मयमतम्/अध्याय ११-१५

विकिस्रोतः तः

अथैकादशोऽध्यायः[सम्पाद्यताम्]

भूमिलम्बविधानं तुवक्ष्येसं क्षेपतः क्रमात्
चतुरश्रमायताश्रम् वर्तु लं च तदायतम् 1

अष्टाश्रम् च षडश्रं च द्वयश्रवृत्तं तथैवच
एतद् विन्यासभेदं स्यात् क्षयवृद्धिविधानतः 2

भूमिलम्भमिति प्रोक्तं त्रिचतुर्हस्तमानतः
द्विद्विहस्तविवृद्ध्यैकं भूमेर्मानं चतुष्टयम् 3

पञ्चषड्ढस्तमारभ्य द्विद्विहस्तविवर्धनात्
द्वितलेतुचतुर्मानं रुद्रभानुकरान्तकम् 4

सप्ताष्टहस्तमारभ्य द्विद्विहस्तविवर्धनात्
पञ्चदशविकारान्तं त्रितलेपञ्चमानकम् 5

नवपङ्क्तिकराद् यावत् पक्षषोडशहस्तकम्
चतुष्पञ्चतलं प्रोक्तं चतुर्मानं सनातनम् 6

एकहस्तं द्विहस्तं वा क्षुद्रमेकतलं स्मृतम्
यु ग्मायु ग्मकरै र्मानैर्हस्तार्धो नसमन्वितैः 7

केचिद् वदन्ति देवानां मानुषाणां विमानके
विस्तारेसप्तषट् पञ्चचतु स्त्र्यं शेऽधिकं त्रिभिः 8

शान्तिकं पौष्टिकं जयदमद्भुतं सार्वकामिकम्
उच्छ्रायं द्विगुणं पादार्धा धिकं चापि सम्मतम् 9

पञ्चदशकर व्यासाद्धीनं क्षुद्रविमानकम्
सप्ताष्टाधिकपङ्क्त्यादि द्विद्विहस्तविवर्धनात् 10

आसप्ततेश्चतुर्भूम्यादीनि त्रीणि मतानि च
सप्तविं शतिभेदानि द्वादशान्तान्यनुक्रमात् 11

त्रिचतु र्विंशतिरलेर्या वच्छतकरान्तकम्
त्रित्रिहस्तविवृद्ध्या तुत्रिनवोत्सेधमिष्यते 12

एवमु त्कृष्टमानेषुश्रेष्ठमध्याधमं भवेत्
त्रिचतुष्पङ्क्तिहस्तादि द्विद्विहस्तविवर्धनात् 13

पञ्चषट् षष्टिहस्तान्तं सं ख्यया पूर्वसंस्कृतिः
चतुस्तलविमानादि द्वादशान्तं विधीयते 14

सप्ताष्टपङ्क्ते रारभ्य त्रित्रिहस्तविवर्धनात्
पञ्चषण्णवतिर्या वदुच्चं प्रागिव सं ख्यया 15

श्रेष्ठमध्यकनिष्ठं स्यादेवं मध्यक्रमेषुच
नवपङ्क्तिकरात् पञ्चषट् पञ्चाशत्करान्तकम् 16

द्विद्विहस्तविवृद्ध्या तुचतु र्विंशतिसं ख्यया
पञ्चादिद्वादशान्तानां हर्म् याणां विपुलं क्रमात् 17

सप्ताष्टनवभूमानां धाम्नामु क्तप्रमाणतः
यु ञ्ज्याद् द्वादशभूम्यन्तं विमानं मानविद्वरः 18

द्विःषट् त्रयोदशक्ष्मान्तषोडशक्ष्मं यथाक्रमम्
षट् षट् षट् सप्तपञ्चाशद्धस्तव्यासैः शिवोदितम् 19

विस्तारं स्तम्भतो बाह्येजन्मात् स्थूप्यन्तमुन्नतम्
केचिदाशिखरान्तं तुप्रवदन्ति तदुन्नतम् 20

महतामु च्छ्रयो हस्तैरुद्दे शः समुदाहृतः
तत्तद्व्यासेतुसम् तां शेनिर्देशोच्चं त्रियं शकः 21

विस्तारद्विगुणोत्सेधं युक्त्याल्पेषुप्रयोजयेत्
देवानां सार्वभौमानामाद्वादशतलं विदुः 22

रक्षोगन्धर्वयक्षाणामेकादशतलं मतम्
विप्राणां नवभौमं स्याद् दशभौममथापि वा 23

यु वराजस्य राज्ञश्च पञ्चमस्यै व सप्तभूः
तदाद्येकादशतलं षण्णां वै चक्रवर्तिनाम् 24

त्रिभूमं च चतुर्भू मं वणिजां शूद्रजन्मनाम्
राज्ञां पञ्चतलं वाऽपि मतं पट्टभृतां तुतत् 25

शतहस्तसमु त्सेधात् सप्तत्यारत्निविस्तरात्
नेष्यतेऽधिकमानं तुसर्वथा तद्विचक्षणैः 26

क्षुद्राल्पमध्यमवरादिविमानकानां व्यामिश्रहस्तकयुजां विपुलोच्चभेदम्
यु क्त्या यथोदितमजाद्यमरेश्वराणां नॄ णां तथै वकथितं हि मया पुराणैः 27

इति मयमतेवस्तुशास्त्रेभूलम्बविधानो नाम एकादशोऽध्यायः

अथ द्वादशोऽध्यायः[सम्पाद्यताम्]

तै तिलानां द्विजातीनां वर्णानां हम्म्यके गृहे
गर्भन्यासविधिः सम्यक् सं क्षेपाद् वक्ष्यतेऽधुना 1

सर्वद्रव्यैस्तुसम्पन्नं गर्भंतत् सम्पदां पदम्
द्रव्यहीनमसम्पन्नं गर्भंसर्वविपत्करम् 2

तस्मत् सर्वप्रयत्नेन गर्भंसम्यग् विनिक्षिपेत्
गर्भश्वभ्रस्य गाम्भीर्यंस्वाधिष्ठानोन्नतेसमम् 3

चतुरश्रसमं कुर्यात् गर्तमिष्टकयाश्मना
आपूर्यसलिलं तस्य मूलेसर्वमृदं क्षिपेत् 4

निम्नगाह्रद सस्याद्रिवल्मीक कु लिरावटे
हलस्थलाब्धिगोशृङ्गहस्तिदन्तेषुमृत्तिका 5

तदूध्ध्वंतस्य मध्येतुपद्मकन्दं न्यसेत् पुनः
पूर्वेचोत्पलकन्दं च दक्षिणेकौमुदं क्षिपेत् 6

सौगन्धिं पश्चिमेविद्यात् नीललोहमुदग्दिशि
धान्यान्यष्टौ तदूध्ध्वंतुशालिर्व्री हिश्च कोद्रवः 7

कङ्कु मुँं च माषं च कुलत्थं च तिलं तथा
प्रादक्षिण्येन शाल्यादीनीशानादिषुविन्यसेत् 8

तस्योपरि निधातव्यं मञ्जूषं ताम्रनिर्मितम्
त्रिचतुर्मात्रविस्ताराद् द्विद्व्यङ्गुलविवर्धनात् 9

पञ्चषडि् वंशमात्रान्तं मानं द्वादश भाजने
समोच्चं वाऽष्टषट् पञ्चभागोनं वा तदु च्छ्रयम् 10

एकादिद्वादशान्तानां हर्म् याणामु दितं क्रमात्
गृहीतोच्चत्रिभागैकं पादालम्बिविधानकम् 11

तत्तद्धम्म्याङि् घ्रविष्कम्भसमं वाष्टां शहीनकम्
त्रिपादं वा विशालं तत् फेलायाः प्रागिवोच्छ्रयम् 12

त्रिवर्गमण्डपाकारं वृत्तं वा चतुरश्रकम्
पञ्चविं शतिकोष्ठं वा नवकोष्ठकमेव वा 13

फेलोच्चार्धत्रिभागैकं कोष्ठभित्त्यु च्छ्रयं भवेत्
तद्भित्तिघनतां कुर्याद् यवैद्द्वित्रिचतुष्टयैः 14

उपपीठपदेदेवाः पञ्चविं शति सम्मताः
श्वभ्रोध्ध्वभूतलं सर्वंगन्धैः पुष्पैश्च दीपकः 15

