मन्दारमरन्दचम्पूः/वृत्तबिन्दुः

विकिस्रोतः तः
               




   

काव्यमाला ।


श्रीकृष्णकविविरचिता

[१]मन्दारमरन्दचम्पूः ।

माधुर्यरञ्जनीव्याख्यया सहिता ।


१. वृत्तबिन्दुः ।

कमलनयनकेलीसंभ्रमस्रस्तनीवि-
स्फुटजघनविराजत्किंकिणीजालकाञ्ची ।
कलयतु कमलाक्ष्या राधिकायाः प्रमोदं
मदनविजययात्रावीथिकातोरणश्रीः ॥ १ ॥


परात्मपादपाथोजपरागपरमाणवे ।
नमः श्रीकान्तसीमन्तसारसिन्दूरबिन्दवे ॥
मन्दारमकरन्दाख्यचन्द्रदेवकृतेः शुभाम् ।
टीकां शीघ्रेण बोधाय कुर्वे माधुर्यरञ्जनीम् ॥

 निष्प्रत्यूहसमाप्तये चिकीर्षितस्येष्टदेवता ध्यायति कमलनयनेति । कमलनयनस्य कृष्णस्य केलीसंभ्रमे स्रस्ता नीविर्यस्मात्तत् । अत एव स्फुटं दृश्य जघनं तस्मिन्विराजत्किंकिणीनां नूपुराणा जलविशिष्टा काञ्ची कर्त्री । अत एव मदनस्य विजययात्राय वीथिकाया स्थितस्य तोरणस्य श्रीरिव श्रीर्यस्याः सेति काञ्चीविशेषणम् । कमलाक्ष्य राधिकाया इत्यस्य काञ्च्यामन्वयः । प्रमोदं कलयतु करोतु । लोट् । अत्रोपमानोत्प्रेक्षयोः सन्देहसंकरः । नीविरिदन्तोऽपि । यदाह माघः--'नीविभिः सपदि बन्धनमोक्ष.' इति मालिनीवृत्तम् ‘ननमयययुतेयं मालिनी भोगिलोकै' इति लक्षणात् । आदौ कवर्णप्रयोगाल्लक्ष्मीश्च । यदाह भामहः--‘कः ख गो घश्च लक्ष्मीम्’ इति । नगणप्रयोगात्सौख्य च यदुक्त कालिदासेन--‘नो नाकः सुखमच्युतं प्रकुरुते' इति । अत्र कृष्णेन सह क्रीडासक्तराधिकाकाञ्चीप्रार्थनेन केलीसुखितहृदयराधाकृष्णध्यान कृतं भवतीति वस्तुना व

पुरुषकरणवेगप्रश्लथत्केशपाशा-
त्प्रपतदमलमल्लीसंतती राधिकायाः ।
मुरहरहृदि जीयान्नैजसग्रामतुष्ट-
स्मरनृपकृतपुष्पस्तोमवृष्टिस्फुरच्छ्रीः ॥ २ ॥
कमलजभवकान्ताप्रेमपीयूषधारा-
कलितकनककुम्भः कुत्सवंशैकडिम्भः ।
कलयति किल गोपीकामकेलीकलाप-
प्रणयिचरणचित्तः कोऽपि चम्पूममत्तः ॥ ३ ॥
न वेदान्ते प्रज्ञा न च परिचयः पाणिनिमते
न वालंकारादौ न च चतुरता गौतममते ॥

स्तुध्वनिः ॥ १ ॥ पुरुषेति । राधिकायाः पुरुषकरणे पुरुषायिते यो वेगस्तेन हेतुना प्रश्लथत केशपाशान्मुरहरस्य कृष्णस्य हृदि प्रपतन्ती अमलानां मल्लीनां संततिः । अत एव नैजे सग्रामे तुष्टेन स्मरनृपेण कृता पुष्पस्तोमवृष्टिरिव स्फुरन्ती श्रीर्यस्या सेत्युत्प्रेक्षा । इदं संततिविशेषणम् । जीयात् । 'जि जये” आशिषि लिङ् । अनेन पद्यद्वयेन सुखितहृदयस्यैव ध्यानं सर्वाभीष्टप्रदमिति सूचितम् । ननु ध्यानरूपमङ्गलस्यात्मवृत्तित्वेन आकाशस्थशब्दध्वंसरूपसमाप्तिकारणत्वं कथमिति चेदुच्यते । वर्णात्मकशब्दनाशस्य देहावच्छेदेन जायमानत्वात् ध्यानस्यापीति न वैयधिकरण्यम् । अत्र ध्यानं च स्वप्रीत्युत्पादकमानसव्यापारविशेषः । न तूत्कृष्टत्वप्रकारकं ज्ञानम् । अत एव राजादिप्रत्यक्षावसरे राजानं ध्यायतीति न प्रयोगः । इदं तु बोध्यम् । मङ्गल तावत्त्रिविधम्-- कायिकवाचिकमानसिकभेदात् । कायिकं च दण्डाकारेण प्रणिपातादिरूपव्यापारविशेषः । वाचिकं चोत्कृष्टत्वप्रकारकज्ञानजनकशब्दः । मानसिकं तु ध्यानमेव । कायिकवाचिकस्थलयोर्मङ्गलसमाप्त्योरवच्छेदकत्वसबन्धेन सामानाधिकरण्यम् । मानसिकस्थले स्वप्रतियोग्यनुकूलव्यापाराश्रयत्वेन संबन्धेन समाप्तिं प्रत्युपरञ्जनसंबन्धेन मङ्गलस्य कारणत्वोक्त्या सामानाधिकरण्यं संगच्छते । न च–- ज्ञानस्य क्षणिकत्वेन कालान्तरीयसमाप्तिकारणत्वं न संजाघटीति-- इति वाच्यम् । स्वजन्यविघ्नध्वंसवत्त्वसबन्धेन तत्कालेऽपि मङ्गलस्य सत्त्वात् । विघ्नत्वचोद्दिष्टकार्यप्रतिबन्धकदुरदृष्टविशेषत्वम् । इत्थं च समाप्तौ मङ्गलस्य करणत्वं विघ्नध्वंसस्य व्यापारत्वं चोक्तमिति दिक् ॥ २ ॥ कमलजेति । कमलजभवस्य पद्मजस्य कान्तायाः शारदायाः प्रेमैव पीयूषस्तस्य धाराभिः कलितः पूर्णश्चासौ कनककुम्भश्चेति रूपकम् । गोपीभिः सह कामकेलीकलापे प्रणयिनः कृष्णस्य चरणयोश्चित्तं यस्य तथोक्तः । तथाप्यमत्तो विनीत इत्यर्थः । अत एव कुत्सवशस्य एकडिम्भो मुख्यपुत्रः । एतादृशगुणयुक्तत्वाद्वशोत्तस इति भावः । कोऽपि कश्चन कविश्चम्पूं कलयति । किलेति युक्तार्थे । अत्रापि मालिनी ॥ ३ ॥ न वेदान्त इति । वेदानामन्तो निर्णयो यस्मात्तस्मिन् शास्त्रे

तथाप्याचार्यश्रीगुणगणकथावर्णनपरे
मयि प्रेम प्राज्ञाः कुरुत कविकीर्त्यैककमने ॥ ४ ॥

मनोहृद्यगद्यानवद्योरुपद्यं प्रबन्धं रसज्ञा यदि स्युर्भजेयुः ।
न चेत्ते त्यजेयुः पुरंध्रीकदम्बं युवानो भजेयुस्तदन्ये त्यजेयुः ॥ ५ ॥

किरति मधु सुधीसत्कर्णपालीषु वाणी
मम किमरसिकानां भूषणे दूषणे वा ।
सुखयति सुमुखीनां सारशृङ्गारलीला
तरुणमिह शिशूनामादरेऽनादरे किम् ॥ ६ ॥


