वक्तव्यम्। चेन संनियोगः करिष्यते---अण् कर्मणि च।। किं च? अन्यत्उठक्रियायामुपपदे क्रियार्थायामिति।।
(दूषणभाष्यम्)
एवमपि प्रत्येकमुपपदसंज्ञा न प्राप्नोति।।
(समाधानभाष्यम्)
चेनैव संनियोगः करिष्यते। प्रत्येकं च वाक्यपरिसमाप्तिर्दृष्टेति प्रत्येकमुपपदसंज्ञा भविष्यति।। अण् कर्मणि 12 ।।
-3-3-13- लृट् शेषे च (978)
(540 लृड्विधिसूत्रम्।। 3 । 3 । 1 आदृ 8)
(आक्षेपभाष्यम्)
शेषग्रहणं किमर्थम्?
(4004 वार्तिकम्।। 2 ।।)
- लृटि शेषवचनं क्रियायां प्रतिपदविध्यर्थम्-
(भाष्यम्) लृटि शेषवचनं क्रियते क्रियायां प्रतिपदविधिर्यथा स्यात्।।
(4005 हेतुवार्तिकम्।। 3 ।।)
- अविशेषेण विधाने लृटोऽभावः प्रतिषिद्धत्वात्-
(भाष्यम्) अविशेषेण हि विधाने सति लृटोऽभावः स्यात्। करिष्यामीति व्रजति।। किं कारणम्? प्रतिषिद्धत्वात्। इदानीमेव ह्युक्तं क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्तीति। लृट्वापि तृजादिः।।
अस्ति प्रयोजनमेतत्। किं तर्हीति।
(पूर्वपक्षभाष्यम्)
साधीयस्तुखलु शेषग्रहणेन क्रियार्थोपपदाद्लृण्निर्भज्यते। किं कारणम्। अक्रियार्थोपपदत्वात्। शेष इत्युच्यते। शेषश्च कः। यदन्यत् क्रियायाः क्रियार्थायाः।
(पूर्वोक्तसमाधानवार्तिकाशयप्रदर्शकसमाधानभाष्यम्)
एवं तर्हि-----
(4006 वार्तिकम्।। 1 ।।)
- लृटि शेषवचनं क्रियायां प्रतिपदविध्यर्थम्-
(भाष्यम्) लृटि शेषवयनं क्रियते क्रियायां प्रतिपदविधिर्यथा स्यात्। लृट् शेषे च। करिष्यति हरिष्यति इति। क्व च।
क्रियायामुपपदे क्रियार्थायामिति।।
(प्रश्नभाष्यम्)
स तर्हि चकारः कर्तव्यः।।
(समाधानभाष्यम्)
न कर्तव्यः। कथम्? इह लृड् भवति इतीयता सिद्धम्। सोयमेवं सिद्धे सति यत् शेषग्रहणं करोति तस्यैतत्प्रयोजनम्-----योगाङ्गं यथा विज्ञायेत। सति च यौगाङ्गे योगविभागः करिष्यते-----लृट् लृट् भवति क्रियायामुपपदे क्रियार्थायामिति। ततः शेषे। शेषे च लृड् भवति इति।। लृट् शेषे च।। 13 ।।
-3-3-14- लृटः सद्वा (979)
(541 लृटः सदादेशविधिसूत्रम्।। 3 । 3। 1 आ.9)
(4007 वार्तिकम्।। 1 ।।)
- सद्धिधिर्नित्यमप्रथमासमानाधिकरणे-
(भाष्यम्) सद्विधिरप्रथमासमानाधिकरणे नित्यमिति वक्तव्यम्। पक्ष्यन्तं पश्य पक्ष्यमाणं पश्य। क्व तर्हीदानीं विभाषा?
प्रथमासमानाधिकरणे। पक्ष्यन्पक्ष्यति। पक्ष्यमाणः पक्ष्यते।।
-3-3-15- अनद्यतने लुट् (990)
(542 लुङ्विधिसूत्रम्।। 3 । 3 । 1 आदृ10)
(4008 वार्तिकम्।। 3 ।।)
- योगविभागः-
(भाष्यम्) योगविभागः कर्तव्यः----अनद्यतने। अनद्यतने लृटः सत्संज्ञौ भवतः। श्वोग्नीनाधास्यमानेन। श्वः सोमेन यक्ष्यमाणेन। ततः लुट्। लुट् च भवत्यनद्यतने। श्वः कर्ता। श्वोध्येता।
केन विहितस्यानद्यतने लृटः सत्संज्ञावुच्येते।।
एतदेव ज्ञापयति----भवत्यनद्यतने लृड् इति। यदयमनद्यतने लृटः सत्संज्ञौ शास्ति।। एवं च कृत्वा सोप्यदोषो भवति। यदुक्तं भविष्यतदीत्यनद्यतन उपसंख्यानम् इति।
(4009 वार्तिकम्।। 3 ।।)
- परिदेवने श्वस्तनीभविष्यन्त्यर्थे-
(भाष्यम्) परिदेवने श्वस्तनीभविष्यन्त्या अर्थे इति वक्तव्यम्। इयं तु कदा गन्ता यैवं पादौ निदधाति। अयं तु कदाध्येता य एवमनभियुक्त इति।
(4010 वार्तिकम्।। 1 ।।)
- कालप्रकर्षात्तूपमानम्-
(भाष्यम्) कालप्रकर्षात्तूपमानं भविष्यति। गन्तेवेयं गन्ता नेयं गमिष्यति। अध्येतेवायमध्येता नायमध्येष्यते।।
न वै तिङन्तेनोपमानमस्ति।
(भाष्यम्) एवं तर्ह्यनद्यतन इवानद्यतन इति।। अनद्यतने।। 15 ।।
(घञ्ञ्प्रत्ययाधिकारः)
-3-3-16- पदरुजविशस्पृशो घञ्ञ् (999)
(542 घञ्ञ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.11)
(4011 वार्तिकम्।। 1 ।।)
- स्पृश उपतापे-
(भाष्यम्) स्पृश उपतापे इति वक्तव्यम्। इह मा भूत्---कम्बलस्पर्श इति पदरु।। 16 ।।
-3-3-17- सृ स्थिरे (992)
(543 घञ्ञ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.12)
(4012 वार्तिकम्।।1 ।।)
- व्याधिमत्स्यबलेषु-
(भाष्यम्) व्याधिमत्स्यबलेष्विति वक्तव्यम्। अतिसारो व्याधिः। विसारो मत्स्यः। बले--शालसारः। खदिरसारः।। सृस्थिरे।। 17 ।।
-3-3-18- भावे (993)
 (545 आक्षेपवार्तिकम् ।। 1 ।।)
- भावे सर्वलिङ्गो निर्देशः कर्तव्यः भूतौ, भवने, भावे, इति ।
 किं प्रयोजनम्?
सर्व लिङ्गे भावे एते प्रत्यया यथा स्युरिति ।।
किं पुनः कारणं न सिध्यति ?
पुल्लिङ्गेनायं निर्देशः क्रियते, एकवचनान्तेन च । तेन पुल्लिङ्गे एव भावे एकवचने चैते प्रत्ययाः स्युः। स्त्रीनपुंसकयोर्द्विवचनबहुवचनयोश्च न स्युः ।।
नात्र निर्देशस्तन्त्रम् ।।
(आक्षेपसाधकभाष्यम् )
कथं पुनस्तेनैव च नाम निर्देशः क्रियते । तच्चातन्त्रं स्यात् । तत्कारी च भवांस्तद् द्वेषी च ।।
(आक्षेपबाधकभाष्यम् )
नान्तरीयकत्वादत्र पुल्लिङ्गेन निर्देशः क्रियते, एकवचनेन च । अवश्यं कया चिद्विभक्त्या केन चिल्लिङ्गेन निर्देशः कर्तव्यः । तद्यथा कश्चिदन्नार्थी शालिकलापं सतुषं सपलालमाहरति, नान्तरीयकत्वात् । स यावदादेयं तावदादाय तुषपलालान्युत्सृज्यति । तथा कश्चिन्मांसार्थी मत्स्यान्सशकलान्सकण्टकानाहरति, नान्तरीयकत्वात् । स यावदादेयं तावदादाय शकलकण्टकान्युत्सृजति । एवमिहापि नान्तरीयकत्वात्पुल्लिङ्गेन निर्देशः क्रियते एकवचनान्तेन च । न ह्यत्र निर्देशस्तन्त्रम् । कया चिद्विभक्तया केनचिच्च लिङ्गेन निर्देशः कर्तव्यः ।।
(आक्षेपबाधकयुक्त्यन्तरभाष्यम्)
अथ वा कृभ्वस्तयः क्रियासामान्यवाचिनः, क्रियाविशेषवाचिनः पचादयः । यच्चात्र पचतेर्भवतिभैवति, न तद् भवतेः पचतिर्भवति । यच्च भवतेः पचतिर्भवति, न तत् पचतेर्भवतिर्भवति ।।
किंच पचतेर्भवतिर्भवति ?
सामान्यम् ।।
किं च भवतेः पचतिर्भवति ?
विशेषः ।।
तद्यथा --- उपाध्यायस्य शिष्यो मातुलस्य भागिनेयं गत्वाह --- ठ उपाध्यायं भवानभिवादयताम् इति । स गत्वा मातुलमभिवादयते । तथा - मातुलस्य भागिनेय उपाध्यायस्य शिष्यं गत्वाह ---- ठमातुलं भवानभिवादयताम् इति । स गत्वा उपाध्यायमभिवादयते ।। एवमिहापि पचतेर्भवतौ यत्तन्निर्दिश्यते ।। भावे ।। 18 ।।
-3-3-19- अकर्तरि च कारके संज्ञायाम् (994)
(545 अधिकारसूत्रम् घञ्ञप्रत्ययविधिसूत्रं च।। 3 । 3 1 आ 14 ।।)
(आक्षेपभाष्यम्)
कारकग्रहणं किमर्थम्?
