महाभारतम्-04-विराटपर्व-004

विकिस्रोतः तः
← विराटपर्व-003 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-004
वेदव्यासः
विराटपर्व-005 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

युधिष्ठिरंप्रति नकुलेन विराटनगरे अश्वपालकतया स्वस्य निवासकथनम् ।।1 ।।
सहदेवेन गोपालकतया स्वस्य निवासकथनम् ।। 2 ।।
द्रौपद्या सैरन्ध्रीभावेन स्वस्य निवासकथनम् ।। 3 ।।








वैशंपायन उवाच ।

4-4-1x

इत्येवमुक्त्वा पुरुषप्रवीरस्तथार्जुनो धर्मामृतां वरिष्ठः।
वाक्यं तथासौ .... भूयो नृपोऽपरं भ्रातर...बभाषे

4-4-1a
4-4-1b

किंकर्मा किंसमाचारो नकुलोयं भविष्यति।
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ।।

4-4-2a
4-4-2b

अदुःखार्हश्च बालश्च लालितश्चापि नित्यशः ।
सोयमार्तश्च शान्तश्च किं नु रोचयतात्त्विह ।।

4-4-3a
4-4-3b

किं त्वं नकुल कुर्वाणस्तस्य तात चरिष्यसि।
कर्म तत्त्वं समाचक्ष्व राज्ये तस्य महीपतेः ।।

4-4-4a
4-4-4b

नकुल उवाच।

4-4-5x

अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः।
दामग्रन्थीति नाम्नाऽहं कर्मैतत्सुप्रियं मम ।।

4-4-5a
4-4-5b

दामग्नन्थी परिज्ञातः कुशलो दामकर्मणि ।
न मां परिभविष्यन्ति जना जात्विह कर्हिचित् ।।

4-4-6a
4-4-6b

कुशलोत्स्म्यश्वशिक्षायां तथैवाश्वचिकित्सने।
प्रियाश्च सततं मेऽश्वाः कुरुराजा यथा तव।।

4-4-7a
4-4-7b

न मां परिभविष्यन्ति किशोरा वडवास्तथा ।
न दुष्टाश्च भविष्यन्ति पृष्ठे धुरि च मद्गताः ।।

4-4-8a
4-4-8b

द्रक्ष्यन्ति ये च मां केचिद्विराटनगरे जनाः ।
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ।।

4-4-9a
4-4-9b

पाण्डवेन ह्यहं तात अश्वेष्वधिकृतः पुरा।
इति तस्य पुरे छन्नश्चरिष्यामि महीपते ।
इत्येतद्वः प्रतिज्ञातं विहरिष्याम्यहं यथा ।।

4-4-10a
4-4-10b
4-4-10c

वैशंपायन उवाच।

4-4-11x

नकुलेनैवमुक्तस्तु धर्मराजोऽब्रवीद्वचः।
बृहस्पतिसमो बुद्ध्या नयेनोशनसा समः ।।

4-4-11a
4-4-11b

मन्त्रैर्नानाविधैर्नीतः पथ्येषु परिनिष्ठितः ।
सुप्रणीतः सुमार्गस्थो राजतन्त्रमवाप यः ।।

4-4-12a
4-4-12b

न चास्य स्खलितं किंचिद्ददृशुस्तद्विदो जनाः।
सुनीतिज्ञश्च शूरश्च सर्वमन्त्रविशारदः ।।

4-4-13a
4-4-13b

अधिको मातुरस्माकं कुन्त्याः प्रियतमः सदा।
सहदेव कथं कर्म तस्य राज्ञः करिष्यसि।
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ।।

4-4-14a
4-4-14b
4-4-14c

सहदेव उवाच।

4-4-15x

गोसङ्ख्याता भविष्यामि विराटस्येति रोचये।
प्रतिभोक्ता च दोग्धा च सङ्ख्यानकुशलो गवाम्।
तन्त्रीपालेति मे नाम स्वयं प्रोक्तं भविष्यति।।

4-4-15a
4-4-15b
4-4-15c

अयोगा बहुलाः पुष्टाः क्षीरवत्यो बहुप्रजाः ।
निष्पन्नसत्त्वाः सुभृता ह्यपेतज्वरकिल्विषाः ।।

4-4-16a
4-4-16b

दृष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः ।
गावः सुसहिता राजन्निरुद्विग्ना निरामयः ।।