न प्रज्ञा प्रकर्षेण ज्ञानं नास्तीत्यर्थः । पाणिनिमते व्याकरणे न परिचयश्च । अलंकारादौ वा न । परिचयो नास्तीत्यर्थः । गौतममते न्याये न च चतुरता चातुर्यमपि नास्तीत्यर्थः । तथाप्येतादृशग्रन्थकरणहेत्वभावेऽप्याचार्यस्य श्रीमदाचार्यस्य विष्णोर्वा गणगणकथाया वर्णने परे आसक्ते कवीनां कीर्त्यैककमने कीर्त्यैककामुके मयि हे प्राज्ञाः, प्रकर्षेण जानन्तीति प्राज्ञा विद्वांसः प्रेम कुरुतेति प्रार्थनायां लोट् । यद्वा न वेदान्ते प्रज्ञेत्यादिः काकुः । ‘बोद्धारो मत्सरग्रस्ताः’ इति लोकप्रसिद्धेस्तथापीत्युक्तम् । आचार्यश्रीगुणगणकथावर्णनपरे इति विशेषणं हेतुगर्भम् । तथा चेदृशशास्त्राभ्यासिनि मयि आचार्यगुणगणकथावर्णनपरत्वसत्त्वात्तद्दृष्ट्वा मात्सर्यमुत्सार्य प्रेम कुरुतेति प्रार्थना । एतेन कुत्रचिदपि शास्त्रेऽनभिज्ञस्य ग्रन्थकर्तृत्वं कथं घटते इति शङ्का परास्ता । शिखरिणी वृत्तम् । ‘रसै रुद्रैश्छिन्ना यमनसभलागः शिखरिणी’ इति लक्षणात् ॥ ४ ॥ अथेमां मदीयप्रार्थनामनादृत्य मयि मत्सरिणश्चेन्न काप्यस्माकं क्षतिरित्याशयं पद्यद्वये स्फुटयति-- मनोहृद्येति । रसान् शृङ्गारादीन् जानन्तीति रसज्ञा यदि स्युस्तर्हि मनोहृद्यैर्गद्यैरनवद्यैः उरुभिरुत्कृष्टैः पद्यैर्युक्तं प्रबन्धं प्रकर्षण बध्यते कविनेति प्रबन्धो वर्णसमुदायात्मकग्रन्थः तं भजेयुः । ‘भज सेवायाम्’ लिङ् । ते रसज्ञा न चेत्प्रबन्धमित्यनुषङ्गः । त्यजेयुः । 'त्यज हानौ' । संभावनायां लिङ् । पुरध्रीणां सुचरित्राणां कदम्ब युवानश्चेद्भजेयुः । तदन्ये युवभिन्ना वृद्धास्त्यजेयुः । ‘वृद्धानां तरुणी विषम्’ इति प्रसिद्धेः । अत्र रसज्ञारसज्ञकर्तृकप्रबन्धकर्मकभजनत्यागरूपोपमेयार्थस्य तरुणातरुणकर्तृककान्ताकर्मकभजनत्यागरूपोपमानार्थस्य च पृथग्वाक्यद्वये निर्देशात्प्रतिवस्तूपमालंकारः ॥ ५ ॥ किरतीति । मम वाणी सुधियां शोभना धीर्येषां तेषामित्यर्थः । बुद्धौ शोभनत्वं च परश्रेयोविषयीकरणजन्यसुखसामानाधिकरण्यम् । सत्कर्णपालीषु श्रोत्रप्रदेशेषु मधु किरति क्षिपति । लट् । अरसिकानां कर्तरि षष्ठी । दूषणे भूषणे वेति विकल्पे । किं न किमपि । दूषणे कृते सति नानन्दः भूषणे कृते सति न व्यसनमिति भावः । सुमुखीनां सुन्दरीणां सारा श्रेष्ठा शृङ्गारलीला

चम्पूप्रबन्धे मन्दारमरन्दाख्ये कृतौ मम ।
वृत्तसारश्लिष्टचित्रबन्धगुप्ताः सनर्तनाः ॥ ७ ॥
शुद्धरम्यव्यङ्ग्यशेषा इत्येकादशबिन्दवः ।
तत्रादिमे वृत्तबिन्दौ वृत्तलक्षणमुच्यते ॥ ८ ॥
छन्दसा ग्रथितः शब्दः पाद इत्यभिधीयते ।
मिलितांश्चतुरः पादान्वृत्तमूचुर्विपश्चितः ॥ ९ ॥


तरुणं सुखयति । इह शृङ्गारलीलाविषये शिशूनां कर्तरि पुष्ठी । आदरे अनादरे कृते सति किम् । अत्र भिन्नवाक्यार्थधर्मयोर्बिम्बप्रतिबिम्बभावेन निर्देशादृष्टान्तालंकारः । पूर्वपद्य तु समत्सरविद्वदभिप्रायकम् । इदं तु समत्सरमूढाभिप्रायकमिति विशेषः ॥ ६ ॥ ग्रन्थरीतिमुद्दिशति-- चम्पूप्रबन्ध इति । मन्दारमन्दाख्ये चम्पूप्रबन्धे मम कृतावेकादशबिन्दवः क्रियन्त इति शेषः । ते च (१) वृत्तबिन्दुः, (२) सारबिन्दुः, (३) श्लिष्टबिन्दुः, (४) चित्रबिन्दुः, (५) बन्धबिन्दुः, (६) गुप्तबिन्दुः, (७) नर्तनबिन्दुः, (८) शुद्धबिन्दुः, (९) रम्यबिन्दुः, (१०) व्यङ्ग्यबिन्दुः । (११) शेषबिन्दुः । मकरन्दपक्षे वृत्तबिन्दुर्वर्तुलबिन्दुः । सारः श्रेष्ठः । श्लिष्टः परागादिसंबन्धः । चित्रः चित्रवर्णयुक्तः । बन्धबिन्दुर्बन्धनयुक्तबिन्दुः घनीभूतबिन्दुरित्यर्थः । गुप्तो गोपनविशिष्टः । नर्तनः 'नृती गात्रविक्षेपे’ इत्यस्मादधिकरणे ल्युट् । चलनाश्रय इत्यर्थ । शुद्धः शुद्धिमान् । रम्यो रमणीयः । व्यङ्ग्यः व्यज्यते स्फुटीक्रियते रस इति व्यङ्ग्यः । शेषोऽवशिष्टः । तत्रैतेषु बिन्दुषु आदिमे आद्ये वृत्तबिन्दौ वृत्तानां लक्षण समूहाभिप्रायेणैकवचनम् । उच्यते । “ब्रूञ् व्यक्तायां वाचि' इत्यस्मात्कर्मणि यक् लट् ॥ ७ ॥ ८ ॥ छन्दसेति । छन्दस्त्वं च षड्विंशतिवर्णाधिकवर्णनात्मकत्वे सति वर्णात्मकत्वम् । ध्वन्यात्मकशब्दवारणाय विशेष्यदलम् । गद्यादिवारणाय सत्यन्तम् । छन्दसा प्रथितो बद्धः । छन्दोरूपेण निरूपित इत्यर्थः । शब्दपदं स्वरूपकथनार्थं न तु लक्षणप्रविष्ट प्रयोजनाभावात् । किं तु छन्दोरूपत्वं लक्षणम् । इत्थं च 'आङ् ईषदर्थे' इति कोशेनाप्रथित इत्यस्य ईषद्ग्रथितार्थलाभेन सकृदुच्चरिततात्पर्यविषयच्छन्दोरूपत्वमिति निष्कर्षः । वृत्तवारणाय सकृदुच्चरितत्वं छन्दोविशेषणम् । एकद्व्यादिवर्णघटितपादचतुष्टयात्मकवृत्तवारणाय तात्पर्यविषयत्वं च छन्दोविशेषणम् । इदमत्रावगन्तव्यम् । एकद्व्यादिवर्णघटितपादचतुष्टयात्मकवृत्ते वक्तुः श्रोतुर्वा पादत्वेन तात्पर्ये सति पाद एव । वृत्तत्वेन तात्पर्ये सति वृत्तमेव । एतदेकाक्षरमारभ्य चतुर्विंशतिवर्णपर्यन्तवर्णघटितवाक्य एव । पञ्चविंशतिषड्विंशतिवर्णात्मकवाक्ये पादत्वमेव । तत ऊर्ध्वं तु न पादत्वम् । एकाक्षरमारभ्य षड्विंशत्यक्षरपर्यन्तमेकैकवर्णाधिक्येनोत्तरोत्तर षड्विंशतिछन्दांसीति पिङ्गलादिभिः परिगणनात् । इदं वर्णच्छन्दस्येव । मात्राछन्दोनिरूपणं त्वग्रे भविष्यति । मिलितान् चतुरः पादान् विपश्चितो विद्वांसः वृत्तमूचुः । पादचतुष्टया

सममर्धसमं चैव विषमं चेति तत्त्रिधा ।
यस्मिन्पादाश्च चत्वारः समाः स्युस्तत्समं मतम् ॥ १० ॥
समौ समौ च विषमौ समावर्धसमं यदि ।
भिन्नलक्ष्माङ्घ्रयो यस्मिंश्चत्वारो विषमं हि तत् ॥ ११ ॥
छन्दांसि वेदे ख्यातानि सप्तपूर्वाण्यनुष्टुभः ।
लोकप्रसिद्धान्यवृत्तलक्षणोदाहृती ब्रुवे ॥ १२ ॥
शार्दूलविक्रीडितं तु यत्र मः सजसाः पुनः ।
ततगाः सूर्यऋषिभिर्विरतिस्तत्र कीर्तितम् ॥

यथा--अथ कदाचित्

भूमीलोकदिदृक्षया दयितयाभीक्ष्णं समभ्यर्थितो
गन्धर्वः कलगीतिनामकलितः साकं तया कान्तया ।


