मन्दारमरन्दचम्पूः/शेषबिन्दुः

विकिस्रोतः तः
               




   

शेषविन्दु.।

अत्रान्त्य(न्ति)मे शेषबिन्दावनुक्तान्पूर्वबिन्दुषु ।
लक्ष्यलक्षणसंयुक्तांस्तत्क्रमेणाभिदध्महे ॥
एकश्चन्द्रार्कविघ्नेशरदशुक्राक्षिभूध्रुवाः ।
द्वयं द्वन्द्वं युगं युग्मं यमलं यामलं यमम् ॥
युगलं द्वितयं पक्षो नदीकूलं करः कुचः ।

जानुपादौ बाहुगुल्फौ जङ्घोष्ठौ राघवात्मजौ ॥
असिधाराकर्णहोराकपोलनयनभ्रुवः ।
नितम्बायनपक्ष्माणि हनूरुवडवास्तनाः ॥
त्रयं कालाग्निरुद्राक्षिसंध्याभुवनपुष्करम् ।
ग्रीवा रेखा शूलशिखा नाडी रामो गुणः पुरः ॥
गायत्रीवह्निचरणौ विष्णुपत्नी बलिस्तनुः ।
शक्तिर्मूर्तिर्भृङ्गिपदस्त्रिविक्रमपदार्पणम् ॥
चत्वारि गोस्तनब्रह्मसुखवर्णार्णवाश्रमाः ।
स्वर्दन्तिदन्तसेनाङ्गविष्णुबाहुयुगाः श्रुतिः ॥
पुरुषार्थोपाययामपशुमञ्चपदानि च ।
पञ्च पापमहाकाव्यशिवास्येन्द्रियपाण्डवाः ॥
विषयानिलवर्गाङ्गभूतस्वर्द्रुमहामखाः ।
पुराणलक्षणप्राणसायकक्लेशपल्लवम् ॥
षड्वज्रकोणवेदाङ्गरसतर्कारिकारकम् ।
प्रयोगप्रश्नगायत्रीजठरं चक्रवर्त्यपि ॥
शास्त्रशस्त्राङ्गकर्मर्तुभृङ्गपादगुहाननम् ।
सप्त मातृद्वीपशैलवारराज्याङ्गताण्डवाः ॥
मुनिस्वरनदीव्याधवह्निजिह्वाश्वधातवः ।
अष्ट दिक्पालेशमूर्तिसिद्धिसिद्धान्तकुञ्जराः ॥
वसुलक्ष्मीगन्धमदब्रह्मश्रोत्राहिमङ्गलम् ।
गयायोगाङ्गनत्यङ्गमहिषीकुलपर्वताः ।
नव रत्नं निधिर्गोप्यखण्डधान्यग्रहास्तथा ॥
धेनुरन्ध्रशिलाभक्तिवीरव्याघ्रीस्तनाम्बुदाः ।
बिन्द्वर्थकाः शून्यपूर्णकान्तामध्याभ्रखानि च ॥
दश स्नानस्थाणुबाहुरावणाननचुम्बनम् ।
कृष्णावतारदिग्धस्ताङ्गुल्यवस्थेन्दुवाजिनः ॥
धर्मपत्नीधूपपङ्क्तिनिघण्डुसुतरूपकम् ।

एकादश स्यात्करणं कुरुसेना वृषध्वजः ॥
द्वादशार्का मासराशिसंक्रान्तिगुहबाहवः ।
शारिकोष्ठकसेनानीनेत्रभूपतिमण्डलाः ॥
त्रयोदश स्युर्वीथ्यङ्गविश्वकश्यपकामिनी ।
सामगाचार्यताम्बूलगुणप्रतिमुखाङ्गकम् ॥
चतुर्दश मनुर्विद्यायमेन्द्राभिनया मृगः ।
पञ्चदश तिथिः सामिधेनी कान्ताकलापि च ॥
षोडशेन्दुकला गौरी नाट्यचेष्टोपकारकम् ।
संस्कारः सप्तदश तु प्राजापत्यपशुर्मतः ॥
अष्टादश धृतिः पीठं पर्वोपद्वीपभारतम् ।
एकोनविंशतिर्देववाद्यमप्यथ विंशतिः ॥
अङ्गुलीरावणभुजकपोलाक्षिकरभ्रुवः ।
एकविंशतिसंख्यायां मुर्छनानुस्मृतिः समित् ॥
द्वाविंशतिश्चोपसर्गश्चतुर्विंशतिवाचकाः ।
वाक्यदोषन्यायगुणगायत्रीजिनकेशवाः ॥
शतं न्रायुःकञ्जदलशक्रयज्ञाब्धियोजनाः ।
सहस्रं जाह्नवीवक्त्रं शेषशीर्षाम्बुजच्छदाः ॥
रविबाणार्जुनकरा वेदशाखेन्द्रदृष्टयः ।
एतेषामपि पर्यायास्तत्तत्संख्याविबोधकाः ॥

इति संख्याप्रकरणम् ।

विरामो विरतिश्छेदो विच्छेदश्छेदनं छिदा ।
यतिर्विभेदश्वसनं श्वासो भिद्भेदनं भिदा ॥
छिदाश्वासस्तथा छित्तिरिति विच्छित्तिबोधकाः ।
अयुक्तमोजो विषममयुक्चासममीरितम् ॥
युगनोजः समं युक्तमितीमे समवाचकाः ।
गो गुरुस्त्वनृजुर्वक्र इतीमे गुरुवाचकाः ॥
अवक्त्रो लो ऋजुर्मात्रालवश्च लघुवाचकाः ।

वर्णस्तु द्विविधः प्रोक्तो गुरुलघ्वोर्विभेदतः ।
गुरुः प्लुतो द्विमात्रोऽपि लघुः स्यादेकमात्रकः ॥
युक्तपूर्वो विसर्गान्तो दीर्घो बिन्दुयुतो गुरुः ।
तदन्यो लघुरुक्तोऽथ विकल्पगुरुरुच्यते ॥
चरणादिमवर्णस्य संयोगः क्रमसंज्ञकः ।
तस्य प्राक्स्थितबवर्णश्च पादान्तस्थश्च वा गुरुः ॥

यथा--

सज्जननिचयः परगतगुणदोषौ वीक्ष्य दोषमुत्सृजति ।
हंसो भाजनसंगतक्षीरजले वीक्ष्य नीरमुत्सृजति ॥ १ ॥

रहयुक्ताक्षरात्पूर्वे रयुक्तात्कुपुवर्णतः ।
पूर्वं वर्ण विकल्पेन गुरुं केचित्प्रचक्षते ॥
गणस्तु द्विविधः प्रोक्तो वर्णमात्राविभेदतः ।
तत्र वर्णगणस्तु स्यादक्षरत्रितयात्मकः ॥
मयौ रसौ तजभना इत्यष्टार्णगणाः स्मृताः ।
त्रिगो मो मुखलो यः स्यान्मध्यलो रोऽन्तगश्च सः ।
अन्त्यलस्तो मध्यगो जो मुखगो भस्त्रिलस्तु नः ॥

श्रीकान्तः । कपाली । राधिका । कमला । कृष्णाय । करोति । पाथसि । भवति । इति ॥

मध्याछन्दसि चोद्भूता इमे वर्णगणा मताः ।
मस्य भूमिर्देवता स्यात्संपत्तिः फलमिष्यते ॥
यस्य पाथो देवता स्यात्फलं वृद्धिः प्रकीर्तिता ।
रस्य वह्निर्देवता स्यात्फलं मरणमीरितम् ॥
सस्य वायुर्देवता स्याद्देशान्तरगतिः फलम् ।
तस्याकाशो देवता स्यात्फलं शून्यं प्रकीर्तितम् ॥
जस्य सूर्यो देवता स्याद्रोगप्राप्तिः फलं मता ।
भस्य चन्द्रो देवता स्यात्फलं कीर्तिरुदाहृता ॥
नस्य नाको देवता स्यात्फलं च सुखमच्युतम् ।

कलाचतुष्टयात्मा तु मात्रागण उदाहृतः ।
भजसाद्विगुरुश्चैव नलश्चेति स पञ्चधा ॥

रोधसि । तटेषु । नलिनं । मित्रः । कथयति । इति ॥

छन्दोऽपि द्विविधं प्रोक्तं वार्णमात्रविभेदतः ।
वार्ण तुक्तादिकं प्रोक्तं मात्रं त्वार्यादिकं मतम् ॥
पादान्त एव केचिच्च पादमध्येऽपि केचन ।
यतिं वदन्ति तत्रापि विशेषः स्फुटमुच्यते ॥
धातुनामस्वभिन्नेषु यतिर्भवति नान्यथा ।
कृष्ण एव परं वेत्ति राधिकाया मनोगतम् ।
पश्यन्ती वीक्ष्य कालिन्दीकूलकुञ्जमगात्ततः ॥ २ ॥
उपसर्गान्ततश्छेदः प्रत्ययादौ तयोः क्वचित् ॥
राधा केलौ बहु परितोषयत्यम्बुजेक्षणम् ।
तस्मान्न चेहते त्वां संपूर्णचन्द्रमुखीं हरिः ॥ ३ ॥
रासोत्सवे मुहुश्चुम्बत्ययं राधामुखाम्बुजम् ।
इति रोषकषायाक्षीणां मुखानि प्रतीक्षते ॥ ४ ॥
स्वरसंधौ तु संप्राप्तसौन्दर्याद्यतिरिष्यते ।
तादृग्गोपीकेलिलोलोऽस्तु मुदे मर्म माधवः ।
तु चादयो न प्रयोज्या विच्छेदात्परतस्तथा ॥
नमः शिवाय शान्ताय तूदयद्बहुलोजसे ॥ ५ ॥
प्रत्ययादौ यतिर्नाम्नां षष्ठ्यामेवेति केचन ।
अथ वर्णगणानां तु निवेशे फलमुच्यते ॥
मनौ मित्त्रौ जतौ स्यातामुदासीनौ भयौ पुनः ।
भृत्यौ रसावरीनीचौ द्वौ द्वावेतौ स्वरूपतः ॥
मित्त्रान्मित्त्रे समृद्धिः स्यान्मित्त्राद्भृत्ये जयो मतः ।
मित्त्रादुदासीनगणे सुहृत्पीडा फलं मतम् ॥
मित्त्राच्छत्रौ बन्धुपीडा भृत्यान्मित्त्रे तु सिद्धयः ।
भृत्यादुदासीनगणे सद्यः स्यात्साध्वसं फलम् ॥

