महाप्रतिसराविद्याराज्ञी

विकिस्रोतः तः
महाप्रतिसराविद्याराज्ञी
[[लेखकः :|]]


महाप्रतिसराविद्याराज्ञी


नमो भगवत्यै आर्यमहाप्रतिसरायै । नमः सम्यक्संबुधेभ्यः ॥

एवं मया श्रुतमेकस्मिन् समये भगवान् वज्रमेरुशिखरकुटागारे विहरति स्म । महावज्रसमाधिभूमिप्रतिस्थाने महावज्रकल्पवृक्षसमलंकृते । महावज्रपुष्किरिणीरत्नपद्मप्रभोद्भासिते । महावज्रवालिकासंस्कृतभूमिभागे । महावज्राधिष्ठाने । महावज्रमण्डलमाडे । शक्रस्य देवानामिन्द्रस्य भवने । महावज्रसिंहासनकोटीनियुतशतसहस्रविराजिते । धर्मदेशनाप्रतिभानप्रातिहार्यसमन्वागते । सर्वबुद्धाधिष्ठानाधिष्ठिते सर्वधर्मसमताप्रवेशे सर्वज्ञतानिर्याते । चतुरशीतिभिर्बोधिसत्वकोटीनियुतशतसहस्रैः सार्धम् । सर्वैरेकजातिभिरवैवर्तिकैरनुत्तरायां सम्यक्संबोधौ महास्थामप्राप्तैर्महावज्रविमोक्षसमाधिबुद्धक्षेत्रविकुर्वणमहाप्रातिहार्यसंदर्शकैः । एकचित्रक्षणभवमुहूर्तसर्वसत्वचित्तचरितानुप्रवेशविचित्रमधुरोदारगम्भीरधर्मदेशनाप्रतिभानप्रातिहार्यसंदर्शकैरनेकबुद्धक्षेत्रतथागतमहापूजमेघार्चनाविमोक्षमुखधारणीसमाधिवशिताभिज्ञावएणिकबोध्यङ्गमार्गभूमिपारमितोपायकौशल्यसंग्रहवस्त्रमहामैत्रीकरुणामुदितोपेक्षामैत्रीबलविविक्तपर्यवदातचित्तसंतानैः ॥

तद्यथा । वज्रगर्भेण च बोधिसत्वेन महासत्वेन । वज्रनेत्रेण च । वज्रगात्रेण च । वज्रमतिना च । वज्रहस्तेन च । वज्रसंहतेन च । वज्रनारायणेन च । वज्रविकुर्वितेन च । वज्रकूतेन च । वज्रराशिना च । वज्राङ्कुशेन च । सुवज्रेण च । वज्रसेनेन च । वज्रकेतुना च बोधिसत्वेन महासत्वेन ॥

एवं प्रमुखैर्बोधिसत्वकोटीनियुतशतसहस्रैः सार्धं संबहुलैश्च महाश्रावकैः सर्वैरर्हद्भिर्क्षीणास्रवैरुच्छिन्नभवसंयोजनैः (२) सम्यगाज्ञासुविमुक्तचित्तैः सुविमुक्तप्रज्ञैरचिन्त्यसमाधिबलप्रातिहार्यविकुर्वणमहास्थामप्राप्तैरसङ्गज्ञानदर्शिभिः । सर्वैर्विगतमलैर्निदग्धसंक्लेशवासनाबीजैः ॥

यदुतायुष्मता च शारद्वतीपुत्रेण । आयुष्मता च पूर्णमैत्रायणीपुत्रेण । आयुष्मता च कफिनेन । आयुष्मता च सुभूतिना । आयुष्मता च रेवतेन । आयुष्मता च महामौद्गल्यायनेन । आयुष्मता च चुन्देन । आयुष्मता च नन्देन । आयुष्मता च सुनन्देन । आयुष्मता च काश्यपेन । आयुष्मता च महाकाश्यपेन । आयुष्मता च नन्दीकाश्यपेन । आयुष्मता चोरुविल्वाकाश्यपेन । आयुष्मता च गयाकाश्यपेन ॥

एवं प्रमुखैः संबहुलैर्महाश्रावकैः सार्धं महेश्वरदेवपुत्रप्रमुखैश्चासंख्येयैरपरिमाणैरनभिलाष्यानभिलाष्यैः शुद्धावासकयिकैर्देवपुत्रैः ॥

ब्रह्मणा च सहापतिना । ब्रह्मकायिकदेवपुत्रप्रमुखैर्देवपुत्रैः । सुयामेन च देवपुत्रेण । सुयामकायिकदेवपुत्रपरिवारेण । संतुषितेन च देवपुत्रपरिवारेण । निर्माणरतिना च । परनिर्मितवशवर्तिना च । शक्रेण च देवानामिन्द्रेण । सर्वदेवपुत्रपरिवारेण ॥

वेमचित्रिणा चासुरेन्द्रेण । बलिना च । प्रह्लादेन च । राहुना च । वैरोचनेन च । सुबाहुना च । एवं प्रमुखैरपरिमिताप्रमेयासंख्येयैरसुरेन्द्रैः ॥

सागरेण च नागराजेन । तक्षकेन च । वासुकिना चा । शङ्खपालेन च । कर्कोटकेन च । पद्मेन च । महापद्मेन च । एवं प्रमुखैरपरिमिताप्रमेयासंख्येयैर्नागराजैः ॥

द्रुमेण च किन्नरराजेन । अनेककिन्नरपरिवारेण ॥

पञ्चशिखेन च गन्धर्वराजेन । अनेकगन्धर्वराजपरिवारेण च ॥

सर्वार्थसिद्धेन च विद्याधरराजेन । अनेकविद्याधरराजपरिवारेण ॥

(३)
सुपर्णाक्षेण च गरुडराजेन । अनेकगरुडराजपरिवारेण ॥

वैश्रमणेन च । माणिभद्रेण च । पूर्णभद्रेण च । पाञ्चिकेन च यक्षराजेन । अनेकयक्षराजपरिवारेण ॥

हारीत्या च पञ्चपुत्रशतपरिवारया । सप्तभिश्च लोकमातृभिः । सप्तभिश्च महाराक्षसीभिः सप्तभिश्च महर्षिवरैः । अन्तरीक्षचरैश्च सर्वनक्षत्रग्रहदेवतैः । दिग्भिश्च विदिग्भिश्च । पृथिव्या च सरस्वत्या च । भूतैश्च विघ्नैश्च विनायकैश्च प्रेतभूतमहर्द्धिकैः । सर्वैश्च पर्वतराजैः । वरुणेन च लोकपालेन । सर्वसमुद्रदेवतापरिवारेण । विरूढकेन च विरूपाक्षेण च दण्डपाणिना च । नैगुतेन च । जातवेदसा च । सप्तभिश्च महावायुभिः । ईशानेन च सपत्निकेन । अनेकगणकोटीनियुतशतसहस्रपरिवारेण ॥

नारायणेन च सपरिवारेण । दन्तकेन च दामकेन च लोहकेन च मोहकेन च । महागणपतिना च । मेघोल्केन च । विनायकेन्द्रेण च । अनेकविघ्नविनायकपरिवारेण ॥

षष्ट्या च कोटगिर्या च चतसृभिश्च भगिनीभिः सभ्रातृकाभिः ॥

वज्राङ्कुश्या च । वज्रशङ्करया च । चतुःषष्टिभिश्च वज्रहूतीभिः । वज्रसेनेन च सुबाहुना च । मूर्धटकेन च । अनेकवज्रकुलपरिवारेण ॥

तदन्यैश्च बुद्धधर्मसंघाभिप्रसन्नैः । अपरिमिताप्रमेयासंख्येयैर्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगभूतप्रेतपिशाचोन्मार्दापस्मारसाध्यसाहिल्लकोष्टरकैः ॥

सूर्येण च देवपुत्रेण । चन्द्रेण च देवपुत्रेण । सुचन्द्रेण च देवपुत्रेण । सन्ध्यया च देवतया । उषसा च देवतया । सर्वैश्च गन्तुभिः । रोदसिन्या च देवतया । प्रजापत्या च देवतया सार्धम् ॥

इत्यपि च भगवान् सुप्रवर्तितधर्मचक्रः सुपरिनिष्ठितबुद्धकार्यः सुपरिपूर्णपुण्यज्ञानसंभारः सुपरिगृहीतसर्वज्ञतामहाबोधिपारमिताभूमिलाभोज्ज्वलितद्वात्रिंशत्महापुरुषलक्षणालंकृतशरीरश्(४) चतुरशीत्यनुव्यञ्जनविराजितः सर्वाङ्गावयवशोभः सर्वसत्वानवलोकितमूर्धानिर्जितः सर्वमारकर्मकोविदः सर्वसत्वज्ञानपञ्चविधचक्षुः सर्वाकारवरोपेतः सर्वज्ञज्ञानसमन्वागतः सर्वबुद्धधर्मसमन्वागतः । सर्वमारपरप्रमादिकुगणिगणप्रमथन उद्गतकीर्तिशब्दश्लोक आर्षभसिंहनादंनदी समुच्छिन्नाविद्यान्धकारोऽसंख्येयापरिमाणकोटीनियुतशतसहस्रदानशीलक्षान्तिवीर्यध्यानप्रज्ञोपायबलप्रणिधानपारमितादुष्करचर्याविनिवर्तितद्वात्रिंशत्महापुरुषलक्षणचतुरशीत्यनुव्यञ्जनगात्रशोभः । महावज्ररत्नपद्मगर्भसिंहासने निषण्णः । अनेकवज्ररत्नवेदिकासंस्कृतपादपीठसुप्रतिष्ठिते । अनेकवज्ररत्नमकरमुखोद्गीर्णलोहितमुक्तावलीनिबद्धगन्धायके । अनेकवज्ररत्नमुक्तकिङ्किणीजालकलुकलोन्नादिते । अनेकवज्ररत्नकर्णिकाविलग्नकर्केतनमहाकर्केतनेन्द्रनीलपुष्परागरश्मिजालावभासितसमन्तप्रसादिके । अनेकवज्ररत्नशलाकाविभूषितोद्दण्डातपत्रकोटीनियुतशतसहस्रकृतच्छायापरिकरे । अनेककल्पवृषद्रुमोपशोभितविस्तारे सुमेरुमात्रे वज्ररत्नपद्मासने निषण्णः । काञ्चनपर्वतराज इव श्रिया ज्वलनसूर्यसहस्राभिरेकप्रभामण्डलविराजित भूमिभागः । सुपरिपूर्णचन्द्रमण्डल इव सर्वलोकप्रियदर्शनो महाकल्पवृक्ष इव बुद्धधर्मैः संकुसुमितो धर्मं देशयति स्म ॥

आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म ॥

अथ खलु भगवान्मूर्ध्न ऊर्णकेशात्सर्वबुद्धसंदर्शनं नाम रश्मिजालं प्रमुञ्चति स्म । तेन च रश्मिज्वालेनायं त्रिसाहस्रमहासाहस्रलोकधातुरवभासितः । स्फुटीकृतोऽभूत् । यावन्ति च गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि च सर्वाणि तेनावभासेन स्फुटीकृतान्यवभासितान्यभूवन् । ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तोऽनेकसिंहासनकोटीनियुतशतसहस्रव्यूहकूटागारविमानेषु धर्मं दर्शयति स्म । सार्धं (५) महाश्रावकैर्बोधिसत्वैर्भिक्षुभिक्षुण्युपासकोपासिकाभिर्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगैः सार्धम् ॥