वासयित्वा तुपूर्वेद्युः पञ्चगव्यैस्तुभाजनम्
प्रक्षाल्य सूत्रैरावेष्ट्य शुद्धशाल्यास्तरेशुभे 16

स्थण्डिलेचण्डितं कृत्वा मण्ड कं वाऽथ तत्परम्
विन्यस्य देवान् ब्रह्मादीन् श्वेततण्डुलधारया 17

आराध्य गन्धपुष्पाद्यैर्भुवनाधिपतिं जपेत्
स्थपतिः कलशान् न्यस्य सर्वान् वस्त्रविभूषितान् 18

सु गन्धोदकसम्पूर्णान् गन्धपुष्पसमर्चितान्
निष्कलङ्कानसु षिरान् पञ्चपञ्चै व सूत्रितान् 19

तस्य प्रदक्षिणेगन्धशालिस्थण्डिलमण्डले
आराध्य गन्धपुष्पाद्यैर्बलिं दत्त्वा यथाविधि 20

भाजनाय ततः पात्रं वेष्टयेच्छ् वे तवाससा
श्वेतवस्त्रास्तरस्योध्ध्वेन्यसेद् दर्भास्तरेशु चिः 21

पीत्वा शुद्धं पयो रात्रावुपोष्याधिवसेत् ततः
स्थपतिः शास्त्रवित् प्राज्ञः सूत्रग्राह्यादिसेवितः 22

धान्यादीन्यथ वस्तूनि भाजनाभ्यन्तरेन्यसेत्
हेमराजतशुल्बैश्च शालिव्रीहिकुलत्थकान् 23

त्रपुणा कङ्कु सीसेन माषो मुोँऽयसायसा
कोद्रवं च तिलं भाव्यं वै कृन्तेन प्रयत्नतः 24

ईशादिषुन्यसेदेतान्यष्टदिक्षुयथाक्रमम्
जयन्तेजातिहिङ्गु ल्यं हरितालं भृशेमतम् 25

मनःशिला च वितथेभृङ्गराजेतुमाक्षिकम्
राजावर्तंतुसु ग्रीवेशोषेगै रिकमीरितम् 26

अञ्जनं गणमुख्येस्यादु दितौ दरदं विदुः
मध्यमेपद्मरागं तुमरीचौ विद्रुमं मतम् 27

सविन्द्रेपुष्परागं तुवै ड र्यंस्याद् विवस्वति
वज्रमिन्द्रजयेविद्यादिन्द्रनीलं तुमित्रके 28

रुद्रराजेमहानीलं मरकतं मुमहीधरे
मु क्तापवत्सेमध्यादिपूर्वेण क्रमशो न्यसेत् 29

विष्णुक्रान्ता त्रिशूला श्रीः सहा दूर्वाच भृङ्गकम्
अपामार्गै कपत्राब्जमीशादिष्वौषधान्न्यसेत् 30

चन्दनागरुकर्पू रलवङ्गैलालताघ्नम्
तक्कोलेनाष्टगन्धां स्तुजयन्तादिषुविन्यसेत् 31

स्वस्तिकानि चतु र्दिक्षुहेमायस्ताम्ररूप्यकः
सर्वेषामपि सामान्यमेतच्चिह्नैस्तुलक्ष्यते 32

कपालशूलखट्वाङ्गं परशुं वृषभं तथा
पिनाकं हरिणं पाशं हैमं पूर्वा दिषुन्यसेत् 33

कार्तस्वरमयं चाष्टमङ्गलं तत्र पूर्ववत्
दर्पणं पूर्णकु म्भं च वृषभं यु ग्मचामरम् 34

श्रीवत्सं स्वस्तिकं शङ्खं दीपं देवाष्टमङ्गलम्
स्थापकस्यानु शिष्यस्तान् स्थपतिः क्रमशो न्यसेत् 35

आच्छाद्य भाजुअनं शु भ्रं पिधानेन तुनिश्चलम्
तमेवाराध्य गन्धाद्यैः स्नापयेत् कलशोदकः 36

विप्रस्वाध्यायघोषैश्च शङ्खभेर्या दिनिःस्वनैः
कल्याणजयघोषैश्च स्थपतिः स्थापके न तु 37

पुष्पकुण् डलहारादिकटकरङ्गुलीयकः
पञ्चाङ्गभूषणैर्हेमनिर्मितैश्च विभूषणैः 38

हेमयज्ञोपवीतस्तुनववस्त्रोत्तरीयकः
श्वेतानुलेपनश्चै व सितपुष्पशिराः शु चिः 39

ध्यात्वा धरातलं सर्वंदिग्द्विपेन्द्रसमन्वितम्
ससागरं सशै लेन्द्रमनन्तस्योपरि स्थितम् 40

सृष्टिस्थितिलयाधारं भु वनाधिपतिं जपेत्
ब्रह्मादीनां च देवानां देवीनां द्वारदक्षिणे 41

स्तम्भमूलेयथायोगं गर्तेगर्भंनिधापयेत्
होमस्तम्भेप्रतिस्तम्भेपादुकाच्च प्रतेरधः 42

तस्मादत्युन्नतं निम्नं गर्भंसम्पद्विनाशकृत्
चतुरश्रीकृता सारवृक्षपाषाणनिर्मिता 43

पात्रद्विगुणविस्तारा पञ्चाङ्गुलघनान्विता
प्रतिमाघ्नका या सा स्थाप्या तद्भाजनोपरि 44

तदूध्ध्वेस्थापयेत स्तम्भं संश्लिष्टचतु रिष्टकम्
सरत्नौषधिभिर्युक्तं वस्त्रपुष्पादिशोभितम् 45

ईशगर्भमिदं प्रोक्तमन्येषां तुप्रवक्ष्यते
विष्णु धिष्ण्येच गर्भंस्याद्धैमं चक्रं तुमध्यमे 46

शङ्खकार्मु कदण्डं च रुक्ममायसनन्दकम्
धनुः शङ्खं च वामेतुखङ्गं दण्डं च दक्षिणे 47

प्रमुखेवै नतेयं च स्थापयेद्धेमनिर्मितम्
यज्ञोपवीतमोङ्कारं स्वस्तिकाग्निं च हेमजम् 48

पद्मं कं मण्डलुं चाक्षसूत्रदर्भाश्च ताम्रजाः
ब्रह्मासनपदेमध्येऽम्बुरुहं स्थाप्यमेवच 49

तस्मिन्मध्येतदोङ्कारं यज्ञसूत्रावृतं तुतत्
स्वस्तिकानि चतु र्दिक्षुवामेस्थाप्यं कमण्डलु 50

कुशाक्षमालां वामेतुपुरस्तीक्ष्णानलं क्षिपेत्
ब्रह्मगर्भमिदं प्रोक्तं ब्रह्मस्थानेप्रतिष्ठितम् 51

स्वस्तिकं चाक्षमालां च शक्तिं चक्रं च कु क्कुटम्
मयूरं चै व सौवर्णमयसा शक्तिमध्यमे 52

वामेच कु क्कुटं दद्याद् दक्षिणेच मूयरकम्
अक्षसूत्रं पुरः स्थाप्यं गर्भंषण्मुखसद्मनि 53

अम्बुजं चाङ्कुशं पाशं सिं हं सवितृधामके
वज्रेभं नन्दकं चक्रं चामरं धाम्नि वज्रिणः 54

जाम्बूनदमयं मेषं शक्तिं पावकधामनि
अयसा महिषं पाशं हेमजं यमधामनि 55

अयसा नन्दकं गर्भंनिअर्तेस्तुविमानके
वरुणेमकरं पाशं लोहजं हेमजं तथा 56

वायोः कृष्णमृगं हैमं व्यालं तारापतेः क्षिपेत्
नरवाहेनरः प्रोक्तो मकरो मदनालये 57

टङ्कं दन्ताक्षमाला च विघ्नेशावासगर्भके
ओङ्कारं वक्रदण्डं च सौवर्णंचार्यकस्य तु 58

अश्वत्थं करकं सिं हं छत्रं स्वर्णेकारयेत्
अश्वत्थः पुरतः स्थाप्यश्छत्रं तस्योपरि स्थितम् 59

कु ण्डिकापरभागेतुके सरी दक्षिणेभवेत्
सौगतेधामके गर्भंश्रीवत्साशोकसिं हकम् 60

कमण्डल्वक्षमाला च शिखिपिञ्छं तुहेमजम्
त्रिच्छत्रं करकं तालवृन्तं रुक्ममयं भवेत् 61