निवेशेन वृत्तान्तरेषु मादिगणानां व्यवधानेन वृत्तित्वेऽपि न क्षतिः । अव्यवहितोत्तरत्वात्मकत्वं वृत्तत्वम् । इदमुभयच्छन्दः साधारणम् ॥ ९ ॥ तं विभजते--- सममिति । यस्मिन्नित्यत्र सप्तम्या घटकत्वमर्थः । तस्य पादेष्वन्वयः । तथा च परस्परसदृशपादचतुष्टयघटितत्वं समवृत्तलक्षणम् । परस्परसदृशविषमपादद्वयसदृशपरस्परसदृशसमपादद्वयघटितत्वं वा ॥ १० ॥ समाविति । विषमौ सदृशौ समौ च सदृशौ चेदर्धसमवृत्तमित्यर्थः । तथा च परस्परसदृशविषमपादद्वयासदृशपरस्परसदृशसमपादद्वयघटितत्वं लक्षणं पर्यवसितम् । यस्मिन् भिन्नानि भिन्नानि लक्ष्माणि येषां तेऽङ्घ्रयश्चत्वारो वर्तन्ते तद्विषमवृत्तमित्यर्थः । अत्रापि परस्परासदृशपादचतुष्टयघटितत्वं लक्षणं बोध्यम् । यद्वा परस्परासदृशविषमपादद्वयासदृशपरस्परासदृशसमपादद्वयघटितत्वम् । सादृश्यं च स्वघटकगुरुलघुतदुभयान्यतमवर्णगतसंख्याक्रमोभयविशिष्टवर्णमात्रघटितत्वेन । स्वपर सादृश्यप्रतियोगिपरम् ॥ ११ ॥ उक्ता(क्था)दिसप्तछन्दःसु वृत्तानामनुक्त्यापि न न्यूनतेत्याशयेनाह--- छन्दांसीति । तथा च तेषां वेदमात्रप्रसिद्धत्वेन लोकप्रसिद्ध्यभावान्न कृतं लक्षणलक्ष्यवर्णनमित्यर्थः । लोके आलंकारिकजने प्रसिद्धानामन्येषां वृत्तानां लक्षणोदाहृती लक्षणोदाहरणे ब्रुवे । लट् ॥ १२ ॥ तत्रादावुद्देशक्रमानुसारेण समवृत्तलक्षणानि विवक्षुः शार्दूलविक्रीडितं लक्षयति-- शार्दूलविक्रीडितमिति । यत्र वाक्ये मः मगणः सजसाः सगणजगणसगणाः ततगाः तगणतगणगुरवः । पुनः किं च सूर्यैर्द्वादशभिरक्षरैः' ऋषिभिः सप्ताक्षरैर्विरतिः विश्रामः । एते वर्तन्ते तद्वृत्तं शार्दूलविक्रीडितमित्यन्वयः । तथा च भगणाव्यवहितोत्तरसगणाव्यवहितोत्तरजगणाव्यवहितोत्तरसगणाव्यवहितोत्तरतगणव्यवहितोत्तरतगणाव्यवहितोत्तरगुरुघटितत्वं लक्षणं भवति । एतेनाव्यवहितोत्तरत्व

आरुह्योरुविमानमाशु गगने गच्छन्प्रपश्यन्भुवं ।
तत्रैकां नगरीं विलोक्य ललनामित्यब्रवीत्सादरम् ॥ १३ ॥

अस्ति पुरः पश्य प्रशस्तविभवैः समस्तलोकसुखकरी रजतपीठपुरी ।

वसन्ततिलका प्रोक्ता तभजा जगगा यदि ।
न वा पादेऽपि विरतिः सप्तसप्ताक्षरैर्मता ॥

सोसूच्यते जिगमिषां नु पुलोमपुत्री-
केलीषु लोलमनसो नगरीं विजेतुम् ।
शुभ्रांशुबिम्बपरिचुम्बनढौकमान-
राराज्यमानवरराजतसौधशृङ्गा ॥ १४ ॥


च स्वाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसानधिकरणस्वाधिकरणक्षणध्वंसाधिकरणक्षणवृत्तित्वम् । सूर्यऋषिभिर्यतिकथनं तु आलंकारिका सहृदयहृदयाह्लादकारित्वाद्यतिमङ्गीकुर्वन्तीति सूचनार्थम् । अत एव शेषबिन्दौ ‘पादान्ते एव केचिच्च पादमध्येऽपि केचन । यतिं वदन्ति' इति स्वयमेव वक्ष्यति । केचिद्वेदान्तिनः । पादान्त एवेत्यनेन न पादमध्ये यतिं नियमेनाङ्गीकुर्वन्तीत्यर्थः । न तु सूर्यऋषिभिर्यतिमत्त्वं लक्षणप्रविष्टम् । अन्यथा तेनैव निर्वाहे मादिगणघटितत्वं व्यर्थं स्यात् । यदि वृत्तान्तरवारणाय मादिगणघटितत्वमित्युच्यते । तदा अतिधृतिछन्दः प्रोद्भूतवृत्त एवातिव्याप्तिर्वाच्या । तत्र भगवता सूत्रकारेण काश्यपेन रामकीर्तिना गोमानसेन केदारेणापि न किमपि वृत्तमेतद्भिन्नं सूर्यऋषिमात्रयतिमत्त्वेन प्रतिपादितम् । यत्तु प्रस्ताररीत्या प्रक्रान्ते सरसतापादनाय सूर्यऋषिभिरङ्गीकृतयतिमति कस्मिंश्चिद्वृत्तेऽतिव्याप्तिवारणायेति चेत्तर्हि अनेनैव मादिगणगुरुघटितत्वमात्रेण सामञ्जस्ये तस्य वैयर्थ्यम् । एवमग्रेऽपि । यतिगणादिनिरूपणं स्वयमेवाग्रे वक्ष्यति । तदुदाहरति--- यथेत्यादिना । कलगीत इति नाम्ना कलितो युक्तो गन्धर्वः दयितया भूमीलोकस्य दिदृक्षया द्रष्टुमिच्छया । हेताविति तृतीया । अभीक्ष्णमसकृत् समभ्यर्थितः सन् तया कान्तया साकं विमानमारुह्य आशु गगने गच्छन् भुवं लोकं प्रपश्यन् तत्र भुवि एकां नगरीं विलोक्य ललना कान्तामिति वक्ष्यमाण सादरं यथा तथाब्रवीत् । भूमिरीदन्तोऽपि । यदाह भानुकविः---- 'नि:शेषभूमीधर-' इति रसतरङ्गिण्याम् ॥ १३ ॥ अस्तीति । प्रशस्तैर्विभवैः समस्तस्य लोकस्य सुखकरी रजतपीठपुरी अस्ति । पुरः पश्येत्यन्वयः । वसन्ततिलकेति । तभजा तगणभगणजगणाः जगगाः जगणगुरुगुरवः यदि वाक्ये सन्ति चेत् । अपि सप्तभिः सप्तभिरक्षरैर्विरतिर्विश्रामः । वेति विकल्पेनेति मता । इदं वसन्ततिलकावृत्तं सिंहोद्धतानामकमाह काश्यपः । मधुमाधवीमाह गोमानसः । चेतोहितामाह राजकीर्तिः ॥ सोसूच्यत इति ।

वंशस्थं स्याज्जतजरा गुहास्यऋतुभिर्यतिः ।

परिस्फुरत्स्फाटिकसालमण्डलप्रगल्भवल्गत्प्रतिबिम्बबन्धुरा ।
तितंसति क्षीरपयोधिबन्धुतां किलोच्चलद्यत्परिखाजलावली ॥ १५ ॥

वातोर्मी मभता गौ च श्रुतिसप्तयतिर्भवेत् ॥

पद्मान्येतत्परिखासंभवानि वीचीजालैर्मृदुलं संचलन्ति ।
मन्ये नूनं फणिनां कन्यकानां नीरक्रीडानिरतानां मुखानि ॥ १६ ॥

