सामग्री पर जाएँ

महाभाष्यम्/अष्टमोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः

<M.6.210*>
-8-4-1- रषाभ्यां नो णः समानपदे
।। रषाभ्यां णत्वे ऋकारग्रहणम्।। रषाभ्यां णत्वे ऋकारग्रहणं कर्तव्यम्। रषाभ्यां नो णः समानपदे ऋकाराच्चेति वक्तव्यम्। इहापि यथा स्यात्-मातॄणां पितॄणामिति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। योऽसावृकारे रेफस्तदाश्रयं णत्वं भविष्यति।। न सिध्यति।। किं कारणम्?।। न हि वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते।। एकदेशे(1) नुडादिषु चोक्तम्।। किमुक्तम्?।। अग्रहणं(2) चेन्नु॰्विधिलादेशविनामेष्वृकारग्रहणमिति। तस्माद्गृह्यन्ते(1)।।
<M.6.211*>
एवमपि न सिध्यति।। किं कारणम्?।। अननन्तरत्वात्। यत्तद्रेफात्परं भक्तेस्तेन व्यवहितत्वान्न प्राप्नोति।। अड्व्यवायेः इत्येवं भविष्यति।। न सिध्यति।। किं कारणम्?।। वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते ये व्यपवृक्ता अपि वर्णा भवन्ति। यच्चात्र रेफात्परं भक्तेर्नतत्क्वचिदपि व्यपवृक्तं दृश्यते।। एवं तर्हि योगविभागः करिष्यते-रषाभ्यां नो णः समानपदे। ततो व्यवाये। व्यवाये च रषाभ्यां नो णो भवतीति। तत अट्कुप्वाङ्नुम्भिरिति।। इदमिदानीं किमर्थम्?।। नियमार्थम्-एतैरेवाक्षरसमाम्नायिकैर्व्यवाये नान्यैरिति। अथ वाऽऽचार्यप्रवृत्तिर्ज्ञापयति
<M.6.212*>
भवति ऋकाराण्णत्वमिति यदयं क्षुभ्नादिषु नृनमनशब्दं पठति।। नैतदस्ति ज्ञापकम्। वृद्ध्यर्थमेतत्स्यात्-नार्नमनिरिति। यत्तर्हि तत्रैव तृप्नोतिशब्दं पठति।। यच्चाऽपि नृनमनशब्दं पठति।। ननु चोक्तंवृद्ध्यर्थमेतत्स्यादिति। बहिरङ्गा वृद्धिरन्तरङ्गं णत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे। अथ वोपरिष्टाद्योगविभागः करिष्यते। (इदमस्ति(1)छन्दस्यृदवग्रहादिति। ऋतः।) ऋतो (उत्तरस्य(2))नो णो भवति। ततः छन्दस्यृवग्रहात्। ऋत इत्येव।।
-8-4-2- अट्कुप्वाङ्नुम्व्यवायेऽपि
।। अड्व्यवाये णत्वेऽन्यव्यवाये प्रतिषेधः।। अड्व्यायेणत्वेऽन्यव्यवाये प्रतिषेधो वक्तव्यः। आदर्शेन। अक्षदर्शेन(3)।। न वाऽन्येन व्यपेतत्वात्(4)।। न वा वक्तव्यः(5)।। किं कारणम्?।। अन्येन व्यपेतत्वात्(4)। अन्येनाऽत्र व्यवायः।। यद्यप्यत्रान्ये व्यवायोऽटाऽपि तु व्यवायोऽस्ति(6)।
<M.6.213*>
तत्रास्त्यड्व्यवाय(1) इति प्राप्नोति।। अटैव व्यवाये भवति।। किं वक्तव्यमेतत्?।। न हि।। कथमुच्यमानं गंस्यते?।। अड्ग्रहणसार्मथ्यात्। यदिहि यत्राऽटा चाऽन्येन च व्यवायस्तत्र स्यादड्ग्रहणमनर्थकं स्यात्। व्यवाये नो णो भवतीत्येव ब्रूयात्।। अस्त्यन्यदड्ग्रहणस्य प्रयोजनम्।। किम्?।। योऽनिर्दिष्टैरेव व्यवायस्तत्र मा भूत्-कृत्स्नं मृत्स्नेति।। यद्येतावत्प्रयोजनं स्यार्च्छव्यवाये(1) नेत्येव ब्रूयात्।। तत्समुदाये णत्वाऽप्रसिद्धिर्यथान्यत्र।। तत्समुदाये-व्यवायसमुदाये-णत्वस्याऽप्रसिद्धिः-अर्केण अर्घेण। (यथान्यत्र(2))। यथाऽन्यत्रापि व्यवायसमुदाये कार्यं न भवति।। क्वाऽन्यत्र?।। नुम्विसर्जनीयर्शव्यवायेऽपि। निंस्से निंस्स्वेति।। किं पुनः कारणमन्यत्रापि व्यवायसमुदाये कार्यं न