(4013 वार्तिकम्।। 1 ।।)
- कारकग्रहणमनादेशे स्वार्थविज्ञानात्-
(भाष्यम्) कारकग्रहणं क्रियते।। (किंकारणम्?) अनादेशे स्वार्थविज्ञानात्। अनादेशे अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति----तद्यथा, गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति। एवमिमेऽपि प्रत्ययाः स्वार्थे स्युः। स्वार्थे मा
भूवन्कारके यथा स्युरित्येवमर्थमिदमुच्यते।।
(नियमार्थत्वप्रयोजनभाष्यम्)
नैतदस्ति प्रयोजनम्। विहितः प्रत्ययः स्वार्थे भावे घञ्ञिति।।
(नियमखण्डनभाष्यम्)
तेनातिप्रसक्तमिति कृत्वा नियमोयं विज्ञायते---अकर्तरि संज्ञायामेवेति।।
(प्रश्नभाष्यम्)
अस्ति चेदानीं कश्चित्संज्ञाभूतो भावो यदर्थो विधिः स्यात्।।
(उत्तरभाष्यम्)
अस्तीत्याह। आवाहो विवाह इति।।
(नियमखण्डनभाष्यम्)
कैमर्थक्यान्नियमो भवति। विधेयं नास्तीति कृत्वा इह चास्ति विधेयम्।। किम्? अकर्तरि च कारके संज्ञायां घञ्ञ्विधेयः। तत्रापूर्वो विधिरस्तु नियमोस्त्विति। अपूर्व एव विधिर्भविष्यति न नियमः।।
(समाधानभाष्यम्)
तदेव तर्हि प्रयोजनं स्वार्थे मा भूवन्निति।।
(दूषणस्मारणभाष्यम्)
ननु चोक्तं विहितः प्रत्ययः स्वार्थे भावे घञ्ञितीति।।
(दूषणोद्धारभाष्यम्)
अन्यः स भावो बाह्यः प्रकृत्यर्थात्।। अनेनेदानीमभ्यन्तरे भावे स्यात्।।
(प्रश्नभाष्यम्)
कः पुनरनयोर्भावयोर्विशेषः?
(समाधानभाष्यम्)
उक्तो भावभेदो भाष्ये।।
(प्रयोजननिराकरणभाष्यम्)
एतदपि नास्ति प्रयोजनम्। नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः। नञ्ञ्युक्तमिवयुक्तं चान्यस्मिंस्तत्सदृशे कार्ये विज्ञायते तथा ह्यर्थो गम्यते। तद्यथा---अब्राह्मणमानय इत्युक्ते ब्राह्मणसदृशं पुरुषमानयति। नासौ लोष्टमानीय कृती भवति। एवमिहापि अकर्तरि इति कर्तृप्रतिषेधादन्यस्मिन्नकर्तरि कर्तृसदृशे कार्ये विज्ञास्यते।
किं चान्यदकर्तृ कर्तृसदृशम्?
कारकम्।।
(प्रयोजनभाष्यम्)
उत्तरार्थे तर्हि कारकग्रहणं कर्तव्यम्----परिमाणाख्यायां सर्वेभ्यः कारके यथा स्यात्। इह मा भूत्----एका तिलोच्छ्रितिः द्वे श्रुती इति। घञ्ञ नुक्रमणमजब्विषये अवचने हि स्त्रीप्रत्ययानामप्यपवादविज्ञानम् इति वक्ष्यति। तन्न वक्तव्यं भवति।।
(प्रयोजननिराकरणभाष्यम्)
एतदपि नास्ति प्रयोजनम्। अत्राप्यकर्तरीत्येवानुवर्तिष्यते।।
(4014 संज्ञाग्रहणप्रत्याख्यानवार्तिकम्।। 2 ।।)
- संज्ञाग्रहणानर्थक्यं च सर्वत्र घञ्ञो दर्शनात्-
(भाष्यम्) संज्ञाग्रहणं चानर्थकम्। किं कारणम्? सर्वत्र घञ्ञो दर्शनात्। असंज्ञायामपि घञ्ञ्दृश्यते----को भवता लाभो लब्धः को भवता दायो दत्तः इति।।
(आक्षेपभाष्यम्)
यदि संज्ञाग्रहणं न क्रियते, अतिप्रसङ्गो भवति----कृतः कट इत्यत्र कारः कटः इति प्राप्नोति।।
(4015 वार्तिकम्।। 3 ।।)
- अतिप्रतसङ्ग इति चेदभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम्-
(भाष्यम्) अतिप्रसङ्ग इति चेत्। तन्न। किं कारणम्? अभिधानलक्षणत्वात्प्रत्ययस्य सिद्धम्। अभिधानलक्षणाः कृत्तद्धितसमासाः। अनभिधानाद् न भविष्यन्ति।। अकर्तरि च।। 19 ।।
-3-3-20- परिमाणाख्यायां सर्वेभ्यः (995)
(546 घञ्ञ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.15)
(आक्षेपभाष्यम्)
सर्वग्रहणं किमर्थम्।
(आक्षेपनिरासभाष्यम्)
सर्वेभ्यो धातुभ्यो घञ्ञ् यथा स्यात्। अजपोरपि विषये----एकस्तण्डुलनिचायः। द्वौ शूर्पनिष्पावौ।।
(3016 वार्तिकम्।। 1 ।।)
- सर्वग्रहणमनर्थकं परिमाणाख्यायामिति सिद्धत्वात्-
(भाष्यम्) सर्वग्रहणमनर्थकम्। किं कारणम्? परिमाणाख्यायामिति सिद्धत्वात्। परिमाणाख्यायामित्येव घञ्ञ् सिद्धः अजपोरपि विषये, नार्थः सर्वग्रहणेन।।
(आनर्थक्यनिराकरणभाष्यम्)
अस्त्यन्यदेतस्य वचने प्रयोजनम्। किम्? एकः पाको द्वौ पाकौ त्रयः पाका इति।
(आनर्थक्यसाधकभाष्यम्)
न पूर्वोणाप्येतत् सिद्धम्।
(आनर्थक्यपरिहारभाष्यम्)
न सिध्यति।। संज्ञायाम् इति पूर्वो योगः। न चैषा संज्ञा।।
(आनर्थक्यसाधकभाष्यम्)
प्रत्याख्यायते संज्ञाग्रहणम्। अथापि क्रियते। एवमपि न दोषः। अजपावपि संज्ञायामेव। यथाजादीयक उत्सर्गः तथाजातीयकेनापवादेनापि भवितव्यम्।
(आनर्थक्यपरिहारभाष्यम्)
उत्तरार्थे तर्हि----इङश्च। सर्वेभ्योपि यथा स्यात्।।
(आनर्थक्यभाष्यम्)
ननु चायमिङ् एक एव वण्ठरण्डाकल्पः। वण्ठो मृतभार्यः।
(आनर्थक्यपरिहारभाष्यम्)
सर्वेषु साधनेषु यथा स्यात्। उपेत्याधीयते तस्मादित्युपाध्यायः। अस्मिन्नधीयते इत्यध्यायः। अध्यायन्यायोद्यावसंहाराधारावायाश्च इत्येतन्निपातनं न कर्तव्यं भवति।।
(आनर्थक्यसाधकभाष्यम्)
एतदपि नास्ति प्रयोजनम्। क्रियते न्यास एव।।
(आनर्थक्यबाधकभाष्यम्)
उत्तरार्थमेव तर्हि वक्तव्यम्---कर्मव्यतिहारे णच् स्त्रियाम् इति सर्वेभ्यो यथा स्यात्।।
(आनर्थक्यसाधकभाष्यम्)
एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत्---- कर्मव्यतिहारे स्त्रीग्रहणं व्यतिपाकार्थम् । पृथक्तुग्रहणं बाधक बाधनार्थम् । व्यावचोरी व्यावर्चच्यर्थम् । तत्र व्यतीक्षादिषु दोषः । सिद्धं तु प्रकृते स्त्रीग्रहणे णज्ग्रहणं णिज्ग्रहणं चेति।।
  उत्तरार्थमेव तर्हि--अभिविधौ भाव इनुण सर्वेभ्यो यथा स्यात् । सांराविणम्।
(आनर्थक्यबाधकभाष्यम्)
एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत्--अभिविधौ भावग्रहणं नपुसंके क्तादिनिवृत्त्यर्थम् । पृथक् तु ग्रहणं बाधकबाधनार्थं न तु ल्युट् इति ।
(आनर्थक्यबाधकभाष्यम्)
इदं तर्हि प्रयोजनम्---प्रकृत्याश्रयो योऽपवादस्तस्य बाधनं यथा स्याद् अर्थाश्रयो योऽपवादस्तस्य बाधनं मा
भूदिति। एका तिलोच्छ्रितिः। द्वे श्रुती इति।। घञ्ञनुक्रमणमजब्विषये। अवचने हि स्त्री प्रत्ययानामप्यपवादविज्ञानम् इति चोदयिष्यति। तन्न वक्तव्यं भवति।
(4017 वार्तिकम्।। 2 ।।)
- घञ्ञनुक्रमणमजव्विषये-
(भाष्यम्) घञ्ञनुक्रमणमजब्विषय इति वक्तव्यम्।
(4018 वार्तिकम्।। 3 ।।)
- अवचने हि स्त्रीप्रत्ययानामप्यपवादविज्ञानम्-
(भाष्यम्) अनुच्यमाने ह्येतस्मिन् स्त्रीप्रत्ययानामप्यपवादोऽयं विज्ञायेत-----एका तिलोच्छ्रितिः द्वे श्रुती इति।
(4019 वार्तिकम्।। 4 ।।)
- दारजारौ कर्तरि णिलुक् च-
(भाष्यम्) दारजारौ कर्तरि वक्तव्यौ। णिलुक् च वक्तव्यः। दारयन्तीति दाराः। जरयन्तीति जाराः।।
(4020 वार्तिकम्।। 5 ।।)
- करणे वा-
(भाष्यम्) करणे वा वक्तव्यौ। दीर्यन्ते तैर्दाराः। जीर्यन्ति तैर्जाराः।। परिमाणा।। 20 ।।
-3-3-21- इङश्च (996)
(547 घञ्ञ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.16)
(4021 वार्तिकम्।।1 ।।)
- इङश्चेत्यत्रापादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीप्-
(भाष्यम्) इङश्चेत्यत्रापादाने स्त्रियामुपसंख्यानं कर्तव्यं तदन्ताच्च वा ङीष् वक्तव्यः। उपेत्याधीयतेऽस्या उपाध्यायी उपाध्याया।।
(4022 वार्तिकम् ।। 2 ।।)
- शृवायुवर्णनिवृतेषु-
(भाष्यम्) शृ इत्येतस्माद्वायुवर्णिनिवृतेषु घञ्ञ् वक्तव्यः। शारो वायुः। शारो वर्णः। गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः।। इङश्च।। 21 ।।
