महाभाष्यम्/चतुर्थोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः

4-1
-4-1-1- ङ्याप्प्रातिपदिकात् (1275)
(अधिकारप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
ङ्याप्प्रातिपदिकग्रहणं किमर्थम्।
(समाधानभाष्यम्)
ङ्याप्प्रातिपदिकात्स्वादयो यथा स्युः। धातोर्मा भूवन्निति।।
(प्रयोजननिरासभाष्यम्))
नैतदस्ति प्रयोजनम्। धातोस्तव्यदादयो विधीयन्ते, तेऽपवादत्वाद्बाधका भविष्यन्ति।।
(प्रयोजनपरभाष्यम्)
तिङन्तात्तर्हि मा भूवन्निति।।
(प्रयोजनपरिहारभाष्यम्)
एकत्वादिष्वर्थेषु स्वादयो विधीयन्ते। ते चात्र तिङोक्ता एकत्वादय इति कृत्वा, उक्तार्थत्वान्न भविष्यन्ति।।
(प्रयोजनपरभाष्यम्)
टाबादयस्तर्हि तिङन्तान्मा भूवन्निति।।
(प्रयोजननिरासभाष्यम्)
स्त्रियां टाबादयो विधीयन्ते। न च तिङन्तस्य स्त्रीत्वेन योगोऽस्ति।।
(प्रयोजनपरभाष्यम्)
अणादयस्तर्हि तिङन्तान्मा भूवन्निति।।
(प्रयोजननिरासभाष्यम्)
अपत्यादिष्वर्थेष्वणादयो विधीयन्ते। न च तिङन्तस्यापत्यादिभिर्योगोऽस्ति।।
(अभ्युपगमभाष्यम्)
अथापि कथंचिद्योगः स्यात्। एवमपि न दोषः। आचार्यप्रवृत्तिर्ज्ञापयति--न तिङन्तादणादयो भवन्तीति यदयं क्वचित्तद्धितविधौ तिङ्ग्रहणं करोति--अतिशायने तमबिष्ठनौ, तिङश्चेति।।
(वार्तिकावतरणभाष्यम्)
अत उत्तरं पठति--
(5094 प्रयोजनवार्तिकम्।। 1 ।।)
- ङ्याप्प्रातिपदिकग्रहणमङ्गभपदसंज्ञार्थम् -
(भाष्यम्) ङ्याप्प्रातिपदिकग्रहणं क्रियते, अङ्गभपदसंज्ञार्थम्। अङ्गभपदसंज्ञा ङ्याप्प्रातिपदिकस्य यथा स्युरिति।।
(वार्तिकोक्तप्रयोजननिराकरणभाष्यम्)
क्व पुनरिहाङ्गभपदसंज्ञार्थेन ङ्याप्प्रातिपदिकग्रहणेनार्थः?।
टाबादिषु।
नैतदस्ति प्रयोजनम्।
ग्रहणवद्भ्यष्टाबादयो विधीयन्ते।
उगितो ङीब्भवति।
अतष्टाब्भवतीति यत्तच्छब्दरूपं गृह्यते, तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।।
(अभ्युपगमवादभाष्यम्)
अथापि कश्चिदग्रहणः।
एवमपि न दोषः।
स्त्रियां टाबादयो विधीयन्ते। यत्तच्छब्दरूपं स्त्रियां वर्तते, तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।।
(आशंकानिराकरणभाष्यम्)
अणादिषु तर्हि।
अणादयोऽपि ग्रहणवद्भ्यो विधीयन्ते--गर्गादिभ्यो यञ्ञ्, नडादिभ्यः फगिति। यत्तच्छब्दरूपं गृह्यते, तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।।
(अभ्युपगमवादभाष्यम्)
अथापि कश्चिदग्रहणः।
एवमपि न दोषः। अपत्यादिष्वर्थेष्वणादयो विधीयन्ते। यत्तच्छब्दरूपमपत्यादिष्वर्थेषु वर्तते तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।।
(आशंकानिराकरणभाष्यम्)
स्वार्थिकेषु तर्हि।
स्वार्थिका अपि ग्रहणवद्भ्यो विधीयन्ते--यावादिभ्यः कन्, प्रज्ञादिभ्योऽणिति। यत्तच्छब्दरूपं गृह्यते तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।।
(अभ्युपगमवादभाष्यम्)
यस्तर्ह्यग्रहणः। शुक्लतमः शुक्लतरः कृष्णतमः कृष्णतर इति।
अत्रापि न यावच्छुक्लःउतावच्छुक्लतरः, प्रकृष्टः शुक्लःउशुक्लतरः। यत्तच्छब्दरूपं प्रकृष्टे वर्तते तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।
(आशंकानिराकरणभाष्यम्)
स्वादिषु तर्हि।
एकत्वादिष्वर्थेषु स्वादयो विधीयन्ते। यत्तच्छब्दरूपमेकत्वादिष्वर्थेषु वर्तते। तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।।
(आक्षेपभाष्यम्)
कथं पुनरिहोच्यमानाः स्वादय एकत्वादिष्वर्थेषु शक्या विज्ञातुम्।।
(समाधानभाष्यम्)
एकवाक्यत्वात्। एकं वाक्यंतच्चेदं च।
यद्येकं वाक्यं तच्चेदं च किमर्थं नानादेशस्थं क्रियते? कौशलमात्रमेतदाचार्यो दर्शयति--यदेकं वाक्यं सन्नानादेशस्थं करोति, अन्यदपि किंचित्संग्रहीष्यामीति।।
(5095 द्वितीयप्रयोजनवार्तिकम्।। 2 ।।)
- यच्छयोश्च लुगर्थम् -
(भाष्यम्) यच्छयोस्तर्हि लुगर्थं ङ्याप्प्रातिपदिकग्रहणं क्रियते। कंसीयपरशव्ययोर्यञ्ञञ्ञौ लुक्च इति ङ्याप्प्रातिपदिकात्परस्य लुग्यथा स्यात्। अक्रियमाणे हि ङ्याप्प्रातिपदिकग्रहणे प्रकृतेरपि लुक् प्रसज्येत।।
(प्रयोजननिराकरणभाष्यम्)
एतदपि नास्ति प्रयोजनम्। यथापरिभाषितं प्रत्ययस्य लुक्श्लुलुपो भवन्तीति--प्रत्ययस्य भविष्यति।।
(अनिष्टापत्युद्भावकभाष्यम्)
एवमप्युकारसकारयोः प्रसज्येत। कमेः सः कंसः। परान् शृणातीति परशुरिति।।
(समाधानभाष्यम्)
उणादयोऽव्युत्पन्नानि प्रातिपदिकानि।।
(5096 सिद्धान्तवार्तिकम्।। 3 ।।)
- वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् -
(भाष्यम्) वृद्धावृद्धावर्णस्वरद्वयज्लक्षणे तर्हि प्रत्ययविधौ तत्सम्प्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं क्रियते। वृद्धात्,
अवृद्धात्, अवर्णान्तात्, अनुदात्तादेः, द्व्यचः, इत्येतानि ङ्याप्प्रातिपदिकविशेषणानि यथा स्युरिति।।
(एकदेश्याक्षेपभाष्यम्)
अथाक्रियमाणे ङ्याप्प्रातिपदिकग्रहणे कस्यैतानि विशेषणानि स्युः।।
(एकदेशिसमाधानभाष्यम्)
समर्थविशेषणानि।।
(दोषनिरूपकभाष्यम्)
तत्र को दोषः।।
उदीचां वृद्धादगोत्रात्। इह च प्रसज्येत। ज्ञानां ब्राह्मणानामपत्यमिति। एतद्धि समर्थं वृद्धम्।।
इह च न स्यात्। ज्ञयोर्ब्राह्मण्योरपत्यमिति। एतद्धि समर्थमवृद्धम्। वृद्ध।।
(दोषप्रदर्शकभाष्यम्)
।। अवृद्ध, प्राचामवृद्धात्फिन्बहुलम्। इह च प्रसज्येत--ज्ञयोर्ब्राह्यण्योरपत्यमिति। एतद्धि समर्थमवृद्धम्। इह च न स्यात्--ज्ञानां ब्राह्मणानामपत्यमिति। एतद्धि समर्थं वृद्धम्। अवृद्ध।।
अवर्ण, अत इञ्ञ्भवतीति--इहैव स्यात्--दक्षस्यापत्यं दाक्षिरिति। एतद्धि समर्थमकारान्तम्। इह च न स्यात्--दक्षयोरपत्यं दक्षाणामपत्यमिति। एतद्धि समर्थमनवर्णान्तम्। अवर्ण।।
स्वर, अनुदात्तादेरञ्ञ्भवति। इह च प्रसज्येत--वाचो विकारस्त्वचो विकार इति। एतद्धि समर्थमनुदात्तादि। इह च न स्यात्--सर्वेषां विकार इति। एतद्धि समर्थमुदात्तादि। स्वर।।
द्व्यज्लक्षण, द्व्यचष्ठन्निति। इह च प्रसज्येत--वाचा तरति त्वचा तरतीति। एतद्धि समर्थं द्व्यच्। इह च न स्यात्--घटेन तरतीति। एतद्धि समर्थमद्व्यच्।।
(समर्थाधिकारफलप्रदर्शकभाष्यम्)
अस्ति पुनः समर्थविशेषणे सति किंचिदिष्टं संगृहीतं भवति। आहोस्विद्दोषान्तमेव। अस्तीत्याह। किम्? साम्ना तरति वेम्ना तरतीति। एतद्धि समर्थमपि द्व्यच् ङ्याप्प्रातिपदिकमपि।।
(आक्षेपभाष्यम्)
अथ ङ्याब्ग्रहणं किमर्थम्। न प्रातिपदिकादित्येव सिद्धम्।।
(समाधानभाष्यम्)
न सिध्यति।
अप्रत्यय इति प्रातिपदिकसंज्ञायाः प्रतिषेधः प्राप्नोति।।
(प्रत्याक्षेपभाष्यम्)
यद्येष ङ्याब्ग्रहणे हेतुः। त्यूङ्ग्रहणमपि कर्तव्यम्। तावपि हि प्रत्ययौ।।
(प्रत्याक्षेपनिरासभाष्यम्)
तिग्रहणे तावद्वार्तम्। तद्धितः प्रातिपदिकमिति प्रातिपदिकसंज्ञा भविष्यति।।
ःढ़द्य;ङ्ग्रहणे चापि वार्तम्। उवर्णान्तादूङि्वधीयते तत्रैकादेशः। एकादेशे कृतेऽन्तादिवद्भावात्प्रातिपदिकसंज्ञा भविष्यति।।
(आक्षेपसमर्थकभाष्यम्)
यद्येष ःढ़द्य;ङोऽग्रहणे हेतुः। आब्ग्रहणमपि न कर्तव्यम्। आबपि ह्यकारान्ताद्विधीयते। तत्रैकादेशः। एकादेशे कृतेऽन्तादिवद्भावात्प्रातिपदिकसंज्ञा भविष्यति।।
यस्तर्ह्यनकारान्तात्--कुञ्ञ्चा, उष्णिहा, देवविशेति। अत्राप्यकारान्ताद् वृत्तिर्लक्ष्यते--क्रुञ्ञ्चानालभेत, उष्णिहककुभौ, देवविशं च मनुष्यविशं चेति।।
(आब्ग्रहणवादिभाष्यम्)
इह तावदुष्णिहककुभाविति।
आप एवैतदौत्तरपदिकं ह्रस्वत्वम्।।
इह खल्वपि देवविशं च मनुष्यविशं चेति।
नास्ति विशेषः। अकारान्तादम् उत्पत्तौ सत्यां व्यञ्ञ्जनान्ताद्वेति।।
(प्रत्याख्यानवादिभाष्यम्)
यत्तावदुच्यते--
इह तावदुष्णिहककुभावित्याप एवैतदौत्तरपदिकं ह्रस्वत्वमिति।।
संज्ञाछन्दसोरित्येवं तत्।।
नैषा संज्ञा, नापीदं छन्दः।।
यदप्युच्यते इह खल्वपि देवविशं च मनुष्यविशं चेति।।
नास्ति विशेषः--अकारान्तादम् उत्पत्तौ सत्यां व्यञ्ञ्जनान्ताद्वेति।।
स्वरे विशेषः--यद्यत्र व्यञ्ञ्जनान्तादुत्पत्तिः स्याद् देवविशमित्येवं स्वरः प्रसज्येत। देवविशमिति चेष्यते। तस्मात्क एष एवं विषयः।।
(आब्ग्रहणवादिभाष्यम्)
इदं तर्हि--पादोऽन्यतरस्याम् टाबृचि इति।।
ऋचीत्युच्यते।।
तत्र च्छान्दसत्वाद्भविष्यति।।
ऋचीति नेदं छन्दो विवक्षितम्--काठकं कालापकं मौदकं पैप्पलादकं वा। किं तर्हि--प्रत्ययार्थविशेषणमेतत्। ऋक्चेत्प्रत्ययार्थो भवतीति।।
एतदपि नास्ति प्रयोजनम्। पदशब्दः पादशब्दसमानार्थोऽकारान्तश्छन्दसि दृश्यते--तस्याः सप्ताक्षरमेकं पदम्, एकः पाद इत्यर्थः। तस्मादुत्पत्तिर्भविष्यति।।
इदं तर्हि--डाबुभाभ्यामन्यतरस्याम् इति। बहुराजा बहुराजे बहुराजा इति।।
(5097 सिद्धान्तवार्तिकम्।। 4 ।।)
- ङ्याब्ग्रहणमनर्थकं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् -
(भाष्यम्) ङ्याब्ग्रहणमनर्थकम्।।
किं कारणम्?
प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात्।।
प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येषा परिभाषा कर्तव्या।
कः पुनरत्र विशेषः?
एषा वा परिभाषा क्रियेत, ङ्याब्ग्रहणं वा?
अवश्यमेषा परिभाषा कर्तव्या। बहून्येतस्याः परिभाषायाः प्रयोजनानि।।
(जिज्ञासाभाष्यम्)
कानि?
(5098 प्रयोजनवार्तिकम्।। 5 ।।)
- सर्वनामस्वरसमासतद्धितविधिलुगलुगर्थम् -
(भाष्यम्) सर्वनामविधिः प्रयोजनम्। सर्वनाम्नः सुडिहैव स्यात्--येषाम्, तेषाम्।।
यासाम्, तासामित्यत्र न स्यात्।।
(प्रयोजनखण्डनभाष्यम्)
नैतदस्ति प्रयोजनम्।
अवर्णान्ताट्टाब्विधीयते। तत्रैकादेशे कृतेऽन्तादिवद्भावात्सुड् भविष्यति।।
(प्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्--सर्वनाम्नस्तृतीया च इहैव स्यात्--भवता हेतुना, भवतो हेतोरिति।
भवत्या हेतुना, भवत्या हेतोरित्यत्र न स्यात्। सर्वनाम।।
(व्याख्यानभाष्यम्)
स्वर, कुसूलकूपकुम्भशालं बिले इहैव स्यात्--कुसूलबिलम्।
कुसूलीबिलमित्यत्र च न स्यात्। स्वर।।
(व्याख्यानभाष्यम्)
समास द्वितीया श्रितादिभिः सह समस्यते। इहैव स्यात्--कष्टं श्रितःउकष्टश्रितः।
कष्टं श्रिताउकष्टश्रितेत्यत्र न स्यात्।।
(वार्तिकोक्तप्रयोजनखण्डनभाष्यम्)
एतदपि नास्ति प्रयोजनम्। श्रितशब्दोऽकारान्तस्तत्रैकादेशे कृतेऽन्तादिवद्भावाद्भविष्यति।।
(प्रयोजनभाष्यम्)
इदं तर्हि--पूर्वसदृशेति। इहैव स्यात्--पित्रा सदृशःउपितृसदृशः।।
पित्रा सदृशीउपितृसदृशीत्यत्र न स्यात्। समास।।
(व्याख्यानभाष्यम्)
तद्धितविधि, अचित्तहस्तिधेनोष्ठक् इहैव स्यात्-हस्तिनां समूहो हास्तिकम्।।
हस्तिनीनां समूहो हास्तिकमित्यत्र न स्यात्।।
(प्रयोजननिरासभाष्यम्)
एतदपि नास्ति प्रयोजनम्। पुंवद्भावेनैतत्सिद्धम्।।
(प्रयोजनभाष्यम्)
इदं तर्हि--प्रमाणे द्वयसच्। यथेह भवति--हस्तिद्वयसम्, हस्तिमात्रम्। एवं हस्तिनीद्वयसम्, हस्तिनीमात्रमित्यपि यथा स्यात्। तद्धितविधि।।
(व्याख्यानभाष्यम्)
लुक्, नेन्सिद्धबध्नातिषु च इहैव स्यात्--स्थण्डिलशायी।।
स्थण्डिलशायिनीत्यत्र न स्यात्। लुक्।।
(व्याख्यानभाष्यम्)
अलुक् शयवासवासिष्वकालात् इहैव स्यात्--ग्रामेवासी।।
ग्रामेवासिनीत्यत्र न स्यात्।।
(5099 परिभाषाप्रयोजनवार्तिकम्।। 6 ।।)
- मानिनि च विधिप्रतिषेधार्थम् -
(भाष्यम्) मानिनि च विधिप्रतिषेधार्थं प्रयोजनम्--विध्यर्थं तावत् क्यङ्मानिनोश्च इहैव स्यात्। दर्शनीयमानी।।
दर्शनीयमानिनीत्यत्र न स्यात्।।
प्रतिषेधार्थमपि। वक्ष्यति स्वाङ्गाच्चेतोऽमानिनि तस्मिन् क्रियमाणे इहैव स्यात्--दीर्घमुखमानी।।
दीर्घमुखमानिनीत्यत्र न स्यात्।।
(5100 परिभाषाप्रयोजनवार्तिकम्।। 7 ।।)
- प्रत्ययग्रहणोपचारेषु च -
(भाष्यम्) प्रत्ययग्रहणोपचारेषु च प्रयोजनम्। तृजकाभ्यां कर्तरि इहैव स्यात्--अपां स्रष्टा।।
अपां स्रष्ट्रीत्यत्र न स्यात्। प्रत्यय।।
उपचार--अतः कृकमिकंसकुम्भ इहैव स्यात्--अयस्कुम्भः।।
अयस्कुम्भीत्यत्र न स्यात्।।
(परिभाषाफलोपसंहारभाष्यम्)
एतान्येतस्याः परिभाषायाः प्रयोजनानि। यदर्थमेषा परिभाषा कर्तव्या।।
एतस्यां च सत्यां नार्थो ङ्याब्ग्रहणेन।।
(5101 परिभाषाक्षेपवार्तिकम्।। 8 ।।)
- अतिप्रसङ्ग उपपदविधौ -
(भाष्यम्) उपपदविधावतिप्रसङ्गो भवति द्विषत्परयोस्तापेः यथेह भवति-द्विषन्तप इति।।
एवं द्विषतीताप इत्यत्रापि स्यात्।।
(5102 परिभाषाक्षेपे द्वितीयवार्तिकम्।। 9 ।।)
- यञ्ञिञ्ञोः फकि -
(भाष्यम्) यञ्ञिञ्ञोः फक्यतिप्रसङ्गो भवति। यथेह भवति--गार्ग्यायणः, दाक्षायणः।।
एवं गार्गेयो दाक्षेय इत्यत्रापि स्यात्।।
नैष दोषः।।
ढगत्र बाधको भविष्यति।।
(5103 परिभाषाक्षेपे तृतीयवार्तिकम्।। 10 ।।)
- समासान्तेषु च -
(भाष्यम्) समासान्तेषु चातिप्रसङ्गो भवति राजाहः सखिभ्यष्टच् यथेह भवति--मद्रराजः, कश्मीरराजः।।
एवं मद्रराज्ञी कश्मीरराज्ञीत्यत्रापि स्यात्।।
(आक्षेपभाष्यम्)
न वा भवति मद्रराजीति।।
(उपपादकभाष्यम्)
भवति, यदा समासान्तादीकारः। लिङ्गविशिष्टग्रहणे तु इर्कारान्तात्समासान्तः प्रसज्येत।।
तत्र को दोषः? पुंवद्भावष्टिलोपश्च। तत्र मद्रराजीत्येवं रूपं स्यात् मद्रराज्ञीति चेष्यते।।
(5104 परिभाषाक्षेपे चतुर्थवार्तिकम्।। 11 ।।)
- महदात्वे प्रियादिषु -
(भाष्यम्) महदात्वे प्रियादिष्वतिप्रसङ्गो भवति। आन्महतः समानाधिकरणजातीययोः इति यथेह भवति महान् प्रियोऽस्य महाप्रियः।।
एवं महती प्रियाऽस्य महतीप्रिय इत्यत्रापि स्यात्।।
किमुच्यते प्रियादिष्विति? यत्र पुंवद्भावः प्रतिषिध्यते।।
यत्र तु न प्रतिषिध्यते भवितव्यमेव तत्रात्वेनेति।।
(5105 परिभाषाक्षेपे पञ्ञ्चमवार्तिकम्।। 12 ।।)
- ञ्ञ्नित्स्वरे -
(भाष्यम्) ञ्ञ्नित्स्वरेऽतिप्रसङ्गो भवति ञ्ञ्नित्यादिः उदात्तो भवतीति। यथेह भवति--दाक्षिः, अहिचुम्बकायनिः।।
एवं दाक्षी, अहिचुम्बकायनीत्यत्रापि स्यात्।।
(5106 परिभाषाक्षेपे षष्ठवार्तिकम्।। 13 ।।)
- राज्ञः स्वरे ब्राह्मणकुमारयोः -
(भाष्यम्) राज्ञः स्वरे ब्राह्मणकुमारयोरतिप्रसङ्गो भवति राजा च ब्राह्मणकुमारयोरिति। यथेह भवति--राजब्राह्मणः, राजकुमारः।।
एवं राजब्राह्मणी, राजकुमारीत्यत्रापि स्यात्।।
(5107 परिभाषाक्षेपे सप्तमवार्तिकम्।। 14 ।।)
- समाससंघातग्रहणेषु च -
(भाष्यम्) समाससंघातग्रहणेषु चातिप्रसङ्गो भवति बहोर्नञ्ञ्वदुत्तरपदभूम्नि यथेह भवति-- बहुगोमान्
बहुयवमान्।।
एवं बहुगोमती बहुयवमतीत्यत्रापि स्यात्।
(संघातपदाक्षेपभाष्यम्)
किमुच्यते समाससंघातग्रहणेष्विति?।।
(संघातपदप्रयोजनभाष्यम्)
यदवयवग्रहणं प्रयोजनमेवैतस्याः परिभाषायाः कुसूलकूपकुम्भशालं बिले कुसूलीबिलमिति यथा।।
(5108 परिभाषाक्षेपेऽमष्टेवार्तिकम्।। 15 ।।)
- विभक्तौ चोक्तम् -
(भाष्यम्) किमुक्तम्? न वा विभक्तौ लिङ्गविशिष्टाग्रहणादिति।।
(परिभाषोपसंहारभाष्यम्)
एतेऽस्याः परिभाषाया दोषाः, एतानि च प्रयोजनानि स्युः।।
एते दोषाः समा भूयांसो वा?
तस्मान्नार्थोऽनया परिभाषया।।
न हि दोषाः सन्तीति परिभाषा न कर्तव्या। लक्षणं वा न परिणेयम्।।
न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते। न च मृगाः सन्तीति यवा नोप्यन्ते।।
दोषाः खल्वपि साकल्येन परिगणिताः। प्रयोजनानामुदाहरणमात्रम्। कुत एतत्। न हि दोषाणां लक्षणमस्तीति।।
तस्माद्यान्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा परिभाषा कर्तव्या, प्रतिविधेयं च दोषेषु।।
(5109 ङ्याप्प्रयोजनवार्तिकम्।। 16 ।।)
- तद्धितविधानार्थं तु -
(भाष्यम्) तद्धितविधानार्थं तु ङ्याब्ग्रहणं कर्तव्यं ङ्याबन्तात्तद्धितोत्पत्तिर्यथा स्यात्--कालितरा, हरणितरा, खट्वातरा, मालातरा।।
(आक्षेपभाष्यम्)
किं पुनः कारणं न सिध्यति?
(5110 आक्षेपसाधकवार्तिकम्।। 17 ।।)
- विप्रतिषेधाद्धि तद्धितबलीयस्त्वम् -
(भाष्यम्) विप्रतिषेधाद्धि तद्धितोत्पत्तिः प्राप्नोति।।
(5111 ङ्याब्ग्रहणे दोषवार्तिकम्।। 18 ।।)
- तत्र समासान्तेषु दोषः -
(भाष्यम्) तत्र समासान्तेषु दोषो भवति--बहुगोमत्का, बहुयवमत्का।।
समासान्ता अपि ङ्याबन्तात्स्युः।।
(5112 न्यूनतापूरकवार्तिकम्।। 19 ।।)
- त्यूङोश्च ग्रहणम् -
(भाष्यम्) त्यूङोश्चापि ग्रहणं कर्तव्यं भवति। युवतिका, ब्रह्मबन्धुकेति।।
(वार्तिकाक्षेपभाष्यम्)
ःढ़द्य;ङ्ग्रहणेन तावन्नार्थः। नास्त्यत्र विशेषः। उकारान्तादुत्पत्तौ सत्यामूङन्ताद्वा।।
(प्रयोजनभाष्यम्)
इदं तर्हि--युवतितरा, ब्रह्मबन्धुतरा, इति।।
(5113 दोषपरिहारवार्तिकम्।। 20 ।।)
- तदन्तस्य च प्रत्ययार्थेनायोगात्तद्धितानुत्पत्तिः -
(भाष्यम्) तदन्तस्य च ङ्याबन्तस्य प्रत्ययार्थेनायोगात्तद्धितोत्पत्तिर्न प्राप्नोति। कालितरा, हरिणितरा, खट्वातरा, मालातरेति।।
किं कारणम्?
ङ्याबन्तमेतत् स्त्रीप्रधानम्। न च स्त्रीत्वस्य प्रकर्षाप्रकर्षौ स्तः।
नैष दोषः।
न हि किंचिदुच्यते--एवंजातीयकादुत्पत्तव्यमेवं जातीयकान्नेति।
एतावदुच्यते--अतिशायने तमबिष्ठनौ तिङश्च इति। यस्य च प्रकर्षोऽस्ति तस्य प्रकर्षे प्रत्ययो भविष्यति। अस्ति चाप्रधानस्य गुणस्य प्रकर्षः।
इह खल्वपि शुक्लतरः कृष्णतर इति।
द्रव्यं प्रधानम्। गुणस्य च प्रकर्षे प्रत्यय उत्पद्यते।।
(5114 सिद्धान्तवार्तिकम्।। 21 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्? सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणत्वात्स्वार्थे टाबादयः इति। प्रातिपदिकविशेषणं स्त्रीग्रहम्, स्वार्थिकाष्टाबादयः।।
नैवं विज्ञायते--स्त्रियामभिधेयायामिति।।
नापि स्त्रीसमानाधिकरणात्प्रातिपदिकादिति।।
कथं तर्हि--यत्प्रातिपदिकं स्त्रियां वर्तते तस्माट्टाबादयो भवन्ति।।
कस्मिन्नर्थे?
स्वार्थे इति।।
(वार्तिकोक्तदोषपरिहारभाष्यम्)
ननु चोक्तं तत्र समासान्तेषु दोष इति।।
समासान्ता अपि स्वार्थिकाः।।
उभयोः स्वार्थिकयोः परत्वात्समासान्ता भविष्यन्ति।।
(वार्तिकोक्तदोषपरिहारभाष्यम्)
कथं कालिकेति?।।
प्रत्ययस्थात्कात्पूर्वस्येतीत्वं भविष्यति।।
(वार्तिकोक्तदोषपरिहारभाष्यम्)
कथं हरिणिका इति?।।
हरिणशब्दः प्रकृत्यन्तरमस्ति।
(वार्तिकोक्तदोषपरिहारभाष्यम्)
कथं लोहिनिकेति?
वक्ष्यत्येतल्लोहिताल्लिङ्गबाधनं वेति ।। 1 ।।
-4-1-3- स्त्रियाम् (1277)
(लिङ्गाधिकरणम्)
(आक्षेपभाष्यम्)
स्त्रियामित्युच्यते।
का स्त्री नाम्।।
(समाधानभाष्यम्)
लोकत एते शब्दाः प्रसिद्धाः। स्त्री पुमान्नपुंसकमिति।
यल्लोके दृष्ट्वा एतदवसीयते--
इयं स्त्री, अयं पुमान्, इदं नपुंसकमिति।
सा स्त्री, स पुमान्, तन्नपुंसकमिति।।
(स्त्रीत्वनिमित्तजिज्ञासाभाष्यम्)
किं पुनर्लोके दृष्ट्वा एतदवसीयते--
इयं स्त्री, अयं पुमान्, इदं नपुंसकमिति।।
(निमित्तकथनाभाष्यम्)
लिङ्गम्।।
(जिज्ञासाभाष्यम्)
किं पुनस्तत्?
(लिङ्गलक्षणभाष्यम्)
स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः।
उभयोरन्तरं यच्च तदभावे नपुंसकम्।।
(लिङ्गलक्षणदूषणभाष्यम्)
लिङ्गात्स्त्रीपुंसयोर्ज्ञाने भ्रूकुंसे टाप्प्रसज्यते।
लिङ्गात्स्त्रीपुंसयोर्ज्ञाने सति भ्रूकुंसे टाप्प्राप्नोति। यद्धि लोके दृष्ट्वैतदवसीयते--इयं स्त्री।
अस्ति तद् भ्रूकुंसे।।
(द्वितीयदूषणभाष्यम्)
नत्वं खरकुटीः पश्य।।
इह चञ्ञ्चाः पश्य, वध्रिकाः पश्य, खरकुटीः पश्येति तस्माच्छसो नः पुंसीति नत्वं प्राप्नोति।।
यद्धि लोके दृष्ट्वैतदवसीयते--अयं पुमानिति। अस्ति तद्वर्ध्रिकादिषु।।
(तृतीयदूषणभाष्यम्)
खट्वावृक्षौ न सिध्यतः।।
खट्वावृक्षयोश्च लिङ्गं न सिध्यति। यद्धि लोके दृष्ट्वैतदवसीयते--इयं स्त्री, अयं पुमानिति। न तत्खट्वावृक्षयोरस्ति।।
किं तर्हि तयोर्लिङ्गं न्याय्यम्?
(दूषणसाधकभाष्यम्)
नापुंसकं भवेत्तस्मिन्।।
नापुंसकं खट्वावृक्षयोर्लिङ्गं न्याय्यम्। किमिदं नापुंसकमिति? न पुंसके भवं नापुंसकम्।।
(दूषणसाधकभाष्यम्)
तदभावे नपुंसकम्।।
तदभावे स्त्रीपुंसलिङ्गाभावे नपुंसकं लिङ्गं न्याय्यम्
(लिङ्गसाधकभाष्यम्)
असत्तु मृगतृष्णावत्।।
असत्तु खट्वावृक्षयोर्लिङ्गं द्रष्टव्यम्। कथं पुनरसन्नाम लिङ्गं शक्यं द्रष्टुम्? मृगतृष्णावत्। तद्यथा-मृगास्तृषिता अपां धाराः पश्यन्ति। न च ताः सन्ति।।
(लिङ्गसाधकभाष्यम्)
गन्धर्वनगरं यथा।।
यथा गन्धर्वनगराणि दूरतो दृश्यन्ते, उपसृत्य च नोपलभ्यन्ते। तद्वत्खट्वावृक्षयोरसल्लिङ्गं द्रष्टव्यम्।।
(लिङ्गसाधकभाष्यम्)
आदित्यगतिवत्सन्न।।
अथ वा यथा--आदित्यगतिः सती नोपलभ्यते। तद्वत्खट्वावृक्षयोः सल्लिङ्गं नोपलभ्यते।।
(लिङ्गसाधकभाष्यम्)
वस्त्रान्तर्हितवच्च तत्।।
यथा वस्त्रान्तर्हितानि द्रव्याणि नोपलभ्यन्ते। तद्वत्खट्वावृक्षयोः सल्लिङ्गं नोपलभ्यते।।
(आक्षेपभाष्यम्)
विषम उपन्यासः। वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाय उपलभ्यन्ते। खट्वावृक्षयोः पुनर्येऽप्येते रथकारा वाशीवृक्षादनहस्ता मूलात्प्रभृति--आऽग्राद्वृक्षांस्तक्ष्णुवन्ति तेऽपि तयोर्लिङ्गं नोपलभन्ते।।
(आक्षेपसाधकभाष्यम्)
केनैतदवसीयते खट्वावृक्षयोः सल्लिङ्गं नोपलभ्यत इति?
षड्भिः प्रकारैः सतां भावानामनुपलब्धिर्भवति--अतसन्निकर्षात्, अतिविप्रकर्षात्, मूर्त्यन्तरव्यवधानात्, तमसावृतत्वाद्, इन्द्रियदौर्बल्यात्, अतिप्रमादादिति।।
अतोऽत्र कश्चिद्धेतुर्द्रष्टव्यो येन खट्वावृक्षयोः सल्लिङ्गं नोपलभ्यते।।
(लिङ्गसाधकभाष्यम्)
केनैतदवसीयते खट्वावृक्षयोः सल्लिङ्गं नोपलभ्यत इति?
तयोस्तु तत्कृतं दृष्ट्वा
स्त्रीकृतं शब्दं दृष्ट्वा स्त्रीत्यवसीयते। पुंस्कृतं शब्दं दृष्ट्वा पुमानिति।।
(लिङ्गसाधने दृष्टान्तभाष्यम्)
यथाऽऽकाशेन ज्योतिषः।
तद्यथा--आकाशं दृष्ट्वा ज्योतिरत्रेति गम्यते। ज्योतिर्निमित्तं ह्याकाशम्।।
(आक्षेपभाष्यम्)
अन्योन्यसंश्रयं त्वेतत्
अन्योन्यसंश्रयं त्वेतद्भवति। स्त्रीकृतः शब्दः, शब्दकृतं च स्त्रीत्वम्। एतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च न प्रकल्पन्ते।।
(दूषणभाष्यम्)
प्रत्यक्षेण विरुध्यते।।
प्रत्यक्षेण खल्वपि स विरुध्यते--
य आह खट्वावृक्षयोः सल्लिङ्गं नोपलभ्यत इति। तत्र स्वेन्द्रियविरोधः कृतो भवति।
न च नाम स्वेन्द्रियविरोधिना भवितव्यम्।।
(दूषणान्तरभाष्यम्)
तटे च सर्वलिङ्गानि दृष्ट्वा कोऽध्यवसास्यति।।
तटे च खल्वपि सर्वाणि लिङ्गानि दृष्ट्वा--तटः, तटी, तटमिति, कस्तदध्यवसातुमर्हति--इयं स्त्री, अयं पुमान्, इदं नपुंसकमिति।।
(पूर्वपक्षोपसंहारभाष्यम्)
तस्मान्न वैयाकरणैः शक्यं लौकिकं लिङ्गमास्थातुम्। अवश्यं च कश्चित्स्वकृतान्त आस्थेयः।
कोऽसौ स्वकृतान्तः?
(सिद्धान्तभाष्यम्)
संस्त्यानप्रसवौ लिङ्गमास्थेयौ स्वकृतान्ततः।
संस्त्यानप्रसवौ लिङ्गमास्थेयौ।।
(आक्षेपभाष्यम्)
किमिदं संस्त्यानप्रसवाविति?
(व्युत्पत्तिदर्शकभाष्यम्)
संस्त्याने स्त्यायतेर्ड्रट् स्त्री, सूतेः सप् प्रसवे पुमान्।। इति।
(आक्षेपभाष्यम्)
ननु च लोकेऽपि स्त्यायतेरेव स्त्री, सूतेश्च पुमानिति।।
(समाधानभाष्यम्)
अधिकरणसाधना लोके स्त्री-स्त्यायत्यस्याङ्गर्भ इति। कर्तृसाधनश्च पुमान्-सूते पुमानिति।
इह पुनरुभयं भावसाधनम्। संस्त्यानं स्त्री, प्रवृत्तिश्च पुमान्।।
(आक्षेपभाष्यम्)
कस्य पुनः संस्त्यानं स्त्री, प्रवृत्तिर्वा पुमान्? गुणानाम्।
केषाम्?