4-4-17a
4-4-17b

भविष्यन्ति मया गुप्ता विराटनगरे तदा।
निपुणत्वं चरिष्यामि प्रीतिरत्र परा हि मे ।।

4-4-18a
4-4-18b

अहं हि भवता गोषु प्रहितः सतत पुरा।
तत्र मे कौशलं सर्वमनुबद्धं विशांपते ।।

4-4-19a
4-4-19b

लक्षणं चरितं चैव गवां यच्चापि मङ्गलम् ।
सत्सर्वं मे सुविदितमन्यच्चापि विशांपते ।।

4-4-20a
4-4-20b

वृषभानपि जानामि राजन्पूजितलक्षणान्।
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ।।

4-4-21a
4-4-21b

सोऽहमेवं चरिष्यामि प्रीतिरत्र परा हि मे।
विराटनगरे गूढो रंस्येऽहं तेन कर्मणा ।।

4-4-22a
4-4-22b

तोषयिष्ये च राजानां मा भूच्चिन्ता तवानघ ।
न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव।
इत्येतद्वः प्रतिज्ञातं विचरिष्याम्यहं यथा ।।

4-4-23a
4-4-23b
4-4-23c

युधिष्ठिर उवाच।

4-4-24x

केनात्र कर्मणा कृष्णा द्रौपदी विचरिष्यति।
न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः ।।

4-4-24a
4-4-24b

माल्यागन्धानलङ्कारान्वस्त्राणि विविधानि च।
एतान्येवाभिजानाति यथाजाता च भामिनी ।।

4-4-25a
4-4-25b

पतिव्रता महाभागा कथं नु विचरिष्यति।
इयं तु नः प्रिया भार्या प्राणेभ्योपि गरीयसी ।।

4-4-26a
4-4-26b

मातेव परिपाल्या च पूज्या ज्येष्ठा स्वसेव च ।
सुकुमारी सुशीला च राजपुत्री यशस्विनी ।
कथं वत्स्यति कल्याणी विराटनगरे सती ।।

4-4-27a
4-4-27b
4-4-27c

द्रौपद्युवाच।

4-4-28x

अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव।
यथा ते मत्कृते शोको न भवेन्नृपते शृणु।
यथा तु मां न जानन्ति यत्करिष्याम्यहं प्रभो ।।

4-4-28a
4-4-28b
4-4-28c

छन्ना वत्स्याम्यहं यन्मां न विजानन्ति केचन।
वृत्तं तच्च समाख्यास्ये शर्म तेस्तु विशांपते ।।

4-4-29a
4-4-29b

सैरन्ध्रीजातिसंपन्ना नाम्नाऽहं व्रतचारिणी ।

4-4-30a
4-4-30b

सैरन्ध्र्यो रक्षिताः स्त्रीणां भुजिष्याः सन्ति भारत ।
एकपत्न्यः स्त्रियश्चैता इति लोकस्य निश्चयः ।।

4-4-31a
4-4-31b

साऽहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि।
प्रमदाहरिका लोके पुरुषाणां प्रवासिनाम् ।।

4-4-32a
4-4-32b

युधिष्ठिरस्य वै गेहे द्रौपद्याः परिचारिका।
उषिताऽस्मीति वक्ष्यामि पृष्टा राज्ञा च भारत।
आत्मगुप्ता चरिष्यामि यन्मां त्वं परिपृच्छसि ।।

4-4-33a
4-4-33b
4-4-33c

नाहं तत्र भविष्यामि दुर्भरा राजवेश्मनि।
कृत्वा चैव सदा रक्षां व्रतेनैव नराधिप ।।

4-4-34a
4-4-34b

सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् ।
सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ।।

4-4-35a
4-4-35b

अथ गुप्ता चरिष्यामि युष्माभिस्तत्र तस्थुषी।
इत्येवं वः प्रतिज्ञातं विहरिष्याम्यहं यथा ।।

4-4-36a
4-4-36b

युधिष्ठिर उवाच।

4-4-37x

यथा नो दुर्हृदः पापा भवन्ति सुखिनः पुनः।
कुर्यास्तथा त्वं कल्याणि लक्षयेयुर्न ते जनाः ।।

4-4-37a
4-4-37b

कल्याणं भाषसे कृष्णे यथा कौलेयकी तथा।
न पापमभिजानासि साध्वी साधुव्रते स्थिता ।।

4-4-38a
4-4-38b

विराटपर्व-003 पुटाग्रे अल्लिखितम्। विराटपर्व-005