-3-3-36- समि मुष्टौ (1011)
 (548 ग्रहेर्घञ्ञ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ. 17)
- समि मुष्टावित्यनर्थकं वचनं परिमाणाख्यायामिति सिद्धत्वात्-
(भाष्यम्) समि मुष्टाविति वचनमनर्थकम्। किं कारणम्? परिमाणाख्यायामिति सिद्धत्वात्। परिमाणाख्यायाम् इत्येवात्र घञ्ञ् सिद्धः।।
(4024 समाधानवार्तिकम्।। 2 ।।)
- अपरिमाणार्थं तु-
(भाष्यम्) अपरिमाणार्थोऽयमारम्भः। मल्लस्य संग्राहः। मुष्टिकस्य संग्राह इति ।।
(4025 निपातनपरिसंख्यावार्तिकम्।। 3 ।।)
- उद्ग्राभनिग्राभौ च च्छन्दसि स्रुगुद्यमननिपातनयोरर्थयोः-
(भाष्यम्) उद्ग्राभो निग्राभ इति इमौ शब्दौ छन्दसि वक्तव्यौ स्रुगुद्यमननिपातनयोरर्थयोः। उद्ग्राभं च निग्राभं च ब्रह्मदेवा अवीवृधन्।। समि मुष्टौ।। 36 ।।
-3-3-43- कर्मव्यतिहारे णच् स्त्रियाम् (1018)
(549 णच्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.19)
(आक्षेपभाष्यम्)
स्त्रीग्रहणं किमर्थम्।
(4023 वार्तिकम्।। 1 ।।)
- कर्मव्यतिहारे स्त्रीग्रहणं व्यतिपाकार्थम्-
(भाष्यम्) कर्मव्यतिहारे स्त्रीग्रहणं क्रियते व्यतिपाकार्थम्। इह मा भूत्---व्यतिपाको वर्तते।
(आक्षेपभाष्यम्)
अथ किमर्थं पृथग्ग्रहणम्।
(4027 वार्तिकम्।। 2 ।।)
- पृथग्ग्रहणं बाधकबाधनार्थं व्यावचोरीव्यावर्चच्यर्थम्-
(भाष्यम्) पृथग्ग्रहणं क्रियते (किं प्रयोजनम्?) बाधकबाधनार्थे, ये तस्यबाधकास्तद्बाधनार्थम्।
किं प्रयोजनम्।
व्यावचोरी व्यावर्चच्यर्थम्। व्यावचोरी वर्तते। व्यावचर्ची वर्तते।
(4028 दूषणवार्तिकम्।।3 ।।)
- तत्र व्यतीक्षादिषु दोषः-
(भाष्यम्) तत्र व्यतीक्षादिषु दोषो भवति। व्यतीक्षा वर्तते। व्यतीहा वर्तते।।
(4029 दूषणोद्धारवार्तिकम्।।4 ।।)
- सिद्धं तु प्रकृते स्त्रीग्रहणे णज्ग्रहणं णिज्ग्रहणं च-
(भाष्यम्) सिद्धमेतत्। कथम्। प्रकृत एव स्त्रीग्रहणेऽयं योगः कर्तव्यः---स्त्रियां क्तिन्। ततः कर्मव्यतिहारे णच्। ततो णिचः।। कर्मव्यति।। 43 ।।
-3-3-44- अभिविधौ भाव इनुण् (1019)
(550 इनुण्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.19)
(आक्षेपभाष्यम्)
भावग्रहणं किमर्थम्?।
(4030 समाधानवार्तिकम्।। 1 ।।)
- अभिविधौ भावग्रहणं नपुंसके क्तादिनिवृत्त्यर्थम् -
(भाष्यम्) अभिविधौ भावग्रहणं क्रियते नपुंसके क्तादिनिवृत्त्यर्थम्। नुपंसकलिङ्गे भावे क्तादयो मा भूवन्निति।
(आक्षेपभाष्यम्)
अथ किमर्थं पृथग्ग्रहणं क्रियते।
(4031 वार्तिकशेषः ।। 2 ।।)
- पृथग्ग्रहणं बाधकबाधनार्थम् -
(भाष्यम्) पृथग्ग्रहणं क्रियते बाधकबाधनार्थम्। ये तस्य बाधकास्तद्बाधनार्थम्।।
(4032 वार्तिकशेषः।। 2 ।।)
- न तु ल्युटः-
(भाष्यम्) ल्युटो बाधनं नेष्यते, संकूटनमित्येव भवति।। अभिविधौ।। 44 ।।
-3-3-56- एरच् (1031)
(551 इवर्णान्तादच्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.20)
(4033 वार्तिकम्।। 1 ।।)
- अज्विधौ भयस्योपसंख्यानम् -
(भाष्यम्) अज्विधौ भयस्योपख्यानं कर्तव्यम्। भयम्।।
(उपालम्भभाष्यम्)
अत्यल्पमिदमुच्यते भयस्येति।
भयादीनामिति वक्तव्यम्। इहापि यथा स्यात्--भयं,वर्षम्।।
(प्रश्रभाष्यम्)
किं प्रयोजनम्?।
(4034 वार्तिकशेषः।। 2 ।।)
- नपुंसके क्तादिनिवृत्त्यर्थम् -
(भाष्यम्) नपुंसकलिङ्गे भावे क्तादयो मा भूवन्निति।।
(4035 वार्तिकम्।। 3 ।।)
- कल्प्यादिभ्यः प्रतिषेधः -
(भाष्यम्) कल्प्यादिभ्यः प्रतिषेधो वक्तव्यः। कल्पः अर्थः मन्त्र इति।।
(4036 वार्तिकम्।। 4 ।।)
- जवसवौ छन्दसि -
(भाष्यम्) जवसवौ छन्दसि वक्तव्यौ ऊर्वोरस्तु मे जवः। अयं मे पञ्ञ्चौदनः सवः।। एरच् ।। 56 ।।
-3-3-58- ग्रहवृदृनिश्चिगमश्च (1033)
(552 अप्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.21)
(आक्षेपभाष्यम्)
किमर्थं निष्पूर्वाच्चिनोतेरब् विधीयते। नाचैव सिद्धम्। न ह्यस्ति विशेषो निष्पूर्वाच्चिनोतेरपो वा, अचो वा, तदेव रूपम्, स एवास्य स्वरः।।
(आक्षेपबाधकभाष्यम्)
न सिध्यति। हस्तादाने चौरस्तेये इति घञ्ञ् प्राप्नोति तद्बाधनार्थम्।
(समाधानभाष्यम्)
अत उत्तरं पठति----
(3037 प्रयोजननिराकरणवार्तिकम्।। 1 ।।)
- अब्विधौ निश्चिग्रहणमनर्थकं स्तेयस्य घञ्ञ्विधौ प्रतिषेधात्-
(भाष्यम्) अब्विधौ निश्चिग्रहणमनर्थकम्। किं कारणम्? स्तेयस्य घञ्ञ्विधौ प्रतिषेधात्। स्तेयस्य घञ्ञ्विधौ प्रतिषेध उच्यते। निष्पूर्वश्चिनोतिः स्तेये वर्तते।।
(प्रयोजनभाष्यम्)
अस्तेयार्थं तर्हीदं वक्तव्यं निष्पूर्वाच्चिनोतेरस्तेये अब् यथा स्यात्।।
(4038 प्रयोजननिरासवार्तिकम्।। 2 ।।)
- अस्तेयार्थिमिति चेन्नानिष्टत्वात्-
(भाष्यम्) अस्तेयार्थमिति चेत् । तन्न। किं कारणम्? अनिष्टत्वात्। नहि निष्पूर्वाच्चिनोतेरस्तेये अबिष्यते। किं तर्हि? घञ्ञेवेष्यते।।
(प्रयोजनभाष्यम्)
एवं तर्हि सिद्धे स्ति यन्निष्पूर्वाच्चिनोतेरपं शास्ति तज्ज्ञापयत्याचार्यः यत्तद् अन्तः थाथघञ्ञ्क्ताजबित्रकाणाम् इति, तन्निष्पूर्वाच्चिनोतेर्न भवतीति।। किमेतस्य ज्ञापने प्रयोजनम्? निश्चयः। एष स्वरः सिद्धो भवति।।
(4039 वार्तिकम्।। 3 ।।)
- वशिरण्योश्चोपसंख्यानम्-
(भाष्यम्) वशिरण्योश्चोपसंख्यानं कर्तव्यम्। सवशं सैन्धवम्। धनंजयं रणे रणे।।
(4040 कविधिवार्तिकम्।। 4 ।।)
- घञ्ञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्-
(भाष्यम्) घञ्ञर्थे को विधेयः। किं प्रयोजनम्?
स्थास्नापव्यधिहनियुध्यर्थम्। स्था--प्रतिष्ठन्तेस्मिन्धान्यानीति प्रस्थः। हिमवतः श्रृङ्गे। स्था। स्ना--प्रस्नान्ति अस्तिन्निति प्रस्नः। स्ना। पा---प्रपिबन्त्यस्यामिति प्रपा। पा। व्यधि---आविध्यन्ति तेनाविधः। व्यधि। हनि--विघ्नन्ति तस्मिन्मनांसि विघ्नः। हनि। युधि----आयुध्यन्ते तेनायुधम्।। ग्रहवृदृ।। 58 ।।
-3-3-83- स्तम्बे क च (1058)
(553 हनेः कप्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.22)
(आक्षेपभाष्यम्)
कस्मादयं को विधीयते।
(समाधानभाष्यम्)
हन्तेरित्याह।
(प्रश्नभाष्यम्)
तद्धन्तिग्रहणं कर्तव्यम्?
(समाधानभाष्यम्)
न कर्तव्यम्?
प्रकृतमनुवर्तते। क्व प्रकृतम्? हनश्च वधः इति।
(समाधानबाधकभाष्यम्)
तद्वै अनेकेन निपातनेन व्यवच्छिन्नं न शक्यमनुवर्तयितुम्।
(समाधानसाधकभाष्यम्)
यद्यादेशाः। घनस्वरो न सिध्यति----घनः इति।
(निपातनाङ्गीकारभाष्यम्)
सन्तु तर्हि निपातनानि।
(दूषणस्मारणभाष्यम्)
ननु चोक्तम् तद्वै अनेकेन निपातनेन व्यवच्छिन्नं न शक्यमनुवर्तयितुमिति।
(दूषणोद्धारभाष्यम्)
संबन्धमनुवर्तिष्यते।
(आदेशपक्षस्वीकारभाष्यम्)
अथ वा पुनः सन्तु आदेशाः।।
(दूषणस्मारणभाष्यम्)
ननु चोक्तम् स्वरो न सिध्यतीति।
(दूषणस्मारणभाष्यम्)
नैष दोषः। अकारान्ता आदेशाः।।
अकारान्ता इति।
(आक्षेपभाष्यम्)
अथ यदा इषीकया स्तम्बो हन्यते कथं तत्र भवितव्यम्।।
(समाधानभाष्यम्)
केचित्तावदाहुः----स्तम्बघ्नेति भवितव्यम्।।
-3-3-90- यजयाचयतविच्छप्रच्छरक्षो नङ् (1065)
(444 नङ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.23 सू.)