वृक्षस्तुपुरतः स्थाप्यश्छत्रं तस्योपरि स्थितम्
पिञ्छं दक्षिणभागेऽक्षमाला वामेतुकु ण्डिका 62

श्रीरूपं मध्यमेस्थाप्यं देसरी तत्र विन्यसेत्
अपरेकरकं तालवृन्तं गर्भो जिनालये 63

शुकं चक्रं च हैमं तुसिं हं शङ्खं च राजतम्
मृगं ताम्रमयं चै व कृष्णलोहेन नन्दकम् 64

एवं दु र्गा विमानेतुगर्भंकुर्याद् विचक्षणः
खट्वाङ्गं नन्दकं शक्तिं क्षेत्रपालस्य हेमजम् 65

पद्मं लक्ष्म्याः सरस्वत्या ओङ्कारं च त्रिवर्णकम्
ध्वाङ्क्षके तूत्पलं हैमं ज्येष्ठाकोष्ठस्य गर्भके 66

कपालशूलघण्टाभिः प्रेतान् कालीगृहेन्यसेत्
हं सोक्षशिखिताष्क्ष्यांश्च सिं हेभप्रेतरूपकान् 67

जाम्बूनदमयान् मातृकोष्ठके षुनिधापयेत्
पद्माक्षसूत्रकं दीपं रोहिणीगृहगर्भके 68

दर्पणं चाक्षमालां च पार्वतीभवनेविदुः
पद्माक्षसूत्रकं पूर्णकु म्भं मोहिनिधामनि 69

छत्रध्वजपताकाश्च सचिह्नैः सह वाहनैः
अनु क्तानां च देवानां देवीनां गर्भमिष्यते 70

द्विजातीनां तुवर्णानां जातिगर्भो विधीयते
करकं दन्तकाष्ठं च शुल्बं हेममयं भवेत् 71

यज्ञोपवीतं यज्ञाग्निं यज्ञभाण्डं च राजतम्
यज्ञोपवीतमध्यस्थं यज्ञभाण्डं च दक्षिणे 72

वामेतुकरकं काष्ठमनलं पुरतो भवेत्
विप्रगर्भमिदं प्रोक्तं स्वस्तिकानि चतु र्दिशि 73

मध्येहेममयं चक्रं वामेशङ्खं च राजतम्
कर्मु कं ताम्रजं वामेदण्डो रुक्मेण दक्षिणे 74

खङ्गं चायसमेव स्याच्चतुर्ना गाश्चतु र्दिशि
हैममायसकं ताम्रं राजतं क्रमशो न्यसेत् 75

मध्येश्रीरूपकं हैमं स्वस्तिकानि चतु र्दिशि
छत्रध्वजपताकाश्च दण्डं शासनात्मकम् 76

राजद्वारेभवेद् गर्भमन्येषां तुयथार्हकम्
वाष्ष्णेयकानां गर्भंचेद् विजयद्वारदक्षिणे 77

अयसा हलजिह्वां च शङ्खं ताम्रकुलीरकम्
पञ्चायुधं सीसमाषं हयं वृषगजौ हरिम् 78

अर्का ग्निवरुणेन्दूनां स्थानेसम्यङ् निवेशयेत्
चत्वारो धेनुकाः श्वेतनिर्मिताश्च चतु र्दिशि 79

गोपुङ्गवं च पुरतो श्यानां प्रविधीयते
बीजपात्रं हलं हैमं ताम्रजं यु गमिष्यते 80

रजतेन पशुं विद्याच्चतु र्दिक्षुविनिक्षिपेत्
मध्येगोपुङ्गवं चै व तन्निरीक्ष्य यु गं पुनः 81

हलं दक्षिणभागेतुवामां शेबीजपात्रकम्
बीजं हिरण्मयं शूद्रगर्भंवैश्येच सम्मतम् 82

गृहाणां गृहगर्भंच जातिगर्भंविमिश्रितम्
अनेकभूमियु क्तानि यानि वासगृहाणि च 83

पुष्पदन्तेच भल्लाटेमहेन्द्रेच गृहक्षते
दक्षिणेनेत्रभित्तौ तुसौम्यादौ तुचतु र्गृहे 84

द्वारप्रदक्षिणेस्तम्भेयोगेवाऽपि विधीयते
स्थाली तदुपधानं च दार्विकं तण्डुलं खजम् 85

गलक्यं दन्तकाष्ठाग्निं कृष्णं लोहं महानसे
दक्षिणेभवनेगर्भः कु म्भः शाल्युदपूरितः 86

धनसद्मनि गर्भस्तुसार्गलं कु ञ्चिकं भवेत्
पर्यङ्कदीपशयनं गर्भं विद्यात् सुखालये 87

येन यत् कर्मनिष्पाद्यं तेन तँ हगर्भकम्
यानि यस्य स्वचिह्नानि तानि तस्य निधापयेत् 88

सभाप्रपामण्डपेषुकर्णपादेप्रदक्षिणे
द्वितीयस्तम्भके द्वारदक्षिणाङ् घ्रौ तुवा न्यसेत् 89

अयोमयगजो गर्भः कृष्णलोहेन कोद्रवः
लक्ष्मीं सरस्वतीं हेमां पात्रमध्येतुविन्यसेत् 90

गर्भो नाट्यसभायां च प्रक्षिपेत् कु टिकामुखे
मण्डितस्तम्भमूलेवाऽप्युभयोरपि चेष्यते 91

आतोद्यानि च सर्वा णि सर्वलोहमयानि च
श्रीवत्सं पङ्कजं पूर्णकु म्भं हेमजमिष्यते 92

हेमगर्भसभागर्भो द्वारस्तम्भेविधीयते
पूर्वोक्ते कर्णपादेवा गर्भस्थानं तुतस्य वै 93

तुलाभाराभिषेकार्थंमण्डपेवाऽथ तद् भवेत्
पाषण्ड्याश्रमिणां वासेतत्तच्चिह्नं तुगर्भकम् 94

जात्यन्तराणां सर्वेषां तत्तच्चिह्नं प्रयोजयेत्
गृहिणी गर्भिणी कर्तु र्यदि गर्भंन निक्षिपेत् 95

रत्नानि धातवश्चै व स्वल्पविस्तारभाजने
तद्दैवस्थानभावज्ञै न्न्यस्तव्यानीह तानि वै 96

द्वारप्रदक्षिणेस्थानेस्वामिस्थानस्य दक्षिणे
अभ्यन्तरमुखं गर्भंवस्तुमध्यं बहिर्मु खम् 97

इदं मन्त्रं समुच्चार्यप्राङ्मुखो वाऽप्युदङ्मुखः
पूर्वोक्तविधिना सम्यक् स्थापयेत् स्थपतिः क्रमात् 98

अयं मन्त्रः
स्वरदेवताभ्यो मन्त्रेभ्यः स्वाहा
सर्वरत्नाधिपतयेस्वाहा
उत्तमप्रजापतयेसत्यवादिनेनमः
श्रियै नमः
सरस्वत्यैनमः
वै वस्वताय नमः
वज्रपाणयेनमः
अभिनवसर्वविघ्नप्रशमनाय नमः
नमो वह्नयेस्वाहा
वापीकत्न पतटाके तुदीर्घिकासेतुबन्धने
मत्स्यमण्ड ककु लिरं सर्पंवै शिं शुमारकम् 99

हेमजं तदुदग्भागेपूर्वायां दिशि वाथवा
पुरुषाञ्जलिमात्रेतुश्वभ्रेपात्रं निधापयेत् 100

सुमुहूर्तेसुलग्नेच होराकरणसं युते
रात्रौ गर्भमहन्येव स्थापयेच्चतु रिष्टकम् 101

यद्यत् स्थानं तुगर्भस्य तत्रस्था प्रथमेष्टका
मृत्कन्दधान्यसल्लोहधातुरत्नौषधैः सह 102

गन्धद्रव्यैश्च बीजैश्च विधेया प्रथमेष्टका
शै लेशिलामयी प्रोक्ता चैष्टके चेष्टकाः शुभाः 103

गर्भभाजनविस्तारा विस्तारद्विगुणायता
विपुलार्धघना सर्वहम्म्यके चतु रिष्टका 104

अष्टौ द्वादश वा ग्राह्या मध्यमेतुमहत्तरे
अजुदीर्घाङ्गु लिन्यासा समसं ख्या हि पुंस्त्वभाक् 105