भृत्याद्भृत्ये जगद्वश्यं भृत्याच्छत्रौ महाव्यथा ।
उदासीनान्मित्त्रगणे कार्यसिद्धिर्न जायते ॥
उदासीनाद्भृत्यगणे स्वजनैः कलहो भवेत् ।
शत्रोरुदासीनगणे स्वकुलस्य क्षयः फलम् ॥
शत्रोर्मित्त्रे फलं शून्यं शत्रोर्भृत्ये, स्त्रियामृतिः ।
शत्रोः शत्रौ काव्यकर्तुर्नाशो भवति निश्चितम् ॥
परिशुद्धार्णसंबन्धे राज्यप्राप्तिर्भवेद्ध्रुवम् ।
अतश्चाचां हलां चापि वर्णानां फलमुच्यते ॥
ऋलृवर्णौ विहायाचः प्रोक्ताः संपत्करा बुधैः ।
कखौ गघौ च संपत्तौ ङश्चापयशसि स्मृतः ॥
चः सुखे छः प्रेम्णि जस्तु मित्त्रलाभे च ञो भये ।
झो मृतौ च टठौ दुःखे डः शोभायां च णो भ्रमे ॥
तः सुखे थश्च युद्धे ढो विशोभायां च दः सुखे ।
ध्नौ संतोषे च पः सौख्ये फो भये बो भवेन्मृतौ ॥
भः क्लेशे मश्च दुःखे यो लक्ष्म्यां ल्वौ व्यसनेऽपि च ।
रो दाहे शः सुखे षो हः खेदे सः सौख्य एव च ।
लः स्याच्च विलये क्षस्तु समृद्धौ संप्रकीर्तितः ॥
ये वैष्णवा दैवताश्च शब्दा भद्रादिवाचकाः ।
ते न निन्द्या गणादिभ्य इत्युक्तं पिङ्गलादिभिः ॥
उक्तात्युक्ता च मध्या च प्रतिष्ठान्यासु पूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥
त्रिष्टुब्जगती शक्वर्यत्यष्ट्योऽन्या अतिपूर्विकाः ।
धृतिश्चातिधृतिश्चापि कृतिः प्रकृतिराकृतिः ॥
विकृतिः संकृतिश्चातिकृतिरुत्कृतिरित्यपि ।
एकाक्षरं समारभ्य पुनरेकैकवर्धितैः ॥
पदैः पृथक्च छन्दांसि षड्विंशतिरिति स्फुटम् ।

ऋजुरेखाकृतिर्ह्रस्वो वक्ररेखाकृतिर्गुरुः ॥
आद्याद्गुरोर्लघुरधो यथोपरि तथापरम् ।
ऊने गुरुर्गुर्वभावे प्रस्तारः पूर्ण उच्यते ॥

 मध्याया तृतीये छन्दसि प्रस्तारो यथा--

  ऽऽऽ ।ऽऽ ऽ।ऽ ॥ऽ ऽऽ। ।ऽ। ऽ॥ ॥।

आद्यतो द्विगुणैरङ्कैर्वर्धितैरेकमिश्रितैः ।
गण्यते छन्दसां वृत्तमुद्दिष्टं तु लघुस्थितैः ॥

गायत्र्यामुद्दिष्टम् ।

१६ ३२

     २३

विषमे परिगृह्यैकमर्धस्यार्धार्धभागतः ।
समे गुरुं परत्रान्यं क्षिप्त्वा नष्टं समुद्धरेत् ॥

गायत्र्यामेव नष्ट वृत्तम् ४३ ।

४३ २२ ११

एकैकाङ्काल्लिखेत्पूर्वं छन्दसो वर्णसंख्यया ।
तदधो द्विगुणीकृत्य पुनश्चाङ्कान्समालिखेत् ॥
आद्यादिक्रमतश्चाङ्कैर्गुणितैरेकमिश्रितैः ।
ज्ञेया संख्या तु वृत्तानामिदं संख्यानमिष्यते ॥

गायत्र्यामेव सख्यानं यथा--

१६ ३२

     ६४

छन्दोवर्णसमान्सैकानङ्कान्पूर्वं लिखेत्ततः ।
एकैकत्यागतस्तेषामेकद्व्यादिक्रमेण च ॥
सपूर्वैकैकगणनमुपर्युपरि निक्षिपेत् ।

प्रथमाङ्कक्रमात्पश्चाद्विजानीयाल्लगक्रियाम् ॥

यथा गायत्र्या लगक्रिया--

गु
१५
२० १०
१५ १०
गु

एकोना द्विगुणा संख्या प्रोक्ताध्वेति मनीषिभिः ।
प्रस्तारश्च तथोद्दिष्टं नष्टं संख्यानमेव च ।
लगक्रिया तथाध्वेति प्रयोगाः षडिमे मताः ॥
प्रस्तारा मेरुशकटपताकामर्कटाभिधाः ।
षट्प्रयोगेष्वेव चैतेष्वन्तर्भूता भवन्ति हि ॥
अथ वेदान्तिनां मान्त्रिकाणां मतमुदीर्यते ।
मुख्यानि सप्त च्छन्दांसि गायत्र्युष्णिगनुष्टुभः ॥
बृहती च तथा पङ्क्तिस्त्रिष्टुप् च जगतीत्यपि ।
अतिच्छन्दांसि सप्त स्युस्तथातिजगती पुनः ॥
शक्वरी सातिपूर्वान्याष्ट्यत्यष्टी धृतिरेव च ।
तथातिधृतिरित्येवं कथितानि चतुर्दश ॥
चतुर्विशत्यक्षरात्मा गायत्री त्रिपदा मता ।
त्रयोदशान्यच्छन्दांसि चतुर्वर्णाधिकानि च ॥
चतुश्चरणयुक्तानि गायत्र्याश्चोत्तरोत्तरम् ।
तथा विराट्ककुन्मूलच्छन्दसी परिकीर्तिते ॥
एकाक्षरा द्व्यक्षरा च विराट्छन्दः प्रकीर्तितम् ।
पञ्चवर्णा चतुर्वर्णा त्र्यक्षरा च ककुन्मता ॥
गायत्र्या देवता वह्निर्विश्वेदेवौ त(वास्त)थोष्णिहः ।
बृहत्या देवता सूर्यो बृहस्पतिरनुष्टुभः ॥

अश्विनौ देवता पङ्क्तेस्त्रिष्टुभश्च सुधाकरः ।
जगतीछन्दसः प्रोक्तो देवता नाकनायकः ॥
पृथ्वी विराट्छन्दसः स्यात्ककुदस्तु त्रिविक्रमः ।
ककुद्विराट्छन्दसोस्तु केचिद्देवं हरिं विदुः ॥
कृतिः प्रकृत्याकृती च विकृतिः संकृतिस्तथा ।
अतिकृत्युत्कृती चातिधृतावन्तर्भवन्ति हि ॥

यथा प्राचीनम्--

पान्त्वस्मान्पुरुहूतवैरिबलवन्मातङ्गमाद्यद्धटा-
कुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः ।
श्रीमत्कण्ठीरवास्यप्रततसुनखरादारितारातिदूर-
प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः ॥ ६ ॥

 अत्र प्रकृतेरतिधृत्यामन्तर्भावः । एवमन्यत्रोदाहार्यम् । न वैकेनाक्षरेण छन्दांसि विलीयन्ते । न द्वाभ्याम् ॥

इति श्रुत्या गुरुलघुमात्रैकद्वितयेन वा ।
न्यूनेन वाधिकेनापि तेषां छन्दो न भज्यते ।
अलंकारिमते तेन छन्दोभङ्गो भवेद्ध्रुवम् ॥

इति छन्दःप्रकरणम् ।

रसापकर्षहेतुत्वं दोषत्वं परिकीर्तितम् ।
स दोषः शब्दगत्वेनार्थगत्वेन च द्विधा ॥
शब्ददोषो द्विधा प्रोक्तः पदवाक्यविभेदतः ।
तत्र श्रुतिकटुभ्रष्टसंस्कारं चाप्रयुक्तकम् ॥
असमर्थं च निहतानुचितार्थे निरर्थकम् ।
अवाचकं तथाश्लीलं संदिग्धं चाप्रतीतकम् ॥
ग्राम्यगूढार्थनेयार्थान्यथ क्लिष्टाप्रयोजके ।
अविमृष्टविधेयांशं विरुद्धमतिकृत्तथा ॥
एवं च पददोषाः स्युर्बुधैरष्टादशोदिताः ।

तत्र श्रुतिकटु ज्ञेयं माधुर्याव्यञ्जकं पदम् ॥
न ते त्वद्दयिते कि वा नैष्ठुर्यमवलम्बसे ।
यद्व्याकरणदुष्टं तद्भ्रष्टसंस्कारमुच्यते ।
रथ्यया संचरन्तं त्वां दृष्ट्वा विरमते वधूः ॥ ७ ॥
अप्रयुक्तं यदाम्नातमपि पूर्वैरनादृतम् ॥
विहायाः परितो भाति तारैः स्मरयशोऽङ्कितैः ।
असमर्थमशक्तं यदुपसंधानमन्तरा ।
विधाय त्वद्यशः सृष्टः शिष्टो धात्रा शशिच्छलात् ॥ ८ ॥
योगमात्रमयुक्तं चाप्यसमर्थमितीष्यते ॥
चतुरम्बुधराक्रान्तां भुनक्ति धरणीं नृपः ।
निहतार्थं द्वितीयार्थे ह्यप्रसिद्धे प्रयुज्यते ।
सतां क्षयकरो राजा राजते विधुवत्सदा ॥ ९ ॥
प्रस्तुतार्थविरुद्धार्थं भवेदनुचितार्थकम् ॥
अनुनीय मुहुर्दूती प्रेषयामास मानिनी ।
विदग्धहृदया कामशरवर्षणतेजसा ॥ १० ॥
पादपूरणमात्रार्थमव्ययादि निरर्थकम् ।
देवं कुण्ठितकालं वै नमामि च सुरेश्वरम् ।
अवाचकं तु तात्पर्याविषयार्थप्रतीतिकृत् ॥
लुब्धका विहरन्ति त्वद्रिपुस्त्त्रीसंचयं वने ॥ ११ ॥
व्रीडा जुगुप्सामाङ्गल्यव्यक्तिरश्लीलता मता ।
उपस्थास्यत्युत्सवं ते देवोऽभिप्रेतमादरात् ।
संदिग्धं तत्तु कथितं यदनिर्धारितार्थकम् ॥
तमः परिहरेत्सोमः सर्वापेक्षितविग्रहः ॥ १२ ॥
शास्त्रान्तरेकसिद्धार्थमप्रतीतमुदाहृतम् ।
सन्तः कुर्वन्ति कर्माणि नियोगफलनिःस्पृहाः ।
पामरव्यवहारैकप्रसिद्धं ग्राम्यमिष्यते ॥
स(क)धां कुर्वन्मिषात्तस्या गल्लयुग्मं चुचुम्ब सः ॥ १३ ॥

