सामग्री पर जाएँ

महाभारतम्-04-विराटपर्व-061

विकिस्रोतः तः
← विराटपर्व-060 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-061
वेदव्यासः
विराटपर्व-062 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनेन युगपद्द्रोणादिभिः सह यद्धम् ।। 1 ।।









वैशंपायन उवाच।

4-61-1x

एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः।
आजगाम महाबाहुः कृपः शस्त्रभृतांवरः ।
अर्जुनं प्रतियोद्धुं वै युद्धकामो महारथः।

4-61-1a
4-61-1b
4-61-1c

अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम् ।
आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम् ।।

4-61-2a
4-61-2b

तौ वीर सूर्यसंकाशौ योत्स्यमानौ महारथौ।
वाषिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ।।

4-61-3a
4-61-3b

श्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः।
अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया ।।

4-61-4a
4-61-4b

कृपश्च धनुरादाय तथैवार्जुनमभ्यगाम् ।।

4-61-5a

प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान्।
कृपः पार्थाय चिक्षेप शंतशोऽथ सहस्रशः ।।

4-61-6a
4-61-6b

जीमूत इव धर्मान्ते शरवर्पं विमुञ्चति ।
नन्दयन्सुहृदः सर्वान्प्रत्ययुध्यत फल्गुनम् ।।

4-61-7a
4-61-7b

विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः।
चचार समरे पार्थश्चित्रमार्गान्विदर्शयन् ।।

4-61-8a
4-61-8b

सर्वाश्चैव दिशो बाणैः प्रदिशश्च महाबलः ।
एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः ।।

4-61-9a
4-61-9b

प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ।
उद्गतः समरे मेघो धाराभिरिव पर्वतम् ।।

4-61-10a
4-61-10b

स शरैरर्पितः ऋद्धः शितैरग्निशिखोपमैः ।
कृपो बभूव समरे विधूमोऽग्निरिव ज्वलंम् ।।

4-61-11a
4-61-11b

ततः शरसहस्रेण पार्थमप्रतिमौजसम् ।
अर्दयित्वा महाबाहुर्ननाद समरे कृपः ।।

4-61-12a
4-61-12b

ततः कनकपुङ्खेन शरेण नतपर्वणा।
बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम् ।।

4-61-13a
4-61-13b

ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् ।
जग्राह समरे पार्थो भूयो बहुशिलीमुखान् ।।

4-61-14a
4-61-14b

तैस्तदातीं महाबाहुः कृपस्य रथरक्षिणः ।
जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथान् ।।

4-61-15a
4-61-15b

चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तद।
मुञ्जमौलिश्च विक्रान्तो हेमवर्णो भयावहः ।।

4-61-16a
4-61-16b

सुरथोऽतिरथश्चैव सुपेणोऽरिष्ट एव च।
नृकेतुश्च सहानीकास्ते निषेदुर्गतासवः ।।

4-61-17a
4-61-17b

तान्निहत्य ततः पार्थो निमेपादिव भारत ।
पुनरन्यान्समाधत्त त्रयोदश शिलीमुखान् ।।

4-61-18a
4-61-18b

अथास्य युगमेकेन चतुर्भिश्चतुरो हयान्।
षष्ठेन तु शिरः सङ्ख्ये कृपस्य रथसारथेः ।।

4-61-19a
4-61-19b

त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः ।
द्वादशेन तु भल्लेन कृपस्य सशरं धनुः ।।

4-61-20a
4-61-20b

छित्त्वा वज्रनिकाशेन फल्गुनः प्रहसन्निव।
त्रयोदशेनेन्द्रसमः प्रत्यविध्यत्स्तनान्तरे ।।

4-61-21a
4-61-21b

स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् ।
चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे ।।

4-61-22a
4-61-22b
4-61-22c

तामर्जुनस्तथारूपां शक्तिं हेमपरिष्कृताम्।
रुरोध सायकैस्तीक्ष्णैरर्धचन्द्रमुखैश्च ताम् ।।

