मयमतम्/अध्याय ०१-०५

विकिस्रोतः तः
मयमतम्

प्रथमोऽध्यायः[सम्पाद्यताम्]

प्रणम्य शिरसा देवं सर्वज्ञं जगदीश्वरम्
तं पृष्ट्वास्मादलं श्रु त्वा शास्ति शास्त्रं यथाक्रमम् 1

तै तिलानां मनु ष्याणां वस्त्वादीनां सुखोदयम्
प्राज्ञो मु निर्मयः कर्तासर्वेषां वस्तुलक्षणम् 2

आदौ वस्तु प्रकारं च भूपरीक्षापरिग्रहम्
मानोपकरणं चै व शङ्कुस्थापनमार्गकम् 3

सपदं सुरविन्यासं बलिकर्मविधिं तथा
ग्रामादीनां च विन्यासं लक्षणं नगरादिषु 4

भूलम्बस्य विधानं च गर्भविन्यासलक्षणम्
उपपीठविधिं चै वाधिष्ठानानां तुलक्षणम् 5

स्तम्भानां लक्षणं चै वप्रस्तारस्य विधिक्रमम्
सन्धिकर्मविधानं च शिखराणां तुलक्षणम् 6

एकभूमिविधानं च द्वितलस्य तुलक्षणम्
त्रितलस्य विधानं च चतुर्भूम्यादिलक्षणम् 7

ससालं परिवाराणां गोपुराणां तुलक्षणम्
मण्डपादिविधिं चै व शालानां चै व लक्षणम् 8

गृहविन्यासमार्गंच गृहवेशनमेवच
राजवेश्मविधानं च द्वारविन्यासलक्षणम् 9

यानानां शयनानां च लक्षणं लिङ्गलक्षणम्
पीठस्य लक्षणं सम्यगनुकर्मविधिं तथा 10

प्रतिमालक्षणं देवदेवीनां मानलक्षणम्
चक्षुरुन्मीलनं चै वसंक्षिप्याह यथाक्रमम् 11

पितामहाद्यैरमरैर्मु नीश्वरैर्यथा यथोक्तं सकलं मयेन तत्
तथा तथोक्तं सु धियां दिवौकसां नृणां च युक्त्याखिलवस्तुलक्षणम् 12

इति मयमतेवस्तुशास्त्रेसंग्रहाध्यायः प्रथमः

अथ द्वितीयोऽध्यायः[सम्पाद्यताम्]

अमत्त्याश्चै वमत्त्याश्च यत्र यत्र वसन्ति हि
तद् वस्त्विति मतं तज्ज्ञैस्तद्भे दं च वदाम्यहम् 1

भूमिप्रासादयानानि शयनं च चतु र्विधम्
भूरेवमुख्यवस्तुस्यात् तत्र जातानि यानि हि 2

प्रासादादीनि वास्तूनि वस्तु त्वाद् वस्तुसं श्रयात्
वस्तून्येव हि तान्येवप्रोक्तान्यस्मिन् पुरातनैः 3

वर्णगन्धरसाकारदिक्शब्दस्पर्शनैरपि
परीक्ष्यै वं यथायोग्यं गृहीतावधि निश्चिता 4

या सा भूमिरिति ख्याता वर्णानां च विशेषतः
द्विविधं तत् समु द्दिष्टं गौणमङ्गीत्यनुक्रमात् 5

ग्रामादीन्येव गौणानि भवन्त्यङ्गी मही मता
सभा शाला प्रपा रङ्गमण्डपं मन्दिरं तथा 6

प्रासाद इति विख्यातं शिबिका गिल्लिका रथम्
स्यन्दनं चै वमानीकं यानमित्यु च्यतेबुधैः 7

मञ्चं मञ्चिलिका काष्ठं पञ्जरं घ्नकासनम्
पर्यङ्कं बालपर्यङ्कं शयनं चै वमादिकम् 8

चतुर्णामधिकाराणां भूरेवादौ प्रवेक्ष्यते
भूतानामादिभूतत्वादाधारत्वाज्जगत्स्थितेः 9

चतुरश्रं द्विजातीनां वस्तुश्वेतमनिन्दितम्
उदुम्बरद्रुमोपेतमुत्तरप्रवणं वरम् 10

कषायमधुरं सम्यक् कथितं तत् सुखप्रदम्
व्यासाष्टां शाधिकायामं रक्तं तिक्तरसान्वितम् 11

प्राङि् नन्मं तत् प्रविस्तीर्णमश्वत्थद्रुमसं युतम्
प्रशस्तं भूभृतां वस्तुसर्वसम्पत्करं सदा 12