स्त्रीत्वभागोजसं ख्या सा वक्ररेखं नपुं सकम्
सु स्निग्धाः समदग्धाश्च सुस्वनास्ताः सुशोभनाः 106

पुंस्त्रीनपुं सके हम्म्येयोजयेत् ता यथाक्रमम्
यथा जाता पुरा तत्र स्थापनीया तथा भवेत् 107

शिला दोषविनिर्मुक्ता बिन्दुरेखादिवर्जिता
आदावेवतुकर्तव्या झषालेप्रथमेष्टका 108

निखाताङ् घ्रौ विमानेतुन्यस्तव्या गर्भमूर्धनि
तत्पूर्वदक्षिणेपूर्वंत्रिकोणेषुप्रदक्षिणम् 109

देवादीनां द्विजातीनां स्थापयेत् स्थपतिः क्रमात्
केचिच्छ् वभ्रस्य गम्भीरेपञ्चद्व्यं शावसानके 110

इष्टकादिचितेखातेवदन्ति प्रथमेष्टकाम्
पूर्ववद् वरवेषाढ्यो युक्त्या तत्र निधापयेत् 111

रूपाण्यप्यौषधानि द्यु तिमणि कनकाद्यष्टलोहानि धातून्
पात्रेन्यस्याञ्जनादीन् शुभयुतदिनपक्षक्क्षहोरामुहूर्ते
मृत्कन्दान्यष्टधान्यानि च निशि मतिमान् श्वभ्रमूलेनिधाय
क्षिप्त्वा पात्राय युक्त्या बलिमथ सलिलेस्थापयेद् गर्भमादौ 112

अमरनरविमानद्वारयोगाङि् घ्रमूले
विधिवदविकलाङ्गं गर्भमादौ निधाय
तदुपरि विधिनास्मिन् योगमङि् घ्रं च पूर्वं
सकलविभवयु क्तं स्थापयेद् गर्भमूध्ध्नि 113

पञ्चपञ्चकलशोदकपूतौ श्वेतचन्दननवाम्बरयु क्तौ
सर्वमङ्गलविचित्रतरौ तौ स्थापयेत् स्थपतिरङि् घ्रकयोगौ 114

इति मयमतेवस्तुशास्त्रेगर्भविन्यासो नाम द्वादशोऽध्यायः

अथ त्रयोदशोऽध्यायः[सम्पाद्यताम्]

अधिष्ठानस्य चाधस्तादुपपीठं प्रयोजयेत्
रक्षार्थमुन्नतार्थंच शोभार्थंतत् प्रवक्ष्यते 1

समं त्रिपादमर्धंवा पञ्चां शद्व्यं शमेववा
सपादं वाऽथ सार्धंवा पादोनद्विगुणं तुवा 2

द्विगुणं वा प्रकर्तव्यमात्ताधिष्ठान तुङ्गतः
उत्सेधेदशभागेतुएके नैके न वर्धनात् 3

पञ्चां शान्तमधिष्ठानजन्माद् बाह्येतुनिर्गमम्
दण्डं वा सार्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् 4

अधिष्ठानजगत्या वा समं तत्पादबाह्यकम्
वेदिभद्रं प्रतिभद्रं सुभद्रं च त्रिधा मतम् 5

उच्छ्रयेभानुभागेतुद्व्यं शेनोपानमीरितम्
पद्ममं शं तदूध्ध्वेऽर्धंक्षेपणं पञ्चभागिकम् 6

ग्रीवमर्धेन कम्पं स्याद् भागैके नाम्बुजं भवेत्
शेषां शं वाजनं कम्पमष्टाङ्गमुपपीठकम् 7

षडङ्गं वा विधातव्यमूध्ध्वाधस्ताद् विनाम्बुजम्
वेदिभद्रं द्विधा प्रोक्तं सर्वहम्म्येषुयोग्यकम् 8

अश्विभ्यां च द्विककां शै र्भानुभागाङ्गकां शकः
त्र्यं शै कां शकभागैस्तुद्वाभ्यामं शेन योजयेत् 9

जन्मतो वाजनान्तं तुतुङ्गे त्रिनवभागके
पादुकं पङ्कजं कम्पं कण्ठमुत्तरमम्बुजम् 10

कपोतमालिङ्गान्तादि प्रतिवाजनमु च्यते
प्रतिभद्रमिदं नाम्ना सर्वालङ्कारसं युतम् 11

यु ग्मेशाक्षां शकां शै स्तुद्व्येकाष्टां शां शकां शकः
त्र्यं शै के नां शकद्द्वा भ्यामेके नात्रै व योजयेत् 12

पादुकं पङ्कजं चै वमालिङ्गान्तरितं तथा
प्रत्यूध्ध्वेवाजनं कण्ठमुत्तराब्जकपोतकम् 13

आलिङ्गान्तरितं चोध्ध्वेप्रतिश्चै वोध्ध्ववाजनम्
द्विविधं प्रतिभद्रं स्यादेकभागाधिकं ततः 14

त्रिःसप्तां शेतदु त्सेधेद्वाभ्यां जन्म तथाम्बुजम्
अर्धेन कण्ठमर्धेन पद्मद्व्यं शेन वाजनम् 15

अर्धेनाब्जं तथा कम्पं कण्ठमष्टां शमीरितम्
अं शेनोत्तरमर्धेन पद्मं गोपानकं त्रिभिः 16

भागार्धमूध्ध्वकम्पं स्यादेतन्नाम्ना सुभद्रकम्
जन्म द्व्यं शं त्रियं शेन पद्ममं शेन कन्धरम् 17

द्वाभ्यां वाजनमेके न कम्पमष्टां शक र्गलम्
अं शेन कम्पकं द्वाभ्यां वाजनं कम्पमं शकम् 18

सुभद्रं द्विविधं प्रोक्तं सर्वालङ्कारसं युतम्
सिं हेभमकरैव्व्यालैर्भू तैः पत्रैरलङ्कृतम् 19

प्रतिवक्रं झषाढ्यं स्याद् बालेनारूढमस्तकम्
अर्पितानर्पितेहम्म्येसर्वत्र परिकल्पयेत् 20

अङ्गमङ्गं प्रति प्राज्ञै र्वृद्धिर्हा निस्तथोच्यते
तथा मसूरकाणां तुयुञ्जीयादुपपीठके 21

आत्ताधिष्ठानतुङ्गाद् द्विगुणमथ समं सार्धमर्धंत्रिपादं
पञ्चां शद्व्यं शकं वानलसमभजितेद्व्येकमात्रोपपीठम्
सप्रत्यङ्गं समं चेत् तदपि च महता वाजनेनोपयु क्तं
सर्वस्निग्धान्यधस्ताद् दृढतरमतिना योजितव्यं बलार्थम् 22

इति मयमतेवस्तुशास्त्रेउपपीठविधानो नाम त्रयोदशोऽध्यायः

अथ चतुर्दशोऽध्यायः[सम्पाद्यताम्]

तै तिलानां द्विजातीनां वर्णानां गृहकर्मणि
तद्योग्यं द्विविधं वस्तुजाङ्गलानूपभेदतः 1

घनशर्दरया युक्तमत्यन्तं खननेखरम्
सितां शुतनुतोयाढ्यं जाङ्गलं भूतलं भवेत् 2

खननं क्रियमाणस्य वस्तुनश्च बलं यथा
रूढोत्पलकृशेर्वारुसं युक्तं तनु वालुकम् 3

अनूपमिति विख्यातं खात्वै व जलदर्शनम्
इष्टकोपलमृद्भिश्च वालुकरपि चिक्कणैः 4

शकराभिः क्रमाच्छ् वभ्रं निश्छिद्रं पूरयेत् स्थिरम्
घनीकृत्येभपादैश्च काष्ठ खण्डैबृहत्तरैः 5

तत्खातेसलिलेनै वपूरितेऽक्षयता शुभा
समत्वं सलिलेनै व साधयित्वा विचक्षणः 6

गर्भंप्रक्षिप्य तं नीत्या होमं तत्र निधापयेत्
स्तम्भद्वित्रिगुणव्यासं तदर्धबहलान्वितम् 7

उपानोपरि पद्मं चोपोपानं च तदूध्ध्वतः
यथाशोभां शमानेन कुर्यात् तत्र विचक्षणः 8

उन्नतां प्रकृतिं भूमिं कृत्वा हस्तप्रमाणतः
घनीकृत्य तदूध्ध्वस्थमुपानं जन्म चोच्यते 9

