सामग्री पर जाएँ

महाभाष्यम्/चतुर्थोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः

-4-2-1- तेन रक्तं रागात् (1424)
(रक्तार्थाधिकरणम्)
(पदकृत्यभाष्यम्)
रागादिति किमर्थम्?
देवदत्तेन रक्तं वस्त्रम्।।
(5328 रागात् पदानर्थक्यबोधकं वार्तिकम्।। 1 ।।)
- रक्तादीनामर्थाभिधाने प्रत्ययविधानादुपाध्यानर्थक्यम् -
(भाष्यम्) रक्तादीनामर्थाभिधाने प्रत्ययविधानादुपाधिग्रहणमनर्थकम्। न ह्यरागादुत्पद्यमानेन प्रत्ययेनार्थाभिधानं स्यात्।
अनभिधानात्तत उत्पत्तिर्न भविष्यति।।
-4-2-2- लाक्षारोचनाट्ठक् (1425)
(ठगधिकरणम्)
(5329 सूत्रांशपूरकवार्तिकम्।। 1 ।।)
- ठक्प्रकरणे शकलकर्दमाभ्यामुपसंख्यानम् -
(भाष्यम्) ठक्प्रकरणे शकलकर्दमाभ्यामुपसंख्यानं कर्तव्यम्। शाकलिकम्, कार्दमिकम्।।
(5330 बाधकप्रत्ययोपपादकवार्तिकम्।। 2 ।।)
- नील्या अन् -
(भाष्यम्) नील्या अन् वक्तव्यः। नील्या रक्तं नीलम्।।
(5331 बाधकप्रत्ययोपपादकवार्तिकम्।। 3 ।।)
- पीतात्कन् -
(भाष्यम्) पीतात्कन्वक्तव्यः। पीतेन रक्तं पीतकम्।
पीतकशब्दो वा प्रकृत्यन्तरम्, तस्माल्लुग्वक्तव्यः।।
(5332 बाधकप्रत्ययोपपादकवार्तिकम्।। 4 ।।)
- हरिद्रामहारजनाभ्यामञ्ञ् -
(भाष्यम्) हरिद्रामहारजनाभ्यामञ्ञ् वक्तव्यः। हारिद्रम्, माहारजनम्।
(प्रयोगसाधकभाष्यम्)
रागादित्युच्यते, तत्रेदं न सिध्यति--हारिद्रौ कुक्कुटस्य पादौ, काषायौ गर्दभस्य कर्णाविति।
उपमानात्सिद्धम्। हारिद्राविव हारिद्रौ, काषायाविव काषायौ।।
-4-2-3- नक्षत्रेण युक्तः कालः (1426)
(युक्ताथाधिकरणम्)
(आक्षेपभाष्यम्)
अयुक्तोऽयं निर्देशः। योगो हि नाम स भवति ययोः संनिकर्षविप्रकर्षौ स्तः। न च कालनक्षत्रयोः संनिकर्षविप्रकर्षौ स्तः, नित्ये हि कालनक्षत्रे।
कथं तर्हि निर्देशः कर्तव्यः?
(5333 आक्षेपवार्तिकम्।। 1 ।।)
- नक्षत्रेण चन्द्रमसो योगात्तद्युक्तात्काले प्रत्ययविधानम् -
(भाष्यम्) नक्षत्रेण चन्द्रमसो योगात्तद्युक्तात्काले प्रत्ययविधानं भवतीति वक्तव्यम्। पुष्येण युक्तः पुष्ययुक्तः, पुष्ययुक्तश्चन्द्रमा अस्मिन् काले पौषमहः, पौषी रात्रिः।।
(5334 आक्षेपसाधकवार्तिकम्।। 2 ।।)
- तत्रोत्तरपदलोपः -
(भाष्यम्) तत्रैवं सति उत्तरपदलोपो वक्तव्यः। पुष्ययुक्तशब्दाद्धि प्रत्ययो विधीयते।।
(5335 आक्षेपसाधकवार्तिकम्।। 3 ।।)
- लिङ्गवचनानुपपत्तिश्च -
(भाष्यम्) लिङ्गवचनयोश्चानुपपत्तिः। चन्द्र मसो यल्लिङ्गं वचनं च तद्युक्तवद्भावेन प्राप्नोति।।
(5336 समाधानवार्तिकम्।। 4 ।।)
- कालयोगात्सिद्धम् -
(भाष्यम्) कालयोगात्सिद्धमेतत्।।
अस्तु नक्षत्रेण युक्तः काल इत्येव।।
(समाधानाक्षेपभाष्यम्)
ननु चोक्तम्--अयुक्तोऽयं निर्देशः, योगो हि नाम स भवति ययोः संनिकर्षविप्रकर्षौ स्तः, न च कालनक्षत्रयोः संनिकर्षविप्रकर्षौ स्तः, नित्ये हि कालनक्षत्रे इति।
नैष दोषः।
पुष्यसमीपगते चन्द्रमसि पुष्यशब्दो वर्तते, तेन तत्संज्ञकेन कालो विशेष्यते।।
(5337 सिद्धान्तवार्तिकम्।। 5 ।।)
- तथा च संप्रत्ययः -
(भाष्यम्) एवं च कृत्वा लोके संप्रत्ययो भवति। पुष्यसमीपगते चन्द्रमसि वक्तारो भवन्ति--पुष्येणाद्य, मघाभिरद्येति।।
-4-2-4- लुबविशेषे (1427)
(लुबधिकरणम्)
(पूर्वसूत्राननुवृत्तौ दोषदर्शकभाष्यम्)
इह कस्मान्न भवति--पौषी रात्रिः, पौषमहः?
अविशेष इत्युच्यते, विशेषश्चात्र गम्यते--रात्रिरित्युक्तेऽहर्नेति गम्यते, अहरित्युके रात्रिर्नेति गम्यते।
इहापि तर्हि न प्राप्नोति--अद्य पुष्य इति। अत्रापि हि विशेषो गम्यते--अद्येत्युक्ते न ह्यो न श्व इति गम्यते।
यद्यप्यत्र विशेषो गम्यते, अविशेषोऽपि तु गम्यते।। अद्येत्युक्ते न ज्ञायते रात्रौ दिवा वेति। यतोऽविशेषस्तदाश्रयो लुब्भविष्यति।।
इहापि तर्हि--यद्यपि विशेषो गम्यते, अविशेषोऽपि तु गम्यते। रात्रिरित्युक्ते न ज्ञायते कदेति। दिवेत्युक्ते न ज्ञायते कदेति। यतोऽविशेषस्तदाश्रयो लुप्प्राप्नोति।
(सिद्धान्तभाष्यम्)
एवं तर्हि--नक्षत्रेण युक्तः कालः इत्यनुवर्तते, नक्षत्रेण युक्तस्य कालस्याविशेषे।
कः पुनः कालो नक्षत्रेण युज्यते?
-4-2-5- संज्ञायां श्रवणाश्वत्थाभ्याम्( 1428)
(श्रवणाशब्दसाधकं भाष्यम्)
इह कस्मान्न युक्तवद्भावो भवति--श्रवणा रात्रिः?
निपातनादेतत्सिद्धम्।
किं निपातनम्?
विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः (4।2।23) इति।।
-4-2-7- दृष्टं साम (1430)
(अर्थाधिकरणम्)
(5338 कलिशब्दविषयं वार्तिकम्।। 1 ।।)
- दृष्टं साम कलेर्ढक् -
(भाष्यम्) दृष्टं सामेत्यत्र कलेर्ढग्वक्तव्यः। कलिना दृष्टं साम कालेयं साम गीयते।।
अपर आह--
(5339 व्यापकवार्तिकम्।। 2 ।।)
- सर्वत्राग्निकलिभ्यां ढक् -
(भाष्यम्) सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः। अग्निना दृष्टं सामाग्नेयम्, अग्नौ भवमाग्नेयम्, अग्नेरागतमाग्नेयम्, अग्नेः स्वमाग्नेयम्, अग्निर्देवताऽस्याग्नेयः। कलिना दृष्टं कालेयम्, कलौ भवं कालेयम्, कलेरागतं कालेयम्, कलेः स्वं कालेयम्, कलिर्देवताऽस्य कालेयश्चरुः।।
(विधायकं श्लोकवार्तिकम्।।)
दृष्टेसामनि जाते
चाप्यण् डिदि्द्वर्वा विधीयते।।
(भाष्यम्) दृष्टे सामनि जाते चाप्यण् डिदि्द्वर्वा वक्तव्यः। उशनसा दृष्टं साम औशनम्, औशनसम्। सतभिषजः जातः शातभिषजः, शातभिषः।।
(विधायकं श्लोकवार्तिकम्।।)
तीयादीकक्।।
(भाष्यम्) तीयादीकक् वक्तव्यः। द्वैतीयीकः, तार्त्तीयीकः।।
(निषेधे श्लोकवार्तिकम्।।)
न विद्यायाः।।
(भाष्यम्) विद्याया न भवतीति वक्तव्यम्। द्वितीया विद्या, तृतीया विद्येत्येव।।
(अतिदेशे श्लोकवार्तिकम्।।)
गोत्रादङ्कवदिष्यते।।
(भाष्यम्) औपगवकम्, कापटवकम्।।
दृष्टे सामनि जाते
चाप्यण् डिदि्द्वर्वा विधीयते।
तीयादीकग्न विद्याया
गोत्रादङ्कवदिष्यते।।
-4-2-9- वामदेवाडड्यड्ड्यौ (1432)
(ड्यड्ड्ययोरधिकरणम्)
(डित्त्वफलबोधकभाष्यम्)
किमर्थो डकारः?
डितीति लोपो यथा स्यात्।
नैतदस्ति प्रयोजनम्। यस्येति लोपेनाप्येतत्सिद्धम्।
एवं तर्हि सिद्धे सति यद्ययतौ डितौ करोति तज् ज्ञापयत्याचार्यः--भवत एते परिभाषे--अननुबन्धकग्रहणे न सानुबन्धकस्य ग्रहणम्, तदनुबन्धकग्रहणे नातदनुबन्धकस्य ग्रहणमिति।।
(ज्ञापनफलबोधकभाष्यम्)
किमेतस्य ज्ञापने प्रयोजनम्?