गूढार्थमप्रसिद्धार्थे प्रयुक्तं पदमिष्यते ।
ललाते कुरुते कान्ता रुधिरं वीक्ष्य दर्पणम् ।
नेयार्थ स्याल्लाक्षणिकमशक्तं फलबोधने ॥
दृशापि नैव स्पृशति वाचा शोच्या रस तव ॥ १४ ॥
स्वसंकेते प्रयुक्तं चाप्यर्थे नेयार्थमिष्यते ।
धत्ते तव रिपुस्त्त्रैणं नवं कवचमाकुलम् ।
क्लिष्टं भवेत्तद्यत्रार्थप्रतिपत्तिर्विवक्षिता ॥
दशास्यजजितोद्भूतरिपुस्त्त्रीजननीपतिः ॥ १५ ॥
तदप्रयोजकं यत्स्यादविशेषविधायकम् ।
वसामि पर्वते भूमौ स्थिते तृणशिलायुते ।
अविमृष्टविधेयांशं चेद्विधेयाप्रधानता ॥
शूरगर्हितकीर्तिः स पलायनपरोऽभवत् ।
सर्वं कषसि गर्वं त्वं न केषां युधि रक्षसाम् ॥ १६ ॥
भवेद्विरुद्धमतिकृद्विपरीतार्थबोधकम् ।
नित्यं धर्माहितमतिः सोऽयं परमशोभनः ।
अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् ।
दोषाः श्रुतिकटुत्वाद्याः सर्वे वाक्येऽप्यमी मताः ॥
अर्हन्ति बर्हिणां बर्हगर्हां तन्मूर्धजा मुहुः ॥ १७ ॥
शब्दहीनं क्रमभ्रष्टं हतवृत्तं हतोपमम् ।
यतिभङ्गोऽनुक्तवाच्यं समाप्तपुनरात्तकम् ॥
भग्नछन्दश्च संकीर्णमपूर्ण वाक्यगर्भितम् ।
अर्थान्तरस्थैकपदं विसंधिपुनरुक्तिमत् ॥
अशरीराधिकपदप्रसिद्धिविधुराणि च ।
अपदस्थसमासं च तथा मतविसर्गकम् ॥
अपदस्थपदं भग्नप्रक्रमं गर्हितं तथा ।
अभवन्मतयोगं चावर्णामतपदार्थके ॥
पतत्प्रकर्षमित्येवं वाक्यदोषा रसभ्रुवः ।

शब्दशास्त्रहतं वाक्यं शब्दहीनमितीर्यते ॥
संपश्यते मुखं तस्याः साकूतं पल्लवाग्रणीः ।
क्रमभ्रष्टं भवेद्वाक्यं यत्र शब्दस्य विक्रमः ।
यशःप्रतापयोर्मग्नौ सूर्याचन्द्रमसौ तव ॥ १८ ॥
हतवृत्तं भवेद्यत्र वृत्तं रसविरोधि तत् ॥
वल्गत्खड्गेन तेन द्राक्खण्डिताः खण्डशो द्विषः ।
असंमतोपमा यत्र कवीनां तद्धतोपमम् ।
तद्भिन्नलिङ्गवचनाधिकन्यूनोपमात्मना ॥
चतुर्धा कथितस्तेषां लक्षणोदाहृती ब्रुवे ।
भिन्नलिङ्गं भवेद्यत्रोपमा स्याद्भिन्नलिङ्गका ॥
गिरिणेव कुचस्थल्या राजते मानिनीमणिः ॥ १९ ॥
तद्भिन्नवचनं भिन्नवचना यत्र चोपमा ।
मल्लिका इव कान्ताया मन्दहासो विराजते ।
यत्रोपमानमधिकं तद्भवेदधिकोपमम् ॥
कामिन्या वदनं भाति पद्मबिम्वमिव श्रिया ॥ २० ॥
न्यूनं यत्रोपमानं स्यात्तन्न्यूनोपममिष्यते ।
यथा रेजे श्रिया विष्णुस्तथा राट् स्वस्त्रिया भुवा ।
यत्र स्थाने न विच्छेदो यतिभ्रष्टं तदिष्यते ॥
अनन्यललनासामान्येयं साध्वी विराजते ॥ २१ ॥
अनुक्तवाच्यं वक्तव्यानभिधायिपदोक्तितः ।
शौरेः पद्मानुरक्तस्य तथाप्येषा मनोहर ।
मुख्यक्रियान्वये जाते पुनः किंचिद्विशेषणम् ॥
यत्रोपादीयते तत्तु समाप्तपुनराप्तकम् ।।
स्मरजैत्रपताकेयं जयत्यखिलरञ्जनी ॥ २२ ॥
छन्दोभग्नं वचो यत्र भग्नच्छन्दस्तदिष्यते ॥
मुहुरालिङ्गति प्राणप्रियं कन्दर्पसदृशम् ।
संकीर्णमन्यवाक्ये चेदन्यवाक्यपदं समम् ।

चित्तमुञ्चाक्षयं भोगं शिवं क्षणिकमाश्रय ।
अपेक्षितपदानुक्तिर्यत्रापूर्णं तदिष्यते ॥
किं तपश्चरितं शेते तत्कुचाभ्यन्तरं मुहुः ॥ २३ ॥
इदमेव न्यूनपदाभिधं संबन्धवर्जितम् ।
तद्वाक्यगर्भितं यस्य मध्ये वाक्यान्तरं यदि ॥
बुध्वापि साध्वी तां कान्ता खलानां बुद्धिरीदृशी ।
निर्मिता विधिना सोऽयं साहसं संगमेऽकरोत् ॥ २४ ॥
एकार्थकपदं चान्यार्थकवाक्यान्तरे यदि ।
अर्थान्तरस्थैकपदं नाम तत्स्यात्प्रवेशनम् ॥
कौस्तुभालंकृतं वक्षः कैटभारेः कपर्दिनः ।
चूडालो बालचन्द्रेण जटाजूटश्च पातु नः ॥ २५ ॥
असंमतः कवीनां च यत्र संधिर्विसंधि तत् ।
विसंहिताश्लीलकटुभेदेन त्रिविधं हि तत् ॥
शब्दशास्त्रहतः संधिः संहितायां विसंहितम् ।
भाति इन्दुरिवैतस्या मुखमेणीदृशोऽधुना ।
व्रीडाजुगुप्साकार्यर्थामङ्गलार्थप्रतीतिकृत् ॥
विसंध्यश्लीलाह्वयं च त्रिविधं परिकीर्तितम् ।
यो निर्दुःखं सुखं भेजे राज्ये तस्याधुनाभवत् ।
वपुरीषद्गलद्वारि भयाद्वप्रे तव द्विषः ॥ २६ ॥
संधौ श्रुतिकटुत्वं चेद्भवेत्कटुविसंधि तत् ॥
असिपुत्र्यलिरुग्धन्त द्रोग्ध्रुरस्य पतद्धटात् ।
शब्दार्थपौनरुक्त्ये तु पुनरुक्तिमदिष्यते ।
विन्ध्ये काननसंकीर्णे वयं काननवृत्तयः ॥ २७ ॥
क्रियापदेन रहितमशरीरमितीर्यते ॥
तादृशी कामिनी मां च तादृशं नृपति विधे ।
इदमेवानन्वयाख्यं दूषणं परिकीर्तितम् ।
अवक्तव्यार्थबोधः स्याद्यत्राधिकपदं हि तत् ॥

नीलोत्पलदलाकारसदृशं तव लोचनम् ।
कविप्रसिद्ध्यतिक्रान्तं प्रसिद्धिविधुरं मतम् ।
भुवनान्युपकाराणां श्रेणिभिः प्रणयन्ति ते ॥ २८ ॥
अपदस्थसमासं स्यादस्थाने चेत्समस्यते ॥
धनूंषि नमयन्त्येते न शिरांसीत्यरीन्प्रति ।
सद्यःसमुद्यत्क्रोधोच्चैर्बद्धभूकुटिरास सः ॥ २९ ॥
यत्रामतविसर्ग तद्विसर्गाः कव्यसंमताः ।
तद्विसर्गोत्तरं नष्टं स्फुटं लुप्तमिति त्रिधा ॥
ओत्वप्राप्तौ विसर्गाणां ज्ञेयं नष्टविसर्गकम् ।
भवतो विमतो भीतो यातो दारयुतो वनम् ।
यत्र स्फुटा विसर्गाः स्युस्तत्स्यात्स्फुटविसर्गकम् ॥
अहितः सहितः सैन्यैः परितः क्षपितस्त्वया ॥ ३० ॥
विसर्गा यत्र लुप्ताः स्युस्तत्स्याल्लुप्तविसर्गकम् ।
विनता रक्षिता राज्ञा निहता विमता रणे ।
अपदस्थपदं तत्स्याद्यत्रास्थाने पदं भवेत् ॥
वसुंधरायामेव त्वं धरानाथ धनुर्धरः ॥ ३१ ॥
प्रक्रान्तशैलीत्यागे तु भग्नप्रक्रममिष्यते ।
गुहा गृहा मही शय्या वैष्णवा बान्धवा मम ।
गर्हितं यदि वाक्यार्थे वाक्यान्तरनिवेशनम् ॥
चित्त श्रेयस्करं मुञ्च भज तृष्णां सदाशिवम् ॥ ३२ ॥
इदमेव भवेद्वाक्यसंकीर्णाभिधदूषणम् ।
अभवन्मतयोगं स्यादिष्टान्वयमतिर्न चेत् ॥
यैर्ध्यातस्त्वं ये स्तुवन्ति जनास्त्वामीश पासि तान् ।
अवर्णं नाम कथितं रसाननुगुणं वचः ।
ज्ञानध्वस्तसमस्तोऽहं ब्रह्म साक्षात्क्रिये कदा ॥ ३३ ॥
इदमेवारीति नाम प्रतिकूलाक्षरं तथा ॥
विरुद्धरसयोर्व्यक्तिर्यदामतपदार्थकम् ।

आरुह्योरुस्थलीं व्याघ्रीं चुम्बत्यस्य मुखाम्बुजम् ।
पतत्प्रकर्ष बन्धस्य पादे पादे प्रहीणता ॥
विव(प)क्ष्यक्षितिभृत्पक्षच्छेदी विजयते नृपः ॥ ३४ ॥
पद्य एव च दोषत्वं स्याच्छन्दोयतिभङ्गयोः ।
चतुर्विंशतिरन्ये च स्युर्दोषा वाक्यपद्ययोः ॥
पद्यदोषौ विदुः केचिद्धतवृत्तविसंहिते ।
अपुष्टकष्टव्याघातपुनरुक्ताधिकोपमाः ॥
अपार्थदुष्क्रमग्राम्यसंदिग्धनियमच्युताः ।
साकाङ्क्षपुरुषाश्लीलव्यर्थभिन्नासमोपमाः ॥
अनिरूप्यश्चातिमात्रो निर्हेतुरनवीकृतः ।
अप्रसिद्धोपमो हीनोपमः सहचरच्युतः ॥
विरुद्धश्चेति दुष्टार्थाश्चतुर्विंशतिरीरिताः ।
उत्कर्षं यो न पुष्णाति सोऽर्थोऽपुष्ट इतीष्यते ॥
उदयं भजते चन्द्रः पौर्णम्यां रजनीमुखे ।
कृच्छ्रेण गम्यते योऽर्थः स कष्ट इति कथ्यते ।
तर्को यस्त्वाह मद्वञ्च्यं तत्फलोक्ताववाक् स किम् ॥ ३५ ॥
व्याघातः पूर्वकथितविरुद्धार्थोपवर्णने ॥
त्वन्मुखेन्दुतुला कस्मादिन्दोरस्य कलङ्किनः ।
पुनरुक्तः प्रतीतार्थकथनं स्याद्विना फलम् ।
यथा स्कन्देन गिरिजा जयन्तेन यथा शची ।
तथा सुतेन सा रेजे तत्समेनेह तत्समा ॥ ३६ ॥
इदमेव बुधा एकार्थाभिधं दूषणं विदुः ॥
यत्रोपमानमधिकं कथितः सोऽधिकोपमः ।
बकः पर्वतश्रृङ्गाग्रे गरुत्मानिव राजते ।
न यत्र समुदायार्थः सोऽपार्थ इति कीर्तितः ॥
रटन्ति करटाः क्रूरं सुन्दरी नृपकामिनी ॥ ३७ ॥
दुष्क्रमस्तु यथायोग्यक्रमहीनार्थ इष्यते ।