(समाधानभाष्यम्)
शब्दस्पर्शरूपरसगन्धानाम्।
(सामान्यप्रतिपत्तिभाष्यम्)
सर्वाश्च पुनर्मूर्तय एवमात्मिकाः--संस्त्यानप्रसवगुणाः, शब्दस्पर्शरूपरसगन्धवत्यः।।
यत्राल्पीयांसो गुणास्तत्रावरतस्त्रयः--शब्दः, स्पर्शः, रूपमिति।।
रसगन्धौ न सर्वत्र।।
(सर्वपदार्थेषु लिङ्गबोधकभाष्यम्)
प्रवृत्तिः खल्वपि नित्या। न हीह कश्चिदपि स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते, वर्द्धते वा यावदनेन वर्द्धितव्यम्, अपायेन वा युज्यते।।
तच्चोभयं सर्वत्र।।
(आक्षेपभाष्यम्)
यद्युभयं सर्वत्र,
कुतो व्यवस्था?
(समाधनभाष्यम्)
विवक्षातः।
संस्त्यानविवक्षायां स्त्री, प्रसविवक्षायां पुमान्, उभयविवक्षायां नपुंसकम्।।
(दोषपरिहारभाष्यम्)
तस्योक्तौ लोकतो नाम
तस्योक्तौ वचने लोकतो नामैतद्भवति--स्त्री, पुमान्, नपुंसकमिति।।
(इर्दृशलिङ्गाश्रयणे लाघवबोधकभाष्यम्)
गुणो वा लुपि युक्तवत्।।
वर्ध्रिकादिषु भूयान् परिहारः।
लुपि युक्तवद्व्यक्तिवचने (1।2।51) इत्येवमत्रगुणो भवति।।
(प्रमाणप्रदर्शकभाष्यम्)
न चैतन्मन्तव्यं स्वमनीषिकयोच्यत इति।
पठिष्यति ह्याचार्यः--लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति।
पुन पठिष्यति--एकार्थे शब्दान्यत्वात् दृष्टं लिङ्गान्यत्वम्, अवयवान्यत्वाच्च, इति।।
संस्त्याने स्त्यायतेर्ड्रट् स्त्री
सूतेः सप् प्रसवे पुमान्।
तस्योक्तौ लोकतो नाम
गुणो वा लुपि युक्तवत्।।
(स्त्रियाम् पदान्वयाधिकरणम्)
(आक्षेपभाष्यम्)
कथं पुनरिदं विज्ञायते--स्त्रियामभिधेयायां टाबादयो भवन्तीति। आहोस्वित् स्त्रीसमानाधिकरणात्प्रातिपदिकादिति।।
कश्चात्र विशेषः?
(5115 आक्षेपवार्तिकम्।। 1 ।।)
- स्त्रियामिति स्त्र्यर्थाभिधाने चेट्टाबादयो द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः -
(भाष्यम्) स्त्रियामिति स्त्र्यर्थाभिधाने चेट्टाबादयो भवन्ति, द्विवचनबहुवचनयोरनुपपत्तिः--कुमार्यौ, कुमार्यः, किशोर्यौ, किशोर्यः।।
किं कारणम्?
एकत्वात् स्त्रीत्वस्य। एकोऽयमर्थः स्त्रीत्वं नाम। तस्यैकत्वादेकवचनमेव प्राप्नोति।।
(द्वितीयदोषप्रदर्शकभाष्यम्)
अनेकप्रत्ययानुपपत्तिश्च।
अनेकश्च प्रत्ययो नोपपद्यते--गार्ग्यायणी, कारीषगन्ध्या, कालितरा, इति।
किं कारणम्?
एकत्वात् स्त्रीत्वस्य। एकोऽयमर्थः स्त्रीत्वं नामतस्यैकेनोक्तत्वाद् द्वितीयस्य प्रयोगेण न भवितव्यम्।
किं कारणम्?
उक्तार्थानामप्रयोग इति।।
(5116 आक्षेपवार्तिकम्।। 2 ।।)
- स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियामिति लिङ्गानुपपत्तिः -
(भाष्यम्) स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियामिति--इर्कारो न प्राप्नोति।।
(पक्षान्तरोपपादकभाष्यम्)
अस्तु तर्हि स्त्रीसमानाधिकरणात्प्रातिपदिकादिति।।
(5117 आक्षेपवार्तिकम्।। 3 ।।)
- स्त्रीसमानाधिकरणादिति चेद् भूतादिष्वतिप्रसङ्गः -
(भाष्यम्) स्त्रीसमानाधिवारणादिति चेद् भूतादिष्वतिप्रसङ्गो भवति--भूतमियं ब्राह्मणी, कारणमियं ब्राह्मणी, आवपनमियमुष्ट्रिकेति।।
(प्रथमपक्षसमर्थकभाष्यम्)
स्त्र्यर्थाभिधाने पुनष्टाबादिषु सत्सु, इह तावद्-भूतमियं ब्राह्मणीति, नात्र स्त्रीत्वं विवक्षितम्। किं तर्हि? पौतन्यम्।।
कारणमियं ब्राह्मणीति, नात्र स्त्रीत्वं विवक्षितम्। किं तर्हि? प्राधान्यम्।।
आवपनमियमुष्ट्रिकेति, नात्र स्त्रीत्वं विवक्षितम्। किं तर्हि? संभवनम्।।
(5118 आक्षेपवार्तिकम्।। 4 ।।)
- षट्संज्ञकेभ्यश्च प्रतिषेधः -
(भाष्यम्) षट्संज्ञकेभ्यश्च प्रतिषेधो वक्तव्यः। पञ्ञ्च ब्राह्मण्यः, दश ब्राह्मण्यः।।
(प्रथमपक्षसमर्थकभाष्यम्)
स्त्र्यर्थाभिधाने पुनष्टाबादिषु सत्सु, नात्र स्त्रीत्वं विवक्षितम्। किं तर्हि? भेदो विवक्षितः संख्या।।
(दोषप्रतिपादकभाष्यम्)
इह च स्त्री इर्कारो न प्राप्नोति। न हि तेनैव तस्य सामानाधिकरण्यमस्ति।।
(5119 सिद्धान्तवार्तिकम्।। 5 ।।)
- सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः -
(भाष्यम्) सिद्धमेतत्।
कथम्?
स्त्रियाः प्रातिपदिकविशेषणत्वात्। प्रातिपदिकविशेषणं स्त्रीग्रहणम्, स्वार्थिकाष्टाबादयः।
नैवं विज्ञायते स्त्रियामभिधेयायामिति।
नापि स्त्रीसमानाधिकरणादिति।
कथं तर्हि?
स्त्रियां यत् प्रातिपदिकं वर्तते तस्माट्टाबादयो भवन्ति। कस्मिन्नर्थे? स्वार्थ इति।।
(पूर्वपक्षोपपादकभाष्यम्)
अथ वा पुनरस्तु स्त्रियामभिधेयायामिति।
ननु चोक्तं स्त्रियामिति स्त्र्यर्थाभिधाने चेट्टाबादयो द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः, स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियामिति लिङ्गानुपपत्तिरिति।।
(प्रथमपक्षोक्तदोषपरिहारभाष्यम्)
नैष दोषः।।
यत्तावदुच्यते द्विवचनबहुवचनयोरनुपपत्तिरिति।।
(5120 पूर्वपक्षोक्तदोषोद्धारकवार्तिकम्।। 6 ।।)
- गुणवचनस्य चाश्रयतो लिङ्गवचनभावात् -
(भाष्यम्) गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति। तद्यथा--शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला इति।
यदसौ द्रव्यं श्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च तद् गुणस्यापि भवति। एवमिहापि यददो द्रव्यं श्रितं भवति स्त्रीत्वं गुणः, तस्य यल्लिङ्गं वचनं च तत् स्त्रीत्वस्यापि भविष्यति।।
(पूर्वपक्षोक्तदोषाक्षेपरभाष्यम्)
यदप्युच्यते अनेकप्रत्ययानुपपत्तिरिति।।
(5121 पूर्वपक्षोक्तदोषोद्धारकवार्तिकम्।। 7 ।।)
- भावस्य च भावयुक्तत्वात् -
(भाष्यम्) भावो भावेन युज्यते। तद्यथा--इषिरिषिणा, निमन्त्रिश्च निमन्त्रिणा।।
(दृष्टान्तविघटकभाष्यम्)
विषम उपन्यासः। युक्तं तत्रान्यत्वं साधनभेदात्, कालभेदाच्च।
युक्तं तत्रैकस्य बाह्यं साधनम्, सर्वकालश्च प्रत्ययः।
अपरस्याभ्यन्तरं साधनम्, वर्तमानकालश्च प्रत्यय इति।
इह पुनरेकं स्त्रीत्वम्।।
(समानप्रतिपत्तिभाष्यम्)
अथैकमप्युपलभ्यते।
किं चातः?
यद्येकमुपलभ्यते द्वितीयमप्युपलभ्यताम्।
अथैकमप्यनुमानगम्यं द्वितीयमप्यनुमानाद्गम्यताम्।।
(समाधानान्तरप्रतिपादकभाष्यम्)
कस्य तावद्भवानेकं गुणं न्याय्यं मन्यते स्त्रीत्वं नाम?
द्रव्यस्य।।
द्रव्ये च भवतः कः संप्रत्ययः?
(द्रव्यलक्षणभाष्यम्)
यदि तावद् गुणसमुदायो द्रव्यम्।।
(द्रव्यलक्षणखण्डनभाष्यम्)
का गतिर्य एते भावाः कृदभिहितास्तद्धिताभिहिताश्च--चिकीर्षा, गोतेति।।
(द्रव्यलक्षणसाधकभाष्यम्)
अथ मतमेतत् कृदभिहितो भावो द्रव्यवद्भवति इति स्त्रीत्वमपि स्त्रीत्वेनाभिहितं द्रव्यवद्भविष्यति।।
(आक्षेपभाष्यम्)
क्व च तावद् दोषः स्यात्?
दृष्टस्य हि दोषस्य सुसुखः परिहारः--गार्ग्यायणी, कारीषगन्ध्या, कालितरेति।।
(दोषोद्धारकभाष्यम्)
इह तावद्-गार्ग्यायणीति। षित्करणसार्मथ्यान्ङीष् भविष्यित।।
कारीषगन्ध्येति। वचनाच्चाब्भविष्यति।।
कालितरेति। न यावत्काली तावत्कालितरेति।
किं तर्हि?
प्रकृष्टा काली कालितरा। यत्तच्छब्दरूपं प्रकर्षे वर्तते तस्यानुक्तं स्त्रीत्वमिति कृत्वा टाब्भविष्यति।।
(आक्षेपभाष्यम्)
यदप्युच्यते--इह च स्त्री इतीकारो न प्राप्नोतीति।।
निपातनादेतत् सिद्धम्।
किं निपातनम्?
स्त्रियामवन्तिकुन्तिकुरुभ्यश्च (4।1।176) इति।।
(5122 आक्षेपवार्तिकम्।। 8 ।।)
- स्त्रीविषये ङ्यापोरप्रसिद्धिरकारान्तादर्शनात् -
(भाष्यम्) स्त्रीविषये ङ्यापोरप्रसिद्धिः। खट्वा, माला।
किं कारणम्?
अकारान्तादर्शनात्। न ह्यकारान्तता दृश्यते।
ननु चेयं दृश्यते--अतिखट्वः, अतिमाल इति।
नैषाऽकारान्तता। आप एवैतद् ह्रस्वत्वम्।।
(5123 समाधानवार्तिकम्।। 9 ।।)
- सर्वेषां तु स्वरवर्णानुपूर्वीज्ञानार्थ उपदेशः -
(भाष्यम्) सर्वेषामेव तु प्रातिपदिकानां स्वरवर्णानुपूर्वीज्ञानार्थ उपदेशः कर्तव्यः--
शशः, षष इति मा भूत्।
पलाशः, पलाष इति मा भूत्।
मञ्ञ्चकः, मञ्ञ्जक इति मा भूत्।।
(5124 सिद्धान्तवार्तिकम्।। 10 ।।)
- तस्मात्सिद्धम् -
(भाष्यम्) तस्मासिद्धमेतद्भवति।।
अथ वा इयमकारान्तता दृश्यते--पञ्ञ्चभिः खट्वाभिः क्रीतः पटः पञ्ञ्चखट्वः, दशखट्वः।।
?B-4-1-4- अजाद्यतष्टाप् (1278)
(5125 विधिवार्तिकम्।। 1 ।।)
- शूद्रा चामहत्पूर्वा -
(भाष्यम्) शूद्रा चामहत्पूर्वेति वक्तव्यम्--शूद्रा।।
अमहत्पूर्वेति किमर्थम्?
महाशूद्री।।
(5126 विध्यंशपूरकवार्तिकम्।। 2 ।।)
- जातिः -
(भाष्यम्) जातिरिति वक्तव्यम्। या हि महती शूद्रा महाशूद्रा सा भवति।।
(वार्तिकप्रत्याख्यानभाष्यम्)
शूद्रशब्दोऽजादिषु पठ्यते। तत्र कः प्रसङ्गो यन्महत्पूर्वात्स्यात्?
नैव प्राप्नोति नार्थः प्रतिषेधेन।।
तदन्तविधिना प्राप्नोति।।
ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते।।
(समाधानभाष्यम्)
एवं तर्हि ज्ञापयत्याचार्यः--भवतीह तदन्तविधिरिति।
किमेतस्य ज्ञापने प्रयोजनम्?
भवती, अतिभवती, महती, अतिमहती, अत्र तदन्तविधिः सिद्धो भवति।।
जातिरिति च वक्ष्यामीति।।
(समाधानाक्षेपभाष्यम्)
यद्येतज्ज्ञाप्यते--पञ्ञ्चाजी, दशाजी, अत्रापि प्राप्नोति।।
(आक्षेपखण्डनभाष्यम्)
नैष दोषः।।
अजादिभिरत्र स्त्रियं विशेषयिष्यामः--अजादीनां या स्त्रीति।।
-4-1-6- उगितश्च (1280)
(तदन्तविध्यभावे दोषप्रतिपादकं भाष्यम्)
कथमिदं विज्ञायते--
उगितः प्रातिपदिकादिति,
आहो स्विदुगिदन्तात्प्रातिपदिकादिति?
किं चातः?
यदि विज्ञायते उगितः प्रातिपदिकादिति,
सिद्धम्--भवती, महतीति।
अतिभवती, अतिमहतीति न सिध्यति।।
तदन्तविधिना भविष्यति।
ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते।।
(तदन्तविधौ दोषाधायकभाष्यम्)
अथ विज्ञायते उगिदन्तात्प्रातिपदिकादिति,
सिद्धम्--अतिभवती, अतिमहतीति।।
भवती, महतीति न सिध्यति।
व्यपदेशिवद्भावेनेह भविष्यति।
व्यपदेशिवद्भावोऽप्रातिपदिकेन।।
(पक्षद्वये दोषप्रतिपादकभाष्यम्)
उभयथा चं निर्गोमती, निर्यवमतीति न सिध्यति।।
किं कारणम्?
प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति।।
(प्रथमपक्षे दोषाभावोपपादकभाष्यम्)
यथेच्छसि तथास्तु।।
अस्तु तावदुगितः प्रातिपदिकादिति।।
कथम्--अतिभवती, अतिमहतीति? तदन्तविधिना भविष्यति।।
ननु चोक्तं ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यत इति।
नैतत्प्रातिपदिकग्रहणम्। प्रातिपदिकाप्रातिपदिकयोरेतद् ग्रहणम्।।
(द्वितीयपक्षे दोषाभावोपपादकभाष्यम्)
अथ वा पुनरस्तु--उगिदन्तात्प्रातिपदिकादिति।।
कथं--भवती, महतीति?
व्यपदेशिवद्भावेन भविष्यति।।
ननु चोक्तं व्यपदेशिवद्भावोऽप्रातिपदिकेनेति।
नैतत्प्रातिपदिकग्रहणम्। प्रातिपदिकाप्रातिपदिकयोरेतद् ग्रहणम्।।
(पक्षद्वये दोषाभावोपपादकभाष्यम्)
यदप्युच्यते--उभयथा निर्गौमती, निर्यवमतीति न सिध्यतीति।
किं कारणम्?
प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति।।
नैतत्प्रत्ययग्रहणम्। प्रत्ययाप्रत्यययोरेतद् ग्रहणम्।।
कथम्?
वर्णोप्युगित्, प्रत्ययोप्युगित्, प्रातिपदिकमप्युगित्।।
(5127 पूर्वपक्षवार्तिकम्।। 1 ।।)
- धातोरुगितः प्रतिषेधः -
(भाष्यम्) धातोरुगितः प्रतिषेधो वक्तव्यः। उखास्रद् ब्राह्मणी, पर्णध्वद् ब्राह्मणी।।
(5128 पूर्वपक्षवार्तिकम्।। 2 ।।)
- अञ्ञ्चतेश्चोपसंख्यानम् -
(भाष्यम्) अञ्ञ्चतेश्चोपसंख्यानं कर्तव्यम्। प्राची, प्रतीची।।
(5129 सिद्धान्तवार्तिकम्।। 3 ।।)
- उगित्यञ्ञ्चतिग्रहणात्सिद्धमधातोः -
(भाष्यम्) उगिति अञ्ञ्चतिग्रहणादधातोः सिद्धम्।।
अञ्ञ्चतिग्रहणं नियमार्थं भविष्यति। अञ्ञ्चतेरेवोगितो धातोर्नान्यस्योगितो धातोरिति।।
-4-1-7- वनो र च (1281)
(अतिव्याप्तिपरिहारभाष्यम्)
इह कस्मान्न भवति--निःशुनी, अतियूनीति?
अर्थवद्ग्रहणे नानर्थकस्येति।
एवमपि मघोनी--अत्र प्राप्नोति।
मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिकम्।।
(5130 सिद्धान्तपूरकवार्तिकम्।। 1 ।।)
- वनो न हशः -
(भाष्यम्) वनो र चेत्यत्र हशन्तान्न भवतीति वक्तव्यम्। इह मा भूत्--सहयुध्वा ब्राह्मणीति।।
यदि न हश इत्युच्यते--शर्वरीति न सिध्यति।
विहितविशेषणं हश्ग्रहणम्--हशन्ताद्यो विहित इति।
एवमपि प्रेर्त्वरीति न सिध्यति।
कथं चात्र तुगागमः? छान्दसत्वात्। ङीब्रावपि तर्हि छान्दसत्वादेव भविष्यतः।।
बहुलं छन्दसि ङीब्रौ वक्तव्यौ--यज्वरीरिषः। यज्वनीरिषः।।
(5131 पूर्वपक्षवार्तिकम्।। 2 ।।)
- रविधाने बहुव्रीहेरुपसंख्यानं प्रतिषिद्धत्वात् -
(भाष्यम्) रविधाने बहुव्रीहेरुपसंख्यानं कर्तव्यम्--बहुधीवरी, बहुपीवरी।।
किं पुनः कारणं न सिध्यति?
प्रतिषिद्धत्वात्। अनो बहुव्रीहेः (4।1।12) इति प्रतिषेधः प्राप्नोति।।
(5232 पूर्वपक्षायसमाधानवार्तिकम्।। 3 ।।)
- अनो बहुव्रीहिप्रतिषेधे वोपधालोपिनो वावचनम् -
(भाष्यम्) अनो बहुव्रीहिप्रतिषेधे वोपधालोपिनो वेति वक्तव्यम्।।
(समाधानाक्षेपभाष्यम्)
अन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहारः।
यथोपसंख्यानं चोदितं तथा नित्याभ्यां ङीब्राभ्यां भवितव्यम्।
यथा परिहारः, तथा विभाषया भवितव्यम्।।
(सिद्धान्तभाष्यम्)
यथोपसंख्यानं चोदितमेवमपि विभाषया भवितव्यम्, न ह्यत्र ङीब् दुर्लभः। सिद्धोऽत्र ङीप्--अन उपधालोपिनोन्यतरस्याम् (4।1।28) इति। ङीप्संनियोगेन र उच्यमानोऽन्येन सति न स्यादित्येवमर्थमुपसंख्यानं चोद्यते।।
(सिद्धान्ताक्षेपभाष्यम्)
किं पुनः कारणं ङीप्संनियोगेन र उच्यते?
इह मा भूत्--सुपर्वा, चारुपर्वेति।
तत्तर्ह्युपसंख्यानं कर्तव्यम्?
न कर्तव्यम्।।
(सिद्धान्तभाष्यम्)
वक्ष्यति--डाबुभाभ्यामन्यतरस्यामित्यत्रान्यतरस्यां ग्रहणस्य प्रयोजनं डाप्प्रतिषेधाभ्यां मुक्ते ङीब्रावपियथा स्यातामिति।।
-4-1-10- न षटूस्वस्रादिभ्यः(1284)
(निषेधाधिकरणम्)
(विषयोपन्यासभाष्यम्)
कस्यायं प्रतिषेधः?
ङीबनन्तरस्य प्रतिषेधः।।
(टाबांपत्तिवारकभाष्यम्)
अथेदानीं ङीपि प्रतिषिद्धे--
षट्संज्ञानामन्ते लुप्ते टाबुत्पत्तिः
कस्मान्न स्यात्?
अत इति प्राप्नोति।
असिद्धो नलोपस्तस्यासिद्धत्वान्न भविष्यति।
परिगणितेषु कार्येषु नलोपोऽसिद्धः। न चेदं तत्र परिगण्यते।।
इदमपि तत्र परिगण्यते।
कथं?
प्रत्याहाराच्चापा सिद्धम्
सुबिति नेदं प्रत्ययग्रहणम्।
किं तर्हि?
प्रत्याहारग्रहणम्।
क्व संनिविष्टानां प्रत्याहारः? प्रथमैकवचनात्प्रभृत्या चापः पकारात्।
(आपत्त्युद्भावकभाष्यम्)
यदि प्रत्याहारग्रहणम्--
दोषस्त्वित्वे
इत्त्वे दोषो भवति--बहुचर्मिका, बहुवर्मिका। प्रत्ययस्थात्कात्पूर्वस्यात (7।3।44) इति--इत्वं न प्राप्नोति।।
(सिद्धान्तभाष्यम्)
तस्मान्नोभौ।।
तस्मात् षड्संज्ञकेभ्य उभौ न भवत इति वक्तव्यम्।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्।
स्त्रियाम् (4।1।3) इति वर्तते, स्त्रियां यत्प्राप्नोति तस्य प्रतिषेधः।।
षट्संज्ञानामन्ते लुप्ते
टाबुत्पत्तिः कस्मान्न स्यात्।
प्रत्याहाराच्चापा सिद्धं
दोषस्त्वित्वे तस्मान्नोभौ।।
-4-1-13- बुभाभ्यामन्यतरस्याम् (1287)
(विकल्पाधिकरणम्)
(सूत्रैकदेशाक्षेपभाष्यम्)
किमर्थमुभाभ्यामित्युच्यते?
(समाधानभाष्यम्)
उभाभ्यां योगाभ्यां डाब्यथा स्यात्। मन्नन्तादन्नन्ताच्च बहुव्रीहेः।।
(सिद्धान्तभाष्यम्)
नैतदस्ति प्रयोजनम्। प्रकृतमुभयमनुवर्तते।।
(आक्षेपभाष्यम्)
अथान्यतरस्यां ग्रहणं किमर्थम्?
(समाधानभाष्यम्)
अन्यतरस्यां डाब्यथा स्यात्। डापामुक्ते प्रतिषेधोऽपि यथा स्यादिति।।
(समाधानाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम्। इह डाबुच्यते, प्रतिषेधोऽपि। तावुभावपि वचनाद्भविष्यतः।।
(समाधानभाष्यम्)
इदं तर्हि प्रयोजनम्--
डाप्प्रतिषेधाभ्यां मुक्ते ङीबपि यथा स्यात्।।
(प्रत्याक्षेपभाष्यम्)
सिद्धोऽत्र ङीप्-अन उपधालोपिनोऽन्यतरस्याम् (4।1।28) इति।।
(सूत्रान्तरैकदेशाक्षेपभाष्यम्)
अथ तदन्यतरस्यां ग्रहणं शक्यमकर्तुम्?
बाढं शक्यम्।।
कथम्?
इह डाबप्युच्यते, प्रतिषेधोऽपि, ङीबपि। तत्सर्वं वचनाद्भविष्यति।।
(आक्षेपनिरासभाष्यम्)
नैवं शक्यं विज्ञातुम्। अक्रियमाणे हि तत्रान्यतरस्यां ग्रहणेऽनवकाशो ङीब् डाप्प्रतिषेधौ बाधेत।।
(प्रत्याक्षेपभाष्यम्)
डाप्प्रतिषेधावप्यनवकाशौ तौ वचनाद्भविष्यतः।।
(समाधानभाष्यम्)
सावकाशौ डाप्प्रतिषेधौ। कोऽवकाशः?
सुपर्वा, चारुपर्वेति।
तस्मादन्यतरस्यां ग्रहणं कर्तव्यम्।।
(आक्षेपभाष्यम्)
इदं तु खल्वन्यतरस्यां ग्रहणं शक्यमकर्त्तुम्।।
(समाधानभाष्यम्)
इदमप्यवश्यं कर्तव्यम्।।
किं प्रयोजनम्?
डाप्प्रतिषेधाभ्यां मुक्ते ङीब्रावपि यथा स्यातामिति। रविधाने बहुव्रीहेरुपसंख्यानं चोदितं तन्न वक्तव्यं भवति।।
(जिज्ञासाभाष्यम्)
अथेह कथं भवितव्यं--
बहवः श्वानोऽस्यां रथ्यायाम्, बहवो युवानोऽस्यां शालांयामिति?
(रूपाक्षेपभाष्यम्)
बहूशूका, बहुयूका इति भवितव्यम्।।
का रूपसिद्धिः--डाप्, टिलोपः, प्रसारणम्, प्रसारणपरपूर्वत्वम्, नद्यृतश्चेति कप्।।
(सिद्धान्तभाष्यम्)
कपा तावन्न भवितव्यम्।।
किं कारणम्?
नद्यन्तानां यो बहुव्रीहिरित्येवं तद्विज्ञायते, न चैष नद्यन्तानां बहुव्रीहिः।।
प्रसारणेनापि न भवितव्यम्।
वक्ष्यत्येतत्--श्वादीनां प्रसारणे नकारान्तग्रहणमनकारान्तप्रतिषेधार्थमिति।।
परपूर्वत्वेन चापि न भवितव्यम्।
वक्ष्यत्येतत्--संप्रसारणपूर्वत्वे समानाङ्गग्रहणमसमानाङ्गप्रतिषेधार्थमिति।।
तस्माद्बहुश्वा, बहुयुवेति भवितव्यमिति।।
-4-1-14- अनुपसर्जनात् (1288)
(तदन्तविधिज्ञापनाधिकरणम्)
(आक्षेपभाष्यम्)
अनुपसर्जनादिति किमर्थम्?
(प्रयोजनभाष्यम्)
बहुकुरुचरा मथुरा, प्रियकुरुचरा मथुरा।
(प्रत्याक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम्। कुरुचरशब्दात्प्रत्ययो विधीयते। तत्र कः प्रसङ्गो यद्वहुकुरुचरशब्दात्स्यात्?
नैव प्राप्नोति--नार्थः प्रतिषेधेन।।
(समाधानभाष्यम्)
तदन्तविधिना प्राप्नोति।।
अत उत्तरं पठति--
(5133 पूर्वपक्षवार्तिकम्।। 1 ।।)
- अनुपसर्जनग्रहणमनर्थकं प्रातिपदिकेन तदन्तविधिप्रतिषेधात् -
(भाष्यम्) अनुपसर्जनग्रहणमनर्थकम्।।
किं कारणम्?
प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते।।
(5134 सिद्धान्तवार्तिकम्।। 2 ।।)
- ज्ञापकं तु पूर्वत्र तदन्ताप्रतिषेधस्य -
(भाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः--पूर्वत्र तदन्तविधिप्रतिषेधो न भवतीति।।
(ज्ञापनप्रयोजनभाष्यम्)
किमेतस्य ज्ञापने प्रयोजनम्?
भवती, अतिभवती, महती, अतिमहतीत्यत्र तदन्तविधिः सिद्धो भवति।।
नैतदस्ति प्रयोजनम्। उक्तमेतत्--वर्णोप्युगित्, प्रत्ययोऽप्युगित्, प्रातिपदिकमप्युगिदिति।।
(ज्ञापनप्रयोजनभाष्यम्)
इदं तर्हि--बहुधीवरी, बहुपीवरीति।।
एतदपि नास्ति प्रयोजनम्। अत्राप्युक्तम्--रविधाने बहुव्रीहेरुपसंख्यानं प्रतिषिद्धत्वात् इति।।
(ज्ञापनप्रयोजनभाष्यम्)
इदं तर्हि--अतिधीवरी, अति पीवरी।।
(5135 उपसर्जनपदार्थबोधकवार्तिकम्।। 3 ।।)
- पूर्वसूत्रनिर्देशो वाऽऽपिशलमधीत इति -
(भाष्यम्) पूर्वसूत्रनिर्देशो वा पुनरयं द्रष्टव्यः। पूर्वसूत्रेऽप्रधानस्योपसर्जनमिति संज्ञा क्रियते। यावद् ब्रूयात्प्रधानादुत्पत्तव्यमप्रधानान्नेति, तावदनुपसर्जनादिति।।
किं प्रयोजनम्?
आपिशलमधीते ब्राह्मणी--आपिशला ब्राह्मणी। अणन्तादितीकारो मा भूदिति।।
(अन्वयबोधकभाष्यम्)
अथानुपसर्जनादित्युच्यमाने कस्मादेवात्र न भवति?
अणन्तं ह्येतदनुपसर्जनम्। नानुपसर्जग्रहणेनाणन्तं विशेष्यते--अणन्तादनुपसर्जनादिति।।
किं तर्हि? अणेव विशेष्यते। अण्योऽनुपसर्जनमिति।।
(5136 अनुपसर्जनस्य गृह्यमाणविशेषणत्वे दोषवार्तिकम्।। 4 ।।)
- जातिशब्देभ्यस्त्वतिप्रसङ्गः -
(भाष्यम्) जातिशब्देभ्यस्त्वतिप्रसङ्गो भवति--अवन्ती, कुन्ती, गान्धारी।।
(5137 दोषाभावोपपादकवार्तिकम्।। 5 ।।)
- सिद्धं तु जातेरनुपसर्जनत्वात् -
(भाष्यम्) सिद्धमेतत्।
कथम्? अनुपसर्जनादित्युच्यते। न च जातिरुपसर्जनम्।।
(वार्तिकान्यथासिद्धिभाष्यम्)
एतदपि नास्ति प्रयोजनम्। स्त्रियामिति वर्तते। तेनाणं विशेषयिष्यामः--स्त्रियां योऽण्विहित इति।।
(अभ्युपेत्यवादेन दोषभाष्यम्)
एवमपि काशकृत्स्निना प्रोक्ता मीमांसा--काशकृत्स्नी, काशकृत्स्नीमधीते--काशकृत्स्ना ब्राह्मणी, अत्र प्राप्नोति।।
(दोषाभावोपपादकभाष्यम्)
नैष दोषः। अध्येत्र्यामभिधेयायामण इर्कारेण भवितव्यम्। यश्चात्राध्येत्र्यामभिधेयायामणुक्तः, लुप्तः सः।
यश्च श्रूयते, उत्पन्नस्तस्मादीकार इति कृत्वा पुनर्न भविष्यति।।
(सूत्रप्रयोजनभाष्यम्)
इदं तर्हि प्रयोजनम्--
प्रधानेन तदन्तविधिर्यथा स्यात्--कुम्भकारी, नगरकारी।
अत्र हि प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति--अवयवादुत्पत्तिः प्राप्नोति।
(प्रयोजनाक्षेपभाष्यम्)
कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति--संघातादुत्पत्तिर्भविष्यति।
(प्रत्याक्षेपभाष्यम्)
कृद्ग्रहण इत्युच्यते, न चैतत्कृद्ग्रहणम्।
कृदकृद्ग्रहणमेतत्--कृदप्ययमण्, तद्धितोऽपि।।
(सूत्रानुपयोगप्रदर्शकभाष्यम्)
एवं तर्हि--इर्कारान्तेन समासो भविष्यति।
(सूत्रोपयोगप्रदर्शकभाष्यम्)
यद्येवं लभ्येत, कृतं स्यात्। तत्तु न लभ्यते।
किं कारणम्? अत्र हि गतिकारकोपपदानां कृदि्भः सह समासो भवतीति समास एव तावद्भवति। समासे च कृते, अवयवादुत्पत्तिः प्राप्नोति।।
अवयवादुत्पत्तौ सत्यां को दोषः?
कौम्भकारेयो न सिद्धयति--अवयवस्य वृद्धिस्वरौ स्याताम्।
तस्मादनुपसर्जनाधिकारः।।
(5138 पूर्वपक्षवार्तिकम्।। 6 ।।)
- अनुपसर्जनाधिकारे जातेर्ङीष्विधाने सुर्पण्या उपसंख्यानम् -
(भाष्यम्) अनुपसर्जनाधिकारे जातेर्ङीष्विधाने सुर्पण्या उपसंख्यानं कर्तव्यम्--सुपर्णी।।
(5139 सिद्धान्तवार्तिकम्।। 7 ।।)
- न वा समासस्यानुपसर्जनत्वाज्जातिवाचकत्वाच्च शब्दस्य सामान्येन ङीष्विधानम् -
(भाष्यम्) न वा एष दोषः।
किं कारणम्? समासस्यानुपसर्जनत्वात्। समासोऽत्रानुपसर्जनम्। स च जातिवाचकः। समासस्यानुपसर्जनत्वात्तस्य च जातिवाचकत्वाच्छब्दस्य सामान्येन ङीष् भविष्यति--जातेरस्त्रीविषयादयोपधात् (4।1।63) इति।।
(वार्तिकोपसंहारभाष्यम्)
कथं कृत्वा चोदितम्? कथं कृत्वा परिहारः?
बहुव्रीहिरिति कृत्वा चोदितम्।
तत्पुरुष इति कृत्वा परिहारः।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थाध्यायस्य प्रथमे पादे प्रथममाह्निकम्।।
-4-1-15- टिड्ढाणञ्ञ्द्वयसज्दघ्नञ्ञ्मात्रच्तयप्ठक्ठञ्ञ्कञ्ञ्क्वरपः (1289)
(ङीबधिकरणम्)
(5140 पूर्वपक्षवार्तिकम्।। 1 ।।)
- ढग्रहणे सानुबन्धकस्योपसंख्यानम् -
(भाष्यम्) ढग्रहणे सानुबन्धकस्योपसंख्यानं कर्तव्यम्--कारिकेयी, हारिकेयी।।
किं पुनः कारणं न सिद्ध्यति?
(5141 पूर्वपक्षसाधकवार्तिकम्।। 2 ।।)
- अननुबन्धकग्रहणे हि न सानुबन्धकस्य -
(भाष्यम्) अननुबन्धकग्रहणे हि न सानुबन्धकस्य ग्रहणं भवति इत्येषा परिभाषा कर्तव्या।
कान्येतस्याः परिभाषायाः प्रयोजनानि?
तव्यग्रहणे तव्यद्ग्रहणं मा भूत्।
दिव्ग्रहणे दिवुग्रहणं मा भूत्।।
(परिभाषाक्षेपभाष्यम्)
ननु चेयमपि कर्तव्या--तदनुबन्धकग्रहणेऽतदनुबन्धकग्रहणं न इति।
कान्येतस्याः परिभाषायाः प्रयोजनानि?
यत् ग्रहणे ण्यत् ग्रहणं मा भूत्।
अङ् ग्रहणे चङ् ग्रहणं मा भूत्
अच् ग्रहणे णच् ग्रहणं मा भूत्।।
(परिभाषाज्ञापकभाष्यम्)
ते द्वे एते परिभाषे कर्तव्ये?