अथ खलु भगवांस्तां विस्तीर्णां परिषदामामन्त्रयते स्म ॥

अथातो महाप्रतिसरां महाविद्यां प्रवक्षामि सर्वसत्वानुकम्पया ।

धारणी दुष्कृतस्यैव सर्वदुष्टप्रमर्दनी ।
यस्याश्रवणमात्रेण पापा गच्छन्ति संक्षयम् ॥
सुखदा सर्वसत्वानां सर्वव्याधिप्रमोचनी ।
कारुण्यात्सर्वसत्वानां लोकनाथेन भाषिता ॥
परित्राणाय सर्वेषां देहिनां पापकारिणाम् ।
अनया कृतरक्षस्तु प्रविशेदसुरालयम् ॥
अडकवतीं तथा गच्छेद्यक्षाणामालयं भुवि ।
भूतनागपिशाचानां युद्धे भैरवदारुणे ॥
अधृष्यः सर्वशत्रूणां सर्वभूतगणैरपि ।
ग्रहा सर्वे विनश्यन्ति नाम ग्रहणकीर्तनैः ॥
स्कन्धोन्मादा अपस्माराः पिशाचा डाकिणीग्रहाः ।
ओजोभक्षा महातेजा हिंसन्ते मानुषीप्रजाम् ॥
ते सर्वे स्तम्भिता भोन्ति प्रतिसरायास्तु तेजसा ।
परचक्रा विनश्यन्ति काखोर्दा ये च दारुणाः ॥
मन्त्रकर्मा न बाधन्ते मूलकर्माच्च मुच्यते ।
न विषं न गरं नाग्निर्न शस्त्रं नैव चोदकम् ॥
अशनिर्विद्युतश्चैव कालवायुर्न बाधते ।
सर्वशत्रून् प्रमथ्नाति विद्याराज्ञो हि तेजसा ॥
उपसर्गा विनश्यन्ति व्याधयो न भवन्त्यपि ।
सर्वेऽर्थास्तस्य सिध्यन्ति जयं प्राप्नोति नित्यशः ॥
यः कश्चिद्धारयेद्विद्यां कण्ठे बाहौ च नित्यशः ।
तस्य सर्वाणि कार्याणि सिध्यन्ते नात्र संशयः ॥
नित्यं रक्षन्ति देवेन्द्रा नागराजास्तथैव च ।
बोधिसत्वा महावीर्या बुद्धाः प्रत्येकनायकाः ॥
(६)
श्रावकाः सर्वबुद्धानां विद्यादेव्यो महाबलाः ।
रक्षां कुर्वन्ति सततं प्रतिसराधारकस्य वै ॥
वज्रपाणिश्च यक्षेन्द्रो राजानश्चतुरस्तथा ।
तस्य रक्षां करिष्यन्ति दिवा रात्रौ न संशयः ॥
शक्रश्च त्रिदेशैः सार्धं ब्रह्मा विष्णुर्महेश्वराः ।
नन्दिकेशो महाकालः कार्तिकेयो गणेश्वरः ॥
सर्वे मातृगणास्तस्य तथान्ये मारकायिकाः ।
ऋषयश्च महातेजा देवाश्चैव महर्द्धिकाः ॥
नित्यं रक्षां करिष्यन्ति प्रतिसराधारकस्य वै ।
बुद्धाश्चैव महात्मानो विद्यादेव्यो महाबलाः ॥
महावीर्या महातेजा महाबलपराक्रमाः ।
मामकी भृकुटी चैव तारादेवी तथाङ्कुशी ॥
वज्रसंकलया श्वेता महाश्वेता तथैव च ।
महाकाली च दूत्यश्च वज्रदूत्यस्तथापराः ॥
सुपाशी वज्रपाशी च चक्रपाणिर्महाबलाः ।
वज्रमाला महाविद्या तथैवामृतकुण्डलिः ॥
अपराजिता महादेवी कालकर्णी महाबलाः ।
तथा धन्या महाभागा पद्मकुण्डलिरेव च ॥
पुष्पदन्ती मणिचूडा स्वर्णकेशी च पिङ्गला ।
महातेजा महादेवी धन्या च विद्युन्मालिनी ॥
राक्षस्यैकजटा चैव बुद्धाक्षितिकनायिका ।
कापालिनी महाभागा धन्या लङ्केश्वरी तथा ॥
अन्याश्च बहवो विद्यासत्वानुग्रहकारिकाः ।
तस्य रक्षां करिष्यन्ति यस्य विद्या करे स्थिता ॥
हारीती पाञ्चिकश्चैव शङ्खिनी कूटदन्तिनी ।
श्रीदेवी सरस्वती चैव तं रक्षन्ति सदानुगाः ॥
महाप्रतिसरामेतां या स्त्री धारयते सदा ।
सर्वसिद्धिर्भवेत्तस्याः पुत्रगर्भा नित्यशः ॥
सुखं गर्भाणि वर्धन्ते सुखं प्रसूयति गुर्विणी ।
व्याधयश्चापि नश्यन्ति सर्वपापा न संशयः ॥
(७)
पुण्यवान् बलवान्नित्यं धनधान्यं प्रवर्धते ।
आदेयवचनश्चापि पूजनीयो भविष्यति ॥
शुचिर्द्वारयते यस्तु स्त्रियो वा पुरुषोऽथ वा ।
स भवेत्सर्वसत्वानां मोक्षनाथे समुदयतः ॥
सुखितश्च भवेन्नित्यं सर्वव्याधिविवर्जितम् ॥
राजानो वशगास्तस्य सान्तःपुरमहाजनाः ॥
नित्यं च ज्वलते लक्ष्म्या पुण्यराशिर्विवर्धते ।
सर्वकल्पास्तस्य सिध्यन्ति प्रविष्टः सर्वमण्डले ॥
सर्वत्र समयज्ञोऽसौ जिनस्य वचनं यथा ।
दुःस्वप्ना न प्रबाधन्ते सर्वपापहरीपराः ॥
किल्बिषाश्चैव नश्यन्ति प्रत्यमित्रास्तथैव च ।
सर्वग्रहविनाशार्थं भाषिता ज्ञानमहेश्वरैः ॥
सर्वकामंगमा ह्येषा भावयेद्यस्तु नित्यशः ।
तदिदानीं प्रवक्षामि भूतसंघा शृणोन्तु मे ॥

नमो बुद्धाय । नमो धर्माय । नमो संघाय । नमः सर्वतथागतानां नमो नमः । नमः सर्वबुद्धबोधिसत्वधर्मसंघेभ्यः ॥

तद्यथा । ओं विपुलगर्भे । विमलि जयगर्भे । ओं विपुलविमले । विमलगर्भे वज्रज्वालागर्भे गतिगहने । गगने । गगनविशोधनि । सर्वपापविशोधनि । ओं गुणवति गगनविचारिणि । गगरिणि २ गिरि २ गिरिणि २ गमरि २ गह २ गर्गारि २ गगरि २ गंभरि २ गभि २ गहि २ गमनि २ गरे २ गुरु २ गुभ २ गुह २ गुरुणिचले । गुहणि २ गुरुणे २ चुलु २ गुचिले २ जय विजय २ । सर्वभयविगते । सर्वगर्भसंरक्षणि । शिरि २ तिरि २ मिरि २ घिरि २ समन्ताकर्षणि । सर्वशत्रुप्रमथनि । रक्ष २ मां सर्वसत्वान् सर्वभयेभ्यः सर्वोपद्रवेभ्यः सर्वव्याधिभ्यः । चिरि २ विरि २ धिरि २ विगतावरणे । विशोधनि । विविधावरणविनाशनि । मुरि २ मुचि २ मुलि २ चिलि २ किलि २ मिलि २ कमले विमले । जये विजये जयावहे । जयवति विशेषवति । भगवति रत्नमुकुटमालाधरि । बहुविविधविचित्रवेशधारिणि । भगवति महाविद्यादेवि रक्ष २ (८) मां सपरिवारं सर्वसत्वांश्च समन्तान् सर्वपापविशोधनि । हुरु २ मुरु २ रक्ष २ मां सर्वसत्वांश्चानाथानत्राणानपरायणात्प्रिमोच्य सर्वदुःखेभ्यः चण्डे २ चण्डि २ चण्डिनि २ वेगवति २ सर्वदुष्टनिवारिणि । विजयवाहिणि । हुरु २ मुरु २ चुरु २ तुरु २ आयुःपालनि सुरवरप्रमथनि । सर्वदेवगणपूजिते । चिलि २ धिलि २ समन्तावलोकिते । प्रभे २ सुप्रभे । सुप्रभविशुद्धे सर्वपापविशोधनि । धुरु २ धरणिधरे धर २ सुमु २ मुसु २ रुरुचले चालय सर्वदुष्टान् पूरय मे सर्वपापविशुद्धे आशां श्रीवसुधरे जयकमले । क्षिणि २ वरदांकुशे । ओं पद्मविशुद्धे । शोधय २ शुद्धे २ भर २ भिरि २ भुरु २ मङ्गलविशुद्धे । पवित्रमुखि । खङ्गिनि २ खर २ ज्वलितशिखरे । समन्तावलोकितप्रभे । सुप्रभविशुद्धे । समन्तप्रसारितावभासशुद्धे । ज्वल २ सर्वदेवसमाकर्षणि । सत्यप्रते । ओं ह्रीत्रं तर २ तारय २ मां सर्वसत्वांश्च नागविलोकिते । लहु २ हुलु २ हुतु २ तुरु २ किणि २ क्षिणि २ हुनि २ सर्वग्रहभक्षणि । पिङ्गले २ मुरु २ मुचु २ मुसु २ मुसुरि रते । तर २ नागवलोकिते । तारय भगवति अथ महादारुणभयेभ्यः । सर्वत्र समन्तेन वज्रप्राकारवज्रपाशबन्धेन वज्रज्वालाविशुद्धे । भुरि २ भगवति गर्भसंशोधनि । कुक्षिसंपूरणि । ज्वल २ चल २ ज्वालनि । वर्षन्तु देवः समन्तेन दिव्योदकेन अमृतवर्षणि देवतावतारणि । अभिषिञ्चन्तु मां सुगतवरवचनामृतवरवपुषे रक्ष २ मां सर्वत्र सर्वदा । सर्वभयेभ्यः सर्वोपद्रवेभ्यः सर्वोपसर्गेभ्यः सर्वव्याधिभ्यः सर्वदुष्टभयभीतेभ्यः सर्वकलिकलहविग्रहविवाददुःस्वप्नदुर्निमित्तामङ्गलपापविशोधनि सर्वयक्षराक्षसनागविदारणि । चल २ बलवति । जय २ विजय २ जयतु सर्वत्र सर्वकालं सिध्यन्तु मे । इयं विद्या साधय मण्डलं घाटय विघ्नान् । जय २ सिद्धे २ सिध्य २ बुध्य २ पूरय २ पूरणि २ पूरय मे आशां सर्वविद्योद्गतमूर्ते । जयोत्तरि जयकरि जयवति । तिष्ठ २ भगवति समयमनुपालय सर्वतथागतहृदयशुद्धे व्यवलोकय मां सपरिवारं सर्वसत्वांश्(९) चाथ महादारुणभयेषु सर्वासां परिपूरय त्रायस्व महाभयेभ्यः । सर २ प्रसर २ सर्वावरणविशोधनि समन्ताकारमण्डलविशुद्धे । विगते २ विगतमले । सर्वमलविशोधनि । सर्वामङ्गलविशुद्धे । सर्वामङ्गलविशोधनि । क्षिणि २ सर्वपापविशुद्धे । मलविगते । जयवति तेजोवति वज्रवति त्रैलोक्याधिष्ठिते स्वाहा ॥

सर्वतथागतमूर्धाभिषिक्ते स्वाहा ॥

सर्वबुद्धबोधिसत्वाभिषिक्ते स्वाहा ॥

सर्वतथागतहृदयविशुद्धे स्वाहा ॥

सर्वतथागताभिषिक्ते स्वाहा ॥

सर्वतथागतहृदयाधिष्ठितहृदये स्वाहा ॥

सर्वतथागतहृदयसिद्धे स्वाहा ॥

इन्द्रे इन्द्रवति इन्द्रव्यवलोकिते । ब्रह्मे ब्रह्माध्युषिते स्वाहा ॥

विष्णुनमस्कृते स्वाहा । महेश्वरवन्दितपूजितायै स्वाहा ॥

वज्रधर वज्रपाणिबलवीर्याधिष्ठिते स्वाहा ॥

धृतराष्ट्राये स्वाहा । विरूढकाय स्वाहा । विरूपाक्षाय स्वाहा । वैश्रमणाय स्वाहा । चतुर्महाराजनमस्कृताय स्वाहा ॥

यमाय स्वाहा । यमपूजितनमस्कृताय स्वाहा ॥

वरुणाय स्वाहा । मारुताय स्वाहा । महामारुताय स्वाहा । अग्नये स्वाहा । वायवे स्वाहा ॥