भवति?।। प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति। तद्यथा-वृद्धिगुणसंज्ञे प्रत्येकं भवतः।। ननु चायमप्यस्ति दृष्टान्तः-समुदाये वाक्यपरिसमाप्तिरिति। तद्यथा गर्गाः शतं दण्ड्यन्तामिति, अर्थिनश्च राजानो हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति।। यद्येवमेकेन व्यवाये न प्राप्नोति--किरिणा गिरिणेति।। उभयथापि वाक्यपरिसमाप्तिर्दृश्यते, तद्यथा-गर्गैः सह न भोक्तव्यमिति, प्रत्येकं च न भुज्यते समुदितैश्च।।
<M.6.214*>
कुव्यवाये हादेशेषु प्रतिषेधः(1)।। कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः।। किं प्रयोजनम्?।। प्रयोजनं वृत्रघ्नः स्रुघ्नः(2) प्राघानीति।। (वृत्रघ्नः(3) स्रुघ्नः प्राघानीति प्रयोजनम्)।। हन्तेरत्पूर्वस्येत्यत्पूर्वग्रहणं न कर्तव्यं भवति।
।। नुम्व्यवाये णत्वेऽनुस्वाराऽभावे प्रतिषेधः।।
नुम्व्यवाये णत्वेऽनुस्वाराऽभावे प्रतिषेधो वक्तव्यः। प्रेन्वयनम् प्रेन्वनीयम्।। अनागमे च णत्वम्।। अनागमे च
णत्वं वक्तव्यम्(4)। तृम्फणम्(5) तृम्फणीयम्(6)।। अनुस्वारव्यवाये वचनात्तु(7) सिद्धम्।। अनुस्वारव्यवाये नो णो भवतीति वक्तव्यम्।। तदनुस्वारग्रहणं कर्तव्यम्? न कर्तव्यम्। क्रियते न्यास एव। नकारेऽनुस्वारः परसवर्णीभूतो निर्दिश्यते।। इहापि तर्हि प्राप्नोति-प्रेन्वनं प्रेन्वनीयम्।। अनुस्वारविशेषणं नुम्ग्रहणं-नुमो योऽनुस्वारःथ्द्य;ति।। इहापि तर्हि न प्राप्नोति-तृम्फणं(6) तृम्फणीयम्।।
एवं तर्ह्ययोगवाहानामविशेषेणोपदेशश्चोदितस्तत्राऽनुस्वारे कृतेऽड्व्यवाये इत्येव सिद्धम्।। यद्येवं नार्थो
नुम्ग्रहणेन। अनुस्वारे कृतेऽड्व्यवाय इत्येव सिद्धम्।।(अट्कुप्वाङ्)
<M.6.215*>
-8-4-3- पूर्वपदात्संज्ञायामगः
।। पूर्वपदात्संज्ञायामुत्तरपदग्रहणम्।। पूर्वपदात्संज्ञायामुत्तरपदग्रहणं कर्तव्यम्।। किं प्रयोजनम्?।। तद्धितपूर्वपदस्यथाऽप्रतिषेधार्थम्।। तद्धितस्थस्य पूर्वपदस्थस्य च प्रतिषेधो मा भूत्। खारपायणः, करणप्रियः।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। पूर्वपदमुत्तरपदमिति संबन्धिशब्दावेतौ। सति पूर्वपदे उत्तरपदं भवति, सति चोत्तरपदे पूर्वपदं भवति। तत्र सम्बन्धादेतदवगन्तव्यं-यत्प्रति पूर्वपदमित्येतद्भवति तत्स्थस्य नियम इति।। किं च प्रत्येतद्भवति?।। उत्तरपदं प्रति।। संज्ञायां नियमवचनेऽगप्रतिषेधान्नियमप्रतिषेधः।। संज्ञायां नियमवचनेऽगप्रतिषेधान्नियमस्याऽयं प्रतिषेधो विज्ञायते-अग इति।। तत्र को दोषः?।। तत्र नित्यं णत्वप्रसङ्गः।। तत्र पूर्वेण संज्ञायां चाऽसंज्ञायां च नित्यं णत्वं प्राप्नोति।। योगविभागात्सिद्धम्(1)।। योगविभागः करिष्यते-पूर्वपदात्संज्ञायाम्। ततः अगः। गान्तात्पूर्वपदाद्या च यावती च(2) णत्वप्राप्तिस्तस्याः सर्वस्याः प्रतिषेधः।।
<M.6.216*>