(4041 वार्तिकम्।। 1 ।।)
- यजादिभ्यो नस्य ङित्त्वे संप्रसारणप्रतिषेधः-
(भाष्यम्) यजादिभ्यो नस्य ङित्त्वे संप्रसारणप्रतिषेधो वक्तव्यः। प्रश्न इति।।
(ङ्कारप्रत्याख्यानभाष्यम्)
एवं तर्हि अङित्करिष्यते।
(4042 दूषणवार्तिकम्।। 2 ।।)
- अङिति गुणप्रतिषेधः-
(भाष्यम्) यद्यङिद् गुणस्य प्रतिषेधो वक्तव्यः---विश्न इति।।
(दूषणभाष्यम्)
सूत्रं च भिद्यते।
(समाधानभाष्यम्)
यथान्यासमेवास्तु।
(दूषणस्मारणभाष्यम्)
ननु चोक्तं यजादिभ्यो नस्य ङित्त्वे संप्रसारणप्रतिषेध इति।
(दूषणोद्धारभाष्यम्)
नैष दोषः। निपातनादेतत् सिद्धम्।। किं निपातनम्? प्रश्ने चासन्नकाले इति।। यजयाच।। 90 ।।
(स्न्यधिकारोक्तप्रत्ययाः)
-3-3-94- स्त्रियां क्तिन् (1079)
(555 क्तिन्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.24)
(4043 वार्तिकम्।। 1 ।।)
- स्त्रिया क्तिन्नाबादिभ्यश्च-
(भाष्यम्) स्त्रियां क्तिनित्यत्र आबादिभ्यश्च इति वक्तव्यम्। आप्तिः। राद्धिः। दीप्तिः।।
(4044 वार्तिकम्।। 2 ।।)
- निष्ठायां वा सेटोऽकारवचनात्सिद्धम्-
(भाष्यम्) अथ वा निष्ठायां सेटः अकारो भवतीति वक्तव्यम्।।
(आक्षेपभाष्यम्)
यदि निष्ठायां सेटोऽकारो भवतीत्युच्यते। स्रंसाध्वंसेति न सिध्यति। स्रस्तिः ध्वस्तिरिति प्राप्नोति।
(प्रत्याक्षेपभाष्यम्)
किं पुनरिदं परिगणनं त्रय एवाबादयः। आहो स्विदुदाहरणमात्रम्। किं चातः।
(प्रत्याक्षेपसमाधानभाष्यम्)
यदि परिगणनम्, भेदो भवति। अथोदाहरणमात्रम्, नास्ति भेदः।
(समाधानभाष्यम्)
स्रस्तिः ध्वस्तिरित्येव भवितव्यम्।। स्त्रियां क्तिन् ।। 94 ।।
-3-3-95- स्थागापापचो भावे (1080)
(556 क्तिन्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ. 25)
4045 आक्षेपवार्तिकम्।। 1।।)
- स्थादिभ्यः सर्वापवादप्रसङ्गः-
(भाष्यम्) स्थादिभ्यः सर्वापवादः क्तिन्प्राप्नोति स यथैवाङं बाधते एवं ण्वुलिञ्ञावपि बाधेत---कां त्वं स्थायिकां कां त्वं स्थायिम्।।
(4046 वार्तिकम्।। 2 ।।)
- सिद्धं तु अङ्विधाने स्थादिप्रतिषेधात्-
(भाष्यम्) सिद्धमेतत्। कथम्। अङ्विधाने एव स्थादीनां प्रतिषेधो वक्तव्यः। प्रतिषिद्धे तस्मिन् क्तिनेव भविष्यति।।
(दूषणभाष्यम्)
सिध्यति। सूत्रं तर्हि भिद्यते।।
(सिद्धान्तिसमाधानभाष्यम्)
यथान्यासमेवास्तु।।
(दूषणस्मारणभाष्यम्)
ननु चोक्तं स्थादिभ्यः सर्वापवादप्रसङ्ग इति।।
(दूषणोद्धारभाष्यम्)
नैष दोषः। पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान् इत्येवमयं स्त्रियां क्तिन्नङं बाधिष्यते। ण्वुलिञ्ञौ न बाधिष्यते।।
(4047 वार्तिकम्।। 3 ।।)
- श्रुयजिषिस्तुभ्यः करणे-
(भाष्यम्) श्रुयजिषिस्तुभ्यः करणे क्तिन्वक्तव्यः। श्रूयतेऽनयेति श्रुतिः इज्यतेऽनयेति इष्टिः। इष्यतेऽनयेति इष्टिः। स्तूयतेऽनयेति स्तुतिः।।
(4048 वार्तिकम्।। 4 ।।)
- ग्लाम्लाज्याहाभ्यो निः-
(भाष्यम्) ग्लाम्लाज्याहाभ्यो निर्वक्तव्यः। ग्लानिः म्लानिः। ज्यानिः। हानिः।। स्थागापा ।। 95 ।।
-3-3-98- व्रजयजोर्भावे क्यप् (1086)
(448 क्यप्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ. 26)
- क्यब्विधिरधिकरणे च-
(भाष्यम्) क्यब्विधिरधिरकरणे चेति वक्तव्यम्। समजन्ति तस्यां समज्या।। व्रजयजो।। 98।।
-3-3-100- कृञ्ञः श च (1085)
(558 शक्यप्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 । आ. 27 )
(4050 वार्तिकम्।। 1 ।।)
- कृञ्ञः श चेति वावचनम्-
(भाष्यम्) कृञ्ञः श चेति वावचनं कर्तव्यम्।। किं प्रयोजनम्? क्तिन्नपि यथा स्यात्। कृतिः।। कृञ्ञः श।। 100 ।।
-3-3-101- इच्छा (1086)
(559 शप्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.28)
(प्रश्नभाष्यम्)
किं निपात्यते?
(समाधानभाष्यम्)
इषेः शे यगभावः।
(आक्षेपभाष्यम्)
अत्यल्पमिदमुच्यते इच्छेति।
(4051 वार्तिकम्।। 1 ।।)
- इच्छापरिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम् -
(भाष्यम्) इच्छापरिचर्यापरिसर्यामृगयाऽटाट्यानामुपसंख्यानं कर्तव्यम्।।
(4052 वार्तिकम्।। 2 ।।)
- जागर्तेरकारो वा -
(भाष्यम्) (जागर्तेरकारो वा वक्तव्यः) जागर्या । जागरा ।। इच्छा ।। 101 ।।
-3-3-104- षिदि्भदादिभ्योऽङ् (1089)
(560 अङ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.29)
(4053 वार्तिकम्।। 1 ।।)
- भिदा विदारणे-
(भाष्यम्) भिदा विदारण इति वक्तव्यम्। भित्तिरन्या।।
(4054 वार्तिकम्।। 3 ।।)
(- छिदा द्वैधीकरणे- )
(भाष्यम्) छिदा द्वैधीकरणे इति वक्तव्यम्। छित्तिरन्या।
(4055 वार्तिकम्।। 3 ।।)
- आरा शस्त्र्याम्-
(भाष्यम्) आरा शस्त्र्यामिति वक्तव्यम्। आर्तिरन्या।
(4056 वार्तिकम्।। 4 ।।)
- धारा प्रपाते-
(भाष्यम्) धारा प्रपात इति वक्तव्यम्। धृतिरन्या।
(4057 वार्तिकम्।। 5 ।।)
- गुहा गिर्योषध्योः-
(भाष्यम्) गुहा गिर्योषध्येरिति वक्तव्यम्। गूढिरन्या। षिदि्भदा।। 104
-3-3-107- ण्यासश्रन्थो युच् (1092)
(561 युच्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आदृ 30)
(आक्षेपभाष्यम्)
किमर्थश्चकारः।।
(समाधानभाष्यम्)
स्वरार्थः। चितोन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्।
(प्रयोजननिराकरणभाष्यम्)
नैतदस्ति प्रयोजनम्। उदात्त इति वर्तते भुवीरा उदात्तः इति।।
(आक्षेपभाष्यम्)
यद्युदात्त इति वर्तते----व्रजयजोर्भावे क्यप् किमर्थः। पकारः।।
(समाधानभाष्यम्)
तुगर्थः। ह्रस्वस्य पिति कृतीति।।
(आक्षेपभाष्यम्)
उदात्त इत्येव हि वर्तते।।
एवमपि कुत एतत्तदन्तस्योदात्तत्वं भविष्यति,न पुनरादेरिति।
(समाधानभाष्यम्)
उदात्त इत्यनुवर्तनसार्मथ्यात् यस्य अप्राप्तः स्वरस्तस्य भवति। कस्य चाप्राप्तः। अन्तस्य।।
(प्रयोजनान्तरभाष्यम्)
सामान्यग्रहणाविघातार्थस्तर्हि।
क्व समामान्यग्रहणाविघातार्थेनार्थः?