अवामदेव्यमित्येतत्सिद्धं भवति।
सिद्धे यस्येति लोपेन
किमर्थं ययतौ डितौ।
ग्रहणं माऽतदर्थे भू-
द्वामदेव्यस्य नञ्ञ्स्वरे।।
-4-2-10- परिवृतो रथः (1433)
(अर्थाधिकरणम्)
(5340 परिवृतपदार्थबोधकवार्तिकम्।। 1 ।।)
- परिवृतो रथ इति तदेकान्तग्रहणम् -
(भाष्यम्) परिवृतो रथ इत्यत्र तदेकान्तग्रहणं कर्तव्यम्। येन परिवृतो रथो रथैकान्तश्चेत् स भवतीति वक्तव्यम्।
इह मा भूत्-पुत्रैः परिवृतो रथः, छात्रैः परिवृतो रथ इति।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्।
कस्मान्न भवति--पुत्रैः परिवृतो रथः, छात्रैः परिवृतो रथ इति।
अनभिधानात्।।
-4-2-11- पाण्डुकलादिनिः (1434)
(इनिप्रत्ययाधिकरणम्)
(फलाभावबोधकभाष्यम्)
अयं योगः शक्योऽवक्तुम्।
कथम्--पाण्डुकम्बली, पाण्डुकम्बलिनौ, पाण्डुकम्बलिन इति।
इनिनैतन्मत्वर्थीयेन सिद्धम्। पाण्डुकम्बलोऽस्यास्तीति--पाण्डुकम्बली।।
-4-2-13- कौमारापूर्ववचने (1436)
(निपातनाधिकरणम्)
(5341 अपूर्ववचनार्थबोधकवार्तिकम्।। 1 ।।)
- कौमारापूर्ववचन इत्युभयतः स्त्रिया अपूर्वत्वे -
(भाष्यम्) कौमारापूर्ववचन इत्यत्रोभयतः स्त्रिया अपूर्वत्व इति वक्तव्यम्। अपूर्वपतिं कुमारीमुपपन्नः कौमारो भर्ता। कुमारी--अपूर्वपतिः--पतिमुपपन्ना कौमारी भार्या।।
(भाष्यवार्तिकम्)
कौमारापूर्ववचने
कुमार्या अण्विधीयते।
अपूर्वत्वं यदा तस्याः
कुमार्यां भवतीति वा।।
(भाष्यम्) अथ वा कुमार्यां भवः कौमारः।। यद्येवं कौमारीभार्येति न सिध्यति।।
(5342 अन्यथासिद्धिसाधकवार्तिकम्।। 2 ।।)
- पुंयोगात् स्त्र्यभिधानम् -
(भाष्यम्) पुंयोगात् स्त्र्यभिधानं भविष्यति। कौमारस्य भार्या कौमारीति।।
-4-2-21- सास्मिन् पौर्णमासीति (1444)
(अर्थबोधनाधिकरणम्)
(5342 उपसङ्ख्यानवार्तिकम्।। 1 ।।)
- सास्मिन् पौर्णमासीति संज्ञाग्रहणम् -
(भाष्यम्) सास्मिन् पौर्णमासीत्यत्र संज्ञाग्रहणं कर्तव्यम्।।
(5344 उपसङ्ख्यानाभावे गौरवबोधकवार्तिकम्।। 2 ।।)
- असंज्ञायां हि गरीयानुपसंयोगः -
(भाष्यम्) अक्रियमाणे हि संज्ञाग्रहणे गरीयानुपसंयोगः कर्तव्यः स्यात्--मासार्धमासयोरिति वक्तव्यं स्यात्।
इह मा भूत्-पौषी पौर्णमास्यस्मिन्--पञ्चदशरात्रे, दशरात्र इति।
संवत्सरपर्वणीति च वक्तव्यं स्यात्। भृतकमासे मा भूदिति।।
(उपसङ्ख्यानान्यथासिद्धिभाष्यम्)
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्। इतिकरणः क्रियते, ततश्चेद्विवक्षा।।
-4-2-25- कस्येत् (1448)
(आदेशाधिकरणम्)
(भाष्यम्)
यस्येति लोपः कस्मान्न भवति?
इकारोच्चारणसार्मथ्यात्।
अथ यत्कायं हविः, कथं तस्य संप्रैषः कर्तव्यः?
यदि तावत्किमः कादेशः, कस्मा अनुब्रूहीति भवितव्यम्।
अथ न किमः, कायानुब्रूहीति भवितव्यम्।
यद्यपि किमः, अथापि न किमः, उभयथा कस्माननुब्रूहीति भवितव्यम्। सर्वस्य हि सर्वनामसंज्ञा क्रियते, सर्वश्च प्रजापतिः, प्रजापतिश्च कः।।
अपर आह--
यद्येव किमः,
अथापि न किमः,
उभयथा कायानुब्रूहीति भवितव्यम्। संज्ञोपसर्जनयोर्हि सर्वनामसंज्ञा प्रतिषिध्यते, संज्ञा चैषा तत्र भवतः।।
-4-2-27- अपोनप्त्रपांनप्तृभ्यां घः (1450)
(घप्रत्ययाधिकरणम्)
(प्रैषविचारकभाष्यम्)
अथ यदपोनप्त्रियम्, अपांनप्त्रियं हविः, कथं तस्य संप्रैषः कर्तव्यः?
अपोनपातेऽनुब्रूहि, अपांनपातेऽनुब्रूहि।
अपोनप्त्रपांनप्तृभावः कस्मान्न भवति?
प्रत्ययसन्नियोगेन ऋकारान्तत्वमुच्यते, तेनासति प्रत्यये न भवितव्यम्।।
-4-2-28- छ च ( 1451)
(छाधिकरणम्)
(5345 सिद्धान्तवार्तिकम्।। 1 ।।)
- छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम् -
(भाष्यम्) छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानं कर्तव्यम्। पैङ्गाक्षीपुत्रीयम्, तार्णबिन्दवीयम्।।
(5346 सिद्धान्तवार्तिकम्।। 2 ।।)
- शतरुद्राद् घ च -
(भाष्यम्) शतरुद्राद् घप्रत्ययो वक्तव्यः, छश्च वक्तव्यः। शतरुद्रियम्, शतरुद्रीयम्।।
-4-2-35- महाराजप्रोष्ठपदाट्ठञ्ञ् (1458)
(ठञ्ञोऽधिकरणम्)
(5350 सिद्धान्तवार्तिकम्।। 1 ।।)
- ठञ्ञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् -
(भाष्यम्) ठञ्ञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसंख्यानं कर्तव्यम्। नवयज्ञो वर्ततेऽस्मिन् काले--नावयज्ञिकः, पाकयज्ञिकः।।
(5351 सिद्धान्तवार्तिकम्।। 2 ।।)
- पूर्णमासादण् -
(भाष्यम्) पूर्णमासादण्वक्तव्यः। पूर्णमासो वर्ततेऽस्मिन् काले--पौर्णमासी तिथिः।।
-4-2-36- पितृव्यमातुलमातामहपितामहाः (1459)
(निपातनाधिकरणम्)
(निपातनव्युत्पादकं भाष्यम्)
पितृव्यमातुलेति किं निपात्यते?
(5352 व्युत्पादकवार्तिकम्।। 1 ।।)
- पितृमातृभ्यां भ्रातरि व्यड्डुलचौ -
(भाष्यम्) पितृमातृभ्यां भ्रातरि व्यड्डुलचौ प्रत्ययौ निपात्येते। पितुर्भ्राता--पितृव्यः, मातुर्भ्राता--मातुलः।
मातामहपितामहेति किं निपात्यते?
(5353 व्युत्पादकवार्तिकम्।। 2 ।।)
- मातृपितृभ्यां पितरि डामहच् -
(भाष्यम्) मातृपितृभ्यां पितरि डामहच्प्रत्ययो निपात्यते। मातुः पिता--मातामहः, पितुः पिता--पितामहः।।
(5354 सिद्धान्तवार्तिकम्।। 3 ।।)
- मातरि षिच्च -
(भाष्यम्) षिच्च वक्तव्यः। पितामही, मातामही।।
(5355 अवग्रहे रूपसाधकं वार्तिकम्।। 4 ।।)
- महो वा छन्दस्यानङोऽवग्रहदर्शनात् -
(भाष्यम्) महो वा पुनरेष भविष्यति, छन्दस्यानङोऽवग्रहदर्शनात्। छन्दस्यानङोऽवग्रहो दृश्यते--पिता--मह इति।।
(5356 सिद्धान्तवार्तिकम्।। 5 ।।)
- अवेर्दुग्धे सोढदूसमरीसचः -
(भाष्यम्) अवेर्दुग्धे सोढदूसमरीसच इत्येते प्रत्यया वक्तव्याः। अविसोढम्, अविदूसम्, अविमरीसम्।।
(5357 सिद्धान्तवार्तिकम्।। 6 ।।)
- तिलान्निष्फलात्पिञ्ञ्जपेजौ -
(भाष्यम्) तिलान्निष्फलात्पिञ्ञ्जपेजौ वक्तव्यौ। तिलपिञ्ञ्जः, तिलपेजः।।
(5358 सिद्धान्तवार्तिकम्।। 7 ।।)
- पिञ्ञ्जश्छन्दसि डिच्च -
(भाष्यम्) पिञ्ञ्जश्छन्दसि डिच्च वक्तव्यः। तिल्पिञ्ञ्जं दण्डानतम्।।
-4-2-38- भिक्षादिभ्योऽण् (1461)
(अणोऽधिकरणम्)
(युवतिशब्दपाठफलबोधकं भाष्यम्)
किमर्थं भिक्षादिषु युवतिशब्दः पठ्यते,न तस्य समूहः (4-2-37) इत्येव सिद्धम्। न सिद्धयति. अनुदात्तादिलक्षणोऽञ्ञ्प्राप्तः, तद्वाधनार्थम्। अत उत्तरं पठति--
(5359 युवतिपाठानर्थक्यबोधकं वार्तिकम्।।1।।)
भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात्।।
भिक्षादिषु युवतिग्रहणानर्थकम्। किं कारणम्? पुंवद्भावस्य सिद्धत्वात्। प्रत्ययविधौ पुंवद्भावोऽत्र भविष्यति। भस्याढे तद्धिते पुंवद्भवतीति। सिद्धश्च प्रत्ययविधौ । स च सिद्धः प्रत्ययविधौ ।।
-4-2-39- गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्ञ् (1462)
(वुञ्ञोऽधिकरणम्)
(5360 पूरकवार्तिकम्।। 1 ।।)
- वृद्धाच्च -
(भाष्यम्) वृद्धाच्चेति वक्तव्यम्। वृद्धानां समूहो वार्द्धकम्।।
(5361 एकदेशिवार्तिकम्।। 2 ।।)
- अञ्ञो वुञ्ञ्पूर्वविप्रतिषिद्धम् -
(भाष्यम्) अञ्ञो वुञ्ञ्भवति पूर्वविप्रतिषेधेन। अञ्ञोऽवकाशः--कपोत--कापोतम्। वुञ्ञोऽवकाशः--ग्लुचकायनि--ग्लौचुकायनकम्।
इहोभयं प्राप्नोति--औपगवकम्, कापटवकम्।
वुञ्ञ्भवति पूर्वविप्रतिषेधेन।।
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः।
न वक्तव्यः।
वक्ष्यत्येतत्--पूर्वोऽपि वुञ्ञ् परमञ्ञं बाधत इति।।
अथ वा--इष्टवाची परशब्दः, विप्रतिषेधे परं यदिष्टं तद्भवतीति।।
(5362 विप्रतिषेधबोधकवार्तिकम्।। 3 ।।)
- ठक्तु विप्रतिषेधात् -
(भाष्यम्) ठक्तु भवति विप्रतिषेधेन।
ठकोऽवकाशः--सक्तु--साक्तुकम्।
अञ्ञः स एव।
इहोभयं प्राप्नोति--आपूपिकम्, शाष्कुलिकम्, मौदकिकम्। ठग्भवति विप्रतिषेधेन।।
-4-2-40- केदाराद्यञ्च (1463)
(5363 पूरकवार्तिकम्।। 1 ।।)
- गणिकायाश्च -
(भाष्यम्) गणिकायाश्चेति वक्तव्यम्। गणिकानां समूहो गाणिक्यम्।।
-4-2-42- ब्राह्मणमाणववाडवाद्यन् (1465)
(यन्प्रत्ययाधिकरणम्)
(नित्वफलबोधकं भाष्यम्)
किमर्थं ब्राह्मणादिभ्यो यन्विधीयते, न यञ्ञ्प्रकृतस्सोनुवर्तिष्यते?
न ह्यस्ति विशेषो ब्राह्मणादिभ्यो यनो वा यञ्ञो वा, तदेव रूपं स एव स्वरः।
एवं तर्हि सिद्धे सति यद् ब्राह्मणादिभ्यो यनं शास्ति तज्ज्ञापयत्याचार्यः--अन्येभ्योऽप्ययं भवतीति।।
किमेतस्य ज्ञापने प्रयोजनम्?