अप्रतिषेधो वा यथा सर्वनामसंज्ञायाम्।। न वाऽर्थः प्रतिषेधेन।। णत्वं कस्मान्न भवति?।। यथा सर्वनामसंज्ञायाम्। उक्तं च सर्वनामसञ्ञ्ज्ञायां(1) सर्वनामसंज्ञायां निपातनाण्णत्वाभावः इति।। यथा पुनस्तत्र निपातनं क्रियते-सर्वादीनि सर्वनामानि इति, इहेदानीं किं निपातनम्?।। इहापि निपातनमस्ति।। किम्?।। अणृगयनादिभ्य इति।। नैव वा पुनरत्र णत्वं प्राप्नोति।। किं कारणम्?।। समानपद इत्युच्यते, न चैतत्समानपदम्।। समासे कृते समानपदम्।। समानपदमेव(2) यन्नित्यम्। न चैतन्नित्यं समानपदमेव।। किं वक्तव्यमेतत्?।। न हि।। कथमनुच्यमानं गंस्यते?।। समानग्रहणसार्मथ्यात्। यदि हि यत्समानं चाऽसमानं च तत्र स्यात्समानग्रहणमनर्थकं स्यात्।। (पूर्वपदात्संज्ञायामगः)।।
-8-4-6- विभाषौषधिवनस्पतिभ्यः
।। व्द्यक्षरत्र्यक्षरेभ्यः(3)।। व्द्यक्षरत्र्यक्षरेभ्य इति वक्तव्यम्। इह मा भूत्-देवदारुवनम्।। इरिकादिभ्यः प्रतिषेधः(3) ।। इरिकादिभ्यः प्रतिषेधो वक्तव्यः। इरिकावनम्। तिमिरवनम्।। (विभाषौषधिवन)।
-8-4-7- अह्नोऽदन्तात्
।। अदन्ताददन्तस्य(3)।। अदन्ताददन्तस्येति वक्तव्यम्। इह मा भूत्-दीर्घाह्नी शरदिति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम् । नैषाऽहञ्ञ्छब्दात्षष्ठी।। का तर्हि?।। अह्नशब्दात्प्रथमा।
पूर्वसूत्रनिर्देशश्च(1)।। अथ वा युवादिषु पाठः करिष्यते।। (अह्नोऽदन्तात्)।।
<M.6.217*>
-8-4-8- वाहनमाहितात्
।।आहितोपस्थितयोः(2)।। आहितोपस्थितयोरिति वक्तव्यम्। इहापि यथा स्यात्-इक्षुवाहणम् शरवाहणम्।। अपर आह।। वाहनं वाह्यादिति वक्तव्यम्।। यदा हि गर्गाणां वाहनमपविद्धं तिष्ठति तदा मा भूत्गर्गवाहनमिति(3)।। (वाहनमाहितात्)।
-8-4-10- वा भावकरणयोः
।। वाप्रकरणे गिरिनद्यादीनामुपसङ्ख्यानम्।। वाप्रकरणे गिरिनद्यादीनामुपसङ्ख्यानं कर्तव्यम्। गिरिणदी गिरिनदी। चक्रणितम्बा चक्रनितम्बा।
-8-4-11- प्रातिपदिकान्तनुम्विभक्तिषु च
।। प्रातिदिकान्तस्य णत्वे समासान्तग्रहणमसमासान्तप्रतिषेधार्थम्।। प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणं कर्तव्यम्।। किं प्रयोजनम्?।। असमासान्तप्रतिषेधार्थम्। असमासान्तस्य मा भूत्-गर्गभगिनी
<M.6.218*>
 दक्षभगिनीति।। न वा भवति-गर्गभगिणीति?।। भवति यदैतद्वाक्यं गर्गाणां भगो गर्गभगः,गर्गभगोऽस्याऽस्तीति। यदा त्वेतद्वाक्यं भवतिगर्गाणां भगिनी गर्गभगिनीति, तदा न भवितव्यं, तदा मा भूदिति(1)।। यदि समासान्तग्रहणं क्रियते माषवापिणी व्रीहिवापिणीत्यत्र(1) न प्राप्नोति।। लिङ्गविशिष्टग्रहणे चोक्तम्।। (लिङ्गविशिष्टग्रहणे चोक्तम्(2))।। किमुक्तम्?।। गतिकारकोपपदानां कृदि्भस्सह समासवचनं प्राक् सुबुत्पत्तेरिति।। तत्र युवादिप्रतिषेधः।। तत्र युवादीनां प्रतिषेधो वक्तव्यः। आर्ययूना क्षत्रिययूना। प्रपक्वानि परिपक्वानि। दीर्घाह्नी शरदिति।।
-8-4-13- कुमति च
अथेह कथं भवितव्यं-माषकुम्भवापेण व्रीहिकुम्भवापेणेति, नित्यं णत्वेन भवितव्यमाहोस्विद्विभाषया(3)?।। यदा तावदेतद्वाक्यं भवति-- कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवाप इति,
<M.6.219*>
तदा नित्यं णत्वेन भवितव्यम्। यदा त्वेतद्वाक्यं भवति,-माषाणां कुम्भो माषकुम्भः, माषकुम्भस्य वापो माषकुम्भवाप इति,-तदा विभाषया भवितव्यम्।।
-8-4-14- उपसर्गादसमासेऽपि णोपदेशस्य
असमासग्रहणं किमर्थम्?।। समास इति वर्त्तते, असमासेऽपि यथा स्यात्-प्रणमति परिणमति।। क्व पुनः समासग्रहणं प्रकृतम्?।। पूर्वपदात्संज्ञायामगः इति।। कथं पुनस्तेन समासग्रहणं शक्यं विज्ञातुम्?।। पूर्वपदग्रहणसार्मथ्यात्। समास एवैतद्भवति पूर्वपदमुत्तरपदमिति।।