नागविलोकिताय स्वाहा । देवगणेभ्यः स्वाहा । नागगणेभ्यः स्वाहा । यक्षगणेभ्यः स्वाहा । राक्षसगणेभ्यः स्वाहा । गन्धर्वगणेभ्यः स्वाहा । असुरगणेभ्यः स्वाहा । गरुडगणेभ्यः स्वाहा । किन्नरगणेभ्यः स्वाहा । महोरगगणेभ्यः स्वाहा । मनुष्यगणेभ्यः स्वाहा । अमनुष्यगणेभ्यः स्वाहा ॥

सर्वग्रहेभ्यः स्वाहा । सर्वभूतेभ्यः स्वाहा । सर्वप्रेतेभ्यः स्वाहा । सर्वपिशाचेभ्यः स्वाहा । सर्वापस्मारेभ्यः स्वाहा । सर्वकुम्भाण्डेभ्यः स्वाह । सर्वपूतनेभ्यः स्वाहा । सर्वकटपूतनेभ्यः स्वाहा । सर्वदुष्टप्रदुष्टेभ्यः स्वाहा ॥

ओं धुरु २ स्वाहा । ओं तुरु २ स्वाहा । ओं कुरु २ स्वाहा । ओं (१०) चुरु २ स्वाहा । ओं मुरु २ स्वाहा ॥

हर २ सर्वशत्रून् स्वाहा । दह २ सर्वदुष्टान् स्वाहा । पच २ सर्वप्रत्यर्थिकप्रत्यमित्रान् स्वाहा ॥

ये महाहितैषिणस्तेषां सर्वेषां शरीरं ज्वालय २ दुष्टचित्तानां स्वाहा ॥

ज्वलिताय स्वाहा । प्रज्वलिताय स्वाहा । दीप्तज्वालाय स्वाहा । वज्रज्वालाय स्वाहा । समन्तज्वालाय स्वाहा ॥

माणिभद्राय स्वाहा । पूर्णभद्राय स्वाहा । कालाय स्वाहा । महाकालाय स्वाहा । मातृगणाय स्वाहा ॥

यक्षणीनां स्वाहा । राक्षसीनां स्वाहा । प्रेतपिशाचडाकिनीनां स्वाहा । आकाशमातृणां स्वाहा । समुद्रगामिनीनां स्वाहा । समुद्रवाशिनीनां स्वाहा । रात्रिचराणां स्वाहा । दिवसचराणां स्वाहा । त्रिसन्ध्यचराणां स्वाहा । वेलाचराणां स्वाहा । अवेलाचराणां स्वाहा ॥

गर्भहरेभ्यः स्वाहा । गर्भाहारिणीभ्यः स्वाहा । गर्भसंधारिणीभ्यह्स्वाहा ॥

हुलु २ स्वाहा । ओं स्वाहा । भूः स्वाहा । भुवः स्वाहा । भूर्भुवः स्वः स्वाहा ॥

चिटि २ स्वाहा । विटि २ स्वाहा ॥

धरणि स्वाहा । धारणि स्वाहा । अग्निः स्वाहा तेजोवायुः स्वाहा ॥

चिलि २ स्वाहा । शिलि २ स्वाहा । मिलि २ स्वाहा । बुध्य २ स्वाहा । सिध्य २ स्वाहा ॥

मण्डलबन्धे स्वाहा । सीमाबन्धे स्वाहा ॥

सर्वशत्रून् भञ्जय २ स्वाहा । स्तम्भय २ स्वाहा । छिन्द २ स्वाहा । भिन्द २ स्वाहा । २ स्वाहा । भञ्ज २ स्वाहा । बन्ध २ स्वाहा । मोहय २ स्वाहा ॥

मणिविशुद्धे स्वाहा । सूर्ये सूर्यविशुद्धे स्वाहा । चन्द्रे पूर्णचन्द्रे स्वाहा ॥

शोधनि स्वाहा । विशोधनि स्वाहा ॥

ग्रहेभ्यः स्वाहा । नक्षत्रेभ्यः स्वाहा । शिवेभ्यः स्वाहा । (११) शान्तिभ्यः स्वाहा । पुष्टिभ्यः स्वाहा । स्वस्त्ययनेभ्यः स्वाहा ॥

शिवंकरि स्वाहा । शंकरि स्वाहा । शान्तिंकरि स्वाहा । पुष्टिंकरि स्वाहा । बलवर्धनि स्वाहा । बलवर्धनंकरि स्वाहा । श्रीकरि स्वाहा । श्रीवर्धनि स्वाहा । श्रीज्वालिनि स्वाहा । मुचि स्वाहा । नमुचि स्वाहा । मुरुचि स्वाहा । वेगवति स्वाहा ॥

ओं सर्वतथागतमूर्ते प्रवरविगतभये शमयस्व मे भगवति सर्वपापं स्वस्तिर्मम सर्वसत्वानां च स्वाहा ॥

ओं मुनि २ विमुनि २ धरि चरि चलने भयविगते भयहरिणि । बोधि २ बोधय २ बुद्धिलि २ सर्वतथागतहृदयजुष्टे स्वाहा ॥

ओं मुनि २ मुनिवरे अभिसिञ्चन्तु मां सर्वसत्वांश्च सर्वतथागताः सर्वविद्याभिषेकैर्महावज्रकवचमुद्रामुद्रितैः सर्वतथागतहृदयाधिष्ठितवज्रे स्वाहा ॥

समन्तज्वालामालाविशुद्धिस्फूरितचिन्तामणिमहामूद्राहृदयापराजिता महाधारणी तेन खलु समयेन तस्यामेव परिषदि महाब्राह्मणः संनिपतितोऽभूत् । संनिषण्णश्च ॥

तत्र भगवान्महाब्राह्मणमामन्त्रयते स्म । अस्या महाप्रतिसराया महाविद्याराज्ञः सहस्रवर्णमात्रेण महाब्राह्मण तस्य कुलपुत्रस्य वा कुलदुहितुर्वा सर्वपापविनिर्मुक्तिर्भवति । यस्य पुनरियं हृदयगता भविष्यति । स महाब्राह्मण वज्रकाय इति वेदितव्यः । नाग्निस्तस्य काये क्रमिष्यति । किमिति संज्ञितम् । यदा कपिलवस्तुमहानगरवरे राहुलभद्रः कुमारो मातुः कुक्षिगतोऽभूद्यदा षड्वर्षातिक्रान्ते सर्वार्थसिद्धेन कुमारेण मम नाभिः पादं सुष्ठेन पृष्ठो निर्गतस्तदाजानामि । नान्यत्किंचिदिति । परिकीर्णाग्निना विषोदकेन तप्तकुठारिकयातुरयमानानत्राथापराजिता भवामि । तदा गोपया शाक्यकन्यया आत्मानमग्निखदायां प्रक्षिप्तः । तत्र पद्मिनी प्रादुर्भूता । तदा राहुलभद्रकुमारो मातुः कुक्षिगतो एव इमां विद्यां मनस्यकर्षीत् । अस्या विद्याया अनुस्मरणमात्रेण (१२) सोऽपि तस्मिन् क्षणे शीतीभावमुदागतः । ततो गोपायाः शाक्यकन्यायाः शरीरमग्निना न स्पृष्टम् । तत्कस्य हेतोरेषा विद्या सर्वतथागताधिष्ठिता । तेन हेतुनायं महाब्राह्मणोऽग्निर्न दहति । न च विषेण शक्यं तं जीविताद्व्यपरोपयितुम् । तत्कथमिति ॥

यदा महाब्राह्मण शूर्पारके महानगरवरे कोषवणिकस्य श्रेष्ठिनः पुत्रो विद्यावादिको बभूव । तेन तद्विद्याबलेन तक्षको नागराजा आकर्षितः । आकर्षयित्वा च प्रमाणवशाद्बद्धो नदान्तो यावत्तेनासौ क्रोधाद्दष्टः । स तीव्रां खरां कटुकां वेदनां वेदयति । यथा जानामि च मे जीवितं निरुद्धमिति । तत्र बहवो वादिका आहुताः । न च कश्चिच्छक्नोति विषं चिकित्सितुम् । अथ त्रैव शूर्पारके महानगरवरे विमलविशुद्धिर्नामोपासिका प्रतिवसति स्म । महाकरुणासमन्वागता तस्य इयं महाविद्याराज्ञी जिह्वाग्रेऽभूत् । सा तस्यान्तिकमुपसंक्रान्ता उपसंक्रम्येमां महाविद्यां प्रवर्तयामास । सा तयैकवेलायामनुस्मृतमात्रया निर्विषं स्मृतिप्रतिलब्धं कृत्वा ततो महाव्यसनात्परिमोचयित्वा इमामेव शुद्धिपुत्रे महाविद्यां हृदयगतां कारयति स्म । यथा विधिवदनुज्ञातमिति ॥

अपि च महाब्राह्मण किं परिज्ञातमिति । बाराणास्यां महानगर्यामनुपूर्वेणानुविचरमाणो राजा ब्रह्मदत्त इति संख्यां गच्छति । तस्य प्रातिसीमिको बलचक्रराजा चतुरङ्गबलकायं संनाह्य बाराणसीमहानगरीं परिवार्य विनाशयितुमारब्धः । ततो राज्ञा ब्रह्मदत्तस्यामात्यैर्निवेदितम् । देव परचक्रेण नगरमपहृतम् । ततः किं तु खलु वयमुपायं कुर्यामो येनैतत्परचक्रं विनश्येत् । आज्ञां प्रयच्छ । राजा कथयति । अल्पोत्सुका भवन्तो मा भवत । अस्ति मम महाप्रतिसरा नाम विद्याराज्ञी । येनाहमिहेमं चतुरङ्गबलकायं पराजेष्यामि । तथा करिष्यामि । अमात्याः शिरसा प्रणिपत्योचुः । किमिदं महाराज नास्माभिः कदाचिदपि न श्रुतमिति । राजा प्राह । अहमिदानीं प्रत्यक्षं दर्शनं करिष्यामि । अथ स राजा ब्रह्मदत्तो (१३) नानागन्धोदकेन स्नातः शिराः शुचिवस्त्रं प्रावृत्य इमां महाप्रतिसरां महाविद्याराज्ञीं यथाविधिनाभिलिख्य शिरः केशेऽवस्थाप्य इमामेव महाविद्याराज्ञीं कवचं कृत्वा संग्राममध्येऽवतीर्य एकाकिनैव सर्वासौ चतुरङ्गबलकायः पराजितः । आमर्दितश्च तावद्यावच्चरणं गतः । इति कृत्वासौ बलचक्रराजा मुक्त इति ॥

एवं हि महाब्राह्मण प्रत्यक्षं महानुभावेयं महाविद्याराज्ञी सर्वतथागतहृदयमुद्राधिष्ठिता । प्रत्यक्षमेवेति धारयितव्या । सर्वतथागतसमैषा द्रष्टव्या । ये केचित्पश्चिमे काले पश्चिमे समये अल्पायुष्कानां मन्दभाग्यानां मन्दधान्यानं परीत्तभाग्यानां सत्वानामर्थाय हिताय सुखाय द्रष्टव्या । यः कश्चिन्महाब्राह्मण इमां महाविद्याराज्ञीं यथाविधिना लिखित्वा बाहौ कण्ठे धारयिष्यति । स सर्वतथागताधिष्ठितो वेदितव्यः । सर्वतथागतकाय इति वेदितव्यः । वज्रकाय इति वेदितव्यः । सर्वतथागतधातुगर्भ इति वेदितव्यः । सर्वतथागतनेत्र इति वेदितव्यः । ज्वालितार्चिशरीर इति वेदितव्यः । अभेद्यकवच इति वेदितव्यः । स सर्वशत्रूणां प्रमथन इति वेदितव्यः । सर्वपापावरणनिर्दहन इति वेदितव्यः । सर्वनरकगतिविशोधन इति वेदितव्यः । किमिति पूर्वं परिज्ञातं महाब्राह्मण अन्यतमस्मिं पृथिवीप्रदेशे भिक्षुश्राद्धस्तथागतकुलशिक्षाखण्डकोऽदत्तादायी सुखाद्वारहारकः संघिकं चातुर्दिशिकं स्तौपिकं गणप्राप्तं च यद्द्रव्यं तत्पौद्गलिकं कृत्वा सर्वमधिष्ठाय तक्षयति । यावदपरेण समयेन महाव्याधिना पृष्टः । स महतीं दुःखावेदनामनुभवति । स तपस्वी अत्राणोऽपरायणोऽप्रतिशरणो महान्तसुक्रोशणाशब्दं करोति । अथ तस्मिन्नेव पृथिवीप्रदेशे उपासको ब्राह्मणो प्रतिवसति । तेन तच्छब्दः श्रुतः । श्रुत्वा च पुनर्येन स भिक्षुस्तेनोपसंक्रान्त उपसंक्रम्य तस्य भिक्षोरिमां महाप्रतिसरां महाविद्याराज्ञीं लिखित्वा कण्ठे बध्नाति स्म । समनन्तरबद्धायां महाप्रतिसरायां महाविद्याराज्ञ्यां तस्य भिक्षोः सर्वा वेदनाः (१४) प्रशान्ताः सर्वव्याधिभ्यः परिमुक्तः स्वस्थः संवृत्त इति । तस्यामेव रात्र्यामत्ययाभ्युपस्थिते स्मृतिप्रतिलब्धः कालगतः । तस्मिन्नेव क्षत्रवरे उत्सृष्टोऽवीचौ महानरके उपपन्नः । तच्च तस्य मृतशरीरं भिक्षुभिः कूटे स्थापितम् । सा च तस्य महाप्रतिसरा महाविद्याराज्ञी कण्ठे बद्धैवास्थिता । समनन्तरोपपन्नस्य तस्य भिक्षोस्तस्मिन्नवीचौ महानरके तेषां नारकानां सत्वानां सर्वदुःखवेदनाः शान्ताः । ते च नारकसत्वाः सर्वसुखसमर्पिता अभूवन् । ये च ते महान्ताविचिकाग्निस्कन्धास्तेऽपि सर्वेण सर्वमुपशान्ता इति । अथ ते यमपुरुषा विस्मयमापन्ना यमस्य धर्मराजस्येमं निश्चयं विस्तरेणारोचयति स्म ॥

