सामग्री पर जाएँ

महाभारतम्-04-विराटपर्व-051

विकिस्रोतः तः
← विराटपर्व-050 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-051
वेदव्यासः
विराटपर्व-052 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कर्णकृतद्रोणकृपाधिक्षेपसंक्रुद्धमश्वत्थामानं प्रति भीष्मेण द्रोणादिप्रशंसनपूर्वकं परिसान्त्वनम् ।। 1 ।। दुर्योधनेन भीष्मकर्णाभ्यां सह कृपद्रोणक्षमापनम् ।। 2 ।।




वैशंपायन उवाच।

4-51-1x

ततः शान्तनवस्तत्र धर्मार्थकुशलं हितम् ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ।।

4-51-1a
4-51-1b

साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति ।
आचार्यपुत्रः सहजं निश्चितं साधु भाषते ।।

4-51-2a
4-51-2b

कर्णस्तु क्षत्रधर्मेण केवलं योद्धुमिच्छति।
आचार्यो नावमन्तव्यः पुरुषेण विजानता।
देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः ।।

4-51-3a
4-51-3b
4-51-3c

यस्य सूर्यसमाः प़ञ्च सपत्नाः स्युः प्रहारिणः।
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ।।

4-51-4a
4-51-4b

स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः ।
तस्मात्तत्वं न जानाति यत्तु कार्यं नराधिपः ।।

4-51-5a
4-51-5b

धार्तराष्ट्रोपि दुर्बुद्धिः पश्यन्नपि धनञ्जयम् ।
नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः ।।

4-51-6a
4-51-6b

वैशंपायन उवाच।

4-51-7x

एवमुक्त्वा तु राजानं पुनर्द्रौणिमुवाच ह।
प्राञ्जलिर्भरतश्रेष्ठः साम्ना बुद्धिमतांवरः ।।

4-51-7a
4-51-7b

कर्णो हि यदवोचत्त्वां तेजस्संजननाय तत्।
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ।।

4-51-8a
4-51-8b

नायं कालो विरोधस्य कौन्तेये समुपस्थिते ।
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ।।

4-51-9a
4-51-9b

भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा ।
यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते ।
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ।।

4-51-10a
4-51-10b
4-51-10c

चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते।
नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुम।
अन्यत्र भारताचार्यात्सुपुत्रादिति मे मतिः ।।

4-51-11a
4-51-11b
4-51-11c

वेदान्ताश्च पुराणानि इतिहासं पुरातनम् ।
जामदग्न्यमृते राजन्को द्रोणादधिको भवेत् ।।

4-51-12a
4-51-12b

ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ।।

4-51-13a

आचार्यपुत्रः क्षमतां नायं कालो विभेदने ।
सर्वे संहत्य युद्ध्यामः पाकशासनिमागतम् ।।

4-51-14a
4-51-14b

बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः ।
मुख्यो भेदोहि तेषां तु पापिष्ठो विदुषां मतः ।।

4-51-15a
4-51-15b

अश्वत्थामोवाच।

4-51-16x

नैवं न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ ।
किंतु रोषपरीतेन गुरुणा भाषिता गुणाः ।।

4-51-16a
4-51-16b

शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि ।
सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् ।।

4-51-17a
4-51-17b

आचार्य एष क्षमतां शान्तिरत्र विधीयताम् ।
अभिद्यमाने तु गुरौ निवृत्तं रोषकारितम् ।।

4-51-18a
4-51-18b

वैशंपायन उवाच।

4-51-19x

ततो दुर्योधनो द्रोणं क्षमयामास भारत।
सह कर्णेन भीष्मेण कृपं चैव महाबलम् ।।

4-51-19a
4-51-19b

द्रोण उवाच।

4-51-20x

यदेतत्प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत्।
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ।।

4-51-20a
4-51-20b

यथा दुर्योधनं पार्थो नोपसर्पति संगरे।
साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ।।

4-51-21a
4-51-21b

वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः ।
धनं चालभमानोऽत्र नाद्य तत्क्षन्तुमर्हति ।।

4-51-22a
4-51-22b

यथा नायं समायुञ्ज्याद्धार्तराष्ट्रं कथंचन ।
न च सेनां पराजय्यात्तथा नीतिर्विधीयताम् ।।

4-51-23a
4-51-23b

उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् ।
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ।।

4-51-24a
4-51-24b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि एकपञ्चाशोऽध्यायः ।। 51 ।।

4-51-21 यथा दुर्योधनो राजा न गच्छेत्कांचिदापदमिति टo थo पाठः। यथा नायशसा युक्तो धार्तराष्ट्रः कथंचनेति धo पाठः ।। 21 ।।

।। एकपञ्चाशोऽध्यायः ।। 51 ।।

विराटपर्व-050 पुटाग्रे अल्लिखितम्। विराटपर्व-052