महाभारतम्-04-विराटपर्व-046
← विराटपर्व-045 | महाभारतम् चतुर्थपर्व महाभारतम्-04-विराटपर्व-046 वेदव्यासः |
विराटपर्व-047 → |
महाभारतस्य पर्वाणि |
---|
द्रोणेनार्जुनशङ्खनादादिना तस्यार्जुनत्वनिर्धारणेन दुर्योधनंप्रति तन्निवेदनपूर्वकं दुर्निमित्तप्रदर्शनम् ।। 1 ।।
वैशंपायन उवाच। | 4-46-1x |
भारद्वाजस्ततो द्रोणः सर्वशस्त्रभृतांवरः। | 4-46-1a 4-46-1b |
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते। | 4-46-2a 4-46-2b |
औत्पातिकमिदं राजन्निमित्तं भवतीह नः। | 4-46-3a 4-46-3b |
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाहनाः । | 4-46-4a 4-46-4b |
प्रत्यादित्यं च नः सर्वे मृगा घोरा नदन्ति च। | 4-46-5a 4-46-5b |
गोमायुरेष सैन्यानां रुदन्मध्येन धावति। | 4-46-6a 4-46-6b |
भवतां चैव रोमाणि प्रहृष्टानीव लक्षये ।। | 4-46-7a |
अनुष्णाङ्गाश्च संस्विन्ना जृम्भन्ते चाप्यभीक्ष्णशः । | 4-46-8a 4-46-8b 4-46-8c |
लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूमिताः । | 4-46-9a 4-46-9b |
हस्तिनश्चापि वित्रस्ता योधाश्चापि वितत्रसुः । | 4-46-10a 4-46-10b |
विषण्णमुखभूयिष्ठाः सर्वे योधा विचेतसः । | 4-46-11a 4-46-11b |
मृगाश्च पक्षिणश्चैव सव्यमेव पतन्ति नः। | 4-46-12a 4-46-12b 4-46-12c |
यथा मेघस्य निनदो गम्भीरस्तूर्णमायतः। | 4-46-13a 4-46-13b |
अश्वानां स्वनतां शब्दो वहतां पाकशासनिम् । | 4-46-14a 4-46-14b |
शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ । | 4-46-15a 4-46-15b |
राजानमग्रतः कृत्वा दुर्योधनमरिन्दमम्। | 4-46-16a 4-46-16b 4-46-16c |
शितैर्बाणैः प्रताप्येमां चमूमेष धनञ्जयः। | 4-46-17a 4-46-17b |
न ह्येष शक्यो बीभत्सुर्जेतुं देवासुरैरपि । | 4-46-18a 4-46-18b |
।। इति श्रीमन्महाभारते विराटपर्वणि |
विराटपर्व-045 | पुटाग्रे अल्लिखितम्। | विराटपर्व-047 |