इन्द्रवज्रा ततजगा गो हरास्यर्तुभिर्यतिः ॥


शुभ्रांशोश्चन्द्रस्य बिम्बस्य परिचुम्बनाय ढाकमानौनि । 'ढौकृ गतौ' इत्यस्माच्छानच् । राराज्यमानानि भृशं प्रकाशमानानि । 'राजृ दीप्तौ' इत्यस्माद्यङन्ताच्छानच् । वराणि राजतानि रूप्यमयानि सौधशृङ्गाणि हर्म्याग्राणि यस्यां सा या रजतपीठपुरी । पुलोमपुत्र्याः शच्याः केलीषु लोलमनसः आसक्तचित्तस्य । इन्द्रस्येति यावत् । नगरीममरावतीं विजेतुं जिगमिषा गमनेच्छाम् । 'इण गतौ' इत्यस्मात्सन्नन्ताद्भावे अप्रत्ययः । सोसूच्यते पुनः पुनरतिशयेन वा सूचयति । 'सूच पैशून्ये' इत्यस्मात् 'सूचिसूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः' इति वार्तिकानुसारेण यङि 'सन्यङो' इति यङ्ङन्तप्रथमैकाचो द्वित्वे 'गुणो यङ्लुकोः' इत्यभ्यासगुणे सोसूच्यत इति रूपम् । नु इत्युत्प्रेक्षायाम् । अत्रातिशयोक्त्युत्प्रेक्षयोरङ्गाङ्गिभावसंकरः ॥ १४ ॥ वंशस्थमिति । जतजरा जगणतगणजगणरगणाः । गुहास्यैः षड्भिः ऋतुभिः षड्भिः । अत्रापि नवेत्यनुषज्यते ॥ परिस्फुरदिति । परिस्फुरत्प्रकाशमानं स्फाटिकं स्फटिकमयं सालस्य प्राकारस्य मण्डलं तस्य प्रगल्भवल्गद्यत्प्रतिबिम्बं तेन बन्धुरा निबिडीकृता । व्याप्तेति यावत् । उच्चलन्ती यस्याः पुर्याः परिखायां स्थितानां जलानामावली । क्षीरपयोधेर्बन्धुता साम्यम् । 'बन्धुश्चौरः सुहृद्वादी कल्पः प्रख्यः प्रभः समः । देशीयदेश्यरिप्वाभसोदराद्या इवार्थकाः ॥” इति देवेश्वरः । तितंसति तनितुमिच्छति । 'तनु विस्तारे' इत्यस्मात्सन्नन्तात्कर्तरि लट् । किलेल्युत्प्रेक्षायाम् ॥ १५ ॥ वातोर्मीति । मभता मगणभगणतगणाः । गो च गुरुद्वयं च । श्रुतिसप्तभिश्चतुर्भिः सप्तभिश्च वर्णैर्यतिश्चेद्वातोर्मी नाम वृत्तं भवेत् ॥ पद्मानीति । एतस्या पुरः परिखासंभवानि । वीचीना तरङ्गाणा जालैश्चयैः । मृदुलं यथा तथा संचलन्ति पद्मानि । फणिना सर्पाणां नीरक्रीडाया जलक्रीडायां निरतानां कन्यकानां मुखानि मन्ये इत्युत्प्रेक्षा । अत्र पादान्तस्थस्य वैकल्पिकगुरुत्वान्न छन्दोभङ्गः ॥ १६ ॥ इन्द्रवज्रेति । ततजगास्तगणतगणजगणगुरवः । गः गुरुः । हरास्यैः पञ्चभिः ऋतुभिः षड्भि

(प्रपां निर्दिश्य ।)

सा निर्जनायां विहिता प्रपायां कान्ता कुचान्तं परिदर्शयन्ती ।
पान्थस्य यूनः कुरुते करेऽम्भोधारां मुखे सामिदृगन्तरीतिम् ॥ १७ ॥

उपेन्द्रवज्रा जतजा गौ बाणऋतुभिर्यतिः ॥

इयं कुरङ्गीनयनाम्रशाखां विभाति वामेन करेण धृत्वा ।
पदान्तलालम्बितवेणिवल्ली मनोऽस्य चाक्रष्टुमिवानताङ्गी ॥ १८ ॥

मिश्रा तूपेन्द्रमाला स्यादुपजातिं च तां विदुः ।

यथा यथा पश्यति तन्मुखेन्दुं पातुं प्रवृत्तो विरलाङ्गुलिः सन् ।
तथा तथा प्रेमरसेन साकं सव्रीडहासा तनुतेऽम्बुधाराम् ॥ १९ ॥

शालिनी मतता गौ च यतिः श्रुतितुरङ्गमैः ॥

धन्येयं यत्कामिनी पान्थयूनः पीयूषाभैरम्बुभिः शीतशीतैः ।
सप्रेमोत्थैः सामिनेत्रान्तपातैः प्रीतिं पुष्णात्युच्चलद्भ्रूविलासैः ॥ २० ॥


र्यतिः । अत्रापि मण्डूकप्लुत्या नवेत्यन्वेति । सेति । पुरतो दृश्यमानेत्यर्थः । निर्जनायां जनरहितायां प्रपायां पानीयशालायां विहिता स्थिता सा कान्ता कुचान्तं स्तनाग्रं परिदर्शयन्ती सती यूनस्तरुणस्य पान्थस्य करे हस्ते अम्भोधारामुदकधारां मुखे सामि दृगन्तरीति किंचित्तिर्यक्प्रवृत्तनेत्रान्तरीति कुरुते । वर्तमाने लट् ॥ १७ ॥ उपेन्द्रवज्रेति । यत्र जगणतगणजगणा गुरुद्वयं च तथा पञ्चभिः षड्भिश्च यतिश्चेदुपेन्द्रवज्रावृत्तम् । अत्रापि नवेत्यनुषज्यते ॥ इयमिति । पदान्ते चरणान्ते लालम्बिता अतिशयेन लम्बिता वेणिर्वल्लीव यस्याः सा तथोक्ता । 'लबि अवस्रंसने च' इत्यस्माद्यङ्ङन्तादधिकरणे क्तः । कुरङ्गीनयना इयं वामेन करेण आम्रस्य रसालस्य शाखां धृत्वा अस्य पान्थस्य मनः आक्रष्टुमिवेत्युत्प्रेक्षा । आनताङ्गी सती नम्राङ्गी सती विभाति । 'भा दीप्तौ' लट् ॥ १८ ॥ मिश्रेति । तामुपेन्द्रमालाम् । बुधा इति शेषः ॥ यथेति । पातुं प्रवृत्तः पान्थो विरला अङ्गुलयो यस्य तथोक्तः सन् तस्याः कान्ताया मुखमिन्दुरिव तं यथा यथा पश्यति तथा तथा सव्रीडहासा त्रपास्मिताभ्यां सहिता कान्ता अम्बुधारामुदकधारां प्रेमरसेन साकम् । सहयुक्तेऽप्रधाने तृतीया । तनुते । 'तनु विस्तारे' इत्यस्माल्लट् ॥ १९ ॥ शालिनीति । मतता मगणतगणतगणाः । गौ च गुरुद्वयमपि । श्रुतितुरङ्गमैश्चतुर्भिः सप्तभिर्यतिः । यत्र तद्वृत्त शालिनीनामकमित्यर्थः ॥ धन्येति । इयं कामिनी यद्यस्मात् पीयूषाभैरमृताभैः शीतशीतैरत्यन्तशीतैः । अतिशयार्थे वीप्सा । अम्बुभिः सप्रेम यथा तथोत्थैः सामिनेत्रान्तपान्तैः तिर्यक्प्रवृत्तनयनान्तवीक्षणैः । 'हेतौ' इति तृतीया । उच्चलन्त्योर्भ्रुवोर्विलासैः पान्थयूनः पथिकतरुणस्य । विशेषणोत्तरपदो विशेषणोभयपदो वा कर्मधारयः । प्रीतिं पु

मत्ता मभसगैर्युक्ता यतिः श्रुतिगुहाननैः ।

(ध्वजं निर्दिश्य ।)

स्फारस्फीता वसति पताका माध्वे तीर्थे विधुतजनानाम् ।
तेस्तैर्देहैः सह सुरलोकं गन्तुं स्थूणा हरिनिहितेव ॥ २१ ॥

भामिनी स्याद्भभभभास्त्रिभिर्यतिचतुष्टयम् ॥

उद्भवदम्बुजसंततिसंततसचरदुच्चरथाङ्गविहङ्गकम् ।
सारसुधामधुराम्बुलसत्त्विह मध्वसरो वरमानिनि राजते ॥ २२ ॥

 अधिगतसलिलसीकरमृदुसंचरदनिलाङ्कुरपरिचयपरिचितचापलकमलावलोकनकुतूहलशैलीपरिशीलितहृदयस्य मम हृदयमवगाहतेऽधुनोहसलिलनिधौ ।