अथाऽपिग्रहणं किमर्थम्?।। समासेऽपि यथा स्यात्-प्रणामकः। परिणामकः। यदि तर्हि समासे चाऽसमासे चेष्यते नार्थोऽसमासेऽपिग्रहणेन। निवृत्तं पूर्वपदादिति। अविशेषेणोपसर्गाण्णत्वं वक्ष्यामि।। समासे नियमान्न प्राप्नोति।। असिद्धमुपसर्गाण्णत्वं, तस्याऽसिद्धत्वान्नियमो न भविष्यति।।
एवं तर्हि सिद्धे सति यदसमासेऽपिग्रहणं करोति तज्ज्ञापयत्याचार्यो न योगो योगेऽसिद्धः।। किं तर्हि?।। प्रकरणे प्रकरणमसिद्धमिति।। किमेतस्य ज्ञापने प्रयोजनम्?।। यत्तदुक्तं-निष्कृतं निष्पीतमित्यत्र सत्वस्याऽसिद्धत्वात् षत्वं न प्राप्नोतीति, न स दोषो भवति।। णोपदेशं प्रत्युपसर्गाभावादनिर्देशः। (णोपदेशं प्रत्यु(1)पसर्गाभावादनिर्देशः) अगमको निर्देशोऽनिर्देशः। यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो, न च णोपदेशं प्रति क्रियायोगः।। एवं तर्ह्याहाऽयमुपसर्गादसमासेऽपि णोपदेशस्येति, न च णोपदेशं प्रत्युपसर्गोऽस्ति, तत्र वचनाद्भविष्यति।। वचनप्रामाण्यादिति चेत्पदलोपे प्रतिषेधः।। (वचनप्रामाण्यादिति(1) चेत्पदलोपे प्रतिषेधो) वक्तव्यः। प्रगता नायका अस्माद्ग्रामात्-प्रनायको ग्राम इति।। सिद्धं तु यं प्रत्युपसर्गस्तत्स्थस्येति वचनात्।। सिद्धमेतत्।। कथम्?।। (यं प्रत्युपसर्गस्तत्स्थस्येति(1) वचनात्)। यं प्रत्युपसर्गस्तत्स्थस्य(2) णो भवतीति वक्तव्यम्।। सिद्ध्यति। सूत्रं तर्हि भिद्यते।। यथान्यासमेवाऽस्तु।। ननु चोक्तं णोपदेशं प्रत्युपसर्गाऽभावादनिर्देशःथ्द्य;ति।। नैषः दोषः। णोपदेश(3) इति-नैवं विज्ञायते-ण उपदेशः णोपदेशः, णोपदेशस्येति।। कथं(4) तर्हि?।। ण उपदेशोऽस्य सोऽयं णोपदेशः, णोपदेशस्येति।।
-8-4-15- हिनुमीना
।। हिनुमीनाग्रहणे विकृतस्योपसङ्ख्यानम्।। हिनुमीनाग्रहणे विकृतस्योपसङ्ख्यानं कर्त्तव्यम्। प्रहिणोति प्रमीणीते।। वचनाद्भविष्यति।। अस्ति वचने प्रयोजनम्।। किम्?।। प्रहिणुतः प्रमीणाति।। सिद्धमचः स्थानिवत्त्वात्।। सिद्धमेतत्।। कथम्?।। अचः स्थानिवत्त्वात्। स्थानिवद्भावादत्र णत्वं भविष्यति।। प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवदिति।। दोषा एवैते तस्याः परिभाषायाः-तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति।। (हिनुमीना)।
-8-4-16- आनि लोट्
लोडिति किमर्थम्?।। प्रहिमानि कुलानि, प्रवपानि मांसानि।। आनिलोड्ग्रहणानर्थक्यमर्थवद्ग्रहणात्।। आनिलोड्ग्रहणमनर्थकम्।। किं कारणम्?।। अर्थवद्ग्रहणात्। अर्थवत आनिशब्दस्य ग्रहणं, नैषोऽर्थवान्। ।। अनुपसर्गाद्वा।। अथ वा यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो, न चैत मानिशब्दं प्रति क्रियायोगः।। इहापि तर्हि न प्राप्नोति-प्रयाणि, परियाणीति, अत्रापि नाऽऽनिशब्दं प्रति क्रियायोगः।। इहापि तर्हि न प्राप्नोति-प्रयाणि, परियाणीति, अत्रापि नाऽऽनिशब्दं प्रति क्रियायोगः।। आनिशब्दं प्रत्यत्र क्रियायोगः।। कथम्?।। यत्क्रियायुक्ता(1) इति-नैवं विज्ञायते यस्य क्रिया यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति।। कथं तर्हि?।। या क्रिया यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति।।