अतिविस्मयमिदं देव दृष्यते नरकसंकटे ।
प्रशान्ता दारुणा दुःखाः सत्वानां कर्मजाश्च ये ।
प्रशान्तास्तेऽपि चाङ्गारा देहस्था देहिनाशया ॥
करपत्त्रा न बाधन्ते क्षुरधारा न सज्जते ।
अयःशाल्मलयो भग्नाः प्रशान्ता लोहकुम्भयः ॥
असिपत्त्रावने पत्त्रा न बाधन्ते कर्मजा पुनः ।
यमस्त्वं धर्मराजोऽसि धर्मेण शासयसे प्रजाम् ॥
इदं तु कारणं नाल्पमस्माकं वक्तुमर्हसि ।
ततोऽसौ धर्मराजा वै धर्मात्मा धर्मनिश्चयः ॥
करुणाशयनष्टानां वाक्यं श्रुत्वेदमीदृशम् ।
किमेतत्कथ्यतां शीघ्रं कथं त्विति वचोऽवदत् ॥
ततस्ते दुष्टसत्वानां यमभृत्या सुदारुणाः ।
यमस्य धर्मराजस्य इदं वचनमश्रूवन् ॥
अयं देव महासत्व उत्पन्नो नरकसंकटे ।
अवीचिर्यस्य नामेदं तेनासौ नरकसंकट उच्यते ॥
कर्माणं यस्य वैचित्र्यं सत्वा ये हि सुखीकृतम् ।
सुखिनो ह्येव सर्वत्र पुनर्यान्ति सुरालयम् ॥
यमोऽपि धर्मराजा वै दृष्ट्वा वदति विस्मितः ।
महर्द्धिकोऽयं महच्चास्य शरीरं पूर्वो जन्मिकम् ॥
(१५)
यथा धातुशतैर्वृन्दं स्तूपं शोभति शाश्वतम् ।
तथास्य शोभते कायः प्रतिसराबद्धकण्ठकः ॥

अथ ते नरकपाला यक्षा यमस्य धर्मराजस्य इदं वचनमब्रुवन् । कथमियं देव प्रतिसरेत्युच्यते । धर्मराज उवाच । प्रतिपत्स्मारयेद्यस्तु स न गच्छति दुर्गतिं सुगतिं गच्छते चासौ प्रतिसराभावभावितः । यूयं नरकपाला वै गच्छथ पुष्करावतीम् । तद्रक्षथ महाकूटं देवतैः परिवारितम् । तं दृष्ट्वा सर्वसर्वसखेषु मैत्रचित्ता भविष्यथ । अथ ते यक्षा यमपुरुषा तस्यामेव रात्र्यां पुष्करावतीं गताः ।

ते पश्यन्ति तदा तत्र राजधानीसमीपतः ।
तच्च कूटं समन्तेन एकद्वारासमाकुलम् ॥
मृतशरीरं पश्यन्ति प्रतिसराबद्धकण्ठकम् ।
देवा नागाश्च गन्धर्वा यक्षराक्षसकिन्नराः ॥
परिवार्य समन्तेन पूजां कुर्वन्त्यनुत्तराम् ।
यावत्तस्य च तैर्यक्षैः प्रतिसराकूटेति नाम स्थापितम् ॥

अथ ते यक्षा पुनरागत्य यमस्य धर्मराजस्येमं निश्चयं विस्तरेणारोचयति स्म । एवमेतद्देव त्वयाभिहितम् । समनन्तरोदिते तस्मिन् वचनपर्यवसाने महासत्वस्तं नारकं शरीरं विजह्य त्रायस्त्रिंशेषु देवेषूपपन्नः । तेन हेतुना प्रतिसरापूर्वीदेवपुत्र इत्युच्यते । तेन हि महाब्राह्मण परिज्ञातवती पूर्वतस्तस्मादेवेयं महाप्रतिसरा धारयितव्या वाचयितव्या लिखितव्या यथाविधिना नित्यं शरीरगतां कृत्वा धारयितव्या । स नित्यं सर्वव्यसनदुःखेभ्यः परिमुच्यते । सर्वदुर्गतिभयभैरवेभ्य उत्तरति । न विद्युता शक्यं पातयितुम् । किमिति विद्युता परिज्ञातम् ॥

पूर्वं महाब्राह्मण हिङ्गुमर्दने महानगरे विमलशङ्खो नाम श्रेष्ठी महाधनकनकसमृद्धः परिपूर्णकोशकोशागारसंपन्नो बभूव । स महासार्थवाह इति ख्यातवान् । अथ स महासार्थवाहो यानपात्रमासाद्य महासमुद्रमवतीर्णः । (१६) यावत्तिमिङ्गिलैः सोऽस्य पोतोऽवस्तब्धः विनाशयितुकामा नागाश्च संक्षुब्धा महान्तगर्जना स्फोटं कुर्वन्ति । विद्युदुल्कामुत्सृजन्ति वज्राशनिं प्रवर्षितुमारब्धाः । ततस्ते वणिजो महता दुःखेनाभ्याहतचित्तास्तं महान्तं नागसंक्षोभं विद्युदुल्कां वज्राशनिं चोत्सृजन्ति तैश्च तिमिङ्गिलैः पोतमवस्तब्धं दृष्ट्वा महान्तमुत्क्रोशनं शब्दं कर्तुमारब्धः । ते विशेषैर्नायाचयन्ति । ततस्ते सार्थवाहस्योपगम्य करुणमिदं वचनमब्रुवन् । परित्रायस्व त्वं महासत्व मोचयास्मान्महाभयात् । अथ खलु महासार्थवाहो दृढचित्तो महामतिः वणिजो विक्लवीभूतानिदं वचनमब्रुवत् । मा भैर्मा भैर्वणिजो भवन्तो वीरतां व्रजत । अहं वो मोचयिष्याम्यतो दुःखमहार्णवात् । तत वीरमानसो भूता वणिज इदं वचनमब्रुवन् । किमेतत्तेन महासत्व ब्रूहि शीघ्रमविघ्नतः । यावद्जीवितमस्माकं त्वत्प्रभावाद्महामते कथ्यतां ज्ञानमहात्म्यं पश्चात्किं करिष्यसि ।
ततः सार्थपतिस्तेषामिमां विद्यामुदाहरत् ।
अस्ति मम महाविद्या प्रतिसरा नाम विश्रुता ॥
मर्दनी सर्वबुद्धानां महाबलपराक्रमाः ।
तेनाहं मोचयिष्यामि अतो दुःखमहार्णवात् ॥

ततः महासार्थवाहस्तस्यां वेलायामिमां महाप्रतिसरां महाविद्याराज्ञीं लिखित्वा ध्वजाग्रावरोपितां करोति स्म । समनन्तरं ध्वजाग्रावरोपितायामस्यां महाप्रतिसरायां महाविद्याराज्ञ्यां सर्व एव ते तिमिङ्गिलास्तं पोतमेकज्वालीभूतं पश्यन्ति । ततस्ते नागा मैत्रमनसस्तेषामन्तिकेऽवतीर्य पूजां कर्तुमारब्धाः । ते च तिमिङ्गिला अस्या महाप्रतिसराया महाविद्याराज्ञ्या अनुभावेन दह्यमानाः । प्रपलायित्वा विलपं गताः । सार्थिकास्तैर्महानागैर्महति महारत्नद्वीपे प्रापिता इति ॥

ज्ञातवतीयं महाविद्या महाप्रतिसरा सर्वतथागताधिष्ठिता तेन हेतुना महाब्राह्मण महाविद्येति ख्याता । तस्मादवश्यम् (१७) एवेयं ध्वजाग्रावरोपितं कृत्वा धारयितव्या । सर्ववातशीताकालमेघविद्युदशनीं प्रशमयति । सर्वदेवमनुष्यामनुष्यविग्रहविवादेषु परिमोचयति । सर्वदंष्ट्रमशकशरभकप्राणकजाता विविधरूपाः ।सस्यविनाशका न प्रभवन्ति । प्रशमं गच्छन्ति । सर्वदुष्टचित्ता मृगपक्षिदंष्ट्रिणो विनश्यन्ति । सर्वाणि च पुष्पफलपत्त्रवनस्पत्योषधिसस्यादीन्यभिवर्धन्ते । अरसानि स्वादूनि मृदूनि च भविष्यन्ति । सम्यगेव परिपाचितानि भविष्यन्ति । अतिवृष्ट्येनावृष्टिदोषाः सर्वेण सर्वं न भविष्यन्ति । कालवृष्टिर्भविष्यन्ति नाकालवृष्टिः । ये च तस्मिन् विषये महानागास्ते सम्यगेव कालेन कालं वर्षधारामुत्सृजन्ति । यस्मिन् विषये इयं विद्याराज्ञी महाप्रतिसरा नाम प्रचरिष्यति । तत्र तैः सत्वैर्ज्ञात्वा पूजासत्कारं कृत्वा नानागन्धैर्नानापुष्पैर्नानावस्त्रैः परिवेषयित्वा चैत्यस्योपरि ध्वजाग्रावरोपयितां कृत्वा नानावाद्यतूर्यसंगीतिभिर्वाद्यमानाभिः प्रदक्षिणीकर्तव्या । ततस्तेषां महासत्वानां यथा चिञ्चितमाशां परिपूरयिष्यन्ति । देवताः शक्रब्रह्मप्रभृतयः । अथवा यथायथाविधिना लिख्यते तथातथा समृध्यते । पुत्रार्थी लभते गर्भसंधारणी पराः सुखेन वर्धते गर्भः सुखेनैव प्रसूयते । कालेन वर्धते गर्भः कालेन परिमुच्यते । किमिति महाब्राह्मण पूर्ववच्छ्रूयताम् ॥