युवोरनाकाविति।
(प्रयोजनान्तरनिरासभाष्यम्)
एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत्-- सिद्धं तु युवोरनुनासिकवचनादिदि।।
(4058 वार्तिकम्।। 1 ।।)
- युच्प्रकरणे घटि्टवन्दिविदिभ्य उपसंख्यानम्-
(भाष्यम्) युच्प्रकरणे घटि्ट्वन्दिविदिभ्य उपसंख्यानं कर्तव्यम्। घट्टना। वन्दना। वेदना।।
(4059 वार्तिकम्।। 2 ।।)
- इषेरनिच्छार्थस्य -
(भाष्यम्) इषेरनिच्छार्थस्येति वक्तव्यम्। अन्विष्यते अन्वेषणा।।
(4060 वार्तिकम्।। 3 ।।)
- परेर्वा-
(भाष्यम्) परेर्वेति वक्तव्यम्। अन्यां परीष्टिं चर। अन्यां पर्येषणां चर।। ण्यासश्रन्थो।। 107 ।।
-3-3-108- रोगाख्यायां ण्वुल्बहुलम् (1093)
(562 ण्वुल्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.31)
(4031 वार्तिकम्।। 1 ।।)
- धात्वर्थनिर्देशे ण्वुल्-
(भाष्यम्) धात्वर्थनिर्देशे ण्वुल् वक्तव्यः। का नामासिका अन्येष्वीहमानेषु। का नाम शायिका अन्येष्वधीयानेषु।
(4062 वार्तिकम्।। 2 ।।)
- इक्श्तिपौ धातुनिर्देशे-
(भाष्यम्) इक्श्तिपावित्येतौ प्रत्ययौ धातुनिर्देशे वक्तव्यौ। पचेर्ब्रूहि पचतेर्ब्रूहि।
(4063 वार्तिकम्।। 3 ।।)
- वर्णात्कारः-
(भाष्यम्) वर्णात्कारप्रत्ययो वक्तव्यः। अकारः।।
(4064 वार्तिकम्।। 4 ।।)
- रादिफः-
(भाष्यम्) रादिफो वक्तव्यः। रेफः।।
(4065 वार्तिकम्।। 5 ।।)
- मत्वर्थाच्छः-
(भाष्यम्) मत्वर्थाच्छो वक्तव्यः। एवं मत्वर्थीयः।।
(4066 वार्तिकम्।। 6 ।।)
- इञ्ञ् वपादिभ्यः-
(भाष्यम्) इञ्ञ् वपादिभ्यो वक्तव्यः। वापिः। आजिः। आतिः। आदिः।।
(4067 वार्तिकम्।। 7 ।।)
- इक् वपादिभ्यः-
(भाष्यम्) इञ्ञ् वपादिभ्यो वक्तव्यः। वापिः। वासिः। वादिः।।
(4068 वार्तिकम्।। 8 ।।)
- इक् कृष्यादिभ्यः-
(भाष्यम्) इक् कृष्यादिभ्यो वक्तव्यः। कृषिः। किरिः। गिरिः।।
(4069 वार्तिकम्।। 9 ।।)
- संपदादिभ्यः क्विप्-
(भाष्यम्) संपदादिभ्यः क्विब् वक्तव्यः। सम्पत् । विपत्। प्रतिपत्। आपत्। परिषत्। रोगाख्या।। 108 ।।
-3-3-113- कृत्यल्युटो बहुलम् (1098)
(536 इष्टार्थविधिसूत्रम्।। 3 । 3। 1 । आ.32)
(4070 वार्तिकम्।। 1 ।।)
- कृतो बहुलं पादहारकाद्यर्थम्-
(भाष्यम्) कृतो बहुलमिति वक्तव्यम्। (किमर्थम्?) पादहारकाद्यर्थम्। पादाभ्यां हियते पदाहारकः। गले चोप्यते गलेचोपकः। श्वोग्नीनाधास्यमानेन। श्वः सोमेन यक्ष्यमाणेन।। कृत्यल्युटो बहुलम्।। 113 ।।
-3-3-119- गोचरसंचरवहव्रजव्यजापणनिगमाश्च (1104)
(64 घप्रत्ययान्तनिपातनसूत्रम्।। 3 । 3 । 1 आदृ33)
(4071 वार्तिकम्।। 1 ।।)
- गोचरादीनामग्रहणं प्रायवचनाद् यथा कषः निकष इति-
(भाष्यम्) गोचरादीनां ग्रहणं शक्यमकर्तुम्।। घञ्ञ् कस्मान्न भवति?
प्रायवचनाद् यथा कषः निकष इति। प्रायवचनाद् घञ्ञ् न भवति।। गोचरसंचर।। 119 ।।
-3-3-121- हलश्च (1106)
(565 घञ्ञ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 । आ.34)
(4072 वार्तिकम्।। 1 ।।)
- घञ्ञ्विधाववहाराधारावायानामुपसंख्यानम्-
(भाष्यम्) घञ्ञ्विधौ अवहाराधारावायानामुपसंख्यानं कर्तव्यम्। अवह्रियन्ते अस्मिन्नवहारः। आध्रियन्तेऽस्मिन्नाधारः। एत्यैतस्मिन्वयन्त्यावावायः।। हलश्च।। 121।।
-3-3-123- उदङ्कोनुदके (1108)
(566 घञ्ञ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आदृ 35)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते। न हलश्च इत्येव सिद्धम्।
(समाधानभाष्यम्)
अनुदक इति वक्ष्यामीति। इह मा भूत्---उदकोदञ्ञ्चनः।।
(4076 प्रत्याख्यानवार्तिकम्।। 1 ।।)
- उदङ्कोनुदकग्रहमानर्थक्यं च प्रायवचनाद्यथा गोदोहनः प्रसाधन इति-
(भाष्यम्) उदङ्कोनुदकग्रहणं चानर्थकम्।। घञ्ञ् कस्मान्न भवति?
प्रायवचनाद् घञ्ञ् न भवति। यथा गोदोहनः प्रसाधन इति।। उदङ्कोऽनु।। 123 ।।
-3-3-125- खनो घ च (1110)
(567 घप्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.36)
(4074 वार्तिकम्।। 1 ।।)
- खनो डडरेकेकवकाः-
 डो वक्तव्यः---आखः। डरो वक्तव्यः---आखरः।। इको वक्तव्यः---आखनिकः।। इकवको वक्तव्यः ---आखनिकवकः खनो घ च।। 125 ।।
-3-3-126- इर्षद्दुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल् (1111)
(खलर्थप्रकरणम्)
(568 खल्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.37)
(4075 वार्तिकम्।। 1 ।।)
- अजब्भ्यां स्त्रीखलनाः-
(भाष्यम्) अजब्भ्यां स्त्रीखलना भवन्ति विप्रतिषेधेन। अजपोरवकाशः----चयः। लवः।। स्त्रीप्रत्ययनानमवकाशः----कृतिः। हृतिः।। इहोभयं प्राप्नोति---चितिः स्तुतिः।।
खलोवकाशः----इर्षद्भेदः। सुभेदः।। अजपोः स एव।। इहोभयं प्राप्नोति----इर्षच्चयः। सुचयः। इर्षल्लवः।
सुलवः।।
अनस्यावकाशः-----इध्मप्रव्रश्चनः। अजपोः स एव।। इहोभयं प्राप्नोति---पलाशचयनः। अविलवनः।। स्त्रीखलना भवन्ति विप्रतिषेधेन।।
(4076 वार्तिकम्।। 2 ।।)
- स्त्रियाः खलनौ विप्रतिषेधेन-
(भाष्यम्) स्त्रियाः खलनौ भवतो विप्रतिषेधेन। स्त्रीप्रत्ययानामवकाशः----कृतिः। हृतिः। खलोवकाशः---इर्षद्भेदः। सुभेदः। इहोभयं प्राप्नोति----इर्षद्भेदा। सुभेदा।।
अनस्यावकाशः----इध्मप्रव्रश्चनः।। स्त्रीप्रत्ययानां स एव।। इहोभयं प्राप्नोति---सक्तुधानी। तिलपीडनी।। खलनौ भवतो विप्रतिषेधेन।। इर्षद्दुः---सुषु।। 126 ।।
-3-3-127- कर्तृकर्मणोश्च भूकृञ्ञोः (1112)
(569 खल्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.38)
(4077 वार्तिकम्।। 1 ।।)
।। खल् कर्तृकर्मणोश्च्व्यर्थयोः-
(भाष्यम्) खल् कर्तृकर्मणोः च्व्यर्थयोरिति वक्तव्यम्। अनाढ्येन भवता इर्षदाढ्येन शक्यं भवितुम् इर्षदाढ्यंभवं भवता। दुराढ्यंभवम्। स्वाढ्यंभवम्।।
(4078 वार्तिकम्।। 2 ।।)
- कर्तृकर्मग्रहणं चोपपदसंज्ञार्थम्-
(भाष्यम्) कर्तृकर्मग्रहणं चोपपदसंज्ञार्थे द्रष्टव्यम्। तद् द्वेष्यं विजानीयाद् अभिधेययोरिति। तदाचार्यः सुहृद् भूत्वान्वाचष्टे---कर्तृकर्मग्रहणं चोपपदसंज्ञार्थमिति।। कर्तृकंर्म।। 127 ।।
-3-3-130- अन्येभ्योपि दृश्यते (1115)
(570 युच्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आदृ 39)
(4079 वार्तिकम्।। 1 ।।)
- भाषायां शासियुधिदृशिधृषिभ्यो युच्-
(भाष्यम्) भाषायां शासियुधिदृशिधृषिभ्यो युज्वक्तव्यः। दुः शासनः। दुर्योधनः। दुर्दर्शनः। दुर्धर्षणः।।
(4080 वार्तिकम्।। 1 ।।)
- मृषेश्च-
(भाष्यम्) मृषेश्चेति वक्तव्यम्। दुर्मर्षणः।
 इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयस्याध्यायस्य तृतीये पादे प्रथममाह्निकम्।।
-3-3-131- वर्तमानसामीप्ये वर्तमानवद्वा (1116)
तृतीयाध्यास्य तृतीये पादे द्वितीयमाह्निकम्।।
(571 अतिदेशसूत्रम्।। 3 । 3 । 2 आ.1)
(आक्षेपभाष्यम्)
वत्करणं किमर्थम्?