-8-4-17- नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च
।। नेर्गदादिषु अड्व्यवाय उपसङ्ख्यानम्(1)।। नेर्गदादिष्वड्व्यवाय उपसङ्ख्यानं कर्त्तव्यम्।
प्रण्यगदत्। परिण्यगदत्।।आङा(1) च।। आङा चेति वक्तव्यम्। प्रण्यागदत्। ननु चाऽयमड् गदादिभक्तो गदादिग्रहणेन ग्राहिष्यते।। न सिध्यति।। अङ्गस्याऽडुच्यते, विकरणान्तं चाऽङ्गम्। सोऽसौ सङ्घातभक्तोऽशक्यो गदादिग्रहणेन ग्रहीतुम्।। एवं तर्ह्यड्व्यवाय इति वर्त्तते।। क्व प्रकृतम्?।। अट्कुप्वाङ्नुम्व्यवायेऽपीति।। तद्वैकार्यिविशेषणं निमित्तविशेषणेन चेहार्थः।। तत्रापि निमित्तविशेषणमेव।।
8-4-19- अनितेः
अन्तः ।।
अन्तग्रहणं किमर्थम्?।। अनितेरन्तग्रहणं संबुद्ध्यर्थम्।। अनितेरन्तग्रहणं क्रियते।। किं प्रयोजनम्?।।
संबुद्ध्यर्थम् । प्राण् । अपर आह -- अनितेरन्तः पदान्तस्य ।। अनितेरन्तग्रहणं क्रियते, पदान्तस्य नेति प्रतिषेधः प्राप्नोति तद्वाधनार्थम् ।। यो वा तस्मादनन्तरः।। अथ वा --अयमन्तशब्दोऽस्त्येवाऽवयववाची । तद्यथा--वस्रान्तो वसनान्त इति । अस्ति सामीप्ये वर्त्तते। तद्यथा--उदकान्तं गतः । उदकसमीपं गत इति गम्यते । तद्यः सामीप्ये वर्त्तते तस्य ग्रहणं विज्ञायते अनितेः समीपे यो रेफस्तस्मान्नस्य यथा स्यात्--प्राणितीति । इह मा भूत् --पर्यनितीति।
-8-4-20- अन्तः
अनितेः ।।
अन्तग्रहणं किमर्थम्?।। अनितेरन्तग्रहणं संबुद्ध्यर्थम्।। अनितेरन्तग्रहणं क्रियते।। किं प्रयोजनम्?।।
संबुद्ध्यर्थम् । प्राण् । अपर आह -- अनितेरन्तः पदान्तस्य ।। अनितेरन्तग्रहणं क्रियते, पदान्तस्य नेति प्रतिषेधः प्राप्नोति तद्वाधनार्थम् ।। यो वा तस्मादनन्तरः।। अथ वा --अयमन्तशब्दोऽस्त्येवाऽवयववाची । तद्यथा--वस्रान्तो वसनान्त इति । अस्ति सामीप्ये वर्त्तते। तद्यथा--उदकान्तं गतः । उदकसमीपं गत इति गम्यते । तद्यः सामीप्ये वर्त्तते तस्य ग्रहणं विज्ञायते अनितेः समीपे यो रेफस्तस्मान्नस्य यथा स्यात्--प्राणितीति । इह मा भूत् --पर्यनितीति।
-8-4-21- उभौ साभ्यासस्य
।। साभ्यासस्य द्वयोरिष्टम्।। साभ्यासस्य द्वयोर्णत्वमिष्यते, प्राणिणिषति।। (उभौ साभ्यासस्य)।।
<M.6.224*>
-8-4-22- हन्तेरत्पूर्वस्य
हन्तेरत्पूर्वस्येति किमर्थम्?।। प्रघ्नन्ति परिघ्नन्ति।। हन्तेत्पूर्वस्य वचने उक्तम्।। (हन्तेरत्पूर्वस्यं वचने उक्तम्(1))। किमुक्तम्? ।। कुव्यवाये हादेशेषु प्रतिषेध इति।।(हन्तेरत्पूर्वस्य)।।
-8-4-28- उपसर्गादनोत्परः
कथमिदं विज्ञायते-ओकारात्परः-ओत्परः, न ओत्परोऽनोत्पर इति, आहो स्विदोकारः परोरमात्सोऽयमोत्परः, न ओत्परोऽनोत्पर इति?।। किं चातः?।। यदि विज्ञायते(1) ओकारात्परः ओत्परः, न ओत्परोऽनोत्पर इति,- प्र नो मुञ्चतम्-अत्रापि प्राप्नोति। अथ विज्ञायते-ओकारः परोऽस्मात्सोऽयमोत्परः, न ओत्परोऽनोत्पर इति,-प्राणो वनिर्देवकृता,-अत्र(2) न प्राप्नोति।। उभयथा च प्रक्रमे दोषो भवति। प्र नः
मुञ्चतम्-प्र नो मुञ्चतम्। प्र उ नः--प्रोनः।। भाविन्यप्योति नेष्यते।। भाविन्यप्योकारे णत्वं नेष्यते।। एवं तर्ह्युपसर्गाद्बहुलमिति वक्तव्यम्।। (उपसर्गादनोत्परः)।।