तदूध्ध्वस्थमधिष्ठानं सोपपीठं तुकेवलम्
सस्तम्भं वा सकु ड्यं वा जङ्घावर्गंतदूध्ध्वगम् 10

भूमिदेश इति ख्याता कपोतोध्ध्वगता प्रतिः
प्रसादादीनि वास्तूनि चाधितिष्ठन्ति यद्धि तत् 11

अधिष्ठानं तदु न्मानं जाति भूमिवशाद् द्विधा
तै तिलानां चतुर्हस्तं त्रिहस्तार्धंद्विजन्मनाम् 12

नृपाणां त्रिकरं सार्धद्विहस्तं यौवराजकम्
द्विहस्तं वणिजामेकहस्तं शूद्रस्य कीत्त्यते 13

एतज्जातिवशाद् भूमिवशादत्रै वकथ्यते
दण्डात् षण्मात्रहान्या तुद्वादशाद्यात् त्रिभूमिकम् 14

त्रितलस्योत्तमस्येष्टं पादेनोनं द्विहस्तकम्
क्षुद्राणामनया नीत्या विधातव्यं विचक्षणैः 15

तत्तत्पादोदयार्धेन षडष्टां शोनमानतः
अधिष्ठानस्य चोत्सेधं वास्तु वस्तु नि भूवशात् 16

यदुपानस्य निष्क्रान्तं तत् त्र्यं शेन विभाजयेत्
त्यक्त्वैकां शं बहिस्तत्र जगतीं कारयेद् बुधः 17

तद्वत् कुमुदपट्टं च तद्वत् कण्ठस्य वेशनम्
आत्तोत्सेधां शमानं तुभागमानेन वक्ष्यते 18

अष्टसप्तशशिबन्धभागिकश्चन्द्रबन्धशशिभागिकः क्रमात्
वप्रकं कुमुदकम्पकन्धरं कम्पवाजनमधोध्ध्वकम्पकम् 19

पादबन्धमु दितं तदु च्छ्रयेभानु भिद्द्विगु णितां शके कृते
देवविप्रनृपवैश्यशूद्रकेष्वेवमु क्तमृषिभिः पुरातनैः 20

चन्द्रदृक्शशिशिवां शकरसैर्धातु भिश्च समभागिकः क्रमात्
वाजनं प्रतिमुखं त्रियश्रकं दृक् च वृत्तकुमुदं तुवप्रकम् 21

त्रिःषडंशसमभागिके तलेनागवक्त्रसदृशं प्रतिद्वयम्
देवविप्रनृपमन्दिरेषुतद्योग्यकं ह्युरगबन्धकं भवेत् 22

अं शाध्यर्धार्धभागैर्मुनिरसशशिभिश्चन्द्रदृक्च्छैवभागैः
क्षुद्रोपानाब्जकम्पं जगतिकुमुदकं धारया युक्तमूध्ध्वे
आलिङ्गान्तादिकं तत्प्रतिमुखमथ तद्वाजनं पद्मयु क्तं
त्रिःसप्तां शेतलोच्चेकरिहरि मकर व्यालरूपादि भूष्यम् 23

प्रतिक्रमं तत् सुरमन्दिरोचितं विचित्रितं पत्रलतादिरूपकः
द्विजन्मभूमीश्वरयोर्मतं गृहेशुभप्रभं पु ष्टिकरं जयावहम् 24

एकद्व्येके न षडि् भः शशिशिवशशिभिर्वेद चन्द्रैकभागै-द्द्व्यं शैके नां शनेत्रैः शिवशशिसमभागेन जन्माब्जकं च
वप्रं पद्मं गलाब्जं कुमुदमुपरि पद्मं च कम्पं गलं तत्
कम्पं पद्मं च पट्टीकमलमुपरिकम्पं च षडि् वंशदंशे 25

पद्मके सरमेतदुदाहृतं कम्पवाजनपङ्कजकर्यु तम्
कुम्भवप्रयुतं च सकन्धरं शम्भुधामनि तत् प्रविधीयते 26

द्व्यर्धांशार्धद्विभागैस्तदुपरि च तथार्धांशकार्धेन जन्मम्
वप्रं कञ्जं गलाब्जं तदुपरि कुमुदं पङ्कजं कम्पकण्ठं
कम्पं पद्मं महावाजनमुपरिदलं कम्पकं पङ्कजाढ्यम् 27

पुष्पपुष्कलमेतदुदाहृतं कल्पितं नवपङ्क्तिभिरुच्छ्रये
शिल्पिभिः प्रसरै रपि पूजितामूध्ध्वमध्यममुखेविमानके 28

द्वाभ्यामेके न सप्तां शकशशिशिववेदैकचन्द्राग्निभागै-रेके नैके न वेदैः शिवशशिनयनैके न मोहामराब्जम्
हृत्पद्मं करवाब्जं गलधरगलकम्पं दलं तत्कपोतं
चालिङ्गान्तादिकं तत्प्रतिमुखमथ तद्वाजनं पङ्कजाढ्यम् 29

श्रीबन्धं स्यादेतदुच्चेचतु र्वस्वं शेकुर्या च्छान्तधीर्वर्धकिस्तत्
देवेशानां मन्दिरेष्वेवमु क्तं श्रीसौभाग्यारोग्यभोग्यं ददाति 30

तुङ्गे षडि् वंशदं शेखुरमथ जगतीकरवं कम्पकण्ठं
कम्पं पद्मं कपोतं तदुपरि च तथा निम्नमन्तादिवक्त्रम्
कम्पं भागेन षडि् भः शरशशिगुणचन्द्रैकबन्धां शकां शै -द्द्वा भ्यामेके न कुर्यादमरनरपतेर्मन्दिरेमञ्चबन्धम् 31

आलिङ्गयु क्तमथ चान्तरितप्रतीभ्यां तद्वाजनेन च वियु क्तकमेतदेव
श्रीकान्तनामकमसूरकमष्टकोणं वृत्तं तुवा कुमुदमम्बरमार्गिणां तत् 32

एकद्व्येकर्तुवेदैः शशिनयनशिवद्व्येकदृक्चन्द्रसार्धा-र्धां शैर्जन्माब्जकम्पं जगतिकुमुदकं कम्पकण्ठं च कम्पम्
पद्मं पट्टं च कण्ठं तदुपरि च तथा वाजनाब्जं च पट्टं
श्रेणीबन्धं सुराणामु दितमिदमलं तुङ्गषडि् वंशदं शे 33

सार्धार्धेष्वं शकांर्गुणशशिशिवचन्द्रद्विकके न जन्म-क्षुद्रं पद्मं धृगब्जं कुमुदमुपरि पद्मं तथालिङ्गमूध्ध्वे
आलिङ्गान्तः प्रतिर्वाजनमथ मतिमान् योजयेत् त्रिःषडंशे
तुङ्गे देवेश्वराणामिदमु दितमगारेऽनघं पद्मबन्धम् 34

द्व्येककां शैः शरां शै र्युगशशिशिवदृक् चन्द्रशैवाश्विनीभि-र्भा गेनोपानकञ्जं तदुपरि च तथा कम्पवप्रं च कु म्भम्
पद्मं पट्टं च कण्ठं तदुपरि च तथा कम्पपद्मं च पट्टी-पट्टं तद्वप्रबन्धं तदपि च सहितं सद्विक र्विंशदं शैः 35

तदेववृत्तं कुमुदं तुवाजनेकपोतयु क्त हि कपोतबन्धकम्
तदेववेदैः प्रतिवाजनं प्रतिस्त्रिकाश्रयु क्तं प्रतिबन्धमु च्यते 36

एकद्वयेकाग्नि भागैः शशियु गलशिवद्व्येकचन्द्रेशदृग्भि-श्चन्द्रैककाक्षिचन्द्रैः खुरकमलमथो कम्पकण्ठं च कम्पम्
पद्मं पट्टाब्जनिम्नं कमलमुपरि कु म्भं दलं निम्नमन्ताद्
यास्याच्चोध्ध्वेप्रतिर्वाजनमथ कलशाख्येन भागास्त्रिरष्टौ 37

एतानि भेदैस्तुचतुर्दशैवप्रोक्तानि तज्ज्ञैस्तुमसूरकाणि
सर्वा णि नास्यङि् घ्रयुतानि युक्त्या दृढीकृताङ्गानि मयोदितानि 38