(आक्षेपपरिहारभाष्यम्)
वर्तमानसामीप्ये वर्तमाने वा इतीयत्युच्यमाने-वर्तमाने ये प्रत्यया विहितास्ते वा वर्तमानसामीप्ये धातुमात्रात्स्युः। वत्करणे पुनः क्रियमाणे न दोषो भवति।।
भाष्यम्--यदि च याभ्यः प्रकृतिभ्यो येन विशेषणेन वर्तमाने प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन वर्तमानसामीप्ये भवन्ति। ततोमी वर्तमानवत्कृताः स्युः। अथ हि प्रकृतिमात्राद्वा स्युः प्रत्ययमात्रं वा स्यात् । नामी वर्तमानवत्कृताः स्युः।
(आक्षेपभाष्यम्)
इह वर्तमानसामीप्ये वर्तमानवद्वा इति उक्त्वा लडेवोदाह्रियते। यदि पुनर्वा लड्भवतीत्येवोच्येत। (समाधानवार्तिकावतरणभाष्यम्)
अत उत्तरं पठति---
(4081 समाधानवार्तिकम्।। 1।।)
- वर्तमानसामीप्ये वर्तमानवद्वचनं शत्राद्यर्थम्-
(भाष्यम्) वर्तमानसामीप्ये वर्तमानवद्वचनं क्रियते।। (किं प्रयोजनम्?) शत्राद्यर्थम्। शत्राद्यर्थोयमारम्भः। एषोस्मि पचन्। एषोस्मि पचमान इति।।
(प्रयोजननिरासभाष्यम्)
नैतदस्ति प्रयोजनम्। लडादेशौ शतृशानचौ। तत्र वा लड्भवति इत्येव सिद्धम्।।
(प्रयोजनभाष्यम्)
यौ तर्ह्यलडादेशौ, एषोस्मि पवमानः एषोस्मि यजमान इति।।
यौ चापि लडादेशौ, तावपि प्रयोजयतः।। वर्तमानविहितस्य लटः शतृशानचावुच्येते अविशेषविहितश्चायां योगः।।
शत्राद्यर्थमिति खल्वप्युच्यते बहवश्च शत्रादयः। एषोस्मि अलंकरिष्णुः। एषोस्मि प्रजनिष्णुः।। वर्तमानसा।। 131।।
-3-3-132- आशंसायां भूतवच्च (1117)
(572 अतिदेशसूत्रम्।। 3 । 3 । 2 आ.2)
(सूत्रप्रयोजनभाष्यम्)
आशंसा नाम भविष्यत्काला।।
(4082 आक्षेपवार्तिकम्।। 1 ।।)
- आशंसायां भूतवदतिदेशे लङि्लटोः प्रतिषेधः-
(भाष्यम्) आशंसायां भूतवदतिदेशे लङि्लटोः प्रतिषेधो वक्तव्यः।।
(4083 समाधानवार्तिकम्।। 2 ।।)
- न वापवादस्य निमित्ताभावादनद्यतने हि तयोर्विधानम्-
(भाष्यम्) न वा वक्तव्यः। किं कारणम्? अपवादस्य निमित्ताभावात्। नात्रापवादस्य निमित्तमस्ति। कथम्? अनद्यतने हि तयोर्विधानम्। अनद्यतने हि तौ विधीयेते लङि्लटौ। न चात्रानद्यतनः कालो विवक्षितः। कस्तर्हि? भूतकालसामान्यम्।।
(4084 आक्षेपवार्तिकम्।। 3 ।।)
- आशंसासं भावनयोरविशेषात्तद्विधानस्याप्राप्तिः-
(भाष्यम्) आशंसासंभावनमित्यविशिष्टावेतावर्थौ।।
आशंसासंभावनयोरविशेषात्।। तद्विधानस्याप्राप्तिः।
आशंसायां ये विधीयन्ते, ते संभावनेऽपि प्राप्नुवन्ति। ये च संभावने विधीयन्ते, ते आशंसायामपि प्राप्नुवन्ति।।
किं तर्ह्युच्यते---अप्राप्तिरिति।
न साधीयः प्राप्तिर्भवति। इष्टा व्यवस्था न प्रकल्पेन। न सर्वे सर्वत्रेष्यन्ते।।
(4085 समाधानवार्तिकम्।। 4 ।।)
- न वा संभावनावयवत्वादाशंसायाः-
(भाष्यम्) न वा एष दोषः। किं कारणम्? संभावनावयवत्वादाशंसायाः। संभावनावयवात्मिका आशंसा नाम प्रधारितोर्थः। अभिनीतश्चानभिनीतश्च।। संभावनं नाम प्रधारितोर्थः। अभिनीत एव।।
(4076 समाधानवार्तिकम्।। 5 ।।)
- अर्थासंदेहो वालमर्थत्वात्संभावनस्य-
(भाष्यम्) अथ वा अर्थासंदेह एव पुनरस्य। किं कारणम्? अलमर्थत्वात्संभावनस्य। संभावने आलर्मथ्ये गम्यते। आशंसायां पुनरनालर्मथ्यम्।।
(अर्थासंदेहभाष्यम्)
आचार्यप्रवृत्तिर्ज्ञापयति---संभावनेऽपि नालर्मथ्ये गम्यते इति। यदयं संभावनेऽलमिति चेत् इत्याह। तस्मात्सुष्ठूच्यते---- न वा संभावनावयवत्वादाशंसाया इति।। आशंसायां भूत्।। 132।।
-3-3-133- क्षिप्रवचने लृट् (1118)
(476 लृड्विधिसूत्रम्।। 3 । 3 । 2 आ.3)
(4087 वार्तिकम्।। 1 ।।)
- क्षिप्रवचने लृट आशंसावचने लिङि्वप्रतिषेधेन-
(भाष्यम्) क्षिप्रवचने लृट आशंसावचने लिङ्भवति विप्रतिषेधेन। क्षिप्रवचने लृड् भवतीत्यस्य अवकाशः---उपाध्यायश्चेदागतः क्षिप्रमध्येष्यामहे। आशंसावचने लिङ् भवतीत्यस्यावकाशः। उपाध्याश्चेदागतः आशंसे युक्तोधीयीय। इहोभयं प्राप्नोति---उपाध्यायश्चेदागतः आशंसे क्षिप्रमधीयीय। लिङ् भवति विप्रतिषेधेन।।
(4088 वार्तिकम्।। 2 ।।)
- अनिष्पन्ने निष्पन्नशब्दः शिष्योऽनिष्पन्नत्वात्-
(भाष्यम्) अनिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः। किं कारणम्? अनिष्पन्नत्वात्। देवश्चेद् वृष्टो निष्पन्नाः शालयः। तत्र भवितव्यं संपत्स्यन्ते शालय इति।।
(4089 वार्तिकम्।। 3 ।।)
- सिद्धं तु भविष्यत्प्रतिषेधात्-
(भाष्यम्) सिद्धमेतत्। कथम्? भविष्यत्प्रतिषेधात्। यल्लोको भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृष्यति।। कश्चिदाह----देवश्चेद् वृष्टः संपत्स्यन्ते शालय इति। स उच्यते----मैवं वोचः, संपन्नाः शालयः इत्येवं ब्रूहि।।
(4090 वार्तिकम्।। 4 ।।)
- हेतुभूतकालसंप्रेक्षितत्वाद्वा-
(भाष्यम्) हेतुभूतकालसंप्रेक्षितत्वाद्वा पुनः सिद्धमेतत्। हेतुभूतकालं वर्षम्। वर्षकाला च क्रिया।
(आक्षेपभाष्यम्)
यदि तर्हि निष्पन्नोर्थः, किं निष्पन्नकार्याणि न क्रियन्ते? कानि? भोजनादीनि।।
(समाधानभाष्यम्)
अन्यदिदानीमेतदुच्यते----किं निष्पन्नकार्याणि न क्रियन्ते इति। यत्तु तन्निष्पन्नोर्थो न निष्पन्न इति। स निष्पन्नोर्थः, अवश्यं खल्वपि कोष्ठगतेष्वपि शालिषु अवहननादीनि प्रतीक्ष्याणि।। एवमिहापि निष्पन्नोर्थः। अवश्यं तु जननादीनि प्रतीक्ष्याणि।।
(4091 वार्तिकम्।। 5 ।।)
- अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः कर्तुर्विद्यमानत्वात्-
(भाष्यम्) अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः शासितव्याः। कूपोस्ति कूपो भविष्यति कूपो भविता कूपोभूत् कूप आसीत् कूपो बभूवेति।
(प्रश्नभाष्यम्)
कथं पुनर्ज्ञायते भवन्त्या एषोर्थ इति? कर्तुर्विद्यमानत्वात् । कर्तात्र विद्यते। कथं पुन हि कथं पुनर्ज्ञायते कर्तात्र विद्यत इति । कूपोनेन कादचिद् दृष्टः । न चास्य कंचिदप्यपायं पश्यति। स तु तत्र बुद्ध्या नित्यां सत्तामध्यवस्यति कूपोत्रास्तीति।
 (4-92 समाधानवार्तिकम्)
सिद्धं तु यथास्वकालं समुच्चारणात्।।
सिद्धमेतत् । कथम्। यथास्वकालमेता विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्त इति ।
(आक्षेपभाष्यम्)
कथं पुनर्ज्ञायते यथास्वकालमेता विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्त इति।
(4093 वार्तिकम् ।।7।।)
अवात्वात्।।
यन्न वा भाष्यन्ते।
असिद्धविपर्यासश्च ।।
असिद्ध विपर्यासः। न हीह कश्चित् कूपोस्ति इति प्रयोक्तव्ये कूपोभूदिति प्रयुङ्क्ते। किं पुनः कारणं न वा भाष्यन्ते
असिद्ध विपर्यासः। इह हि किंचिदिन्द्रियकर्म किंचिद् बुद्धिकर्म । इन्द्रियकर्म समासादनम्, बुद्धिकर्म व्यवसायः। एहं हि कश्चित्पाटलिपुत्रं जिगमिषुराह--योयमध्वा गन्तव्यः आपाटलिपुत्रात्। एतस्मिन्कूपो भविष्यति। अनद्यतने
कूपो भवेतिति। समासाद्य कूपोस्ततीति समासाद्यातिक्रम्य कूपोभूदिति। समासाद्यातिक्रम्योषित्वा विस्मृत्य कूपो बभूवेति। तद्यदेन्द्रियकर्म तदैता विभक्तयः । यदा हि बुद्धिकर्म तदा वर्तमाना भविष्यति ।। क्षिप्रवचने।।133।।
-3-3-135- नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः (1119)
(574 लङ्लुटोर्निषेधविधिसूत्रम्।। 3 । 3 । 2 आ.4)
(आक्षेपभाष्यम्)
किमर्थमिमौ द्वौ प्रतिषेधावुच्येते। न अद्यतनवत् इत्येवोच्येत।
(4095 समाधानवार्तिकम्।। 1 ।।)
- नानद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः-
(भाष्यम्) नानद्यतनवत् प्रतिषेधे लङ्लुटोः प्रतिषेधो द्रष्ठव्यः।
(4096 हेतुवार्तिकम्।। 2 ।।)
- अद्यतनवद्वचने हि विधानम्-
(भाष्यम्) अद्यतनवद्वचने हि सति विधानमिदं विज्ञायेत।।
तत्र को दोषः?