न कर्तव्ये।
आचार्यप्रवृत्तिर्ज्ञापयति भवत एते परिभाषे इति यदयं वामदेवाद् ङ्यड्ड्यौ (4।2।9) इति ययतौ डितौ करोति।।
(प्रथमवार्तिकप्रत्याख्यानभाष्यम्)
तत्तर्ह्युपसंख्यानं कर्तव्यम्?
न कर्तव्यम्।
अननुबन्धको ढशब्दः स्त्रियां नास्तीति कृत्वा सानुबन्धकस्य ग्रहणं विज्ञास्यते।
ननु चायमस्ति शिलाया ढः (5।3।102) इति। नैष स्त्रियां वर्तते।
अयं तर्हि सभाया यः (4।4।105) ढश्छन्दसि (4।4।106) इति। एषोऽपि न स्त्रियां वर्तते।।
किं कारणम्? तत्र साधुरिति वर्तते। कथं च स्त्री नाम सभायां साध्वी स्यात्?
(5142 पूर्वपक्षवार्तिकम्।। 3 ।।)
- अञ्ञ्ग्रहणमनर्थकं तदन्ताद्धि ङीन्विधानम् -
(भाष्यम्) अञ्ञ्ग्रहणमनर्थकम्। किं कारणम्? तदन्ताद्धि ङीन्विधानम्--तदन्ताद्ध्यञ्ञन्ताद् ङीन् विधीयते--शार्ङ्गरवाद्यञ्ञो ङीन् (4।1।73) इति।।
न चास्ति विशेषः--अञ्ञन्ताद् ङीपो वा ङीनो वा, तदेव रूपं स एव स्वरः।।
(5143 समाधानवार्तिकम्।। 4 ।।)
- न वा जात्यधिकारात् -
(भाष्यम्) न वाऽनर्थकम्। किं कारणम्?
जात्यधिकारात्। जातेरिति तत्रानुवर्तते। अजात्यर्थोऽयमारम्भः--औदपानी, औत्सी।।
तच्चावश्यं जातिग्रहणमनुर्वत्यम्।।
(5144 सिद्धान्तसाधकवार्तिकम्।। 5 ।।)
- अनधिकारे हि पुंयोगादाख्यायां ङीन्प्रसङ्गः -
(भाष्यम्) अननुवर्तमाने हि जातिग्रहणे पुंयोगादाख्यायां ङीन्प्रसज्येत--बैदस्य स्त्री बैदीति।।
(अञ्ञ्ग्रहणद्वयस्य साफल्यबोधकभाष्यम्)
यदि तर्ह्यस्य निबन्धनमस्ति, इदमेव वक्तव्यम्। तन्न वक्तव्यम्।
तदप्यवश्यं वक्तव्यम्। अक्रियमाणे हि तस्मिन् बैदस्य भगिनी--बैदी, परत्वाज्जातिलक्षणो ङीष् ङीपं बाधेत। ङीनि
पुनः सति परत्वाद् ङीन् ङीषं बाधते।।
(5145 सूत्रांशपूरकवार्तिकम्।। 6 ।।)
- ख्युन उपसंख्यानम् -
(भाष्यम्) ख्युन उपसंख्यानं कर्तव्यम्--आढ्यङ्करणी, सुभगङ्करणी।
(सूत्रांशपूरकभाष्यम्)
अल्पमिदमुच्यते ख्युनः इति--
नञ्ञ्स्नञ्ञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम्।
नञ्ञ्स्नञ्ञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानं कर्तव्यम्। नञ्ञ्--स्त्रैणी। स्नञ्ञ्--पौंस्नी। इर्कक्--शाक्तीकी, याष्टीकी। ख्युन्--आढ्यङ्करणी, सुभयङ्करणी। तरुण, तलुन--तरुणी, तलुनी।।
-4-1-16- यञ्ञश्च (1290)
(ङीबधिकरणम्)
(5146 आक्षेपवार्तिकम् ।। 1 ।।)
- आपत्यग्रहणं द्वीपाद्यञ्ञः प्रतिषेधार्थम् -
(भाष्यम्) आपत्यग्रहणं कर्तव्यम्, द्वीपाद्यञ्ञः प्रतिषेधार्थम्।
इह मा भूत्--द्वैप्येति।
तत्तर्हि वक्तव्यम्।।
(समाधानभाष्यम्)
न वक्तव्यम्। नैवं विज्ञायते--कञ्ञ्व्करपो यञ्ञश्चेति।
कथं तर्हि?
कञ्ञ्व्करपोऽयञ्ञश्चेति।।
-4-1-17- प्राचां ष्फ तद्धितः ( 1291)
(तद्धितष्फाधिकरणम्)
(आक्षेपभाष्यम्)
तद्धितवचनं किमर्थम्?
(5146 प्रयोजनवार्तिकम्।। 1 ।।)
- तद्धितवचनं षितः प्रातिपदिकादीकारार्थम् -
(भाष्यम्) तद्धितवचनं क्रियते, षितः प्रातिपदिकादितीकारो यथा स्यात्।।
नैतदस्ति प्रयोजनम्।
षित्करणसार्मथ्यादेवात्र--इर्कारो भविष्यति।
यथैव तर्हि षित्करणसार्मथ्यादप्रातिपदिकादीकारो भवति। एवं प्रातिपदिकादित्यस्यानुवर्तनसार्मथ्यादषितोऽपि प्रातिपदिकादीकारः स्यात्।।
अस्त्यन्यत् प्रातिपदिकादित्यनुवृत्तौ प्रयोजनम्।
किम्?
उत्तरार्थम्। अत इञ्ञ्--दाक्षिः, प्लाक्षिः।।
-4-1-18-सर्वत्र लोहितादिकतन्तेभ्यः (1292)
(सर्वत्र पदकृत्यभाष्यम्)
सर्वत्रग्रहणं किमर्थम्?
प्राचामेव हि स्यात्।
नैतदस्ति प्रयोजनम्, सिद्धं प्राचां पूर्वेण।।
इदं तर्हि प्रयोजनम्। सर्वेषामेव यथा स्यात्--आवट्यायनी, चापं बाधित्वा ष्फो यथा स्यात्।
(5147 सूत्रांशपूरकवार्तिकम्।। 1 ।।)
- लोहितादिषु शाकल्यस्योपसंख्यानम् -
(भाष्यम्) लोहितादिषु शाकल्यस्योपसंख्यानं कर्तव्यम्--शाकल्यायनी।
यदि पुनरयं शकलशब्दो लोहितादिषु पठ्येत।
नैवं शक्यम्।
इह हि शाकल्यस्य च्छात्राः शाकलाः कण्वादिभ्योगोत्रे(4।2।11) इत्यण्न स्यात्।
(गणपाठनिश्चायकभाष्यम्)
एवं तर्हि--
कण्वात्तु शकलः पूर्वः
कण्वशब्दात् शकलशब्दः पूर्वः पठितव्यः।।
कतादुत्तर इष्यते।
कतशब्दात् शकलशब्द उत्तरः पठितव्यः।।
पूर्वोत्तरौ तदन्तादी
पूर्वोत्तरौ गणौ तदन्तादी द्रष्टव्यौ। ये कण्वादयस्ते शकलादयः। ये कतपर्यन्तास्ते शकलपर्यन्ताः।।
किं प्रयोजनम्?
ष्फाणौ तत्र प्रयोजनम्।
तत्रैवं सति प्फाणौ सिद्धौ भवतः।।
कण्वात्तु शकलः पूर्वः
कतादुत्तर इष्यते।
पूर्वोत्तरौ तदन्तादी
ष्फाणौ तत्र प्रयोजनम्।।
-4-1-19- कौरव्यमाण्डूकाभ्यां च (1293)
(5148 सूत्रांशपूरकवार्तिकम्।। 1 ।।)
- कौरव्यमाण्डूकयोरासुरेरुपसंख्यानम् -
(भाष्यम्) कौरव्यमाण्डूकयोरासुरेरुपसंख्यानं कर्तव्यम्--आसुरायणी।
(5149 सूत्रांशपूरकवार्तिकम्।। 2 ।।)
- छश्च -
(भाष्यम्) छश्चेति वक्तव्यम्--आसुरीयः कल्पः।।
-4-1-20- वयसि प्रथमे (1294)
(5150 सूत्रार्थसाधकवार्तिकम्।। 1 ।।)
- वयस्य चरमे -
(भाष्यम) वयस्यचरम इति वक्तव्यम्। इहापि यथा स्यात्--वधूटी, चिरण्टीति।
(अतिव्याप्तिनिरासभाष्यम्)
इह कस्मान्न भवति--उत्तानशया, लोहितपादिका, द्विवर्षा, त्रिवर्षेति।
नैतानि वयोवाचीनि।।
कथं तर्हि वयो गम्यते?
संबन्धाद्।।
(अव्याप्तिनिरासभाष्यम्)
यदि तर्हि यत्र सम्बन्धाद्वयो गम्यते तत्र न भवति-इति-इहापि न प्राप्नोति--कुमारीति।।
अत्रापि हि सम्बन्धाद्वयो गम्यते।
कोऽसौ सम्बन्धः?
योऽसौ पुंसा सहासंप्रयोगः।।
(विवरणभाष्यम्)
सम्बन्धादेवात्र वयो गम्यते।।
इह पुनः सम्बन्धसम्बन्धात्।
इह तावत्--उत्तानशयेति--
यदा कर्तृत्वं विशेषितं भवति तत उत्तरकालं वयो गम्यते।।
लोहितपादिकेति--
यदा बहुव्रीह्यर्थो विशेषितः तत, उत्तरकालवयो गम्यते।।
द्विवर्षा त्रिवर्षेति--
यदा द्विग्वर्थो विशेषितः, तत उत्तरकालं वयो गम्यते।।
(अतिव्याप्तिनिरासभाष्यम्)
यदि तर्हि यत्र सम्बन्धादेव वयो गम्यते तत्र भवति-इति-इहापि प्राप्नोति--कन्येति।
निपातनादेतत्सिद्धम्।।
किं निपातनम्?
कन्यायाः कनीन च (4।1।116) इति।।
-4-1-22- अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (1294)
(निषेधाधिकरणम्)
(योगविभागेन सूत्रांशप्रत्याख्यानभाष्यम्)
इमौ द्वौ प्रतिषेधावुच्येते, तत्रैकः शक्योऽवक्तुम्।
कथम्?
एवं वक्ष्यामि--परिमाणान्तात्तद्धितलुकि ङीब्भवतीति।
तन्नियमार्थं भविष्यति--परिमाणान्तादेव तद्धितलुकि ङीब् भवति, नान्यत इति।।
ततो बिस्ताचितकम्बल्येभ्यो नेति। तद्धितलुकीत्येव।।
-4-1-25- बहुव्रीहेरूधसो ङीष् (1295)
(ङीषधिकरणम्)
(5151 पूर्वपक्षवार्तिकम्।। 1 ।।)
- ःढ़द्य;धसो नकारो लिङ्गाधिकारे -
(भाष्यम्) ःढ़द्य;धसो नकारो लिङ्गाधिकारे वक्तव्यः। इह मा भूत्--महोधाः पर्जन्य इति।।
(5152 सिद्धान्तवार्तिकम्।। 2 ।।)
- न वा समासान्ताधिकारे स्त्रीग्रहणात् -
(भाष्यम्) न वा लिङ्गाधिकारे नकारः कर्तव्यः। किं कारणम्?
समासान्ताधिकारे स्त्रीग्रहणात्--समासान्ताधिकार एव स्त्रीग्रहणं कर्तव्यम्।।
(5153 सिद्धान्तसाधकवार्तिकम्।। 3 ।। )
- इतरथा हि कब्विधिप्रसङ्गः -
(भाष्यम्) इतरथा हि कब्विधिः प्रसज्येत।।
कस्यां पुनरवस्थायां कप्प्राप्नोति?
प्राक् ङीषुत्पत्तेः।।
प्राक्तावन्न प्राप्नोति।
किं कारणम्?
न हि ङीष्विभाषा।।
उत्पन्ने तर्हि ङीषि प्राप्नोति।।
उत्पन्ने चापि न प्राप्नोति।
किं कारणम्?
नद्यन्तानां यो बहुव्रीहिरित्येवं तत्। न चैष नद्यन्तानां बहुव्रीहिः।।
प्रागेव तर्हि प्राप्नोति।
ननु चोक्तं न हि ङीष्विभाषेति।
यद्यपि न ङीष्विभाषा, कप् तु विभाषा।।
कपोऽवकाशः--अन्यो बहुव्रीहिः--अयवकः, अव्रीहिकः।
ङीषोऽवकाशः--विभाषा कब्, यदा न कप् सोऽवकाशः--कुण्डोध्नी, घटोध्नी।
कप्प्रसङ्ग उभयं प्राप्नोति, परत्वात्कप्स्यात्।
(सिद्धान्तभाष्यम्)
तस्मात्सुष्ठूच्यते--न वा समासान्ताधिकारे स्त्रीग्रहणादितरथा हि कब्विधिप्रसङ्ग इति।।
-4-1-27- दामहायनान्ताच्च ( 1296)
(ङीबधिकरणम्)
(5154 पूर्वपक्षवार्तिकम्।। 1 ।।)
- दामहायनान्तात्संख्याऽऽदेः -
(भाष्यम्) दामहायनान्तात्सङ्ख्याऽऽदेरिति वक्तव्यम्।
इह मा भूत्--उद्दामा वडवेति।।
(5155 एकदेशिसमाधानवार्तिकम्।। 2 ।।)
- तत्पुरुषविज्ञानाद्वा सिद्धम् -
(भाष्यम् बहुव्रीहेरिति वर्तते। तत्पुरुषश्चायम्--उत्क्रान्ता दाम्न उद्दामेति।।
भवेत्सिद्धम्--यदा तत्पुरुषः।।
यदा तु खलु बहुव्रीहिस्तदा न सिध्यति--उत्क्रान्तं दाम अस्या इति।
(एकदेश्याक्षेपसमाधानभाष्यम्)
ननु चेतनावत एतद्भवति--उत्क्रमणं वाऽपक्रमणं वा, दाम चाचेतनम्।।
अचेतनेष्वपि चेतनवदुपचारो दृश्यते। तद्यथा--स्रस्तान्यस्या बन्धनानि, स्रस्यन्तेऽस्या बन्धनानीति।।
(सिद्धान्तभाष्यम्)
तत्तर्हि संख्यादेरिति वक्तव्यम्?
न वक्तव्यम्, प्रकृतमनुवर्तते।।
क्व प्रकृतम्?
संख्याऽव्ययादेर्ङीप् (4।1।26) इति।।
यदि तदनुवर्तते, अव्ययादेरपि प्राप्नोति।
नैष दोषः।
संख्यादेरित्यनुवर्तते, अव्ययादेरितिनिवृत्तम्।।
(परिभाषामुखेन सिद्धान्तभाष्यम्)
कथं पुनरेकयोगनिर्दिष्टयोरेकदेशोऽनुवर्तते, एकदेशो न?
एकयोगनिर्दिष्टानामप्येकदेशानुवृत्तिर्भवति।
तद्यथा--तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ (5।2।24) पक्षात्तिः (25) इत्यत्र मूल इत्यनुवर्तते, पाक इति निवृत्तम्।।
(सिद्धान्तांशकथनभाष्यम्)
अथेह कथं भवितव्यम् द्वौ हायनावस्याः शालायाः?
द्विहायना, त्रिहायनेति?
हायनो वयसि स्मृतः।।
वयोवाचिनो हायनशब्दस्य ग्रहणम्। न चैष वयोवाची।
अथ णत्वं कस्मान्न भवति?
णत्वमपि वयोवाचिन एव।।
-4-1-30- केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च (1297)
(ङीबधिकरणम्)
(आक्षेपभाष्यम्)
मामकग्रहणं किमर्थम्, नाणन्तादित्येव सिद्धम्?
(समाधानभाष्यम्)
नियमार्थोऽयमारम्भः--मामकशब्दात्संज्ञाछन्दसोरेव।।
(प्रत्युदाहरणभाष्यम्)
क्व मा भूत्?
मामिका बुद्धिरिति।।
-4-1-31- रात्रेश्चाजसौ (1298)
(ङीबधिकरणम्)
(सिद्धान्तभाष्यम्)
अजसादिष्विति वक्तव्यम्। इहापि यथा स्यात्--
रात्रिं रात्रिं स्मरिष्यन्तः।
रात्रिं रात्रिमजानतः।
सर्वां रात्रिं सहोषित्वा।
वृत्यामेकान्तरात्रिम्।।
-4-1-32- अन्तर्वत्पतिवतोर्नुक् (1299)
(नुगधिकरणम्)
(5156 पूर्वपक्षवार्तिकम्।। 1 ।।)
- अन्तर्वत्पतिवदिति गर्भभर्तृसंयोगे -
(भाष्यम्) अन्तर्वत्पतिवदिति गर्भभर्तृसंयोग इति वक्तव्यम्।
इह मा भूत्--
प्रथते त्वया पतिमती पृथिवी इति।।
(आक्षेपभाष्यम्)
अथान्तः शब्दस्यागर्भसंयोगे किं प्रत्युदाह्रियते? अन्तरस्यां शालायामस्तीति।।
किं पुनः कारणं वाक्यमेवोदाह्रियते, न पुनर्मतुप्?
अस्तिसामानाधिकरण्ये मतुब् विधीयते। न चात्रास्तिसामानाधिकरण्यम्।।
(प्रत्याक्षेपभाष्यम्)
इहापि तर्हि न प्राप्नोति। अन्तर्वत्नीति।।
(सिद्धान्तभाष्यम्)
एवं तर्हि--
अन्तर्वत्पतिवतोस्तु
मतुब्वत्वे निपातनात्।
अन्तर्वदिति मतुब् निपात्यते, वत्वं सिद्धम्। पतिवदिति वत्वं निपात्यते, मतुप् सिद्धः।।
किमविशेषेण? नेत्याह--
गर्भिण्यां जीवपत्यां च
एतस्मिन् विषये।।
वा च च्छन्दसि नुग्भवेत्।।
वा च छन्दसि नुग्वक्तव्यः--
साऽन्तर्वती देवानुपैत्, साऽन्तर्वत्नी देवानुपैत्, पतिवती तरुणवत्सा, पतिवत्नी तरुणवत्सा।।
अन्तर्वत्पतिवतोस्तु
मतुब्वत्वे निपातनात्।
गर्भिण्यां जीवपत्यां च
वा च च्छन्दसि नुग्भवेत्।।
-4-1-33- पत्युर्नो यज्ञसंयोगे (1300)
(नादेशाधिकरणम्)
(आक्षेपभाष्यम्)
यज्ञसंयोग इत्युच्यते, तत्रेदं न सिध्यति--इयमस्य पत्नी।।
क्व तर्हि स्यात्?
पत्नीसंयाजाः इति यत्र यज्ञसंयोगः।।
(समाधानभाष्यम्)
नैष दोषः। पतिशब्दोऽयमैश्वर्यवाची। सर्वेण च गृहस्थेन पञ्ञ्च महायज्ञा निर्र्वत्याः, यच्चादः सायंप्रातर्होमचरुपुरोडाशान्निर्वपति तस्यासावीष्टे।।
(अव्याप्तिवारकभाष्यम्)
एवमपि तुषजकस्य पत्नी न सिध्यति।
उपमानात्सिद्धम्--पत्नीव पत्नीति।।
-4-1-34- विभाषा सपूर्वस्य (1301)
(विकल्पाधिकरणम्)
(5157 पूर्वपक्षवार्तिकम्।। 1 ।।)
- पत्युः सपूर्वादुपसर्जनसमास उपसंख्यानम् -
(भाष्यम्) पत्युः सपूर्वादुपसर्जनसमास उपसंख्यानं कर्तव्यम्--वृद्धपतिः,वृद्धपत्नी, स्थूलपतिः, स्थूलपत्नी।
वचनाद्भविष्यति।।
अस्ति वचने प्रयोजनम्।
किम्?
आशापतिः, आशापत्नी।।
(5158 सिद्धान्तवार्तिकम्।। 2 ।।)
- सिद्धं तु पत्युः प्रातिपदिकविशेषणत्वात् -
(भाष्यम्) सिद्धमेतत्।।
कथम्?
पत्युः प्रातिपदिकविशेषणत्वात्। नैवं विज्ञायते। अस्त्यस्मात्पतिशब्दात्पूर्वः सोऽयं सपूर्वः, सपूर्वात्पतिशब्दादनुपसर्जनादिति।।
कथं तर्हि?
अस्त्यस्मिन् प्रातिपदिके पूर्वं तदिदं सपूर्वम्, सपूर्वात्प्रातिपदिकात्पत्यन्तादनुपसर्जनादिति।।
-4-1-33- पत्युर्नो यज्ञसंयोगे (1300)
(नादेशाधिकरणम्)
(आक्षेपभाष्यम्)
यज्ञसंयोग इत्युच्यते, तत्रेदं न सिध्यति--इयमस्य पत्नी।।
क्व तर्हि स्यात्?
पत्नीसंयाजाः इति यत्र यज्ञसंयोगः।।
(समाधानभाष्यम्)
नैष दोषः। पतिशब्दोऽयमैश्वर्यवाची। सर्वेण च गृहस्थेन पञ्ञ्च महायज्ञा निर्र्वत्याः, यच्चादः सायंप्रातर्होमचरुपुरोडाशान्निर्वपति तस्यासावीष्टे।।
(अव्याप्तिवारकभाष्यम्)
एवमपि तुषजकस्य पत्नी न सिध्यति।
उपमानात्सिद्धम्--पत्नीव पत्नीति।।
-4-1-36- पूतक्रतौरै च (1302)
(ऐकारादेशाधिकरणम्)
(5159 विधिवार्तिकम्।। 1 ।।)
- पूतक्रत्वादीनां पुंयोगप्रकरणे वचनम् -
(भाष्यम्) पूतक्रत्वादयः पुंयोगप्रकरणे वक्तव्याः--पूतक्रतोः स्त्री पूतक्रतायी।।
यया हि पूताः क्रतवः पूतक्रतुः सा भवति।।
(5160 पूर्वपक्षवार्तिकम्।। 2 ।।)
- लिङ्गसंनियोगेन सर्वत्रागमादेशानां वचने लिङ्गलुकि तत्कृतप्रसङ्गः -
(भाष्यम्) लिङ्गसंनियोगेन सर्वत्रागमादेशानां वचने लिङ्गलुकि तत्कृतं प्राप्नोति--पञ्ञ्चेन्द्राण्यो देवता अस्य पञ्ञ्चेन्द्रः, पञ्ञ्चाग्निः, दशाम्निः।।
(पूर्वपक्षसाधकभाष्यम्)
किमुच्यते सर्वत्रेति? अन्यत्रापि, नावश्यमिहैव।। क्वान्यत्र?
पञ्ञ्चभिर्धीवरीभिः क्रीतः--पञ्ञ्चधीवा, दशधीवेति।।
लिङ्गग्रहणेन नार्थः, सर्वत्रागमादेशानां वचने लुकि तत्कृतप्रसङ्ग इत्येव।।
इदमपि सिद्धं भवति--पञ्ञ्चमेन गृह्णाति पञ्ञ्चकः। नैतदस्ति। मयडयं परादिः स डटो ग्रहणेन ग्रहीष्यते।।
इदं तर्हि प्रयोजनं--षष्ठेन गृह्णाति षट्क इति।।
(5161 सिद्धान्तवार्तिकम्।। 3 ।।)
- सिद्धं त्वागमादेशानामङ्गतः स्त्रीप्रकरणे वचनात् -
(भाष्यम्) सिद्धमेतत्। कथम्?
आगमादेशा य इह स्त्रीप्रकरण उच्यन्ते तेऽङ्गाधिकारे वक्तव्याः।।
स्त्रीप्रकरणग्रहणेन नार्थः। सिद्धं त्वागमादेशानामङ्गतो वचनादित्येव।
इदमपि सिद्धं भवति--षष्ठेन गृह्णाति षट्क इति।।
(5162 प्रकारान्तरेण सिद्धान्तवार्तिकम्।। 4 ।।)
- लिङ्गलुकि वा प्रकृतिप्रत्यापत्तिवचनम् -
(भाष्यम्) अथ वा लिङ्गलुक्येव प्रकृतिप्रत्यापत्तिर्वक्तव्या।।
लिङ्गग्रहणेन नार्थः। लुकि वा प्रकृतिप्रत्यापत्तिवचनमित्येव।।
इदमपि सिद्धं भवति--षष्ठेन गृह्णाति षट्क इति।।
(सिद्धान्तभाष्यम्)
किं पुनरत्र ज्यायः?
लुकि प्रकृतिप्रत्यापत्तिवचनमित्येव ज्यायः। इदमपि सिद्धं भवति--पञ्ञ्चमिः पट्वीभिः क्रीतः--पञ्ञ्चपटुः, दशपटुरिति।।
(परिभाषामुखेन सिद्धान्तभाष्यम्)
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्।
संनियोगशिष्टानामन्यतरापाय उभयोरप्यपायः।
तद्यथा--देवदत्तयज्ञदत्ताभ्यामिदं कर्म कर्तव्यम्। देवदत्तापाये यज्ञदत्तोऽपि न करोति।।
-4-1-39- वर्णादनुदात्तात्तोपधात्तो नः (1303)
(ङीप्सन्नियोगशिष्टनकारादेशाधिकरणम्)
(5163 अतिव्याप्तिवारकवार्तिकम्।। 1 ।।)
- असितपलितयोः प्रतिषेधः -
(भाष्यम्) असितपलितयोः प्रतिषेधो वक्तव्यः। असिता, पलिता।।
(5164 विधिवार्तिकम्।। 2 ।।)
- छन्दसि क्नमेके -
(भाष्यम्) छन्दसि क्नमेक इच्छन्ति। असिक्न्यस्योषधे, पलिक्नीरिद्युवतयो भवन्ति।
(5165 अव्याप्तिवारकवार्तिकम्।। 3 ।।)
- वर्णान्ङीब्विधाने पिशङ्गादुपसंख्यानम् -
(भाष्यम्) वर्णान्ङीब्विधाने पिशङ्गादुपसंख्यानं कर्तव्यम्--पिशङ्गी।।
-4-1-42- जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद् (1304) वृत्त्यमत्रावपनाकृत्रिमाश्राणआस्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु
(5166 नियमवार्तिकम्।। 1 ।।)
- नीलादोषधौ -
(भाष्यम्) नीलादोषधाविति वक्तव्यम्। नीली ओषधिः।।
(5137 विधिवार्तिकम्।। 2 ।।)
- प्राणिनि च -
(भाष्यम्) प्राणिनि चेति वक्तव्यम्। नीली गौः, नीली वडवा।।
(5168 विकल्पवार्तिकम्।। 3 ।।)
- वा संज्ञायाम् -
(भाष्यम्) वा संज्ञायामिति वक्तव्यम्। नीली, नीला।।
-4-1-44- वोतो गुणवचनात् (1305)
(विकल्पाधिकरणम्)
(जिज्ञासाभाष्यम्)
गुणवचनादित्युच्यते, को गुणो नाम?
(गुणलक्षणभाष्यम्)
सत्वे निविशतेऽपैति पृथग् जातिषु दृश्यते।
आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः।।
(लक्षणान्तरभाष्यम्)
अपर आह।।
उपैत्यन्यज्जहात्यन्यद् दृष्टो द्रव्यान्तरेष्वपि।
वाचकः सर्वलिङ्गानां द्रव्यादन्यो गुणः स्मृतः।।
(5169 सिद्धान्तसाधकवार्तिकम्।। 1 ।।)
- गुणवचनान्ङीबाद्युदात्तार्थम् -
(भाष्यम्) गुणवचनाद् ङीब्वक्तव्यः।
किं प्रयोजनम्? आद्युदात्तार्थः। आद्युदात्ताः प्रयोजयन्ति--वस्वी, पट्वी।।
(5170 अतिव्याप्तिवारकवार्तिकम्।। 2 ।।)
- खरुसंयोगपधप्रतिषेधश्च -
(भाष्यम्) खरुसंयोगोपधानां च प्रतिषेधो वक्तव्यः--खरुरियं ब्राह्मणी, पाण्डुरियं ब्राह्मणी।।
-4-1-48- पुंयोगादाख्यायाम् (1306)
(ङीषधिकरणम्)
(5171 अतिव्याप्तिवारकवार्तिकम्।। 1 ।।)
- गोपालिकादीनां प्रतिषेधः -
(भाष्यम्) गोपालिकादीनां प्रतिषेधो वक्तव्यः--गोपालिका, पशुपालिका।।
किं पुनरिहोदाहरणम्?
प्रष्ठी, प्रचरी।।
(आक्षेपभाष्यम्)
कथं पुनरयं प्रष्ठशब्दोऽकारान्तः स्त्रियां वर्तते?।
(समाधानभाष्यम्)
तस्येदमित्यनेनाभिसंबन्धेन। यथैव ह्यसौ तत्कृतान् स्रानोद्वर्तनपरिषेकान् लभते, एवं प्रष्ठशब्दमपि लभते।।
(समाधानाक्षेपभाष्यम्)
यद्येवं,
(5172 आक्षेपसाधकवार्तिकम्।। 2 ।।)
- पुंयोगादाख्यायां तद्धितलुग्वचनम् -
(भाष्यम्) पुंयोगादाख्यायां तद्धितस्य लुग् वक्तव्यः। तस्येदम् (4।3।12) इति प्राप्नोति।।
न तर्हीदानीमिदं भवति--प्राष्ठ्य इमाः, प्राचर्य इमा इति।
भवति च। विभाषा लुग् वक्तव्यः।
यदा लुक् तदा प्रष्ठी, यदा न लुक् तदा प्राष्ठी।।
(वार्तिकान्यथासिद्धिपरभाष्यम्)
यद्येवं नार्थो लुका, विभाषा तद्धितोत्पत्तिः।
यदा तद्धितोत्पत्तिः--तदा-प्राष्ठी।
यदा न तद्धितोत्पत्तिः--तदा--प्रष्ठी।।
(वार्तिकप्रयोजनबोधकभाष्यम्)
एवमपि लुग् वक्तव्यः। न ह्यन्तरेण तद्धितस्य लुकं परार्थे शब्दो वर्तते।।
(प्रत्याक्षेपभाष्यम्)
यदि पुनस्तस्यामेव प्रष्ठशब्दो वर्तेत।
कथं पुनस्तस्यामेवाप्रतिष्ठमानायां प्रष्ठशब्दो वर्तते?
यथैव ह्यसावकुर्वती किंचित्पापं भर्तृकृतान् वधबन्धनादिक्लेशान् लभते, एवं प्रष्ठशब्दमपि लभते।।
(5173 पूर्वपक्षवार्तिकम्।। 3 ।।)
- सुबन्तसमासवचनाच्चाकारान्तानुपपत्तिः -
(भाष्यम्) सुबन्तसमासवचनाच्चाकारान्तता नोपपद्यते। सुबन्तानां समासस्तत्रान्तरङ्गत्वाट्टाप्। टाप्युत्पन्ने समासः। स्थाशब्दः समस्येत। तत्र पुंयोगादाख्यायामकारान्तादितीकारो न प्राप्नोति।।
(5174 समाधानवार्तिकम्।। 4 ।।)
- सिद्धं तु स्त्रियाः पुंशब्देनाभिधानात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
स्त्रियाः पुंशब्देनाभिधानात्। स्त्री पुंशब्देनाकारान्तेनाभिधीयते।।
(प्रथमवार्तिकोक्ताक्षेपनिरासभाष्यम्)
ननु चोक्तं पुंयोगादाख्यायां तद्धितलुग् वचनमिति।।
नैष दोषः।
आचार्यप्रवृत्तिर्ज्ञापयति--नातस्तद्धितोत्पत्तिर्भवतीति, यदयं पुंयोगादाख्यायामिति इर्कारं शास्ति।।
(ज्ञापकाक्षेपभाष्यम्)
नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। येऽनीकारास्तद्धितास्तदर्थमेतत्स्यात्।।
(ज्ञापकसाधकभाष्यम्)
यत्तर्ह्याख्याग्रहणं करोति। न हि तद्धितान्तमाख्या भवति।।
(तृतीयपक्षोपस्थापकं भाष्यम्)
अथ वा पुनरस्तु--तस्येदमित्यनेनाभिसंबन्धेन।
ननु चोक्तम्--पुंयोगादाख्यायां तद्धितलुग्वचनमिति।
नैष दोषः।
नावश्यमयमेवाभिसंबन्धो भवति--तस्येदमिति। अयमप्यभिसंबन्धो भवति--सोऽयमिति।
कथं पुनरतस्मिन् सः इत्येतद्भवति?
चतुर्भिः प्रकारैरतस्मिन् सः इत्येतद्भवति-- तात्स्थ्यात्, तार्द्धम्यात्, तत्सामीप्यात्, तत्साहचर्यादिति।
तात्स्थ्यात्तावत्--मञ्ञ्चा हसन्ति, गिरिर्दह्यते।।
तार्द्धम्यात्--जटिनं यान्तं ब्रह्मदत्त इत्याह। ब्रह्मदत्ते यानि कार्याणि जटिन्यपि तानि क्रियन्त इत्यतो जटी ब्रह्मदत्त इत्युच्यते।।
तत्सामीप्याद्--गङ्गायां घोषः, कूपे गर्गकुलम्।।
तत्साहचर्यात्--कुन्तान् प्रवेशय, यष्टीः प्रवेशयेति।।
(द्वितीयवार्तिकखण्डनभाष्यम्)
अथ वा पुनरस्तु तस्यामेव प्रष्ठशब्दः।
ननु चोक्तम्--सुबन्तसमासवचनाच्चाकारान्तानुपपत्तिः इति।
नैष दोषः।।
(5175 परिभाषावार्तिकम्।। 5 ।।)
- गतिकारकोपपदानां कृद्धिः सह समासवचनम् -
(भाष्यम्) गतिकारकोपपदानां कृदि्भः सह समासो भवतीत्येषा परिभाषा कर्तव्या।।
(परिभाषाप्रयोजनभाष्यम्)
कानि पुनरस्याः परिभाषायाः प्रयोजनानि?
(5176 प्रयोजनवार्तिकम्।। 6 ।।)
- प्रयोजनं क्तादल्पाख्यायाम् -
(भाष्यम्) अभ्रविलिप्ती, सूपविलिप्ती।
सुबन्तानां समासः। तत्रान्तरङ्गत्वाट्टाप्। टाप्युत्पन्ने समासः। विलिप्ताशब्दः समस्येत। तत्र क्तादल्पाख्यायाम्,
(4।1।51) अकारान्तादिति ङीष् न प्राप्नोति।।
(5177 द्वितीयं प्रयोजनवार्तिकम्।। 7 ।।)
- जातेर्ङीष्विधाने -
(भाष्यम्) जातेर्ङीष्विधाने प्रयोजनम्--व्याघ्री, कच्छपी।
सुबन्तानां समासः। तत्रान्तरङ्गत्वाट्टाप्युत्पन्ने समासः। घ्राशब्दः समस्येत। तत्र जातेरस्त्रीविषयादयोपधात् (4।1।63) अकारान्तादिति ङीष् न प्राप्नोति।।
(5178 तृतीयं प्रयोजनवार्तिकम्।। 8।।)
- समासान्तस्य णत्वे -
(भाष्यम्) समासान्तस्य णत्वे प्रयोजनम्। वक्ष्यति--प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणमसमासान्तप्रतिषेधार्थमिति। तस्मिन् क्रियमाणे--माषवापिणी, व्रीहिवापिणी। सुबन्तानां समासः। तत्रान्तरङ्गत्वान्नकारान्तत्वान्ङीप्। ङीप्युत्पन्ने समासः।
वापिनीशब्दः समस्येत। तत्र समासान्तस्येति णत्वं न प्राप्नोति।।
(5179 चतुर्थं प्रयोजनवार्तिकम्।। 9 ।।)
- कृदन्तात्तद्धिते वृद्धिस्वरौ च -
(भाष्यम्) कृदन्तात्तद्धिते वृद्धिस्वरौ च प्रयोजनम्। सांकूटिनम्, व्यावक्रोशी। अत्रावयवादुत्पत्तिः प्रसज्येत।
गतिकारकोपपदानां कृदि्भः सह समासो भवतीति न दोषो भवति।।
(परिभाषाऽऽक्षेपभाष्यम्)
सत्यामप्येत्सयां परिभाषायामवयवादुत्पित्तिः प्राप्नोति।
किं कारणम्?