समुद्धरेदसावद्रीन्पादपान्वा बलोद्धतः ।
अविदग्धैरुच्यमानस्त्वर्थो ग्राम्य इतीरितः ॥
मयि संभोगसाकाङ्क्षेऽप्यबले किमुपेक्षसे ॥ ३८ ॥
तात्पर्यग्राहकाभावात्संदिग्धोऽनवधारितः ।
अर्थः सेव्योऽथ वा कामो भवन्तः कथयन्तु मे ।
अवश्यवाच्यनियमरहितो नियमच्युतः ॥
अद्य राजन्वती जाता त्वया नृप वसुंधरा ॥ ३९ ॥
पदार्थान्तरसापेक्षस्त्वर्थः साकाङ्क्ष उच्यते ।
भीमो नामृष्यत तदा क्लिश्यमाना परैः प्रियाम् ।
अत्यन्तकर्कशार्थस्तु परुषो नाम कीर्तितः ॥
दावानलेन्धनं सद्यः क्रियन्तामर्मका इमे ॥ ४० ॥
अश्लीलः स्यात्स वाक्यार्थो व्रीडाकार्यर्थसूचकः ।
प्रविशत्युत्थितो धृष्टो रन्ध्रमिच्छन्पुनः पुनः ।
प्रयोजनेन रहितो योऽर्थः स व्यर्थ इष्यते ॥
घटी कुचतटी कान्ता विटं किमिति नेहते ॥ ४१ ॥
संबन्धवर्जितो योऽर्थः स भिन्न इति कथ्यते ।
श्लाघ्यो रत्नाकरो यस्मात्क्षराणां पयसां निधिः ।
यत्रासदृक्षोपमानं सोऽर्थः स्यादसमोपमः ॥
ललाटतटसस्पृष्टमुक्ताजालकमण्डितः ।
वाजी फालस्फुरन्नेत्रो महादेव इवाबभौ ॥ ४२ ॥
अनिरूप्यो नामतः स्यादयुक्तस्यानुवादतः ।
हरते पथिक प्राणाञ्जगत्प्राणोऽतिपातकी ।
यः सर्वलोकातीनार्थः सोऽतिमात्र इतीरितः ॥
सभापि ब्रह्मणो मग्ना चकोरीनयनाम्बुषु ॥ ४३ ॥
हेतुं विनोच्यते योऽर्थः स निर्हेतुरितीर्यते ।
वेश्येयं बहुदातारमपि तं न समीहते ।
विशेषापर्यवसितः स्यादर्थस्त्वनवीकृतः ॥

किं विद्यया किं धनेन किमु स्त्रीभिः किमायुषा ॥ ४४ ॥
यत्राप्रसिद्धोपमानमप्रसिद्धोपमश्च सः ।
वियुक्तकामिनीवक्त्रं दिवा नीलाब्जवद्बभौ ।
हीनं यत्रोपमानं स्यात्सोऽर्थो हीनोपमो मतः ॥
अलर्केणेव सारंगा भवता निहता द्विषः ॥ ४५ ॥
अतुल्येन सहोक्तार्थो भवेत्सहचरच्युतः ।
ज्योत्स्नेवेन्दुं मृषोद्येव धूर्त सा न जहौ पतिम् ।
विरुद्धो देशकालादिविरुद्धार्थः प्रकीर्तितः ॥
मरुस्थलेऽपि गङ्गा नः पिपासा शमयिष्यति ॥ ४६ ॥
केषांचिदथ दोषाणामप्यदोषत्वमुच्यते ।
समाप्तपुनराप्तत्वं सर्वेषां न हि संमतम् ॥
अप्रयुक्तत्वमधिकपदत्व[म]समर्थता ॥
श्लेषचित्रोपयोगित्वाद्दोषत्वं न भजेत्क्वचित् ॥
निरर्थकत्वं शब्दालंकारे श्लेषे च न क्वचित् ।
संकीर्णार्थान्तरस्थैकपदत्वे चित्रयोर्न हि ॥
श्लेषे क्वचिच्च गूढार्थनेयार्थत्वेन दोषताम् ।
शास्त्रार्थे न यतेर्भङ्गश्चारुत्वे नातिमात्रता ॥
चित्रे क्वचिन्न साकाङ्क्षक्रमभ्रष्टत्वकष्टताः ।
अपदस्थपदत्वं चाप्यपदस्थसमासता ॥
ध्वनौ संदिग्धनियमच्युतत्वेन क्वचित्क्वचित् ।
अपुष्टार्थो न दोषाय प्रयोजनवशात्क्वचित् ॥
विभान्ति पुष्पस्तबकैर्लताः कान्ता इव स्तनैः ।
हेतोरतिप्रसिद्धत्वे निर्हेतोः स्याददुष्टता ।
वदनं वीक्ष्य तन्वङ्ग्याः सरःपद्मान्यलिर्जहौ ।
नीरसादौ क्वचिद्दोषो न दोषो नाप्यसौ गुणः ॥
पर्जन्यस्तर्जयामास गर्जितैरूर्जितैर्जनान् ॥ ४७ ॥

वस्तुतस्तु कवीनां चेद्धृदयानन्दकारणम् ।
न दुष्टं स्यादन्यथा चेद्दुष्टतां भजति ध्रुवम् ॥
इति काव्यदोषप्रकरणम् ।
ये रसस्याङ्गिनो धर्माः शौर्यादय इव स्थिताः ।
उत्कर्षहेतवस्ते स्यू रचनास्थितयो गुणाः ॥
ओजोमाधुर्यगाम्भीर्यप्रसादश्लेषविस्तराः ।
समता सौकुमार्यं च सौशब्द्यं भाविकं गतिः ॥
अर्थव्यक्तिरुदारत्वं सौक्ष्म्यं कान्तिरुदात्तता ।
प्रेयः प्रौढी रीतिरुक्तिः समितत्वं तथैव च ॥
समाध्यौर्जित्यसंक्षेपास्ते चतुर्विंशतिः स्मृताः ।
दीर्घदीर्घसमासत्वमोजःशब्देन गीयते ॥
तुहिननगतनूजानाथनालीकखेल-
द्रजनिकमनकन्यासारलीलाहसच्छ्रीः ।
प्रणयकुपितकान्ताकान्तनेत्रान्तपाते
सति रतिपतिसूनोः पातु वः सस्मिता वै ॥ ४८ ॥
पृथक्पदत्वं माधुर्यं गाम्भीर्यं ध्वनियुक्तता ।
शीघ्रार्थबोधकत्वं तु प्रसाद इति कथ्यते ॥
मिथः संश्लिष्टपदता श्लेष इत्युच्यते बुधैः ।
विस्तरस्त्वतिविस्तारादुक्तार्थस्य समर्थनम् ॥
अवैषम्यं च समता सौकुमार्यमरूक्षता ।
सुप्तिङ्व्युत्पत्तिसंबन्धः सौशब्द्यमिति कथ्यते ॥
येत्र भाववशाद्वाक्यवृत्तिस्तत्र तु भाविकम् ।
स्वरारोहावरोहाभ्यां रम्यत्वं गतिरिष्यते ॥
अर्थव्यक्तिस्तु संपूर्णस्वरूपस्फुटता मता ।
विकटाक्षरबन्धत्वमुदारत्वमितीष्यते ॥
कान्तिरुज्ज्वलता सौक्ष्म्यमन्तः सोज्ज्वलरूपता ।

उदात्तता भवेद्यत्र योगः श्लाघ्यैर्विशेषणैः ॥
प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते ।
अत्यन्तपक्रिमोक्तिस्तु प्रौढिरित्यभिधीयते ॥
यथोपक्रमनिर्वाहः सान्तं रीतिरितीर्यते ।
विदग्धभणनं यत्तु तदुक्तिरिति कथ्यते ॥
यावदर्थपदत्वं तु संमितत्वमुदाहृतम् ।
समाधिरन्यधर्माणां यदन्यत्राधिरोहणम् ॥
पदन्यासस्य गाढत्वमौर्जित्यमिति कीर्त्यते ।
संक्षेपतोऽर्थकथनं संक्षेप इति कथ्यते ॥
गाम्भीर्य विस्तरः सौक्ष्म्यमर्थव्यक्तिस्तथैव च ॥
प्रौढिरुक्तिः समाधिश्च प्रेयः संक्षेप इत्यपि ।
एवं नव गुणा आर्था अन्ये शब्दगुणा मताः ॥

 दोषाभावस्यापि गुणत्वं येऽङ्गीकुर्वन्ति तेषा मत एवैतेषां गुणत्वम् । दोषाभावस्य गुणत्वानङ्गीकर्तॄणा मतमितः परं ब्रूमः । तथा हि ।

ओजः प्रौढिरुदारत्वं माधुर्यं भावुकं गतिः ।
संक्षेपश्चेति सप्तैते गुणाः स्यू रचनास्थिताः ॥
ग्राम्यत्वदोषाभावात्सा कान्तिर्नैव विभिद्यते ।
संमितत्वं त्वपूर्णत्वदोषाभावान्न भिद्यते ॥
उदात्तत्वं चानुचितार्थत्वाभावान्न भिद्यते ।
अर्थव्यक्तिस्तु साकाङ्क्षत्वाभावान्नातिरिच्यते ॥
सौशब्द्यं च्युतसंस्कारत्वाभावान्न पृथग्भवेत् ।
और्जित्यं तु विसंबन्धित्वाभावतो नातिरिच्यते ॥
पतत्प्रकर्षताभावात्समता न विभिद्यते ।
अश्लीलतार्थदोषस्याभावादुक्तिर्न भिद्यते ॥
परुषस्यार्थदोषस्याभावात्प्रेयो न भिद्यते ।
भग्नप्रक्रमताभावाद्रीतिस्तु न पृथग्भवेत् ॥
समाधिरर्थरूपत्वात्काव्यरूपं गुणो न सः ।