-8-4-29- कृत्यचः
।। कृत्स्थस्य णत्वे निर्विण्णस्योपसङ्ख्यानम्।। कृत्स्थस्य णत्वे निर्विण्णस्योपसङ्ख्यानं कर्तव्यम्। निर्विण्णोऽहमनेन वासेन।। (कृत्यचः)।।
-8-4-30- णेर्विभाषा
।।णेर्विभाषायां(1) साधनव्यवाये उपसङ्ख्यानम्।। णेर्विभाषायां साधनव्यवाये उपसङ्ख्यानं कर्त्तव्यम्। प्राप्यमाणं प्राप्यमानम्।। तद्विधानात्सिद्धम्(2)।। (तद्विधानात्सिद्धम्(1))। विहितविशेषणं णिग्रहणंण्यन्ताद्यो विहितःथ्द्य;ति।। अडधिकाराद्वा।। अथ वाऽड्व्यवाय इति वर्तते।।
-8-4-32- इजादेः सनुमः
किमर्थमिदमुच्यते न कृत्यच इत्येव सिद्धम्? ।। नियमार्थोयमारम्भः(2)।। (नियमार्थोऽयमारम्भः(1))। इजादेरेव च सनुम्कान्नान्यस्मात्सनुम्कादिति। क्व मा भूत्?।। प्रमङ्कनं परिमङ्कनम्।। सनुमो णत्वेऽवधारणाऽप्रसिद्धिर्विधेयभावात्।। सनुमो णत्वेऽवधारणस्याऽप्राप्तिः(1)।। किं कारणम्?।। विधेयभावात्।। कैर्मथ्यान्नियमो भवति?।। विधेयं नास्तीति कृत्वा।। इह चाऽस्ति विधेयम्।। किम्?।। ण्यन्ताद्विभाषा प्राप्ता तत्र नित्यं णत्वं विधेयम्।। तत्राऽपूर्वो विधिरस्तु नियमोऽस्त्विति, अपूर्वो विधिर्भविष्यति न नियमः।। सिद्धं तु प्रतिषेधाधिकारे सनुम्ग्रहणात्।। सिद्धमेतत्।। कथम्?।। प्रतिषेधाधिकारे सनुम्ग्रहणात्। प्रतिषेधाधिकारे सनुम्ग्रहणं कर्त्तव्यं न भाभूपूकमिगमिप्यायीवेपिसनुमामिति।। इहापि तर्हि न प्राप्नोति-प्रेङ्खणीयम्(2)। प्रेङ्खणम्।। कृत्स्थस्य च णत्वे इजादेः सनुमो ग्रहणम्।। कृत्स्थस्य च णत्वे इजादेः सनुमो ग्रहणं कर्त्तव्यम्।। सिध्यति। सूत्रं तर्हि भिद्यते।। यथान्यासमेवास्तु।। ननु चोक्तं-सनुमो णत्वेऽवधारणा(1)प्रसिद्धिर्विधेयभावादिति।। नैषः दोषः। हल इति वर्त्तते।। क्व प्रकृतम्?।। हलश्चेजुपधादिति।। तद्वै तत्रादि विशेषणमन्तविशेषणेन चेहार्थः।। कथं पुनर्ज्ञायते-तत्रादिविशेषणमिति?।। इजुपधादित्युच्यते तत्र नाऽर्थोन्तविशेषणेन।। तत्रादिविशेषणं सदिहाऽन्तविशेषण भविष्यति।। कथम्?।। इजादेरित्युच्यते तत्र नाऽर्थ आदिविशेषणेन।। अथ वा इजादेः सनुम इत्यत्र णेर्विभाषेत्येतदनुवर्त्तिष्यते।।
-8-4-34- न भाभूपूकमिगगमिप्यायीवेपाम्
भादिषु पूञ्ञ्ग्रहणम् ।। भादिषु पूञ्ञ्ग्रहणं कर्त्तव्यम्। इह माभूत्--प्रपवणं सोमस्येति।। ण्यन्तस्य चोपसङ्ख्यानम्।। ण्यन्तस्य चोपसङ्ख्यानं कर्त्तव्यम्।। किं पूञ्ञ् एव ?।। नेत्याह ।। अविशेषेण ।। प्रभापनं परिभापनम्।।
-8-4-35- षात्पदान्तात्
।। षात्पदादिपरवचनम्।। षात्पदादिपरग्रहणं कर्त्तव्यम्। इहैव यथा स्यात्-निष्पानं दुष्पानम्। इह मा भूत्-सुसर्पिष्केण(2) सयजुष्केण(3)।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। नैवं विज्ञायते-पदस्यान्तः पदान्तः, पदान्तादिति।। कथं तर्हि?।। पदे अन्तः पदान्तः, पदान्तादिति।।
-8-4-36- नशेः षान्तस्य
।। नशेरशः।। नशेरश इति वक्तव्यम्। इहापि यथा स्यात्- प्रनङ्क्ष्यति। परिनङ्क्ष्यति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। इह पुनर्नशेः(4) ष इतीयता सिद्धं, सोऽयमेवं सिद्धे सति यदन्तग्रहणं करोति तस्यैतत्प्रयोजनं षान्तभूतपूर्वस्यापि यथा स्यात्।।(नशेः षान्तस्य)।।