इहैव मगधविषये राजा प्रसारितपाणिर्नाम स चापुत्रकोऽभूव । किमिति प्रसारितपाणिरिति ख्यातान् । तेन राज्ञा जातमात्रेण पाणिं प्रसार्य मातुः स्तनौ गृहीत्वा यावदाप्तं क्षीरं पीतम् । तौ च स्तनौ सह स्पर्शमात्रेण सुवर्णवर्णौ संवृत्तौ । नित्यकालं च महता क्षीरेण प्रवर्धतः । तेन कारणेन तस्य राज्ञः प्रसारितपाणिरिति नाम स्थापितम् । अन्यच्च तस्य राज्ञः याचनकजना आगच्छन्ति । तदा स राजा दक्षिणपाणिं प्रसारयत्युपर्यन्तरिक्षे बोधिसत्वः स राजा तेन हेतुना तस्य बुद्धाभिप्रसन्ना देवता दिव्यै रत्नविशेषैः सुवर्णमणिभिश्च पाणिं परिपूरयन्ति । तदा स राजा तेभ्यो याचनकजनेभ्यो (१८)ऽनुप्रयच्छन्ति । यथा चिन्तमात्रेण सर्वयाचनकजनानां सर्वसुखसंपत्तिकामां ददाति । देवानां च महान्ति पूजासत्काराणि करोति पुत्रहेतोर्न च पुत्रं प्रतिलभते । स पौराणां तथागतचैत्यानां पुरतः पूजासत्कारं कर्तुमारब्धः । महान्ति च पूजासत्काराणि करोति दानानि च ददाति । उपवासमुपवसति । महान्ति च पुण्यानि च करोति । अक्षिणान्येव दानानि ददाति । तत्कस्य हेतोर्भूतपूर्वं महाब्राह्मण अस्मिन्नेव मगधविषये मल्ला नाम जनपदे कुशिनगरे महापट्टनवरे भगवतः प्रभूतरत्नस्य तथागतस्य शासने समुत्पन्नो धर्मचित्तकः कश्चिद्महासत्वो धर्ममतिर्नाम श्रेष्ठी प्रतिवसति । स सर्वसत्वानामन्तिके महाकरुणाचित्तमुपस्थाप्य इमामेव महाविद्यां महाप्रतिसरामारभ्य धर्मं देशयति स्म । अथ कश्चिदेको दरिद्रपुरुषस्तं धर्मं श्रुत्वा तस्य श्रेष्ठिन इदं वचनमब्रुवत् । अहमार्यस्य निवेशने भृतिकर्मं करिष्यामि धर्मं च श्रोष्यामि । यदा मम किंचिद्भविष्यति तदाहं धर्मं पूजयिष्यामि । तस्य गृहव्यापारं कुर्वतो धर्मं च शृण्वतो यावदपरेण कालसमयेन श्रेष्ठिना एको दीनारो दत्तः । स तेन सर्वसत्वपरित्राणार्थं बोधिचित्तमुत्पाद्य साधाऋअं कृत्वा महाप्रतिसरारत्नेति निर्यातिता । एवं प्रणिधानं कृतमनेन महाफलेन मम सर्वसत्वानां च दारिद्रदुःखसंच्छेदः स्यात् । अनेन कारणेन तद्दानं परीक्षयं न गच्छति । एवं बहुविधानेकविधपुण्याभिसंस्कारकृतो देवताश्च पूजिता यावद्बुद्धा भगवन्तः पूजितास्तदा च शुद्धावासकायिकाभिर्देवताभिः स्वप्ने दर्शनं दत्तम् । एवं चाभिहितं भो महाराज समन्तज्वालामालाविशुद्धिस्फूरितचिन्तामणिर्महामुद्राहृदयापराजिता महाधारणी महाविद्याराज्ञी महाप्रतिसरा नाम तं यथाविधिना कल्पेनाभिहितेन उपवासोषिताया अग्रमहिष्या देव्याः शरीरे बद्धा ततस्ते पुत्रप्रतिलम्भो भविष्यतीति । अथ स राजा प्रतिविशुद्धस्तस्यामेव रात्र्यामत्ययेन संख्यालिपिनक्षत्रग्रहविपञ्चकान् कुलब्राह्मणान् संनिपात्य यथाविधिना (१९) कल्पोपदिष्टेन पुष्ये नक्षत्रराजे प्रतिपन्ने सुस्नातगात्राया उपवासोषिताया अग्रमहिष्या देव्या यथाविधिना लिख्येमां महाप्रतिसरां महाविद्याराज्ञीं कण्ठे बद्धवान् । महतीं महाबुद्धचैत्येषु पूजामकर्षीदनेकानि च रत्नविशेषाणि सत्वानां दानानि दत्तानि । ततो नवानां मासानामभ्ययात्पुत्रो जातोऽभिरूपः प्रासादिको दर्शनीयः । परमया शुभवर्णपुष्कलतया समन्वागत इति ॥

ततो ज्ञात्वा महाब्राह्मण सर्वकामंगमा अपराजिता महाप्रतिसरारत्नेति विश्रुता महाविद्याराज्ञी सर्वतथागतपुजिता शक्रस्यापीयं चूडामणिः सर्वथा ॥

यदा शक्रो देवानामिन्द्रो महासंग्राममसुरैः सार्धं कर्तुकामस्तदा इमां महाविद्यां कवचं कृत्वा संग्राममध्येऽवतीर्य चूडायामवस्थाप्य सर्वासुरान्निर्जित्य सुखं स्वस्तिना क्षेमेण देवपुरं प्रविशति । सर्वासुरैरधृष्यो भविष्यति । एवं हि महाब्राह्मण प्रथमचित्तोत्पादमुपादाय बोद्धिसत्वस्य महासत्वस्येमां महाप्रतिसरां महाविद्याराज्ञीं धारयतः सर्वमारैरनवमृद्यता भवति । यस्यैषा कण्ठगता भविष्यति स सर्वतथागताधिष्ठितो भविष्यति । सर्वबुद्धबोधिसत्वसंरक्षितो भविष्यति । सर्वदेवमनुष्यामनुष्यराजराजामात्यब्राह्मणगृहपतिभिश्च सततसमितं वन्दितः पूजितः संमानितो भविष्यति । सर्वदेवासुरगरुडकिन्नरमहोरगाभ्यर्चितः पूजितो भविष्यति । स महासत्व इत्युवाच । भगवान्मारबलप्रमर्दकः सर्वव्याधिविगतो भविष्यति । सर्वेऽत्युपद्रवोपसर्गाश्चास्य प्रशाम्यन्ति । तस्य महासत्वस्य सर्वशोकविगमो भविष्यति । सर्वदेवताश्चास्य सततसमितं रक्षावरणगुप्तिं विधास्यन्ति । इमानि चानेन चत्वार्यपराजितामहाविद्यामन्त्रपदहृदयानि सततसमितं लिखित्वा कायकण्ठगतानि कृत्वा धारयितव्यानि । ससमितं च मनसि कर्तव्यानि । स्वाध्यातव्यानि भावयितव्यानि चाध्याशयेन सर्वदुःस्वप्नदुर्निमित्तामङ्गल्यभावा विनश्यन्ति । सर्वसुखसंपत्तयश्च प्रादुर्भविष्यन्ति । (२०) अत्र मन्त्रपदाः सिद्धाः सर्वकर्मकराः श्रुताः ॥

तद्यथा । ओममृतवरे वर वर प्रवर विशुद्धे हूं हूं फट्फट्स्वाहा ॥

ओममृतविलोकिनि गर्भसंरक्षणि आकर्षणि हूं हूं फट्फट्स्वाहा ॥ अपराजिताहृदयम् ॥

ओं विमले विपुले जय वरे अमृते हूं हूं फट्फट्स्वाहा ॥

ओं भर भर संभर संभर इन्द्रियबलविशोधने हूं हूं फट्फट्स्वाहा ॥

ओं मणिधरि वज्रिणि महाप्रतिसरे हूं हूं फट्फट्स्वाहा ॥ उपहृदयविद्या ॥

अशेषैः सर्वबुद्धैर्बोधिसत्वैश्च श्रावकैरेकस्वरसंनिपातेन एकस्वरनिर्घोषेण इमानि धारणीमन्त्रपदानि भाषितानि महाप्रतिसरामहाविद्याराज्ञीहृदयकवचान्येतानि मन्त्रपत्त्रपदानि सर्वतथागतधर्ममुद्रया मुद्रितानि । अतिदुल्लभमप्येषां श्रवणं किं पुनः लिखनपठनधारणवाचनपरदेशना बुद्धकृत्यमेतदिति ज्ञातव्या । इयं ह्यतीव सर्वपापक्षयंकरा । सर्वतथागतैः प्रशंसिता अनुमोदिता व्याकृता परमदुल्लभेयं महाधारणी अपराजिता महाप्रतिसरा नामधेयं श्रवणमपि परमदुल्लभम् । इयं सर्वपापक्षयंकरी । महाबलपराक्रमा महातेजा महाप्रभावा महागुणोद्भावनी सर्वमारकायिकदेवताविध्वंसनकरी । सर्ववासनानुसंधिसमुद्घाटनकरी । सर्वमारपाशसमुच्छेदनकरी परमन्त्रमुद्राविषकाखोर्दकिरणप्रयोगविद्वेषणाभिचारकानां च दुष्टचित्तानां विध्वंसनकरी । सर्वबुद्धबोधिसत्वार्यगणवरपूजिताभिरतानां परिपालनकरी । महायानोद्ग्रहणलिखनवाचनपठनस्वाध्यायनश्रवणधारणाभियुक्तानां परिपालिकेयं महाधारणी यावद्बुद्धबोधिपरिपूरयित्रीयं महाब्राह्मण महाप्रतिसरा महाविद्याराज्ञी न क्वचित्प्रतिजन्यते सर्वत्र महापूजां प्राप्नोति यथाहं शास्ता जितविषयः । किमिति पूर्वं परिज्ञातवतीयं (२१) महाब्रह्मण महाविद्याराज्ञी सर्वविघ्नविनायकानां विधवंसयित्री ॥

यदा च भगवान् विपुलप्रहसितवदनमणिकनकरत्नज्वलरश्मिप्रभासाभ्युद्गतराजस्तथागतोऽर्हन् सम्यक्संबुद्धो येन बोधिमण्डलस्तेनोपसंक्रान्त उपसंक्रम्य सर्वबुद्धप्रशस्तं धर्मचक्रं प्रवर्तयितुकामस्तदा तस्य भगवतः सर्वमारैः सपरिवारैरनेकमारकोटीनियुतशतसहस्रपरिवृतैर्नानारूपविरूपभयभैरवशब्दाकुलैर्बहुविविधमारविषयविकुर्वणाधिष्ठानाधिष्ठितैर्नानाप्रहरणवृष्टीभिरभिनिर्मायागत्य चतुर्दिशं परिवार्यान्तरायः कर्तुमारब्धः । ततः स भगवान् विपुलप्रहसितवदनमणिकनकरत्नज्वलरश्मिप्रभासाभ्युद्गतराजो मुहूर्तं तूष्णीमास्थाय इमां महाप्रतिसरां महाविद्याराज्ञीं मनसा सप्तकृत्वः प्रवर्तयामास । समनन्तरं प्रवर्तयितायामस्यां महाप्रतिसरायां महाविद्याराज्ञ्यां तत्क्षणादेव सर्वे ते माराः पापीयांसो ददृशुर्भगवत एकैकस्माद्रोमकूपविवरादनेककोटीनियुतशतसहस्राणि पुरुषाणां संनद्धकवचानां ज्वलितखङ्गपरशुपाशमुद्गरासिमुसरत्रिशूरहस्तानामेवं वाचं प्रव्याहरमाणानि गच्छन्ति । गृह्णत २ बन्धत २ दुष्टमारान् विध्वंसय दुष्टचित्तान् विचूर्णय जीवितं सर्वदुष्टग्रहविघ्नविनायकानां ये भगवतो विहेठनं कुर्वन्ति । ततस्ते सर्वदुष्टमारामैत्रीखङ्गेणाभिनिर्जितां कृत्वा केचिच्छिक्षापदानि ग्राहिता । केचिद्यावदनुत्तरायां सम्यक्संबोधौ व्याकृतास्तत्र महानुभावाः । अन्ये पुनस्तान् तथागतरोमविवरविनिर्गतान्महापुरुषान् दृष्ट्वा तस्मिन्नगरे विह्वलीभूता ऋद्धिपरिहीणा नष्टप्रतिभानबलपराक्रमा विध्वस्ताः । समस्ताः समन्तात्प्रपलीना इति । ततो भगवता धर्मचक्रं प्रतिवर्तितम् । यथान्यैर्बुद्धैरिति । सर्वविघ्नविनायकान्मारांश्च पापीयांसो विध्वंसयित्वोत्तीर्णः पारंगत इति । एवं हि महाब्राह्मण महाबलवेगर्द्धिपारमिताप्राप्तेयं महाप्रतिसरा महाविद्याराज्ञी स्मरणमात्रेण सर्वव्यसनभयभैरवेभ्यः (२२) परिमोचयति । आशयपरिविशुद्धानां सत्वानां नान्येषां दुष्टचेतसाम् । तस्मात्तर्हि महाब्राह्मण नित्यमेवानुस्मरणमात्रेण मनसि कर्तव्या । सर्वकालं च लिखित्वा कायकण्ठगतां कृत्वा धारयितव्या । किमिति पूर्ववच्छ्रूयताम् ॥