यन्प्रकरणे पृष्ठादुपसंख्यानमिति चोदयिष्यति तन्न कर्तव्यं भवति।।
(5364 सिद्धार्थकथनपरं वार्तिकम्।। 1 ।।)
- यन्प्रकरणे पृष्ठादुपसंख्यानम् -
(भाष्यम्) यन्प्रकरणे पृष्ठादुपसंख्यानं कर्तव्यम्। पृष्ठानां समूहः--पृष्ठयः--षडहः।।
-4-2-43- ग्रामजनबन्धुभ्यस्तल् (1466)
(तल्प्रत्ययाधिकरणम्)
(5365 सिद्धान्तवार्तिकम्।। 1 ।।)
- गजसहायाभ्यां च -
(भाष्यम्) गजसहायाभ्यां चेति वक्तव्यम्। गजता, सहायता।।
(5366 सिद्धान्तवार्तिकम्।। 2 ।।)
- अह्नः खः -
(भाष्यम्) खो वक्तव्यः। अह्नां समूहोऽहीनः।।
(5367 सिद्धान्तवार्तिकम्।। 3 ।।)
- क्रतौ -
(भाष्यम्) क्रताविति वक्तव्यम्।
इह मा भूत्--
आह्नाय धूतपाप्मानो भास्कराजितमृत्यवः।।
(5368 सिद्धान्तवार्तिकम्।। 4 ।।)
- पर्श्वाः सण् -
(भाष्यम्) पर्श्वाः सण् वक्तव्यः पर्शूनां समूहः पार्श्वम्।
यदि सण् क्रियते, इत्संज्ञा न प्राप्नोति।।
एवं तर्हि णस्वक्तव्यः।
-4-2-45- खण्डिकादिभ्यश्च (1468)
(अञ्ञोऽधिकरणम्)
(गणे उलूकशब्दपाठप्रयोजनभाष्यम्)
खण्डिकशुकोलूक। किमर्थं खण्डिकादिषूलूकशब्दः पठ्यते, न अनुदात्तादेः इत्येव सिद्धम्?
न सिध्यति।
चाषोलूकयोश्छन्दस्याद्युदात्तः प्रयोगो दृश्यते--चाषेण किकिदीविना, यदुलूको वदति।
नैतयोश्छन्दसि सामूहिको दृश्यते। यत्र च दृश्यते, तत्रैतावनुदात्तादी।।
इदं तर्हि प्रयोजनम्--अयमौलूक्यो गोत्रम्, तत्र गोत्राश्रयो वुञ्ञ्प्राप्तस्तद्बाधनार्थम्।
एतदपि नास्ति प्रयोजनम्।
बहुवचनान्तानां हि सामूहिकः, बहुषु च लुक्। तत्र लुकि कृते अनुदात्तादेः इत्येव सिद्धम्।
न सिध्यति।
गोत्रेऽलुगचि (4।1।89) इत्यलुक् प्राप्नोति।।
(क्षुद्रकमालवपाठप्रयोजने भाष्यवार्तिकम्)
अञ्ञ्सिद्धिरनुदात्तादेः कोऽर्थः क्षुद्रकमालवात्।
(भाष्यम्) अनुदात्तादेः इत्येवाञ्ञ्सिद्धः, किमर्थं क्षुद्रकमालवशब्दः खण्डिकादिषु पठ्यते।
गोत्राश्रयो वुञ्ञ्प्राप्तस्तद्बाधनार्थम्।।
(पाठप्रयोजनखण्डने भाष्यवार्तिकम्)
गोत्राद्रुञ्ञ् न च तद्गोत्रम्।।
(भाष्यम्) गोत्राद् वुञ्ञ् भवतीत्युच्यते, न च क्षुद्रकमालवशब्दो गोत्रम्--न च गोत्रसमुदायो गोत्रग्रहणेन गृह्यते। तद्यथा--जनपदसमुदायो जनपदशब्देन न गृह्यते, काशिकोसलीया इति वुञ्ञ्न भवति।।
(प्रयोजनसमर्थकं भाष्यम्)
तदन्तविधिना प्राप्नोति।।
(तदन्तविधिखण्डने भाष्यवार्तिकम्)
तदन्तान्न स सर्वतः।।
(भाष्यम्) परिगणितेषु कार्येषु तदन्तविधिः। न चेदं तत्र परिगण्यते।।
(तदन्तविधिसाधनेन फलसमर्थने भाष्यवार्तिकम्)
ज्ञापकं स्यात्तदन्तत्वे
(भाष्यम्) एवं तर्हि ज्ञापयत्याचार्यो भवतीह तदन्तविधिरिति।।
(तदन्तविधिज्ञापनेन इष्टबोधकभाष्यवार्तिकम्)
तथा चापिशलेर्विधिः।
(भाष्यम्) एवञ्च कृत्वाऽऽपिशलेराचार्यस्य विधिरुपपन्नो भवति--धेनुरनञ्ञि कमुत्पादयति--धेनूनां समूहो धैनुकम्।।
ञ्ञीति किमर्थम्?
अधेनूनां समूहः--आधेनवम्।।
(सिद्धान्तख्यापकं भाष्यवार्तिकम्)
सेनायां नियमार्थं वा
(भाष्यम्) अथवा नियमार्थोऽयमारम्भः--क्षुद्रकमालवशब्दात्सेनायामेव।
क्व मा भूत्?
क्षौद्रकमालवकमन्यदिति।।
(मतान्तरेण सिद्धान्तभाष्यवार्तिकम्)
यथा बाध्येत वाऽञ्ञ् वुञ्ञा।।
(भाष्यम्) अथवा ज्ञापयत्याचार्यः पूर्वोऽपि वुञ्ञ् परमञ्ञं बाधत इति।।
(अनुपपत्तिपरिहारभाष्यम्)
ननु चोक्तं गोत्राद् वुञ्ञ् न च तद्गोत्रमिति।
तदन्तविधिना प्राप्नोति।
ननु चोक्तम्--
तदन्तान्न स सर्वतः इति।
ज्ञापकं स्यात्तदन्तत्वे।
एवं तर्हि ज्ञापयत्याचार्यो भवतीह तदन्तविधिरिति।।
कथं पुनरेतदुभयं शक्यं ज्ञापयितुम्--भवति च तदन्तविधिः, पूर्वश्च वुञ्ञ् परमञ्ञं बाधत इति।
उभयं ज्ञाप्यते।।
(5369 सिद्धार्थकं वार्तिकम्।। 1 ।।)
- अञ्ञ्प्रकरणे क्षुद्रकमालवात्सेनासंज्ञायाम् -
(भाष्यम्) अञ्ञ्प्रकरणे क्षुद्रकमालवात्सेनासंज्ञायामिति वक्तव्यम्। क्षौद्रकमालवी सेना चेत्।
क्व मा भूत्?
क्षौद्रकमालवकमन्यदिति।।
-4-2-49- पाशादिभ्यो यः( 1472)
(यप्रत्ययाधिकरणम्)
(गणपठितशब्देभ्यः समूहार्थे प्रत्ययोपपादकभाष्यम्)
पाशतृणधूमवात्।
(5370 गणे वातशब्दपाठक्षेपे वार्तिकम्।। 1 ।।)
- पृथग्वातादर्शनादसमूहः -
(भाष्यम्) पृथग्वातादर्शनादयुक्तोऽयं वातशब्दस्य सामूहिके पाठः। न हि पृथग्वाता दृश्यन्ते।
न तर्हीदानीमिदं भवति--वात्येति?
भवति।।
(5371 गणे वातशब्दपाठोपपादकं वार्तिकम् ।। 2 ।।)
- शीघ्रत्वे तु -
(भाष्यम्) शीघ्रो वातो वात्या।
अथ वा पृथग्वाता अपि दृश्यन्ते।
तद्यथा--पूर्वो वातः, उत्तरो वातः, सर्वतो वातः, वाता वान्तु दिशो दश।।
-4-2-50- खलगोरथात् (1473)
-4-2-51- इनित्रकट्यचश्च (1474)
(5372 यथासङ्ख्यबोधकं वार्तिकम्।। 1 ।।)
- खलादिभ्य इनिः -
(भाष्यम्) खलादिभ्य इनिर्वक्तव्यः। खलिनी, डाकिनी, कुन्दुमिनी, कुटुम्बिनीति।।
-4-2-52- विषयो देशे (1475)
(अर्थाधिकरणम्)
(5373 एकदेशिवार्तिकम्।। 1 ।।)
- विषयाभिधाने जनपदे लुब् बहुवचनविषयात् -
(भाष्यम्) विषयाभिधाने जनपदे लुब् बहुवचनविषयाद्वक्तव्यः। अङ्गानां विषयो देशः--अङ्गाः, वङ्गाः, सुह्माः, पुण्ड्राः।।
(5374 एकदेशिवार्तिकम् ।। 2 ।।)
- गान्धार्यादिभ्यो वा -
(भाष्यम्) गान्धार्यादिभ्यो वेति वक्तव्यम्। गान्धारः, गान्धारयः। वासातः, वसातयः। शैबः, शिबयः।।
(5275 एकदेशिवार्तिकम्।। 3 ।।)
- राजन्यादिभ्यो वा वुञ्ञ् -
(भाष्यम्) राजन्यादिभ्यो वा वुञ्ञ् वक्तव्यः। राजन्यकः, राजन्याः दैवयातवकः, दैवयातवाः।।
(5376 एकदेशिवार्तिकम् ।। 4 ।।)
- बैल्ववनादिभ्यो नित्यम् -
(भाष्यम्) बैल्ववनादिभ्यो वुञ्ञ् नित्यमिति वक्तव्यम्। बैल्ववनकः, आम्बरीषपुत्रकः, आत्मकामेयकः।
तत्तर्हीदं बहु वक्तव्यम्।।
(5377 सिद्धान्तवार्तिकम्।। 5 ।।)
- न वाऽभिधेयस्य निवासविषयत्वाद्निवासविवक्षायां लुब्विषयविवक्षायां प्रत्ययः -
(भाष्यम्) न वा वक्तव्यम्।
किं कारणम्? अभिधेयस्य निवासविषयत्वात्। यदभिधेयं स निवासश्च विषयश्च। अभिधेयस्य निवासविषयत्वान्निवासविवक्षायां लुप्, विषयविवक्षायां प्रत्ययो भविष्यति।।
इदं तर्हि प्रयोजनम्--एतज्ज्ञास्यामि--इह नित्यो विधिः, इह विभाषेति।
एतदपि नास्ति प्रयोजनम्।
यावता यदभिधेयं स निवासश्च विषयश्च। अभिधेयस्य निवासविषयत्वात्--निवासविवक्षायां लुप्, विषयविवक्षायां प्रत्यय इत्येव।।
-4-2-55- सोऽस्यादिरिति च्छन्दसः प्रगाथेषु (1478)
(अर्थाधिकरणम्)
(5378 सिद्धान्तसाधकवार्तिकम्।। 1 ।।)
- छन्दसः प्रत्ययविधाने नपुंसकात्स्वार्थ उपसंख्यानम् -
(भाष्यम्) छन्दसः प्रत्ययविधाने नपुंसकात्स्वार्थ उपसंख्यानं कर्तव्यम्। त्रिष्टुबेव त्रैष्टुभम्, अनुष्टुबेवानुष्टुभम्, जगत्येव जागतम्।।
-4-2-59- तदधीते तद्वेद (1482)
(अर्थाधिकरणम्)
(अर्थद्वयकथनप्रयोजनभाष्यम्)
किमर्थमिमावुभावप्यर्थौ निर्दिश्येते, न योऽधीते वेत्त्यप्यसौ, यस्तु वेत्त्यधीतेऽप्यसौ।
नैतयोरावश्यकः समावेशः।
भवति हि कश्चित्संपाठं पठति, न च वेत्ति; कश्चिच्च वेत्ति, न च संपाठं पठति।।
-4-2-60- क्रतूक्थादिसूत्रान्ताट्ठक् (1483)
(ठकोऽधिकरणम्)
(सूत्रार्थबोधकभाष्यम्)
उक्थादीत्युच्यते, कानि पुनरुक्थानि?