राजहंसी नरौ रो गौ यतिः स्यादृतुसायकैः ॥


ष्णाति पोषणं करोति । 'पुष पुष्टौ' इत्यस्मात्कर्तरि लट् । तद्धन्या ॥ २० ॥ मत्तेति । नामैतत् । मभसगैः मगणभगणसगणगुरुभिः । श्रुतिगुहाननैश्चतुर्भिः षड्भिः ॥ स्फारेति । स्फारेणातिशयेन स्फीता प्रकाशमाना पताका ध्वजः । माध्वे तीर्थे मध्वसरसि । विधुतानां जनानां स्नातानां जनानाम् । 'कर्तृकर्मणोः कृति' इति कर्तरि षष्ठी । तैस्तैर्देहैर्ब्राह्मणादिदेहैः । यावदर्थे वीप्सा । सहार्थयोगात्तृतीया । सह सुरलोक स्वर्गम् । ‘स्वर्लोको देवलोकः स्यात्' इति त्रिकाण्डशेषः । गन्तुं हरिणा निहिता स्थापिता स्थूणेव स्तम्भ इवेत्युत्प्रेक्षा । 'स्थूणा सूर्म्या गृहस्तम्भे स्तम्भमात्रेऽपि च स्त्रियाम्' इत्यनेकार्थ । 'स्थूणा सूर्मी च दारु च' इति त्रिकाण्डशेषश्च । वसति । 'वस निवासे' लट् ॥ २१ ॥ भाभिनीति । भगणचतुष्टय त्रिभिस्त्रिभिरक्षरैर्यतिश्चेद्भामिनीनामक वृत्तम् । अत्र नवेत्यध्याहारः ॥ उद्भवदिति । उद्भवन्त्यामम्बुजानां सन्ततौ वृन्दे (सतत यथा तथा) सचरन्त उच्चा रथाङ्गविहङ्गकाः चक्रवाका यास्मिंस्तथोक्तम् । सार श्रेष्ठं सुधेव मधुरमम्बु तेन लसत्प्रकाशमान मध्वसरो राजते । 'राज दीप्तौ' लट् । हे वरमानिनि, इह पश्येति शेषः ॥ २२ ॥ अधिगतेति । अधिगताः स्वीकृताः सलिलानां सीकरा यैस्ते च मृदु यथा तथा सचरन्तश्च ते अनिलाङ्कुराश्च तेषां परिचयेन सम्पर्केण परिचितमभ्यस्त चापल यस्य तस्य कमलस्यावलोकने कुतूहलस्य शैल्या रीत्या परिशीलितं सस्पृष्ट हृदयं चित्तं यस्य तथोक्तस्य मम हृदयम्ह एव सलिलनिधिः समुद्रस्तस्मिन्नधुना अवगाहते निमज्जतीत्यर्थः । 'गाहू विलोडने' इत्यस्माल्लट् ॥ राजहंसीति । नरौ नगणरगणौ रो रगणः । गौ गुरुद्व

सरससारसं वारकामिनीपदपराजयप्राप्तदुर्यशः ।
पतितमम्भसि क्षन्तुमक्षमं परवशं मुहुः संचलत्यहो ॥ २३ ॥

भम्साश्चम्पकमाला गः शरैर्बाणैर्यतिर्भवेत् ॥

दत्तमुखं सद्भास्वति पद्मं भूरि तपस्यत्यम्बुनि लब्धुम् ॥
अत्र च सत्याः संचरदेणीशावकनेत्र्याः पादसमत्वम् ॥ २४ ॥

स्निग्धा स्याद्भममा यत्र हराननयुगैर्यतिः ।

अपि च ।

अम्बुजमेतद्भृङ्गव्याजान्मूर्ध्नि कलङ्कं धत्ते नूनम् ।
आनननेत्रात्पाणेः पादादत्र पराभूतं सत्सत्याः ॥ २५ ॥

यम् । ऋतुसायकैः षड्भिः पञ्चभिर्यतिश्चेद्राजहंसी वृत्तं भवति ॥ सरसेति । वारकामिन्याः पदाच्चरणात्पराजयेन प्राप्तं दुर्यशो दुष्कीर्तिं क्षन्तुमक्षममसमर्थं सरसं च तत्सारसं च कर्तृ । अम्भस्युदके पतित सत्परवश सत् । उत्थातुमशक्तत्वादिति भावः । मुहुः संचलति । अहो इत्युत्प्रेक्षा ॥ २३ ॥ भम्सेति । भम्साः भगणमगणसगणा गः गुरुः । शरैः पञ्चभिर्बाणैर्यतिश्चेच्चम्पकमालावृत्तं भवति । रुक्मवतीवृत्तमिति केचित् ॥ दत्तेति । पद्म कर्तृ । किं चेति चार्थः । भास्वति सूर्ये । औपश्लेषिकेऽभिव्यापके वा आधारे सप्तमी । दत्तमुखं सत् कृतवदनं सत् । अत्र पुर्या संचरन्त्या एणीशावकनेत्र्या मृगीशिशुनेत्र्याः । विशेषणोभयपदसमासः । सत्याः साध्व्याः पादसमत्वं लब्धुमम्बुनि भूरि यथा तथा तपस्यति । तापयति शरीरमिति तप कायक्लेशरूपशुभाचारः । 'तप संतापे' इत्यस्मादौणादिकोऽसुन्प्रत्ययः । तस्मात् ‘कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङि 'तपसः परस्मैपदं च' इति परस्मैपदम् । लट् । तपश्चरतीत्यर्थः । गम्योत्प्रेक्षा ॥ २४ ॥ स्निग्धेति । भममा भगणमगणमगणाः । हराननयुगैः पञ्चभिश्चतुर्भिः यतिश्चेत्स्निग्धा नाम । मणिमध्यमिति केदारः ॥ अम्बुजमिति । एतद्दृश्यमानमम्बुजं कर्तृ । अत्र पुर्या सत्याः साध्व्या आनननेत्रात् आननं च नेत्रं चानननेत्रमिति प्राण्यङ्गत्वादेकवद्भावः । पाणेर्हस्तात् । पादात् । ‘जनिकर्तुः प्रकृतिः' इत्यनेन पञ्चमी । प्रकृतित्वं च कारणत्वम् । न तु विकारित्वम्। वसुदेवादुत्पन्नो माधवः । दण्डाद्घटो जायत इत्यादौ प्रकृतिविकृतिभावाभावेऽपि पञ्चमीदर्शनात् । नात्र 'विभाषागुणेऽस्त्रियाम्' इत्यनेन पञ्चमी । तस्य गुणहेतुस्थल एव विधानात् । यदि 'विभाषा' इति योगविभागादगुणेऽस्त्रियामपि पञ्चमीनिबन्धनम्, तर्हि अनेनैवोपपत्तौ 'जनिकर्तुः प्रकृतिः' इति सूत्रवैयर्थ्यम् । यत्तु 'जनिकर्तुः प्रकृतिः' इत्यनेन प्राप्तां पञ्चमीं बाधित्वा 'हेतौ' इति तृतीयायां प्राप्तायां 'शत्रोः शत्रुरीषन्मित्रम्' इति न्यायेन तामपि बाधित्वा 'विभाषागुणेऽस्त्रियाम्' इत्यनेन वैकल्पिकपञ्चमीप्राप्तिः भाष्यानुसारेण योगविभागात्क्वचित्क्वचित्प्रयोगानुसारेणागुणेऽस्त्रियामिति चे

विद्युन्माला ममगगा यतिर्विधिमुखैर्युगैः ।

अट्टा यस्मिन्राराज्यन्ते मृष्टा रत्नैरैन्द्रैर्नूत्नैः ।
क्रीडाकीरः स्वीयं बिम्बं भित्तावन्यं बुद्ध्वा क्रुद्धः ॥ २६ ॥

भतौ लगौ माणवकं यतिर्जलधिभिर्युगैः ।

भर्ममये हर्म्यतटे शर्मसखीनर्मरताम् ।
पद्ममुखीं पद्मगृहां वेद्मि सती मूर्तिमतीम् ॥ २७ ॥