षडंशेनाधिकायामं पीतमम्लरसान्वितम्
प्लक्षद्रुमयुतं पूर्वा वनतं शुभदं विशाम् 13

चतुरं शाधिकायामं वस्तुप्राक्प्रवणान्वितम्
कृष्णं तत् कटुकरसं न्यग्रोधद्रुमसं युतम् 14

प्रशस्तं शूद्रजातीनां धनधान्यसमृद्धिदम्
एवं प्रोक्तो वस्तुभेदो द्विजानां भूपानां वैवै श्यकानां परेषाम्
योग्यं सर्वंभूसुराणां सुराणां भूपानां तच्छे षयोरुक्तनीत्या 15

इति मयमतेवस्तुशास्त्रेवस्तु प्रकारो नाम द्वितीयोऽध्यायः

अथ तृतीयोऽध्यायः[सम्पाद्यताम्]

देवानां तुद्विजातीनां चतुरश्रायताः श्रुताः
वस्त्वाकृतिरनिन्द्या सावाक्प्रत्यग्दिक्समुन्नता 1

हयेभवेणु वीणाब्धिदुन्दु भिध्वनिसं युता
पुन्नाग जातिपुष्पाब्जधान्यपाटलगन्धकः 2

पशु गन्धसमा श्रेष्ठा सर्वबीजप्ररोहिणी
एकवर्णाघना स्निग्धा सुखसंस्पर्शनान्विता 3

बिल्वो निम्बश्च निर्गुण्डी पिण्डितः सप्तपर्णकः
सहकारश्च षड् व क्षैरारूढा या समस्थला 4

श्वेता रक्ता च पीता च कृष्णा कापोतसन्निभा
तिक्ता च कटुका चै व कषायलवणाम्लका 5

मधुरा षड्रसोपेता सर्वसम्पत्करी धरा
प्रदक्षिणोदकवती वर्णगन्धरसैः शुभा 6

पुरुषाञ्जलिमात्रेतुदृष्टतोया मनोरमा
निष्कपाला निरुपला कृमिवल्मीकवर्जिता 7

अस्थिवज्ज्यानसु षिरा तनु वालुकसं युता
अङ्गारै र्वृक्षमूलैश्च शूलैश्चापि पृथग्विधैः 8

पङ्कसङ्कर कत्न पैश्च दारुभिर्लो ष्टकरपि
शक राभिरयु क्ता या भस्माद्यैस्तुतुषैरपि 9

सा शुभा सर्ववर्णानां सर्वसम्पत्करी धरा
दध्याज्यमधु गन्धा च तैलासृग्गन्धिका च या 10

शवमीनपक्षिगन्धा सा धरा निन्दिता वरैः
सभा चै त्यसमीपस्था नृपमन्दिर संश्रिता 11

देवालयसमीपस्था कण्टकिद्रुमसं युता
वृत्तत्रिकोण विषमा वज्राभा कच्छपोन्नता 12

चण्डालावासगच्छाया चर्मकारालयाश्रिता
एकद्वित्रिचतुर्मा र्गातरिताव्यक्तमार्गका 13

निम्नं यत् पणवाकारं पक्षीवमुरजोपमम्
मत्स्याभं तुचतुष्कोणेमहावृक्षसमायुतम् 14

चै त्यवृक्षयुतं सालचतुष्कोणसमाश्रितम्
भुजङ्गनिलयं चै व सङ्कराराममेवच 15

श्मशानं चाश्रमस्थानं कपिसूकरसन्निभम्
वनोरगनिभं टङ्कं शूर्पो लूखलसन्निभम् 16

शङ्खाभं शङ्कुनाभं च बिडालकृकलासवत्
ऊषरं कृमिभिर्जु ष्टं गृहगौलिसमाकृति 17

अन्यदेवंविधं वस्तुनिन्दितं वस्तुपाठकः
बहुप्रवेशमार्गंच मार्गविद्धं च गर्हितम् 18

यत् कर्मविहितं मोहादेवं भूतेतुवस्तु नि
तन्महादोषहेतुः स्यात् सर्वथा तद् विवर्जयेत् 19

श्वेतासृक्पीतकृष्णा हयगजनिनदा षड्रसा चैकवर्णा
गोधान्याम्भोजगन्धोपलतुषरहितावाक्प्रतीच्युन्नता या
पूर्वो दग्वारिसारा वरसुरभिसमा शूलहीनास्थिवज्ज्या
सा भूमिः सर्वयोग्या कणदररहिता सम्मताद्यैर्मु नीन्द्रैः 20