प्रसादः पदसौकर्यादक्लिष्टत्वान्न भिद्यते ।
श्लेषः कविसंधित्वाभावतो नातिरिच्यते ॥
चित्रार्थत्वात्सौक्ष्म्यगुणस्त्वर्थचित्रान्न भिद्यते ।
विस्तराख्यः काव्यलिङ्गालंकारान्नातिरिच्यते ॥
सौकुमार्य श्रुतिकटुत्वाभावान्नातिरिच्यते ।
गाम्भीर्यं त्वर्थशत्तयुत्थध्वनितो नातिरिच्यते ॥
शृङ्गारे करुणे चापि माधुर्य स्याद्विशेषतः ।
उदारत्वौजसी प्रोक्ते वीरे बीभत्सरौद्रयोः ॥
ओजोगुणस्तु कथितः शृङ्गारेऽप्यद्भुते क्वचित् ।
अन्ये चतुर्गुणाः सर्वरसेष्वपि यथोचितम् ॥
वस्तुतस्तु मतेऽप्येषां गुणानां घटना स्थितेः ।
समाधिसौक्ष्म्यगाम्भीर्यविस्तराः स्युर्गुणा ध्रुवम् ॥

इति गुणप्रकरणम् ।

अकारादिक्षकारान्ता वर्णाः स्युः पदतां गताः ।
पदानि द्विविधानि स्युस्तिङ्सुबन्तविभेदतः ॥
संचयं तिङ्सुबन्तानां वाक्यमाहुर्विपश्चितः ।
शब्दस्तु त्रिविधः शक्तलक्षकव्यञ्जकात्मना ॥
साक्षात्संकेतितं योऽर्थमभिधत्ते स वाचकः ।
भवेल्लाक्षणिकः शब्दो लक्षणायाः समाश्रयः ॥
व्यञ्जकः स भवेच्छब्दो व्यञ्जनायाः समाश्रयः ।
तदर्थोऽपि त्रिधा शक्यलक्ष्यव्यङ्ग्यविभेदतः ॥
तुर्यस्तात्पर्यविषयो वाक्यार्थ इति तार्किकाः ।
अन्ये शक्यं तमप्याहुरपरे लक्ष्यमूचिरे ॥
वाच्यादयस्त्रयोऽप्यर्था मन्मते व्यञ्जका मताः ।
शब्दवृत्तिरिति प्रोक्ता शब्दव्यापाररूपिणी ॥
अभिधा लक्षणा चैव व्यञ्जना चेति सा त्रिधा ॥

अथाभिधा--
व्यापारः शक्यधीहेतुर्मुख्यः शब्दगतोऽभिधा ।
रूढिर्योगो योगरूढिरिति सा त्रिविधा मता ॥
रूढिस्त्वखण्डशक्त्यैव स्यादेकार्थाभिधायिता ।
पदं रूढं बुधाः प्रोचुस्तादृग्रूढिसमाश्रितम् ॥
पीनौ वध्वाः कुचावेतौ मुक्ताहारेण राजतः ।
योगोऽवयवशक्त्यैव स्यादेकार्थाभिधायिता ।
यौगिकं कथ्यते प्राज्ञैर्योगेन सहितं पदम् ॥
रागिन् कान्तापदाघातः कासिनस्तेऽद्य सांप्रतम् ॥ ४९ ॥
योगरूढिस्तु शक्तिभ्यामेकार्थप्रतिपादकः ।
ब्रुवते योगरूढं तद्योगरूढियुतं पदम् ॥
मृगाक्षी पद्मनाभस्य मन्दिरे वसतान्मम ।
वैशेषिकास्तु ब्रुवते पदं यौगिकरूढिकम् ।
रूढ्या चैकार्थकं योगेनान्यार्थं चोद्भिदादि तत् ॥
अथ लक्षणा--
तात्पर्यविषयीभूतार्थान्वयानुपपत्तितः ।
शक्यभिन्नार्थधीहेतुर्व्यापारो लक्षणेष्यते ॥
द्विविधा सा रूढिपूर्वा फलपूर्वेति भेदतः ।
तत्राद्या व्यङ्ग्यरहिता सव्यङ्ग्या फललक्षणा ॥
स्याद्रूढिलक्षणा द्वेधा गौणी शुद्धेति भेदतः ।
शक्यसादृश्यसंबन्धरूपा गौणीत्युदीरिता ॥
लावण्यनिधिरेवैषां प्रवीणा युवरञ्जने ॥ ५० ॥
सा शुद्धा सादृश्यभिन्नशक्यसंबन्धरूपिणी ।
पुष्पं धनुर्ज्या द्विरेफाः स्मरस्तदपि दिग्जयी ।
जहती चाप्यजहती जहत्पूर्वा जहत्यपि ॥
सारोपा साध्यवसितिरित्यन्या पञ्चधा मता ।
सा जहल्लक्षणा यत्र स्वार्थं हित्वान्यवृत्तितः ॥

साक्षी मुकुन्दकेलीनां यमुनायामयं व्रजः ॥ ५१ ॥
स्वसिद्धये पराक्षेपे त्वजहल्लक्षणा मता ।
वीक्ष्यानुद्रवतः कुन्तान्द्रवन्ति च्छत्त्रिणो रणात् ॥
स्वार्थैकदेशवृत्तौ तु जहत्यजहती मता ।
पुष्पितं वनमालोक्य सोऽयं पान्थः स्मराहतः ॥ ५२ ॥
सारोपोपात्तविषयिविषयाभेदबोधिनी ।
सारोपा द्विविधा सा तु गौणी शुद्धेति भेदतः ॥
सादृश्यात्मकसंबन्धरूपा गौणीति कीर्तिता ।
अन्या तदन्यसंबन्धरूपा शुद्धेति कीर्त्यते ॥
मुखेन्दुर्नयनानन्दस्तन्व्या विजयतेतराम् ।
निगीर्य विषयं यत्र विषय्येव निबध्यते ।
तत्र साध्यवसाना स्यात्कविप्रौढोक्तिसंमता ॥
सरोजकाहलीरम्भासैकताकाशभूधरैः ॥ ५३ ॥
शङ्खेन्दुतिमिरैः सृष्टा वल्ली कामिजनोत्सवः ।
संगिरन्ते द्विरेफादौ केचिल्लक्षितलक्षणाम् ॥ ५४ ॥
अत्र व्यङ्ग्यं क्वचिद्रूढमगूढं च क्वचिद्भवेत् ।
फले लाक्षणिकस्यास्य व्यापारो व्यञ्जनेष्यते ॥

अथ व्यञ्जना--

यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ।
फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया ॥
नाभिधा समयाभावाद्धेत्वभावान्न लक्षणा ।
प्रयोजना(न)विशिष्टस्य लक्षणा तु न युज्यते ॥
लक्ष्याभिधेयाद(भ्याम)न्यद्यतो वाच्यं प्रयोजनम् ।
तस्माल्लक्ष्ये प्रतीते तु पावनत्वादिबोधने ॥
अभिधालक्षणाभिन्ना व्यञ्जनैवात्र कारणम् ।
वाच्यलक्ष्यविभिन्नार्थधीकृद्व्यापृतिरञ्जनम् ॥
सामोदसुमनोजातजुष्टो जयति माधवः ।

अत्रार्थप्रत्ययद्वारेणोपमायाश्च या मतिः ।
अभिधालक्षणाभिन्ना व्यञ्जनैवात्र कारणम् ॥
अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैर्विवक्ष्यार्थधीकृद्व्यापृतिरञ्जनम् ॥
संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थानेकतायां चेद्विशेषस्मृतिहेतवः ॥
संयोगस्तु स्ववाच्यैकनिष्ठार्थान्तरसंनिधिः ।
पुङ्खयत्यधिकां लक्ष्मीं शङ्खचक्रधरो हरिः ॥ ५५ ॥
विप्रयोगस्तु संयोगाभाव एव निगद्यते ॥
अशङ्खचक्रः स हरिरपिनाको भवो भवान् ।
साहचर्यं स्ववाच्यैकवस्तुनः सहचारिता ।
वन्दारुजनमन्दारौ रामकृष्णौ नमाम्यहम् ॥ ५६ ॥
सहानवस्थितिर्वध्यहन्तृत्वं च विरोधिता ॥
दिनं निशां च संयुध्य रामोऽजैषीद्दशाननम् ।
अर्थः प्रयोजनं स्थाणुं संसारच्छित्तये भजे ॥
विदुः प्रकरणं वक्तृश्रोतृबुद्धिस्थितं बुधाः ।
जानाति सकलं देवः प्रश्नोऽयं वितथोऽधुना ॥
लिङ्गं स्ववाच्यान्तरेभ्यो व्यावृत्तो धर्म इष्यते ।
जय्यो जगति केनैष कुपितो मकरध्वजः ॥
सामानाधिकरण्यं यन्नियतार्थपदे हि तत् ।
शब्दान्तरस्य सांनिध्यं देवोऽव्यात्त्रिपुराहितः ॥
सामर्थ्यं स्यात्कारणत्वं मत्तोऽयं मधुना पिकः ।
औचित्यन्वययोग्यत्वं गच्छत्यारुह्य सैन्धवम् ॥
देशः पुरादी राजात्र नगरे राजते मुहुः ।
कालो निशादिस्तामस्यां चित्रभानुर्विराजते ॥

पुंलिङ्गादिर्भवेद्व्यक्तिर्मित्त्रो भात्युदयं गतः ।
उदात्तादिः स्वरादिः स्यादिन्द्रशत्रो इति श्रुतौ ॥
यतोऽर्थधियमुत्पाद्य शाब्दोऽर्थान्तरबुद्धिकृत् ।
ततोऽर्थो व्यञ्जकः शब्दसहकारितया मतः ॥
वाच्यलक्ष्यव्यङ्गभेदादर्था ये त्रिविधा मताः ।
तेषामपि व्यञ्जकत्वमधुना प्रतिपाद्यते ॥
वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसंनिधेः ।
प्रस्तावदेशकालादेर्वैशिष्ट्यात्प्रतिभाजुषाम् ॥
योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यञ्जनैव सा ।
अस्तंगतोऽद्य सविता पथिक क्व प्रयास्यसि ॥
इत्यादौ वक्तृवैशिष्ट्यज्ञानाद्रत्यभिलाषधीः ।
प्रातश्चेन्नाथ को दोषः श्रान्तोऽसि स्वपिहि क्षणम् ॥
अत्र बोद्धव्यवैशिष्ट्याद्वक्तृकोपः प्रतीयते ।
सखि श्रुत्वापि मामेवं नानुतापमुपैति सः ॥
इत्यादौ काकुवैशिष्ट्यज्ञानाद्व्यङ्ग्यार्थनिश्चयः ।
स्वप्नेऽपि नास्मरः प्राड् मां भाग्येनाद्यागतोऽसि मे ॥
इत्यादौ वाक्यवैशिष्ट्यज्ञानाद्व्यङ्ग्यार्थनिश्चयः ।
शून्या प्रपेयमेकाकिन्यस्मि पान्थास्यतां क्षणम् ॥
इत्यादौ वाच्यवैशिष्ट्यज्ञानाद्व्यङ्ग्यार्थनिश्चयः ।
एकाकिन्येव यास्यामि जलार्थं कथमापगाम् ॥
इत्यादिषु व्यङ्ग्यबुद्धिर्वैशिष्ट्यादन्यसंनिधेः ।
वयस्ये प्रतिवेशिन्याः पतिरद्य समागतः ॥
अत्र प्रस्ताववैशिष्ट्यज्ञानाद्व्यङ्ग्यार्थनिश्चयः ।
सख्यो दूरं गता गन्तुमक्षमाहमिह स्थिता ॥
इत्यादौ देशवैशिष्ट्यज्ञानाद्व्यङ्ग्यार्थधीर्मता ।
गृहकृत्यव्यापृताया विश्रामोऽद्यैव मे सखि ॥
इत्यादौ कालवैशिष्ट्यज्ञानाद्व्यङ्ग्यार्थनिश्चयः ।