प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति।।
(परिभाषान्तरेण समाधानभाष्यम्)
कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति संघातादुत्पत्तिर्भविष्यति।।
(परिभाषान्तरेण परिभाषाखण्डनभाष्यम्)
यदि तर्ह्येषा परिभाषास्ति, नैतदस्याः परिभाषायाः प्रयोजनं भवति, एतयैव सिद्धम्।।
(परिभाषोपपादकभाष्यम्)
न सिध्यति।
किं कारणम्?
अप्रातिपदिकत्वात्।
कृत्त्वात् प्रातिपदिकसंज्ञा भविष्यति।।
ननु चेदानीं प्रातिपदिकसंज्ञायामप्येतया परिभाषया इह शक्यमुपस्थातुम्।
नेत्याह।
इह हि मूलकेनोपदंशं भुङ्क्ते इति वाक्येऽपि लुक् प्रसज्येत्।।
स्वरे च दोषः स्यात्--प्रकारकः, प्रकरणम्। गतिकारकोपपदात् कृदन्तमुत्तरपदं प्रकृतिस्वरं भवतीत्येष स्वरो न स्यात्।।
नैष दोषः।
द्वे अत्र प्रातिपदिकसंज्ञे, अवयवस्यापि समुदायस्यापि। तत्रावयवस्य या प्रातिपदिकसंज्ञा तदाश्रयः स्वरो
भविष्यति।।
(दोषापादकभाष्यम्)
इहापि तर्हि--सांकूटिनं, व्यावक्रोशीति द्वे अत्रापि प्रातिपदिकसंज्ञे, अवयवस्यापि समुदायस्यापि। तत्रावयवस्य या प्रातिपदिकसंज्ञा तदाश्रया अवयवादुत्पत्तिः प्रसज्येत।।
(आक्षेपभाष्यम्)
अवयवादुत्पत्तौ सत्यां को दोषः?
कौम्भकारेयो न सिध्यति, अवयवस्य वृद्धिस्वरौ स्याताम्।
(सिद्धान्तभाष्यम्)
तस्मात्प्रयोजनमेवैतदस्याः परिभाषायाः, उभाभ्यां तु खलु सिध्यति।।
(5180 प्रासङि्गकपूर्वपक्षवार्तिकम्।। 10 ।।)
अवदातायां तु ङीप्प्रसङ्गः।।
(भाष्यम्) अवदातायां ङीप् प्राप्नोति। अवदाता ब्राह्मणी। वर्णादनुदात्तात्तोपधात्तो नः (4।1।39) इति।।
(समाधानभाष्यम्)
नैष वर्णवाची।
किं तर्हि?
विशुद्धवाची। आतश्च विशुद्धवाची।।
एवं ह्याह--
त्रीणि यस्यावदातानि
विद्या योनिश्च कर्म च।
एतच्छिवं विजानीहि
ब्राह्मणाग्र्यस्य लक्षणम्।। इति।
(अतिव्याप्तिपरिहारभाष्यम्)
सूर्याद्देवतायां चाब् वक्तव्यः--सूर्यस्य स्त्री--सूर्या।
देवतायामिति किमर्थम्?
सूरी।।
-4-1-49- इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् (1304)
(आनुगधिकरणम्)
(5181 अर्थनियामकवार्तिकम्।। 1 ।।)
- हिमारण्ययोर्महत्त्वे -
(भाष्यम्) हिमारण्ययोर्महत्त्व इति वक्तव्यम्। महद्धिमं हिमानी, महदरण्यमरण्यानी।।
(5182 अर्थनियामकवार्तिकम्।। 2 ।।)
- यवाद्दोषे -
(भाष्यम्) यवाद्दोष इति वक्तव्यम्। दुष्टो यवो यवानी।।
(5183 अर्थनियामकवार्तिकम्।। 3 ।।)
- यवनाल्लिप्याम् -
(भाष्यम्) यवनाल्लिप्यामिति वक्तव्यम्। यवनानी लिपिः।।
(5174 प्राप्ताप्राप्तविकल्पवार्तिकम्।। 4 ।।)
- उपाध्यायमातुलाभ्यां वा -
(भाष्यम्) उपाध्यायमातुलाभ्यां वेति वक्तव्यम्। उपाध्यायी, उपाध्यायानी, मातुली, मातुलानी।।
(5185 विधिवार्तिकम्।। 5 ।।)
- मुद्गलाच्छन्दसि लिच्च -
(भाष्यम्) मुद्गलाच्छन्तसि लिच्चेति वक्तव्यम्। रथीरमून्मुद्गलानी।।
(5186 विधिवार्तिकम्।। 6 ।।)
- आचार्यादणत्वं च -
(भाष्यम्) आचार्यादणत्वं चेति वक्तव्यम्। आचार्यानी।।
(5187 विकल्पविधायकवार्तिकम्।। 7 ।।)
- अर्यक्षत्रियाभ्यां वा -
(भाष्यम्) अर्यक्षत्रियाभ्यां वेति वक्तव्यम्। अर्या, अर्याणी, क्षत्रिया, क्षत्रियाणी।।
-4-1-50- क्रीतात् करणपूर्वात् (1305)
(ङीषधिकरणम्)
(आक्षेपभाष्यम्)
करणपूर्वादिति किमर्थम्?
गवा क्रीता, अश्वेन क्रीता।
करणपूर्वादित्युच्यमानेऽप्यत्र प्राप्नोति। एषोऽपि क्रीतशब्दः करणपूर्वः।।
(एकदेशिसमाधानभाष्यम्)
विभक्त्या व्यवहितत्वान्न भविष्यति।।
(प्रत्याक्षेपभाष्यम्)
यदि तर्हि विभक्तिरपि व्यवधायिका भविष्यति। मनसा क्रीती इति न सिध्यति।।
(सिद्धान्तभाष्यम्)
एवं तर्हि नैवं विज्ञायते करणं पूर्वमस्मात् क्रीतशब्दात् सोऽयं करणपूर्वस्तस्मात्करणपूर्वात् क्रीतशब्दादनुपसर्जनादिति।
कथं तर्हि?
करणमस्मिन् प्रातिपदिके पूर्वं तदिदं करणपूर्वम्, तस्मात्करणपूर्वात्प्रातिपदिकात्क्रीतान्तादनुपसर्जनादिति।।
-4-1-52- बहुव्रीहेश्चान्तोदात्तात् (1306)
(ङीषधिकरणम्)
(5188 अतिव्याप्तिवारकवार्तिकम्।। 1 ।।)
- अन्तोदात्ते जातप्रतिषेधः -
(भाष्यम्) अन्तोदात्ते जातस्य प्रतिषेधो वक्तव्यः। दन्तजाता, स्तनजाता।।
(5189 नियमवार्तिकम्।। 2 ।।)
- पाणिगृहीत्यादीनां विशेषे -
(भाष्यम्) पाणिगृहीत्यादीनां विशेष इति वक्तव्यम्। पाणिगृहीती भार्या चेत्।
यस्या हि यथाकथंचित्पाणिर्गह्यते पाणिगृहीता सा भवति।।
(5190 अनियमवार्तिकम्।। 3 ।।)
- बहुलं तणि -
(भाष्यम्) बहुलं तणीति वक्तव्यम्।
किमिदं तणीति?
संज्ञाच्छन्दसोर्ग्रहणम्।
किं प्रयोजनम्?
(5191 प्रयोजनवार्तिकम्।। 4 ।।)
- प्रबद्धविलून्याद्यर्थम् -
(भाष्यम्) प्रबद्धविलूनी, प्रबद्धविलूना।।
(5192 अतिव्याप्तिवारकवार्तिकम्।। 5 ।।)
- अन्तोदात्तादबहुनञ्ञ्सुकालसुखादिपूर्वात् -
(भाष्यम्) अन्तोदात्तादबहुनञ्ञ्सुकालसुखादिपूर्वादिति वक्तव्यम्।।
बहु--बहुकृता।
नञ्ञ्--अकृता।
सु--सुकृता।
काल--मासजाता, संवत्सरजाता।
सुखादि--सुखजाता, दुःखजाता, क्षिप्रजाता।।
(5193 अन्तोदात्तेतिवार्तिकप्रत्याख्यानवार्तिकम्।। 6 ।।)
- जातिपूर्वाद्वा -
(भाष्यम्) अथ वा जातिपूर्वादिति वक्तव्यम्।।
-4-1-54- स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् (1307)
(स्वाङ्गलक्षणाधिकरणम्)
(जिज्ञासाभाष्यम्)
स्वाङ्गाच्चोपसर्जनादित्युच्यते,
किं स्वाङ्गं नाम?।।
(स्वाङ्गलक्षणम्)
अद्रवं मूर्तिमत्स्वाङ्गं
प्राणिस्थमविकारजम्।
अतत्स्थं तत्र दृष्टं च
तस्य चेत्तत्तथायुतम्।।
अप्राणिनोऽपि स्वाङ्गम्।।
(लक्षणपदकृत्यभाष्यम्)
अद्रवमिति किमर्थम्?
बहुलोहिता।
नैतदस्ति। बह्वचो नेति प्रतिषेधो भविष्यति।
इदं तर्हि--बहुकफा।।
मूर्तिमदिति किमर्थम्?
बहुबुद्धिः, बहुमनाः।
नैतदस्ति। अत इति वर्तते।
इदं तर्हि--बहुज्ञाना।।
प्राणिस्थमिति किमर्थम्?
श्र्लक्ष्णमुखा शाला।।
अविकारजमिति किमर्थम्?
बहुगडुः, बहुपिटका।
नैतदस्ति। इह तावद्बहुगडुरिति, अत इत्यनुवर्तते, बहुपिटकेति, बह्वचो नेति प्रतिषेधो भविष्यति।
इदं तर्हि--बहुशोफा।।
(द्वितीयं स्वाङ्गलक्षणम्)
अतत्स्थं तत्र दृष्टं च
अप्राणिस्थं प्राणिनि दृष्टं च स्वाङ्गसंज्ञं भवति। दीर्घकेशी रथ्या-इति।।
(तृतीयं स्वाङ्गलक्षणम्)
तस्य चेत्तत्तथायुतम्।।
अप्राणिनोऽपि स्वाङ्गसंज्ञं भवतीति। दीर्घनासिकी--अर्चा, तुङ्गनासिकी--अर्चेति।।
(उपसर्जनपदकृत्यभाष्यम्)
अथोपसर्जनग्रहणं किमर्थम्?
इह मा भूत्--अशिखा।।
(5194 पूर्वपक्षवार्तिकम्।। 1 ।।)
- उपसर्जनग्रहणमनर्थकं बहुव्रीह्यधिकारात् -
(भाष्यम्) उपसर्जनग्रहणमनर्थकम्।
किं कारणम्?
बहुव्रीह्यधिकारात्। बहुव्रीहेरिति प्रकृतमनुवर्तते।
क्व प्रकृतम्?
बहुव्रीहेश्चान्तोदात्तात् (4।1।52) इति।।
(एकदेशिसमाधानभाष्यम्)
बह्वजर्थं तर्हि उपसर्जनग्रहणं कर्तव्यम्। बह्वचो नेति प्रतिषेधं वक्ष्यति तद्बह्वज्ग्रहणमुपसर्जनविशेषणं यथा विज्ञायेत--बह्वच उपसर्जनान्नेति।।
(एकदेश्याक्षेपभाष्यम्)
अथाक्रियमाणे उपसर्जनग्रहणे कस्य बह्वज्ग्रहणं विशेषणं स्यात्?
बहुव्रीहेरिति वर्तते। बहुव्रीहिविशेषणं विज्ञायेत। अस्ति चेदानीं कश्चिदबह्वज् बहुव्रीहिः, यदर्थो विधिः स्यात्--अस्तीत्याह--स्वडा, स्वडीति।।
(5195 एकदेशिसमाधानवार्तिकम्।। 2 ।।)
- बह्वजर्थमिति चेत्स्वाङ्गग्रहणात्सिद्धम् -
(भाष्यम्) स्वाङ्गग्रहणं क्रियते, तद्बह्वज्ग्रहणेन विशेषयिष्यामः--स्वाङ्गाद् बह्वचो नेति।।
एवं तर्हि अन्तोदात्तादिति वर्तते। अनन्तोदात्तार्थोऽयमारम्भः।।
(5196 उपसर्जनग्रहणस्य निष्फलत्वबोधकं वार्तिकम्।। 3 ।।)
- अनन्तोदात्तार्थमिति चेत् सहादिकृतत्वात्सिद्धम् -
(भाष्यम्) यदयम् सहनञ्ञ्विद्यमानपूर्वाच्च (4।1।57) इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः--अनन्तोदात्तादपि भवतीति।।
(5197 पूर्वपक्षवार्तिकम्।। 4 ।।)
- स्वाङ्गसमुदायप्रतिषेधार्थं तु -
(भाष्यम्) स्वाङ्गसमुदायप्रतिषेधार्थं तर्ह्युपसर्जनग्रहणं कर्तव्यम्।
स्वाङ्गाद्यथा स्यात्,
स्वाङ्गसमुदायान्मा भूत्--कल्याणपाणिपादा।।
अथ क्रियमाणेऽप्युपसर्जनग्रहणे कस्मादेवात्र न भवति? स्वाङ्गं ह्येतदुपसर्जनम्।
न स्वाङ्गसमुदायः स्वाङ्गग्रहणेन गृह्यते। यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यते--काशिकोशलीया इति, जनपदतदवध्योरिति वुञ्ञ् न भवति।।
एतदपि नास्ति प्रयोजनम्।
अस्वाङ्गपूर्वादिति वर्तते, तेन स्वाङ्गं विशेषयिष्यामः--अस्वाङ्गपूर्वपदात्परं यत्स्वाङ्गं तदन्ताद् बहुव्रीहेरिति।
यच्चात्रास्वाङ्गपूर्वपदात्परं स्वाङ्गम्, न तदन्तो बहुव्रीहिः।
यदन्तश्च बहुव्रीहिः, न तदस्वाङ्गपूर्वपदात्परं स्वाङ्गम्।।
(आक्षेपभाष्यम्)
ननु च तत् पूर्वस्मिन् योगे बहुव्रीहिविशेषणम्।
नेत्याह।
पूर्वपदविशेषणं तत्। न स्वाङ्गमस्वाङ्गम्, पूर्वं पदं पूर्वपदम्, अस्वाङ्गं पूर्वपदमस्वाङ्गपूर्वपदम्, अस्वाङ्गपूर्वपदादिति।
यद्येवं पूर्वस्मिन् योगे बहुव्रीहिरविशेषितो भवति। बहुव्रीहिश्च विशेषितः।
कथम्?
क्तादिति वर्तते तेन बहुव्रीहिं विशेषयिष्यामः।
अस्वाङ्गात् पूर्वपदात्परं यत् क्तान्तं तदन्ताद् बहुव्रीहेरिति।।
(सिद्धान्तभाष्यम्)
इदं तर्हि प्रयोजनम्--
बहुव्रीहेरिति वर्तमान उपसर्जनग्रहणमुपसर्जनमात्राद्यथा स्यात्--निष्केशी यूका, अतिकेशीमालेति।।
-4-1-55- नासिकोदरौष्ठजङ्घादन्तकर्णश्रृङ्गाच्च (1308)
(ङीष्विकल्पाधिकरणम्)
(5198 विधिवार्तिकम्।। 1 ।।)
- नासिकादीनां विभाषायां पुच्छाच्च -
(भाष्यम्) नासिकादीनां विभाषायां पुच्छाच्चेति वक्तव्यम्। कल्याणपुच्छी, कल्याणपुच्छा।
(5199 विधिवार्तिकम्।। 2 ।।)
- कबरमणिविषशरेभ्यो नित्यम् -
(भाष्यम्) कबरमणिविषशरेभ्यो नित्यमिति वक्तव्यम्। कबरपुच्छी, मणिपुच्छी, विषपुच्छी, शरपुच्छी।।
(5200 विधिवार्तिकम्।। 3 ।।)
- उपमानात्पक्षाच्च पुच्छाच्च -
(भाष्यम्) उपमानात्पक्षात्, पुच्छाच्चेति वक्तव्यम्। उलूकपक्षी शाला, उलूकपुच्छी सेनेति।
(5201 विधिनिषेधयोर्विप्रतिषेधबोधकवार्तिकम्।। 4 ।।)
- नासिकादिभ्यो विभाषायाः सहनञ्ञ्विद्यमानपूर्वेभ्यः प्रतिषेधो विप्रतिषेधेन -
(भाष्यम्) नासिकादिभ्यो विभाषायाः सहनञ्ञ्विद्यमानपूर्वेभ्यः प्रतिषेधो भवति विप्रतिषेधेन।
नासिकादिभ्यो विभाषाया अवकाशः--कल्याणनासिकी, कल्याणनासिका।
सहनञ्ञ्विद्यमानपूर्वलक्षणस्य प्रतिषेधस्यावकाशः--समुखा, अमुखा, विद्यमानमुखेति।
इहोभयं प्राप्नोति--सनासिका, अनासिका, विद्यमाननासिकेति।
सहनञ्ञ्विद्यमानपूर्वेभ्यः प्रतिषेधो भवति विप्रतिषेधेन।
नैष युक्तो विप्रतिषेधः।
अयं विधिः।
स प्रतिषेधः। विधिप्रतिषेधयोश्चायुक्तो विप्रतिषेधः।
अयमपि विधिः--न मृदूनामिव कार्पासानां कृतः, प्रतिषेधविषय आरभ्यते। स यथैव बह्वज्लक्षणं संयोगोपधलक्षणं च प्रतिषेधं बाधते, एवं हि सहनञ्ञ्विद्यमानलक्षणमपि बाधेत।
का तर्हि गतिः?।।
(विप्रतिषेधसमर्थकभाष्यम्)
इह तावन्नासिकोदर इति--
बह्वज्लक्षणश्च प्रतिषेधः प्राप्नोति, सहनञ्ञ्विद्यमानपूर्वक्षलणश्च।
पुरस्तादपवादा अन्तरान् विधीन् बाधन्ते इत्येवमियं विभाषा बह्वज्लक्षणं प्रतिषेधं बाधिष्यते, सहनञ्ञ्विद्यमानलक्षणं न बाधिष्यते।
ओष्ठजङ्घादन्तकर्णशृङ्गाच्चेति--
संयोगोपधलक्षणश्च प्रतिषेधः प्राप्नोति, सहनञ्ञ्विद्यमानपूर्वलक्षणश्च।
मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते इत्येवमियं विभाषा संयोगोपधलक्षणं प्रतिषेधं बाधिष्यते, सहनञ्ञ्विद्यमानपूर्वलक्षणं न बाधिष्यते।।
-4-1-60- दिक्पूर्वपदान्ङीप् (1313)
(ङीबादेशाधिकरणम्)
(5202 आक्षेपवार्तिकम्।। 1 ।।)
- दिक्पूर्वपदान्ङीषोऽनुदात्तत्वम् -
(भाष्यम्) दिक्पूर्वपदान्ङीषोऽनुदात्तत्वं वक्तव्यम्। प्राङ्मुखी, प्रत्यङ्मुखी।
(5203 द्वितीयाक्षेपवार्तिकम्।। 2 ।।)
- ङीब्विधाने ह्यन्यत्रापि ङीष्विषयान्ङीप्प्रसङ्गः -
(भाष्यम्) ङीब्विधाने हि सति अन्यत्रापि ङीष्विषयान्ङीप् प्राप्नोति। प्राग्गुल्फा, प्रत्यग्ललाटा।
ननु चैते विशेषा अनुवर्तन्ते--असंयोगोपधात् बह्वचो न इति। यद्यप्येते विशेषा अनुवर्तेरन्--संयोगोपधाद्बह्वचो नेति। एवमपि दिक्पूर्वपदात् ङीपा मुक्ते ङीष् प्रसज्येत।
नैष दोषः।
उक्तमेतत्--यत्रोत्सर्गापवादं विभाषा तत्रापवादेन मुक्ते उत्सर्गो न भवतीति।।
(सिद्धान्तभाष्यम्)
अथ वा ङीष आदेशो ङीप् करिष्यते।।
तत्तर्हि ङीषोऽत्र ग्रहणं कर्तव्यम्?
न कर्तव्यम्।
प्रकृतमनुवर्तते।
क्व प्रकृतम्?
अन्यतो ङीषिति।
तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः।
दिक्पूर्वपदादित्येषा पञ्ञ्चमी ङीषिति प्रथमायाः षष्ठीमिह प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1।1।67) इति।।
प्रत्ययविधिरयम्, न च प्रत्ययविधौ पञ्ञ्चम्यः प्रकल्पिका भवन्ति।
नायं प्रत्ययविधिः, विहितः प्रत्ययः प्रकृतश्चानुवर्तते।।
-4-1-63- जातेरस्त्रीविषयादयोपधात् (1314)
(जातिलक्षणाधिकरणम्)
(लक्षणभाष्यम्)
जातेरित्युच्यते, का जातिर्नाम?
आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक्।
सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह।।
अपर आह--
प्रादुर्भावविनाशाभ्यां
सत्त्वस्य युगपद् गुणैः।
असर्वलिङ्गां बह्वर्थां
तां जातिं कवयो विदुः।।
गोत्रं च चरणानि च।।
(जातिलक्षणविशेषदर्शकभाष्यम्)
कः पुनरेतयोर्जातिलक्षणयोर्विशेषः?
यथा पूर्वं जातिलक्षणं तथा--कुमारीभार्यः इति भवितव्यम्।
यथोत्तरं तथा--कुमारभार्यः इति भवितव्यम्।।
(सूत्रार्थबोधकभाष्यम्)
अथास्त्रीविषयादिति कथमिदं विज्ञायते--समानायामाकृतौ यदस्त्रीविषयमिति?
आहो स्वित् क्वचिदस्त्रीविषयमिति?
किं चातः?
यदि विज्ञायते समानायामाकृतौ यदस्त्रीविषयमिति--द्रोणी, कुटी, पात्रीति न सिध्यति।।
अथ विज्ञायते क्व चिदस्त्रीविषयमिति--माला, बलाका, अत्रापि प्राप्नोति।
अस्तु क्व चिद्यदस्त्रीविषयमिति।
कथं--माला, बलाकेति?
अजादिषु पाठः करिष्यते।।
(पदकृत्यभाष्यम्)
अयोपधादिति किमर्थम्? इभ्या, क्षत्रिया।
अत्यल्पमिदमुच्ये--अयोपधादिति, अकोपधादित्यपि वक्तव्यम्। इहापि यथा स्यात्--चटका, मूषिकेति।
यद्यकोपधादित्युच्यते--काकी, कोकी, पिकी, शुकी, उलूकीति न सिध्यति।
अस्तु तर्ह्ययोपधादित्येव।
कथं--चटका, मूषिकेति?
अजादिषु पाठः कर्तव्यः।।
(5204 विध्यंशपूरकवार्तिकम्।। 1 ।।)
- योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः -
(भाष्यम्) योपधप्रतिषेधे गवयहयमुकयमनुष्यमत्स्यानामप्रतिषेधो भवतीति वक्तव्यम्। गवय--गवयी। हय--हयी। मुकय--मुकयी। मनुष्य--मनुषी। मत्स्य--मत्सी।।
-4-1-64- पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च (1315)
(ङीषधिकरणम्)
(5205 अतिव्याप्तिवारकवार्तिकम्।। 1 ।।)
- सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात् प्रतिषेधः -
(भाष्यम्) सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात्प्रतिषेधो वक्तव्यः--सत्पुष्पा, प्राक्पुष्पा, प्रत्यक्पुष्पा, काण्डपुष्पा, प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा।।
(5206 अतिव्याप्तिवारकवार्तिकम्।। 2 ।।)
- सम्भस्त्राजिनशणपिण्डेभ्यः फलात् प्रतिषेधः -
(भाष्यम्) सम्भस्त्राजिनशणपिण्डेभ्यः फलात्प्रतिषेधो वक्तव्यः--सम्--सम्फला--सम्। भस्त्रा--भस्त्राफला-भस्त्रा। अजिन--अजिनफला--अजिन। शण--शणफला--शण। पिण्ड--पिण्डफला।।
श्वेताच्चेति वक्तव्यम्। श्वेतफला।।
(5208 अतिव्याप्तिवारकवार्तिकम्।। 3 ।।)
- त्रेश्च -
(भाष्यम्) त्रेश्च प्रतिषेधो वक्तव्यः। त्रिफला।।
(5209 अतिव्याप्तिवारकवार्तिकम्।। 4 ।।)
- मूलान्नञ्ञः -
(भाष्यम्) मूलान्नञ्ञः प्रतिषेधो वक्तव्यः। अमूला।।
-4-1-65- इतो मनुष्यजातेः (1315)
(ङीषोऽधिकरणम्)
(जिज्ञासाभाष्यम्)
जातेरिति वर्तमाने पुनर्जातिग्रहणं किमर्थम्?
अयोपधादिति वर्तते, योपधादपि यथा स्यात्। औदमेयी।।
(5210 विध्यंशपूरकवार्तिकम्।। 1 ।।)
- इतो मनुष्यजातेरिञ्ञ उपसंख्यानम् -
(भाष्यम्) इतो मनुष्यजातेरिञ्ञ उपसंख्यानं कर्तव्यम्। सौतङ्गमी, मौनिचिती।।
-4-1-66- ःढ़द्य;ङुतः (1316)
(ःढ़द्य;ङोऽधिकरणम्)
(पदकृत्यभाष्यम्)
किमर्थो ङकारः?
विशेषणार्थः।
क्व विशेषणार्थेनार्थः?
नोङ्धात्वोः (6।1।175) इति। नोधात्वोरित्युच्यमाने--यवाग्वा, यवाग्वै, इत्यत्रापि प्रसज्येत।।
(पदकृत्यभाष्यम्)
अथ दीर्घोच्चारणं किमर्थम्, न उङुतः, इत्येवोच्येत?
का रूपसिद्धिः--ब्रह्मबन्धूः, वीरबन्धूरिति?
सवर्णदीर्घत्वेन सिद्धम्।
न सिध्यति। गोस्त्रियोरुपसर्जनस्य (1।2।48) इति ह्रस्वत्वं प्रसज्येत।।
इह च ब्रह्मबन्धूछत्रम्, ब्रह्मबन्धूच्छत्रम्, षत्वतुकोरसिद्धः (6।1।86) इत्येकादेशस्यासिद्धत्वान्नित्यस्तुक् प्रसज्येत।।
इह च ब्रह्मबन्धूः, वीरबन्धूः नद्यृतश्च (5।4।153) इति कप् प्रसज्येत।।
नैष दोषः।
यत्तावदुच्यते--ब्रह्मबन्धूः, वीरबन्धूरिति गोस्त्रियोरुपसर्जनस्येति ह्रस्वत्वं प्रसज्येतेति,
उभयत आश्रयणे नान्तादिवत्।।
यदप्युच्यते--ब्रह्मबन्धूछत्रम्, ब्रह्मबन्धूच्छत्रम्, षत्वतुकोरसिद्ध इत्येकादेशस्यासिद्धत्वान्नित्यस्तुक् प्रसज्येतेति,
पदान्तपदाद्योरेकादेशोऽसिद्धः। न चैष पदान्तपदाद्योरेकादेशः।।
यदप्युच्यते--इह च ब्रह्मबन्धूः, वीरबन्धूरिति नद्यृतश्चेति कप्प्रसज्येतेति,
नद्यन्तानां यो बहुव्रीहिरित्येवं तत्, न चैष पद्यन्तानां बहुव्रीहिः।।
शेषलक्षणस्तर्हि कप् प्राप्नोति। तस्माद्दीर्घोच्चारणं कर्तव्यम्।।
(5211 विधिवार्तिकम्।। 1 ।।)
- ःढ़द्य;ङ्प्रकरणेऽप्राणिजातेश्चारज्ज्वादीनाम् -
(भाष्यम्) ःढ़द्य;ङ्प्रकरणेऽप्राणिजातेश्चारज्ज्वादीनामिति वक्तव्यम्। अलाबूः, कर्कन्धूः।
अप्राणिजातेरिति किमर्थम्?
कृकवाकुः।।
अरज्ज्वादीनामिति किमर्थम्?
रज्जुः, हनुः।।
-4-1-70- संहितशफलक्षणवामादेश्च (1320)
(ःढ़द्य;ङोऽधिकरणम्)
(पूरकभाष्यम्)
सहितसहाभ्यां चेति वक्तव्यम्। सहितोरूः, सहोरूः।।
-4-1-71- कद्रुकमण्डल्वोश्छन्दसि (1321)
(छन्दस्यूङोऽधिकरणम्)
(सूत्रांशपूरकभाष्यम्)
अत्यल्पमिदमुच्यते--कद्रुकमण्डल्वोरिति,
कद्रुकमण्डलुगुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्। कद्रूः, कमण्डलूः, गुग्गुलूः, मधूः, जतूः, पतयालूः।।
-4-1-74- यङश्चाप् (1324)
(चापोऽधिकरणम्)
(5212 विध्यंशपूरकवार्तिकम्।। 1 ।।)
- षाच्च यञ्ञश्चाप् -
(भाष्यम्) षाच्च यञ्ञश्चाब्वक्तव्यः। शार्कराक्ष्या, पौतिमाष्या।
तत्रायमप्यर्थः--गौकक्ष्यशब्दः क्रौडयादिषु पठ्यते, स न पठितव्यो भवति।
यदि न पठ्यते, गौकक्षीपुत्रः इति संप्रसारणं न प्राप्नोति।
इष्टमेवैतत्संगृहीतम्--गौकक्ष्यापुत्रः इत्येव भवितव्यम्।
एवं हि सौनागाः पठन्ति--
ष्यङः संप्रसारणे
गौकक्ष्यायाः प्रतिषेधः। इति।।
-4-1-75- आवट्याच्च (1325)
(चापोऽधिकरणम्)
(5213 पूर्वविप्रतिषेधवार्तिकम्।। 1 ।।)
- अन उपधालोपिन ःढ़द्य;धसो ङीष् पूर्वविप्रतिषिद्धम् -
(भाष्यम्) अन उपधालोपिनोऽन्यतरस्याम् (4।1।28) इत्येतस्मादूधसो ङीष्भवति पूर्वविप्रतिषेधेन।
अन उपधालोपिनोऽन्यतरस्यामित्यस्यावकाशः--बहुराज्ञी, बहुतक्ष्णी।
ःढ़द्य;धसो ङीष्भवतीत्यस्यावकाशः--विभाषा ङीप्, यदा न ङीप् सोऽवकाशः।
ङीप्प्रसङ्गे उभयं प्राप्नोति, ःढ़द्य;धसो ङीष्भवति पूर्वविप्रतिषेधेन।।
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः।
न वक्तव्यः।
अन उपधालोपिनोऽन्यतरस्यामित्यत्र ःढ़द्य;धसो ङीष्भवति इत्येतदनुवर्तिष्यते।।
(5214 पूर्वविप्रतिषेधे द्वितीयं वार्तिकम्।। 2 ।।)
- आवट्याद्यञ्ञः ष्फश्चापः -
(भाष्यम्) आवट्याद्यञ्ञः ष्फश्चापो भवति पूर्वविप्रतिषेधेन।
आवट्याद्यञ्ञश्चापोऽवकाशः--उदीचाम्--आवट्या।
ष्फस्यावकाशः--अन्यानि यञ्ञन्तानि--गार्ग्यायणी, वात्स्यायनी।
आवट्यशब्दात्प्राचामुभयं प्राप्नोति--आवट्यायनी, ष्फो भवति पूर्वविप्रतिषेधेन।।
(सूत्रन्यासेन सिद्धान्तभाष्यम्)
आवट्यग्रहणेन नार्थः। यञ्ञः ष्फश्चापः इत्येव। इदमपि सिद्धं भवति--शार्कराक्ष्यायणी, पौतिमाष्यायणी।।
यञ्ञ्ग्रहणेनापि नार्थः। ष्फश्चापः इत्येव। गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते, इदमपि सिद्धं भवति--गौकक्ष्यायणी।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्। एवं वक्ष्यामि--प्राचां ष्फ तद्धितः सर्वत्र।
क्व सर्वत्र?
यत्र ष्फश्चान्यश्च प्राप्नोति, ष्फ एव तत्र भवतीति।।
ततो लोहितादिकतन्तेभ्यः सर्वत्र।
क्व सर्वत्र?
प्राचां चोदीचां च।।
-4-1-78- अणिञ्ञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे (1328)
(तद्धितष्यङधिकरणम्)
(आक्षेपभाष्यम्)
इह कस्मान्न भवति--दाक्षी, प्लाक्षीति।।
(समाधानभाष्यम्)
आतिशायिकेनायन्तमशब्देन निर्देशः क्रियते, स च त्रिप्रभृतिषु वर्तते, त्रिप्रभृतीनामभावात्।।
(प्रत्याक्षेपे श्लोकभाष्यम्)
यद्येवम्--
प्रकर्षे चेत्तमं कृत्वा
दाक्ष्या नोपोत्तमं गुरु।
आम्विधिः केन ते न
स्यात्? प्रकर्षे यद्ययं तमः।।
प्रकर्षे चेत्तम कृत्वा दाक्ष्या नोपोत्तमं गुर्वित्युच्यते, आम्विधिः केन तव न स्यात्? अव्ययघात् इति प्राप्नोति। प्रकर्षे यद्ययं तमःउयद्ययं तमः प्रकर्षे वर्तते।।
(प्रत्याक्षेपनिरासे श्लोकभाष्यम्)
उद्गतस्य प्रकर्षोऽयं
गतशब्दोऽत्र लुप्यते।
उद्गतस्यायं प्रकर्षः। गतशब्दस्यात्र लोपो भवति।
नाव्ययार्थप्रकर्षोऽस्ति
धात्वर्थोऽत्र प्रकृष्यते।
नायमव्ययार्थस्य प्रकर्षः।
कस्य तर्हि?
धात्वर्थस्य।।
(व्युत्पत्त्या तमप्स्वीकारे दोषश्लोकभाष्यम्)
उद्गतोऽपेक्षते किंचित्
त्रयाणां द्वौ किलोद्गतौ।।
अनुद्गतमपेक्ष्योद्गतमित्येतद्भवति। त्रयाणां द्वौ किलोद्गतौ त्रयाणां किल द्वावुद्गतौ भवतः।
चतुष्प्रभृतिकर्तव्यो
वाराह्यायां न सिध्यति।
चतुष्प्रभृतिषु ष्यङ् वक्तव्यः। वाराह्यायां न सिध्यति वाराह्यायां न प्राप्नोति।
किं कारणम्?
चतुष्प्रभृतीनामभावात्।।
(व्युत्पत्तिपक्षे दूषणान्तरबोधकं श्लोकभाष्यम्)
भिद्यतेऽस्य स्वरस्तेन
विधिश्चामो न लक्ष्यते।
भिद्यते खल्वस्य स्वरः, तेनातिशायनिकेन तमशब्देन उत्तमस्य विधिश्चामो न लक्ष्यते विधिश्चामो न क्वचिदपि लक्ष्यते।।
(सिद्धान्ते श्लोकभाष्यम्)
शब्दान्तरमिदं विद्याद्
दृष्टमभ्यन्तरं त्रिषु।
एवं तर्हि--अन्योऽयमातिशायनिकेन समानार्थः तमः त्रिप्रभृतिषु वर्तते।।
(आक्षेपभाष्यम्)
किं पुनरयमणिञ्ञोरादेशः, आहोस्विदणिञ्ञ्भ्यां परः?
कश्चात्र विशेषः?