भागेनार्धत्रिपादाङि् घ्रभिरथ यु गलाध्यर्धचन्द्रार्धपादै-र्मात्रै र्वृद्धिश्च हानिर्दृढतरमतिना योजितव्या बलार्थम्
शोभार्थंभागमङ्गप्रतिवरसमनीचाल्पहम्म्येतलाना-मेवं प्रोक्तं यमीन्द्रैरविकलमतिभिस्तन्त्रविद्भिः पुराणैः 39

मसूरकमधिष्ठानं वस्त्वाधारं धरातलम्
तलं कुट्टिममाद्यङ्गं पर्यायवचनानि हि 40

यावज्जगतिनिष्क्रान्तं तावत् कुमुदनिर्गमम्
अम्बुजानां तुसर्वेषामु त्सेध समनिर्गमम् 41

दलाग्रतीव्रमु त्सेधात् पादं पादार्धमेववा
वेत्राणामपि सर्वेषां चतुर्भा गैकनिर्गमम् 42

तत्समं वा त्रिपादं वा महावाजननिर्गमम्
एवं तीव्रक्रमं प्रोक्तं शोभाबलवशात् तुवा 43

प्रवेशनिर्गमं कुर्यात् सर्वाङ्गानां मसूरके
प्रतिच्छेदं नकर्तव्यं सर्वत्रै वं विचक्षणैः 44

द्वारार्थंयत् प्रतिच्छेदं सम्पद् द्वारं च नेत्यलम्
पादबन्धमधिष्ठानं छेदनीयं यथोचितम् 45

जन्मादिपञ्चवर्गेतुतत्तत्तुङ्गावसानके
सपिट्टकाङ्गेऽधिष्ठानेऽप्यन्यस्मिन्नेवमूह्यताम् 46

यद् यत्रै वोचितं प्राज्ञस्तत् तत्रै वप्रयोजयेत् 47

स्तम्भोच्चार्धंवा मसूरोच्चमानं तत्षट् सप्ताष्टां शकं भागहीनम्
वस्त्वाधारोच्चं भवेत् सर्ववस्तु ष्वेवं पूर्वंशम्भुना सम्यगु क्तम् 48

इति मयमतेवस्तुशास्त्रेअधिष्ठानविधानो नाम चतुर्दशोऽध्यायः

अथ पञ्चदशोऽध्यायः[सम्पाद्यताम्]

पादायामं सविस्तारमाकारं भूषणादिकम्
लक्षणान्तरतः सम्यग् वक्ष्येसं क्षेपतः क्रमात् 1

स्थाणुः स्थूणश्च पादश्च जङ्घा च चरणोऽङि् घ्रकः
स्तम्भश्च तलिपः कम्पः पर्यायवचनानि हि 2

सवितस्त्यष्टहस्तोच्चं द्वादशक्ष्माद्यपादकम्
तत्तद्वितस्तिहीनेन त्रिकरं चान्त्यभूमिके 3

आत्तोत्सेधां शमानेन पादोच्चं वा विधीयते
आत्ताधिष्ठानतुङ्गस्य द्विगुणं पादतुङ्गकम् 4

द्विगुणादधिकोत्सेधः स्तम्भः प्रोक्तः स्वयं भु वा
अष्टविं शतिमात्रैस्तुमूलभूस्तम्भविस्तृतम् 5

तत्तद्द्व्यङ्गुलभिन्नेन षण्मात्रं चान्त्यभूमिके
पादोच्चेपङ्क्तिनन्दाष्टभागेंऽशं पादविस्तृतम् 6

तदर्धंवा त्रिभागोनं चतुर्भा गोनमेववा
कु ड्यस्तम्भस्य विस्तारस्तेन द्वित्रिचतु र्गुणः 7

पञ्चषङ्गुण एवं स्याद् भित्तिविष्कम्भ इष्यते
जन्मोध्ध्वेस्तम्भविक्षेपहोमाः स्तम्भविधौ विदुः 8

प्रतिस्तम्भः प्रतेरूध्ध्वेचोत्तराधो हितायतिः
जन्मोध्ध्वेस्तम्भनिक्षेपः स्तम्भायामस्त्रिभागभाक् 9

गाम्भीर्यमवटं कृत्वा तदुपज्ञतलं कुरु
पादुकाद्युत्तरान्तस्थो निखातस्तम्भ इष्यते 10

अधिष्ठानोत्तरान्तस्थो झषालस्तम्भ उच्यते
तद्वयासादकभागाद्यं षड् भागोनाग्रविस्तरः 11

मूलभूस्तम्भतुङ्गस्य द्वादशाद्याः षडंशयुक्
ऊध्ध्वोध्ध्वस्तम्भतुङ्गं स्यादेवं तद्विस्तरक्रमः 12

अग्राकारं यु गाश्रं तुकु म्भमण्डिसमन्वितम्
ब्रह्मकान्तं तदष्टाश्रं विष्णुकान्तमिहोच्यते 13

षडश्रमिन्द्रकान्तं स्यात् सौम्यं तत् षोडशाश्रकम्
कर्णमात्रेण तन्मूलेचतुरश्रमितोध्ध्वतः 14

अष्टाश्रं वा द्विरष्टाश्रवृत्तं पूर्वाश्रमीरितम्
कुम्भमण्डियुतं वाऽपि रुद्रकान्तं सुवृत्तकम् 15

विस्तारद्विगुणं मध्येऽष्टाश्रयु क्तं यु गाश्रकम्
वियु क्तं कु म्भमण्डिभ्यां मध्येऽष्टाश्रं तदु च्यते 16

चतुरष्टाश्रवृत्ताभं रुद्रच्छन्दं समां शतः
दण्डाध्यर्धेद्विदण्डे नोत्तुङ्गद्विगुणविस्तृतम् 17

पद्मासनं तुकर्तव्यं मूलेपद्मासनं भवेत्
यथेष्टाकृतिसं युक्तमूध्ध्वतो वा समण्डितम् 18

चक्रवाकाकृतिव्याप्तं मूलेपद्मासनान्वितम्
सभद्रं मध्यभागेतुभद्रकं तद् द्विमण्डितम् 19

व्यालेभसिं हभूतादिमण्डितं यत्तुमूलतः
यथेष्टाकृतिसं युक्तं तत्तन्नाम्ना समीरितम् 20

आत्तमेव तदायामेशुण्डभेदसमन्वितम्
युतं तत् कु म्भमण्डिभ्यां शुण्डपादमिति स्मृतम् 21

मु क्तोत्करणकर्माङ्गं पिण्डिपादं तदेवहि
कर्मायामेन चाग्रेतुचतुरश्रसमन्वितम् 22

तदधस्त्वर्धदण्डे न पद्मं वस्वश्रसं युतम्
तदधस्तुविकाराश्रं दण्डे नाब्जं तुपूर्ववत् 23

तदधो दण्डमानेन मध्यपट्टं यु गाश्रकम्
पद्मं च षोडशाश्रं च पूर्ववत् परिकल्पयेत् 24

मूलेशेषं यु गाश्रं स्याच्चित्रखण्डं तदु च्यते
तदेवाष्टाश्रकं मध्यपट्टं श्रीखण्डमु च्यते 25

मध्यपट्टं कलाश्रं चेच्छ्रीवज्रस्तम्भमु च्यते
अग्राकारं यु गाश्रं स्यात् त्रिपट्टक्षेपणान्वितम् 26

क्षेपणस्तम्भमित्यु क्तं पट्टं पत्रादिशोभितम्
ऊध्ध्वाधस्ताच्छिखामानं त्रिचतुर्भा गमेव वा 27

सर्वेपोतिकया युक्ता नानारूपै र्विचित्रिताः
पादाग्रविपुलं यत्तुतद् दण्डमिति कथ्यते 28

सर्वाण्यङ्गानि हर्म् याणां मानयेद् दण्डमानतः
सपादं सार्धपादोनद्विगुणं द्विगुणोन्नतम् 29

श्रीकरं चन्द्रकान्तं च सौमुख्यं प्रियदर्शनम्
यथाक्रमेण नामानि कलशानां भवन्ति हि 30

पोतिकाखण्डमण्डीनि कु म्भं स्कन्धं च पद्मकम्
मालास्थानं क्रमेणै व स्तम्भाग्रात् परिकल्पयेत् 31

कु म्भोच्छ्रयेनवां शेधृग्भागेन चतुरं शकः
कमलं कण्ठमं शेन भागेनास्यं प्रकीर्तितम् 32

