महाभारतम्-01-आदिपर्व-101अ

विकिस्रोतः तः
Jump to navigation Jump to search

वैकल्पिक अध्याय संख्या - ९० / 1.95

जनमेजय उवाच॥

श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान् ।
उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ॥१॥

किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति ।
प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ॥२॥

एतामेव कथां दिव्यामा प्रजापतितो मनोः ।
तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ॥३॥

सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् ।
विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ॥४॥

गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् ।
न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ॥५॥

वैशम्पायन उवाच॥

शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् ।
प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ॥६॥

दक्षस्यादितिः ।
अदितेर्विवस्वान् ।
विवस्वतो मनुः ।
मनोरिला ।
इलायाः पुरूरवाः ।
पुरूरवस आयुः ।
आयुषो नहुषः ।
नहुषस्य ययातिः । ००७ ।
ययातेर्द्वे भार्ये बभूवतुः ।
उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम ।
अत्रानुवंशो भवति । ००८ ।

यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥९॥

तत्र यदोर्यादवाः ।
पूरोः पौरवाः । ०१० ।
पूरोर्भार्या कौसल्या नाम ।
तस्यामस्य जज्ञे जनमेजयो नाम ।
यस्त्रीनश्वमेधानाजहार ।
विश्वजिता चेष्ट्वा वनं प्रविवेश । ०११ ।
जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् ।
तस्यामस्य जज्ञे प्राचिन्वान् ।
यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् ।
ततस्तस्य प्राचिन्वत्वम् । ०१२ ।
प्राचिन्वान्खल्वश्मकीमुपयेमे ।
तस्यामस्य जज्ञे संयातिः । ०१३ ।
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे ।
तस्यामस्य जज्ञे अहम्पातिः । ०१४ ।
अहम्पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम ।
तस्यामस्य जज्ञे सार्वभौमः । ०१५ ।
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम ।
तस्यामस्य जज्ञे जयत्सेनः । ०१६ ।
जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम ।
तस्यामस्य जज्ञे अराचीनः । ०१७ ।
अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम ।
तस्यामस्य जज्ञे महाभौमः । ०१८ ।
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम ।
तस्यामस्य जज्ञे अयुतनायी ।
यः पुरुषमेधानामयुतमानयत् ।
तदस्यायुतनायित्वम् । ०१९ ।
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम ।
तस्यामस्य जज्ञे अक्रोधनः । ०२० ।
अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे ।
तस्यामस्य जज्ञे देवातिथिः । ०२१ ।
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम ।
तस्यामस्य जज्ञे ऋचः । ०२२ ।
ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम ।
तस्यां पुत्रमजनयदृक्षम् । ०२३ ।
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम ।
तस्यां पुत्रं मतिनारं नामोत्पादयामास । ०२४ ।
मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार । ०२५ ।
निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास ।
तस्यां पुत्रमजनयत्तंसुं नाम । ०२६ ।
अत्रानुवंशो भवति । ०२७ ।

तंसुं सरस्वती पुत्रं मतिनारादजीजनत् ।
इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ॥२८॥

इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् । ०२९ ।
दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे ।
तस्यामस्य जज्ञे भरतः ।
तत्र श्लोकौ भवतः । ०३० ।

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥३१॥

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥३२॥

ततोऽस्य भरतत्वम् । ०३३ ।
भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम ।
तस्यामस्य जज्ञे भुमन्युः । ०३४ ।
भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम ।
तस्यामस्य जज्ञे सुहोत्रः । ०३५ ।
सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम ।
तस्यामस्य जज्ञे हस्ती ।
य इदं हास्तिनपुरं मापयामास ।
एतदस्य हास्तिनपुरत्वम् । ०३६ ।
हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम ।
तस्यामस्य जज्ञे विकुण्ठनः । ०३७ ।
विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम ।
तस्यामस्य जज्ञेऽजमीढः । ०३८ ।
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति ।
पृथक्पृथग्वंशकरा नृपतयः ।
तत्र वंशकरः संवरणः । ०३९ ।
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे ।
तस्यामस्य जज्ञे कुरुः । ०४० ।
कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम ।
तस्यामस्य जज्ञे विडूरथः । ०४१ ।
विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम ।
तस्यामस्य जज्ञेऽरुग्वान्नाम । ०४२ ।
अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम ।
तस्यामस्य जज्ञे परिक्षित् । ०४३ ।
परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम ।
तस्यामस्य जज्ञे भीमसेनः । ०४४ ।
भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम ।
तस्यामस्य जज्ञे पर्यश्रवाः ।
यमाहुः प्रतीपं नाम । ०४५ ।
प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम ।
तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति । ०४६ ।
देवापिः खलु बाल एवारण्यं प्रविवेश ।
शन्तनुस्तु महीपालोऽभवत् ।
अत्रानुवंशो भवति । ०४७ ।

यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते ।
पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥४८॥

तदस्य शन्तनुत्वम् । ०४९ ।
शन्तनुः खलु गङ्गां भागीरथीमुपयेमे ।
तस्यामस्य जज्ञे देवव्रतः ।
यमाहुर्भीष्म इति । ०५० ।
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् ।
यामाहुर्गन्धकालीति । ०५१ ।
तस्यां कानीनो गर्भः पराशराद्द्वैपायनः ।
तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः ।
चित्राङ्गदो विचित्रवीर्यश्च । ०५२ ।
तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः ।
विचित्रवीर्यस्तु राजा समभवत् । ०५३ ।
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे । ०५४ ।
विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः । ०५५ ।
ततः सत्यवती चिन्तयामास ।
दौःषन्तो वंश उच्छिद्यते इति । ०५६ ।
सा द्वैपायनमृषिं चिन्तयामास । ०५७ ।
स तस्याः पुरतः स्थितः किं करवाणीति । ०५८ ।
सा तमुवाच ।
भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः ।
साध्वपत्यं तस्योत्पादयेति । ०५९ ।
स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति । ०६० ।
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य । ०६१ ।
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति । ०६२ ।
पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने । ०६३ ।
अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् ।
तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान । ०६४ ।
स बाणविद्ध उवाच पाण्डुम् ।
चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति । ०६५ ।
स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये । ०६६ ।
वाक्यं चोवाच ।
स्वचापल्यादिदं प्राप्तवानहम् ।
शृणोमि च नानपत्यस्य लोका सन्तीति । ०६७ ।
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच । ०६८ ।
सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति । ०६९ ।
स तां हृष्टरूपः पाण्डुरुवाच ।
इयं ते सपत्न्यनपत्या ।
साध्वस्यामपत्यमुत्पाद्यतामिति । ०७० ।
स एवमस्त्वित्युक्तः कुन्त्या । ०७१ ।
ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ । ०७२ ।
माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे । ०७३ ।
स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः । ०७४ ।
तत्रैनं चितास्थं माद्री समन्वारुरोह । ०७५ ।
उवाच कुन्तीम् ।
यमयोरार्ययाप्रमत्तया भवितव्यमिति । ०७६ ।
ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः । ०७७ ।
तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन । ०७८ ।
ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः । ०७९ ।
तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः । ०८० ।
तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः । ०८१ ।
पुत्रांश्चोत्पादयामासुः ।
प्रतिविन्ध्यं युधिष्ठिरः ।
सुतसोमं वृकोदरः ।
श्रुतकीर्तिमर्जुनः ।
शतानीकं नकुलः ।
श्रुतकर्माणं सहदेव इति । ०८२ ।
युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे ।
तस्यां पुत्रं जनयामास यौधेयं नाम । ०८३ ।
भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् ।
तस्यां पुत्रं सर्वगं नामोत्पादयामास । ०८४ ।
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् ।
तस्यां पुत्रमभिमन्युं नाम जनयामास । ०८५ ।
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् ।
तस्यां पुत्रं निरमित्रं नामाजनयत् । ०८६ ।
सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे ।
तस्यां पुत्रमजनयत्सुहोत्रं नाम । ०८७ ।
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास । ०८८ ।
इत्येते एकादश पाण्डवानां पुत्राः । ०८९ ।
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे ।
तस्यामस्य परासुर्गर्भोऽजायत । ०९० ।
तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य ।
षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति । ०९१ ।
सञ्जीवयित्वा चैनमुवाच ।
परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति । ०९२ ।
परिक्षित्तु खलु माद्रवतीं नामोपयेमे ।
तस्यामस्य जनमेजयः । ०९३ ।
जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च । ०९४ ।
शतानीकस्तु खलु वैदेहीमुपयेमे ।
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः । ०९५ ।

इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः ।
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥९६॥ 1.95.87-90