उज्जयन्यां महानगर्यां राज्ञो ब्रह्मदत्तस्य विहिते केनचित्पुरुषेणापराधः कृतः । स राज्ञा ब्रह्मदत्तेन वधकपुरुषेभ्य आज्ञप्तः । भवतो गच्छतैनं पुरुषं जीविताद्व्यपरोपयतेति । अथ ते वधपुरुषास्तं राज्ञाज्ञप्तं पुरुषं गृहीत्वा पर्वतविवरं नीत्वा असिकोशान्निष्कास्य तं पुरुषं जीविताद्व्यपरोपयितुमारब्धः । तदा स पुरुष इमां महाप्रतिसरां महाविद्याराज्ञीं मनसा स्मृतवान् लिखितां च दक्षिणे बाहौ बद्ध्वा धारयति स्म । तस्य महासत्वस्यास्या महाविद्यायाः प्रभावेनासिरेकज्वालीभूता खण्डखण्डं यथा पांशुमयो विकीर्ण इति । ततस्ते वधकपुरुषा इममेवं निश्चयं राजं विस्तरेणारोचयामासुः । ततो राजा प्रकुपितश्चण्डीभूतः कथयति । गच्छत भो पुरुषा अन्यतरस्मिन् प्रदेशे यक्षगुहास्ति । तत्र बहूनि यक्षशतसहस्राणि प्रतिवसन्ति पिशिताशीनि । तत्र नीत्वा छोरयत । ततः स पुरुषो वधकपुरुषैस्तस्यां यक्षगुहायां छोरितः । समनन्तर छोरिते तस्मिन् यक्षगुहायां ततस्ते यक्षाः सर्वे तुष्टमनसो हृष्टचित्ताश्च प्रधाविता मानुषं भक्षयिष्याम इति । ते पश्यन्ति अस्या महाप्रतिसराया महाविद्याराज्ञ्या अनुभावेन तं पुरुषमेकज्वलीभूतं देदीप्यमानं विग्रहं दृष्ट्वा च सर्व एव ते यक्षा संत्रस्ता दह्यमानं स्वशरीरं पश्यन्ति । अथ ते यक्षा विस्मयं समापन्नास्तं पुरुषं गृहीत्वा बहिर्द्वारेऽवस्थाप्य प्रदक्षिणीकर्तुमारब्धाः । यावत्तैर्वधकपुरुषै राज्ञे निश्चयोऽयं विस्तरेणारोइतः । ततो भूयो राजा प्रकुपितश्चण्डीभूतः कथयति । यदेव भवन्तो गच्छतैनं पुरुषं बद्ध्वा नद्यां प्रक्षिपत । ततः स पुरुषो वधकपुरुषैर्बद्ध्वा नद्यां प्रक्षिप्तः । समनन्तरं प्रक्षिप्ते तस्मिन्महापुरुषे सा नदी निरुदकी भूता यथ स (२३) पुरुषः स्थलगत एव तिष्ठति । तानि च बन्धनानि खण्डखण्डं विचूर्णितानि । राजा श्रुत्वा ततो राजा विस्मितोत्फुल्लवदनः कथयति । अहो विस्मयमिदं पुरुषस्य दृश्यते । किमत्र कारणं स्यादिति मे वितर्कः । अथ स राजा तं पुरुषमाहूयैनमाह । किं त्वं भोः पुरुष जानासि । स पुरुष उवाच । नाहं महाराज किंचिदपि जानामि । अन्यत्र महाप्रतिसरां महाविद्याराज्ञीं धारयामि । अस्या एष देव महाप्रभावः । राजा आह । अहो आश्चर्यमिदं महत् । महाविद्या सुभाषिता । मोहनी मृत्युदण्डस्य सर्वबुद्धैरधिष्ठिता । तारणी सर्वसत्वानां सर्वदुःखप्रमोचनी । महाविद्या महातेजा अकालमृत्युमोचनी । भाषिता कारुणिकैर्नाथैर्महारोगनिवारिणी । ततो राज्ञा प्रहृष्टमानसेन महाप्रतिसरा महाविद्याराज्ञी पूजिता मानिताभिनन्दिता । तस्य पुरुषस्य पोट्टबन्धं कृत्वा स्वस्य जनपदस्य पुरस्तान्नगरज्येष्ठतायामभिषेको दत्तः । एवं हि महाब्राह्मण इयं महाप्रतिसरा महाविद्याराज्ञी सर्वत्र महतीपूजां लभते । अनभिक्रमणीया सर्वदुष्टचित्तैः सर्वैः पूजनीया । एवं हि महाब्राह्मण पूर्वमियं महाप्रतिसरा महाविद्याराज्ञी न क्वचित्प्रतिहन्यते । तस्मादवश्यमियं महाविद्याराज्ञी कायकण्ठगतां कृत्वा धारयितव्या । अपि तु महाब्राह्मण मनुक्षेत्रेणेयं महाविद्याराज्ञी सुप्रशस्तेन विधानेन लिखितव्या ॥

अथ स महाब्राह्मणोऽतीव प्रहृष्टमनसा भगवन्तं पञ्चमण्डलकेनाभिप्रणम्य प्रष्टुमारब्धः । कीदृशेन भदन्त भगवन् विधानेनेयं महाप्रतिसरा महाविद्याराज्ञी लिखितव्या ॥

भगवानाह ।

शृणु महाब्राह्मण त्वामहं वक्ष्ये सर्वसत्वानुकंपया ।
येन सत्वाः सुखिनो भोन्तु मुच्यतै कर्मसंकटात् ॥
व्याधितानां च मोक्षार्थं स्त्रीणां गर्भसमुद्भवम् ।
भविष्यति च सत्वानां दारिद्र्यवरणरोहणम् ॥
उपवासोषितो भूत्वा नक्षत्रे पुष्यसंमते ।
(२४)
बुद्धपूजापरो भूत्वा चित्तमुत्पाच्य बोधये ॥
करुणाम्रेडितचित्तेन मैत्र्या चापि समन्वितः ।
हिताधानपरश्चापि सर्वसत्वेषु नित्यशः ॥
स्नात्वा चन्दनकर्पूरैः कस्तूरीसलिलेन च ।
शुचिवस्त्राणि प्रावृत्य धूपितानि च धूपनैः ॥
ततो मण्डलकं कृत्वा शृङ्गोमयसमन्वितम् ।
पञ्चरङ्गिकचूर्णेन चित्रय मण्डलं शुभम् ॥
पूर्णकुम्भाश्च चतुरः पञ्चमं मध्यमण्डले ।
पुष्पधूपाश्च गन्धाश्च दातव्यात्र महारिहा ॥
धूपनं चन्दनं चैव स्पृक्कागुरु तथैव च ।
पञ्चशर्करा रुक्मा च दातव्यात्र विधानतः ॥
नानाविधानि पुष्पाणि यथाकालं यथाविधिः ।
सर्वपुष्पफलैर्बीजैर्गन्धैश्चापि सुमण्डितान् ॥
घृतमाक्षिकदुग्धैश्च पावकैः पयसादिभिः ।
पूरयेद्बलिकुम्भाश्च लक्षणाद्यान् सुमङ्गलान् ॥
स्थापयेच्चतुरो दिक्षु पञ्चमं मध्यमण्डले ।
स्थापनीयाः शरावांश्च कोणेषु गन्धपूरिताः ॥
चत्वारः कीलकाश्चापि खादिरा दृढवेशिताः ।
पञ्चरङ्गिकसूत्रेण वेशयित्वा विचक्षणाः ।
समभागेन स्थाप्येतां निपत्यान्मण्डलाद्बहिः ।
एवं कृते लिखेद्विप्र यदिच्छेत्सिद्धिमात्मनः ॥
शुक्लभोजनभुक्तेन लिखितव्यं सुखैषिणा ।
पट्टे वा वस्त्रभूर्जे वान्यत्र वा यत्र कुत्रचित् ॥
लिखेत्स्त्रीषु च पुत्रार्थी सम्यग्गोरोचनेन वै ।
मध्ये च दारकं कुर्यात्सर्वालंकारभूषितम् ॥
रत्नपूर्णं तथा पात्रं वामहस्तेन धारयेत् ।
कार्ये पद्मे निषण्णो सौप्रफुल्लितविभूषिते ॥
मणिहारसुवर्णं च नानारत्नविशेषतः ।
प्रवर्षश्चापि कर्तव्याश्चतुः कोणेषु पर्वताः ॥
एवं लिखेत्प्रयत्नेन यदिच्छेद्जीवितं सुखम् ।
(२५)
कुङ्कुमेन लिखेत्प्राज्ञः पुरुषाणां विशेषतः ॥
तस्येप्सितानि कार्याणि सिध्यन्ते नात्र संशयः ।
नानारूपाश्च कर्तव्या मुद्राचिह्नश्च पद्मिनी ॥
द्वे पद्मे अथवा त्रीणि चत्वारि पञ्च वा लिखेत् ।
पद्मानां च तथा कुर्यात्केशराणि समन्ततः ॥
सुपुष्पितं पद्मं कुर्वीत सदण्डं पट्टबद्धकम् ।
त्रिशूलं पद्मे कुर्वीताथ कोणं पट्टबद्धकम् ॥
पर्शुं कुर्यात्तथा पद्मे अथ पत्रे समन्ततः ।
सखङ्गं पद्मं कुर्वीत तत्पद्मं शितमेव च ॥
शङ्खं पद्मे तथा कुर्यात्सर्वत्र विधिविस्तरम् ।
सर्वत्र विधिचिह्नानि कारयेत्सुविचक्षणः ॥
वर्जयेद्बालरूपाणि यत्र चित्तं प्रदुष्यति ।
देवरूपाश्च कर्तव्या नानालंकारभूषिता ॥
भिक्षुं वज्रधरं कुर्याद्दुष्टतर्जनं तत्परम् ।
चतुरश्च महाराजांश्चतुः पार्श्वेषु संलिखेत् ॥
ब्राह्मणेष्वीश्वरो लेख्यः क्षत्रियेषु महेश्वरः ।
शूद्रेषु च सदा सौम्यं चक्रस्वामिनमालिखेत् ॥
वैश्येषु च वैश्रमणमिन्द्रश्चैव सुरेश्वरः ।
दारकेभ्यः सदा लेख्यः प्रजापतिर्महामतिः ॥
स्यामवर्णा भवेद्यातु रौद्रं तस्या समालिखेत् ।
गौराया रूपसंपन्नो लिखेन्नित्यं यशस्विनः ॥
स्थूलाया माणिभद्रश्च लिखितव्यं प्रयत्नतः ।
कृषायाः पूर्णभद्रस्तु मया ह्युक्तं स्वयंभुवा ॥
गुल्विण्याश्च महाकालो लिखेच्च ब्रह्मदेवतान् ।
अन्याश्चापि यथापूर्वं विभिनोक्तं समालिखेत् ॥
लिखित्वैव प्रयत्नेन विधिदृष्टेन कर्मणा ।
धारयेत्सततं कण्ठे भद्रं तस्य भविष्यति ॥
द्वाराग्रे चिन्तामणिं कुर्याद्ध्वजाग्रे पद्मसंस्थितम् ।
पद्मस्य केशरे पाशं चक्रं चापि तथापरम् ॥
वज्रं पद्मे तथा लिख्यं मुद्गलं पद्मसंस्थितम् ।
(२६)
शक्तिं लिखेत्तथा पद्मे यथाविधिषु दृष्यते ॥
द्वाराग्रमणयः सर्वे विस्फुलिङ्गाः समाकुलाः ।
पट्टबद्धाश्च कर्तव्या यथाविधिषु कीर्तिताः ॥
नागाश्च फलिनः कार्यामणिद्वारा नवशीर्षकाः ।
तेऽपि सर्वे प्रयत्नेन हृदि वज्रप्रस्थिताः ॥
पार्थिवानां बलं नित्यं सार्थवाहं लिखेद्बुधः ।
विद्याधराणां सर्वेषां दिव्यादेवीं समालिखेत् ॥
चन्द्रसूर्यौ हि नक्षत्रौ राहुकेतुग्रहाष्टकम् ।
लिखेच्च खण्डां पाण्डानां पुत्रलाभो भविष्यति ॥
निश्चयाद्विधिना लिख्य शास्त्रदृष्टेन कर्मणा ।
तस्मात्सर्वप्रयत्नेन धारयेत्मतिमान्नरः ॥
सर्वसिद्धिकरं ह्येतद्मङ्गल्यं पापनाशनम् ।
प्राप्नोति परमं स्थानं स्वयंभू वचनं यथा ॥
लोकेऽस्मिन् परमं सौख्यं परलोके परं सुखम् ।
त्रयस्त्रिंशद्भवनादौ स्थानं तस्य सुरालये ॥
जम्बुद्वीपे शुभे रम्ये विद्यासौख्यं च नित्यशः ।
सर्वबुद्धैर्न शक्यं हि पुण्यस्कन्धप्रकीर्तिताम् ॥
यत्पुण्यं समवाप्नोति प्रतिसराधारको नरः ।
नरकद्वारा पिथिताः स्वर्गद्वारा अपावृताः ॥
सुखं संपत्तिसंपन्नो भविष्यति महामतिः ।
बुद्धाश्च बोधिसत्वाश्च आश्वासयन्ति नित्यशः ॥
कायेन सुखसंपन्नो बलेन महता भवेत् ।
यथा तथैव जितेन्द्रोक्तं चक्रवर्ती भविष्यति ॥
आश्वासनं नृदेवानां त्रासनं दुष्टचेतसाम् ।
भविष्यति चिरेणासौ यस्य विद्या सुभाषिता ॥
नासौ हन्यति शस्त्रेण न विषेण नाग्निना ।
नाकालमरणं चास्य दूरे गच्छन्ति पापकाः ॥
दर्शनात्स्पर्शनाच्चैव श्रवणादेव सर्वतः ।
भूतग्रहविवादाश्च उदकाग्निभयं तथा ॥
मृगाव्याडाहयानागाव्याधयश्च सुदारुणाः ।
(२७)
ते सर्वे न भविष्यन्ति येषां विद्या सुभाषिता ॥
सर्वथा सर्वमारैस्तु शृणु वक्षामि तत्वतः ।
पूजनीया भविष्यन्ति सर्वसत्वोत्तमा हितेति ॥