4-61-23a
4-61-23b

आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः।
सापतद्दशधा भूमौ पार्थेन निहता शरैः ।।

4-61-24a
4-61-24b

शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः।
गदापाणिरवप्लुत्य रथात्तूर्णममित्रहा।
गदां चिक्षेप सहसा पार्थायामिततेजसे ।।

4-61-25a
4-61-25b
4-61-25c

सा च मुक्ता गदा गुर्वी रूपेणास्य परिष्कृता ।
अर्जुनस्य शरैर्नुन्ना प्रतिमार्गं जगाम सा ।।

4-61-26a
4-61-26b

अथ खङ्गं समुद्धृत्य शतचन्द्रं च भानुमत्।
इयेष पाण्डवं हन्तुं कृपो लघुपराक्रमः ।।

4-61-27a
4-61-27b

स शरद्वत्सुतस्तूर्णं महाचार्यः सुशिक्षितः ।
खेचरेव चचारकैः क्रमाच्चर्मासिधृग्भुवि ।।

4-61-28a
4-61-28b

ततः क्षुरप्रैः कौन्तेयो दशभिः खङ्गचर्मणी ।
निमेषादिव चिच्छेद तदद्भुतमिवाभवत् ।।

4-61-29a
4-61-29b

विषण्णवदमस्तत्र विनाशात्खङ्गचर्मणोः।
दन्तैर्दन्तच्छदान्दष्ट्वा चुकोप हृदि दीर्घवत् ।।

4-61-30a
4-61-30b

भवत्विति पुनश्चोक्त्वा युद्धापगमनोद्यतः।
अश्वत्थाम्नस्तु स रथं कृपः समभिपुप्लुवे।
स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः ।।

4-61-31a
4-61-31b
4-61-31c

एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत्।
दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम् ।।

4-61-32a
4-61-32b

एकैकमस्मान्संग्रामे पराजयति फल्गुनः।
अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च।
अन्ये च बहवः शूरा वयं जेष्याम वासविम् ।।

4-61-33a
4-61-33b
4-61-33c

समागम्य ततः सर्वे भीष्मद्रोणमुखा रथाः।
अर्जुनं सहसा युक्ताः प्रत्ययुध्यन्त भारत ।।

4-61-34a
4-61-34b

स सायकमयैर्जालैः सर्वतस्तान्महारथान्।
प्राच्छादयच्छरौघैस्तान्नीहार इव पर्वतान् ।।

4-61-35a
4-61-35b

नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ।।

4-61-36a
4-61-36b

नागाश्वकायान्निर्भिद्य लौहानि कवचानि च।
पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ ।।

4-61-37a
4-61-37b

त्वरमाणः शरानस्यन्पाण्डवस्तु प्रकाशते।
मध्यंदिनगतोऽर्चिष्माञ्छरदीव दिवाकरः।।

4-61-38a
4-61-38b

अविषह्य शरान्सर्वे पार्थचापच्युपान्रणे।
उदक्प्रयान्ति विध्वस्ता रथेभ्यो रथिनस्तदा।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः।।

4-61-39a
4-61-39b
4-61-39c

शरैस्तु ताड्यमानानां कवचानां महात्मनाम्।
ताम्रराजतलौहानां प्रादुरासीन्महास्वनः।।

4-61-40a
4-61-40b

छन्नमायोधनं जज्ञे शरीरैर्गतचेतसाम्।
श्रान्त्या गलितशस्त्राणां पततामश्वसादिनाम्।।

4-61-41a
4-61-41b

शून्यान्कुर्वन्रथोपस्थान्मानवैरास्तृणोन्महीम्।
प्रनृत्यन्निव संग्रामे चापहस्ते धनंजयः।।