प्रमाणिका जरलगा न यतिः पादमध्यगा ।

मदेभकुम्भसंनिभस्तनद्वयीचलत्पटी ।
बरीभरीति भामिनी सखीमुखे सुखं सुखम् ॥ २८ ॥


दस्तु 'वासुदेवादुत्पन्नः' इत्यादौ, तेनैव पञ्चम्युपपत्तिरित्यलं प्रसक्तानुप्रसक्त्या । पराभूतं सत्पराजितं सत् । भृङ्गव्याजाद्भ्रमरमिषान्मूर्ध्नि शिरसि कलङ्कं धत्ते । 'डुधाञ् धारणपोषणयोः' इत्यस्माल्लट् । नूनमित्युत्प्रेक्षायाम् । 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते' इत्युक्तेः ॥ २५ ॥ विद्युन्मालेति । ममगगाः मगणमगणगुरुगुरवः । विधिमुखैश्चतुर्भिर्युगैश्चतुर्भिः ॥ अट्टा इति । येषामित्यध्याहारः । येषामट्टानां भित्तौ क्रीडाकीरो लीलाशुकः स्वीय नैज बिम्बमन्य शुकान्तरं बुद्ध्वा क्रुद्धो भवति । ऐन्द्रै रत्नैर्हरिन्मणिभिर्मुष्टा घट्टितास्तेऽट्टाः क्षौमा यस्मिन्पुरे राराज्यन्ते । 'राजृ दीप्तौ' इत्यस्माद्यङ्गन्तात्कर्तरि लट् । अत्र भ्रान्त्युदात्तयोरङ्गाङ्गिभावेन संकरः ॥ २६ ॥ भताविति । भतौ भगणतगणौ लगौ लघुगुरू । जलधिभिश्चतुर्भिः । युगैश्चतुर्भिः । माणवकमिति नाम । माणवकक्रीडितकमिति सूत्रकारः । माणवकक्रीडमिति पिङ्गलः । माणवमित्यपि केचित् ॥ भर्मेति । भर्ममये सौवर्णे । 'गाङ्गेयं भर्म कर्बुरम्' इत्यमरः । हर्म्यस्य प्रासादस्य तटे । औपश्लेषिकी सप्तमी । शर्मणा सुखेन । 'शर्मशातसुखानि च' इत्यमरः । सखीभिः सह नर्मणि । 'क्रीडा लीला च नर्म च' इत्यमरः । रतामासक्तां पद्ममिव मुखं यस्यास्तथोक्ताम् । सतीं कान्तां मूर्तिमतीं पद्मगृहां पद्मं गृहं यस्यास्तां लक्ष्मीमित्यर्थः । वेद्मीत्युत्प्रेक्षा । 'विद ज्ञाने' इत्यस्माल्लट् । अत्रानुप्रासोत्प्रेक्षयोः संसृष्टिः ॥ २७ ॥ प्रमाणिकेति । जरलगा जगणरगणलघुगुरवः । प्रमाणिकेति नाम । प्रमाणीति केचित् ॥ मदेभेति । मदविशिष्टश्चासाविभो गजस्तस्य कुम्भयोः संनिभयोः स्तनयोर्द्वय्या युग्मे चलन्ती पटी अशुकं यस्यास्तथोक्ता । 'जातेरस्त्री--' इत्यादिना ङीष् । भामिनी सख्या मुखे मुख स्वाननं सुखं यथा तथा बरीभरीति । पुनः पुनः स्थापयतीत्यर्थः । अत्र णिचोऽन्तर्नियतत्वात् णिच्कार्यं न दृश्यते । तथा च धारणानुकूलव्यापारानुकूलव्यापारो बिभर्तेरर्थः । धारणं च संयोगानुयोगित्वम् । आद्यव्यापारः सखामुखनिष्ठः द्वितीयव्यापारो भामिनीनिष्ठः । अधिकरणत्वविवक्षया मुखपदात्सप्तमी

समानिका रजगला न यतिः स्यात्पदान्तरे ।

शम्बरीकिशोरलोललोचनाञ्चलान्तरेण ।
सूचयन्त्यलं प्रियं किमप्यसौ श्रुतौ ब्रवीति ॥ २९ ॥

 अथ सकलकलाविलाससललितललनाजनलपितमालाजितशुकाकलितमञ्जुलपिञ्जरजटिलविशङ्कटविटङ्कां स्फुटतरस्फाटिककुरण्टिकाकरतलकलितकनककुम्भैरुन्नमत्कुचभारामिव, पद्मरागमणिगणरञ्जितभित्तिभिस्ताटङ्कभासुरकपोलतलामिव, विचित्रतरमुक्ताप्रवालपरिचिततोरणस्रजा मेखलाकलापलालितामिव, मरकतमणिनिचयरचितशिरोभागेन विबद्धकचभारामिव, कलिन्दनन्दिनीतुरङ्गतरङ्गभङ्गिसकूलदुकूलसंवीतसारसारसदृशां कदम्बेन कादम्बिनीमिव, सतटिद्गणामभ्रंकषभङ्गिभिः शृङ्गैर्गाहमानामिव निलिम्पपुरीम्, कामिनीजनकमनीयतमवीणानिनादैर्गायन्तीमिव, सुधाधवलिम्ना हसन्तीमिव सौधश्रेणीं वर्णयन्तं निजकान्तमप्राक्षीदायताक्षी ।

नभौ भरौ चेद्द्रुतविलम्बितं न यतिः पदि ॥


'न बरीभरीति कबरीभरे स्रजः' इत्यादिकालिदासोक्तिवत् । यद्यत्र कबरीति कबरीभरस्य स्वाङ्गत्वात्स्वत्वोपचार इत्युच्यते, तर्हि अत्रापि अतिप्रियसखीवात्स्वत्वोपचारः । रूपं तु ‘डुभृञ् धारणपोषणयोः' इत्यस्मात् धातोरेकाचः' इति यङि द्वित्वे 'यङोऽचि च' इति लुकि 'यङो वा' इतीटि 'ऋतश्च' इत्यभ्यासरीगागमे बरीभरीति इति । अत्रानुप्रासोपमयोः संसृष्टिः ॥ २८ ॥ समानिकेति । रजगला रगणजगणगुरुलघव । समानिकेति नाम ॥ शम्बरीति । शम्बरीकिशोरस्य मृगीशिशोर्लोललोचने इव स्थितयोर्लोललोचनयोश्चञ्चलनेत्रयोरञ्चलान्तरेण प्रदेशान्तेन । 'अञ्चलं च तट पुटम्' इति प्रकाशः । 'अन्तरमवकाशावधिव्यवधानान्तर्धिभेदतादर्थ्ये' इत्यमरमेदिन्यौ । प्रियमलमत्यन्तं सूचयन्ती सती । 'सूच पैशुन्ये' इत्यस्मात्स्वार्थणिजन्तात्कर्तरि शतृप्रत्ययः । श्रुतौ कर्णे । सख्या इति शेषः । किमपि ब्रवीति । 'ब्रूञ् व्यक्तायां वाचि' इत्यस्माल्लट् । अत्रौपमेयभूतस्य शम्बरीकिशोरलोचनस्य वाचकस्य चानुपादानाल्लुप्तोपमा ॥ २९ ॥ अथेति । अनन्तरम् । आयते अक्षिणी यस्यास्तथोक्ता । कलगीतप्रियेत्यर्थः । 'विशङ्कट पृथु बृहद्विशालं पृथुलं महत्' इति । 'कपोतपालिकाया तु विटङ्क पुंनपुंसकम्' इति चामरः । 'शालभङ्गी दारुगर्भा कुरण्टी दारुपुत्रिका' इति त्रिकाण्डशेषः । कलिन्दनन्दिनी कालिन्दी । भङ्गिः रीतिः । 'सकल सदृशं समम्' इति कमलाकरः । अप्राक्षीत् । 'प्रच्छ ज्ञीप्सायाम्' लुङ् ॥ नभाविति । नभौ नगणभगणौ भरौ भगणरगणौ चेत् द्रुतविलम्बितमिति नाम ॥

विरचिता किल केन पुरी पुरा रजतपीठपुरीति कथं प्रथा ।
तदसुवल्लभ वेत्तुममन्दया कुतुकमालिकया कलितं मनः ॥ ३० ॥

अथ तामिदमाह स्म कलगीतः--

हंसी मभनगाः प्रोक्ता यतिर्वेदैर्गुहाननैः ।

एणीनेत्रे तदुदयविधिं नाम्नश्चास्याः करणमखिलम् ।
वच्मि स्पष्टं शृणु हितमनाः पुण्यश्रेणीकरणकुशलम् ॥ ३१ ॥

कलगीतं सतयगाः शरैर्बाणैर्यतिर्भवेत् ॥

कमलाकान्तः स्वयमुद्भूतो जमदग्नेः सत्सदने रामः ।
परशूद्भासी धरणीभागे कुमहीपानां विशरं कर्तुम् ॥ ३२ ॥

कमला स्यात्सजजगा विच्छिन्ना सायकैः शरैः ॥

हतबाहुजां बहुधा मही प्रविधाय तां हृदि जात्वसौ ।
तदचिन्तयद्भवनाद्भुतं न पुरा कृतं भुवि कैरपि ॥ ३३ ॥



विरचितेति । हे असुवल्लभ प्राणप्रिय, इयं पुरी पुरा केन विरचिता निर्मिता । किलेति संभावनायाम् । रजतपीठपुरीति प्रथा ख्यातिः कथं केन निमित्तेन प्राप्तेत्यर्थः । तद्वेत्तुं ज्ञातुममन्दया कुतुकमालिकया कुतूहलमालया । ममेति शेषः । [मनः] कलितं युक्तम् ॥ ३० ॥ अथेति । कलगीतो गन्धर्वः । तां प्रियामिदं वक्ष्यमाणमाह स्म । 'ब्रूञ् व्यक्तायां वाचि' इत्यस्माल्लटि तिबादेशे तस्य 'ब्रुवः पञ्चानाम्' इति णलि ब्रुवश्चाहादेशः । 'लट् स्मे' इत्यनेन लिङर्थे लट् । ‘दुह्याच्पच्दण्ड्रुधिप्रच्छिचिञ्ब्रुञ्शासुजिमन्थमुषाम्’ इत्यादिना ब्रूञो योगात् 'अकथितं च' इति प्रियायाः कर्मत्वात्प्रियावाक्योत्तरं द्वितीया ॥ हंसीति । नामनिर्देशः । मभनगा मगणभगणनगणगुरवः । वेदैश्चतुर्भिः गुहाननैः षड्भिः ॥ एणीति । तस्याः पुर्याः उदयविधिमुत्पत्तिप्रकारम् । अस्याः पुर्या नाम्नश्च करण निमित्त स्पष्टं यथा तथा वच्मि । 'वच परिभाषणे' इत्यस्माल्लट् । हे एणीनेत्रे, त्वं हितं समाहितं मनो यस्यास्तथोक्ता सती पुण्यश्रेण्याः सुकृतपङ्क्त्याः करणे कृतौ कुशलं चतुरमेतदखिलं शृणु ॥ ३१ ॥ कलगीतमिति । नामैतत् । सतयगाः सगणतगणयगणगुरवः । शरैः पञ्चभिः बाणैः पञ्चभिः । कमलाकान्त इति । कमलाया लक्ष्म्या कान्तो विष्णुरित्यर्थः । स्वय जमदग्नेर्मुनेः सति शुद्धे सदने उद्भूतः सन् रामो रामनामको भूत्वा धरणीभागे भूप्रदेशे स्थितानां कुमहीपानां दुष्टराजानां विशरं नाशं कर्तु परशुना आयुधेन उद्भासी । ताच्छील्ये णिनिः । अभूदिति शेषः ॥ ३२ ॥ कमलेति । नामैतत् । सजजगाः सगणजगणजगणगुरवः ॥ हतवाहुजामिति । असौ रामः । महीं