(5215 अनादेशे दोषवार्तिकम्।। 1 ।।)
- ष्यङ्यनादेशे यलोपवचनम् -
(भाष्यम्) ष्यङि अनादेशे यलोपो वक्तव्यः। औदमेघ्यायाश्छात्रा औदमेघाः।।
(5216 अनादेशे दोषवार्तिकम्।। 2 ।।)
- द्विरण्विधिः -
(भाष्यम्) द्विश्चाण्विधेयः। औदमेघ्यायाश्छात्रा औदमेघाः। औदमेघ्यानां संघ औदमेघः। इञ्ञः इत्यण् न प्राप्नोति।।
(आदेशपक्षे भाष्यम्)
अस्तु तर्हि आदेशः।।
(5217 आदेशे दोषवार्तिकम्।। 3 ।।)
- आदेशेऽन्लोपवचनम् -
(भाष्यम्) यद्यादेशः, अनो लोपो वक्तव्यः। औडुलोम्या, शारलोम्येति। ये चाभावकर्मणोः (6।4।168) इति प्रकृतिभावः प्रसज्येत।।
(5218 आदेशे दोषवारकं वार्तिकम्।। 4 ।।)
न वा ष्यङो लोपनिमित्तत्वात् ।।
(भाष्यम्) न वा एष दोषः।
किं कारणम्?
ष्यङो लोपनिमित्तत्वात्। लोपनिमित्तः ष्यङ्, न चाकृते लोपे ष्यङ् प्राप्नोति।
किं कारणम्?
गुरूपोत्तमयोरित्युच्यते, न चाकृते लोपे गुरूपोत्तमता भवति।।
(परत्वपक्षे दोषवारकं भाष्यम्)
अथ वा पुनरस्तु परः। ननु चोक्तं ष्यङ्यनादेशे यलोपवचनम्, द्विरण् विधिरिति।
नैष दोषः।
यत्तावदुच्यते--यलोपवचनमिति, अदोष एषः।
किं कारणम्?
पुंवद्भावाद्यजादौ तद्धिते। यजादौ तद्धिते पुंवद्भावो भविष्यति, भस्याढे तद्धिते पुंवद्भवतीति।।
अयं तर्हि दोषः--द्विरण्विधिरिति।
नैष दोषः।
सिद्धश्च प्रत्ययविधौ, स च सिद्धः प्रत्ययविधौ।।
(सिद्धान्तभाष्यम्)
उभयमिदमुक्तम्--आदेशः, पर इति च।
किमत्र न्याय्यम्?
आदेश इत्येतद् न्याय्यम्।
कुत एतत्?
एवं चैव हि कृत्वाऽऽचार्येण सूत्रं पठितम्, षष्ठ्या च निर्देशः कृतः।
अत एष पक्षो निर्दोषः।।
(प्रत्ययपक्षे दोषप्रदर्शकभाष्यम्)
ननु च परस्मिन्नपि सति ये दोषास्ते परिहृताः, पुंवद्भावेन यलोपः परिहृतः।
स च पुंवद्भावोऽढे भवति, तत्र ते औदमेघेयो न सिध्यति।।
(आदेशपक्षे दोषोद्भावकं श्लोकभाष्यम्)
अनुबन्धौ त्वया कार्यौ
यस्यादेशः, अनुबन्धौ तेन क्रतव्यौ। एकः सामान्यग्रहणार्थः, अपरः सामान्यग्रहणाविघातार्थः।।
क्व सामान्यग्रहणार्थेनार्थः?
यङश्चाप्(4।1।74) इति।।
अथ क्व सामान्यग्रहणाविघातार्थेनार्थः?
अत्रैव।।
किं प्रयोजनम्?
चाबर्थम्
चाब्यथा स्यात्।।
(आदेशवादिन आक्षेपभाष्यम्)
तव कथं चाप्?
(प्रत्ययवादिनः समाधानश्लोकभाष्यम्)
टाब्विधिर्मम।
टापा मम सिद्धम्।।
(आदेशवादिनः प्रतिबन्दिभाष्यम्)
ननु च ममापि टापा सिद्धं स्यात्।।
(प्रत्ययवादिनः परिहारभाष्यम्)
न सिध्यति। अण इति, इञ्ञ इति चेकारः प्राप्नोति।।
(आदेशवादिनः परिहारभाष्यम्)
नैष दोषः।
नैवं विज्ञायते--अणन्तादकारान्ताद्, इञ्ञन्तादिकारान्तादिति।
कथं तर्हि?
अण्योऽकारः, इञ्ञ्य इकार इति।।
(प्रत्ययवादिनो दोषभाष्यम्)
स्वरार्थस्तर्हि त्वया चाब्वक्तव्यः। ञ्ञ्नितीत्याद्युदात्तत्वं मा भूत्, चितोऽन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यादिति।।
(आदेशवादिनः प्रत्याक्षेपभाष्यम्)
तवापि तर्हि ष्यङा उक्तत्वात् स्त्रीत्वस्य टाब्न प्राप्नोति।।
(प्रत्ययवादिनः श्लोकभाष्येण समाधानम्)
नैष दोषः।
उक्तेऽपि हि भवन्त्येते।
उक्तेऽपि तु स्त्रीत्वे भवन्त्येते टाबादय इति। उक्तमेतत्--स्वार्थिकाष्टाबादय इति।।
(आदेशवादिनो दोषवारकं भाष्यम्)
सानुबन्धकस्यादेशो मम।
ममापि तर्हि सानुबन्धकस्यादेश इत्कार्यं नेति, तेन ञ्ञिन्न भविष्यति।।
(प्रत्ययवादिनो दोषदर्शकं श्लोकभाष्यम्)
अस्थानिवत्त्वे दोषस्ते वृद्धिरत्र न सिध्यति।
अस्थानिवत्त्वे दोषः--वृद्धिस्ते न प्राप्नोति। औडुलोम्या, शारलोम्येति। न चेदानीमर्द्धजरतीयं लभ्यम्--वृद्धिर्मम भविष्यति, स्वरो नेति।
तद्यथा--अर्थं जरत्याः कामयन्ते, अर्धं नेति।।
(आदेशवादिनः प्रतिबन्दिश्लोकभाष्यम्)
त्वयाऽप्यत्र विशेषार्थं कर्तव्यं स्याद् विशेषणम्।
त्वयाऽप्यत्र विशेषणार्थोऽनुबन्धः कर्तव्यः।।
क्व विशेषणार्थेनार्थः?
ष्यङः सम्प्रसारणमिति।।
(प्रत्ययवादिनो दोषनिवारकं श्लोकभाष्यम्)
अक्रियैव विशेषोऽत्र सानुबन्धो विशेषवान्।
अक्रियैव मम विशेषः, सानुबन्धस्तु विशेषवान्।।
(आदेशवादिनो दोषभाष्यम्)
पाश्यायां ते कथं न स्यात्?
पाश्यापुत्र इत्यत्र कस्मान्न भवति?
(प्रत्ययवादिन उत्तरभाष्यम्)
एको मे स्याद्विशेषणम्
एको मम विशेषणार्थः। त्वया पुनर्द्वौ कर्तव्यौ।।
(आदेशवादिन आक्षेपकं श्लोकभाष्यम्)
अतैकस्मिन्नपि सति कः करिष्यते?
किं चातः?
अन्यस्मिन् सूत्रभेदः स्यात्
यद्येताभ्यामन्यः क्रियते, सूत्रभेदः कृतो भवति।
षिति लिङ्गं प्रसज्यते।
अथ षित् क्रियते,षित इतीकारः प्राप्नोति।
ङिति चेक्रीयिते दोषः।
अथ ङित् क्रियते, चेक्रीयिते दोषो भवति। लोलूयापुत्रः, लोलूयापति इति।।
(प्रत्ययवादिन उत्तरं श्लोकभाष्यम्)
व्यवधानान्न दुष्यति।।
अकारेण व्यवहितत्वान्न दोषो भवति।।
(आदेशवादिनः श्लोकभाष्यम्)
धातोरिति वर्तते, यश्चात्रानन्तरो नासौ धातुः।
यो धातुः सोऽननन्तरः
यश्च धातुर्नासावनन्तरः।
न चेदुभयतः साम्यमुभयत्र प्रसज्यते।
न चेदुभयतः साम्यम्, उभयत्र प्राप्नोति।
(प्रत्ययवादिनः समर्थकं भाष्यम्)
यदि पुनर्यङा धातुर्विशेष्येत?
(आदेशवादिभाष्यम्)
यङा विशेष्येत यदीह धातुर्यङ् धातुना वा यदि तुल्यमेतत्।
यद्येव यङा धातुर्विशेष्यते, अथापि धातुना यङ्, तुल्यमेतद्भवति।
(प्रत्ययवादिभाष्यम्)
उभौ प्रधानं यदि नात्र दोषः।
अथोभौ प्रधानं भवतः, नात्र दोषो भवति।।
(आदेशवादिभाष्यम्)
तथा प्रसार्येत तु वाक्पतिस्ते।
तथा सति वाक्पतिः, वाक्पुत्र इत्यत्र सम्प्रसारणं प्राप्नोति।
(प्रत्ययवादिभाष्यम्)
एवं तर्हि?
धातुप्रकरणस्येह
न स्थानमिति निश्चयः।
धातुप्रकरणस्येह स्थानं नास्तीति कृत्वा एष निश्चयः क्रियते।।
(आदेशवादिभाष्यम्)
अवस्यमात्वार्थं धातुग्रहणं कर्तव्यम्। इह मा भूत्--गोभ्याम्, गोभिः, नौभ्याम्, नौभिरिति।।
(प्रत्ययवादिभाष्यम्)
आत्वार्थं यदि कर्तव्यं
तत्रैवैतत्करिष्यते।।
उपदेशे यदेजन्तं
तस्य चेदात्वमिष्यते।
उद्देशो रूढिशब्दानां
तेन गोर्न भविष्यति।।
एवं तर्हि उपदेशे इत्युच्यते। उद्देशश्च प्रातिपदिकानां नोपदेशः।।
-4-1-79- गोत्रावयवात् (1327)
(ष्यङादेशाधिकरणम्)
(सूत्राक्षेपभाष्यम्)
किमर्थमिदमुच्यते?
(एकदेशिसमाधानभाष्यम्)
गोत्रावयवादगोत्रार्थम्। गोत्रावयवादित्युच्यते, अगोत्रार्थोऽयमारम्भः।।
(5220 एकदेश्याक्षेपवार्तिकम्।। 1 ।।)
- गोत्रावयवादगोत्रार्थमिति चेत्तदनिष्टम् -
(भाष्यम्) गोत्रावयवादगोत्रार्थमिति चेत्तदनिष्टं प्राप्नोति।
इहापि प्राप्नोति--आहिच्छत्री, कान्यकुब्जीति।।
(एकदेशिसमाधानभाष्यम्)
एवं तर्हि गोत्रादेव गोत्रावयवात्।।
(5121 सूत्राक्षेपवार्तिकम्।। 2 ।।)
- गोत्रादिति चेद्वचनानर्थक्यम् -
(भाष्यम्) गोत्रादिति चेद्वचनमनर्थकं भवति। सिद्धं गोत्रे पूर्वेणैव।।
(सिद्धान्त्येकदेशिभाष्यम्)
इदं तर्हि प्रयोजनम्--गुरूपोत्तमयोरित्युच्यते, अगुरूपोत्तमार्थोऽयमारम्भः।।
(5222 सूत्रप्रत्याख्याने वार्तिकम्। 3 ।।)
- अगुरूपोत्तमार्थमिति चेत् सर्वेषामवयवत्वात्सर्वप्रसङ्गः -
(भाष्यम्) अगुरूपोत्तमार्थमिति चेत् सर्वेषामवयवत्वात्सर्वत्र प्राप्नोति। अष्टाशीतिसहस्राण्यूर्ध्वरेतसामृषीणां बभूवुस्तत्रागस्त्याष्टमैर्ऋषिभिः प्रजनोऽभ्युपगतः। तत्रभवतां यदपत्यं तानि गौत्राणि, अतोऽन्ये गोत्रावयवाः, तत उत्पत्तिः प्राप्नोति। तच्चानिष्टम्। तस्मान्नार्थोऽनेन योगेन।।
(प्रत्याख्यानसाधकभाष्यम्)
कथं येभ्योऽगुरूपोत्तमेभ्य इष्यते?
(5223 प्रत्याख्यानसाधकवार्तिकम्।। 4 ।।)
- सिद्धं तु रौढ्यादिषूपसंख्यानात् -
(भाष्यम्) सिद्धमेतत।
कथम्?
रौढ्यादिषूपसंख्यानात्। रौढ्यादिषूपसंख्यानं कर्तव्यम्।
के पुना रौढ्यादयः?
ये क्रौड्यादयः।।
(भारद्वाजीयमतेन फलप्रदर्शकम्भाष्यम्)
भारद्वाजीयाः पठन्ति--सिद्धं तु कुलाख्याभ्यो लोके गोत्राभिमताभ्य इति।
सिद्धमेतत्।
कथम्?
कुलाख्या लोके गोत्रावयवा इत्युच्यन्ते।।
अथ वा गोत्रावयवः को भवितुमर्हति?
यो गोत्रादवयुतः।
कश्च गोत्रादवयुतः?
योऽनन्तरः--दैवदत्त्या, याज्ञदत्त्येति।।
इति श्रीभगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य प्रथम पादे द्वितीयमाह्निकम्।।
-4-1-82- समर्थानां प्रथमाद्वा (1328)
(अधिकाराधिकरणम्)
(पदकृत्यभाष्यम्)
समर्थवचनं किमर्थम्?
समर्थादुत्पत्तिर्यथा स्यात्--उपगोरपत्यम्।
असमर्थान्मा भूदिति--कम्बल उपगोरपत्यं देव दत्तस्येति।।
(5224 पूर्वपक्षवार्तिकम्।। 1 ।।)
- समर्थवचनमनर्थकम्, न ह्यसमर्थेनार्थाभिधानम् -
(भाष्यम्) समर्थवचनमनर्थकम्।
किं कारणम्?
नह्यसमर्थेनार्थाभिधानम्। नह्यसमर्थादुत्पद्यमानेन प्रत्ययेनार्थाभिधानं स्यात्। अनभिधानात्तत उत्पत्तिर्न भविष्यति।।
(पदकृत्यभाष्यम्)
अथ प्रथमवचनं किमर्थ?
प्रथमवचनं प्रकृतिविशेषणार्थम्। प्रथमात्प्रत्ययोत्पत्तिर्यथा स्यात्, अप्रथमान्मा भूत्-उपगोरपत्यमिति अपत्यशब्दात्।।
(5225 पूर्वपक्षवार्तिकम्।। 2 ।।)
- प्रथमवचनमनर्थकं न ह्यप्रथमेनार्थाभिधानम् -
(भाष्यम्) प्रथमवचनमनर्थकम्।
किं कारणम्?
न ह्यप्रथमेनार्थाभिधानम्। न ह्यप्रथमादुत्पद्यमानेन प्रत्ययेनार्थस्याभिधानं स्यात्, अनभिधानात्तत उत्पत्तिर्न भविष्यति।।
(पदकृत्यभाष्यम्)
अथ वावचनं किमर्थम्?
वाक्यमपि यथा स्यात्-उपगोरपत्यमिति।।
(5226 पूर्वपक्षवार्तिकम्।। 3 ।।)
- वावचने चोक्तम् -
(भाष्यम्) किमुक्तम्?
तत्र तावदुक्तं वावचनानर्थक्यं च, तत्र नित्यत्वात् सन इति।
इहापि वावचनमनर्थकम्।
किं कारणम्?
तत्र नित्यत्वात्प्रत्ययस्य।।
(वावचनप्रत्याख्यानसमर्थकभाष्यम्)
इह द्वौ पक्षौ वृत्तिपक्षश्चावृत्तिपक्षश्च। स्वभावतश्चैतद्भवति--वाक्यं च वृत्तिश्च।
तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन किमन्यच्छक्यमभिसम्बन्धुमन्यदतः संज्ञायाः, न च संज्ञाया भावाभावाविष्येते।
तस्मान्नार्थो वावचनेन।।
(सिद्धान्तभाष्यम्)
अथैतत्समर्थग्रहणं नैव कर्तव्यम्।
कर्तव्यं च।
किं प्रयोजनम्?
समर्थादुत्पत्तिर्यथा स्यादसमर्थान्मा भूदिति।
किं पुनः समर्थम्?
अर्थाभिधाने यत्समर्थम्।
किं पुनस्तत्? कृतवर्णानुपूर्वीकं पदम्--सौत्थितिः, वैक्षमाणिरिति।।
(वावचने सिद्धान्तभाष्यम्)
अथ तद्वावचनं नैव कर्तव्यम्।
कर्तव्यं च।
किं प्रयोजनम्?
नित्याः शब्दाः, नित्येषु शब्देषु वाक्यस्य साधुत्वमनेनान्वाख्यायते।।
-4-1-83- प्राग्दीव्यतोऽण् (1329)
(अणधिकाराधिकरणम्)
(आक्षेपभाष्यम्)
अयुक्तोऽयं निर्देशः, न हि तत्र कश्चिद् दीव्यच्छब्दः पठ्यते।
कस्तर्हि?
दीव्यतिशब्दः।
कथं तर्हि निर्देशः कर्तव्यः?
प्राग्दीव्यतेरिति।
स तर्हि तथा निर्देशः कर्तव्यः--प्राग्दीव्यतेरिति?
(समाधानभाष्यम्)
न कर्तव्यः।
दीव्यतिशब्दे दीव्यच्छब्दोऽस्ति तस्मादेषा पञ्ञ्चमी।।
(परिभाषाज्ञापकपरभाष्यम्)
किं पुनः कारणं विकृतनिर्देशः क्रियते?
एतज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा--एकदेशविकृतमनन्यवद्भवतीति।
किमेतस्य ज्ञापने प्रयोजनम्?
एकदेशविकृतेषूपसंख्यानं चोदितं तन्न कर्तव्यं भवति।
अथ वा प्राक्शब्दोऽयं दिक्शब्दः, दिक्शब्दैश्च योगो पञ्ञ्चमी भवति। तत्र अप्रथमासमानाधिकरणे इति शता भविष्यति।।
(पदकृत्यभाष्यम्)
अथ प्राग्वचनं किमर्थम्?
(5227 सिद्धान्तवार्तिकम्।। 1 ।।)
- प्राग्वचनं सकृद्विधानार्थम् -
(भाष्यम्) प्राग्वचनं क्रियते, सकृद्विधानार्थम्। सकृद्विहितः प्रत्ययो विहितो यथा स्यात्। योगे योगे तस्य ग्रहणं मा कार्षमिति।।
(आक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम्।
अधिकारादप्येतत् सिद्धम्--अधिकारः प्रतियोगं तस्यानिर्देशार्थ इति योगे योग उपतिष्ठते।।
(5228 समाधानवार्तिकम्।। 2 ।।)
- अधिकारात्सिद्धमिति चेदपवादविषयेऽण्प्रसङ्गः -
(भाष्यम्) अधिकारात् सिद्धमिति चेदपवादविषयेऽण् प्राप्नोति--अत इञ्ञ् (4।1।95) अण्चेत्यणपि प्राप्नोति।।
(5229 सिद्धान्तवार्तिकम्।। 3 ।।)
- तस्मात् प्राग्वचनम् -
(भाष्यम्) तस्मात्प्राग्वचनं कर्तव्यम्।।
(सूत्रार्थविषये पक्षद्वयबोधकं भाष्यम्)
अथ क्रियमाणेऽपि प्राग्वचने कथमिदं विज्ञायते--प्राग्दीव्यतो याः प्रकृतय इति, आहो स्वित्प्राग्दीव्यतो येऽर्था इति।
किं चातः?
यदि विज्ञायते प्राग्दीव्यतो याः प्रकृतय इति,
स एव दोषः, अपवादविषयेऽण्प्रसङ्ग इति।।
अथ विज्ञायते प्राग्दीव्यतो येऽर्था इति,
न दोषो भवति। समानेऽर्थे प्रकृतिविशेषादुत्पद्यमान इञ्ञणं बाधते।
यथा न दोषस्तथाऽस्तु।।
(अन्यतरपक्षेऽभिनिवेशभाष्यम्)
प्राग्दीव्यतो येऽर्था इति विज्ञायते।
कुत एतत्--
तथा ह्ययं प्राधान्येनार्थं प्रतिनिर्दिशति। इतरथा हि बह्व्यस्तत्र प्रकृतयः पठ्यन्ते, ततो यां कां चिदेव
निमित्तत्वेनोपाददीत।।
अथ वा पुनरस्तु प्राग्दीव्यतो याः प्रकृतय इति।
ननु चोक्तमपवादविषयेऽण्प्रसङ्ग इति।।
(5230 एकदेशिसमाधानवार्तिकम्।। 4 ।।)
- न वा क्व चिद्वावचनात् -
(भाष्यम्) न वा एष दोषः।
किं कारणम्?
क्व चिद्वावचनात्। यदयं क्व चिद्वावचनं करोति--पीलाया वा (4।1।118), उदश्वितोऽन्यतरस्याम् (4।2।19) इति, तज्ज्ञापयत्याचार्यो नापवादविषयेऽण्भवतीति।।
(एकदेशिसिद्धान्तभाष्यम्
यद्येतज्ज्ञाप्यते नार्थः प्राग्वचनेन। अधिकारात्सिद्धम्।
ननु चोक्तमधिकारात्सिद्धमिति चेदपवादविषयेऽण्प्रसङ्ग इति।
नैष दोषः।
परिहृतमेतत्--न वा क्व चिद्वावचनादिति।।
किं पुनः कारणमियानवधिर्गृह्यते, न प्राक् ठकः इत्येवोच्येत?
एतज्ज्ञापयत्यर्थेष्वयम्भवतीति।
किमेतस्य ज्ञापने प्रयोजनम्?
प्रकृतिविशेषादुत्पद्यमान इञ्ञ्-अणं बाधते।।
-4-1-85- दित्यदित्यादित्यपत्त्युत्तरपदाण्ण्यः (1330)
(ण्यप्रत्ययाधिकरणम्)
(5231 विधिवार्तिकम्।। 1 ।।)
- (ण्यप्रकरणे) वाङ्यतिपितृमतां छन्दस्युपसंख्यानम् -
(भाष्यम्) (ण्यप्रकरणे) वाङ्यतिपितृमतां छन्दस्युपसंख्यानं कर्तव्यम्। वाक्--वाच्यः। वाक्।। मति--मात्यः। मति।। पितृमत्--पैतृमत्यः।।
(5232 विधिवार्तिकम्।। 2 ।।)
- पृथिव्या ञ्ञाञ्ञौ -
(भाष्यम् पृथिव्या ञ्ञाञ्ञौ वक्तव्यौ। पार्थिवा, पार्थिवी।।
(5233 विधिवार्तिकम्।। 3 ।।)
- देवस्य यञ्ञञ्ञौ -
(भाष्यम्) देवस्य यञ्ञञ्ञौ वक्तव्यौ। दैव्यम्, दैवम्।
(5234 विधिवार्तिकम्।। 4 ।।)
- बहिषष्टिलोपश्च यञ्ञ् च -
(भाष्यम्) बहिषष्टिलोपश्च यञ्ञ् च वक्तव्यः। बहिर्भवो बाह्यः।।
(5235 विधिवार्तिकम्।। 5 ।।)
- इर्कक्च -
(भाष्यम् इर्कक्च वक्तव्यः। बाहीकः।।
(5236 विधिवार्तिकम् ।। 6 ।।)
- इर्कञ्ञ् छन्दसि -
(भाष्यम्) इर्कञ्ञ् छन्दसि वक्तव्यः। बाहीकमस्तु भद्रं वः।।
(5237 विधिवार्तिकम्।। 7 ।।)
- स्थाम्नोऽकारः -
(भाष्यम्) स्थाम्नोऽकारो वक्तव्यः। अश्वत्थामः।।
(5238 विधिवार्तिकम्।। 8 ।।)
- लोसोऽपत्येषु बहुषु -
(भाष्यम्) लोम्नोऽपत्येषु बहुषु अकारो वक्तव्यः। उडुलोमाः, शारलोमाः।
बहुष्विति किमर्थम्?
औडुलोमिः, शारलोमिः।।
(5239 विधिवार्तिकम्।। 9 ।।)
- सर्वत्र गोरजादिप्रसङ्गे यत् -
(भाष्यम्) सर्वत्र गोरजादिप्रसङ्गे यद्वक्तव्यः। गवि भवं गव्यम्। गोः स्वं गव्यम्। गौर्देवताऽस्य स्थालीपाकस्य गव्यः स्थालीपाकः।।
(5240 सिद्धान्तवार्तिकम्।। 10 ।।)
- ण्यादयोऽर्थविशेषलक्षणादणपवादात्पूर्वविप्रतिषिद्धम् -
(भाष्यम्) ण्यादयोऽर्थविशेषलक्षणादणपवादाद्भवन्ति पूर्वविप्रतिषेधेन।
ण्यादीनामवकाशः--दितिर्देवताऽस्य दैत्यः, अदितिर्देवताऽस्य आदित्यः।
अर्थविशेषलक्षणस्याणपवादस्यावकाशः--दुलेरपत्यं दौलेयः, बालेयः।
इहोभयं प्राप्नोति--दितेरपत्यं दैत्यः, अदितेरादित्यः।।
अपरस्यार्थविशेषलक्षणस्याणपवादस्यावकाशः--अचित्तहस्तिधेनोष्ठक् (4।2।47) आपूपिकम्, शाष्कुलिकम्।
ण्यादीनामवकाशः--बार्हस्पत्यम्, प्राजापत्यम्।
इहोभयं प्राप्नोति--वनस्पतीनां समूहो वानस्पत्यम्।
ण्यादयो भवन्ति पूर्वविप्रतिषेधेन।
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः।
न वक्तव्यः।
इष्टवाची परशब्दः। विप्रतिषेधे परं यदिष्टं तद्भवतीति।
दितिवनस्पतिभ्यामपत्यसमूहयोः।।
-4-1-86- उत्सादिभ्योऽञ्ञ् (1331)
(अञ्ञ्प्रत्ययाधिकरणम्)
(5241 सिद्धान्तवार्तिकम्।। 1 ।।)
- अञ्ञ्प्रकरणे ग्रीष्मादच्छन्दसि -
(भाष्यम्) अञ्ञ्प्रकरणे ग्रीष्मादच्छन्दसीति वक्तव्यम्। ग्रैष्मम्।
अच्छन्दसीति किम्?
त्रिष्टुब् ग्रैष्मी।।
(छन्दःपदार्थविवरणभाष्यम्)
यद्यच्छन्दसीत्युच्यते, ग्रैष्मावेतौ मासौ--अत्र न प्राप्नोति।
अच्छन्दसीत्युच्यते, नेदं छन्दो विवक्षितम्--काठकं कालापकं मौदकं पैप्पलादकमिति।
किं तर्हि?
प्रत्ययार्थविशेषणमेतद्। न चेच्छन्दः प्रत्ययार्थो भवतीति।।
-4-1-87- स्त्रीपुंसाभ्यां नञ्ञ्स्नञ्ञौ भवनात् (1332)
(नञ्ञ्स्नञ्ञाधिकरणम्)
(प्रत्ययभेदाक्षेपभाष्यम्)
किमर्थं नञ्ञ्स्नञ्ञावुच्येते, न नञ्ञेवोच्येत?
का रूपसिद्धिः?
पौंस्नम्। पुंस् इति सकारान्तः, नञ्ञ्शब्दश्च प्रत्ययः।
न सिध्यति। संयोगान्तस्य लोपः(8।2।23) इति लोपः प्राप्नोति।
एवं तर्हि नैवार्थो नञ्ञा, नापि स्नञ्ञा। अञ्ञ् प्रकृतः सोऽनुवर्तिष्यते, नकारश्चागमो वक्तव्यः।
अथ नकारागमे सति किं पूर्वान्तः करिष्यते, आहोस्वित्परादिः?
किं चातः?
यदि पूर्वान्तः--
स्त्रैणाः, बहुषु लोपः प्राप्नोति।
स्त्रैणानां सङ्घः, सङ्घाङ्कलक्षणेष्वञ्ञ्यञ्ञिञ्ञामण् (4।3।127) इत्यण् प्राप्नोति।।
अथ परादिः--पौंस्नम्। स एव दोषः--संयोगान्तलोपः प्राप्नोति।।
अस्तु पूर्वान्तः।
कथं स्त्रैणाः, स्त्रैणानां सङ्घ इति?
उभयत्र लौकिकस्य गोत्रस्य ग्रहणम्। न चेदं लौकिकं गोत्रम्।।
इर्कारस्तर्हि प्राप्नोति।
इष्टमेवैतत्संगृहीतम्--स्त्रैणी, पौंस्नीत्येव भवितव्यम्।
एवं हि सौनागाः पठन्ति--नञ्ञ्स्नञ्ञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम् इति।।
(प्रयोजनमुखेन समाधानभाष्यम्)
टिलोपस्तर्हि प्राप्नोति।
नुग्वचनान्न भविष्यति।
भवेदिह नुग्वचनान्न स्यात्स्त्रैणमिति।
इह तु खलु पौंस्नमिति, नुग्वचनादेव प्राप्नोति।
तस्मान्नञ्ञ्स्नञ्ञौ वक्तव्यौ।।
(जिज्ञासाभाष्यम्)
अथेमौ नञ्ञ्स्नञ्ञौ प्राग्भवनादिति, आहो स्वित्प्राग्वतेः?
कश्चात्र विशेषः?
(5242 पूर्वपक्षवार्तिकम्।। 1 ।।)
- नञ्ञ्स्नञ्ञौ भवनादिति चेद्वत्यर्थे प्रतिषेधः -
(भाष्यम्) नञ्ञ्स्नञ्ञौ भवनादिति चेद्वत्यर्थे प्रतिषेधो वक्तव्यः--स्त्रीवत्, पुंवदिति।
किं पुनः कारणं न सिद्ध्यति?
इमौ नञ्ञ्स्नञ्ञौ प्राग्भवनादित्युच्येते, तौ विशेषविहितौ सामान्यविहितं वतिं बाधेयाताम्।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्।
वतेः प्रागिति वक्ष्यामि।।
(5243 पूर्वपक्षवार्तिकम्।। 2 ।।)
- वतेः प्रागिति चेद् भाव उपसंख्यानम् -
(भाष्यम्) वतेः प्रागिति चेद् भाव उपसंख्यानं कर्तव्यम्--स्त्रीभावः स्त्रैणम्, पुंभावःपौंस्नमिति। सूत्रं च भिद्यते।।
(समाधानभाष्यम्)
यथान्यासमेवास्तु।।
ननु चोक्तं नञ्ञ्स्नञ्ञौ भवनादिति चेद्वत्यर्थे प्रतिषेध इति।
नैष दोषः।
आचार्यप्रवृत्तिर्ज्ञापयति--न वत्यर्थे नञ्ञ्स्नञ्ञौ भवत इति, यदयं स्त्रियाः पुंवदिति निर्देशं करोति।
एवमपि स्त्रीवदिति न सिध्यति।
योगापेक्षं ज्ञापकम्।।
-4-1-88- द्विगोर्लुगनपत्ये (1333)
(लुगधिकरणम्)
(सूत्रार्थोपपादकभाष्यम्)
इह कस्मान्न भवति--त्रैविद्यः, पाञ्ञ्चनदः, षाट्कुल इति?
इह तावत्--त्रैविद्य इति--
नैवं विज्ञायते--तिस्रौ विद्या अधीते त्रैविद्य इति।
कथं तर्हि?
त्र्यवयवा विद्या त्रिविद्या, त्रिविद्यामधीते त्रैविद्य इति।
इहापि पाञ्ञ्चनद इति--
नैवं विज्ञायते--पञ्ञ्चसु नदीषु भवः पाञ्ञ्चनद इति।
कथं तर्हि?
पञ्ञ्चानां नदीनां समाहारः पञ्ञ्चनदम्, पञ्ञ्चनदे भवः पाञ्ञ्चनद इति।
षाट्कुल इति--
नैवं विज्ञायते--षट्सु कुलेषु भवः षाट्कुल इति,
कथं तर्हि?
षण्णां कुलं षट्कुलम्, षट्कुले भवः षाट्कुल इति।।
(सूत्रार्थसंग्राहकभाष्यम्)
अजादिग्रहणं च कर्तव्यम्। इह मा भूत्--पञ्ञ्चगर्गरूप्यम्, पञ्ञ्चगर्गमयम्।।
(5244 पूरकवार्तिकम् ।। 1 ।।)
- द्विगोर्लुकि तन्निमित्तग्रहणम् -
(भाष्यम्) द्विगोर्लुकि तन्निमित्तग्रहणं कर्तव्यम्, द्विगुनिमित्तं यस्तद्धितः--तस्य लुग्भवतीति वक्तव्यम्।
इह मा भूत्--पञ्ञ्चकपालस्येदं खण्डं पाञ्ञ्चकपालमिति।।
(5245 पूरकवार्तिकम्।। 2 ।।)
- अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपि -
(भाष्यम्) अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपीति वक्तव्यम्।
किं प्रयोजनम्?
पञ्ञ्चषु कपालेषु संस्कृतः पञ्ञ्चकपालः, पञ्ञ्चकपाल्यां संस्कृत इत्यपि विगृह्य पञ्ञ्चकपाल इत्येव यथा स्यात्।।
(जिज्ञासाभाष्यम्)
अथ क्रियमाणेऽपि तन्निमितग्रहणे कथमिदं विज्ञायते--
तस्य निमित्तं तन्निमित्तं तन्निमित्तादिति,
आहो स्वित् स निमित्तमस्य सोऽयं तन्निमित्तस्तन्निमित्तादिति।
किं चातः?
यदि विज्ञायते--तस्य निमित्तं तन्निमित्तं तन्निमित्तादिति,
क्रियमाणेऽपि तन्निमित्तग्रहणेऽत्र प्राप्नोति-- पञ्ञ्चकपालस्येदं खण्डमिति।।
अथ विज्ञायते स निमित्तमस्यसोऽयं तन्निमित्तस्तन्निमित्तादिति,
न दोषो भवति।
यथा न दोषस्तथाऽस्तु।।
स निमित्तमस्य सोऽयं तन्निमित्तः, तन्निमित्तादिति विज्ञायते।
कुत एतत्।
यदयमाह--अर्थविशेषाऽसंप्रत्ययेऽतन्निमित्तादपीति।।
(प्रथमवार्तिकान्यथासिद्धिकरणभाष्यम्)
तत्तर्हि निमित्तग्रहणं कर्तव्यम्?
न कर्तव्यम्।
द्विगोरिति नैषा पञ्ञ्चमी,
का तर्हि?
संबन्धे षष्ठी--द्विगोस्तद्धितस्य लुग्भवति।
किञ्ञ्च द्विगोस्तद्धितः?
निमित्तम्। यस्मिन् द्विगुरित्येतद्भवति।
कस्मिंश्चैतद्भवति?
प्रत्यये।।
(द्वितीयवार्तिकान्यथासिद्धिभाष्यम्)
इदं तर्हि वक्तव्यम्--अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपीति।
एतच्च न वक्तव्यम्।
इहास्माभिस्त्रैशब्द्यं साध्यं--पञ्ञ्चसु कपालेषु संस्कृतः, पञ्ञ्चकपाल्यां संस्कृतः, पञ्ञ्चकपालः। दशकपाल इति।
तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः, अपरस्मादुत्पत्तिर्भविष्यत्यव्यविकन्यायेन।
तद्यथा--अवेर्मासमिति विगृह्याविकशब्दादुत्पत्तिर्भवति--आविकमिति।
एवं पञ्ञ्चसु कपालेषु संस्कृत इति विगृह्य पञ्ञ्चकपाल इति भविष्यति।
पञ्ञ्चकपाल्यां संस्कृत इति विगृह्य वाक्यमेव भविष्यति।
त्रैशब्द्यं चेह साध्यम्, तच्चैवं सति सिद्धं भवति।।
-4-1-89- गोत्रेऽलुगचि (1334)
(अलुगधिकरणम्)
(5246 पूर्वपक्षवार्तिकम्।। 1 ।।)
- गोत्रेऽलुगचीति चेदितरेतरा श्रयत्वादप्रसिद्धिः -
(भाष्यम्) गोत्रेऽलुगचीति चेदितरेतराश्रयत्वादप्रसिद्धिः।
का इतरेतराश्रयता?