4-61-42a
4-61-42b

शिरांस्यपातयत्सङ्ख्ये क्षत्रियाणां नरर्षभः।
श्रुत्वा गाण्डीवनिर्घोषं विष्णूजितमिवाशने।
त्रस्तानि सर्वसैन्यानि व्यलीयन्त च भागश।।

4-61-43a
4-61-43b
4-61-43c

कुण्डलोष्णीषधारीणि जातरूपस्रजानि च।
पतितानि स्म दृश्यन्ते शिरांसि करणमूर्धनि ।।

4-61-44a
4-61-44b

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः।
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ।।

4-61-45a
4-61-45b

शिरसां पात्यमानानां समरे निशितैः शरैः।
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ।।

4-61-46a
4-61-46b

दर्शयित्वा तदाऽऽत्मानं रौद्रं रौद्रपराक्रमः।
जघान समरे शूराञ्छतशोऽथ सहस्रशः ।।

4-61-47a
4-61-47b

तथावरुद्धश्चारण्ये दशवर्षाणि त्रीणि च।
क्रोधाग्निमुत्ससर्जाजौ धार्तराष्ट्रेषु पाण्डवः ।।

4-61-48a
4-61-48b

तस्य तद्दहतः सैन्यं दृष्ट्वा चास्य पराक्रमम्।
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य भारत ।।

4-61-49a
4-61-49b

यथा नलवनं नागः प्रभिन्नः षष्टिहायनः।
एवं सर्वानपामृद्रादर्जुनः शस्त्रतेजसा ।।

4-61-50a
4-61-50b

विद्राव्य च ततः सैन्यं त्रासयित्वा महारथान्।
अर्जुनो जयतांश्रेष्ठः पर्यावर्तत भारत ।।

4-61-51a
4-61-51b

तस्य मार्गान्विचरतो निघ्नतश्च रणाजिरे ।
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ।।

4-61-52a
4-61-52b

अस्थिशैवालसंबाधां संग्रामे पार्थनिर्मिताम् ।
शरचापप्लवां घोरां मांसशोणितकर्दमाम् ।।

4-61-53a
4-61-53b

रथोडुपां चान्त्रसर्पां केशशैवालशाड्वलाम्।
करवालासिपाठीनां चामरोष्णीषफेनिलाम् ।।

4-61-54a
4-61-54b

अश्वग्रीवामहावर्तां कबन्धजलमानुषाम्।
काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम् ।।

4-61-55a
4-61-55b

सिंहनादमहानादां शङ्खस्वनमहास्वनाम् ।
वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम् ।।

4-61-56a
4-61-56b

पदातिमत्स्यकलुषां गजशीर्षककच्छपाम्।
गोमायुगसंघुष्टां मांसमञ्जाभिकर्दमाम् ।।

4-61-57a
4-61-57b

प्रावर्तयन्नदीं घोरां पिशाचगणसेविताम् ।
अपारामनिवासां च रक्तोदां सर्वतो वृताम् ।।

4-61-58a
4-61-58b

अभीक्ष्णमकरोत्पार्थो नदीमुत्तमशोणिताम्।
गजवर्ममहाद्वीपामश्वदेहमहाशिलाम् ।।

4-61-59a
4-61-59b

पदातिदेहसंघाटां रथावलिमहातरुम्।
केशशाद्वलसंछन्नां सुतरां भीतिदां नृणाम् ।।

4-61-60a
4-61-60b

अगाधरक्तोदवहां यमसागरगामिनीम्।
दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप।
प्रावर्तयन्नदीमेवं भीषणां पाकशासनिः ।।

4-61-61a
4-61-61b
4-61-61c

तस्याददानस्य शरान्सन्दधानस्य मुञ्चतः।
विकर्षतश्च गाण्डीवं न किंचिद्ददृशेऽन्तरम् ।।

4-61-62a
4-61-62b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि एकषष्टितमोऽध्यायः ।।

4-61-28 स्वेचरः इवेतिच्छेदः ।।

विराटपर्व-060 पुटाग्रे अल्लिखितम्। विराटपर्व-062