मरालिका रयजगाः शिवातनशरैर्यतिः ॥

भार्गवस्ततः पाथसां निधावक्षिपच्छरं सारविक्रमः ।
तेन तद्गता राक्षसा हताः सोऽपि वारिधिर्दूरतो ययौ ॥ ३४ ॥

श्येनिकेति समुद्दिष्टा रज्रा ल्गौ न यतिः पदि ।

रामभोजनामकं स कंचन क्षोणिभागपालनेऽकरोत्प्रभुम् ।
संततं निजाङ्घ्रिकंजरञ्जकं मञ्जुपुण्यपुञ्जनीरनीरधिम् ॥ ३५ ॥

रञ्जितारजसा लो गो विरामः सायकर्तुभिः ॥

रामभोजराट् धरणिमण्डलं [२]शासति स्म भूसुरकदम्बकम् ।
दानवैभवैर्मधुरभाषितै रञ्जयञ्जनं निजविनीतिभिः ॥ ३६ ॥

न्यभा माणिक्यमालागावृतुभिः सायकैर्यतिः ॥


भूमिं हता बाहुजाः क्षत्रिया यस्यां तथोक्ताम् । प्रविधाय कृत्वा भुवि पुरा कैरपि न कृतं नानुष्ठित भुवनेषु लोकेष्वद्भुतमाश्चर्यकर यत् तत् । कर्तुमिति शेषः । जातु कदाचित् हृदि मनसि अचिन्तयत् । 'चिति स्मृत्याम्' इत्यस्मात्स्वार्थणिजन्ताल्लङ् ॥ ३३ ॥ मरालिकेति । नामकथनम् । रयजगा रगणयगणजगणगुरवः ॥ भार्गव इति । तत आलोचनानन्तरम् । सारः श्रेष्ठो विक्रमः पराक्रमो यस्य तथोक्तो भार्गवो रामः । पाथसां निधौ समुद्रे शरं बाणमक्षिपत् । 'क्षिप प्रेरणे' लङ् । तेन शरेण । कर्तरि करणे वा तृतीया । तद्गताः समुद्रस्थिताः । कर्तरि क्तः । राक्षसा हताः । 'हन हिंसागत्योः' इत्यस्मात्कर्मणि कर्तरि वा क्तः । किं चेत्यप्यर्थः । स प्रविष्टशरो वारिधिः समुद्रे दूरतो दूरात् । 'दूरान्तिकार्थेभ्यः' इत्यादिना प्राप्तायाः पञ्चम्यास्तसिः । ययौ 'या प्रापणे' लिट् ॥ ३४ ॥ श्येनिकेति । नामैतत् । सेनिकेति केचित् । रज्रा रगणजगणरगणाः । ल्गौ लघुगुरू ॥ रामेति । संततं निजस्याङ्घ्रिकंजस्य पादकमलस्य रञ्जकं पूजादिनालंकारिणं मञ्जु च तत्पुण्यं च तेषां पुञ्ज एव नीरं तस्य नीरधिं समुद्रं रामभोजनामक कंचन पुरुषं क्षोणिभागपालने स्वाधिष्ठितभूमिप्रदेशपलने प्रभुं राजानं स भार्गवोऽकरोत् । 'डुकृञ् करणे' लङ् परस्मैपदम् ॥ ३५ ॥ रञ्जितेति । रजसा रगणजगणसगणाः । लो लघुः । गो गुरुः । सायकर्तुभिः पञ्चभिः षड्भिः ॥ रामभोजराडिति । रामभोजनामकराज इत्यर्थः । दानवैभवैर्मधुरभाषितैर्भूसुरकदम्बक निजविनीतिभिः स्वीयविनयैः जनं रञ्जयन् धरणिमण्डलं शासति स्म । स्मयोगाद्भूतार्थे लट् ॥ ३६ ॥ न्यभा इति । न्यभा नगणयगणभगणाः ।

भृगुकुलदीपे तत्र रमापे विनिहितचित्ते श्रीभिरमत्ते ।
अवनितलेऽस्मिन्राजनि तस्मिन्भवति समृद्धं स्माशिशुवृद्धम् ॥ ३७ ॥

स्वागतं रो नभगगाः पादमध्ये यतिर्नहि ॥

एकदा सकलराजनुताङ्घ्रिर्वाजिपेयसवनं स विधातुम् ।
आरभन्भृगुकुलोत्तममेनं सप्ततन्तुविबुधं बत वव्रे ॥ ३८ ॥

तद्भुजंगप्रयातं यौ यौ यतिर्न पदान्तरे ।

नृपः कारयामास तस्यासनार्थं सुपीठं स रूप्योत्तरं त्वष्टृवर्गम् ।
दिवाकृत्सहस्रप्रभाभासमानं समस्तैश्चिरत्नैश्च रत्नैर्विचित्रम् ॥ ३९ ॥

मालिनी स्यान्नन्मययाः शिवमूर्तिस्वरैर्यतिः ॥

भृगुपरिवृढमेनं पीठमारोप्य मेनं
नतिनुतिततिपूर्वं याचयामास पूर्वम् ।
भजकसुजनबन्धो ज्ञानसिन्धो मुदन्धो
भवतु पुरविधानं रूप्यपीठाभिधानम् ॥ ४० ॥


गौ गुरुद्वयम् ॥ भृगुकुलेति । भृगुकुलस्य दीपे प्रकाशके रमापे लक्ष्मीपतौ तत्ररामे विनिहितचित्ते स्थापितचेतसि श्रीभिः सपद्भिरमत्तेऽनुद्धते तस्मिन्रामभोजेऽस्मिन्नवनितले एतस्मिन्भूभागे राजनि सति आशिशुवृद्धमाबालवृद्धं समृद्धमृद्धिमद्भवति स्म । स्मयोगे भूते लट् ॥ ३७ ॥ स्वागतमिति । नामैतत् । रः रगणः नभगगाः नगणभगणगुरुगुरवः ॥ एकदेति । कदाचिदित्यर्थः । सकलै राजभिर्नुतौ स्तुतावङ्घ्री यस्य तथोक्तः स रामभोजः वाजिपेयसवन वाजपेयाभिधयज्ञं विधातुमारभन् सन् भृगुकुलस्योत्तममेनं राम सप्ततन्तौ मखे विबुधं देवं वव्रे । 'वृञ् वरणे' इत्यस्माल्लिट् । अस्मिन्यज्ञे त्वमेव देवो भवेति याचयामासेति भावः ॥ ३८ ॥ तदिति । यौ यौ यगणचतुष्टयम् । भुजंगप्रयातमिति नाम ॥ नृप इति । स नृपः तस्य रामस्य आसनार्थं त्वष्टृवर्गं वर्धकिसमूहम् । 'हृक्रोरन्यतरस्याम्' इति द्वितीया । दिवाकृतां सूर्याणां सहस्रमिव प्रभाभिर्भासमानः चिरतनै पुराणैः । अकृत्रिमैरिति भावः । समस्तै रत्नैर्विचित्रं रूप्योत्तरं रूप्यपदोत्तरस्थितं सुशोभनपीठम् । रूप्यपीठमित्यर्थः । कारयामास ॥ ३९ ॥ मालिनीति । नन्मययाः नगणनगणमगणयगणयगणाः । शिवमूर्तिस्वरैरष्टभिः सप्तभिः ॥ भृग्विति । माया लक्ष्म्या इन प्रभु पूर्वं पुरातनं भृगूणां परिवृढं नेतारमेनं रामम् । रुह धातोर्गत्यर्थकत्वेन 'गतिबुद्धि--' इत्यादिना रामस्य कर्मत्वम् । पीठमारोप्य आरोपयित्वा नतीनां नुतीनां ततिः पूर्वा यस्मिन्निति क्रियाविशेषणम् । भजकानां सुजनानां बन्धो ज्ञानस्य सिन्धो मुदामानन्दानामन्धः । पुरवि