सामानि। यद्येवं सामगमात्रे औक्थिक इति प्राप्नोति।
नैष दोषः।
तार्दथ्यात्ताच्छब्द्यं भविष्यति। उक्थार्थमुक्थम्।
इह--उक्थान्यधीते--औक्थिकः, यज्ञमधीते--याज्ञिकः।
य इदानीमौक्थिक्यं याज्ञिक्यं चाधीते, कथं तत्र भवितव्यम्?
औक्थिकः, याज्ञिक इत्येव भवितव्यम्।
कथम्?
(5379 एकदेशिवार्तिकम्।। 1 ।।)
- तस्येदम्प्रत्ययाल्लुक् -
(भाष्यम्) तस्येदम्प्रत्ययाल्लुग्वक्तव्यः, तस्येदं प्रत्ययस्य च।।
स तर्हि वक्तव्यः।
न वक्तव्यः।
इहास्माभिस्त्रैशब्द्यं साध्यम्--उक्थान्यधीते, औक्थिक्यमधीते, औक्थिक इति । तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः, अपरस्मादुत्पत्तिर्भविष्यति--अविरविकन्यायेन।
तद्यथा--अवेर्मांसमिति विगृह्याविकशब्दादुत्पत्तिर्भवति आविकमिति। एवमुक्थान्यधीत इति विगृह्य औक्थिक इति भविष्यति, औक्थिक्यमिति विगृह्य वाक्यमेव।।
(इकग्विधायकं भाष्यम्)
विद्यालक्षणकल्पसूत्रा-
न्तादकल्पादेरिकक् स्मृतः।।
विद्या--वायसविद्यिकः, सार्पविद्यिकः। विद्या।
लक्षणः--गौलक्षणिकः, आश्वलक्षणिकः। लक्षण।
कल्पः--पाराशरकल्पिकः। पारकल्पिकः। कल्प।
सूत्रः--वार्तिकसूत्रिकः, सांग्रहसूत्रिकः।।
(पदकृत्यभाष्यम्)
अकल्पादेरिति किमर्थम्?
काल्पसूत्रः।
(इर्कक्संकोचकभाष्यम्)
विद्याचानङ्गक्षत्रधर्मत्रिपूर्वा।
विद्याचानङ्गक्षत्रधर्मत्रिपूर्वेति वक्तव्यम्। आङ्गविद्यः, क्षात्रविद्यः, धार्मविद्यः, त्रैविद्यः।
(ठग्विधायकं भाष्यम्)
आख्यानाख्यायिकेति-
हासपुराणेभ्यश्च ठग्वक्तव्यः।
यावक्रीतिकः, प्रैयङ्गविकः, यायातिकः, आख्यान।।
आख्यायिका--वासवदत्तिकः, सौमनोत्तरिकः।।
ऐतिहासिकः।। पौराणिकः।।
(लुग्विधिभाष्यम्)
सर्वसादेर्द्विगोश्च लः।
सर्वसादेर्द्विगोश्च लो वक्तव्यः। सर्ववेदः, सर्वतन्त्रः। सवार्त्तिकः, ससंग्रहः। पञ्चकल्पः, द्वितन्त्रः, द्विवेदः।।
(संग्रहभाष्यम्)
अनुसूर्लक्ष्यलक्षणे
सर्वसादेर्द्विगोश्च लः।
इकन्पदोत्तरपदात्
शतषष्टेः षिकन्पथः।।
-4-2-62- अनुब्राह्मणादिनिः (1485)
(इनिप्रत्ययाधिकरणम्)
(प्रत्याख्यानभाष्यम्)
अयं योगः शक्योऽवक्तुम्।
कथमनुब्राह्मणी, अनुब्राह्मणिनौ, अनुब्राह्मणिन इति?
इनिनैतन्मत्वर्थीयेन सिद्धम्।।
-4-2-63- वसन्तादिभ्यष्ठक् (486)
(सूत्राक्षेपभाष्यम्)
अयुक्तोऽयं निर्देशः। अधीते--वेदेति वर्तते, न च वसन्तो नामाध्ययनमस्ति।।
(समाधानभाष्यम्)
नैष दोषः।
साहचर्यात्ताच्छब्द्यं भविष्यति। वसन्तसहचरितमध्ययनम्--वसन्तोऽध्ययनमिति।।
-4-2-64- प्रोक्ताल्लुक् (1485)
(लुकोऽधिकरणम्)
(सूत्रस्वरूपसाधकं भाष्यम्)
अयुक्तोऽयं निर्देशः। प्रौक्तादिति भवितव्यम्।
सौत्रो निर्देशः।।
-4-2-65- सूत्राच्च कोपधात् (1486)
(सूत्रपूरकभाष्यम्)
संख्याप्रकृतेरिति वक्तव्यम्। इह मा भूत्--माहावार्तिकः, चान्दनगन्धिकः, कालापकः।।
-4-2-66- छन्दोब्राह्मणानि च तद्विषयाणि (1487)
(छन्दोब्राह्मणानां तद्विषयाधिकरणम्)
(इष्टसिद्धिविषयकजिज्ञासाभाष्यम्)
किमर्थमिदमुच्यते?
(5380 सूत्रविषयप्रदर्शकं वार्तिकम्।। 1 ।।)
- अन्यत्राभिधेयस्यानित्यत्वात् छन्दोब्राह्मणानां तद्विषयवचनम् -
(भाष्यम्) अन्यत्राभिधेयमनित्यं भवति।
पाणिनीयमिति वा भवति, पाणिनीया इति वा।
अन्यत्राभिधेयस्यानित्यत्वाच्छन्दोब्राह्मणानामप्यनित्यता प्राप्नोति। इष्यते च तद्विषयतैव स्यादिति।
तच्चान्तरेण यत्नं न सिध्यतीति च्छन्दोब्राह्मणानां तद्विषयवचनम्।।
(प्रयोजनान्तरावतारकं भाष्यम्)
एवमर्थमिदमुच्यते?
अस्ति प्रयोजनमेतत्।
किं तर्हीति?
(5381 पूर्वोक्तविषयसंग्रहाभावप्रदर्शकं वार्तिकम्।। 2 ।।)
- तत्र यथाधिकारं तद्विषयप्रसङ्गः -
(भाष्यम्) तत्र यथाऽधिकारं तद्विषयता प्राप्नोति।
अधीते--वेदेति वर्तते, तेनाध्येतृवेदित्रोरेव तद्विषयता स्यात्; येऽन्य उपचारास्तत्र न स्यात्।
यथेह भवति--पाणिनीयं महत्सुविहितमिति,
एवमिहापि स्यात्--कठं महत्सुविहितमिति।।
(5382 सिद्धान्तवार्तिकम्।। 3 ।।)
- सिद्धं तु प्रोक्ताधिकारे तद्विषयवचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
प्रोक्ताधिकार एव तद्विषयता वक्तव्या। तेन प्रोक्तम् (4।3।101) छन्दोब्राह्मणान्यध्येतृवेदित्रोः इति।।
तत्तर्ह्यध्येतृवेदितृग्रहणं कर्तव्यम्।
ननु चेहापि क्रियते।
परार्थमेतद्भवति--तदधीते--तद्वेदेति।
एवं तर्हि--यावदिह--च्छन्दोब्राह्मणग्रहणम्, तावत्तत्राध्येतृवेदितृग्रहणम्।
ननु च तत्रापि क्रियते।
परार्थं तद्भविष्यति--पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (4।3।105) शौनकादिभ्यश्छन्दसि (106) इति।
इह वा छन्दोब्राह्मणग्रहणं क्रियते, तत्र वाऽध्येतृवेदितृग्रहणम्, कोन्वत्र विशेषः।।
(5383 अनिष्टनिरासे वार्तिकम्।। 4 ।।)
- याज्ञवल्क्यादिभ्यः प्रतिषेधः -
(भाष्यम्) याज्ञवल्क्यादिभ्यः प्रतिषेधो वक्तव्यः। याज्ञवल्कानि ब्राह्मणानि, सौलभानि।
किं प्रोक्ताधिकारे तद्विषयता क्रियत इत्यतो याज्ञवल्क्यादिभ्यः प्रतिषेधो वक्तव्यः?
नेत्याह।
सर्वथा याज्ञवल्क्यादिभ्यः प्रतिषेधो वक्तव्यः।।
(5384 पूर्ववार्तिकप्रत्याख्याने वार्तिकम्।। 5 ।।)
- इनिर्वा प्रोक्ते तद्विषयः -
(भाष्यम्) अथवा इनिः प्रोक्ते तद्विषयो भवतीति वक्तव्यम्।।
(वार्तिकाक्षेपभाष्यम्)
यदि--इनिः प्रोक्ते तद्विषयो भवतीत्युच्यते, एवमपि पैङ्गी कल्पः, अत्रापि प्राप्नोति।।
(5385 समाधानवार्तिकम्।। 6 ।।)
- काश्यपकौशिकग्रहणं च कल्पे नियमार्थम् -
(भाष्यम्) काश्यपकौशिकग्रहणं कल्पे नियमार्थं द्रष्टव्यम्।
काश्यपकौशिकाभ्यामेवेनिः कल्पे तद्विषयो भवति, नान्येभ्य इति।।
(आक्षेपभाष्यम्)
एवमपि छणादीनां तद्विषयता न प्राप्नोति--तैत्तिरीयाः, वारतन्तवीयाः।।
(समाधानभाष्यम्)
यदि पुनश्छणादयः प्रोक्ते तद्विषया भवन्तीत्युच्येत।।
(प्रत्याक्षेपभाष्यम्)
एवमपि पैङ्गीकल्पः, अत्रापि प्राप्नोति।।
(प्रत्याक्षेपे समाधानभाष्यम्)
काश्यपकौशिकग्रहणं च कल्पे नियमार्थमित्येव।।
(पुनः प्रत्याक्षेपभाष्यम्)
एवमप्यौत्सर्गिकाणां तद्विषयता न प्राप्नोति--क्रौडाः, काङ्कताः, मौदाः, पैप्पलादाः।।
(दोषान्तरदर्शनेन प्रत्याक्षेपनिरासभाष्यम्)
छणादयश्चाप्यौत्सर्गिकानध्येतृवेदित्रोरेव बाधेरन्, येऽन्ये उपचारास्तत्र न बाधेरन्--तित्तिरिणा प्रोक्ताः श्लोका इति।।
(वार्तिकान्यथासिद्धिकरणेनोपसंहारभाष्यम्)
अस्तु तर्ह्यविशेषेण।
ननु चोक्तं याज्ञवल्क्यादिभ्यः प्रतिषेध इति।
वक्ष्यत्येतत्--याज्ञवल्क्यादिभ्यः प्रतिषेधस्तुल्यकालत्वादिति, तत्रैव वक्तव्यम्--तद्विषयता च न भवतीति।।
कथं काश्यपिनः, कौशिकिन इति?
इनिः प्रोक्ते तद्विषयौ भवतीत्युच्यमाने--अवश्यमत्र काश्यपकौशिकग्रहणं कल्पे नियमार्थं द्रष्टव्यम्।
तदेवेदानीं विध्यर्थं भविष्यति।।
कथं पाराशरिणो भिक्षवः, शैलालिनो नटाः?