आर्यमहाविद्याराज्ञो महाप्रतिसरायाः प्रथमकल्पः समाप्तः ॥

अथातो विद्यावरस्य रक्षाविधानकल्पं व्याख्यास्यामि सर्वसत्वानुकम्पकया ।

जनरक्षाविधानेन महासिद्धिर्भविष्यति ।
यत्र यत्र कृता रक्षा भवत्यबद्धो न संशयः ॥
निर्भयं निर्ज्वलं चैव सर्वग्रहनिवारणम् ।
सुनक्षत्रानुकूलं च कर्मसङ्कलच्छेदनम् ॥
दुर्भुक्तं दुल्लङ्घितं चैव सर्वशत्रुगणैः कृतम् ।
दुष्प्रेक्षितं दुल्लिखितं काखोर्दा ये च दारुणाः ॥
चूर्णमन्त्रकृतं चैव विषभुक्तं तथा गरम् ।
सर्वे तस्य प्रशाम्यन्ति रक्षां धावयते तु यः ॥
प्रत्यङ्गिरा विपच्यन्ते यो विद्यां समतिक्रमेत् ।
परचक्रदारुणा येऽपि प्रत्यमित्रा महाभयाः ॥
सर्वे ते प्रलपं यान्ति प्रतिसरा सापतर्जिताः ।
बुद्धा रक्षन्ति सर्वज्ञा बोधिसत्वाश्च पूरताः ॥
रक्षन्ति प्रत्येकबुद्धाः श्रावकाश्च महाभयाः ।
अन्ये च बहुविधा भूयो देवा नागा महार्द्धिकाः ॥
रक्षां कुर्वन्ति तस्येमे चास्मिन् युक्तस्य नित्यशः ।
अस्याः श्रवणमात्रेण विद्याराज्ञा नरोत्तमाः ॥
निर्भयो भवति सर्वत्र इत्येवं मुनिरब्रवीत् ।
दुःस्वप्ना दुष्कृता ये च उपसर्गा ये च दारुणा ॥
व्याधिस्पृष्टा महारोगा ये ग्रस्ता राजजन्मना ।
अन्ये च बहुविधा रोगा गण्डलूताविचर्चिकाः ॥
इतयो दारुणा ये च ग्रसन्ते मानुषीं प्रजाम् ।
(२८)
मनुष्याणां विनाशार्थं हिंसकाश्च सुदारुणाः ॥
सर्वे ते प्रलपं यान्ति रक्षा यत्र महाबलाः ।
अनया कृतरक्षस्तु वध्यप्राप्तो मुच्यते ॥
यदि ग्रस्तकालपाशेन नीतश्चापि यमालयम् ।
आयुस्तस्य विवर्धेत प्रतिसरालिखनादपि ॥
परिक्षीणायुषो यस्तु सप्ताहमृत एव च ।
यावल्लिखितमात्रेण स जीवति न संशयः ॥
अथ श्रवणमात्रेण कृतरक्षा विधानतः ।
स्वस्ति प्राप्नोति सर्वत्र सुखं जीवति चेप्सया ॥
अष्टषष्ठिसहस्राणि कोटीनियुतशतानि च ।
त्रायस्त्रिंशाश्च ये देवा सर्वे शक्रपुरोगमाः ॥
रक्षार्थं तस्य सत्वस्य पृष्ठतः समुपस्थितः ।
चत्वारो लोकपालाश्च वज्रपाणिर्महाबलः ॥
विद्या कुलशतैः सार्धं रक्षां कुर्वन्ति नित्यशः ।
सोमः सुमताः सूर्यश्च ब्रह्मा विष्णुर्महेश्वराः ॥
यमश्च माणिभद्रश्च बलदेवो महाबलः ।
पूर्णभद्रो महावीरो हारीती च सपुत्रिका ॥
पाञ्चालः पाञ्चिकश्चैव कार्तिकेयो गणेश्वरः ।
श्रीरपि च महादेवी वैश्रमणः सरस्वती ॥
शङ्खिनी कूटदन्ती च तथैकजटापि च ।
धन्या एता महाभागा रक्षां कुर्वन्ति नित्यशः ॥
षण्ढानां पुत्रजननी गर्भस्थानविवर्धनी ।
रक्षेयं महती चास्य यावद्जीवं भविष्यति ॥
नराणां जयदा नित्यं युद्धे संग्रामभैरवे ।
अनया वरदा भोन्ति देवता धर्मनिश्चिता ॥
अथ पापविनाशे तु लिखनादेव सेत्स्यति ।
तथागता विलोक्यन्ति बोधिसत्वास्तथैव च ॥
यशश्च वर्धते तस्य पुण्यमायुश्च वर्धते ।
धनधान्यं समृद्धिश्च भविष्यति न संशयः ॥
सुखं स्वपिति मेधावी सुखं च प्रतिबुध्यते ।
(२९)
अधृष्यः सर्वशत्रूणां सर्वभूतगणैरपि ॥
संग्रामे वर्तमानस्य जयो भवति नित्यशः ।
विद्यायां साध्यमानायामियं रक्षा अनुत्तरा ॥
सुखं साधयते विद्यां विघ्नोऽस्य न भविष्यति ।
सिध्यन्ति सर्वकल्पाश्च प्रविष्टः सर्वमण्डले ॥
क्षिप्रं च समयज्ञोऽसौ भवेत्सर्वत्र जातिषु ।
वैस्वासिकश्च स भवेज्जिनानां गुणधारणैः ॥
सर्वमङ्गलसंपन्नः सर्वसिद्धिर्मनोरथः ।
अस्यां लिखितमात्रायां सर्वसौख्यं समृध्यति ॥
सुखं कालक्रियां कृत्वा भवेत्स्वर्गपरायणः ।
विवादे कलहे चैव विग्रहे परमदारुणे ॥
सर्वभयविनिर्मुक्तो जिनोक्तवचनं यथा ।
नित्यं जातिस्मरा भोन्ति जातौ न संशयः ॥
राजानो वशगास्तस्य चान्तःपुरमहाजनाः ।
सामात्यश्च भवेन्नित्यं साधुभिर्लोकसमतैः ॥
सर्वेषां च प्रियो भोन्ति ये देवा ये च मानुषाः ।
रक्षां तस्य करिष्यन्ति दिवा रात्रौ च नित्यशः ॥
अत्र मन्त्रपदाः सिद्धाः सम्यक्संबुद्धभाषिताः ।

नमो बुद्धाय । नमो धर्माय । नमः संघाय ॥

नमो भगवते शाक्यमुनये महाकारुणिकाय तथागतायार्हते सम्यक्संबुद्धाय ।

नमः समन्तेभ्यः सम्यक्संबुद्धेभ्यः ॥

भावनैतां नमस्कृत्य बुद्धशासनवृद्धये ।
अहमिदानीं प्रवक्षामि सत्वानुकंपया ॥
इमां विद्यां महातेजां महाबलपराक्रमाम् ।
यस्यां भाषितमात्रायां मुनिना वज्रपाशने ॥
माराश्च मारकायाश्च ग्रहाः सर्वे विनायकाः ।
विघ्नाश्च सन्ति ये केचित्तत्क्षणाद्विलपं गताः ॥

तद्यथा । ओं गिरि २ गिरिणि २ गिरिवति गुणवति आकाशवति । आकाशविशुद्धे । आकाशे । गगणतले । आकाशविचारिणि । ज्वलितशिखरे । (३०) मणिमौक्तिखचितमौलिवरे सुकेशे । सुवेशे । सुवक्त्रे सुनेत्रे । सुवर्णे सुवर्णगौरे । अतीते । अनागते । प्रत्युत्पन्ने । नमः सर्वेषां बुद्धानां ज्वलिततेजसाम् । बुद्धे सुबुद्धे । भगवति सुरक्षणि । सुक्षेमे सुप्रभे । सुदमे सुदान्ते । वरे वरदे । भगवति भद्रवति । भद्रे सुभद्रे । विमले जयभद्रे । चण्डे प्रचण्डे । चण्डि २ वज्रचण्डे घोरि गन्धारि गौरि चण्डालि मातङ्गि वर्चसि । सुमति । पुक्कसि । शवरि शावरि । शंकरि द्रमिडि द्रामिडि रौद्रिणि । सर्वार्थसाधनि ।

हन २ सर्वशत्रून् । दह २ सर्वदुष्टान् प्रेतपिशाचडाकिनीनां मनुष्यामनुष्याणां च । पच २ हृदयं विध्वंसय जीवितं सर्वदुष्टग्रहाणां नाशय सर्वपापानि मे भगवति । रक्ष २ मां सपरिवारं सर्वसत्वांश्च सर्वत्र सर्वदा सर्वभयोपद्रवेभ्यः सर्वदुष्टानां बन्धनं कुरु २ सर्वकिल्बिषनाशनि । मार्तण्डे मृत्युदण्डनिवारिणि मानिनि । चले विचले । चिटि २ विटि २ निटि नितुटे । घोरिणि वीरिणि । प्रवरसवरे । चण्डालि । मातङ्गि । रुन्धसि । वर्चसि । सुमति पुक्कसि । शवरि शावरि । शंकरि द्रमिडि द्रामिडि । दहनि । पचनि पाचनि । मर्दनि । सरले २ सरलंभे । हीनमध्योत्कृष्टविदारिणि । महिले २ महामहिले । निगडे २ निगडभञ्जे । मत्ते । मट्टिनि । दान्ते । चक्रे चक्रवाकिनि । ज्वले २ ज्वालिनि । शवरि शावरि सर्वव्याधिहरणि । चूडि २ चूडिनि २ महाचूडिनि । निमि २ निमिन्धरि । त्रिलोकदहनि । त्रिलोकालोककरि । त्रैधातुकव्यवलोकनि । वज्रपरशुपाशमुङ्गरासिचक्रत्रिशूलचिन्तामणिमहाविद्याधारिणि । रक्ष २ मां सर्वस्थानगतं सर्वदुष्टभयेभ्यः सर्वमनुष्यामनुष्यभयेभ्यः सर्वभयेभ्यः सर्वव्याधिभ्यः । वज्रे वज्रवति वज्रपाणिधरे । हिलि २ मिलि २ किलि २ चिलि २ सिलि २ वर २ वरदे ।