फलानि दिश भव्यानि निवेश्य मणिबन्धने ।
बिम्बस्य चुम्बनेनैव सखि लालय मा शुकम् ।
इत्यादिषु च लक्ष्यस्य व्यञ्जकत्वं प्रकीर्तितम् ॥
गच्छ गच्छसि चेत्कान्त वरस्तत्रैव मे भव ।
इत्यादौ व्यञ्जकत्वं च व्यङ्ग्यार्थस्य भवेद्ध्रुवम् ॥
शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः ।
अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ॥
इति शब्दार्थप्रकरणम् ।
सा शय्या कीर्तिता मैत्री या पदानां परस्परम् ।
दाता जेता रणे त्राता भीतानां भाति भूपतिः ॥
इति शय्या ।
अर्थगम्भीरिमा पाकः स द्वेधा कविसंमतः ।
द्राक्षापाको नारिकेलपाकश्च प्रस्फुटान्तरौ ॥
द्राक्षापाकः स कथितो बहिरन्तःस्फुरद्रसः ।
अपाङ्गान्प्रेमवाराशितरङ्गान्किरति प्रिया ॥
स नारिकेलपाकः स्यादन्तर्गूढरसोदयः ।
प्राचीनम्--
गाम्भीर्यातिशयेन यस्य जगतां नेत्राणि मानं गता
पत्रं यस्य नवीनतां भजति यत्पद्मेयमासीज्जगत् ।
राजत्केसरितं समुद्रममलं यद्वत्समव्यब्जगुः
शेते यो हि विभावरीशरुचिरः कुर्याच्छमभ्रं शिवः ॥
मधुक्षीरादिपाकान्यप्येवमूह्यानि सूरिभिः ॥
इति पाकप्रकरणम् ।
पात्रे नृणामनीचानां संस्कृतं परिकीर्तितम् ।
लिङ्गिनीमत्त्रिजावेश्यादेवीनां च क्वचित्क्वचित् ॥
स्त्रीणां प्रायः शूरसेनी प्राकृतं मागधी तथा ।
तथैव नीचपात्राणां तत्तद्देशीयभाषणम् ॥

यथोचितं राक्षसानां पैशाची परिकीर्तिता ।
अवरैर्लिङ्गिदेवर्षिविप्रामात्याग्रजाः सुधीः ॥
भगवच्छब्दवाच्याः स्युः सूत्रिणार्येति सा नटी ।
तेनानुगो मारिषश्च पारिपार्श्वक इत्यपि ॥
नट्या सूत्री त्वार्यपुत्रस्तथार्यश्चेति कीर्त्यते ।
अनुगेन स भावः स्यात्पूज्यैः शिष्यात्मजानुजाः ॥
वत्साः सूतेन चायुष्मान्रथी शिष्यात्मजानुजैः ।
पूज्यस्तु सुगृहीतश्च तातश्चेत्यपि कीर्त्यते ॥
नृपेण गणिका नाम्नानुचरैरज्जुकेति सा ।
सर्वैस्तु युवराजोऽपि कुमारो भर्तृदारकः ॥
भृत्यैर्भट्टारको देवो नृपो विप्रैस्तु नामतः ।
विदूषकेण राजेति वयस्य इति वा नृपः ॥
ऋषिभिः स च राजा स्यादधमैर्भट्ट इत्यपि ।
नृपेण महिषी देवी तदन्या चैव योगिनी ॥
अपरैर्भट्टिनी सैव नीचैर्गोस्वामिनीति सा ।
अब्रह्मण्यमवध्योक्तौ माता त्वम्बेति कीर्त्यते ॥
भगिनीपतिरावुत्तो राजशालस्तु राष्ट्रियः ।
ज्येष्ठा तु भगिनी चात्ताप्यन्तिका चात्तिकेति वा ।
नीचासंबोधने हण्डे चेटीं हञ्जे सखीं हला ॥
इति रूपकभाषानिबन्धनप्रकरणम् ।
व्यभिचारिरसस्थायिभावानां शब्दवाच्यता ।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥
प्रतिकूलविभावस्य ग्रहो दीप्तिः पुनः पुनः ।
अकाण्डप्रथनं चैव रसच्छेदोऽङ्गविस्तृतिः ॥
तथाङ्ग्यननुसंधानं प्रकृतीनां विपर्ययः ।
तथानङ्गाभिधानं च रसदोषास्त्रयोदश ॥
दृष्टे प्रियेऽस्या लज्जाभूद्रसतां च ययौ रतिः ।

व्यभिचारी रसः स्थायी त्रयो वाच्याः क्रमादिह ॥
लीलावनेऽस्य तन्वङ्गी याता नयनगोचरम् ।
इत्यादावनुभावस्य व्यक्तिः स्यात्कृष्टकल्पिता ॥
उत्कम्पतेतरामेषा मील्यत्यपि लोचने ।
भयानकसमत्वात्स्याद्विभावस्येह कष्टता ॥
व्याघ्रो व्यात्तमुखो वर्त्मन्यास्ते मुग्धे क्व यास्यसि ।
इत्यादौ प्रतिकूलस्य विभावस्य भवेद्ग्रहः ॥
ज्ञेयः पुनः पुनर्दीप्ती रतिप्रलपितादिषु ।
शृङ्गारवर्णने भानुमत्या दुर्योधनस्य च ॥
अकाण्डप्रथनं ज्ञेयं वेणीसंहारनाटके ।
भार्गवेण समं काष्ठां परां वीररसे गते ॥
कङ्कणोन्मोचनायाहं गच्छामीत्युदिते गुरोः ।
रसच्छेदो महावीरचरितेऽकाण्ड इष्यते ॥
अप्रधानस्य बहुधा हयग्रीवस्य वर्णने ।
हयग्रीववधे काव्ये विज्ञेयाङ्गस्य विस्तृतिः ॥
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ।
तत्राङ्ग्यननुसंधानं विद्वद्भिः परिकीर्त्यते ॥
यथा जीमूतवाहस्य शान्तस्याद्भुतमन्तरे ।
निवेश्य शृङ्गाररसो नागानन्दे प्रकाशितः ॥
अदिव्यादिषु दिव्यादिगुणानां परिकीर्तने ।
विद्वद्भिस्तत्र विज्ञातः प्रकृतीनां विपर्ययः ॥
प्रशंसनं कृतं राज्ञा बन्दिना वर्णितस्य यत् ।
तदनङ्गाभिधानं स्यात्सट्टके प्रथमाङ्कके ॥
न दोषः स्वपदेनोक्तावपि संचारिणां क्वचित् ।
श्रुतप्रियागतिर्बाला तथाजनि समुत्सुका ॥
आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः ।
धनुर्धरं त्वामालोक्य पलायन्ते रणात्परे ॥

स्मर्यमाणो विरुद्धोऽपि रसो नैव विदुष्यति ।
सीतां स्मृत्वा सखीमग्रे वीक्ष्य रक्षोवरूथिनीम् ।
शरीररुधिरासिक्तं रामो जग्राह कार्मुकम् ॥
विवक्षितो यः साम्येन विरुद्धः सोऽप्यदोषभाक् ॥
नखैः प्रियाणामसिभिर्वीराणां च विदारणम् ।
शोभाभङ्गेषु पुष्णाति सखि सातिशयां मुहुः ॥
रसावन्याङ्गतां प्राप्तौ विरुद्धौ च न दुष्यतः ।
आलिप्तवपुषो वीरा लोहितैर्हरिचन्दनैः ।
अलंकृता इवाभान्ति विवोढुं विजयश्रियम् ॥
भावोदयः स्यादुत्पत्तौ व्यङ्ग्येन व्यभिचारिणः ॥
किमिदं कुचयोरालीत्युक्त्वा मुग्धा नतानना ॥
भावसंधिस्तु भावानां तुल्यानां व्यङ्ग्यता यदि ।
सीताकपोलमुकुरे पश्यन्नुत्पुलकं मुखम् ।
रक्षःकलकलं शृण्वञ्जटां बध्नाति राघवः ॥
पूर्वपूर्वोपमर्दे तु तेषां शबलता मता ॥
फलं किं बन्धुसंक्षोभात्कातर्यं किं वदेज्जनः ।
का हानिः किंवदन्त्या मे द्रष्टव्या द्रौपदी कथम् ॥
मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन ।
यथा च राजानुगता भृत्याः परिणयोन्मुखाः ॥
अनेकेषां रसानां चेद्देशकालादिभेदतः ।
मेलनेऽङ्गतया तत्र रससंकर इष्यते ॥
(प्राचीनम्--)
भग्नं कामरिपोर्धनुः परिहृतं राज्यं स्थितं काननं
निर्भिन्नस्त्रिशिराः खरस्य पिशितं स्पृष्टं कपिर्लालितः ।
लङ्केशो दयितश्चिराय रुदितं लङ्कावधूनां श्रुतं
नीता सद्म विदेहभूस्तदखिलं रामस्य लोकोत्तरम् ॥

कथानुग्रहयोगाच्च विवक्षावशतः कवेः ।
अन्योन्यजन्यजनका रसा भावा भवन्त्यमी ॥
(प्राचीनम्--)
युधि कुपितकृतान्तस्फूर्तिमानाविलाक्षो
दशदिशि दशकण्ठस्त्यक्तवान्वारिदास्त्रम् ।
तडिति जनकपुत्र्याः साम्यमालोकमान-
स्त्यजति न पवनास्त्रं राघवः खिन्नपाणिः ॥
अलंकारे च रुचिरे चित्तविश्रामकारिणि ।
अलंकारस्य मुख्यत्वं गौणत्वं रसभावयोः ॥
अत्यन्तसुकुमारौ तु शृङ्गारकरुणौ मतौ ।
हास्याद्भुतावुभौ किंचित्सुकुमारौ प्रकीर्तितौ ॥
अत्युद्धतरसौ रौद्रबीभत्सौ परिकीर्तितौ ।
ईषत्प्रौढौ समाख्यातौ रसौ वीरभयानकौ ॥
इति रसदोषादोषप्रकरणम् ।
काव्यं हि यशसेऽर्थाय शिवेतरनिवृत्तये ।
कान्तावदुपदेशाय परनिर्वृतये क्षणात् ॥
सालंकारगुणौ काव्यं शब्दार्थौ दोषवर्जितौ ।
तथा कवीनां सभयानुरोधेन निबन्धितम् ॥
ईदृशं द्विविधं काव्यं श्रव्यदृश्यविभेदतः ।
श्राव्यं तु त्रिविधं ज्ञेयं गद्यपद्योभयात्मना ॥
अपादः पदसंघातो गद्य पद्यं चतुष्पदम् ।
गद्यपद्यात्मकं काव्यं चम्पूरित्यभिधीयते ॥
दृश्यं तु दशधा प्रोक्तं नाटकादिविभेदतः ।
सर्वध्वनिर्गुणीभूतव्यङ्ग्यं चित्रमिति त्रिधा ॥
वाच्यातिशायि व्यङ्ग्यं यत्काव्यं ध्वनिरितीर्यते ।
काव्यं तु कथितं व्यङ्ग्ये वाच्यादनतिशायिनि ॥