अत्रापि तद्विषयता चेत्यनुवर्तिष्यते।।
-4-2-67- तदस्मिन्नस्तीति देशे तन्नाम्नि (1488)
-4-2-68- तेन निर्वृत्तम् (9489)
-4-2-69- तस्य निवासः (1490)
-4-2-70- अदूरभवश्च (1491)
(चातुरर्थिकाधिकरणम्)
(एकानेकवाक्यतोपक्षेपे भाष्यम्)
किं पुनरयमेको योग आहोस्विन्नाना योगाः।
किं चातः?
(एकवाक्यतायां दोषदर्शकं भाष्यम्)
यद्येको योगः,
उत्तरेष्वर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इत्यनुवृत्तिः कर्तव्या, न ह्येकयोगेऽनुवृत्तिर्भवति।
कथं ज्ञायते?
यदयं तदधीते तद्वेद (4।2।59) इति द्विस्तद्ग्रहणं करोति।।
(भिन्नवाक्यतायां दोषदर्शकं भाष्यम्)
अथ नाना योगाः,
ओरञ्ञ् (4।2।71) इत्येवमाद्यनुक्रमणं यदेव सर्वान्त्यमर्थादेशनं तस्यैव विषये स्यात्।
यथेच्छसि तथास्तु।।
(एकवाक्यतायां दोषाभावबोधकं भाष्यम्)
अस्तु तावदेको योगः।
ननु चोक्तमुत्तरेष्वर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इत्यस्यानुवृत्तिः कर्तव्या, न ह्येकयोगेऽनुवृत्तिर्भवतीति।
एकयोगेऽप्यनुवृत्तिर्भवति।
कथं ज्ञायते?
यदयं तदस्यास्त्यस्मिन्निति मतुप् (5।2।94) इति द्विस्तद्ग्रहणं न करोति।।
कथं तदधीते तद्वेद इति?
प्रमादकृतमाचार्यस्य, शक्यमकर्तुम्।
(भिन्नवाक्यतायां दोषाभावबोधकं भाष्यम्)
अथ वा सन्तु पुनर्नाना योगाः।
ननु चोक्तम्--ओरञ्ञित्येवमाद्यनुक्रमणं यदेव सर्वान्त्यमर्थादेशनं तस्यैव विषये स्यादिति।
नैष दोषः।
गोयूथवदधिकाराः।
तद्यथा--गोयूथमेकदण्डप्रघटि्टतं सर्वं समं घोषं गच्छति, तद्वदधिकाराः।।
-4-2-71- ओरञ्ञ् (1492)
(अञ्ञोऽधिकरणम्)
(5386 विप्रतिषेधवार्तिकम्।। 1 .।)
- ओरञ्ञ्विधेर्नद्यां मतुब्विप्रतिषिद्धम् -
(भाष्यम्) ओरञ्ञ्विधेर्नद्यां मतुब्भवति विप्रतिषेधेन।
ओरञ्ञ्विधेरवकाशः--कक्षतु--काक्षतवम्, काकपेलवम्।
मतुपोऽवकाशः--उदुम्बरावती, मशकावती।
इहोभयं प्राप्नोति--इक्षुमती, द्रुमती।
मतुब्भवति विप्रतिषेधेन।।
-4-2-72- मतोश्च बह्वजङ्गात् (1493)
(पदकृत्यभाष्यम्)
अङ्गग्रहणं किमर्थम्?
यथा बह्वज्ग्रहणमङ्गविशेषणं विज्ञायेत। बह्वचोङ्गादिति।।
(अङ्गग्रहणस्य फलबोधकं भाष्यम्)
अथाक्रियमाणेऽङ्गग्रहणे बह्वज्ग्रहणं कस्य विशेषणं स्यात्?
मत्वन्तविशेषणम्।
तत्र को दोषः?
इहापि प्रसज्येत--मालावतामयं निवासो मालावतम्।
अस्ति चेदानीं कश्चिदबह्वज्मत्वन्तो यदर्थो विधिः स्यात्।
अस्तीत्याह--श्ववान्, स्ववान्।।
-4-2-85- नद्यां मतुप् (1506)
(मतुबधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं नद्यां मतुब्विधीयते, न तदस्यास्त्यस्मिन्निति मतुप् (5।2।94) इत्येव सिद्धम्।।
(5387 समाधाने वार्तिकम्।। 1 ।।)
- नद्यां मतुब्वचनं मत्वर्थेऽण्विधानात् -
(भाष्यम्) नद्यां मतुब्वचनं क्रियते मत्वर्थेऽण्विधानात्।
अयं मत्वर्थेऽण्विधीयते, स विशेषविहितः सामान्यविहितं मतुपं बाधेत।।
(5388 समाधानान्तरबोधकं वार्तिकम्।। 2 ।।)
- निर्वृत्ताद्यर्थं च -
(भाष्यम्) निर्वृत्ताद्यर्थं च नद्यां मतुब्वचनं क्रियते।
निर्वृत्ताद्यर्थेषु मतुब्यथा स्यात्।।
-4-2-87- कुमुदनडवेतसेभ्यो ड्मतुप् (1508)
(विधायकं भाष्यम्)
महिषाच्चेति वक्तव्यम्। महिष्मान्।।
-4-2-91- नडादीनां कुक्च (1412)
(छाधिकरणम्)
(कुगाक्षेपभाष्यम्)
यदि पुनरयं कुट् परादिः क्रियेत।।
(5389 कुडागमे दोषवार्तिकम्।। 1 ।।)
- कुटि प्रत्ययादेरादेशानुपपत्तिरनादित्वात् -
(भाष्यम्) कुटि सति प्रत्ययादेरित्यादेशस्यानुपपत्तिः।
कुटि कृते अनादित्वादादेशो न प्राप्नोति।।
एवं तर्हि पूर्वान्तः करिष्यते।।
(5390 कुगागमे दोषवार्तिकम्।। 2 ।।)
- पूर्वान्ते ह्रस्वत्वम् -
(भाष्यम्) यदि पूर्वान्तः, ह्रस्वत्वं वक्तव्यम्--क्रुञ्चकीयाः।
परादौ पुनः सति केऽणः (7।4।13) इति ह्रस्वत्वं सिद्धं भवति।
अस्तु तर्हि परादिः। ननु चोक्तं कुटि कृतेऽनादित्वादादेशो न प्राप्नोतीति।।
(5391 कुडागमे दोषाभाववार्तिकम्।। 3 ।।)
- सिद्धं त्वादिष्टस्य कुड्वचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
आदिष्टस्य कुड्वचनात्, कुट्चादिष्टस्येति वक्तव्यम्।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्।।
(5392 आदिष्टस्येति न्यासाभावेऽपि दोषाभावबोधकं वार्तिकम्।। 4 ।।)
- संनियोगात्सिद्धम् -
(भाष्यम्) संनियोगः करिष्यते।
क एष यत्नश्चोद्यते--संनियोगो नाम?
चकारः कर्तव्यः, कुट्च।
किं च ?
यच्चान्यत्प्राप्नोति।
किं चान्यत् प्राप्नोति?
आदेशः।
सिध्यति।
सूत्रं तर्हि भिद्यते।।
(सिद्धान्तभाष्यम्)
यथान्यासमेवास्तु।
ननु योक्तं पूर्वान्ते ह्रस्वत्वमिति।
निपातनादेतत्सिद्धम्।
किं निपातनम्?
क्रुञ्ञ्चा ह्रस्वत्वं चेति।
तत्तर्हि पूर्वान्ते सति निपातनं कर्तव्यम्।
परादावप्येष दोषः--यद्धि तत्केऽण इति ह्रस्वत्वम्, न तत्कादिमात्रे शक्यं विज्ञातुम्।
इहापि प्रसज्येत--नदीकल्पः परीवाहः, कुमारीकाम्यतीति।
तस्मादुभाभ्यामेतद्वक्तव्यम्--क्रुञ्ञ्चा ह्रस्वत्वञ्ञ्चेति।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य द्वितीये पादे प्रथममाह्निकम्।।
-4-2-92-शेषे (1513)
(शेषार्थाधिकरणम्)
(शेषार्थविवक्षाभाष्यम्)
शेष इत्युच्यते, कः शेषो नाम?
अपत्यादिभ्यश्चातुरर्थपर्यन्तेभ्यो येऽन्येऽर्थाः स शेषः।।
(शेषपदाक्षेपभाष्यम्)
किमर्थं पुनः शेषग्रहणं क्रियते?
शेषे घादयो यथा स्युः स्वार्थे मा भूवन्निति।
नैतदस्ति प्रयोजनम्।
इदं तावदयं प्रष्टव्यः--अणादयः स्वार्थे कस्मान्न भवन्तीति?
अपत्यादिष्वर्थेष्वणादयो विधीयन्ते, तेन स्वार्थे न भविष्यन्ति।
इमेऽपि तर्हि जातादिष्वर्थेषु विधीयन्ते, तेन स्वार्थे न भविष्यन्ति।।
(प्रत्याक्षेपभाष्यम्)
कथं पुनरिहोच्यमाना घादयो जातादिषु शक्या विज्ञातुम्?
(प्रत्याक्षेपसमाधानभाष्यम्)
अनुवर्तिष्यन्ते तत्र घादयः।
यद्यनुवर्तन्ते घादयः, या या परा प्रकृतिस्तस्यास्तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति।
एवं तर्हि जातादिष्वर्थेषु घादीनपेक्षिष्यामहे।
अयुक्तैवं बहुनोऽपेक्षा। अपेक्षमाणोऽयमनन्तरं योगमपेक्षेत।
बहुनोऽप्यपेक्षा भवति।
तद्यथा--कषादिषु यथाविध्यनुप्रयोगः (3।4।46) इति ससामान्यकं सविशेषकं सर्वमपेक्ष्यते।
अथ वा पुनरस्त्वनुवृत्तिः।
ननु चोक्तं या या परा प्रकृतिस्तस्यास्तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्तीति।
नैष दोषः।
संबन्धमनुवर्तिष्यते। राष्ट्रावारपाराद्धखौ(4।2।93)। ग्रामाद्यखञ्ञौ (94)
राष्ट्रावारपाराद्धखौ। कत्र्यादिभ्यो ढकञ्ञ्(95)
राष्ट्रावारपाराद्धखौ ग्रामाद्यखञ्ञाविति।
(शेषपदाक्षेपसमाधानभाष्यम्)
अत उत्तरं पठति।
(5393 शेषपदाक्षेपसमाधाने वार्तिकम्।। 1 ।।)
- शेषवचनं घादीनामपत्यादिष्वप्रसङ्गार्थम् -
(भाष्यम्) शेषवचनं क्रियते शेषे घादयो यथा स्युः, अपत्यादिषु मा भूवन्निति।
कथं च प्राप्नुवन्ति?
(5394 समाधानसमर्थकं वार्तिकम्।। 2 ।।)
- तस्येदंवचनात्प्रसङ्गः -
(भाष्यम्) तस्येदंविशेषा ह्येते--अपत्यम्, समूहः, निवासः, विकार इति।।
(5395 समाधानाक्षेपवार्तिकम्।। 3 ।।)
- विप्रतिषेधात्सिद्धम् -
(भाष्यम्) अणादयः क्रियन्तां घादय इति, किमत्र कर्तव्यम्?
अणादयो भवन्ति विप्रतिषेधेन।।
(5396 आक्षेपनिरासवार्तिकम्।। 4 ।।)
- न वा परत्वाद्धादीनाम् -
(भाष्यम्) न वा एष युक्तो विप्रतिषेधः।
किं कारणम्?