अलुङि्गमित्तोऽजादिः, अजादिनिमित्तश्चालुक्;
तदेतदितरेतराश्रयं भवति।
इतरेतराश्रयाणि च न प्रकल्पन्ते।।
(5247 पूर्वपक्षवार्तिकम्।। 2 ।।)
- विप्रतिषेधात्तु लुकश्छविधानम् -
(भाष्यम्) विप्रतिषेधात्तु लुकः छो भविष्यति। लुकोऽवकाशः--गर्गाः, वत्साः, बिदाः, उर्वाः।
छस्यावकाशः--शालीयः, मालीयः, गार्गीयः, वात्सीयः।
इहोभयं प्राप्नोति--गर्गाणां छात्राः गार्गीयाः, वात्सीयाः।
छो भवति विप्रतिषेधेन।
नैष युक्तो विप्रतिषेधः।।
(समाधानश्लोकभाष्यम्)
भूम्नीति च लुक् प्राप्तो
बाह्ये चार्थे विधीयतेऽजादिः।
बहिरङ्गमन्तरङ्गाद्
विप्रतिषेधादयुक्तं स्यात्।।
भूम्नि प्राप्तस्य लुको
यदजादौ तद्धितेऽलुकं शास्ति।
एतद् ब्रवीति कुर्वन्
समानकालावलुग्लुक् च।।
यदयं भूम्नि प्राप्तस्य लुकोऽजादौ तद्धितेऽलुकं शास्ति, तज्ज्ञापयत्याचार्यः समानकालावेतावलुग्लुकाविति।।
(अजादिप्रत्ययस्य बलवत्त्वोपपादकभाष्यम्)
यदि वा लुकः प्रसङ्गे भवत्यलुक् छस्तथा प्रसिद्धोऽस्य।
यदि वा लुकः प्रसङ्गेऽलुग्भवति तथाऽस्य च्छः प्रसिद्धो भवति।
पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः।।
(प्रकारान्तरोपपादकभाष्यम्)
लुग्वाऽलुकः प्रसङ्गं
प्रतीक्षते छेऽलुगस्य तथा।।
लुग्वा पुनरलुकः प्रसङ्गं यदि प्रतीक्षते, तथाऽस्य छेऽलुक् सिद्धो भवति।
प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते।।
(5248 पूर्वपक्षवार्तिकम्।। 2 ।।)
- गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्वयेकयोरलुक् -
(भाष्यम्) गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुग्वक्तव्यः। बिदानामपत्यं माणवको बैदः, बैदौ।
किमर्थमिदम्, नाचीत्येवालुक् सिद्धः?
अचीत्युच्यते, न चात्राजादिम्पश्यामः।
प्रत्ययलक्षणेन।
वर्णाश्रये नास्ति प्रत्ययलक्षणम्।।
(5249 पूर्वपक्षवार्तिकम्।। 3 ।।)
- एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि -
(भाष्यम्) एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि वक्तव्यः। बैदस्यापत्यं बहवो माणवका बिदाः, बैदयोर्बिदाः।
अञ्ञ्यो बहुषु यञ्ञ्यो बहुष्वित्युच्यमानो लुग्न प्राप्नोति।
मा भूदेवम्--अञ्ञ्यो बहुषु यञ्ञ्यो बहुष्विति।
अञ्ञन्तं यद्बहुषु यञ्ञन्तं यद्बहुष्वित्येवं भविष्यति।।
नैवं शक्यम्।
इह हि दोषः स्यात्--काश्यपप्रतिकृतयः काश्यपा इति।।
(सिद्धान्तभाष्यम्)
नैष दोषः।
यत्तावदुच्यते--गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुग्वक्तव्यः इति।
न वक्तव्यः।
अचीत्येवालुक् सिद्धः।
अचीत्युच्यते, न चात्राजादिं पश्यामः।
प्रत्ययलक्षणेन।।
ननु चोक्तं वर्णाश्रये नास्ति प्रत्ययलक्षणमिति।
यदि वा. कानिचिद्वर्णाश्रयाण्यपि प्रत्ययलक्षणेन भवन्ति, तथा चेदमपि भविष्यति।।
अथ वाऽविशेषेणालुकमुक्त्वा हलि नेति वक्ष्यामि।
यद्यविशेषेणालुकमुक्त्वा हलि नेत्युच्यते, बिदानामपत्यं बहवो माणवका बिदाः--अत्राप्यलुक् प्राप्नोति।
अस्तु।
पुनरस्य युवबहुत्वे वर्तमानस्य लुग्भविष्यति।
पुनरलुक्कस्मान्न भवति?
समर्थानां प्रथमस्य गोत्रप्रत्ययान्तस्यालुगुच्यते, न चैतत्समर्थानां प्रथमं गोत्रप्रत्ययान्तम्।
किं तर्हि?
द्वितीयमर्थमुपसंक्रान्तम्।
अवश्यं चैतदेवं विज्ञेयम्--अत्रिभरद्वाजिका, वसिष्ठकश्यपिका, भृग्वङि्गरसिका, कुत्सकुशिकिका--इत्येवमर्थम्।।
(5250 सिद्धान्तवार्तिकम् ।। 4 ।।)
- गर्गभार्गविकाग्रहणं वा नियमार्थम् -
(भाष्यम्) अथ वा गर्गभार्गविकाग्रहणं नियमार्थं भविष्यति।
एतस्यैव गोत्रप्रत्ययान्तस्य द्वितीयमर्थमुपसंक्रान्तस्यालुग्भवति, नान्यस्येति।।
(सिद्धान्तभाष्यम्)
यदप्युच्यते--एकवचनद्विवचनान्तस्य च प्रवृत्तौ बहुषु लोपो यूनि वक्तव्यः, अञ्ञ्यो बहुषु यञ्ञ्यो बहुष्वित्युच्यमानो लुङ् न प्राप्नोतीति।
मा भूदेवम्--अञ्ञ्यो बहुषु यञ्ञ्यो बहुष्विति, अञ्ञन्तं यद्बहुषु यञ्ञन्तं यद्बहुष्वित्येवं भविष्यति।
ननु चोक्तं नैवं शक्यमिह हि दोषः स्यात्-- काश्यपप्रतिकृतयः काश्यपा इति।
नैष दोषः।
लौकिकस्य तत्र गोत्रस्य ग्रहणम्, न चैतल्लौकिकं गोत्रम्।।
यद्यञ्ञन्तं यद्बहुषु यञ्ञन्तं यद्बहुष्वित्येवमुच्यते, बिदानामपत्यं माणवको बैदः, बैदौ--अत्रापि प्राप्नोति।।
अलुगत्र लुकं बाधिष्यते। अलुकि च कृते पुनर्लुको निमित्तं नास्तीति कृत्वा पुनर्लुग्न भविष्यति।।
(5251 सिद्धान्तवार्तिकम्।। 5 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
आपत्यं वा गोत्रम्, परमप्रकृतेश्चापत्यः, आपत्याज्जीवद्वंश्यात्स्वार्थे द्वितीयो युवसंज्ञः स चास्त्रियाम् एको गोत्रग्रहणानर्थक्यं च, बहुवचनलोपिषु च सिद्धम् इति।
तत्र बिदानामपत्यं माणवक इति विगृह्य बिदशब्दाद्द्व्येकयोरुत्पत्तिर्भविष्यति--बैदः, बैदौ।
बैदस्यापत्यं बहवो माणवक इति विगृह्य बिदशब्दाद्बहुषूत्पत्तिर्भविष्यति--बिदा इति, अविरविकन्यायेन।।
-4-1-90- यूनि लुक् (1336)
(लुगधिकरणम्)
(5252 आक्षेपवार्तिकम्।। 1 ।।)
- यूनि लुगचीति चेत् प्रत्ययस्यायथेष्टप्रसङ्गः -
(भाष्यम्) यूनि लुगचीति चेत् प्रत्ययस्यायथेष्टं प्राप्नोति। अनिष्टे प्रत्ययेऽवस्थिते लुक्। अनिष्टस्य प्रत्ययस्य श्रवणं प्रसज्येत।।
(5253 समाधानवार्तिकम्।। 2 ।।)
- सिद्धं त्वविशेषेण लुग्वचनं हलि च प्रतिषेधः -
(भाष्यम्) सिद्धमेतत्।
कथम्?
अविशेषेण लुकमुक्त्वा हलि नेति वक्ष्यामि।
सिध्यति।
सूत्रं तर्हि भिद्यते।।
(वार्तिकान्यथासिद्धिकरणभाष्यम्)
यथान्यासमेवास्तु।
ननु चोक्तम्--यूनि लुगचीति चेत् प्रत्ययस्यायथेष्टप्रसङ्गः इति।
नैष दोषः।
अचीति नैषा परसप्तमी।
का तर्हि?
विषयसप्तमी--अजादौ विषय इति। तत्राचि विषये लुकि कृते यो यतः प्रत्ययः प्राप्नोति स ततो भविष्यति।।
(प्रयोजनावतरणभाष्यम्)
कानि पुनरस्य योगस्य प्रयोजनानि?
(5254 प्रयोजनवार्तिकम्।। 3 ।।)
- प्रयोजनं सौवीरगोत्रेभ्यो णाठक्छाः -
(भाष्यम्) ण, फाण्टाहृतेरपत्यं माणवकः--फाण्टाहृतः, फाण्टाहृतस्य यूनश्छात्राः--फाण्टाहृताः। ण।।
ठक्, भागवित्तेरपत्यं माणवको भागवित्तिकः। भागवित्तिकस्य यूनश्छात्राः--भागवित्ताः। ठक्।।
छ, तैकायनेरपत्यं माणवकस्तैकायनीयः। तैकायनीयस्य यूनश्छात्राः--तैकायनीयाः।।
(5255 प्रयोजनवार्तिकम्।। 4 ।।)
- इञ्ञ्ण्यौ सर्वत्र -
(भाष्यम्) इञ्ञ्ण्यौ सर्वत्र प्रयोजनम्। औपगवे र्यूनश्छात्राः--औपगवीयाः। वृद्धवदतिदेशे सति इञ्ञो गोत्र इत्यण् प्राप्नोति।।
नैष दोषः।
प्रत्याख्यायतेऽसावतिदेशः।
कथं यानि प्रयोजनानि?
तानि ज्ञापकेन सिद्धानि।।
(प्रयोजनान्तरभाष्यम्)
यत्खच्छान्तात्तर्हि--इञ्ञः प्रयोजनम्।
यत्--श्वशुरस्यापत्यं श्वशुर्यः, श्वशुर्यस्यापत्यं श्वाशुरिः। श्वाशुरेर्यूनश्छात्राः श्वाशुराः--यत्।।
ख--कुलस्यापत्यं कुलीनः, कुलीनस्यापत्यं कौलीनिः, कौलीनेर्यूनश्छात्राः कौलीनाः--ख।।
छ--श्वसुरपत्यं स्वस्रीयः, स्वस्रीयस्यापत्यं स्वास्रीयिः, स्वास्रीयेर्यूनः छात्राः स्वास्रीयाः।।
(प्रयोजनाक्षेपभाष्यम्)
एतान्यपि हि न सन्ति प्रयोजनानि। अत्रापि यूनि--श्वशुर्यः, कुलीनः, स्वस्रीय इत्येव भवितव्यम्। उक्तमेतत्--अणिञ्ञोर्लुकि--अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम् इति।
अब्राह्मणगोत्रमात्रादित्युच्यते, न चैतदब्राह्मणगोत्रमात्रम्।
अब्राह्मणगोत्रमात्रादिति नायं पर्युदासः--यदन्यद् ब्राह्मणगोत्रमाणादिति।
किं तर्हि--
प्रसज्य प्रतिषेधोऽयम्--ब्राह्मणगोत्रमात्रान्नेति।।
अवश्यं चैतदेवं विज्ञेयम्। मायूरिः, कापोतिः, कापिञ्ञ्जलिरित्येवमर्थम्।।
(प्रयोजनभाष्यम्)
एवं तर्हि--अण्ण्यौ सर्वत्र प्रयोजनम्।।
अण्--ग्लुचुकायनेरपत्यं माणवको ग्लौचुकायनः, ग्लौचुकायनस्य यूनश्छात्रा ग्लौचुकायनाः।
ण्यश्च कापिञ्ञ्जलाद्यर्थम्। कापिञ्ञ्जलादेरपत्यं माणवकः कापिञ्ञ्जलाद्यः, कापिञ्ञ्जलाद्यस्य यूनश्छात्राः कापिञ्ञ्जलादाः।।
(5256 पूर्वपक्षवार्तिकम्।। 5 ।।)
- प्राग्दीव्यतोऽधिकारे यूनो वृद्धवदतिदेशः -
(भाष्यम्) प्राग्दीव्यतोऽधिकारे यूनो वृद्धवदतिदेशः कर्तव्यः। युवा वृद्धवद्भवतीति वक्तव्यम्।
किं प्रयोजनम्?
गार्ग्यायणानां समूहो गार्ग्यायणकम्, गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः। गोत्राश्रयो वुञ्ञ् यथा स्यात्।
यदि वृद्धवदतिदेशः क्रियते--औपगवेर्यूनश्छात्रा औपगवीया इतीञ्ञो गोत्र इत्यण् प्राप्नोति।।
(एकदेशिसमाधानभाष्यम्)
यदि पुनर्युवा वृद्धवदित्यनेनानुत्पत्तिरतिदिश्येत।
कथं पुनर्युवा वृद्धवदित्यनेनानुत्पत्तिः शक्या निर्देष्टुम्?
वतिनिर्देशोऽयम्, कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम्। तद्यथा--उशीनरवन्मद्रेषु यवाः, सन्ति--न सन्तीति,
मातृवदस्याः कलाः,
सन्ति--न सन्तीति।
एवमिहापि युवा वृद्धवद्भवति, वृद्धवन्न भवतीति--एवं वाक्यशेषं समर्थयिष्यामहे। यथा--गोत्रे युवप्रत्ययो न भवति, एवं प्राग्दीव्यतोऽधिकारे यून्यपि न भवतीति।।
(समाधानाक्षेपभाष्यम्)
तद्वक्तव्यम्? यद्यप्येतदुच्यते।।
(एकदेशिसमाधानान्तरभाष्यम्)
अथ वैतर्हि यूनि लुक् इत्येतन्न क्रियते।
कथं तर्हि---फक्फिञ्ञोरन्यतरस्याम्(4।1।91) इति?
फक्फिञ्ञ्वर्ती युवा वा वृद्धवद्भवतीति वक्ष्यामि।।
(समाधानाक्षेपभाष्यम्)
यदा तर्हि न वृद्धवत्, तदा--
गार्ग्यायणानां समूहो गार्ग्यायणकम्,
गार्ग्यायणानां किंचिद् गार्ग्यायणकम्,
गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः,
गोत्राश्रयो वुञ्ञ् न प्राप्नोति।।
(प्रकारान्तरेणैकदेशिसमाधानभाष्यम्)
यदि पुनर्युवा वृद्धवदित्यनेनार्थोऽतिदिश्येत। प्राग्दीव्यतोऽधिकारे यूनो वृद्धवदर्थो भवतीति।।
(समाधानाक्षेपभाष्यम्)
तद्वक्तव्यम्। यद्यप्येतदुच्यते।।
(एकदेशिसमाधानभाष्यम्)
अथ वैतर्हि यूनि लुक् इत्येतन्न करिष्यते।
कथं फक्फिञ्ञोरन्यतरस्यामिति?
फक्फिञ्ञ्वर्ती युवार्थो वा वृद्धवद्भवतीति वक्ष्यामि। यदा तर्हि न वृद्धवत्, तदा--
गार्ग्यायणानां समूहो गार्ग्यायणकम्,
गार्ग्यायणानां किंचिद् गार्ग्यायणकम्,
गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः,
गोत्राश्रयो वुञ्ञ् न प्राप्नोति।।
(सिद्धान्तभाष्यम्)
एवं तर्हि--
राजन्याद् वुञ्ञ् मनुष्याच्च
ज्ञापकं लौकिकं परम्।।
यदयं वुञ्ञ्विधौ राजन्यमनुष्ययोर्ग्रहणं करोति तज्ज्ञापयत्याचार्यः--लौकिकं परं गोत्रग्रहणमिति। युवा च लोके गोत्रमित्युपचर्यते।
किं गोत्रोऽसि माणवक?
गार्ग्यायणः।
किं गोत्रोऽसि माणवक?
वात्स्यायनः।।
(आक्षेपवारकभाष्यम्)
यद्येतज् ज्ञाप्यते--
औपगवेर्यूनश्छात्रा औपगवीयाः, गोत्राश्रय इञ्ञो गोत्र इत्यण्प्राप्नोति।
सामूहिकेषु ज्ञापकम्।
यदि सामूहिकेषु ज्ञापकम्, गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः, गोत्राश्रयो वुञ्ञ्न प्राप्नोति।
वुञ्ञ्विधौ ज्ञापकम्।
यदि वुञ्ञ्विधौ ज्ञापकम्, शालङ्केर्यूनश्छात्राः शालङ्गाः। इञ्ञो गोत्र इत्यण्न प्राप्नोति।
अस्तु तर्ह्यविशेषेण।
कथमौपगवेर्यूनश्छात्रा औपगवीयाः?
गोत्रेणेञ्ञं विशेषयिष्यामः--गोत्रे य इञ्ञ् विहितः इति।।
-4-1-92- तस्यापत्यम् (1338)
(अपत्यार्थाधिकरणम्)
(आक्षेपकं श्लोकवार्तिकम्)
तस्येदमित्यपत्येऽपि
(भाष्यम्) तस्येदम् (4।3।120) इत्यपत्येऽपि--अण् सिद्धः। तस्येदं विशेषा ह्येते--अपत्यम्, समूहः, विकारः, निवास इति।
किमर्थं तर्हीदमुच्यते?
(समाधाने श्लोकवार्तिकम्)
बाधनार्थं कृतं भवेत्।
ये तस्य बाधकस्तद्वाधनार्थम् ।।
(प्रत्याक्षेपभाष्यम्)
कथं पुनरशैषिकः शैषिकं बाधेत?
(प्रत्याक्षेपसमाधाने श्लोकवार्तिकम्)
उत्सर्गः शेष एवासौ
(भाष्यम्) यो ह्युत्सर्गः सोऽपि शेष एव।।
(सूत्रफलजिज्ञासाभाष्यम्)
अथैतस्मिन्बाधकबाधनार्थे सति किं प्रयोजनम्?
(प्रयोजने श्लोकवार्तिकम्)
वृद्धान्यस्य प्रयोजनम्।।
(भाष्यम्) वृद्धानि प्रयोजयन्ति--भानोरपत्यं भानवः, श्यामगोरपत्यं श्यामगव इति।।
(आक्षेपभाष्यम्)
कथं पुनरिच्छताऽपि--अपवादः प्राप्नुवन् शक्यो बाधितुम्?
(समाधानभाष्यम्)
तस्य ग्रहणसार्मथ्यात्।।
(प्रत्याक्षेपभाष्यम्)
किमिदं भवानध्यारुह्य तस्य ग्रहणस्य प्रयोजनमाह, न पुनः सर्वस्यैव योगस्य।
अवश्यमुत्तरार्थमर्थनिर्देशः कर्तव्यः।
समर्थविभक्तिरपि तर्हि अवश्यमुत्तरार्था प्रतिनिर्देष्टव्या।।
(समाधानभाष्यम्)
एवं तर्हि योगविभागकरणसार्मथ्यात्।
इतरथा हि तस्यापत्यमत इञ्ञ् भवतीत्येव ब्रूयात्।।
(आक्षेपभाष्यम्)
पुल्लिङ्गेनायं निर्देशः क्रियते, एकवचनान्तेन च। तेन पुँल्लिङ्गादेवोत्पत्तिः स्यात्, एकवचनान्ताच्च।
स्त्रीनपुंसकलिङ्गाद्, द्विवचनबहुवचनान्ताच्चेदं न स्यात्।।
(5257 समाधानवार्तिकम्।। 1 ।।)
- तद्धितार्थनिर्देशे लिङ्गवचनमप्रमाणं तस्याविवक्षितत्वात् -
(भाष्यम्) तद्धितार्थनिर्देशे लिङ्गवचनमप्रमाणम्।
किं कारणम्?
तस्याविवक्षितत्वाद्। नात्र निर्देशस्तन्त्रम्।
कथं पुनस्तेनैव च नामनिर्देशः क्रियते, तच्चातन्त्रं स्यात्। तत्कारी च भवांस्तद्द्वेषी च।
नान्तरीयकत्वादत्र पुँल्लिङ्गेन निर्देशः क्रियते, एकवचनान्तेन च। अवश्यं कयाचिद्विभक्त्या केनचिद्वचनेन निर्देशः कर्तव्यः।
तद्यथा--कश्चिदन्नार्थी शालिकलापं सतुषं सपलालमाहरति, नान्तरीयकत्वात्। स यावदादेयं तावदादाय तुषपलालान्युत्सृजति।
तथा--कश्चिन्मांसार्थी मत्स्यान् सशकलान् सकण्टकानाहरति, नान्तरीयकत्वात्। स यावदादेयं तावदादाय शकलकण्ठकान्युत्सृजति।
एवमिहापि नान्तरीयकत्वात्पुँल्लिङ्गेन निर्देशः क्रियते, एकवचनान्तेन च। न ह्यत्र निर्देशस्तन्त्रम्।।
(5258 आक्षेपवार्तिकम्।। 2 ।।)
- सर्वनामनिर्देशे विशेषाऽसंप्रत्ययः सामान्यनिर्देशात् -
(भाष्यम्) सर्वनामनिर्देशे विशेषासंप्रत्ययः। किं कारणम्?
सामान्यनिर्देशात्। सर्वनाम्नाऽयं निर्देशः क्रियते। सर्वनाम च सामान्यवाचि। तेन सामान्यवाचिन एवोत्पत्तिः स्याद्, विशेषवाचिनो न स्यात्।।
(5259 समाधानवार्तिकम्।। 3 ।।)
- सामान्यचोदनास्तु विशेषेषु -
(भाष्यम्) सामान्यचोदनास्तु विशेषेष्ववतिष्ठन्ते।
तद्यथा--गौरनुबन्ध्योऽजोऽग्नीषोमीय इति। आकृतौ चोदितायां द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते।
विषम उपन्यासः।
अस्ति कारणं येनैतदेवं भवति।
किं कारणम्?
असंभवात्। आकृतावारम्भणादीनां संभवो नास्तीति कृत्वा--आकृतिसहचरिते द्रव्ये आरम्भणालम्भनविशसनादीनि क्रियन्ते।
इदमप्येवंजातीयकमेव।
असंभवात् सामान्यवाचिन उत्पत्तौ विशेषवाचिन उत्पत्तिर्भविष्यति।।
(5260 आक्षेपवार्तिकम् ।। 4 ।।)
- अपत्याभिधाने स्त्रीपुँल्लिङ्गस्याप्रसिद्धिर्नपुंसकत्वात् -
(भाष्यम्) अपत्याभिधाने स्त्रीपुँल्लिङ्गस्याप्रसिद्धिः।
किं कारणम्?
नपुंसकलिङ्गत्वात्। अपत्यं नपुंसकलिङ्गम्। तेन नपुंसकलिङ्गस्यैवाभिधानं स्यात्, स्त्रीपुँल्लिङ्गस्य न स्यात्।
ननु चेदं पुरस्तादेव चोदितं परिहृतं च।
उत्पत्तिस्तत्र चाद्यते।
इह पुनरुत्पन्नेनाभिधानं चोद्यते।।
(5261 समाधानवार्तिकम्।। 5 ।।)
- सिद्धं तु प्रजनस्य विवक्षितत्वात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
प्रजनस्य विवक्षितत्वात्। प्रजनोऽत्र विवक्षितः। स च सर्वलिङ्गः।
(प्रजनशब्दस्य सर्वलिङ्गकाक्षेपेभाष्यम्)
किं पुनः कारणं समानायाम्प्रवृत्तौ--अपत्यं नपुंसकलिङ्गम्, प्रजनः सर्वलिङ्गः।।
(5262 समाधानसाधकवार्तिकम्।। 6 ।।)
- एकार्थे शब्दान्यत्वाद् दृष्टं लिङ्गान्यत्वम् -
(भाष्यम्) एकार्थे शब्दान्यत्वाल्लिङ्गान्यत्वं दृश्यते।
तद्यथा--पुष्यः, तारका, नक्षत्रम्; गेहम्, कुटी, मठ इति।
(5263 समाधानसाधकद्वितीयवार्तिकम्।। 7 ।।)
- अवयवान्यत्वाच्च -
(भाष्यम्) अवयवान्यत्वाच्च लिङ्गान्यत्वं दृश्यते।
तद्यथा--कुटी--कुटीरः, शमी--शमीरः, शुण्डा--शुण्डारः।
अवयवान्यत्वात्किल लिङ्गानय्त्वं स्यात्, किं पुनर्यत्र शब्दान्यत्वमपि?
-4-1-93- एको गोत्रे (1339)
(प्रत्ययनियमाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते?
(5264 प्रयोजनवार्तिकम्।। 1 ।।)
- उत्पादयितारं प्रत्यपत्ययोगात् तस्य च विवक्षितत्वादेकवचनं गोत्रे -
(भाष्यम्) उत्पादयितोत्पादयिताऽपत्येन युज्यते। तस्य च विवक्षितत्वात्। उत्पादयितुः स चाभिसम्बन्धो विवक्षितः।
उत्पादयितारं प्रत्यपत्ययोगात्तस्य चाभिसम्बन्धस्य विवक्षितत्वात् उत्पादयितुरुत्पादयितुरपत्याभिधानेऽनेकः प्रत्ययः प्राप्नोति। इष्यते चैक एव स्यादिति, तच्चान्तरेण यत्नं न सिध्यतीत्येकवचनं गोत्रे।
एवमर्थमिदमुच्यते।।
(वार्तिकार्थसमर्थकभाष्यम्)
कथं पुनर्ज्ञायते--उत्पादयितोत्पादयिताऽपत्येन युज्यते इति।
एवं हि दृश्यते लोके--पितामहस्योत्सङ्गे दारकमासीनं कश्चित्पृच्छति कस्यायं दारक इति। स आह--देवदत्तस्य यज्ञदत्तस्य वेति।
उत्पादयितारं व्यपदिशति नात्मानम्।।
(प्रयोजनान्तरप्रस्तावकभाष्यम्)
अस्ति प्रयोजनमेतत्।
किं तर्हीति?
(5265 सूत्राक्षेवार्तिकम्।। 2 ।।)
- तत्र प्रत्ययान्ताद्गोत्रे प्रतिषेधो गोत्रे नियतत्वात् -
(भाष्यम्) तत्र प्रत्ययान्ताद्गोत्रे प्रतिषेधो वक्तव्यः। औपगवस्यापत्यमिति।
किं कारणम्?
गोत्रे नियतत्वात्। गोत्रे ह्ययं नियमः क्रियते। तेन यश्चासौ यथाजातीयकश्च गोत्रे प्रत्ययः प्राप्नोति स एकः स्यात्।
कश्च प्राप्नोति?
यः प्रत्ययान्तात्।।
(5266 सूत्राक्षेपवार्तिकम्।। 3 ।।)
- परमप्रकृतेश्चोत्पत्तिः -
(भाष्यम्) परमप्रकृतेश्चोत्पत्तिर्वक्तव्या। अयोगाद्धि न प्राप्नोति।।
(द्वितीयतृतीयपञ्ञ्चमवार्तिकाक्षेपभाष्यम्)
एतयोश्चैव परिहारः, पठिष्यति ह्याचार्यः-- यूनि चान्तर्हितेऽप्राप्तिरिति तस्य च--
यथा तत्प्रत्ययान्तम्। यथा तदेव विकारावयवप्रत्ययान्तं द्वितीयं च तृतीयं च विकारं संक्रामति, एवमिहापि तदेवापत्यप्रत्ययान्तं द्वितीयं च तृतीयं चापत्यं संक्रमिष्यति।।
(प्रत्याक्षेपभाष्यम्)
भवेत्सिद्धम्--औपगवस्यापत्यमौपगवः, यत्र स एवानन्तर इष्यते स एव गोत्रे।।
इदं तु खलु न सिध्यति--गर्गस्यापत्यं गार्ग्य इति। अत्र ह्यन्योऽनन्तर इष्यते, अन्यो गोत्रे।।
(5267 सूत्राक्षेपवार्तिकम्।। 4 ।।)
- स्त्रियां चानियमः -
(भाष्यम्) स्त्रियां च युवत्यां नियमो न प्राप्नोति--औपगवी माणविका।
नियमाद्धि स्त्री पर्युदस्यते, एको गोत्रे गोत्राद्यून्यस्त्रियाम् इति।।
(पक्षविशेषेण दोषोपपादकं भाष्यम्)
कतरस्मिन् पक्षेऽयं दोषः?
उत्पादयितर्यपत्ययुक्ते।।
उत्पादयितरि तावत् अपत्ययुक्ते न दोषः। उत्पादयितरि ह्यपत्ययुक्ते न सर्वत उत्पत्त्या भवितव्यम्। तत्र नियमो नोपपद्यते। असति नियमे नैष दोषः।।
सर्वेषु तर्ह्युपत्ययुक्तेष्वयं दोषः।
सर्वेषु तर्ह्यपत्ययुक्तेषु सर्वत उत्पत्त्या भवितव्यम्। तत्र नियम उपपन्नो भवति। सति च नियम एष दोषः।।
(उत्पादयितर्यपत्ययुक्ते दोषान्तरबोधकम्भाष्यम्)
उत्पादयितरि चापत्ययुक्ते स्त्रिया युवत्या अभिधानं न प्राप्नोति।
किं कारणम्?
गोत्रसंज्ञां युवसंज्ञा बाधते। गोत्राद् यूनि चास्त्रियां प्रत्ययो विधीयते।।
(5268 सूत्राक्षेपवार्तिकम्।। 5 ।।)
- यूनि चान्तर्हितेऽप्राप्तिः -
(भाष्यम्) यूनि चान्तर्हिते नियमस्याप्राप्तिः। गार्ग्यायणस्यापत्यमिति।।
(पक्षविशेषाश्रयेण दोषोपपादकं भाष्यम्)
कतरस्मिन् पक्षेऽयं दोषः?
सर्वेष्वपत्ययुक्तेषु।
सर्वेषु अपत्ययुक्तेषु तावन्न दोषः। सर्वेषु ह्यपत्ययुक्तेषु सर्वत उत्पत्त्या भवितव्यम्। तत्र नियम उपपन्नो भवति। सति नियमे नैष दोषः।।
उत्पादयितरि तर्ह्यपत्ययुक्तेऽयं दोषः। उत्पादयितरि तर्ह्यपत्ययुक्ते परमप्रकृतेरनन्तराद् गोत्राच्चायोगान्न प्राप्नोति।।
(दोषसमुच्चायकम्भाष्यम्)
यूनश्च न प्राप्नोति।
किं कारणम्?
गोत्रादिति नियमात्।।
(द्वितीयपक्षोपपादकभाष्यम्)
सन्तु तर्हि सर्वेऽपत्ययुक्ता इति।
कथं पुनर्ज्ञायते सर्वेऽपत्ययुक्ता इति?
एवं हि याज्ञिकाः पठन्ति--दशपुरुषानूकं यस्य गृहे शूद्रा न विद्येरन् स सोमं पिबेदिति।
यदि च सर्वेऽपत्ययुक्ता भवन्ति, तत एतदुपपन्नं भवति।।
(पूर्वपक्षोक्तदोषनिरासभाष्यम्)
कथम्--यदुक्तम्--पितामहस्योत्सङ्गे दारकमासीनं कश्चित्पृच्चति कस्यायमिति, स आह देवदत्तस्य यज्ञदत्तस्य वेति, उत्पादयितारं व्यपदिशति नात्मानम् इति।
उत्पत्तिस्तस्य विवक्षिता।
सर्वेषां न इदमपत्यम्, देवदत्तस्त्वस्योत्पादयितेति।।
(द्वितीयपक्षे सूत्रप्रयोजनावतरणभाष्यम्)
अथ सर्वेष्वपत्ययुक्तेषु किमनेन क्रियते एको गोत्र इति?
(5239 प्रयोजनवार्तिकम्।। 6 ।।)
- सर्वेषामपत्ययोगात् प्रत्ययान्ताद् गोत्रे प्रतिषेधार्थमेको गोत्रे -
(भाष्यम्) सर्वेषामप्यपत्ययोगात् प्रत्ययान्ताद्गोत्रे प्रतिषेधार्थमेको गोत्र इत्युच्यते।।
(सूत्रप्रयोजनाभावोपपादकभाष्यम्)
अस्ति प्रयोजनमेतत्।
किं तर्हीति?
तत्र न ज्ञायते क एको भवति, यो वा परमप्रकृतेर्यो वाऽनन्तरादिति।।
(5270 नियामकत्वाभावबोधकवार्तिकम्।। 7 ।।)
- नियमानुपपत्तिश्च -
(भाष्यम्) नियमश्च नोपपद्यते।
किं कारणम्?
(5271 नियामकत्वाभावसाधकवार्तिकम्।। 8 ।।)
- न ह्येकस्मिन्नपत्येऽनेकप्रत्ययप्राप्तिः -
(भाष्यम्) न ह्येकस्मिन्नपत्येऽनेकः प्रत्ययः प्राप्नोति।
किं तर्हि?
(5272 नियामकत्वाभावे दोषसाधकवार्तिकम्।। 9 ।।)
- अपत्यान्तरे शब्दान्तरात्प्रत्ययान्तरप्राप्तिः -
(भाष्यम्) अपत्यान्तरेऽपत्यान्तरे शब्दान्तराच्छब्दान्तरात् प्रत्ययान्तरम्प्रत्ययान्तरं प्राप्नोति। फगन्तादिञ्ञ्, इञ्ञन्तात्फगिति फगिञ्ञोर्दाशतयी प्रत्ययमाला प्राप्नोति।।
(पक्षविशेषाश्रयेण दोषोपपादकभाष्यम्)
कतरस्मिन् पक्षेऽयं दोषः?
सर्वेष्वपत्ययुक्तेषु।
सर्वेष्वपत्ययुक्तेषु तावन्न दोषः। सर्वेषु ह्यपत्ययुक्तेषु सर्वत उत्पत्त्या भवितव्यम्। तत्र नियम उपपन्नो भवति। सति नियमे नैष दोषः।।
उत्पादयितरि तर्ह्यपत्ययुक्तेऽयं दोषः। उत्पादयितरि तर्ह्यपत्ययुक्ते न सर्वत उत्पत्त्या भवितव्यम्। तत्र नियमो नोपपद्यते। असति नियमे एष दोषः।।
(दोषनिरासभाष्यम्)
उत्पादयितरि चापत्ययुक्ते नायं दोषः।
कथम्?