इति मयमतेवस्तुशास्त्रेभूपरीक्षा नाम तृतीयोऽध्यायः

अथ चतुर्थोऽध्यायः[सम्पाद्यताम्]

आकारवर्णशब्दादिगुणोपेतं भुवः स्थलम्
सङ्ग ह्य स्थपतिः प्राज्ञो दत्त्वा देवबलिं पुनः 1

स्वस्तिवाचकघोषेण जयशब्दादिमङ्गलैः
अपक्रामन्तुभूतानि देवताश्च सराक्षसाः 2

वासान्तरं व्रजन्त्वस्मात् कुर्यांभूमिपरिग्रहम्
इति मन्त्रं समुच्चार्यविहितेभूपरिग्रहे 3

कृष्ट्वा गोमयमिश्राणि सर्वबीजानि वापयेत्
दृष्ट्वा तानि विरूढानि घ्नपक्कगतानि च 4

सवृषाश्च सवत्साश्च ततो गास्तत्र वासयेत्
यतो गोभिः परिक्रान्तमुपघ्राणैश्च पूजितम् 5

सं हृष्टवृषनादैश्च निर्धौ तकलुषीकृतम्
वत्सवक्त्रच्युतैः फेनैः संस्कृतं प्रस्नवै रपि 6

स्नातं गोमूत्रसेकश्च गोपुरीषैः सलेपनम्
च्युतरोमन्थनोाँरैर्गो ष्पदैः कृतकौतुकम् 7

गोगन्धेन समाविष्टं पुण्यतोयैः शुभं पुनः
तथा पुण्यतिथोपेतेनक्षत्रविषयेशुभे 8

करणेच सुलग्नेच मुहूर्तेच बुधेप्सिते
अक्षतैः श्वेतपुष्पैश्च बलिकर्मविधीयते 9

ब्राह्मणैश्च यथाशक्त्या वाचयेत् स्वस्तिवाचकम्
वस्तुमध्येततस्तस्मिन् खानयेद् वसुधातलम् 10

अरत्निमात्रगम्भीरं चतुरश्र समन्वितम्
दिग्भागस्थमसम्भ्रान्तमसंक्षिप्तसमु च्छ्रयम् 11

अर्चयित्वा यथान्यायं तं कत्न पमभिवन्द्य च
चन्दनाक्षतमिश्रेण सर्वरत्नोदके न च 12

पयसा तुततः प्राज्ञो निशादौ परिपूरयेत्
तस्य कत्न पस्य चाभ्याशेशु चिर्भूत्वा समाहितः 13

भूमौ दर्भा वकीर्णायां संविशेत् प्राक्शिरा बुधः
अयं मन्त्रः --अस्मिन् वस्तु नि वर्धस्व धनधान्येन मेदिनि 14

उत्तमं वीर्यमास्थाय नमस्तेऽस्तुशिवा भव
उपवासमुपक्रामेदेतं मन्त्रं जपं स्ततः 15

अह्न आदौ परीक्षेत तं कत्न पं स्थपतिर्बु धः
सावशेषं जलं दृष्ट्वा तद् ग्राह्यं सर्वसम्पदे 16

विलन्नेवस्तु विनाशाय शुष्के धान्यधनक्षयः
पूरितेतन्मृदा खातेसमता मध्यमा मता 17

उत्तमा भूर्मृदाधिक्या हीना हीना मृदा मही
तन्मध्यावटसन्दृष्टप्रदक्षिणचरोदकाम् 18

सुरभिप्रतिमां भूमिं गृह्णीयात् सर्वसम्पदे
एवं यथोक्तविधिना विविधं विदित्वा ग्रामाग्रहारपुरपत्तनखर्वटानि
स्थानीयखेटनिगमानि तथेतराणि यः संविविक्षुरवनीग्रहणं विदध्यात् 19

इति मयमतेवस्तुशास्त्रेभूपरिग्रहो नाम चतुर्थोऽध्यायः

अथ पञ्चमोऽध्यायः[सम्पाद्यताम्]

सर्वेषामपि वास्तूनां मानेनै व विनिश्चयः
तस्मान्मानोपकरणं वच्येसं क्षेपतः क्रमात् 1

परमाणुक्रमाद् वृद्धं मानाङ्गुलमिति स्मृतम्
परमाणु रिति प्रोक्तं योगिनां दृष्टिगोचरम् 2