<M.6.228*>
-8-4-38- पदव्यवायेऽपि
।। पदव्यवायेऽतद्धिते।। पदव्यवायेऽतद्धित इति वक्तव्यम्। इह मा भूत्-आर्द्रगोमयेण शुष्कगोमयेण।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। नैवं विज्ञायते पदेन व्यवायः पदव्यवायः,(1) पदव्यवायेःथ्द्य;ति।। कथं तर्हि?।। पदे व्यवायः पदव्यवायः, पदव्यवाय इति।। (पदव्यवायेऽपि)।।
-8-4-39- क्षुभ्नादिषु च
।। अविहितलक्षणो(2) णत्वप्रतिषेधः क्षुभ्नादिषु।। (अविहितलक्षणो(3) णत्वप्रतिषेधः क्षुभ्नादिषु) द्रष्टव्यः।। (क्षुभ्नादिषु च)।।
-8-4-40- स्तोः श्चुना श्चुः
किमर्थं तृतीयानिर्देशः क्रियते न श्चावित्येवोच्येत?।। आनन्तर्यमात्रे श्चुत्वं यथा स्यात्-यज्ञः राज्ञः याच्ञ्ञा।। अथ सङ्ख्यातानुदेशः कस्मान्न भवति?।। आचार्यप्रवृत्तिर्ज्ञापयति-सङ्ख्यातानुदेशो नेति यदयं(4) शात्प्रतिषेधं शास्ति।।
-8-4-41- ष्टुना ष्टुः
किमर्थं तृतीयानिर्देशः क्रियते न ष्टावित्येवोच्येत?।। आनन्तर्यमात्रे ष्टुत्वं यथास्यात्-पेष्टा लेढा(1)।। अथ सङ्ख्यातानुदेशः कस्मान्न भवति?।। आचार्यप्रवृत्तिर्ज्ञापयति नेह सङ्ख्यातानुदेशो भवतीति, यदयं तोःषीति प्रतिषेधं शास्ति।। (ष्टुना ष्टुः)।।
-8-4-42- न पदान्ताट्टोरनाम्
अनामिति किमर्थम्(2)?।। षण्णां भवति काश्यपः।। अत्यल्पमिदमुच्यते--अनामिति।। अनाम्नवतिनगरीणां चेति वक्तव्यम्।। षण्णाम्। षण्णवतिः। षण्णगर्यः(3)।। (न पदान्ताट्टोरनाम्।)
-8-4-45- यरोऽनुनासिकेऽनुनासिको वा
।। यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनम्।। यरोऽनुनासिके प्रत्यये भाषायां नित्यमिति च वक्तव्यम्। वाङ्मयम्। त्वङ्मयमिति।।
-8-4-47- अनचि च
।। द्विर्वचने यणो मयः।। द्विर्वचने यणो मय इति वक्तव्यम्।। किमुदाहरणम्?।। यदि यण इति पञ्चमी मय इति षष्ठी उल्क्का वल्म्मीकमित्युदाहरणम्।। अथ मय इति पञ्चमी यण इति षष्ठी दध्य्यत्र मध्व्यत्रेत्युदाहरणम्?।।शरःखयः।। शरःखय इति वक्तव्यम्।। किमुदाहरणम्?।। यदिशर इति पञ्जमीखयःथ्द्य;ति षष्ठी स्थ्थाली स्थ्थाता इत्युदाहरणम्। अथ खय इति पञ्जमी शर इति षष्ठी स्थ्थाली स्थ्थाता इत्युदाहरणम्। अथ खय इति पञ्चमी शर इति षष्ठी, वत्स्स(र): क्ष्षीरम् अपस्सरा इत्युदाहरणम्। ।। अवसाने च।। अवसाने च द्वे भवत इति वक्तव्यम्। वाक्क्। वाक्। त्वक्क् त्वक्। स्रुक्क्स्रुक्।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्।। नायं प्रसज्यप्रतिषेधः-अचि नेति।। किं तर्हि?।। पर्युदासोऽयं यदन्यदच इति।।
-8-4-48- नादिन्याक्रोशे पुत्रस्य
।।नादिन्याक्रोशे पुत्रस्येति तत्परे च।। नादिन्याक्रोशे पुत्रस्येत्यत्र तत्परे चेति वक्तव्यम्। पुत्रपुत्रादिनि(1)।। वा हतजग्धपरे च।। वा हतजग्धपरे इति वक्तव्यम्। पुत्रहती। पुत्र्रहती। पुत्रजग्धी। पुत्र्रजग्धी। ।। चयो द्वितीयाः शरि पौष्करसादेः।। चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचार्यस्य मतेन। वथ्सः(2)। ख्षीरम्(3)। अफ्सराः।(नदिन्याक्रोशे पुत्रस्य)।
-8-4-54- अभ्यासे चर्च
प्रकृतिचरां प्रकृतिचरो भवन्ति। चिचीषति। प्रकृतिजशां प्रकृतिजशश्च भवन्ति। जिजनिषति। बुबुधे। ददौ।। (अभ्यासे चर्च)।।