परत्वाद् घादीनाम्। विप्रतिषेधे परमित्युच्यते, पूर्वे चाणादयः परे घादयः।।
परेऽणादयः करिष्यन्ते।
सूत्रविपर्यासश्चैवं कृतो भवति।।
(5397 शेषपदप्रयोजने वार्तिकम्।। 5 ।।)
- अणपवादत्वाच्चाण्विषये घादिप्रसङ्गः -
(भाष्यम्) अणपवादत्वाच्च घादीनामण्विषये घादयः प्राप्नुवन्ति।।
(सूत्रप्रत्याख्यानभाष्यम्)
नैष दोषः।
आचार्यप्रवृत्तिर्ज्ञापयति--नाण्विषये घादयो भवन्तीति, यदयं फेश्छ च (4।1।149) इति फिञ्ञन्ताच्छं शास्ति।
नैतदस्ति ज्ञापकम्।
फिनर्थमेतत् स्यात्।
सौवीरगोत्रेष्विति वर्तते, न च फिनन्तं सौवीरगोत्रमस्ति।।
गोत्रग्रहणं सामूहिकेषु ज्ञापकम्, दैवयातवग्रहणं वैषयिकेषु, भास्त्रायणग्रहणं नैवासिकेषु।।
-4-2-93- राष्ट्रावारपाराद्धखौ (1514)
(घखाधिकरणम्)
(5398 सिद्धान्तवार्तिकम्।। 1 ।।)
- अवारपाराद्विगृहीतादपि -
(भाष्यम्) अवारपाराद्विगृहीतादपीति वक्तव्यम्। अवारीणः, पारीणः, अवारपारीणः।।
(5399 सिद्धान्तवार्तिकम्।। 2 ।।)
- विपरीताच्च -
(भाष्यम्) विपरीताच्चेति वक्तव्यम्। पारावारीणः।।
-4-2-93- राष्ट्रावारपाराद्धखौ (1514)
(घखाधिकरणम्)
(5398 सिद्धान्तवार्तिकम्।। 1 ।।)
- अवारपाराद्विगृहीतादपि -
(भाष्यम्) अवारपाराद्विगृहीतादपीति वक्तव्यम्। अवारीणः, पारीणः, अवारपारीणः।।
(5399 सिद्धान्तवार्तिकम्।। 2 ।।)
- विपरीताच्च -
(भाष्यम्) विपरीताच्चेति वक्तव्यम्। पारावारीणः।।
-4-2-95- कत्र्र्यादिभ्यो ढकञ्ञ् (1516)
(ढकञ्ञ्प्रत्ययाधिकरणम्)
(ग्रामपदविषयकशङ्कासमाधानभाष्यम्)
ग्रामाच्चेति वक्तव्यम्। ग्रामेयकः।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्। कत्र्र्यादीभ्यो ढकञ्ञित्यत्र ग्रामादित्येतदनुवर्तिष्यते।।
-4-2-96- कुलकुक्षिग्रीवाभ्यः श्वाऽस्यलङ्कारेषु (1417)
(सूत्रप्रत्याख्याने भाष्यम्)
अयं योगः शक्योऽवक्तुम्।
कथं कौलेयकः?
कुलस्यापत्यम्।
कुक्षिग्रीवात्तु कन् ढञ्ञः।
कुलस्यापत्यं कौलेयक इति भविष्यति।
कुक्षिग्रीवादपि ढञ्ञन्तात्कन्भविष्यति।।
-4-2-99- कापिश्याः ष्फक् (1520)
(ष्फक्प्रत्ययाधिकरणम्)
बाह्ल्युर्दिपर्दिभ्यश्चेति वक्तव्यम् । बाह्लायनी, और्दायनी, पार्दायनी।
-4-2-100- रङ्कोरमनुष्येऽण्च (1521)
(अमनुष्यग्रहणाक्षेपभाष्यम्)
अमनुष्य इति किमर्थम्?
राङ्कवकः मनुष्यः।।
(5400 प्रत्याख्यानवार्तिकम्।। 1 ।।)
- रङ्कोरमनुष्यग्रहणानर्थक्यं मनुष्यतत्स्थयोर्वुञ्ञ्विधानात् -
(भाष्यम्) रङ्कोरमनुष्यग्रहणमनर्थकम्।
किं कारणम्?
मनुष्यतत्स्थयोर्वुञ्ञ्विधानात्। अयं मनुष्ये मनुष्यस्थे च वुञ्ञ्विधीयते स बाधको भविष्यति।।
(एकदेशिभाष्यम्)
एवं तर्हि ज्ञापयत्याचार्यः--अमनुष्ये मनुष्यस्थे ष्फगणौ भवत इति।।
(5401 प्रत्याख्यानसमर्थकं वार्तिकम्।। 2 ।।)
- अमनुष्ये मनुष्यस्थे ष्फगणोर्ज्ञापकमिति चेन्नानिष्टत्वात् -
(भाष्यम्) अमनुष्ये मनुष्यस्थे ष्फगणोर्ज्ञापकमिति चेत्तन्न।
किं कारणम्?
अनिष्टत्वात्। न ह्यमनुष्ये मनुष्यस्थे ष्फगणाविष्येते।
किं तर्हि?
वुञ्ञेवेष्यते।।
(5402 अण्ग्रहणप्रत्याख्यानवार्तिकम्।। 3 ।।)
- अण्ग्रहणं च कच्छादिभ्योऽण्वचनात् -
(भाष्यम्) अण्ग्रहणं चानर्थकम्।
किं कारणम्?
कच्छादिभ्योऽण्वचनात्। कच्छादिपाठादत्राण्भविष्यति।।
-4-2-104- अव्ययात्त्यप् (1525)
(त्यप्प्रत्ययाधिकरणम्)
(अव्ययपरिगणनभाष्यम्)
परिगणनं कर्तव्यम्।
अमेह क्वतसित्रेभ्यस्त्य-
ब्विधिर्योऽव्ययात्स्मृतः।।
अमा--अमात्यः। अमा।
इह--इहत्यः। इह।
क्व--क्वत्यः। क्व।
तसि--ततस्त्यः, यतस्त्यः। तसि।
 त्र। तत्रत्यः, यत्रत्यः।
इतरथा ह्यौत्तराहौपरिष्टपारतानां प्रतिषेधो वक्तव्यः स्यात्। औत्तराहः, औपरिष्टः, पारतः।।
त्यब्नेर्ध्रुवे। त्यब्नेर्ध्रुवे वक्तव्यः। नित्यः।।
निसो गते। त्यब्वक्तव्य इति। निष्ट्यः।।
अरण्याण्णः। अरण्याण्णो वक्तव्यः। आरण्याः सुमनसः।।
दूरादेत्यः। दूरादेत्यो वक्तव्यः। दूरेत्यः।।
उत्तरादाहञ्ञ्। उत्तरादाहञ्ञ् वक्तव्यः। औत्तराहः।।
(5403 संग्रहवार्तिकम्।। 1 ।।)
- अव्ययात्त्यप्याविष्ट्यस्योपसंख्यानं छन्दसि -
(भाष्यम्) अव्ययात्त्यबित्यत्राविष्ट्यस्य छन्दस्युपसंख्यानं कर्तव्यम्। आविष्ट्यो वर्द्धते चारुरासु।।
(5404 विप्रतिषेधेन छविधिबोधकवार्तिकम्।। 2 ।।)
- अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेर्वृद्धाच्छो विप्रतिषेधेन -
(भाष्यम्) अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोपधिविधेर्वृद्धाच्छो भवति विप्रतिषेधेन।
अव्ययात्त्यब्भवतीत्यस्यावकाशः--अमात्यः।
वृद्धाच्छस्यावकाशः--शालीयः, मालीयः।
आरादुभयं प्राप्नोति, आरातीयः।
तीरोत्तरपदादञ्ञ् भवतीत्यस्यावकाशः--कखतीर--काखतीरी।
छस्य स एव।
वायसतीरादुभयं प्राप्नोति, वायसतीरीयः।।
रूप्योत्तरपदाञ्ञ्ञ्ञो भवतीत्यस्यावकाशः--चणाररूप्य--चाणाररूप्या।
छस्य स एव।
माणिरूप्यादुभयं प्राप्नोति। तं चापि छं परत्वाद्योपधलक्षणो वुञ्ञ्बाधते। माणिरूप्यकः।।
उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तादञ्ञ्भवतीत्यस्यावकाशः--शिवपुर--शैवपुरः।
छस्य स एव।
वाडवकर्षादुभयं प्राप्नोति, वाडवकर्षीयः।
कोपधादण् भवतीत्यस्यावकाशः--निलीनक--नैलीनकः।
छस्य स एव।
औलूकादुभयं प्राप्नोति, औलूकीयः।।
(5405 ठञ्ञ्ञ्ञिठोर्विप्रतिषेधबोधकवार्तिकम् ।। 3 ।।)
- तेभ्यष्ठञ्ञ्ञ्ञिठौ -
(भाष्यम्) तेभ्यस्त्यबादिभ्यष्ठञ्ञ्ञ्ञिठौ भवतो विप्रतिषेधेन।
अव्ययात्त्यब्भवतीत्यस्यावकाशः--अमात्यः।
ठञ्ञ्ञ्ञिठयोरवकाशः--कारतन्तविकी, कारतन्तविका।
आरान्नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति--आरात्की, आरात्का।।
तीरोत्तरपदादञ्ञ्भवतीत्यस्यावकाशः--करवतीर कारवतीरी।
ठञ्ञ्ञ्ञिठयोः स एव।
कास्तीरो नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोतिकास्तीरिकी, कास्तीरिका।।
रूप्योत्तरपदाञ्ञ्ञ्ञो भवतीत्यस्यावकाशः--चणाररूप्य--चाणाररूप्या।
ठञ्ञ्ञ्ञिठयोः स एव।
दासरूप्यं नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति। तौ चापि ठञ्ञ्ञ्ञिठौ परत्वाद्योपधलक्षणो वुञ्ञ् बाधते। दासरूप्यकः।।
उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तादञ्ञ्भवतीत्यस्यावकाशः--शिवपुर--शैवपुरः।
ठञ्ञ्ञ्ञिठयोः स एव।
शाकलं नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति। शाकलिकी, शाकलिका।
कोपधादण्भवतीत्यस्यावकाशः--निलीनक--नैलीनकः।
ठञ्ञ्ञ्ञिठयोः स एव।
सौसुकं नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति। तौ चापि ठञ्ञ्ञ्ञिठौ परत्वात्कोपधलक्षणश्छो बाधते। सौसुकीयः।।
(5406 विप्रतिषेधवैफल्यबोधकवार्तिकम् ।। 4 ।।)
- न वा ठञ्ञादीनां छापवादत्वात्तद्विषये चाभावादितरेषाम् -
(भाष्यम्) न वाऽर्थो विप्रतिषेधेन।
किं कारणम्?
ठञ्ञादीनां छापवादत्वात्। ठञ्ञादयश्छापवादाः, तद्विषये चाभावादितरेषाम्। तद्विषये--छविषये त्यबादीनामभावः।।
(5407 विप्रतिषेधवैफल्यबोधकवार्तिकम्।। 5 ।।)
- कोपधादणः पुनर्वचनमन्यनिवृत्त्यर्थम् -
(भाष्यम्) अयं चाप्ययुक्तो विप्रतिषेधः--योऽयं कोपधादणः, छस्य च।।
किं कारणम्?