(दोषनिरासे श्लोकभाष्यम्)
अपत्यं समुदायश्चे-
न्नियमोऽत्र समीक्षितः।
तस्मिन्सुबहवः प्राप्ता
नियमोऽस्य भविष्यति।।
अपत्यमित्यनेन सर्वमुपग्वादिपितृकमपत्यं समीक्षितम्। तस्मिंस्तु बहवः प्रत्ययाः प्राप्ताः। नियमोऽस्य भविष्यति--एको गोत्र इति।
(चतुर्थवार्तिकोक्तदोषनिरासभाष्यम्)
यदप्युच्यते स्त्रियां चानियमः इति।
एवं वक्ष्यामि--गौत्राद्यूनि प्रत्ययो भवति, स्त्रियां नेति।।
(प्रत्याक्षेपभाष्यम्)
एवमपि स्त्रिया युवत्या अभिधानं न प्राप्नोति।।
(प्रत्याक्षेपसमाधानभाष्यम्)
एवं तर्हि--एवं वक्ष्यामि--गौत्राद्यूनि प्रत्ययो भवति, ततः--स्त्रियां लुक्।।
(पक्षद्वयदोषसंकलनभाष्यम्)
इहोत्पादयितर्यपत्ययुक्ते प्रत्ययान्तात्प्रतिषेधो वक्तव्यः, परमप्रकृतेश्चोत्पत्तिर्वक्तव्या।
सर्वेष्वपत्ययुक्तेषु प्रत्ययान्तात्प्रतिषेधो वक्तव्यः।।
(5273 दोषवारणवार्तिकम्।। 10 ।।)
(भाष्यम्) तस्मात्प्रतिषेधो वक्तव्यः।।
(5274 प्रकारान्तरेण दोषवारणे द्वितीयवार्तिकम्।। 11 ।।)
- संज्ञाकारिभ्यो वा प्रत्ययोत्पत्तिः -
(भाष्यम्) अथवा संज्ञाकारिभ्यः प्रत्ययोत्पत्तिर्वक्तव्या।।
(प्रत्याक्षेपसमाधाने दोषभाष्यम्)
एवमप्यौपगवी माणविका, अनुपसर्जनादितीकारो न प्राप्नोति। मा भूदेवम्--अण्योऽनुपसर्जनमिति।
अणन्तादनुपसर्जनादित्येवं भविष्यति।
नैवं शक्यम्।
इह हि दोषः स्यात्--काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी, तामधीते काशकृत्स्ना ब्राह्मणी। अणन्तादितीकारः प्रसज्येत।
नैष दोषः।
अध्येत्र्यामभिधेयायामण इर्कारेण भवितव्यम्।
यश्चात्राध्येत्र्यामभिधेयायामण्, लुप्तः सः। यश्च श्रूयते, उत्पन्नस्तस्मादीकार इति कृत्वा पुनर्न भविष्यति।।
इह तर्हि--औपगवी माणविका भार्याऽस्य औपगवीभार्यः, जातिलक्षणः पुंवद्भावप्रतिषेधो न प्राप्नोति।
मा भूदेवम्, वृद्धिनिमित्तस्य इत्येवं भविष्यति। यस्तर्हि न वृद्धिनिमित्तम्--ग्लुचुकायनी माणविका भार्याऽस्य ग्लुचुकायनीभार्यः।।
(सिद्धान्तभाष्यम्)
तस्मात्स्त्रिया युवत्या युवसंज्ञैव पर्युदसितव्या। तस्याञ्ञ्च पर्युदस्तायां गोत्रप्रत्ययान्तमेतद्यूनि वर्तते।।
(आक्षेपभाष्यम्)
यदि संज्ञाकारिभ्यः प्रत्ययोत्पत्तिरुच्यते, कथं गार्ग्यायणः, वात्स्यायन इति?
(5275 समाधानवार्तिकम्।। 12 ।।)
- गोत्राद्यूनीति च -
(भाष्यम्) गोत्राद्यूनीत्येतद्वक्तव्यम्।।
(5276 दोषवारणद्वितीयवार्तिकोपष्टम्भकवार्तिकम्।। 13 ।।)
- तच्च जात्यादिनिवृत्त्यर्थम् -
(भाष्यम्) तच्चावश्यं संज्ञाकारिग्रहणं कर्तव्यम्।
किं प्रयोजनम्?
जात्यादिनिवृत्त्यर्थम्। जात्यादिभ्य उत्पत्तिर्मा भूदिति।।
(उपष्टम्भसाधकभाष्यम्)
जातिर्न वर्तते, संख्या न वर्तते, सर्वनाम न वर्तते।
जातिर्न वर्तते--काकस्यापत्यम्, कुररस्यापत्यमिति।
संख्या न वर्तते--नवानामपत्यम्, दशानामपत्यमिति।
सर्वनाम न वर्तते--सर्वेषामपत्यम्, विश्वेषामपत्यमिति।।
(संज्ञाकारिग्रहणप्रत्याख्यानभाष्यम्)
यत्तावदुच्यते--
जातिर्न वर्तते--काकस्यापत्यम्, कुररस्यापत्यमिति।
येनैव हेतुना एकः काकस्तेनैव हेतुना द्वितीयश्च तृतीयश्च काको भविष्यति।।
यदप्युच्यते--
संख्या न वर्तते--नवानामपत्यम्, दशानामपत्यमिति।
संख्येयमपेक्ष्य संख्या प्रवर्तते। तत् सापेक्षम्। सापेक्षं चासमर्थं भवतीति--असार्मथ्यान्न भविष्यति।।
यदप्युच्यते--
सर्वनाम न वर्तते--सर्वेषामपत्यम्, विश्वेषामपत्यमिति।
निर्देश्यमपेक्ष्य निर्देशः प्रवर्तते। तत्सापेक्षम्। सापेक्षमसमर्थं भवतीति--असमर्थत्वान्न भविष्यति।।
(निराकरणप्रतीकारभाष्यम्)
यत्तावदुच्यते--
येनैव हेतुना एकः काकस्तेनैव हेतुना द्वितीयश्च तृतीयश्च काको भविष्यतीति।
नैतद्विवदामहे--काको न काक इति।
किं तर्हि?
येनैव हेतुना एतद्वाक्यं भवति काकस्यापत्यम्, कुररस्यापत्यमिति, तेनैव हेतुना वृत्तिरपि प्राप्नोति।।
यदप्युच्यते--
संख्येयमपेक्ष्य संख्या प्रवर्तते तत्सापेक्षम्, सापेक्षं चासमर्थं भवतीति।
भवति वै कस्य चिदर्थात् प्रकरणाद्वा अपेक्ष्यं निर्ज्ञातम्, यदा निर्ज्ञातम्, तदा वृत्तिः प्राप्नोति।
यदप्युच्यते--
सर्वेषामपत्यम्, विश्वेषामपत्यमिति निर्देश्यमपेक्ष्य निर्देशः प्रवर्तते, तत्सापेक्षम्, सापेक्षं चासमर्थं भवतीति।
भवति वै कस्य चिदर्थात् प्रकरणाद्वा अपेक्ष्यं निर्ज्ञातम्, यदा निर्ज्ञातम्, तदा वृत्तिः प्राप्नोति।।
(प्रतीकारपरिहारभाष्यम्)
एवं तर्हि--अनभिधानाज्जात्यादिभ्य उत्पत्तिर्न भविष्यति।
तच्चावश्यमनभिधानमाश्रयितव्यम्।
क्रियमाणेऽपि हि संज्ञाकारिग्रहणे यत्र जात्यादिभ्य उत्पद्यमानेन प्रत्ययेनार्थस्याभिधानं भवति, भवति तत्र उत्पत्तिः। तद्यथा--
कुतश्चरति मायूरिः
केन कापिञ्ञ्जलिः कृशः।
आहेयेन च दष्टस्य
पाञ्ञ्चिः सुतसमो मतः।।
तादायनिः, यादायनिः, कैमायनिरिति।।
(सिद्धान्तभाष्यम्)
तदेतदनन्यार्थं संज्ञाकारिग्रहणं कर्तव्यम्, प्रत्ययान्ताद्वा प्रतिषेधो वक्तव्यः।
उभयं न कर्तव्यम्।
गोत्रग्रहणं न करिष्यते। एकोऽपत्ये प्रत्ययो भवतीत्येव।।
यदि चेदानीं प्रत्ययान्तादपि प्रत्ययः स्यान्नैकोऽपत्ये प्रत्ययः कृतः स्यात्।।
यदि गोत्रग्रहणं न क्रियते, कथं गार्ग्यायणः, वात्स्यायन इति?
वक्तव्यमेवैतत्--गोत्राद्यून्यस्त्रियामिति।।
अथापि गोत्रग्रहणं क्रियते।
एवमपि न दोषः। नैकग्रहणेन प्रत्ययोऽभिसम्बध्यते--एको गोत्रे प्रत्ययो भवतीति।
किं तर्हि?
प्रकृतिरभिसम्बध्यते। एका प्रकृतिर्गोत्रप्रत्ययमुत्पादयतीति।
यदि चेदानीं प्रत्ययान्तादपि प्रत्ययः स्याद्, नैका प्रकृतिर्गौत्रे प्रत्ययमुत्पादयेत्।
अथ वा अस्थानेऽयं यत्नः क्रियते। न हीदं लोकादि्भद्यते। लोके हि संख्यां प्रवर्तमानामुपाचरन्ति एक इति वा प्रथम इति वा।
यावद् ब्रूयात् प्रथमो गोत्रे प्रत्ययमुत्पादयतीति तावदेको गोत्रे इति।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य प्रथमे पादे तृतीयमाह्निकम्।।
-4-1-95- अत इञ्ञ् (1341)
(इञ्ञ्प्रत्ययाधिकरणम्)
(5277 सिद्धान्तसाधकवार्तिकम्।। 1 ।।)
- इञ्ञौ वृद्धावृद्धाभ्यां फिञ्ञ्फिनौ विप्रतिषेधेन -
(भाष्यम्) इञ्ञो वृद्धावृद्धाभ्यां फिञ्ञ्फिनौ भवतो विप्रतिषेधेन।
इञ्ञोऽवकाशः--दाक्षिः, प्लाक्षिः।
फिञ्ञोऽवकाशः--तादायनिः, यादायनिः।
इहोभयं प्राप्नोति--तापसायनिः, सांमितिकायनिः।
फिनोऽवकाशः--त्वचायनिः, स्रुचायनिः।
इञ्ञः स एव।
इहोभयं प्राप्नोति--ग्लुचुकायनिः, म्लुचुकायनिः।
फिञ्ञ्फिनौ भवतो विप्रतिषेधेन।।
(आक्षेपभाष्यम्)
इह कस्मान्न भवति--दाक्षिः, प्लाक्षिः।।
(समाधानभाष्यम्)
बहुलवचनात्।।
(5278 द्वितीयं सिद्धान्तसाधकवार्तिकम्।। 2 ।।)
- तद्राजश्च -
(भाष्यम्) तद्राजश्चोञ्ञो भवति विप्रतिषेधेन। तद्राजस्यावकाशः--ऐक्ष्वाकः।
इञ्ञः स एव।
इहोभयं प्राप्नोति---पाञ्ञ्चालः, वैदेहः, वैदर्भः,
तद्राजो भवति विप्रतिषेधेन।।
-4-1-96- बाह्वादिभ्यश्च (1342)
(इञ्ञ्प्रत्ययाधिकरणम्)
(5279 सिद्धान्तबोधकवार्तिकम्।। 1 ।।)
- बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततोऽन्यत्र तेषां प्रतिषेधः -
(भाष्यम्) बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततोऽन्यत्र तेषां प्रतिषेधो वक्तव्यः।
बाहोरपत्यं बाहविः। यो हि बाहुर्नाम बाहवस्तस्य भवति।।
नडस्यापत्यं नाडायनः यो हि नडो नाम नाडिस्तस्य भवति।।
(5280 सिद्धान्तबोधकवार्तिकम्।। 2 ।।)
- सम्बन्धिशब्दप्रत्ययानां च तत्सदृशात्प्रतिषेधः -
(भाष्यम्) सम्बन्धिशब्दप्रत्ययानां च तत्सदृशात्प्रतिषेधो वक्तव्यः। श्वशुरस्यापत्यं श्वशुर्यः। यो हि श्वशुरो नाम
श्वाशुरिस्तस्य भवति।।
(वार्तिकांशप्रत्याख्यानसाधकभाष्यम्)
प्रत्ययग्रहणेन नार्थः। सम्बन्धिशब्दानां तत्सदृशात्प्रतिषेध इत्येव।
इदमपि सिद्धं भवति--मातृपितृभ्यां स्वसा (8।3।84) मातृष्वसा, पितृष्वसा। अन्या मातृस्वसेति।।
-4-1-97- सुधातुरकङ्च (1343)
(5281 एकदेशिवार्तिकम्।। 1 ।।)
- सुधातृव्यासयोः -
(भाष्यम्) सुधातृव्यासयोरिति वक्तव्यम्। सौधातकिः, वैयासकिः शुकः।
अत्यल्पमिदमुच्यते।
सुधातृव्यासवरुडनिषादचण्डालबिम्बानामिति वक्तव्यम्। सौधातकिः, वैयासकिः शुकः, वारुडकिः, नैषादकिः, चाण्डालकिः, बैम्बकिः।।
(सिद्धान्तभाष्यम्)
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्।
प्रकृत्यन्तराण्येवैतानि।।
-4-1-98- गोत्रे कुञ्ञ्जादिभ्यश्च्फञ्ञ् (1344)
(च्फञ्ञोऽधिकरणम्)
(प्रत्ययानुबन्धानाम्फलदर्शकम्भाष्यम्)
किमर्थश्चकारः?
स्वरार्थः। चितोऽन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्।।
अथ ञ्ञकारः किमर्थः?
ञ्ञकारो वृद्ध्यर्थः। ञ्ञ्णितीति वृद्धिर्यथा स्यात्।।
एकेन ककारेणोभयं सिद्धम्।
अवश्यमत्र विशेषणार्थोऽन्योऽनुबन्धः कर्तव्यः।
क्व विशेषणार्थेनार्थः? व्रातच्फञ्ञोरस्त्रियाम् (1।3।113) इति। फक इति ह्युच्यमान् नाडायनः, अत्रापि प्रसज्येत।
अथापि फञ्ञ इत्युच्यते। एवमप्याश्वायनः, अत्रापि प्रसज्येत।
तस्माच्चकार एव कर्तव्यः, अन्तोदात्तत्वमपि यथा स्यात्। चकारे चेदानीं विशेषणार्थे क्रियमाणेऽवश्यं वृद्ध्यर्थोऽन्योऽनुबन्धः कर्तव्यः। स च ञ्ञकार एव कर्तव्यः, सूत्रभेदो मा भूदिति।।
(स्वरार्थानुबन्धाक्षेपभाष्यम्)
अथ क्रियमाणेऽपि वै चकारे--अन्तोदात्तत्वं न प्राप्नोति।
किं कारणम्?
परत्वात् ञ्ञ्निति इत्याद्युदात्तत्वं प्राप्नोति।
चित्करणसार्मथ्यादन्तोदात्तत्वम्भविष्यति।
ञ्ञित्करणसार्मथ्यादाद्युदात्तत्वम्प्राप्नोति।
अस्त्यन्यञ्ञ्ञ्ञित्करणे प्रयोजनम्।
किम्?
वृद्ध्यर्थो ञ्ञकारः।
चित्करणेऽपि तर्हि अन्यत्प्रयोजनम्।
किम्?
विशेषणार्थश्चकारः।
शक्योऽत्र विशेषणार्थोऽन्योऽनुबन्ध आसङ्क्तुम्, तत्र चकारानुरोधादन्तोदात्तत्वम्भवति।
वृद्ध्यर्थोऽपि तर्हि अन्यः शक्योऽनुबन्ध आसङ्क्तुम्। तत्र ञ्ञकारानुरोधादाद्युदात्तत्वम्प्राप्नोति।।
(समाधानभाष्यम्)
एवं तर्हि स्वरे योगविभागः करिष्यते। इदमस्ति--चितः (6।1।163)--चितोऽन्त उदात्तो भवतीति। ततः--तद्धितस्य--तद्धितस्य च चितोऽन्तउदात्तो भवतीति।
किमर्थमिदम्?
परत्वात् ञ्ञ्निति इत्याद्युदात्तत्वं प्राप्नोति, तद्वाधनार्थम्।
ततः--कितः--कितस्तद्धितस्यान्त उदात्तो भवतीति।।
(प्रत्याक्षेपभाष्यम्)
किं पुनरत्र स्वरार्थेन चकारेणानुबन्धेन? यावताच्फञ्ञन्ताञ्ञ्ञ्ञ्यो विधीयते, तत्र ञ्ञ्नितीत्याद्युदात्तत्वेन भवितव्यम्।।
(समाधानभाष्यम्)
नैतदस्ति।
बहुषु लोपे कृते अन्तोदात्तत्वं यथा स्यात्--कौञ्ञ्जायना इति।
(प्राचीनवैय्याकरणमतखण्डनभाष्यम्)
इह केचित्--द्व्येकयोः फ्यञ्ञं विदधति, बहुषु च फकम्, केचित्--च्फञ्ञन्ताञ्ञ्ञ्ञ्यम्।
किमत्र न्याय्यम्?
ञ्ञ्यवचनमेव न्याय्यम्। द्व्येकयोर्हि फ्यञ्ञि सति बहुषु च फकि कौञ्ञ्जायनानामपत्यं माणवकः--कौञ्ञ्जायन्यः, कौञ्ञ्जायन्तौ, केन यशब्दः श्रूयेत? द्व्येकयोरित्युच्यमानो न प्राप्नोति।
इह कौञ्ञ्जायन्यस्यापत्यं बहवो माणवकाः कौञ्ञ्जायनाः। केन यशब्दो न श्रूयेत। द्व्येकयोरित्युच्यमानः प्राप्नोति।।
(पाणिनिमतपुरस्करणभाष्यम्)
तदेतत्कथं कृत्वा ञ्ञ्यवचनं ज्यायो भवति?
यदि तन्नास्ति--आपत्यं वा गोत्रम्, परमप्रकृतेश्चापत्यः, आपत्याज्जीवद्वंश्यात्स्वार्थे द्वितीयो युवसंज्ञः, स चास्त्रियाम्, एको गोत्रग्रहणानर्थक्यं च, बहुवचनलोपिषु च सिद्धमिति।।
(प्राचीनवैय्याकरणमतखण्डननिराकरणभाष्यम्)
सति हि तस्मिन्--द्व्येकयोरपि फ्यञ्ञि सति बहुषु च फकि सति न दोषो भवति।।
तत्र कौञ्ञ्जायनानामपत्यं माणवक इति विगृह्य कुञ्ञ्जशब्दाद् द्व्येकयोरुत्पत्तिर्भविष्यति--कौञ्ञ्जायन्यः, कौञ्ञ्जायन्यौ।
कौञ्ञ्जायन्यस्यापत्यं माणवका इति विगृह्य कुञ्ञ्जशब्दाद्बहुषूत्पत्तिर्भविष्यति--कौञ्ञ्जायना इति।।
-4-1-104- अनृष्यानन्तर्ये बिदादिभ्योऽञ्ञ् (1350)
(अञ्ञोऽधिकरणम्)
(आक्षेपभाष्यम्)
अनृष्यानन्तर्य इत्युच्यते तत्रेदं न सिध्यति-- कौशिको विश्वामित्र इति।
किं कारणम्?
विश्वामित्रस्तपस्तेपे नानृषिः स्यामिति।
तत्रभवानृषिः संपन्नः।
स पुनस्तपस्तेपे नानृषेः पुत्रः स्यामिति।
तत्रभवान् गाधिरपि ऋषिः संपन्नः।
स पुनस्तपस्तेपे नानृषेः पौत्रः स्यामिति।
तत्रभवान् कुशिकोऽपि ऋषिः संपन्नः।
तदेतदृष्यानन्तर्यं भवति। तत्रानृष्यानन्तर्य इति प्रतिषेधः प्राप्नोति।।
(एकदेशिसमाधानभाष्यम्)
नैष दोषः।
नैवं विज्ञायते--ऋष्यानन्तर्ये न भवतीति।
कथं तर्हि?
ऋषावनन्तरे नेति।।
(प्रत्याक्षेपभाष्यम्)
यद्येवम्--
(5282 प्रत्याक्षेपवार्तिकम्।। 1 ।।)
- अनृष्यानन्तर्यवचनमनर्थकं संज्ञागोत्राधिकारात् -
(भाष्यम्) अनृष्यानन्तर्यवचनमनर्थम्।
किं कारणम्?
संज्ञागोत्राधिकारात्। संज्ञागोत्र इति वर्तते, कः प्रसङ्गो यदनन्तरे स्यात्।
नैव प्राप्नोति, नार्थः प्रतिषेधेन।।
(सिद्धान्तभाष्यम्)
एवं तर्हि सिद्धे सति यदनृष्टानन्तर्य इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यो बिदादिषु येऽनृषयः पठ्यन्ते तेषामनन्तरेऽपि वृत्तिर्भवतीति।
किमेतस्य ज्ञापने प्रयोजनम्।
नानान्द्रः, पौत्रः, दौहित्र इत्येतत् सिद्धम्भवति।।
-4-1-108- वतण्डाच्च (1354)
(यञ्ञोऽधिकरणम्)
(सूत्रफलप्रदर्शकभाष्यम्)
किमर्थमिदमुच्यते?
न गर्गादिभ्यो यञ्ञ् (4।1।105) इत्येव सिद्धम्।
लुक् स्त्रियाम् (109) इति वक्ष्यामीति।।
(आक्षेपभाष्यम्)
यदि पुनस्तत्रैवोच्येत।।
(समाधानभाष्यम्)
नैवं शक्यम्, आङि्गरसग्रहणं हि विच्छिद्येत।।
-4-1-112- शिवादिभ्योऽण् (1358)
(अणोऽधिकरणम्)
(अण्प्रयोजनभाष्यम्)
किमर्थं शिवादिभ्योऽण् विधीयते, न यथाविहितमित्येवोच्येत?
शिवादिभ्यो यथा विहितमितीयत्युच्यमाने--इञ्ञ् प्रसज्येत। इञ्ञ्--अतो यथाविहितः।
पुनर्वचनमिदानीं किमर्थं स्यात्?
ये तस्य बाधकास्तद्बाधनार्थम्।।
(अण्प्रयोजनखण्डनभाष्यम्)
स वै नास्ति यस्तं बाधेत, तत्रारम्भसार्मथ्यात्--यो विहितः, न च प्राप्नोति, स भविष्यति।
कश्चासौ?
अणेव।।
(अण्प्रयोजनभाष्यम्)
उत्तरार्थमेव तर्हि। अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः (4।1।113) इति। अत्र यथाविहितमितीयत्युच्यमाने--ढक् प्रसज्येत, ढक्--अतो यथाविहितः।
पुनर्वचनमिदानीं किमर्थं स्यात्?
ये तस्य बाधकास्तद्बाधनार्थम्।।
(अण्प्रयोजनखण्डनभाष्यम्)
स वै नास्ति यस्तं बाधेत, तत्रारम्भसार्मथ्याद्यो विहितः, न च प्राप्नोति, स भविष्यति।
कः पुनरसौ?
अणेव।।
(अण्प्रयोजनभाष्यम्)
उत्तरार्थमेव हि तर्हि। ऋष्यन्धकवृष्णिकुरुभ्यश्च (114) इति। अत्र यथाविहितमितीयत्युच्यमाने-- इञ्ञ्प्रसज्येत।
इञ्ञ्-अतो यथाविहितः।
पुनर्वचनमिदानीं किमर्थं स्यात्?
ये तस्य बाधकास्तद्बाधनार्थम्।।
(खण्डनभाष्यम्)
स वै नास्ति यस्तं बाधेत, तत्रारम्भसार्मथ्याद्यो विहितः, न प्राप्नोति, स भविष्यति।
कश्चासौ?
अणेव।।
(अण्प्रयोजनभाष्यम्)
उत्तरार्थमेव तर्हि। मातुरुत्संख्यासंभद्रपूर्वायाः, कन्यायाः कनीन च (115,116) इति। अत्र यथाविहितमितीयत्युच्यमाने-ढक् प्रसज्येत। ढक्--अतो यथाविहितः।
पुनर्वचनमिदानीं किमर्थं स्यात्?
मातुरुकारं वक्ष्यामि, कन्यायाः कनीनभावमिति।।
(आक्षेपभाष्यम्)
यद्येतावत्प्रयोजनं स्यात्--तत्रैवायम्ब्रूयात्--स्त्रीभयो ढक् (120) मातुरुकारः, कन्यायाश्च कनीन इति।।
(सिद्धान्तभाष्यम्)
इदं तर्हि प्रयोजनम्--अयमृष्टिषेणशब्दः शिवादिषु पठ्यते। अत्र यथाविहितमितीयत्युच्यमाने--इञ्ञ्प्रसज्येत। तं परत्वात्सेनान्ताण्ण्यो बाधेत। तत्रारम्भसार्मथ्यात्--इञ्ञ् प्रसज्येत। पुनरण्ग्रहणादणेव भवति।।
-4-1-114- ऋष्यन्धकवृष्णिकुरुभ्यश्च (1360)
(अणोऽधिकरणम्)
(5283 पूर्वपक्षवार्तिकम्।। 1 ।।)
- ऋषिस्त्र्यणो ढग्ढ्रकौ विप्रतिषेधेन -
(भाष्यम्) ऋष्यणस्त्र्यणश्च ढग्ढ्रकौ भवतो विप्रतिषेधेन।
ऋष्यणोऽवकाशः--वासिष्ठः, वैश्वामित्रः। ढकोऽवकाशः--दुलि--दौलेयः बलि--बालेयः।
इहोभयं प्राप्नोति--अत्रि--आत्रेयः।
स्त्र्यणोऽवकाशः--मकन्दिका--माकन्दिकः। ढ्रकोऽवकाशः--काणिकेरः।
इहोभयं प्राप्नोति--पौणिकेरः, मौद्गलिकेरः।
ढग्ढ्रकौ भवतो विप्रतिषेधेन।।
(5284 पूर्वपक्षवार्तिकम्।। 2 ।।)
- द्वयचो ढको ढ्रग्ढञ्ञौ -
(भाष्यम्) द्व्यचो ढग्भवतीत्येतस्माड्ढग्ढञ्ञौ भवतो विप्रतिषेधेन। द्व्यचो ढग्भवतीत्यस्यावकाशः--दात्तेयः, गौप्तेयः। ढ्रकः स एव। इहोभयं प्राप्नोति--नटी--नाटेरः, दासी--दासेरः।
ढञ्ञोऽवकाशः--कामण्डलेयः, हैरण्यबाहेयः । माद्रवाहेययः । ढकः स एव। इहोभयं प्राप्नोति--जम्बू--जाम्बेयः। ढ्रग्ढञ्ञौ भवतो विप्रतिषेधेन।।
(5285 पूर्वपक्षाक्षेपवार्तिकम्।। 3 ।।)
- न र्वष्यणः पुनर्वचनमन्यनिवृत्त्यर्थम् -
(भाष्यम्) न वा एष युक्तो विप्रतिषेधः, योऽयमृष्यणो ढकश्च।
किं कारणम्?
ऋष्यणः पुनर्वचनमन्यनिवृत्त्यर्थम्। सिद्धोऽत्राणुत्सर्गेणैव, तस्य पुनर्वचने एतत्प्रयोजनं येऽन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम्। स यथैव तदपवादमिञ्ञं बाधते, एवं ढकमपि बाधेत।।
(5286 एकदेशिसमाधानवार्तिकम्।। 4 ।।)
- तस्मादृषिभ्योऽण्विधानेऽत्र्यादिप्रतिषेधः -
(भाष्यम्) तस्मादृषिभ्योऽण्विधानेऽत्र्यादिभ्यः प्रतिषेधो वक्तव्यः।।
(समाधानान्यथासिद्धिभाष्यम्)
न वक्तव्यः।
मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते इत्येवमृष्यण्--इञ्ञं तदपवादं बाधिष्यते, ढकं न बाधिष्यते।।
(पूर्वपक्षाक्षेपभाष्यम्)
अयं चाप्ययुक्तो विप्रतिषेधो योऽयं ढकः--ढ्रग्ढञ्ञोश्च।
किं कारणम्?।।
(5287 आक्षेपवार्तिकम्।। 5 ।।)
- ढकः पुनर्वचनमन्यनिवृत्त्यर्थम् -
(भाष्यम्) सिद्धोऽत्र ढक् स्त्रीभ्यो ढक् (4।1।120) इत्येव। तस्य पुनर्वचन एतत्प्रयोजनं येऽन्ये तदपवादाः प्राप्नुवन्ति तद्वाधनार्थम्। स यथैव तदवादन्तन्नामिकाणं बाधते, एवं ढ्रग्ढञ्ञावपि बाधेत।।
(5288 एकदेशिसमाधानवार्तिकम्।। 6 ।।)
- तस्मात्तन्नामिकाण्यद्व्यचः -
(भाष्यम्) तस्मात्तन्नामिकाणि--अद्व्यच इति वक्तव्यम्।
(समाधानान्यथासिद्धिभाष्यम्)
न वक्तव्यम्।
मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते इत्येवमयं ढक् तन्नामिकाणं तदपवादं बाधिष्यते, ढ्रग्ढञ्ञौ न बाधिष्यते।।
(5289 सिद्धान्तसामान्यवार्तिकम् ।। 8 ।।)
- ऋष्यन्धकवृष्णिकुर्वणः सेनान्ताण्ण्यः -
(भाष्यम्) ऋष्यन्धकवृष्णिकुर्वणः सेनान्ताण्ण्यो भवति विप्रतिषेधेन।
ऋष्यणोऽवकाशः--वासिष्ठः, वैश्वामित्रः।
ण्यस्यावकाशः--पारिषेण्यः, वारिषेण्यः।
जातसेनो नाम ऋषिस्तस्मादुभयं प्राप्नोति, ण्यो भवति विप्रतिषेधेन। जातसेन्यः।।
अन्धकाणोऽवकाशः--श्वाफल्कः, चैत्रकः, रान्धसः।
ण्यस्य स एव।
उग्रसेनो नामान्धकस्तस्मादुभयं प्राप्नोति, ण्यो भवति विप्रतिषेधेन। औग्रसेन्यः।।
वृष्ण्यणोऽवकाशः--वासुदेवः, बालदेवः।
ण्यस्य स एव।
विश्वक्सेनो नाम वृष्णिस्तस्मादुभयं प्राप्नोति, ण्यो भवति विप्रतिषेधेन। वैष्वक्सेन्यः।।
कुर्वणोऽवकाशः--नाकुलः, साहदेवः।
ण्यस्य स एव।
भीमसेनो नाम कुरुस्तस्मादुभयं प्राप्नोति, ण्यो भवति विप्रतिषेधेन। भैमसेन्यः।।
(सामान्यवार्तिकस्य विशेषे संकोचकभाष्यम्)
सेनान्ताण्ण्यो भवति विप्रतिषेधेन जातोग्रविष्वग्भीमेभ्य इति वक्तव्यम्।।
-4-1-115- मातुरुत्संख्यासम्भद्रपूर्वायाः (1361)
(स्त्रीलिंगनिर्देशसमर्थकभाष्यम्)
किमर्थं स्त्रीलिङ्गेन निर्देशः क्रियते, न संख्यासंभद्रपूर्वस्येत्येवमुच्यते?
स्त्रीलिङ्गो यो मातृशब्दस्तस्माद्यथा स्यात्।
इह मा भूत्--संमिमीते संमाता--संमातुरपत्यं सांमात्र इति।।
-4-1-116- कन्यायाः कनीन च (1362)
(आक्षेपभाष्यम्)
इदं विप्रतिषिद्धम्।
को विप्रतिषेधः?
अपत्यमिति वर्तते। यदि च कन्या, नापत्यम्।
अथापत्यम्, न कन्या।
कन्या चापत्यं चेति विप्रतिषिद्धम्।।
(समाधानभाष्यम्)
नैतद्विप्रतिषिद्धम्।
कथम्?
कन्याशब्दोऽयं पुंसाऽभिसम्बन्धपूर्वके संप्रयोगे निवर्तते।
या चेदानीं प्रागभिसम्बन्धात् पुंसा सह संप्रयोगं गच्छति तस्यां कन्याशब्दो वर्तत एव।
कन्यायाः कन्योक्तायाः कन्याभिमतायाः सुदर्शनाया यदपत्यं स कानीन इति।।
-4-1-120- स्त्रीभ्यो ढक् (1366)
(ढगधिकरणम्)
(स्त्रीशब्दार्थप्रत्यायकभाष्यम्)
इदं सर्वेष्वेव स्त्रीग्रहणेषु विचार्यते--स्त्रीग्रहणे स्त्रीप्रत्ययग्रहणं वा स्यात्, स्त्रीशब्दग्रहणं वा, स्त्र्यर्थग्रहणं वा।।
किं चातः?
यदि स्त्रीशब्दग्रहणमर्थग्रहणं वा--इडबिड्--ऐडबिडः। पृथ्--पार्थः। उशिक्--औशिज। दरद्--दारदः।
अत्रापि प्राप्नोति।
अथ प्रत्ययग्रहणम्--लैखाभ्रेयः, वैमात्रेयः, इति न सिध्यति।।
अस्तु प्रत्ययग्रहणम्।
कथं लैखाभ्रेयः, वैमात्रेय इति?
शुभ्रादिषु पाठः करिष्यते।।
(अर्थविशेषे प्रत्ययबोधकभाष्यवार्तिकम्)
वडवाया वृषे वाच्ये।
वडवाया वृषे वाच्ये ढग् वक्तव्यः--वडवाया वृषो वाडवेयः।।
(ढक्बाधकप्रत्ययबोधकभाष्यवार्तिकम्)
अण् क्रुञ्ञ्चाकोकिलात्स्मृतः।
क्रौञ्ञ्चः, कौकिल इति।।
(ढक्बाधकप्रत्ययबोधकभाष्यवार्तिकम्)
आरक् पुंसि ततोऽन्यत्र।
ततोऽन्यत्र आरक्पुंसि वक्तव्यः। मूषिकाया अपत्यं पुमान् मौषिकारः, मृग्याः पुमान्मार्गारः।।
(ढ्रकि पुमर्थविधायकभाष्यवार्तिकम्)
गोधाया ढ्रक्विधौ स्मृतः।।
गोधायाः पुमान् गौधेरः।।
-4-1-128- चटकाया ऐरक् (1374)
(ऐरगधिकरणम्)
(5290 सूत्रे स्त्रीलिंगनिर्देशस्याविवक्षितत्वबोधकवार्तिकम्।। 1 ।।)
- चटकायाः पुँल्लिङ्गनिर्देशः -
(भाष्यम्) चटकायाः पुँल्लिङ्गेन निर्देशः कर्तव्यः। इहापि यथा स्यात्-चटकस्यापत्यं चाटकैरः।
यदि पुँल्लिङ्गेन निर्देशः क्रियते, चटकाया अपत्यं चाटकैर इति न सिध्यति।
प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येवं भविष्यति।।
(5291 वार्तिकम्।। 2 ।।)
- स्त्रियामपत्ये लुग्वक्तव्यः -
(भाष्यम्) चटकाया आपत्यं चटका।।
-4-1-130- आरगुदीचाम् (1376)
(5292 आक्षेपवार्तिकम्।। 1 ।।)
- आरग्वचनमनर्थकं रका सिद्धत्वात् -
(भाष्यम्) आरग्वचनमनर्थकम्।
किं कारणम्?
रका सिद्धत्वात्। गोधा--आकारान्ता रक् च प्रत्ययः।।
(समाधानभाष्यम्)
एवं तर्हि सिद्धे सति यदारकं शास्ति तज्ज्ञापयत्याचार्योऽन्येभ्योऽप्ययं भवतीति।
किमेतस्य ज्ञापने प्रयोजनम्?
मौण्डारः, जाण्डारः, पाण्डार--इत्येतत्सिद्धं भवति।।
-4-1-131- क्षुद्राभ्यो वा (1377)
(क्षुद्राशब्दार्थबोधकभाष्यम्)
क्षुद्राभ्य इत्युच्यते,
का क्षुद्रा नाम्?
अनियतपुंस्का, अङ्गहीना वा।।
-4-1-133- ढकि लोपः (1379)
(ढक्समर्थकभाष्यम्)
केन विहिते पितृष्वसुः-ढकि लोप इत्युच्यते? एतदेव ज्ञापयति पितृष्वसुर्ढगिति, यदयं ढकि लोपं शास्ति।।
-4-1-134- मातृष्वसुश्च (1380)
(छण्साधकभाष्यम्)
ढकि लोप इत्युच्यते तत्रेदं न सिध्यति--मातृष्वस्रीयः।
नैष दोषः।
एवं वक्ष्यामि--पितृष्वसुश्छण्, ढकि लोपः। ततो मातृष्वसुश्च।
पितृष्वसुर्यदुक्तं तन्मातृष्वसुर्भवतीति।
किं पुनस्तत्?
छण् ढकि लोपश्च।।
-4-1-137- राजश्वशुराद्यत् (1383)
(यतोऽधिकरणम्)
(5293 अर्थविशेषे प्रत्ययनियामकवार्तिकम्।। 1 ।।)
- राज्ञोऽपत्ये जातिग्रहणम् -
(भाष्यम्) राज्ञोऽपत्ये जातिग्रहणं कर्तव्यम्। राजन्यो नाम जातिः।
क्व मा भूत्?