भागेन पद्ममर्धेन वृत्तमर्धेन हीरकौ
हीरौ पादसमव्यासौ तत्कर्णेनास्यविस्तृतम् 33

तत्कर्णंकु म्भविस्तारं तत्कर्णंघ्नकायतम्
अथवा घ्नकायामं चतुर्दण्डं त्रिदण्डकम् 34

सार्धत्रिदण्डमायाममु त्सेधाख्यं त्रिदण्डकम्
तदु त्सेधेत्रिभागेतुभागेनोत्सन्धिरिष्यते 35

भागेन वेत्रमं शेन पद्मं पाल्याभमिष्यते
नागवक्त्रसमाकारमावेत्रात् पादरूपवत् 36

पादविस्तारविस्तारं धृक्कण्ठं वीरकाण्डकम्
सर्वेषामपि पादानां वीरकाण्डं यु गाश्रकम् 37

तदु त्सेधत्रिपादोनं दण्डोत्थं स्कन्धमिष्यते
तदधस्तुतदर्धेन पद्मं पत्रविचित्रितम् 38

मालास्थानमधस्तस्माद् दण्डमानसमुन्नतिः
पादविस्तारविस्तारा पोतिका तत्समोदया 39

पञ्चदण्डसमायामा श्रेष्ठार्धो च्चा कनिष्ठिका
आयता सा त्रिदण्डे न चतुर्दण्डे न दीर्घका 40

त्रिभागोना त्रिपादोच्चा मध्यमा पोतिका भवेत्
पूर्वोक्तं तत् समण्डीनां सकु म्भानां चतु र्गुणम् 41

त्रिगुणं केवलानां तुपादानां प्रविधीयते
सर्वेषामपि पादानां यथेष्टायतमीरितम् 42

त् दुच्चत्रिचतुर्भा गोच्चा वा स्वाग्रेतुपिट्टका
अर्धंत्रिद्व्यं शमङ् घ्र् यूनं छायामानं विधीयते 43

त्रिभागं वा चतुर्भा गं तरङ्गस्थानमिष्यते
सक्षुद्रक्षेपणं मध्यपट्टं पत्रविचित्रितम् 44

समास्तरङ्गाश्चान्योन्यहीनाः सर्वत्र सम्मताः
अग्रनिष्क्राममर्धंवा त्रिभागं वा स्वतारतः 45

मु ष्टिबन्धोपरिक्षिप्त व्यालसं हृतिरूपवत्
सनालीकं समतलं सनाटकमथापि वा 46

भूतेभमकरैव्व्यालसं युक्तं चाग्रमण्डनम्
पाश्श्वयोः पोतिकामध्येपट्टं पादविशालवत् 47

रत्नबन्धक्रियावल्ली चित्रा वाग्रस्थपिट्टका
नानाचित्रै र्विचित्रा वा सा प्रोक्ता चित्रपोतिका 48

पत्रै र्विचित्रिता पत्रपोतिकेति प्रकीर्तिता
महार्णवतरङ्गाभतरङ्गाभा तरङ्गिणी 49

चतुःषडष्टपङ्क्त्यकसं ख्या वा स्युस्तरङ्गकाः
बहवोऽपि समाश्चैतेचान्योन्याः स्यु र्वराः क्रमात् 50

पादमर्धंत्रिपादं वा भित्तेः स्तम्भस्य निर्गमम्
चतुरष्टाश्रवृत्तानां यथाक्रममिति स्मृतम् 51

द्विहस्ताद्यं चतुर्हस्तं स्तम्भान्तरमिति स्मृतम्
षडङ्गुलविवृद्ध्या तुनवभेदं प्रकीर्तितम् 52

गृहीतां शवशेनापि यथायु क्त्या प्रयोजयेत्
स्तम्भस्तम्भान्तरं सर्वंप्रासादेसार्वदेशिके 53

विषमस्तम्भभागं तुवास्तु वस्तु विनाशनम्
सायतं चापि तत्सर्वंतन्नाम्नै वप्रपद्यते 54

दारुस्तम्भविशालं वा सार्धंद्वित्रिगुणं तुवा
शिलास्तम्भविशालं स्याद् देवानां नैव मानवे 55

इष्टकाश्मद्रुमैः सर्वैः स्तम्भाः प्रोक्ताश्चिरन्तनैः
यु ग्मायु ग्मं तुदेवानामयु ग्मं तुनृणां मतम् 56

अन्तःस्तम्भं बहिः स्तम्भमाजुसूत्रं यथा भवेत्
गृहाणां भित्तिमध्येतुशालानां तुतथा भवेत् 57

प्रासादानां तुपाब्दाह्येपान्मध्येशयनासने
उपानादिशिरः केचित् केचित् स्तूप्यन्तमुन्नतम् 58

मुनयः प्रवदन्त्युच्चं प्रासादेसार्वदेशिके
पाब्दाह्येपादमध्येवा सभामण्डपयोर्मतम् 59

अन्तर्बहिश्च मध्येतुसालानां मानसूत्रकम्
युञ्जीयादेवमेवं तुसर्वेषां सम्पदां पदम् 60

विपरीतेविपत्त्यैस्यादिति शास्त्रविनिश्चयः
स्तम्भोत्तरादिकाङ्गानां द्रव्यं द्रुमोपलेष्टकाः 61

स्निग्धसारमहासारा ह्यवृद्धास्तरुणेतराः
अवक्रा निर्व्रणाः सर्वेग्रहीतव्या महीरुहाः 62

पुण्याद्रिवनतीर्थस्था दर्शनीया मनोरमाः
सर्वसम्पत्समृद्ध्यर्थाभवेत्युस्तेन सं शयः 63

पुरुषः खदिरः सालो मधूकः चम्पकस्तथा
शिं शपार्जु नाजकर्णीक्षीरिणी पद्मचन्दनौ 64

पिशितो धन्वनः पिण्डी सिं हो राजादनः शमी
तिलकश्च द्रुमाश्चैतेस्तम्भवृक्षाः समीरिताः 65

निम्बासनशिरीषाश्च एकः कालश्च कट् घ्नः
तिमिसो लिकुचश्चै व पनसः सप्तपर्णकः 66

भौमा चै व गवाक्षी चेत्यादयश्चोध्ध्वभूरुहाः
एकवर्णाः स्थिराः स्निग्धाः सुखसंस्पर्शनान्विताः 67

प्राचीनाश्चाप्युदीचीना भूमग्नाः शुभदाः शिलाः
स्त्रीलिङ्गाश्चापि पु ल्लिङ्गा निर्दो षाश्च नपुं सकाः 68

सुघनाः समदग्धाश्च सुखराश्चेष्टकाः शुभाः
स्त्रीलिङ्गाश्चापि पु ल्लिङ्गा भिन्नच्छिद्रादिवर्जिताः 69

एतैरेवंविधैद्द्रव्यैः कृतं वस्तुसमृद्धये
धर्मार्थकामसौखानां भवेदेवेति निश्चितम् 70

न देवतालयान्तस्थाः प्रहता वा न विद्युता
न दावानलसं लीढा न भूतालयमध्यगाः 71

न महापथ सं रूढा न तुग्रामसमुद्भवाः
न घटाम्बु भिरासिक्ता न पक्षिमृगसेविताः 72

न वायुना न मातङ्गैर्भग्ना नै व गतासवः
न चण्डालजनाकीर्णान सर्वजनसेविताः 73

नान्योन्यवलिता भग्ना न वल्मीकसमाश्रिताः
न लतालिङ्गिता गाढा न सिराकोटरावृताः 74

नाङ्कुरावृतसर्वाङ्गा न भृङ्गकीटदूषिताः
नाकालफलिनो ग्राह्या न श्मशानसमीपगाः 75

सभाचै त्यसमीपस्था देवादीनां न भूरुहाः
वापीकत्न पतटाकादिवस्तु ष्वपि च सम्भवाः 76

विनष्टवस्तुसञ्जातद्रव्यं सर्वविपत्करम्
तस्मात् सर्वप्रयत्नेन शुद्धं द्रव्यं प्रगृह्यताम् 77

शिला देवालयेग्राह्या द्विजावनिपयोर्मताः
पाषण्डिनां च कर्तव्या न कुर्याद् वैश्यशूद्रयोः 78

कर्तव्यं यदि तद् वास्तुधर्मकामार्थनाशकृत्
एकद्रव्यकृतं शुद्धं मिश्रं द्विद्रव्यनिर्मितम् 79

त्रिद्रव्यसं युतं यत्तुतत् सङ्कीर्णमुदाहृतम्
पूर्वोदितानां वासेषुकर्तव्यं सम्पदां पदम् 80