परमाणु भिरष्टाभी रथरेणुरुदाहृतः
रथरेणुश्च वालाग्रं लिक्षायूकायवास्तथा 3

क्रमशोऽष्टगुणैः प्रोक्तो यवाष्टगु णितोऽङ्गुलम्
अङ्गुलं तुभवेन्मात्रं वितस्तिद्द्वादशाङ्गुलम् 4

तद् द्वयं हस्तमु द्दिष्टं तत् किष्क्वति मतं वरैः
पञ्चविं शतिमात्रं तुप्राजापत्यमिति स्मृतम् 5

षडि् वंशतिर्धनुर्मुष्टिः सप्तविं शद्धनु र्ग्रहः
यानेच शयनेकिष्कुः प्राजापत्यं विमानके 6

वास्तूनां तुधनुर्मुष्टिर्ग्रामादीनां धनु र्ग्रहः
सर्वेषामपि वास्तूनां किष्कुरेवाथवा मतः 7

रत्निश्चै वमरत्निश्च भुजो बाहुः करः स्मृतः
हस्ताश्चतुर्धनुर्दण्डो यष्टिश्चै वप्रकीर्तितः 8

दण्डे नाष्टगुणा रज्जुर्दण्डै र्ग्रामं च पत्तनम्
नगरं निगमं खेटं वेश्मादीन्यपि मानयेत् 9

गृहादीनां तुहस्तेन यानेच शयनेबुधैः
वितस्तिना विधातव्यं क्षुद्राणामङ्गुलेन तु 10

यवेनाल्पीयसां मानमेवं मानक्रमं विदुः
मध्यमाङ्गुलमिध्यस्थपर्वमात्रायतं तुयत् 11

कर्तु र्मात्राङ्गुलं प्रोक्तं यागादीनां प्रशस्यते
देहलब्धाङ्गुलं यत्तदुपरिष्टाद् विधीयते 12

एवमेवं विदित्वा तुस्थपतिर्मानयेद् दृढम्
भवन्ति शिल्पिनो लोके चतुर्धास्वस्वकर्मभिः 13

स्थपतिः सूत्रग्राही च वर्धकिस्तक्षकस्तथा
प्रसिद्धदेशसङ्कीर्णजातिजोऽभीष्टलक्षणः 14

स्थपतिः स्थापनार्हः स्यात् सर्वशास्त्र विशारदः
न हीनाङ्गोऽतिरिक्ताङ्गो धार्मिकस्तुदयापरः 15

अमात्सर्योऽनसूयश्चा तन्द्रितस्त्वभिजातवान्
गणितज्ञः पुराणज्ञः सत्यवादी जितेन्द्रियः 16

चित्रज्ञः सर्वदेशज्ञश्चान्नदश्चाप्यलु ब्धकः
अरोगी चाप्रमादी च सप्तव्यसनवर्जितः 17

सुनामा दृढबु द्धिश्च वास्तु विद्याब्धिपारगः
स्थपतेस्तस्य शिष्यो वा सूत्रग्राही सुतोऽथवा 18

स्थपत्याज्ञानुसारी च सर्वकर्मविशारदः
सूत्रदण्ड प्रपातज्ञो मानोन्मानप्रमाणवित् 19

शौलदार्विष्टकादीनां सूत्रग्राहिवशानुगः
तक्षणात् स्थूलसूक्ष्माणां तक्षकः स तुकीर्तितः 20

मृत्कर्मज्ञो गुणी शक्तः सर्वकर्मस्वतन्त्रकः
तक्षितानां तक्षकानामुपर्यु परि युक्तितः 21

वृद्धिकृद् वर्धकिः प्रोक्तः सूत्रग्राह्यनु गः सदा
कर्मिणो निपुणाः शुद्धा बलवन्तो दयापराः 22

गुरुभक्ताः सदा हृष्टाः स्थपत्याज्ञानु गाः सदा
तेषामेव स्थपत्याख्यो विश्वकर्मेति सं स्मृतः 23

एभिर्विना हि सर्वेषां कर्मकर्तुंन शक्यते
तस्मादेतत् सदा पूज्यं स्थपत्यादिचतुष्टयम् 24

एभिः स्थपत्यादिभिरत्र लोके विना ग्रहीतुं सुकृतं न शक्यम्
तैरेव सार्धंगुरुणाऽथ तस्माद्भजन्ति मोक्षं भवतस्तुमत्त्याः 25

इति मयमतेमानोपकरं नाम पञ्चमोऽध्यायः
"https://sa.wikisource.org/w/index.php?title=मयमतम्/अध्याय_०१-०५&oldid=165033" इत्यस्माद् प्रतिप्राप्तम्