राजनः इति।।
-4-1-145- व्यन्सपत्ने (1384)
(व्यन्प्रत्ययाधिकरणम्)
(5294 आक्षेपवार्तिकम्।। 1 ।।)
- व्यन्वचनमनर्थकं प्रत्ययार्थाभावात् -
(भाष्यम्) व्यन्वचनमनर्थकम्।
किं कारणम्?
प्रत्ययार्थाभावात्।
किमिदं प्रत्ययार्थाभावादिति?
अपत्यार्थाभावात्। अपत्यमिति वर्तते, अनपत्ये चापि सपत्ने भ्रातृव्यशब्दो वर्तते--पाप्मना भ्रातव्येणेति।।
(समाधानभाष्यम्)
अस्तु तावद्यदपत्यं सपत्नश्च तत्र--भ्रातृव्य इति।
कथं पाप्मना भ्रातृव्येणेति?
उपमानात्सिद्धम्, भ्रातृव्य इव भ्रातृव्य इति।।
-4-1-147- गोत्रस्त्रियाः कुत्सने ण च (1393)
(ण ठक् प्रत्ययाधिकरणम्)
(णित्वाक्षेपे भाष्यम्)
किमर्थो णकारः?
वृद्ध्यर्थः, ञ्ञ्णितीति वृद्धिर्यथा स्यात्, गार्गो जाल्मः।।
(5295 णित्वाक्षेपवार्तिकम्।। 1 ।।)
- गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य -
(भाष्यम्) गोत्रस्त्रियाः प्रत्ययस्य णित्करणमनर्थकम्।
किं कारणम्?
वृद्धत्वात्प्रातिपदिकस्य। वृद्धमेवेदं प्रातिपदिकम्।।
(णित्वफलप्रदर्शकभाष्यम्)
लुगर्थं तर्हि णकारः कर्तव्यः। यल्लुगन्तमवृद्धं तत्र वृद्धिर्यथा स्यात्--वातण्डो जाल्मः।।
(5296 फले आक्षेपवार्तिकम्।। 2 ।।)
- लुगर्थमिति चेन्न लुक्प्रतिषेधात् -
(भाष्यम्) लुगर्थमिति चेत्तन्न।
किं कारणम्?
लुक्प्रतिषेधात्, प्रतिषिध्यते तत्र लुक्--गोत्रेऽलुगचि(ग।1।89) इति।।
(प्रत्याक्षेपे भाष्यम्)
व्यवहितत्वादप्रतिषेधः। इर्कारेण व्यवहितत्वात्प्रतिषेधो न प्राप्नोति।।
(5297 प्रत्याक्षेपनिरासवार्तिकम्।। 3 ।।)
- व्यवहितत्वादप्रतिषेध इति चेन्न पुंवद्भावात् -
(भाष्यम्) व्यवहितत्वादप्रतिषेध इति चेत्तन्न।
किं कारणम्?
पुंवद्भावात्, पुंवद्भावोऽत्र भवति--भस्याढे तद्धिते पुंवद्भावो भवतीति।।
(5298 णित्वफलप्रदर्शकवार्तिकम्।। 4 ।।)
- फिनर्थं तु -
(भाष्यम्) फिनर्थं तु णकारः कर्तव्यः। यत्फिनन्तमवृद्धं तत्र वृद्धिर्यथा स्यात्--ग्लौचुकायनो जाल्म इति।।
(5299 णित्वफलसंग्राहकवार्तिकम्।। 5 ।।)
- पुंवद्भावप्रतिषेधार्थं च -
(भाष्यम्) पुंवद्भावप्रतिषेधार्थं च णकारः कर्तव्यः। गार्गा भार्या अस्य गार्गाभार्यः। वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधो यथा स्यात्।।
(5300 पुंवद्भावप्रतिषेधार्थरूपफलखण्डनवार्तिकम्।। 6 ।।)
- गोत्राद्यून्यस्त्रियामिति वचनादप्रयोजनम् -
(भाष्यम्) गोत्राद्यून्यस्त्रियाम् (4।1।94) इति वचनादप्रयोजनमेतद्भवति। नास्ति गार्गा।।
(5301 मतान्तरप्रदर्शकवार्तिकम्।। 7 ।।)
- अवंश्यत्वाद्वा स्त्रियाः प्रयोजनम् -
(भाष्यम्) अवंश्यत्वाद्वा स्त्रियाः प्रयोजनमेतद्भवति। न च स्त्री वंश्या। अस्ति गार्गा स्त्री।।
(मतान्तरप्रदर्शकभाष्यम्)
अपर आह--
द्वावेवं वंशौ। मातृवंशः, पितृवंशश्च। यावता मातृवंशोऽप्यस्ति, नास्ति गार्गा।।
-4-1-148- द्धट्ठक् सौवीरेषु बहुलम् (1394)
(विषयविभागप्रदर्शकभाष्यम्)
गोत्रस्त्रियाः, वृद्धाट्ठक्, फेश्छश्च, फाण्टाहृति (147-150) इमे चत्वारो योगाः।
तत्र त्रयः कुत्सने, त्रयः सौवीरगोत्रे।
आद्यो योगः कुत्सन एव, अन्त्यः सौवीरगोत्र एव।।
-4-1-150- फाण्टाहृतिमिमताभ्यां णफिञ्ञौ (1396)
(णित्वाक्षेपे भाष्यम्)
किमर्थो णकारः?
वृद्ध्यर्थः। ञ्ञ्णितीति वृद्धिर्यथा स्यात्--फाण्टाहृतः।।
(5302 आक्षेपवार्तिकम्।। 1 ।।)
- फाण्टाहृतेः प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य -
(भाष्यम्) फाण्टाहृतेः प्रत्ययस्य णित्करणमनर्थकम्।
किं कारणम्?
वृद्धत्वात् प्रातिपदिकस्य। वृद्धमेवैतत्प्रातिपदिकम्।।
(5303 णित्वफलवार्तिकम्।। 2 ।।)
- पुंवद्भावप्रतिषेधार्थं तु -
(भाष्यम्) पुंवद्भावस्य प्रतिषेधार्थो णकारः कर्तव्यः। फाण्टाहृता भार्या अस्य फाण्टाहृतभार्यः। वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधो यथा स्यात्--इति।।
(5304 णित्वप्रयोजनाप्रयोजनवार्तिकम्।। 3 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
गोत्राद्यून्यस्त्रियामिति वचनादप्रयोजनम्,
अवंश्यत्वाद्वा स्त्रियाः प्रयोजनमिति।।
-4-1-151- कुर्वादिभ्यो ण्यः (1397)
(ण्यप्रत्ययाधिकरणम्)
(5305 अतिदेशविधिवार्तिकम्।। 1 ।।)
- वामरथस्य कण्वादिवत्स्वरवर्जम् -
(भाष्यम्) वामरथस्य कण्वादिवद्भावो वक्तव्यः।
किमविशेषेण?
नेत्याह--
स्वरवर्जम्, स्वरं वर्जयित्वा।
किं प्रयोजनम्?
वामरथ्यस्य च्छात्रा वामरथाः। कण्वादिभ्यो गोत्रे (4।2।111) इत्यण्यथा स्यात्।।
(पक्षद्वयेऽप्याक्षेपकभाष्यम्)
यदि कण्वादिवदित्युच्यते, प्रत्ययाश्रयमनतिदिष्टं भवति।
तत्र को दोषः?
वामरथाः, बहुषु लोपो न प्राप्नोति। वामरथानां संघः--वामरथः--संघाङ्कलक्षणेष्वञ्ञ्यञ्ञिञ्ञामण् (4।3।127) इत्यण् न प्राप्नोति।
यदि पुनर्यञ्ञ्वदित्युच्यते। एवमपि प्रकृत्याश्रितमनतिदिष्टं भवति।
तत्र को दोषः?
वामरथ्यस्य च्छात्रा वामरथाः। कण्वादिभ्योगोत्रे इत्यण् न प्राप्नोति।।
(समाधानभाष्यम्)
अस्तु तर्हि कण्वादिवदित्येव।
कथं वामरथाः, वामरथानां संघ इति च?
यदयं स्वरवर्जमित्याह तज्ज्ञापयत्याचार्यः प्रत्ययाश्रयमप्यतिदिष्टं भवतीति।।
-4-1-153- उदीचामिञ्ञ् (1399)
(इञ्ञोऽधिकरणम्)
(5306 वार्तिकम्।। 1 ।।)
- उदीचामिञ्ञ्विधौ तक्ष्णोऽण्वचनम् -
(भाष्यम्) उदीचामिञ्ञ्विधौ तक्ष्णोऽण् वक्तव्यः--ताक्ष्णः।।
(लाघवप्रदर्शकभाष्यम्)
यदि पुनरयं तक्षन्शब्दः शिवादिषु पठ्येत।।
(5307 लाघवाभावबोधकवार्तिकम्।। 2 ।।)
- शिवादिरिति चेण्ण्यविधिः -
(भाष्यम्) शिवादिरिति चेद् ण्यो विधेयः। ताक्षण्य इति।।
(5308 सिद्धान्तवार्तिकम्।। 3 ।।)
- सिद्धं तूदीचां वा ण्यवचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
उदीचां वा ण्यवचनात्। उदीचां वा ण्यो भवतीति वक्तव्यम्। ण्येन मुक्ते यो यतः प्राप्नोति स ततो भविष्यति।।
-4-1-155- कौसल्यकार्मार्याभ्यां च (1401)
(फिञ्ञोऽधिकरणम्)
(विकृतनिर्देशस्य विवक्षितत्वबोधकभाष्यम्)
किमिदं कौसल्यकार्मार्ययोर्विकृतयोर्ग्रहणं क्रियते?
एवं विकृताभ्यां यथा स्यात्।
अत्यल्पमिदमुच्यते--कौसल्यकार्मार्याभ्यां चेति।।
(5309 सूत्रांशपूरकवार्तिकम्।। 1 ।।)
- फिञ्ञ्प्रकरणे दगुकोसलकर्मारच्छागवृषाणां युट् च -
(भाष्यम्) फिञ्ञ्प्रकरणे दगुकोसलकर्मारच्छागवृषाणां युट् चेति वक्तव्यम्। दगु--दागव्यायनिः। कोसल--कौसल्यायनिः। कर्मार--कार्मार्यायणिः। छाग--छाग्यायनिः। वृष--वार्ष्यायणिः।
(आक्षेपभाष्यम्)
यदि युट् क्रियते युटि कृतेऽनादित्वादादेशो न प्राप्नोति।
इदमिह संप्रधार्यम्--आदेशः क्रियतां युडिति किमत्र कर्तव्यम्?
परत्वादादेशः।
नित्यो युट्--कृतेऽप्यादेशे प्राप्नोति, अकृतेऽपि।
युडप्यनित्यः--अन्यस्य कृत आदेशे प्राप्नोति, अन्यस्याकृते। शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति।
अन्तरङ्गस्तर्हि युट्।
काऽन्तरङ्गता?
उत्पत्तिसंनियोगेन युडुच्यते, उत्पन्ने प्रत्यये प्रकृतिप्रत्ययावाश्रित्याङ्गस्यादेश उच्यते।
आदेशोऽप्यन्तरङ्गः।
कथम्?
वक्ष्यत्येतत्--आयनादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति।
अनवकाशस्तर्हि युट्।।
एवं तर्हि पूर्वान्तः करिष्यते।
यदि पूर्वान्तः क्रियते--दागव्यायनिः, ओर्गुणो न प्राप्नोति।।
(समाधानभाष्यम्)
अस्तु तर्हि परादिरेव।
ननु चोक्तम्--युटि कृतेऽनादित्वादादेशो न प्राप्नोतीति।
नैष दोषः।
सिद्धं त्वादिष्टस्य युड्वचनात्, सिद्धमेतत्।
कथम्?
आदिष्टस्य युड्वचनात्। युट्चादिष्टस्येति वक्तव्यम्।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्। चेन संनियोगः करिष्यते--युट् च। किं च?
यच्चान्यत्प्राप्नोति।
किं चान्यत् प्राप्नोति?
आदेश इति।।
-4-1-158- वाकिनादीनां कुक् च (1404)
(लाघवमूलं भाष्यम्)
यदि पुनरयं कुट् परादिः क्रियते।।
(5310 कुडागमाक्षेपवार्तिकम्।। 1 ।।)
- कुटि प्रत्ययादेरादेशानुपपत्तिरनादित्वात् -
(भाष्यम्) कुटि सति प्रत्ययादेरादेशो नोपपद्यते।
किं कारणम्?
अनादित्वात्, कुटि कृतेऽनादित्वादादेशो न प्राप्नोति।।
एवं तर्हि पूर्वान्तः करिष्यते।।
(5311 कुगागमेऽप्याक्षेपवार्तिकम्।। 2 ।।)
- पूर्वान्ते नलोपवचनम् -
(भाष्यम्) यदि पूर्वान्तः क्रियते, नलोपो वक्तव्यः--चार्मिकायणिः, वार्मिकायणिः। नलोपः प्रातिपदिकान्तस्य इति नलोपो न प्राप्नोति। परादौ तु पुनः सति नलोपः प्रातिपदिकान्तस्य इति नलोपः सिध्यति।।
अस्तु तर्हि परादिरेव।
ननु चोक्तम्--कुटि कृतेऽनादित्वादादेशो न प्राप्नोतीति।।
(5312 कुडागमसमर्थकवार्तिकम्।। 3 ।।)
- सिद्धं त्वादिष्टस्य कुड्वचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
कुट्चादिष्टस्येति वक्तव्यम्।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्, चेन संनियोगः करिष्यते--कुट्च, किं च? यच्चान्यत् प्राप्नोति।
किं चान्यत्प्राप्नोति?
आदेशः।
सिध्यति, सूत्रं तर्हि भिद्यते।।
(कुगागमसमर्थकभाष्यम्)
यथान्यासमेवास्तु।
ननु चोक्तं पूर्वान्ते नलोपवचनमिति।
नैष दोषः।
क्रियते एतन्न्यास एव चर्मिवर्मिणोर्नलोपश्च इति।।
(5313 विप्रतिषेधबोधकवार्तिकम्।। 4 ।।)
- कारिभ्य इञ्ञोऽगोत्रात्फिञ्ञ् विप्रतिषेधेन -
(भाष्यम्) कारिभ्य इञ्ञ् भवतीत्येतस्मादगोत्रात् फिञ्ञ् भवति विप्रतिषेधेन। कारिभ्य इञ्ञ् भवतीत्यस्यावकाशः--अयस्कारिः, लौहकारिः। फिञ्ञोऽवकाशः--तापसायनिः, साम्मितिकायनिः।
इहोभयं प्राप्नोति--नापितायनिः। फिञ्ञ्भवति विप्रतिषेधेन।।
-4-1-161- मनोर्जातावञ्ञ्यतौ षुक् च (1407)
(अञ्ञ्यतोरधिकरणम्)
(माणवशब्दसिध्यर्थं भाष्यवार्तिकम्)
अपत्ये कुत्सिते मूढे
मनोरौत्सर्गिकः स्मृतः।
नकारस्य च मूर्धन्य--
स्तेन सिध्यति माणवः।।
(षुकः पूर्वान्तत्वे आक्षेपभाष्यम्)
यदि षुक् पूर्वान्तः क्रियते--मानुषाः, बहुषु लोपः प्राप्नोति। मानुषाणां संघः संघाङ्कलक्षणेष्वञ्ञ्यञ्ञिञ्ञामण् (4।2।127) इत्यण् प्राप्नोति।।
(परादित्वे आक्षेपभाष्यम्)
अस्तु तर्हि परादिः।
यदि परादिः क्रियते--मानुषी, अञ्ञन्तादितीकारो न प्राप्नोति।।
(पूर्वान्तत्वस्थापकभाष्यम्)
अस्तु तर्हि पूर्वान्त एव।
कथं मानुषाः, मानुषाणां संघ इति?
उभयत्र लौकिकस्य गोत्रस्य ग्रहणम्, न चैतल्लौकिकं गोत्रम्।
किं तर्हि?
जातिः।।
इह तर्हि मानुष्यकमिति हलस्तद्धितस्य इति यलोपः प्राप्नोति।
परादावप्येष दोषः।
यद्वि तद्धलस्तद्धितस्येति हल्ग्रहणं न तदङ्गविशेषणं शक्यं विज्ञातुम्।
इह हि दोषः स्यात्--वृकाट्टेण्यण् (5।3।115) वार्केणीति । तस्मादुभाभ्यामेव तद्वक्तव्यम् --प्रकृत्याऽकेराजन्यमनुष्ययुवान इति।
-4-1-162- अपत्यं पौत्रप्रभृति गोत्रम् (1408)
(गोत्रसंज्ञाधिकरणम्)
(5314 सूत्रस्य न्यूनताक्षेपे वार्तिकम्।। 1 ।।)
- पौत्रप्रभृतेर्गोत्रसंज्ञायां यस्यापत्यं तस्य पौत्रप्रभृतिसंज्ञाकरणम् -
(भाष्यम्) पौत्रप्रभृतेर्गोत्रसंज्ञायां यस्यापत्यविवक्षा तस्य पौत्रप्रभृतेर्गौत्रसंज्ञा भवतीति वक्तव्यम्। गर्गोऽपि हि कंचित्प्रति पौत्रः, कुशिकोऽपि, तत्र मा भूदिति।।
(वार्तिकान्यथासिद्धिपरं भाष्यम्)
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्। समर्थानां प्रथमाद्वा (4।1।82) इति वर्तते। समर्थानां प्रथमस्य यदपत्यं पौत्रप्रभृतीति विज्ञायते।।
(5315 सिद्धान्तवार्तिकम्।। 2 ।।)
- जीवद्वंश्यञ्ञ्च कुत्सितम् -
(भाष्यम्) जीवद्वंश्यं च कुत्सितं गोत्रसंज्ञं भवतीति वक्तव्यम्। गार्ग्यस्त्वमसि जाल्म, वात्स्यस्त्वमसि जाल्म इति।
का पुनरिह कुत्सा?
पितृतो लोके व्यपदेशवताऽस्वतन्त्रेण भवितव्यम्।
य इदानीं पितृमान स्वतन्त्रो भवति स उच्यते गार्ग्यस्त्वमसि जाल्म, वात्स्यस्त्वमसि जाल्म। न त्वं पितृतो
व्यपदेशमर्हसीति।।
-4-1-163- जीवति तु वंश्ये युवा (1409)
(युवसंज्ञाधिकरणम्)
(5316 अनुवृत्तिसूचकवार्तिकम्।। 1 ।।)
- जीवति तु वंश्ये युवेति पौत्रप्रभृत्यपेक्षं च -
(भाष्यम्) जीवति तु वंश्ये युवेति पौत्रप्रभृत्यपेक्षं चेति वक्तव्यम्।।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्, पौत्रप्रभृतीति वर्तते।
एवं तर्हि अन्वाचष्टे पौत्रप्रभृतीति वर्तत इति।
किमेतस्यान्वाख्याने प्रयोजनम्?
(5317 अनुवृत्तिफलप्रदर्शकवार्तिकम्।। 2 ।।)
- तच्च दैवदत्त्यर्थम् -
(भाष्यम्) देवदत्तस्यापत्यं दैवदत्तिरिति, अनन्तरं यदपत्यं तत्र युवसंज्ञा मा भूदिति।
(अनुवृत्तौ दोषनिरासभाष्यम्)
देवदत्तस्य तर्हि पौत्रे युवसंज्ञा प्राप्नोति, एतदपि पौत्रप्रभृति भवति।
न पौत्रप्रभृतीत्यनेनापत्यमभिसंबध्यते--पौत्रप्रभृति यदपत्यमिति।
किं तर्हि?
वंश्योऽभिसंबध्यते--पौत्रप्रभृति वंश्ये जीवति यदपत्यमिति।
एवमपि देवदत्तस्य द्वौ पुत्रौ, तयोः कनीयसि युवसंज्ञा प्राप्नोति--भ्रातरि च ज्यायसि (4।1।164) इति।
एवं तर्ह्यपत्यमेवाभिसंबध्यते न तु पौत्रप्रभृतिसमानाधिकरणमपत्यम्।
नैवं विज्ञायते--पौत्रप्रभृति यदपत्यमिति।
कथं तर्हि?
पौत्रप्रभृतेर्यदपत्यमिति।।
(5318 युवसंज्ञाविधिवार्तिकम्।। 3 ।।)
- वृद्धस्य च पूजायाम् -
(भाष्यम्) वृद्धस्य च पूजायां युवसंज्ञा वक्तव्या। तत्र भवन्तो गार्ग्यायणाः, तत्रभवन्तो वात्स्यायनाः।
का पुनरिह पूजा?
युवत्वं लोके इर्प्सितं पूजेत्युपचर्यते। तत्रभवन्तश्च युवत्वेनोपचर्यमाणाः पूजिता भवन्ति।।
(5319 पूर्ववार्तिकप्रत्याख्याने वार्तिकम्।। 4 ।।)
- आपत्यो वा गोत्रम् -
(भाष्यम्) अथवा--आपत्यो गोत्रसंज्ञो भवतीति वक्तव्यम्।।
(5320 प्रत्याख्यानोपयोगिवार्तिकम्।। 5 ।।)
- परमप्रकृतेश्चापत्यः -
(भाष्यम्) परमप्रकृतेश्चापत्यो भवतीति वक्तव्यम्।
(5321 प्रत्याख्यानोपयोगिवार्तिकम्।। 6 ।।)
- आपत्याज्जीवद्वंश्यात्स्वार्थे द्वितीयो युवसंज्ञः -
(भाष्यम्) आपत्याज्जीवद्वंश्यात्स्वार्थे द्वितीयः प्रत्ययः स च युवसंज्ञो भवतीति वक्तव्यम्।।
(5322 प्रत्याख्यानोपयोगिवार्तिकम्।। 6 ।।)
- स चास्त्रियाम् -
(भाष्यम्) स चास्त्रियां भवतीति वक्तव्यम्।।
(5323 लाघवबोधकवार्तिकम्।। 7 ।।)
- एको गोत्रग्रहणानर्थक्यं च -
(भाष्यम्) एवं च कृत्वा एको गोत्रग्रहणमनर्थकं भवति।।
(5324 प्रत्याख्यानेनेष्टसाधकं वार्तिकम्।। 8 ।।)
- बहुवचनलोपिषु च सिद्धम् -
(भाष्यम्) बहुवचनलोपिषु च सिद्धं भवति। तत्र बिदानामपत्यं माणवक इति विगृह्य बिदशब्दाद् द्व्येकयोरुत्पत्तिर्भविष्यति--बैदः, बैदौ।।
बैदस्यापत्यानि बहवो माणवका इति विगृह्य बिदशब्दाद्वहुषूत्पत्तिर्भविष्यति--बिदा इति।।
-4-1-165- वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति (1411)
(पदकृत्यभाष्यम्)
अन्यग्रहणं किमर्थम्?
भ्रातरीति वर्तते, सपिण्डमात्रे यथा स्यात्।
अथ स्थविरतरग्रहणं किमर्थम्?
उभयतो विशिष्टे यथा स्यात्, स्थानतो वयस्तश्च।
अथ जीवतीति वर्तमाने पुनर्जीवतिग्रहणं किमर्थम्?
जीवतो जीवति यथा स्यात्, मृते मा भूत्। मृते हि गार्ग्यो मृतः इत्येव भवितव्यम्।।
(गोत्रयुवसंज्ञयोः समावेशे दोषापादकभाष्यम्)
अथ गोत्रयूनोः समावेशो भवति, उताहो न।
किं च प्राप्नोति?
बाढं प्राप्नोति, न ह्ययमेकसंज्ञाधिकारः।
किं चातः?
(दोषे श्लोकवार्तिकम्)
गोत्रयूनोः समावेशे
को दोषस्तत्कृतं भवेत्।।
(भाष्यम्) गोत्रयूनोः समावेशे को दोषः?
तत्कृतं प्राप्नोति, गोत्राश्रया विधयो यून्यपि प्राप्नुवन्ति--यास्कायनयः, लाह्यायनयः। यस्कादिभ्योगोत्रे (2।4।63) इति लुक् प्राप्नोति।।
(एकेदेशे दोषवारकं श्लोकवार्तिकम्)
यस्कादिषु न दोषोऽस्ति
न यूनीत्यनुवर्तनात्।
(भाष्यम्) यस्कादिषु न दोषः।
किं कारणम्?
न यूनीत्यनुवर्तनात्, न यूनीति तत्रानुवर्तते।
क्व प्रकृतम्? न तौल्वलिभ्यः (2।4।61) इति।।
(दोषापादकं श्लोकवार्तिकम्)
दोषोऽत्रिबिदपञ्ञ्चाला
न यूनीत्यनुवर्तनात्।।
(भाष्यम्) यदि न यूनीत्यनुवर्तते--अत्रयः, बिदाः, पञ्ञ्चाला, माणवका इति न सिध्यति।
नैष दोषः।
संबन्धमनुवर्तिष्यते। न तौल्वलिभ्यः तद्राजस्य बहुषु तेनैवास्त्रियां लुग् भवति, तौल्वलिभ्यो यूनि न। यस्कादिभ्यो
गोत्रे लुग् भवति, यूनि न। तौल्वलिभ्य इति निवृत्तम्।
यञ्ञञ्ञोश्च अत्रिभृगुकुत्सवसिष्ठगोतमाङि्गरोभ्यश्च लुग् भवति। यूनि नेत्यपि निवृत्तम्।
इह तर्हि--काण्व्यायनस्य छात्राः काण्व्यायनीयाः। कण्वादिभ्यो गोत्रे (4।2।111) इत्यण् प्राप्नोति।।
(दोषोद्धारकं श्लोकवार्तिकम्)
कण्वादिषु न दोषोऽस्ति
न यून्यस्ति ततः परम्।।
(भाष्यम्) कण्वादिषु दोषो नास्ति
किं कारणम्?
न यून्यस्ति ततः परम्। कण्वादिभ्यो यो विहितस्तदन्तात्प्रातिपदिकादित्युच्यते। यश्चात्र कण्वादिभ्यो विहितः, न तदन्तं प्रातिपदिकम्। यदन्तं च प्रातिपदिकम्, नासौ कण्वादिभ्यः।।
(दोषापादकभाष्यम्)
इह तर्ह्यौपगवस्यापत्यमौपगविरिति एको गोत्रे (4।1।93) इत्येतस्मान्नियमात्प्रत्ययो न प्राप्नोति।।
(दोषोद्धारकं श्लोकवार्तिकम्)
एको गोत्रे प्रातिपदम्।
(भाष्यम्) प्रतिपदमत्र प्रत्यया विधीयन्ते। गोत्राद्यून्यस्त्रियाम् (4।1।94) इति।।
(दोषापादकं भाष्यम्)
तदन्तात्तर्ह्यनेकः प्रत्ययः प्राप्नोति।।
(दोषोद्धारकं श्लोकवार्तिकम्)
गोत्राद्यूनि च तत्स्मरेत्।
(भाष्यम्) गोत्राद्यून्यस्त्रियाम् इति तत् स्मरेत्।।
किम्?
एक इत्येव।।
(संज्ञयोः समावेशे दोषापादनभाष्यम्)
गोत्रे तर्ह्यलुगुक्तः स यून्यपि प्राप्नोति।
अस्तु।
पुनर्यूनि लुग् भविष्यति।
नैवं शक्यम्।
फक्फिञ्ञोर्दोषः स्यात्-शालङ्केर्यूनश्छात्राः शालङ्काः, पैलश्य पैलीयाः। फक्फिञ्ञोरन्यतरस्याम्(4।1।91) इत्यन्यतरस्यां श्रवणं प्रसज्येत।।
(प्रकारान्तरेण दोषनिवारकभाष्यम्)
तस्माद्युवसंज्ञायां गोत्रसंज्ञायाः प्रतिषेधो वक्तव्यः।।
न वक्तव्यः।
तुर्नियामकः, तुः क्रियते स नियामको भविष्यति--जीवति वंश्ये अपत्यं युवसंज्ञमेव भवतीति।।
(पूर्वोक्तदोषनिवारणेऽप्यन्यदोषापादकं भाष्यम्)
यदि तर्हि युवसंज्ञायां गोत्रसंज्ञा न भवति, य इष्यन्ते यूनि गोत्राश्रया विधयस्ते न सिध्यन्ति--गार्ग्यायणानां समूहो गार्ग्यायणकम्, गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः। गोत्राश्रयो वुञ्ञ्न प्राप्नोति।।
एवं तर्हि--
(दोषोद्धारकं श्लोकवार्तिकम्)
राजन्याद्वुञ्ञ् मनुष्याच्च
ज्ञापकं लौकिकं परम्।
(भाष्यम्) यदयं वुञ्ञ्विधौ राजन्यमनुष्ययोर्ग्रहणं करोति, तज् ज्ञापयत्याचार्यः--लौकिकं परं गोत्रग्रहणमिति।
युवा च लोके गोत्रमित्युपचर्यते--किं गोत्रोऽसि माणवक? गार्ग्यायणः। किं गोत्रोऽसि माणवक? वात्स्यायनः।।
(सूत्रार्थोपसंहारभाष्यम्)
यद्येतज्ज्ञाप्यते--औपगवेर्यूनश्छात्रा औपगवीयाः। इञ्ञो गोत्र इत्यण् प्राप्नोति।
सामूहिकेषु ज्ञापकम्।
यदि सामूहिकेषु ज्ञापकम्--गार्ग्यायणानां किंचिद् गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः, गोत्राश्रयो वुञ्ञ्न प्राप्नोति।
वुञ्ञ्विधौ ज्ञापकम्।
वुञ्ञ्विधावेतज्ज्ञापकम्।
यदि वुञ्ञ्विधौ ज्ञापकम्--शालङ्केर्यूनश्छात्राः शालङ्काः।
इञ्ञो गोत्र इत्यण्न प्राप्नोति।
अस्तु तर्ह्यविशेषेण।
कथमौपगवेर्यूनश्छात्रा औपगवीयाः, इञ्ञो गोत्र इत्यण् प्राप्नोति?
नैष दोषः। गोत्रेणात्रेञ्ञं विशेषयिष्यामः--गोत्रे य इञ्ञ्विहित इति।।
-4-1-168- जनपदशब्दात् क्षत्रियादञ्ञ् (1414)
(अञ्ञोऽधिकरणम्)
(5325 पूर्वपक्षवार्तिकम्।। 1 ।।)
- क्षत्रियादेकराजात्सङ्घप्रतिषेधार्थम् -
(भाष्यम्) क्षत्रियादेकराजादिति वक्तव्यम्।
किं प्रयोजनम्?
सङ्घप्रतिषेधार्थम्। सङ्घान्मा भूत्--पञ्ञ्चालानामपत्यम्, विदेहानामपत्यमिति।
तत्तर्हि वक्तव्यम्।।
(समाधानभाष्यम्)
न वक्तव्यम्। न ह्यन्तरेण बहुषु लुकं पञ्ञ्चाला इत्येतद्भवति।
यस्तस्मादुत्पद्यते युवप्रत्ययः स स्यात्। युवप्रत्ययश्चेत्तस्य लुक्, तस्मिंश्चालुग् भविष्यति।।
इदं तर्हि--क्षौद्रकाणामपत्यम्, मालवानामपत्यमिति।
अत्रापि क्षौद्रक्यो मालव्य इति नैतत्तेषां दासे वा भवति कर्मकरे वा।
किं तर्हि?
तेषामेव कस्मिंश्चित्। यावता तेषामेव कस्मिंश्चित्, यस्तस्मादुत्पद्यते स युवप्रत्ययः स्यात्। युवप्रत्ययश्चेत्तस्य लुक्, तस्मिंश्चालुग्भविष्यति।।
(क्षत्रियपदाक्षेपभाष्यम्)
अथ क्षत्रियग्रहणं किमर्थम्?
इह मा भूत्--विदेहो नाम ब्राह्मणस्तस्यापत्यं वैदेहिः।।
(5326 क्षत्रियपदप्रयोजनवार्तिकम्।। 2 ।।)
- क्षत्रियग्रहणानर्थक्ये चोक्तम् -
(भाष्यम्) किमुक्तम्?
एकं तावदुक्तम्--बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततोऽन्यत्र तेषां प्रतिषेध इति।
अपरमुक्तम्--अनभिधानादिति।।
(5327 अतिदेशवार्तिकम्।। 3 ।।)
- क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् -
(भाष्यम्) क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत्प्रत्यया भवन्तीति वक्तव्यम्। पञ्ञ्चालानां राजा पाञ्ञ्चालः।।
पूरोरण् वक्तव्यः--पौरवः।।
पाण्डोडर्‌यण् वक्तव्यः--पाण्डयः।।
-4-1-170- द्व्यञ्ञ्मगधकलिङ्गसूरमसादण् (1416)
(अणोऽधिकरणम्)
(5328 विप्रतिषेधवार्तिकम्।। 1 ।।)
- अणो ञ्ञ्यङ्ण्येञ्ञो विप्रतिषेधेन -
(भाष्यम्) अणो ञ्ञ्यङ्-ण्य--इञ्ञ्--इत्येते भवन्ति विप्रतिषेधेन।
अणोऽवकाशः--आङ्गः, वाङ्गः।
ञ्ञ्यङोऽवकाशः--आम्बष्ठ्यः, सौवीर्यः।
इहोभयं प्राप्नोति--दार्व्यः।।
ण्यस्यावकाशः--निचक--नैचक्यः।
अणः स एव।
इहोभयं प्राप्नोति--नीप--नैप्यः।।
इञ्ञोऽवकाशः--आजमीढिः, आजक्रन्दिः।
अणः स एव।
इहोभयं प्राप्नोति--बुध--बौधिः।
ञ्ञ्यङ्ण्येञ्ञो भवन्ति विप्रतिषेधेन।।
(5329 विप्रतिषेधे द्वितीयवार्तिकम्।। 2 ।।)
- ञ्ञ्यङः कुरुनादिभ्यो ण्यः -
(भाष्यम्) ञ्ञ्यङः कुरुनादिभ्यो ण्यो भवति विप्रतिषेधेन। ञ्ञ्यङोऽवकाशः--आवन्त्यः, कौन्त्यः।
ण्यस्य स एव।
नैशो नाम जनपदस्तस्मादुभयं प्राप्नोति।
ण्यो भवति विप्रतिषेधेन--नैश्यः।।
-4-1-175- कम्बोजाल्लुक् (1421)
(लुगधिकरणम्)
(5330 सूत्रपूरकवार्तिकम्।। 1 ।)
- कम्बोजादिभ्यो लुग्वचनं चोडाद्यर्थम् -
(भाष्यम्) कम्बोजादिभ्यो लुग्वक्तव्यः।
किं प्रयोजनम्?
चोडाद्यर्थभ्--चोडः, कडेरः, केरलः।।
4-1-4- आ. 115 (719 लुग्विधिसूत्रम्
-4-1-177- 1423 अतश्च
(अलक्ष्यवारणपरभाष्यम्)
इह कस्मान्न भवति--आम्बष्ठ्या, सौवीर्या? अत इत्युच्यते, नैषोऽकारः।
तदन्तविधिना प्राप्नोति।
अत उत्तरं पठति--
(5331 तदन्ताग्रहणवार्तिकम्।। 1 ।।)
- अत इति तदन्ताग्रहणमवन्त्यादिभ्यो लुग्वचनात् -
(भाष्यम्) अत इति तदन्तस्याग्रहणम्।
किं कारणम्?
अवन्त्यादिभ्यो लुग्वचनात्। यदयमवन्त्यादिभ्यो लुकं शास्ति, तज्ज्ञापयत्याचार्यः--नात्र तदन्तविधिर्भवतीति।।
(सूत्रांशपूरकभाष्यम्)
पर्श्वादिभ्यो लुग्वक्तव्यः। पर्शूः,रक्षाः, असुरी।।
(5332 अन्यथासिद्धिसाधकवार्तिकम्।। 2 ।।)
- यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वादिलुकः -
(भाष्यम्) यदयं न प्राच्यभर्गादियौधेयादिभ्यः (4।1।178) इति प्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यः--भवति पर्श्वादिभ्यो लुगिति।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम्।। पादश्च समाप्तः।।
-9-9-999-