(4097 दोषदर्शकवार्तिकम्।। 3 ।।)
- तत्र लडि्वधिप्रसङ्गः-
(भाष्यम्) तत्र लडि्वधिः प्रसज्येत।।
(4098 दोषान्तरवार्तिकम्।। 4 ।।)
- लुङ्लृटोश्चायाथाकालम्-
(भाष्यम्) लुङ्लृटोश्चायथाकालं प्रयोगः प्रसज्येत। लुङोपि विषये लृट् स्यात्। लृटश्च विषये लुङ् यथा स्यात्। अद्य पुनरयं द्वौ प्रतिषेधावुक्त्वा तूष्णीमास्ते। यथाप्राप्तमेवाद्यतने भविष्यति।। नानद्यतन।। 135 ।।
-3-3-136- भविष्यति मर्यादावचनेऽवरस्मिन् (1120)
(575 लुटो निषेधसूत्रम्।। 3 । 3 । 2 । आ.5)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते। न नानद्यतनवद् इत्येव सिद्धम्?
(4099 वार्तिकम्।। 1 ।।)
- भविष्यति मर्यादावचनेवरस्मिन्नित्यक्रियाप्रबन्धार्थम्-
(भाष्यम्) अक्रियाप्रबन्धार्थोयमारम्भः।।
(आक्षेपभाष्यम्)
किमुच्यते अक्रियाप्रबन्धार्थ इति, न पुनः क्रियाप्रबन्धार्थोऽपि स्यात्?
(5000 वार्तिकम्।। 2 ।।)
- क्रियाप्रबन्धार्थमिति चेद् वचनानर्थक्यम्-
(भाष्यम्) क्रियाप्रबन्धार्थमिति चेद वचनमनर्थकं भवति। सिद्धं क्रियाप्रबन्धे पूर्वेणैव।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्----अनहोरात्राणाम् इति वक्ष्यामि इति। इह मा भूद्----योयं त्रिंशद्रात्र आगामी तस्य योवरः पञ्ञ्चदशरात्र इति।
(5001 वार्तिकम्।। 3 ।।)
।। अहोरात्रप्रतिषेधार्थमिति चेन्नानिष्टत्वात्-
(भाष्यम्) अहोरात्रप्रतिषेधार्थमिति चेत्।। तन्न। किं कारणम्? अनिष्टत्वात्। अत्रपि नानद्यतनवत् इत्येवेष्यते।।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनं भविष्यतीति वक्ष्यामीति। इह मा भूत्----योयमध्वा गत आपाटालिपुत्रात्तस्य यदवरं साकेतादिति।
(समाधानभाष्यम्)
नानिष्टत्वात्। अत्रापि नानद्यतनवदित्येवेष्यते।।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनं मर्यादावचन इति वक्ष्यामीति। इह मा भूत---योयमध्वा अपरिमाणो गन्तव्यः तस्ययदवरं साकेतादिति।
नानिष्टत्वात्। अत्रापि नानद्यतनवदित्येवेष्यते।
-3-3-137- कालविभागे चानहोरात्राणाम् (1121)
(576 लुटोनिषेधविधिसूत्रम्।। 3 । 3 । 2 । आ. 6)
(5002 आक्षेपवार्तिकम्।। 1 ।।)
- अनहोरात्राणामिति तद्विभागे प्रतिषेधः-
(भाष्यम्) अनहोरात्राणामिति चेत्तद्विभागे प्रतिषेधो वक्तव्यः। योयं त्रिंशद्रात्र आगामी तस्य योवरोर्धमास इति।
(5003 वार्तिकम्।।1 ।।)
- तैश्च विभागे-
(भाष्यम्)तैश्च विभागे प्रतिषेधो वक्तव्यः। योयं मास आगामी तस्य योवरः पञ्ञ्चदशरात्रः।।
तद् द्वेष्यं विजानीयात्---अहोरात्राणामेवाहो रात्रैर्विभागे प्रतिषेधो भवतीति। तदाचार्यः सुहृद्भूत्वान्वाचष्टे अनहोरात्राणामिति तेषां विभागे तैश्च विभाग इति।। कालवि।। 137 ।।
-3-3-138- परस्मिन्विभाषा (1122)
(577 लुटो विकल्पिविधिसूत्रम्।। 3 । 3 । 2 आ.7)
(आक्षेपभाष्यम्)
कस्मिन्परस्मिन्?
(समाधानभाष्यम्)
कालविभागे।
कुत एतत्?
योगविभागकरणसार्मथ्यात्। परस्मि।। 138 ।।
-3-3-139- लिङि्नमित्ते लृङ् क्रियातिपत्तौ (1124)
(578 लृङ्विधिसूत्रम्।। 3 । 3 । 2 आ.8)
(5004 वार्तिकम्।। 1 ।।)
- साधनातिपत्तावपि-
(भाष्यम्) साधनातिपत्तावित्यपि वक्तव्यम्। इहापि यथा स्यात्। अभोक्ष्यत भवान्मांसेन यदि मत्समीप आसिष्यतेति।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्।।
(सिद्धान्तिभाष्यम्)
न वक्तव्यम्। नान्तरेण साधनं क्रियायाः प्रवृत्तिरस्तीति। साधनातिपत्तिश्चेत् क्रियातिपत्तिरपि भवति। तत्र क्रियातिपत्तावित्येव सिद्धम्।। लिङि्नमित्ते।। 139 ।।
-3-3-140- भूते च (1125)
(579 लृङ्विधिसूत्रम्।। 3 । 3 । 2 आदृ 9)
(5005 वार्तिकम्।। 1 ।।)
- भूते लृङुताप्यादिषु-
(भाष्यम्) भूते लृङ् उताप्यादिषु द्रष्टव्यः। उताध्यैष्यत। अप्यध्यैष्यत।। भूते।। 140 ।।
-3-3-141- वोताप्योः (1126)
(580 लृङ्विकल्पाधिकारसूत्रम्।। 3 । 3 । 2 आ.10)
(5006 वार्तिकम्।। 1 ।।)
- विभाषा गर्हाप्रभृतौ प्रागुतापिभ्याम्-
(भाष्यम्) विभाषा गर्हाप्रभृतौ प्रागुतापिभ्यामिति वक्तव्यम्। वोताप्योरि इति ह्युच्यमाने संदेहः स्यात्----प्राग्वोतापिभ्यां, सह वेति। तदाचार्यः सुहृद्भूत्वान्वाचष्टे-----विभाषा गर्हाप्रभृतौ प्रागुतापिभ्यामिति।। वोताप्योः।। 141 ।।
-3-3-142- गर्हायां लडपिजात्वोः (1127)
(581 लडि्वधिसूत्रम्।। 3 । 3 । 2 आ.11)
(4007 वार्तिकम्।। 1 ।।)
- गर्हायां लडि्वधानार्थक्यं क्रियाऽसमाप्तेर्विवक्षितत्वात्-
(भाष्यम्) गर्हायां लडि्वधानमनर्थकम्। किं कारणम्? क्रियाया असमाप्तेर्विवक्षितत्वात्। क्रियाया अत्रासमाप्तिर्विवक्षिता। एष एव च नाम न्याय्यो वर्तमानः कालः यत्र क्रिया अपरिसमाप्ता भवति। तत्र वर्तमाने लड् इत्येव सिद्धम्।
(आक्षेपभाष्यम्)
यदि वर्तमाने लड् इत्येवमत्र लड् भवति।।
शतृशानचावपि तर्हि प्राप्नुतः।
(इष्टापत्तिभाष्यम्)
इष्येते च शतृशानचौ---अपि मां याजयन्तं पश्य। अपि मां याजयमानं पश्य।। गर्हायां ल।। 142 ।।
-3-3-145- अनवक्लृप्त्यमर्षयोरकिंवृत्तेपि (1130)
582 लिङ् लृटि्वधिसूत्रम्।। 3 । 3 । 2 आ.12)
(5008 अकिंवृत्तग्रहणानर्थक्यवार्तिकम्।। 1 ।।)
- किंवृत्तस्यानधिकारादुत्तरत्राकिंवृत्तग्रहणानर्थक्यम्-
(भाष्यम्) किंवृत्तस्यानधिकारादुत्तरत्राकिंवृत्तग्रहणमनर्थकम्। निवृत्तं किंवृत्ते इति, तस्मिन्नवृत्ते अविशेषण किंवृत्ते चाकिंवृत्ते च भविष्यति।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्---उपपदसंज्ञां वक्ष्यामीति।
(प्रश्नभाष्यम्)
उपपदसंज्ञावचने किं प्रयोजनम्?
(प्रयोजनभाष्यम्)
उपपदमतिङ् इति समासो यथा स्यात्।
(प्रयोजनप्रत्याख्यानभाष्यम्)
अतिङितिप्रतिषेधः प्राप्नोति।
(प्रयोजनभाष्यम्)
यदा तर्हि लृटः सत्संज्ञौ तदोपपदसंज्ञा भविष्यति।
(प्रयोजननिराकरणभाष्यम्)
भविष्यदधिकारविहितस्य लृटः सत्संज्ञावुच्येते अविशेषविहितश्चायम्।। अनवक्लृप्त्य।। 145 ।।
-3-3-147- जातुयदोर्लिङ् (1132)
(583 लिङ्विधिसूत्रम्।। 3 । 3 । 2 आ.13 )
(5009 वार्तिकम्।। 1 ।।)
- जातुयदोर्लिङ्विधाने यदायद्योरुपसंख्यानम्-
(भाष्यम्) जातुयदोर्लिङ्विधाने यदायद्योरुपसंख्यानं कर्तव्यम्। यदा भवद्विधः क्षत्रियं याजयेत्। यदि भवद्विधः क्षत्रियं याजयेत्।। जातुयदोर्लि।। 147 ।।
-3-3-151- शेषे लृडयदौ ,(1136)
(587 लृट्प्रत्ययविधिसूत्रम्।। 3 । 3 । 2 आ.14)
- चित्रीकरणे यदिप्रतिषेधानर्थक्यमर्थान्यत्वात्-
(भाष्यम्) चित्रीकरणे यदि प्रतिषेधोनर्थकः। किं कारणम्? अर्थान्यत्वात्, नहि यदावुपपदे चित्रीकरणं गम्यते। किं तर्हि? संभावनम्।। शेषे लृड।। 151 ।।
-3-3-156- हेतुहेतुमतोर्लिङ् (1141)
(585 लिङ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 2 आ.15)
(5011 वार्तिकम्।। 1 ।।)
- हेतुहेतुमतोर्लिङ् वा -
(भाष्यम्) हेतुहेतुमतोर्लिङ्वेति वक्तव्यम्। दक्षिणेन चेद्यायात्, न शकटं पर्याभवेत्। दक्षिणेन चेद्यास्यति, न शकटं पर्याभविष्यति।
(5012 वार्तिकम्।। 2 ।।)
- भविष्यदधिकारे च-
(भाष्यम्) भविष्यदधिकारे इति वक्तव्यम्। इह मा भूत्---वर्षतीति धावति। हन्तीति पलायत इति।।
(आक्षेपभाष्यम्)
अथेदानीं शतृशानचावत्र कस्मान्न भवतः?