कोपधादणः पुनर्वचनमन्यनिवृत्त्यर्थम्। सिद्धोऽत्राण् उत्सर्गेणैव, तस्य पुनर्वचन एतत्प्रयोजनं योऽन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम्। स यथैव तदपवादमञ्ञं बाधते, एवं छमपि बाधेत।।
(5408 विप्रतिषेधाभावसमर्थकं वार्तिकम्।। 6 ।।)
- तस्मादन्तोदात्ते कोपधप्रतिषेधः -
(भाष्यम्) तस्मादन्तोदात्ते कोपधादञ्ञः प्रतिषेधो वक्तव्यः।।
(विप्रतिषेधसमर्थकं भाष्यम्)
न वक्तव्यः।
मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इत्येवं कोपधादण अञ्ञं बाधिष्यते, छं न बाधिष्यते।।
(5409 विप्रतिषेधबोधकवार्तिकम्।। 7 ।।)
- छादोर्देशे कालाट्ठञ्ञ् -
(भाष्यम्) छात् ओर्देशे ठञ्ञ् (4।2।119) कालाट्ठञ्ञ् (4।3।11) इत्येतद्भवति विप्रतिषेधेन।
छस्यावकाशः--शालीयः, मालीयः।
ओर्देशे ठञ्ञ्भवतीत्यस्यावकाशः--निषाहकर्षूर्नामदेशः--नैषाड्कर्षुकः।
इहोभयं प्राप्नोति--दाक्षिकर्षुकः।।
कालाट्ठञ्ञ्भवतीत्यस्यावकाशः--आर्द्धमासिकम्, सांवत्सरिकम्।
छस्य स एव।
मासादुभयं प्राप्नोति, मासिकम्।।
(5410 विप्रतिषेधबोधकवार्तिकम्।। 8 ।।)
- नक्षत्रादण् -
(भाष्यम्) नत्रक्षादण् छाद्भवति विप्रतिषेधेन।
अणोऽवकाशः--तैषः, पौषः।
छस्य स एव।
स्वातेरुभयं प्राप्नोति, सौवातः।।
(5411 विप्रतिषेधबोधकवार्तिकम्।। 9 ।।)
- अव्ययाट्ट्युट्युलौ -
(भाष्यम्) अव्ययाट्ट्युट्युलौ छाद्भवतो विप्रतिषेधेन।
ट्युट्युलोरवकाशः--दोषातनम्, दिवातनम्।
छस्य स एव।
प्रातःशब्दादुभयं प्राप्नोति, प्रातस्तनम्।।
(5412 विप्रतिषेधबोधकवार्तिकम्।। 10 ।।)
- शरीरावयवाद्यत् -
(भाष्यम्) शरीरावयवाद्यच्छाद्भवति विप्रतिषेधेन।
यतोऽवकाशः--दन्त्यम्, ओष्ठ्यम्।
छस्य स एव।
पादशब्दादुभयं प्राप्नोति, पद्यम्।।
(5513 विप्रतिषेधबोधकवार्तिकम्।। 11 ।।)
- वर्गान्ताच्चाशब्दे यत्खौ -
(भाष्यम्) वर्गान्ताच्चाशब्दे यत्खौ छाद्भवतो विप्रतिषेधेन।
यत्खयोरवकाशः--अक्रूरर्वग्यः, अक्रूरवर्गीणः।
छस्य स एव।
वासुदेववर्गादुभयं प्राप्नोति, वासुदेवर्वग्यः, वासुदेववर्गीणः।।
(5414 विप्रतिषेधबोधकवार्तिकम्।। 12 ।।)
- बह्वचोऽन्तोदात्ताट्ठञ्ञ् -
(भाष्यम्) बह्वचोऽन्तोदात्ताट्ठञ्ञ् (4।3।67) छाद्भवति विप्रतिषेधेन। ठञ्ञोऽवकाशः--नतानत--नातानतिकः।
छस्य स एव।
सामस्तशब्दादुभयं प्राप्नोति, सामस्तिकः।।
(5415 विप्रतिषेधबोधकवार्तिकम्।। 13 ।।)
- आयस्थानेभ्यष्ठक् -
(भाष्यम्) आयस्थानेभ्यष्ठक् छाद्भवति विप्रतिषेधेन।
ठकोऽवकाशः--शौल्किकम्, गौल्मिकम्।
छस्य स एव।
आपणादुभयं प्राप्नोति, आपणिकम्।।
(5416 विप्रतिषेधबोधकवार्तिकम्।। 14 ।।)
- विद्यायोनिसंबन्धेभ्यो वुञ्ञ् -
(भाष्यम्) विद्यायोनिसम्बन्धेभ्यो वुञ्ञ्(4।3।77) छाद्भवति विप्रतिषेधेन।
वुञ्ञोऽवकाशः--औपाध्यायकम्, पैतामहकम्।
छस्य स एव।
इहोभयं प्राप्नोति, आचार्यकम्, मातुलकम्।।
(5417 विप्रतिषेधोपपादकवार्तिकम्।। 15 ।।)
- ऋतष्ठञ्ञ् -
(भाष्यम्) ऋतष्ठञ्ञ् (4।3।78) छाद्भवति विप्रतिषेधेन।
ठञ्ञोऽवकाशः--हौतृकम्, स्वासृकम्।
छस्य स एव।
इहोभयं प्राप्नोति, शास्तृकम्, भ्रातृकम्।।
(5418 विप्रतिषेधवार्तिकम्।। 16 ।।)
- रूप्यमयटौ -
(भाष्यम्) रूप्यमयटौ छाद्भवति विप्रतिषेधेन।
रूप्यमयटोरवकाशः--देवदत्तरूप्यम्, देवदत्तमयम्।
छस्य स एव।
वायुदत्तादुभयं प्राप्नोति, वायुदत्तरूप्यम्, वायुदत्तमयम्।।
(5419 विप्रतिषेधवार्तिकम्।। 17 ।।)
- अचित्ताट्ठक् -
(भाष्यम्) अचित्ताट्ठक् छाद्भवति विप्रतिषेधेन।
ठकोऽवकाशः--आपूपिकः, शाष्कुलिकः, मौदकिकः।
छस्य स एव।
पायसादुभयं प्राप्नोति, पायसिकः।।
(5420 विप्रतिषेधवार्तिकम्।। 18 ।।)
- गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्ञ् -
(भाष्यम्) गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्ञ् (4।3।99) छाद् भवति विप्रतिषेधेन।
वुञ्ञोऽवकाशः--ग्लौचुकायनकः, त्रैगर्तकः।
छस्य स एव।
इहोभयं प्राप्नोति, गार्गकः, वात्सकः, मालवकः।।
(5421 विप्रतिषेधवार्तिकम्।। 19 ।।)
- णिनिरन्तेवासिब्राह्मणेभ्यः -
(भाष्यम्) णिनिरन्तेवासिब्राह्मणेभ्यश्छाद्भवति विप्रतिषेधेन।
णिनेरवकाशः--हारिद्रविणः, तौम्बुरविणः, भाल्लविनः।
छस्य स एव।
इहोभयं प्राप्नोति, आरुणिनः, शाट्यायनिनः।।
(5422 विप्रतिषेधवार्तिकम्।। 20 ।।)
- पत्रपूर्वादञ्ञ् -
(भाष्यम्) पत्रपूर्वादञ्ञ् (4।3।122) छाद्भवति विप्रतिषेधेन।
अञ्ञोऽवकाशः--उष्ट्र-औष्ट्रम्, औष्ट्ररथम्।
छस्य स एव।
इहोभयं प्राप्नोति, वामी--वामम्, वामीरथम्।।
(5423 विप्रतिषेधवार्तिकम्।। 21 ।।)
- द्वन्द्वाद् वुन् वैरमैथुनिकयोः -
(भाष्यम्) द्वन्द्वाद्वुन्वैरमैथुनिकयोः (4।3।125) छाद्भवति विप्रतिषेधेन।
वुनोऽवकाशः--अहिनकुलिका।
छस्य स एव।
इहोभयं प्राप्नोति, काकोलूकिका, श्वावराहिका।।
(5424 विप्रतिषेधवार्तिकम्।। 22 ।।)
- गोत्रचरणाद् वुञ्ञ् -
(भाष्यम्) गोत्रचरणाद्वुञ्ञ् (4।3।126) छाद्भवति विप्रतिषेधेन।
वुञ्ञोऽवकाशः--ग्लौचुकायनकम्, म्लौचुकायनकम्। काठकम्, कालापकम्।
छस्य स एव।
इहोभयं प्राप्नोति, गार्गकम्, वात्सकम्। मौदकम्, पैप्पलादकम्।।
(5425 विप्रतिषेधवार्तिकम्।। 23 ।।)
- कण्वादीञ्ञोऽण्विधेः -
(भाष्यम्) कण्वादिभ्योऽण् भवति इञ्ञोऽण् भवति इत्येतस्माद् वुञ्ञ् भवति विप्रतिषेधेन। कण्वादिभ्योऽण् भवति इञ्ञोऽण् भवतीत्यस्यावकाशः--काण्वाः--दण्डमाणवाः, दाक्षाः--दण्डमाणवाः।
वुञ्ञः स एव।
इहोभयं प्राप्नोति, काण्वकम्, दाक्षकम्।।
(5426 विप्रतिषेधवार्तिकम्।। 24 ।।)
- ठञ्ञ्ञ्ञिठाभ्यामोर्दशे ठञ्ञ् -
(भाष्यम्) ठञ्ञ्ञ्ञिठाभ्याम् ओर्देशे ठञ्ञ् (4।2।119) इत्येतद्भवति विप्रतिषेधेन।
ठञ्ञ्ञ्ञिठयोरवकाशः--कारतन्तविकी, कारतन्तविका।
ओर्देशे ठञ्ञ् भवतीत्यस्यावकाशः--निषादकर्षूः--नैषादकर्षुकः।
इहोभयं प्राप्नोति, नापितवास्तुकः। ठञ्ञ् भवति विप्रतिषेधेन।।
(5427 विप्रतिषेधाभावोपपादकं वार्तिकम्।। 25 ।।)
- न वा ठञ्ञोऽनवकाशत्वात् -
(भाष्यम्) न वाऽर्थो विप्रतिषेधेन।
किं कारणम्?
ठञ्ञोऽनवकाशत्वात्। अनवकाशष्ठञ्ञ् ठञ्ञ्ञ्ञिठौ बाधिष्यते।
ननु चेदानीमवकाशः प्रक्लृप्तः--यद्वृद्धमनुवर्णान्तं वाहीकग्रामः स ठञ्ञ्ञ्ञिठयोरवकाशः।
यदवृद्धमुवर्णान्तमवाहीकग्रामः स ठञ्ञोऽवकाशः।
यद्वृद्धमुवर्णान्तं वाहीकग्रामश्च तस्मादुभयं प्राप्नोति।।
एवं तर्हि नायमस्य विप्रतिषेधस्योपालम्भः।
कस्य तर्हि?
छादोर्देशे कालाट्ठञ्ञ् इत्येतस्य।
ननु च तत्राप्यवकाशः प्रक्लृप्तः।
यद्वृद्धमनुवर्णान्तं स छस्यावकाशः।
यदवृद्धमुवर्णान्तं स ठञ्ञोऽवकाशः।
यद्वृद्धमुवर्णान्तं देशश्च तस्मादुभयं प्राप्नोति।।
एवं तर्हि वृद्धात् प्राचाम् (4।2।120) इत्यनेन वृद्धग्रहणेन किं क्रियते?