गुणीभूतव्यङ्ग्यमिति स्याद्व्यङ्ग्यस्याप्रधानतः ।
अव्यङ्ग्यमपि यच्चारु तत्काव्यं चित्रमिष्यते ॥
शब्दचित्रं चार्थचित्रमुभयं चेति तत्त्रिधा ।
सोदाहृतय एतेषां भेदाः पूर्वं प्रकाशिताः ॥
शरीरं तस्य शब्दार्थौ जीवितं व्यङ्ग्यवैभवम् ।
हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥
शौर्यादय इव प्रोक्ताः श्लेषकान्त्यादयो गुणाः ।
आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥
शोभामाहार्यकीं प्राप्ता वृत्तयो वृत्तयो यथा ।
पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता ॥
रसास्वादप्रभेदाः स्युः पाकाः पाका इव स्थिताः ।
प्रख्याता लोकवदियं सामग्री काव्यसंपदः ॥
लक्ष्यलक्षणसंयुक्ता इमे पूर्वं प्रकीर्तिताः ।
महाकाव्यं चोपकाव्यमिति तद्द्विविधं पुनः ॥
नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः ।
मन्त्रद्यूतप्रयाणादिनायकाभ्युदयैरपि ॥
एतैरुपनिबद्धं यत्तन्महाकाव्यमिष्यते ।
एषामष्टादशानां यैः कैश्चिन्न्यूनमपीष्यते ॥
सर्गबन्धो महाकाव्यमिति केचित्प्रचक्षते ।
असर्गबन्धमपि च महाकाव्यमितीष्यते ॥
गीततालानुबद्धं यदुपकाव्यमितीर्यते ।
उपकाव्यं तु बहुधा वक्ष्ये तानि च कानिचित् ॥
(आख्यायिका--)
कविचारित्रसहितं नरपालकथान्वितम् ।
विचित्रवर्णरचनासमासैस्तु मनोहरम् ॥

उच्छ्वासान्ते वक्त्रयुतं रचितापरवक्त्रकम् ।
उच्छ्वासादौ सपर्याङ्गमिदमाख्यायिकाभिधम् ॥
(कथा--)
श्लोकैः स्ववंशं संक्षेपात्कविर्यत्र प्रशंसति ।
मुख्यार्थस्यावताराय भवेत्तत्र कथान्तरम् ॥
परिच्छेदो न यत्र स्याद्भवेत्त्वालम्भकः क्वचित् ।
सा कथा नाम तद्गर्भे निबध्नीयाच्चतुष्पदीम् ॥
(उदाहरणम्--)
येन केनापि तालेन गद्यपद्यसमन्वितम् ।
जयेत्युपक्रमं मालिन्यादिप्रासविचित्रितम् ।
तदुदाहरणं नाम्ना विभक्त्यष्टाङ्गसंयुतम् ॥
(चक्रवालकम्--)
संबोधनविभक्त्या यत्प्रचुरं पद्यपूर्वकम् ।
विमुक्तपुनराकृष्टशब्दं स्याच्चक्रवालकम् ॥
(भोगावली--)
आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका ।
अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता ॥
प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता ।
सर्वतो देवशब्दादिरेष भोगावली मता ॥
(बिरुदावली--)
वर्ण्यमानाङ्कबिरुदवर्णनप्रचुरोज्ज्वला ।
वाक्याडम्बरसंयुक्ता कथिता बिरुदावली ॥
(तारावली--)
ताराणां संख्यया पद्यैर्युक्ता तारावली मता ।
(विश्वावली--)
विश्वेषां संख्यया पद्यैर्युक्तो विश्वोदयो मतः ।

(रत्नावली--)
रत्नानां संख्यया पद्यैर्युक्ता रत्नावली मता ।
(पञ्चाननावली--)
पद्यैश्च पञ्चभिर्युक्ता प्रोक्ता पञ्चाननावली ।
आख्यायिकायां शृङ्गारेऽप्युद्धृता रचना मता ॥
कथायां नाटकादौ च न रौद्रेऽप्यधिकोद्धताः ।
अन्येषु च प्रभेदेषु रचना स्याद्यथोचितम् ॥
इति काव्यप्रकरणम् ।
अथात्र वर्ण्यावर्ण्यानि प्रबन्धेषु ब्रुवे स्फुटम् ।
वर्ण्यो मुख्यतया नेता लोकोत्तरगुणोत्तरः ॥
तेन कर्तुः प्रबन्धस्य प्रतिष्ठा महती भवेत् ।
कुलाचारयशः शौर्यत्यागशीलादिवर्णनम् ॥
क्रियते नायकस्यैव यत्तदेवातिसंमतम् ।
अथ वा तद्विरुद्धस्य वर्णयित्वा बहून्गुणान् ॥
तज्जयान्नायकोत्कर्षवर्णनं च मतं क्वचित् ।
घटते नेतरि द्वेधा स्वतःसिद्धेन कल्पिते ॥
नृपे कीर्तिप्रजारागप्रतापाज्ञानयक्षमाः ।
विवेकारिपुरीदाहधर्मसंग्रामपूर्वकाः ॥
कुमारे खुरलीशस्त्रबलशास्त्रकलादयः ।
महिष्यां रूपलावण्यत्रपाशृङ्गारमन्मथाः ॥
चातुर्यप्रेमदाक्षिण्यशीलमानमुखादयः ।
मन्त्री भक्तः स्वदेशीयोऽनुद्धतो बुद्धिमान्क्षमी ॥
सेनाधिपः स्वामिभक्तो धैर्यवान्विजयी रणे ।
पुर्यां प्रसादपरिखातोरणाध्वप्रपाध्वजाः ॥
वप्राट्टारामकुलटावेश्यावापीसतीमुखाः ।
देशे द्रव्यजनाधिक्यनदीमातृकतादयः ॥

ग्रामे धान्यसरःक्षेत्रारघट्टाः पादपादयः ।
अब्धौ यादोगजद्वीपरत्नोर्म्यद्रीन्दुवृद्धयः ॥
विप्लुट्पोतौर्वगाम्भीर्यध्वनिनद्यागमादयः ।
उद्याने फलपुष्पलताक्रीडासरोऽद्रयः ॥
पिकालिकेकिहरिणहंसचक्रध्वजादयः ।
कासारे लहरीकञ्जचक्रहंसमधुव्रताः ॥
तीरारामवधूकेलीभ्रमिपान्थझषादयः ।
पर्वतेऽभ्रौषधीशृङ्गवनकिनरनिर्झराः ॥
धातुवंशगुहारत्नाधित्यकोऽपत्यकादयः ।
वने सर्पवराहेमोलूकभिल्लदवादयः ॥
मन्त्रे स्थैर्योपायसिद्धिषाङ्गुण्योदयचिन्तनम् ।
पच्चाङ्गशक्तिस्वौन्नत्यनिर्जनस्थानपूर्वकाः ॥
दूते दाक्षिण्यभीरुत्वं शत्रुक्षोभकरी क्रिया ।
स्वस्वामिविक्रमौन्नत्यवाक्यधार्ष्ट्यादयो मताः ।
रणे खड्गरजस्तूर्यशरवृष्टिपलाद्रयः ॥
छिन्नच्छत्रध्वजा रक्तनदीकोलाहलादयः ।
अश्वे वेगित्वसज्जातिखुरोत्खातरजोमुखाः ॥
मृगयाया नीलवेषो वागुरामृगसाध्वसम् ।
भषकत्वर्यसचारो भट्टहिक्कात्वरादयः ॥
विरहे जागरश्वासनिशादौर्घ्यकृशाङ्गताः ।
सतापचिन्तामालिन्यमौनरक्ताक्षतादयः ॥
सुरते स्वेदकणिका सीत्कारो भूषणच्युतिः ।
मञ्जीरकङ्कणारावनखदन्तक्षतादयः ॥
यात्रायां दुन्दुभिध्वानकरभध्वजवेसराः ।
शकटोक्षच्छत्रधूलिपृथ्वीकम्पबलादयः ॥
गजे तु कर्णचापल्यमुच्चत्व व्यूहभेदिता ।
सिन्दूरचित्रयोधित्वकुम्भमुक्ताफलादयः ॥

सुरापाने गतिवचःस्खलनं नयनभ्रमः ।
लज्जामानच्युतिश्चित्तभ्रमरक्ताक्षतादयः ॥
सूर्योदयेऽम्भोजचक्रनेत्रपान्थविकासनम् ।
रागो भेन्दुतमोघूककुवचोरविषादनम् ॥
चन्द्रोदये तु विरहिचक्राब्जकुलटार्तयः ।
अब्धिदम्पतिचन्द्राश्मचकोरप्रीतिपूर्वकाः ॥
वसन्ते पिकगानाम्रमञ्जरीमन्दमारुताः ।
पुष्पाणि द्रुदलोद्भेदपलाशभ्रमरादयः ॥
ग्रीष्मे पाटलमल्लीतापसरःपथिकशेषाम्रफलपाकाः ।
मृगतृष्णाल्पसमीरः कान्ता पानीयशालिका मुख्याः ॥
वर्षासु मेघहलिकेतकनिम्नगानां
झञ्झानिलस्य शिखिजातिकदम्बकानाम् ।
प्रीतिश्च हंसगमनं नलिनीलतानां
पत्त्रोद्भवोऽर्कलतिकादलपातनाद्याः ॥
शरदि सूर्यसुधाकरपाटवं विमलताम्भसि हंसवृषस्मयाः ।
कमलशारदसैकतविस्तृतिः सुशिखिपक्षमदापगमादयः ॥
हेमन्ते रजनीदैर्घ्यं नलिनीकुसुमक्षतिः ।
दिनाल्पत्वं हिमप्रौढिबकानन्दयवोद्भवाः ॥
शिशिरे वेणुकुन्दाब्जदाहः शिखिरतोत्सवाः ।
स्वयंवरे सतीपूजावाद्यघोषनृपागमाः ॥
राजपुत्र्या नृपाकारान्वयचेष्टाप्रकाशनम् ।
विवाहे मङ्गलस्नानं भूषणं कामिनीरवः ।
वेदी संगीततारेक्षालाजाहोमद्विजादयः ॥
वनकेलौ च कुसुमावचयः कुसुमार्पणम् ।
दयिते गोत्रविभ्रान्तिसपक्षेर्ष्योक्तिपूर्वकाः ॥
जलकेलौ जलक्षोभश्चक्रहंसापसर्पणम् ।
पद्मग्लानिपयोबिन्दुदृग्रागाभूषणच्युतिः ॥