सर्वद्वारिकनक्षत्रेशुभपक्षमुहूर्तके
गच्छेदरण्यं द्रव्यार्थीकृतकौतुकमङ्गलः 81

निमित्तैः शकुनैर्योग्यैः सह मङ्गलशब्दकः
गन्धैः पुष्पैश्च धूपैश्च मां सेन कृसरेण च 82

पायसौदनमत्स्यैश्च भक्षैश्चापि पृथग्विधैः
अर्चयेदीप्सितान् सर्वान् वृक्षां श्च वनदेवताः 83

भूतक्रत्न रबलिं दत्त्वा कर्मयोग्यद्रुमं हरेत्
मूलाग्रादार्जवं वृत्तं शाखानेकसमन्वितम् 84

तत्तुपुंस्त्वं भवेन्मूलेस्थूलं स्त्रीत्वं कृशाग्रकम्
स्थूलाग्रं कृशमूलं तुषण्डमेतदुदीरितम् 85

मुहूर्तस्तम्भमु द्दिश्य पुं भूरुह उदीरितः
सर्वेष्वङ्गे षुवस्तूनां पुंस्त्रीषण्डं प्रकीर्तितम् 86

पूर्वाशायां द्रुमस्यास्य स्वपेद् दर्भान्तरेशु चिः
स्वप्रदक्षिणपाश्श्वेतुसंस्थाप्य परशुं सुधीः 87

पीत्वा शुद्धं पयो रात्रावपराभिमुखोऽपरः
स्थपतिर्वरवेषाढ्यो मन्त्रयेत् सपरश्वधः 88

अयं मन्त्रः
अपक्रामन्तुभूतानि देवताश्च सगुह्यकाः
युष्मभ्यं तुबलं भूयः सोमो दिशतुपादपाः 89

शिवमस्तुमहीपुत्रा देवताश्च सगुह्यकाः
कर्मै तत् साधयिष्यामि क्रियतां वासपर्ययः 90

एवमु क्त्वा नमस्कृत्य पादपेभ्यो नमः शु चिः
दुग्धतैलघृतैः सम्यक् सन्तेज्य परशोर्मु खम् 91

उपक्रामेत्तुतं छेत्तुं यथाकामं वनस्पतिम्
मूलेहस्तं व्यपोह्योध्ध्वेत्रिंश्छत्वा तत्र लक्षयेत् 92

वारिस्रावो विवृद्ध्यर्थः क्षीरं पुत्रविवर्धनम्
शोणितं स्वामिनः हन्याद् वर्जयेत् तं प्रयत्नतः 93

पतनेसिं हशार्दू लहस्तिशब्दाः सुशोभनाः
रुदितं हसितं कोशं कत्नजितं निन्दितं वरैः 94

पातयेदुत्तराग्रं तुपूर्वा ग्रं वा वनस्पतिम्
तेदिशौ शुभदेस्यातामन्याशासुविपर्यये 95

सालाश्मर्यजकर्णीनामूध्ध्वेतुपतनं शुभम्
मूलेपृष्ठागमेबन्धु प्रेष्ययोश्च विनाशनम् 96

निर्गमत्स्थितिमद् भूत्वा वृक्षान्तरनिपातने
शिरःसङ्गे न नाशः स्यान्मूलसङ्गे श्रमो भवेत् 97

शरीरभङ्गं कर्तॄ णां नाशमग्रेऽप्यपत्यहृत्
अन्योन्यपतनं पूज्यं छेद्यं चोभयतः समम् 98

चतुरश्रमृजुं कृत्वा मुहूर्तस्तम्भसंग्रहे
सितपट्टे न सञ्छाद्य स्यन्दनेन्यस्य वेशयेत् 99

देवद्विजमहीपानां विशां शकटेन तु
शूद्रस्य पुरुषस्कन्धेनानीयात्तुविचक्षणः 100

पाश्श्वयोः शाययित्वा तुशकटेन्यस्य वेशयेत्
प्रशस्तेद्वारि प्रग्राह्य स्थपत्यनु गतद्रुमम् 101

कर्ममण्डपके न्यस्य बालुकोपरि शाययेत्
प्रागग्रं चोत्तराग्रं वाप्याशुष्कं रक्षयेत् पुनः 102

परावृत्तं न कर्तव्यमाषण्मासं तुस द्रुमः
सर्वेन्द्रकीला एवं स्युः प्रापणीयाः प्रयत्नतः 103

अन्येषामपि कुप्यानां वेशनेत्वग्रमग्रतः
मुहूर्तस्तम्भो देवानां द्विजातीनां यथाक्रमम् 104

कार्तमालश्च खदिरः खादिरश्च मधूककः
राजादनो यथासं ख्य विस्तारायाममु च्यते 105

भानुरुद्रदशद्वारवितस्त्यायामसं युताः
तत्सं ख्याङ्गु लिविस्तीर्णाः पङ्क्त्यं शोनाग्रविस्तराः 106

भूतसार्धचतु र्वेदगुणतालनिखातकाः
भूमिभूमिवशादु क्तं स्तम्भोच्चं विपुलं तुवा 107

झषालाङ् घ्रौ तुसर्वत्र निखातं परिवर्जयेत्
अश्वत्थोदुम्बरश्चै व प्लक्षश्च वटवृक्षकः 108

सप्तपर्णश्च बिल्वश्च पलाशः कुटजस्तथा
पीलुः श्लेष्मातकी लोध्रः कदम्बः पारिजातकः 109

शिरीषः कोविदारश्च तिन्त्रिणीको महाद्रुमः
शिलीन्ध्रः सर्पमारश्च शल्मली सरलस्तथा 110

किं शुकश्चारिमेदश्चाभयाक्षा मलकद्रुमाः
कपित्थः कण्टकश्चै वपुत्रजीवश्च डुण्डुकः 111

कारस्करः करञ्जश्च वरणश्चाश्वमारकः
बदरो वकुलः पिण्डी पद्मकस्तिलकस्तथा 112

पाटल्यगरुकर्पू रा न ग्राह्या गृहकर्मणि
देवयोग्या इमेसर्वेमानुषाणामनर्थदाः 113

तस्मात् सर्वप्रयत्नेन गृह्णीयान्न नरालये
ऊषरं पाण्डुरं कृष्णचिक्कणं ताम्रपु ल्लकम् 114

मृदश्चतस्रस्तास्वेवगृह्णीयात् ताम्रपु ल्लकम्
अशकराश्ममूलास्थिलोष्टं सतनु वालुकम् 115

एकवर्णंसुखस्पर्शमिष्टं लोष्टेष्टकादिषु
मृत्खण्डं पूरयेदग्रेजानुदघ्नेजलेततः 116

आलोड्य मर्दयेत् पभ्द्यां चत्वारिं शत् पुनः पुनः
क्षीरद्रुमकदम्बाम्राभयाक्षत्वग्जलैरपि 117

त्रिघ्नाम्बु भिरासिक्त्वा मर्दयेन्मासमात्रकम्
चतुष्पञ्चशडष्टाभिर्मात्रैस्तदि् द्वगुणायताः 118

व्यासार्धार्धत्रिभागैकतीव्रा मध्येपरेऽपरे
इष्टका बहुशः शोष्याः समदग्धाः पुनश्च ताः 119

एकद्वित्रिचतुर्मासमतीत्यै व विचक्षणः
जलेप्रक्षिप्य यत्नेन जलादु द्ध त्य तत् पुनः 120

निराद्द्रास्ताः प्रयोक्तव्या इष्टका इष्टकर्मणि 121

एवं द्रुमेष्टकशिला विधिना गृहीत्वा कर्वन्तुवस्तुविहिता हि वराः
समृद्ध्यैयन्निन्दितं त्वपरवस्त्ववशिष्टमाद्यैद्द्रव्यं विनष्टभवनप्रभवं विपत्त्यै 122

स्तम्भायामं तारमाकारभेदं सालङ्कारं भूषणं च क्रमेण
युक्त्या युक्तं सम्पदामास्पदं तत्प्रोक्तं नॄणां तै तिलानां मयेह 123

इति मयमतेवस्तुशास्त्रेपादप्रमाणद्रव्यपरिग्रहो नाम पञ्चदशोऽध्यायः
"https://sa.wikisource.org/w/index.php?title=मयमतम्/अध्याय_११-१५&oldid=165035" इत्यस्माद् प्रतिप्राप्तम्