-8-4-61- उदः स्थास्तम्भोः पूर्वस्य
।। उदः(1) पूर्वत्वे स्कन्देश्छन्दस्युपसङ्ख्यानम्।। उदः पूर्वत्वे स्कन्देश्छन्दस्युपसङ्ख्यानं कर्त्तव्यम्।। अघ्न्ये दूरमुत्कन्द(2)।। रोगे च(1)।। रोगे चेति वक्तव्यम्। उत्कन्दको रोगः।।
-8-4-63- शश्छोऽटि
।। छत्वममि(तच्छ्लोकेन तच्छमश्रुणेति प्रयोजनम्)।। छत्वममीति वक्तव्यम्।। किं प्रयोजनम्?।। तच्छ्लोकेन तच्छ्मश्रुणेति।।
-8-4-65- झरो झरि सवर्णे
सवर्णग्रहणं किमर्थम्।। झरो झरि सवर्णग्रहणं समसङ्ख्यप्रतिषेधार्थम्।। झरो झरि सवर्णग्रहणं क्रियते।। (किं प्रयोजनम्?)।। समसङ्ख्यप्रतिषेधार्थम्।। सङ्ख्यातानुदेशो मा भूदिति।। किं च स्यात्?।। इह न स्यात्-शिण्ढि पिण्ढि।।(झरो झरि)
-8-4-68- अ अ इति(1)
किमर्थमिदमुच्यते?।। अकारोऽयमक्षरसमाम्नाये विवृत उपदिष्टस्तस्य संवृतताप्रत्यापत्तिः क्रियते।। किं पुनः कारणं विवृत उपदिश्यते?।।
।। आदेशार्थं सवर्णार्थमकारो विवृतः स्मृतः।
आकारस्य तथा ह्रस्वस्तदर्थं पाणिनेर अ।।1।।
आदेशार्थं तावत्-वृक्षाभ्याम्। देवदत्ता3। आन्तर्यतो विवृतस्य विवृतो दीर्घप्लुतौ यथा स्याताम्। सवर्णार्थं च-अकारः सवर्णग्रहणेनाऽऽकारमपि यथा गृह्णीयात् । अकारस्य तथा ह्रस्वः। तथा (च) अतिखट्वः अतिमाल इत्यत्र आकारस्य ह्रस्व उच्यमानो विवृतः प्राप्नोति, संवृतः स्यादित्येवमर्था प्रत्यापत्तिः।। अस्ति प्रयोजनमेतत्। किं
तर्हीति।। अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः।। अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधो वक्तव्यः।। खटा माला।। नैषः दोषः।। यथैव प्रकृतितः सवर्णग्रहणमेवमादेशतोऽपि भवितव्यं, तत्रान्तर्यतो ह्रस्वस्य ह्रस्वो दीर्घस्य दीर्घो भविष्यति।। आदेशस्य चानण्तावन्न सवर्णग्रहणम्।। आदेशस्य चाऽनण्त्वात्सवर्णानां ग्रहणं न प्राप्नोति।। केषाम्?।। उदात्तानुदात्तस्वरितानुनासिकानाम्। ।। सिद्धं तु तपरनिर्देशात्।। सिद्धमेतत्।। कथम्?।। तपरनिर्देशात्। तपरनिर्देशः कर्तव्यः-अद इति।।
अपर आह-।। अकार(स्य)प्रत्यापत्तौ दीर्घप्रतिषेधः।। अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधो वक्तव्यः। खट्वा माला।। नैषः दोषः।। दीर्घोच्चारणसार्मथ्यान्न भविष्यति।। इदं तर्हि-वृक्षाभ्यां प्लक्षाभ्याम्।। अत्रापि दीर्घवचनसार्मथ्यान्न भविष्यति।। इदं तर्हि-अपि काकः श्येनायते।। ननु चाऽत्रापि दीर्घवचनसार्मथ्यादेव(तत्) न भविष्यति।। अस्त्यन्यदीर्घवचने प्रयोजनम्।। किम्?।। दधीयति मधूयति(1)।। (।। आदेशस्य चानण्त्वात्सवर्णाग्रहणम्।।)।। आदेशस्य चाऽनण्त्वात्सवर्णानां ग्रहणं न प्राप्नोति।। केषाम्?।। उदात्तानुदात्तस्वरितानुनासिकानाम्।। सिद्धं तु तपरनिर्देशात्।। सिद्धमेतत्।। कथम्?।। तपरनिर्देशात्। तपरनिर्देशः कर्तव्यः। अददिति।। एकशेषनिर्देशाद्वा स्वरानुनासिकभिन्नानां(1) भगवतः पाणिनेः(2) सिद्धम्।। एकशेषनिर्देशाद्वा स्वरभिन्नानां भगवतः पाणिनेराचार्यस्य सिद्धम्। एकशेषनिर्देशोऽयम्-अ अ(3)अ इति।
इति श्रीमद्भगवत्पतञ्जलि(मुनि)विरचिते व्याकरणमहाभाष्येऽष्टमस्याऽध्यायस्य चतुर्थे पादे प्रथममाह्निकम्।। चतुर्थः पादोऽष्टमोऽध्यायश्च समाप्तः।
-9-9-999-