सर्वत्र जयलब्धे स्वाहा । सर्वपापविदारिणि स्वाहा । सर्वव्याधिहरिणि स्वाहा । संभरणि स्वाह । सर्वशत्रुभयहरिणि स्वाहा । स्वस्तिर्भवतु मम सर्वसत्वानां च स्वाहा । शान्तिंकरि स्वाहा । पुष्टिंकरि स्वाहा । बलवर्धनि स्वाहा । ओं जयतु जये (३१) जयवति कमले विमले स्वाहा । विपुले स्वाहा । सर्वतथागतमूर्ते स्वाहा । ओं भूरि महाशान्ति स्वाहा । ओं भूरि २ वज्रवति सर्वतथागतहृदयपूरणि आयुःसंधारणि । बल २ बलवति जय विद्ये हूं हूं फट्फट्स्वाहा । ओं मणिधरि वज्रिणि । महाप्रतिसरे हूं हूं फट्फट्स्वाहा ॥

यस्य कस्यचित्महाब्राह्मण अनया तथागतमूर्त्या विद्यामन्त्रपदधारिण्या रक्षा कृता गुप्तिः परित्राणं परिग्रहं परिपालनं शान्तिः स्वस्त्ययनं दण्डपरिहारः शस्त्रपरिहारो विषदूषणं विषनाशनं कृतो भवेत् ।

तस्य परीक्षीणामायुः पुनरेव विवर्धते ।
सुचिरं सुखं जीवति स्मृतिसंपन्नश्च भवति ॥

उच्चारणमात्रेण वज्रावमर्जनेन वा अकालमरणात्महाव्याधिभ्यश्च परिमुच्यते । सर्वरोगाश्चास्य प्रशाम्यन्ति । दीर्घम्लानान्यवमार्जनमात्रेण प्रशमं गच्छन्ति । दिने दिने स्वाध्यायं कुर्यान्महाप्राज्ञो भवति । ओजोबलवीर्यप्रतिभानसंपन्नो भवति । सर्वकर्मावरणानि चास्य नियतवेदनीयानि निरवशेयं परिक्षयं गच्छन्ति । सर्वबुद्धबोधिसत्वदेवनागयक्षादीनि चास्य ओजोबलवीर्यं काये प्रक्षेप्स्यन्ति । महाप्रीतिर्बहुलो भविष्यति । अन्तशो महाब्राह्मण इयं महाविद्यामन्त्रपदरक्षा तिर्यग्योनिगतानामपि मृगपक्षिणां येषां कर्णपुटे विपतिते सर्वे वैवर्त्तिका भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ । कः पुनर्वादो य इमां महाप्रतिसरां धारणीं श्राद्धः कुलपुत्रो वा कुलदुहिता वा भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा राजा वा राजपुत्रो वा राजामात्यो वा ब्राह्मणो वा क्षत्रियो वा तदन्यो वा यः कश्चिच्छ्रोक्षति श्रुत्वा च महत्या श्रद्धया गौरवेणाध्याशयेन लिखिष्यति लिखापयिष्यति धारयिष्यति वाचयिष्यति । तीव्रेण मनसा भावयिष्यति । परेभ्यश्च विस्तरेण संप्रकाशयिष्यति । तस्य महाब्राह्मणाष्टौ अकालमरणानि प्रतिकांक्षितव्यानि न प्रभवन्ति । न चास्य काये महाव्याधयो भविष्यन्ति । नाग्निर्न विषं न शस्त्रं न गरं (३२) न काखोर्दा न किरणा न मन्त्रकर्मणं न चूर्णयोगो नाङ्गशूलं न शिरोवर्ति एकाहिकं द्वैतीयकं चातुर्थकं सप्ताहिका वा ज्वाला न क्रमिष्यन्ति । स स्मृत एव सुखं स्वस्तिना स्वपिति । स्मृत एव विबुध्यते । महापरिनिर्वाणलाभी भविष्यति । सकृत्सहधर्मेण महदैश्वर्यं चाधिगच्छन्ति । स यत्रयत्रोपपद्यते तत्रतत्र जातौ जातौ जातिस्मरो भविष्यति । सर्वसत्वानां च प्रियो भविष्यति । वन्दनीयश्च पुद्गलो भविष्यति । सर्वनरकगतितिर्यग्योनिगतिगणप्रेतोपपत्तिभ्यश्च परिमुक्तो भविष्यति । यथा चार्कमण्डलं सर्वसत्वानां तथा रश्म्यावभासकरो भविष्यति । यथा चन्द्रमण्डलममृतेन प्रभवता सर्वसत्वानां कायं प्रह्रदयति तथा धर्मामृतेन सर्वसत्वानां चित्तसन्तानानि प्रह्रदयिष्यति । सर्वदुष्टयक्षराक्षसभूतप्रेतपिशाचोन्मादापस्मारडाकिनीग्रहविघ्नविनाशकादयः सर्वेऽस्य महाप्रतिसराया महाविद्यायाः प्रभावेन न शक्ता विहेठनां कर्तुम् । उपसंक्रामतां च तेषामियं महाविद्याराज्ञी स्मर्तव्या । ततस्ते सर्वे दुष्टचित्ता विद्याधरस्य वश्या आज्ञया श्रवणविधेया भविष्यन्ति । अस्या एवानुभावेन यदुत महाप्रतिसराया महाविद्याराज्ञो न चास्य शत्रुभयं भविष्यति । अनतिक्रमनीयश्च भविष्यति । सर्वशत्रुगणै राजमहाराजामात्यब्राह्मणगृहपतिभिश्च । अन्तशो वध्यार्होऽपि वधकपुरुषैरुच्छ्रितान्यपि शस्त्राणि खण्डं खण्डं गच्छन्ति पांशुमयानीव विशीर्यस्ततश्च समये सर्वधर्मा अस्याभिमुखी भविष्यन्ति । महच्चास्य स्मृतिबलं भविष्यन्ति ।

रक्षोघ्नं परमं ह्येतत्पवित्रं पापनाशनम् ।
श्रीकरं धीकरं चैव सर्वगुणविवर्धनम् ॥
सर्वमङ्गलकरी ह्येषां सर्वामङ्गलविनाशनी ।
सुस्वप्नदर्शनी चापि दुःस्वप्नस्य विनाशनी ॥
स्त्रीपुंसयोः परारक्षाविद्येयं हि महाबला ।
अटवीकान्तारदुर्गेषु नित्यं मुच्यन्ति तत्क्षणात् ॥
सर्वकामांश्च लभते बुद्धस्य वचने यथा ॥
(३३)
पथ उत्पथमापन्ना एषां विद्यामनुस्मरेत् ॥
पन्थानं लभते शीघ्रं भोजनं पानमुत्तमम् ।
कर्मणा मनसा वाचा यत्कृतं पूर्वजन्मसु ॥
अशुभं बहुविधा किंचित्सर्वं क्षययिष्यति ।
स्मरणाद्धारणाच्चैव उद्ग्रहाल्लिखनादपि ॥
पठनाद्वचनाच्चैव जयनात्परदेशनात् ।
भविष्यत्यचिरेणासौ सर्वधर्मगतिं गतः ॥
एवं हि धर्मरसे प्राप्ते पापा गच्छन्ति संक्षयम् ।
सिध्यन्ते सर्वकर्माणि मनसा यद्यदीप्सितम् ॥
सर्वमृत्युभये चैषां त्राणं तस्य भविष्यति ।
राजाग्निरुदकं चैव विद्युद्वा तस्करोऽपि वा ॥
युद्धसंग्रामकलहा दंष्ट्रिणो ये च दारुणाः ।
सर्वे ते प्रलपं यान्ति विद्याया लक्षजायातः ॥
विद्येमां परमां सिद्धां सर्वबुद्धैर्हि देशिता ।
कीर्तिमाना न सीदन्ति बोधिसंभारपूरये ॥
सर्वेषु चैव स्थानेषु इमां विद्यां प्रयोजयेत् ।
यानि चेच्छन्ति कार्याणि स्वपरार्थप्रसिद्धये ॥
सिध्यन्ति अयत्नतस्थानि विद्यातो नात्र संशयः ।
नमः सर्वतथागतेभ्यो येऽपि तिष्ठन्ति दशसु दिक्षु ॥

ओं मणिवज्रे हृदयवैरे मारसैन्यविदारिणि हन २ सर्वशत्रून् रक्ष २ मम शरीरं सर्वसत्वानां च वज्रे २ वज्रगर्भे २ । त्रासय २ सर्वमारभवनानि हूं हूं फट्फट्स्वाहा ॥

बुद्धमैत्रीसर्वतथागतवज्रकल्पाधिष्ठिते सर्वकर्मावरणान्यपनय स्वाहा ॥

तदिदानीं प्रवक्षाम्यातुराणां चिकित्सानम् ।
चतुरश्रं मण्डलकं कुर्यात्मृद्गोमयसमन्वितम् ॥
पञ्चरङ्गिकचूर्णेन चित्रयेद्मण्डलं शुभम् ।
चतुरः पूर्णकुंभांश्च स्थापयेद्विधिना बुधः ॥
पुष्पाण्यवकिरेत्तत्र धूपयेद्धूपमुत्तमम् ।
(३४)
बलिकर्मं च कुर्वीत महासाहस्रप्रमर्दनम् ॥
पूर्ववद्गन्धपुष्पादीन् दद्याच्चात्र विधानतः ।
चतुरस्तीरिकाः स्थाप्याः सर्वाश्च पट्टबद्धकाः ॥
स्थापयित्वातुरं पश्चाच्छुचिवस्त्रसमावृतम् ।
शुभगन्धानुलिप्ताङ्गं प्रवेशयेत्मध्यमण्डले ॥
पूर्वामुखं निषद्यैतामेतां विद्यामुदाहरेत् ।
सप्तसो जप्तया चास्य रक्षां कुर्याद्विचक्षणः ॥
आतुरस्य ततोऽर्थाय वारांश्चाप्येकविंशति ।
उदाहरेदिमां विद्यां सर्वरोगोपशान्तये ॥
भूयश्च सप्तवारान् वै वरिकुम्भं सुमन्त्रितम् ।
पश्चान्निवेशयेद्मन्त्री वरिपुष्पं यथाविधिः ॥
इत्येवं दक्षिणे पार्श्वे प्रक्षिपेत्सप्त एव तु ।
पश्चिमा यान्तु सप्तैव उत्तरायां तथा दिशि ॥
अध ऊर्ध्वं तु सप्तैव कृता रक्षा भविष्यति ।
एवं कृते द्विजश्रेष्ठ सर्वदुःखात्परिमुच्यते ॥
एषा रक्षा मया ख्याता शाक्यसिंहेन भाषिता ।
नास्त्यस्याः परा काचिद्रक्षा विद्या त्रिधातुके ॥

न तस्य मृत्युर्न जरा न रोगो न च प्रियैर्जातुवियोगभावः । न चाप्रियैस्तस्य हि संप्रयोगो भवेद्धियो भावितचित्तसंततिः । यमोऽपि तस्य वरधर्मराजा करिष्यते पूजां सगौरवेण । कथयिष्यते देवसुरं हि गछ क्षणिकं ममेदं नरकपुरज्वारिं करिष्यसि । ततो विमानैः सुबहुप्रकाररिर्महर्द्धिको याति सुरालयं शुभम् । एवं ह्यसौ नरमरुद्यक्षराक्षसैः संपूजितस्तत्र सदा भविष्यति ।

वज्रपाणिश्च यक्षेन्द्र इन्द्र चैव शचीपतिः ।
हारीती पाञ्चिकश्चैव लोकपाला महार्द्धिकाः ॥
चन्द्रसूर्यौ सनक्षत्रौ ये ग्रहाः परमदारुणाः ।
ते च सर्वे महानागा देवता ऋषयस्तथा ॥
असुरा गरुडा गन्धर्वाः किन्नराश्च महोरगाः ।
नित्यानुबुद्धारक्षार्थं यस्य विद्यामहाबलाः ॥
(३५)
लिखितां धारयेत्प्राज्ञो बाहौ बद्ध्वा महर्द्धिकाः ।
महतीं लभते पूजां संपदं चापि नित्यश इति ॥

महाप्रतिसराया विद्याराज्ञो रक्षाविधानकल्पो विद्याधरस्य समाप्तः ॥