यावद् ब्रूयात्पूर्वस्मिन् योगे वृद्धाच्चावृद्धाच्चेति।
यदेतस्मिन् योगे वृद्धग्रहणं तदनवकाशं तस्यानवकाशत्वादयुक्तो विप्रतिषेधः।।
(5428 विप्रतिषेधवार्तिकम्।। 26 ।।)
- योपधप्रस्थादीनां वुञ्ञ् -
(भाष्यम्) योपधप्रस्थादीनां वुञ्ञ् ठञ्ञ्ञ्ञिठाभ्यां भवति विप्रतिषेधेन।
योपधाद्वुञ्ञ् भवतीत्यस्यावकाशः--साङ्काश्यः--साङ्गाश्यकः, कापिल्यकः।
ठञ्ञ्ञ्ञिठयोः स एव।
दासरूप्यं नाम वाहीकग्रामः, तस्मादुभयं प्राप्नोति, दासरूप्यकः।।
प्रस्थान्ताद्वुञ्ञ् भवतीत्यस्यावकाशः--मालाप्रस्थकः।
ठञ्ञ्ञ्ञिठयोः स एव।
पातानप्रस्थं नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति, पातानप्रस्थकः।।
पुरान्ताद् वुञ्ञ् भवतीत्यस्यावकाशः--काञ्ञ्चीपुर--काञ्ञ्चीपुरकः।
ठञ्ञ्ञ्ञिठयोः स एव
नान्दीपुरं नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति, नान्दीपुरकः।।
वहान्ताद्वुञ्ञ्भवतीत्यस्यावकाशः--वातवह--वातवहकः।
ठञ्ञ्ञ्ञिठयोः स एव।
कौक्कुडीवहं नाम वाहीकग्रामस्तस्मादुभयं प्राप्नोति, कौक्कुडीवहकः।।
(5429 विप्रतिषेधवार्तिकम्।। 27 ।।)
- ओश्च ठञ्ञः -
(भाष्यम्) ओश्च ठञ्ञो वुञ्ञ् भवति विप्रतिषेधेन।
ओष्ठञ्ञोऽवकाशः--नैषादकर्षुकः।
वुञ्ञः स एव।
आप्रीतमायोरुभयं प्राप्नोति, आप्रीतमायवकः।।
(5430 विप्रतिषेधवार्तिकम्।। 28 ।।)
- जनपदानामकाणौ -
(भाष्यम्) जनपदानामकाणावोष्ठ्ञ्ञो भवतो विप्रतिषेधेन।
अकस्यावकाशः--अङ्गाः--आङ्गकः।
ओष्ठञ्ञः स एव।
जिह्नवो नाम जनपदस्तस्मादुभयं प्राप्नोति, जैह्नवकः।
अणोऽवकाशः--ऋषिक--आर्षिकः।
ओष्ठञ्ञः स एव।
इक्ष्वाकवो नाम जनपदस्तस्मादुभयं प्राप्नोति, ऐक्ष्वाकः।।
(5431 विप्रतिषेधाभाववार्तिकम्।। 29 ।।)
- न वा वुञ्ञपवादत्वादणः -
(भाष्यम्) न वाऽर्थो विप्रतिषेधेन।
किं कारणम्?
वुञ्ञपवादत्वादणः। वुञ्ञपवादोऽण्, वुञ्च--ओष्ठञ्ञं बाधिष्यते।।
(5432 विप्रतिषेधवार्तिकम्।। 30 ।।)
- कोपधादणोऽकेकान्ताच्छः -
(भाष्यम्) कोपधादण् भवतीत्येतस्मादकान्ताच्छो भवति विप्रतिषेधेन।
कोपधादण्भवतीत्यस्यावकाशः--निलीनक-नैलीनकः।
अकेकान्ताच्छो भवतीत्यस्यावकाशः--आरीहणकम्--आरीहणकीयः।
ब्राह्मणको नाम जनपदस्तस्मादुभयं प्राप्नोति, ब्राह्मणकीयः।।
(5433 विप्रतिषेधवार्तिकम् ।। 31 ।।)
- धन्ववुञ्ञश्च -
(भाष्यम्) धन्ववुञ्ञश्च छो भवति विप्रतिषेधेन।
धन्वनो वुञ्ञ् भवतीत्यस्यावकाशः--पारेधन्व पारेधन्वकः।
छस्य स एव।
आष्टकं नाम धन्व तस्मादुभयं प्राप्नोति, आष्टकीयः।।
(5434 विप्रतिषेधाभावोपपादकवार्तिकम्।। 32 ।।)
- न वा छस्य पुनर्वचनं छापवादनिवृत्त्यर्थम् -
(भाष्यम्) न वाऽर्थो विप्रतिषेधेन।
किं कारणम्?
छस्य पुनर्वचनं छापवादनिवृत्त्यर्थम्। सिद्धोऽत्र छः वृद्धाच्छः (4।2।114) इत्येव।
तस्य पुनर्वचन एतत्प्रयोजनम्--येऽन्ये तदपवादाः प्राप्नुवन्ति तद्वाधनार्थम्।
स यथैवान्यांस्तदपवादान् बाधत एवमिममपि बाधिष्यते।।
-4-2-124- जनपदतदवध्योश्च (1545)
(वुञ्ञोऽधिकरणम्)
(5435 सूत्रातिव्याप्तिप्रदर्शकवार्तिकम्।। 1 .।)
- जनपदतदवध्योर्वुञ्ञ्विधानेऽवयवमात्रात्प्रसङ्गः -
(भाष्यम्) जनपदतदवध्योर्वुञ्ञो विधानेऽवयवमात्रात्प्राप्नोति। मौञ्ञ्जो नाम वाहीकेषु ग्रामस्तस्मिन् भवो मौञ्ञ्जीयः।।
एवं तर्हि जनपदादेव जनपदावधेः।।
(5436 सूत्रांशवैर्यथ्यप्रदर्शकवार्तिकम्।। 2 ।।)
- जनपदादिति चेद्वचनानर्थक्यम् -
(भाष्यम्) जनपदादिति चेदवधिग्रहणमनर्थकम्। सिद्धं जनपदादित्येव।
(सिद्धान्तभाष्यम्)
इदं तर्हि प्रयोजनम्--जनपदावधेर्वुञ्ञेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति।
किं चान्यत्प्राप्नोति?
छः।
गर्तोत्तरपदाच्छविधेर्जनपदाद्वुञ्ञ् पूर्वविप्रतिषिद्धमिति वक्ष्यति स पूर्वविप्रतिषेधो न पठितव्यो भवति।।
-4-2-129- अरण्यान्मनुष्ये (1550)
(संग्राहकभाष्यम्)
अत्यल्पमिदमुच्यते--मनुष्य इति, पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वक्तव्यम्। आरण्यकः पन्थाः, आरण्यकोऽध्यायः, आरण्यको न्यायः, आरण्यको विहारः, आरण्यको मनुष्यः, आरण्यको हस्ती।
वा गोमयेष्विति वक्तव्यम्। आरण्यका गोमयाः। आरण्या गोमयाः।।
-4-2-130- विभाषा कुरुयुगन्धराभ्याम् (1551)
(5437 विप्रतिषेधवार्तिकम्।। 1 ।।)
- कुरुयुगन्धरेभ्यो वावचनान्मनुष्यतत्स्थयोर्वुञ्ञ्विधानम् -
(भाष्यम्) कुरुयुगन्धरेभ्यो वावचनात् मनुष्यतत्स्थयोर्वुञ्ञ् (4।2।134) इत्येतद्भवति विप्रतिषेधेन।
कुरुयुगन्धरेभ्यो वा वचनस्यावकाशः--कौरवः, कौरवकः; यौगन्धरः, योगन्धरकः।
मनुष्यतत्स्थयोर्वुञ्ञ् भवतीत्यस्यावकाशः--अन्ये कच्छादयः--काच्छको मनुष्यः, काच्छकमस्येक्षितम्, हसितम्, जल्पितम्, स्मितम्।
इहोभयं प्राप्नोति, कौरवको मनुष्यः, कौरवकमस्येक्षितम्, हसितम्, जल्पितम्, स्मितम्। वुञ्ञ् भवति विप्रतिषेधेन।।
(कुरुशब्दस्य विप्रतिषेधानर्थक्ये भाष्यम्)
नैष युक्तो विप्रतिषेधः।
न हि कुरुशब्दस्यान्ये कच्छादयोऽवकाशः। कुरुशब्दस्य यः कच्छादिषु पाठः सोऽनवकाशः।।
न खल्वपि कुरुशब्दो विभाषां प्रयोजयति। अनेन वुञ्ञ्, कच्छादिपाठादण्भविष्यति।
सैषा युगन्धरार्था विभाषा।।
-4-2-133- कच्छादिभ्यश्च (1554)
(अणोऽधिकरणम्)
(जिज्ञासाभाष्यम्)
किमर्थं साल्वानां कच्छादिषु पाठः क्रियते?
(5438 पाठप्रयोजनवार्तिकम्।। 1 ।।)
- साल्वानां कच्छादिषु पाठोऽण्विधानार्थः -
(भाष्यम्) साल्वानां कच्छादिषु पाठोऽण्विधानार्थः क्रियते। अण्यथा स्याद्, वुञ्ञ् मा भूदिति।।
(5439 पाठप्रयोजनाभावबोधकं वार्तिकम्।। 2 ।।)
- न वाऽपदातिगोयवागूग्रहणमवधारणार्थम् -
(भाष्यम्) न वैतत्प्रयोजनमस्ति।
किं कारणम्?
अपदातिगोयवागूग्रहणमवधारणार्थं भविष्यति। अपदातावेव साल्वात्। गोयवाग्वोरेव च साल्वादिति।।
-4-2-137- गर्तोत्तरपदाच्छः (1558)
(छाधिकरणम्)
(5440 पूर्वविप्रतिषेधे वार्तिकम्।। 1 ।।)
- गर्तोत्तरपदाच्छविधेर्जनपदाद्वुञ्ञ् विप्रतिषिद्धम् -
(भाष्यम्) गर्तोत्तरपदाच्छविधेर्जनपदाद् वुञ्ञ् भवति पूर्वविप्रतिषेधेन।
गर्तोत्तरपदाच्छो भवतीत्यस्यावकाशः--श्वाविद्गर्त--श्वाविद्गर्तीयः।
वुञ्ञोऽवकाशः--अङ्गाः--आङ्गकः।
इहोभयं प्राप्नोति, त्रैगर्तकः।
वुञ्ञ् भवति पूर्वविप्रतिषेधेन।।
(वार्तिकप्रत्याख्याने भाष्यम्)
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः?
न वक्तव्यः।
उक्तमेवावधिग्रहणस्य प्रयोजनम्--जनपदाज्जनपदावधेर्वुञ्ञेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति।।
-4-2-138- गहादिभ्यश्च (1559)
(5441 मध्यमशब्दस्य आदेशिनिश्चायकं वार्तिकम्।। 1 ।।)
- गहादिषु पृथिवीमध्यस्य मध्यमभावः -
(भाष्यम्) गहादिषु पृथिवीमध्यस्य मध्यमभावो वक्तव्यः। पृथिवीमध्ये भवो मध्यमीयः।।
(5442 अर्थनिर्णयविषये वार्तिकम्।। 2 ।।)
- चरणसम्बन्धेन निवासलक्षणोऽण् -
(भाष्यम्) चरणसम्बन्धेन निवासलक्षणोऽण्वक्तव्यः। त्रयः प्राच्याः। त्रय उदीच्याः। त्रयो माध्यमाः। सर्वे निवासलक्षणाः।।
-4-2-141- वृद्धादकेकान्तखोपधात् (1562)
(सूत्रोपसंख्याने भाष्यम्)
इर्कान्तादपीति वक्तव्यम्।
इहापि यथा स्यात्--ऐणीकीयः।।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्।।
(5443 लघूपसङ्ख्यानबोधकं वार्तिकम्।। 1 ।।)
- अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम् -
(भाष्यम्) अकेकान्तग्रहणे कोपधग्रहणं कर्तव्यम्।
किं प्रयोजनम्?
सौसुकाद्यर्थम्, सौसुकीयः।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थाध्यायस्य द्वितीये पादे द्वितीयमाह्निकम्।।
पादश्च समाप्तः।।
-9-9-999-