(समाधानभाष्यम्)
देवत्रातो गलो ग्राह इति योगे च सद्धिधिः।
मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः।। हेतुहेतुमतो।। 156 ।।
-3-3-157- इच्छार्थेषु लिङ्लोटौ (1142)
(586 लिङ्लोट्प्रत्ययविधिसूत्रम्।। 3 । 3 । 2 आ.16)
(5013 वार्तिकम्।। 1 ।।)
- इच्छार्थेषु लिङ् लोटौ कामप्रवेदने चेत्-
(भाष्यम्) कामप्रवेदनं चेद्गम्यत इति वक्तव्यम्। इह मा भूत्----इच्छन् कटं करोतीति।। इच्छार्थेषु।। 157 ।।
-3-3-161- विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (1146)
(587 लिङ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 2 आ.17)
(आक्षेपभाष्यम्)
विध्यधीष्टयोः को विशेषः?
(समाधानभाष्यम्)
विधिर्नाम प्रेषणम्। अधीष्टं नाम सत्कारपूर्विका व्यापारणा।।
(आक्षेपभषाष्यम्)
अथ निमन्त्रणामन्त्रणयोः को विशेषः?
(समाधानभाष्यम्)
संनिहितेन निमन्त्रणं भवति। असंनिहितेनामन्त्रणम्।।
(समाधानबाधकभाष्यम्)
नैषोस्ति विशेषः। असंनिहितेनापि निमन्त्रणं भवति। संनिहितेन चामन्त्रणम्।।
(सिद्धान्तिसमाधानभाष्यम्)
एवं तर्हि यन्नियोगतः कर्तव्यं तन्निमन्त्रणम्।।
किं पुनस्तत्?
हव्यं कव्यं च। ब्राह्मणेन सिद्धं भुज्यताम् इत्युक्ते अधर्मः प्रत्याख्यातुः।। आमन्त्रणे कामचारः।
(आक्षेपभाष्यम्)
कथं पुनरिदं विज्ञायते, निमन्त्रणादीनामर्थ इति। आहो स्विन्निमन्त्रणादिषु गम्यमानेष्विति। कश्चात्र विशेषः?
(5014 प्रथमाक्षेपवार्तिकम्।। 1।।)
- निमन्त्रणादीनामर्थे चेदामन्त्रयै निमन्त्रयै भवन्तमिति प्रत्ययानुपपत्तिः प्रकृत्यभिहितत्वात्-
(भाष्यम्) निमन्त्रणादीनामर्थे चेदामन्त्रयै निमन्त्रयै भवन्तमिति प्रत्ययो नोपपद्यते। किं कारणम्? प्रकृत्यभिहितत्वात्। प्रकृत्याऽभिहितः सोऽर्थ इति कृत्वा प्रत्ययो न प्राप्नोति।।
(5015 द्वितीयाक्षेपवार्तिकम्।। 2 ।।)
- द्विवचनबहुवचनाप्रसिद्धिश्चैकार्थत्वात्-
(भाष्यम्) द्विवचनबहुवचनयोश्चाप्रसिद्धिः। किं कारणम्? एकार्थत्वात्। एकोयमर्थो निमन्त्रणं नाम तस्यैकत्वादेकवचनमेव प्राप्नोति।।
(द्योत्यत्वपक्षाङ्गीकारभाष्यम्)
अस्तु तर्हि निमन्त्रणादिषु गम्यमानेष्विति।।
(द्योत्यत्वे दूषणभाष्यम्)
इहापि (तर्हि) प्राप्नोति---देवदत्तो भवन्तमामन्त्रयते, देवदत्तो भवन्तं निमन्त्रयते इति।।
(5016 समाधानवार्तिकम्।। 3 ।।)
- सिद्धं तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात्-
(भाष्यम्) सिद्धमेतत्। कथम्? द्वितीयाकाङ्क्षस्य धातोः प्रकृते प्रत्ययार्थे प्रत्ययो भवति इति वक्तव्यम्।। के पुनः प्रकृता अर्थाः? भावकर्मकर्तारः।।
(आक्षेपभाष्यम्)
एवमपि भवेत्सिद्धम्---प्राप्नोतु भवानामन्त्रणम् अनुभवतु भवानामन्त्रणम् इति यत्र द्वितीय आकाङ्क्ष्यते। इदं तु न सिध्यति---निमन्त्रयै, आमन्त्रयै इति।।
(समाधानभाष्यम्)
अत्रापि द्वितीय आकाङ्क्ष्यते। कः? निमन्त्रिरेव। निमन्त्रयै निमन्त्रणम्, आमन्त्रयै आमन्त्रणमिति।।
(प्रश्नभाष्यम्)
कथं पुनर्निमन्त्रिर्नाम निमन्त्रणमाकाङ्क्षेत्।।
(समाधानभाष्यम्)
दृष्टश्च भावेन भावयोगः। तद्यथा। इषिरिषिणा युज्यते, स्त्रीत्वं च स्त्रीत्वेन। यावता चात्रापि द्वितीय आकाङ्क्ष्यते।।
(वाचकत्वपक्षाङ्गीकारभाष्यम्)
अस्तु तर्हि निमन्त्रणादीनामर्थ इति।
(दूषणस्मारणभाष्यम्)
ननु चोक्तं निमन्त्रणादीनामर्थे चेदामन्त्रयै निमन्त्रयै भवन्तमिति प्रत्ययानुपपत्तिः प्रकृत्यभिहितत्वादिति।
(दूषणोद्धारभाष्यम्)
नैष दोषः। योसौ द्वितीय आकाङ्क्ष्यते स एव मम प्रत्ययार्थो भविष्यति।।
(वाचकत्वपक्षे द्वितीयदूषणस्मारणभाष्यम्)
अयं तर्हि दोषः---द्विवचनबहुवचनाप्रसिद्धिरेकार्थत्वादिति।।
(दूषणोद्धारभाष्यम्)
एषोप्यदोषः।
(5017 वार्तिकम्।। 4 ।।)
- सुपां कर्मादयोप्यर्थाः संख्या चैव तथा तिङाम्-
(भाष्यम्) सुपां संख्या चैवार्थः कर्मादयश्च।।
(5018 वार्तिकम्।। 5 ।।)
- प्रसिद्धो नियमस्तत्र-
(भाष्यम्) प्रसिद्धस्तत्र नियमः।
(5019 वार्तिकम्।। 6 ।।)
- नियमः प्रकृतेषु वा-
(भाष्यम्) अथवा प्रकृतानर्थानपेक्ष्य नियमः।। के च प्रकृताः? एकत्वादयः। एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु। द्वयोरेव द्विवचनं नैकस्मिन्न बहुषु। बहुष्वेव बहुवचनं नैकस्मिन्न द्वयोरिति।। विधिनिदृ।। 161 ।।
-3-3-163- प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च (1148)
(588 कृत्यलिङ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 2 आ.18 )
(आक्षेपभाष्यम्)
किमर्थं प्रैषादिष्वर्थेषु कृत्या विधीयन्ते, न अविशेषेण विहिताः कृत्याः ते प्रैषादिषु भविष्यन्ति, अन्यत्र च।।
(5020 वार्तिकम्।। 1 ।।)
- प्रैषादिषु कृत्यानां वचनं नियमार्थम्-
(भाष्यम्) प्रैषादिषु कृत्यानां वचनं क्रियेत।। किं प्रयोजनम्? नियमार्थम्। नियमार्थोयमारम्भः। प्रैषादिष्वेव कृत्या यथा स्युरिति।।
(5021 वार्तिकम्।। 2 ।।)
- प्रैषादिषु कृत्यानां वचनं नियमार्थमिति चेत्तदनिष्टम्-
(भाष्यम्) प्रैषादिषु कृत्यानां वचनं नियमार्थमिति चेत्तदनिष्टं प्राप्नोति। न हि प्रैषादिष्वर्थेष्वेव कृत्या इष्यन्ते। किं तर्हि? अविशेषेण। बुसोपेन्ध्यं तृणोपेन्ध्यम्। घनघात्यम्।।
(5022 वार्तिकम्।। 3 ।।)
- विध्यर्थं तु स्त्रियाः प्रागिति वचनात्-
(भाष्यम्) विध्यर्थे तु प्रैषादिषु कृत्यानां वचनम्। अयं प्रैषादिष्वर्थेषु लङि्वधीयते स विशेषविहितः सामान्यविहितान् कृत्यान्बाधेत्।।
(कृत्यसाधकभाष्यम्)
वासरूपेण कृत्या अपि भविष्यन्ति।।
(कृत्यबाधकभाष्यम्)
न स्युः। किं कारणम्? स्त्रियाः प्रागिति वचनात्। प्राक् स्त्रियां वाऽसरूपः।। प्रैषातिसर्ग।। 163 ।।
-3-3-167- कालसमयवेलासु तुमुन् (1152)
(589 तुमुन्प्रत्ययविधिसूत्रम्।। 3 । 3 । 2 आ.19)
(5023 वार्तिकम्।। 1 ।।)
- प्रथमान्तेषु-
(भाष्यम्) प्रथमान्तेष्विति वक्तव्यम्।। किं प्रयोजनम्? इह मा भूत्----काले भुङ्क्ते।।
(प्रश्नभाष्यम्)
तत्तर्हि वक्तव्यम्।
(समाधानभाष्यम्)
न वक्तव्यम्। प्रैषादिष्विति वर्तते। तच्चावश्यं प्रैषादिग्रहणमनुर्वत्यम्। प्रथमान्तेष्विति ह्युच्यमाने इहापि प्रसज्येत
कालः पचति भूतानि कालः संहरति प्रजाः इति।। कालसमय।। 167 ।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचते व्याकरणमहाभाष्ये तृतीयस्याध्यास्य तृतीये पदे द्वितीयमाह्निकम्। पादश्च तृतीयः समाप्तः।।
-9-9-999-