श्वेतास्त्वैरावतः शंभुः कीर्तिश्चन्द्रः शरद्धनः ।
प्रासादसौधनगरमन्दारद्रुहिमाद्रयः ॥
सूर्येन्दुकान्तकर्पूरसुधांशुकरका हिमम् ।
पिण्डीरोच्चैःश्रवो ज्योत्स्नाश्रुरम्भाभस्मचन्दनम् ॥
निर्मोकहारोर्णनाभतत्त्वसत्त्वास्थिशर्कराः ।
शेषाभ्रकसुधागङ्गागजदन्ताम्बुचामरम् ॥
रम्भागर्भः पुण्डरीकमृणालसिकताबकाः ।
हंससिहध्वजच्छत्रकेतकीगर्भनिर्झराः ॥
लोध्रमुक्तापुष्पतारचूर्णशुक्तिकदर्पिकाः ।
कैलासकाशकार्पासहासहास्योशनःकृतम् ॥
नारदः पारदः पुण्यवसनस्फटिकादयः ।
श्यामास्त्वद्रिद्रुकालीयवनभैरवराक्षसाः ॥
शिवकण्ठः शनिः शीरी कलिचन्द्रकराहवः ।
बादरायणवस्त्राभ्रद्रौपदीकज्जलार्जुनाः ॥
कालीकोलयमाः केशकस्तूरीयमुनागजाः ।
विषाकाशकुहूपापरसविष्णुतमोनिशाः ॥
मषीपङ्कमदाम्भोधितालतापिच्छकोकिलाः ।
गोलाङ्गूलास्यगुञ्जास्यधूमशृङ्गारवल्लयः ॥
केकितेजनबर्हालिखलचित्तकनीनिकाः ।
तिलेन्दीवरदुष्कीर्तिमुस्तानीलीभयानकाः ॥
भिल्लश्छाया मृगीनेत्रं शस्त्रं कान्तादृगादयः ।
नीलाः स्युः शादशैवालदूर्वावंशाङ्कुराः शुकः ।
बीभत्ससूर्यतुरगाः पर्ण मरकतादयः ॥
रक्ताः स्युः सूर्यगोकर्णगुन्द्रखद्योतयावकाः ।
ताम्रकुङ्कुमसिन्दूरदृग्बिम्बाधरधातवः ॥
विद्युत्पद्मकजिह्वासृक्त्रपापललकिंशुकाः ।
अम्भोजकुक्कुटशिखाहिङ्गुलाशोकपाटलाः ॥

कुसुम्भो हंसचञ्च्वङ्घ्री निम्बकिंपाकपल्लवौ ।
त्रेता नखक्षतं रौद्रः शुकमर्कटयोर्मुखम् ॥
प्रपातश्च चकोराहिभुक्कपोतदृगादयः ।
पीताः स्युर्द्वापरब्रह्मजीवशक्रमनःशिलाः ॥
गौरीगोमूत्रगरुडमण्डूकेश्वरदृग्जटाः ।
मधु वीराद्भुतौ कोको मर्कटः शारिकामुखम् ॥
कर्णिकारः शालिदीपरोचनाजांशुकादयः (?) ।
धूसराः करुणो धूलिलूताकाकस्वरादयः ॥
सपूर्णवृत्तास्तिलकचक्रपद्मेन्दुदर्पणाः ।
मृदङ्गपुटशाणास्यारघट्टघुटिकादयः ॥
अल्पवृत्तास्तारलूता गृहपूपककच्छपाः ।
आलवासमहीकंसनखचर्मादयो मताः ॥
त्रिकोणा वज्रशृङ्गाटशकटा वह्निमण्डलम् ।
वक्त्राः किंशुकभालभ्रूविद्युत्कुद्दालचन्द्रकाः ॥
नखाङ्कांशुकबालेन्दुशुकास्येन्द्रधनुःफणाः ।
कटाक्षदात्रेभदन्तपुरोहितकरादयः ॥
तीक्ष्णानि दुर्वचोवह्निकटाक्षनखरादयः ।
गुरवः सन्मनःश्रोणिकपाटस्तनबुद्धयः ॥
सुखदाः सुस्पृहा लब्धिर्वियुक्तप्रियसंगमः ।
दातृस्वातन्त्र्यपुत्राप्तिविद्यामित्रेन्दुबुद्धयः ॥
दुःखदाः पारतन्त्र्याधिव्याधिमानच्युतिद्विषः ।
कुभार्याश्लेषकुग्रामवासकुस्वामिसेवनम् ॥
कन्याबहुत्वं वार्धि(र्ध)क्यं निवासः परवेश्मनि ।
स्थिराः स्युवर्रिधीराजौ धर्माधर्मौ सतां मनः ॥
अस्थिराः कामिनीराजप्रसादस्वप्नदुर्जनम् ।
मन्दगाश्च शनिज्ञानिकान्तामातङ्गमाहिषाः ॥

क्रूरस्वराः काकवृकवराहोष्ट्राश्च गर्दभाः ।
बलिष्ठा विष्णुगरुडसत्प्रतिज्ञा यमादयः ॥
सुरूपाः कृष्णनकुलनलकूबरमन्मथाः ।
दुःसहाः कामतापादिप्रतापा दुर्वचस्तपः ॥
मधुराः स्युर्विदग्धोक्तिकान्ताधरशशित्विषः ।
इत्थमेते वर्णनीयाः प्रबन्धेषु यथोचितम् ॥
अथ वक्ष्यामि सर्वेषां कवीना समयं स्फुटम् ।
सतोऽपि चानिबन्धः स्यादसतोऽपि निबन्धनम् ॥
नियमेन निबन्धश्च विकल्पेन निबन्धनम् ।
एवं कवीनां समयश्चतुर्धा परिकीर्तितः ॥
वस्तुनः सतोऽप्यनिबन्धनं यथा--
अयने चन्द्रिकासंपत्पक्षयोः शुक्लकृष्णयोः ।
वसन्ते मालतीपुष्पं कामिदन्तेषु रक्तता ॥
फलपुष्पे चन्दने च फलं चाशोकपादपे ।
दिवा विकासः कुमुदे वर्षाकाले च मल्लिका ।
न वर्णयेत्सतोऽप्येतान्प्रबन्धेषु कदाचन ॥
अथासतो वस्तुनो निबन्धनं निरूप्यते--
हंसे कीर्तौ च शुभ्रत्वं दार्ढ्य दुष्कीर्तिपापयोः ।
अञ्जलिग्राह्यता कुम्भपूर्यत्वं शशिदीधितेः ॥
रत्नानि यत्र तत्राद्रौ कमलानि नदीष्वपि ।
मन्दाकिन्यां जलेभादिहंसाः सर्वजलाशये ॥
ज्योत्स्नापानं चकोराणां प्रतापे रक्ततोष्णते ।
ध्वान्तस्य पुष्टिर्ग्राह्यत्वं लेपनं सूचिभेद्यता ॥
विश्लेषः कोकयो रात्र्यां रक्तत्वं क्रोधरागयोः ।
कान्तामध्येऽप्यदृश्यत्वं समुद्राणां चतुर्थता ॥
नियमेन निबन्धनं यथा--
बहुकालस्थितस्यापि शिवचन्द्रस्य बालता ।
मनुष्या मौलितो वर्ण्या देवाश्चरणतस्तथा ॥

भूर्जत्वग्हिमवत्येव मलयेष्वेव चन्दनम् ।
रक्तत्वं रत्नबन्धूकबिम्बाम्भोजविवस्वताम् ॥
कृष्णत्वं केशकामालिपिककाकपयोमुचाम् ।
सामान्यशौक्ल्यं छत्राम्भः पताकापुष्पवाससाम् ॥
वसन्त एव वर्ण्य स्यात्परपुष्टस्य कूजितम् ।
वर्षास्वेव मयूराणां रुतं नृत्यं च वर्णयेत् ॥
लज्जाकोपायशोनाशरोषाक्रन्दास्यकृष्णताः ।
रागपाण्डुरतादैन्यविषपानतपोजपाः ॥
दुःखद्वेषाभिचारेर्ष्यासहनोद्ग्रीविकादयः ।
वर्णनीया जितस्यैते पराभवसमुद्भवाः ॥
विकल्पेन निबन्धनं यथा--
कृष्णत्वं हरितत्वं वा कमलासंपदोर्मतम् ।
पीतत्वं रक्तता वाग्नौ परागे स्वर्णविद्युतोः ॥
दानवासुरदैत्यानामैक्यमेवातिसमतम् ।
कटाक्षे शौक्ल्यकृष्णत्वे लोध्रे लोहितपाटलौ ॥
चन्द्रे शशमृगौ कामध्वजे मकररोहितौ ।
एवं कवीनां समयो दिङ्मात्रं परिकीर्तितः ॥
इति वर्ण्यावर्ण्यप्रकरणम् ।
पदार्थस्तु द्विधा प्रोक्तो भावाभावविभेदतः ।
भावश्चतुर्विधो जातिगुणद्रव्यक्रियात्मना ॥
जातिस्तु द्विविधा प्रोक्ता सामान्योपाधिभेदतः ।
सामान्यं तु घटत्वादिरुपाधिश्चन्द्रतादिकः ॥
गुणास्त्वनेके कथिता गन्धरूपरसादयः ।
द्रव्यं तु दशधा पृथ्वीजलतेजःप्रभञ्जनः ॥
तमो व्योमात्मदिक्कालमनांसीति विभेदतः ।
कर्तृत्वं च क्रिया सैकाभावस्तु त्रिविधो मतः ॥

प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव इत्यपि ।
अभावस्य गुणत्वं तु केचिदूचुर्विपश्चितः ॥
सबन्धो धर्मिरूपत्वात्पदार्थो न पृथग्भवेत् ।
तस्मादेव न भेदोऽपि स्युर्द्रव्याणीन्द्रियाण्यपि ॥
नित्यजातिस्तु सामान्यमनित्योपाधिरुच्यते ।
केचिद्घटादिशब्दानां जातिवाचकतां विदुः ॥
विष्णुव्योमादिशब्दाना व्यक्तिवाचकतामपि ।
केचिद्विदुर्घटादीश्च जातिमद्द्रव्यवाचकान् ॥
क्रियावाचकशब्दाः स्युरेधते कुरुतेमुखाः ।
अभाववाचकाः शब्दा नानोमानाशपूर्वकाः ॥
इति पदार्थनिरूपणम् ।
प्राचीनानां नवीनाना मतान्यालोच्य शक्तितः ।
रचितं बालबोधाय तोषाय विदुषामपि ॥
चम्पूप्रबन्ध मन्दारमरन्द विबुधालयः ।
स्वादं स्वादं विमात्सर्य भवन्त्वानन्दतुन्दिलाः ॥
जलजनिजनिजायाप्रेमपाकेन गोपी-
जनमनसिजकेलीलम्पटेऽलंपटेन ।
गुहपुरनिलयेन प्रोद्धृतः शेषबिन्दुः
सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ॥

 श्रीमद्घटिकाशतशतविहिताष्टभाषासरसकविताचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारमरन्दे चम्पूप्रबन्धे शेषबिन्दुरेकादशः समाप्तिमगमत् ॥