पृथ्वी जसौ जसयला गश्छिन्ना वसुभिर्ग्रहैः ।

इति क्षितिपतेर्वचःसरणिमादरादादद-
द्ददौ वरमरिंदमः खलु तथेति भूमीभुजे ।
तदादि सकला जना जगति रूप्यपीठाभिधां
वदन्ति नगरीमिमां कनकगौरि जानीहि तत् ॥ ४१ ॥

एवमग्रेऽप्युदाहरणान्युन्नेयानि ।

पणवो म्नौ यगौ छेदः पञ्चभिः पञ्चभिर्भवेत् ॥
आन्दोलिका ततरगाः सायकैः सायकैर्यतिः ।
मयूरसारिणी ख्याता रजरा गो न पच्छिदा ॥
मनोरमा नरजगैर्विच्छिन्ना शास्त्रसागरैः ।
कुलटा स्यान्नजनगाः पञ्चभिः पञ्चभिर्यतिः ॥
सुमुखी नजजा लो गोपृषत्कऋतुभिर्यतिः ।
दोधकं भी भगौ गः स्याज्जस्तगा ग उपस्थितम् ॥
श्रीर्भतौ नगगा यत्र महाभूतै रसैर्यतिः ।
नन्दिनी सजसैर्ल्गाभ्यां युक्ता बाणर्तुभेदिनी ॥

भ्रमरविलसितं मभनलगुरवश्छेदश्चतुर्भिरर्वद्भिः ।
मौक्तिकमाला भतनगगुरवः श्वासः शरैर्भवेन्मुनिभिः ॥

रथोद्धता रनरला गो यतिर्न पदान्तरे ।


धान नगरविधिः । नगरमिति यावत् । रूप्यपीठमित्यभिधानं यस्य तथोक्तं भवतु । प्रार्थनायां लोट् । इति याचयामासेत्यन्वयः । 'टुयाचृ याच्ञायाम्' इत्यस्माल्लिट् ॥ ४० ॥ पृथ्वीति । नामैतत् । जसौ जगणसगणौ जसयलाः । जगणसगणयगणलघवः । गः गुरुः । वसुभिरष्टभिः । ग्रहैर्नवभिः ॥ इतीति । इति क्षितिपतेः रामभोजस्य वचःसरणिमादरादाददत्स्वीकुर्वन् अरिंदमः शत्रुदमनकारी रामः । तथेति भूमीं पृथिवीं भुनक्तीति तथोक्तम् । 'भुज पालनाभ्यवहारयोः' इति क्विप् । वरं ददौ । खलु प्रसिद्धौ । तदादि तत्प्रभृति सकला जना जगति इमां नगरीं रूप्यपीठाभिधां वदन्ति । हे कनकगौरि स्वर्णवर्णे, तज्जानीहि निबोध ॥ ४१ ॥ ग्रन्थगौरवभिया निरूपणमुपसंहरति-- एवमिति ॥ इति मन्दारमरन्दव्याख्याया माधुर्यरञ्जन्याख्याया गूढकर्तृकाया समवृत्तप्रकरणं समाप्तम् ॥

भद्रिका नो नरलगा वक्त्राननसगा गुरुः ॥
रलौ भसौ चन्द्रवर्त्म हीन्द्रवंशा ततौ जरौ ।
सैश्चतुर्भिस्तोटकं स्यात्सज्ससैः प्रमिताक्षरा ॥
वैश्वदेवी ममयया यतिः सायकघोटकैः ।
नयौ नयौ च कुसुमविचित्रा भिद्रसै रसैः ॥
स्रग्विणी रैश्चतुर्भिः स्यान्नभजा रः प्रियंवदा ।
नजौ जरौ मालिनी स्यान्नजौ तामरसं जयौ ॥
ननौ मयौ स्फुटाख्यं स्याद्वसुभिर्वार्धिभिर्यतिः ।
जलोद्धतगतिर्जः सो जसौ शास्त्रै रसैर्यतिः ॥

प्रमुदितवदना नगररयुक्ता मुनिभिश्च सायकैश्छिन्ना ।
वनमालिनीति सोक्ता नजभययुक्तार्वसायकैश्छिन्ना ॥

मणिमाला तयतयाश्छिना स्कन्दास्यदर्शनैः ।
जलमाला भूभमसाः सागरैर्वसुभिर्यतिः ॥
मता नरौ नरौ भिन्ना वजकोणैर्गुहाननैः ।
ललना स्याद्भतनसैश्छिन्ना स्वर्द्रुमहीधरैः ॥
ललिता स्यात्तभजरैरुज्ज्वला तु नभौ भरौ ।
प्रभा ननौ तथा रेफौ विरतिर्मुनिसायकैः ॥
प्रहर्षिणी मनौ ज्रौ गो गङ्गाध्वककुभिर्यतिः ।
मत्या मत्तमयूरं स्गौ वर्णव्याघ्रीस्तनैर्यतिः ॥
न विच्छिन्ना पदि सजसजगा मञ्जुभाषिणी ।
उर्वसी नस्ततरगा राज्याङ्गैर्ऋतुभिर्यतिः ॥
क्षमा ननौ ततौ गः स्यात्तुरङ्गमरसैर्यतिः ।
ज्भौ सरौ गोऽतिरुचिरा चतुर्भिर्नवभिर्यतिः ॥
चञ्चरीकावली प्रोक्ता यमौ रेफद्वयं गुरुः ।
चन्द्रिका ननतास्तो गश्छेदस्तुरगदर्शनैः ॥
चतुर्भिर्नवभिश्छिन्ना रतिः सभनसा गुरुः ।

मोहप्रलापः श्रुतिभिर्ग्रहैर्भिन्नो मभत्रिगाः ॥
कलहंसीतयसभाः गौ यती रससिद्धिभिः ।
पथ्या सजसयल्गैः स्यात्ककुब्भिः श्रुतिभिर्यतिः ॥
असंबन्धा मतन्सा गौ पञ्चभिर्नवभिर्यतिः ।
ननराः सलगाश्छिन्ना स्वराश्वैरपराजिता ॥
बुधैरुक्ता प्रहरणकलिका नन्भना लगौ ।
प्रोक्तेन्दुवदना प्राज्ञैर्भजस्नैः सगुरुद्वयैः ॥
अलोला स्यान्मसमभगगाश्छिन्ना स्वरैर्हयैः ।
नन्ना नसौ मणिगुणनिकरोऽहिहयैर्यतिः ॥
चामरं रो रजजरा वा द्वीपवसुभिर्यतिः ।
प्रभद्रकं नजौ भज्राः पञ्चभैः स्वरिणी रुचिः ॥
रेखा सजनना यश्च सायकैर्दशभिर्यतिः ।
म्रौ मयौ यश्चन्द्रसेना घोटकैर्वसुभिर्भिदा ॥
मन्दाकिनी त्मयर्ता गो वेदैर्वेदयतिर्भवेत् ।
प्रमदा सत्यसभगा वर्णैर्वर्णयतिर्भवेत् ॥
न्मौ जस्नगाः सुललिता युगैर्युगयतिर्भवेत् ।
स पञ्चचामरो ज्रौ ज्रौ जगौ छेदो न वापदि ॥

भरनननगयुक्तं गजविलसितमाहुः स्वरैर्घनैश्छिन्नम् ।
नजभजरगसंयुक्ता सप्तभिरभ्रैश्च वाणिनी छिन्ना ॥

मन्दाक्रान्ता मभ्नतास्तो गावब्धिषडगैर्यतिः ।
यम्नाः सभ्लाः शिखरिणी गोरसैः शंकरैर्यतिः ॥
हरिणी न्सम्रसलगाः षडब्धिभुवनैर्यतिः ।
तन्नर्कुटकमाख्यातं नज्भैर्जजलगैर्युतम् ॥

तद्वंशपत्त्रपतितं भरनभनल्गं च दिङ्मुनिच्छिन्नम् ।
कथितं च घनमयूरं ननभसरलगं स्वरै रसैश्छिन्नम् ॥

मो लौ यौ यः कुसुमितलता भूतर्त्वगैर्यतिः ।

शुभं सनजना भः सः पापाङ्गाङ्गगुणैर्यतिः ॥
रतौ जजौ भरौ सिद्धिबाणाक्षैर्हरनर्तनम् ।
नद्वया च चतूरेफा निशा स्याद्दिग्वसुच्छिदा ॥
मल्लिका स्याद्रसजजा भरौ छिन्नाष्टपङ्क्तिभिः ।
विलासो मः ससौ राश्च गुणषड्वसुभिर्यतिः ॥
मेघविस्फूर्जिता यम्नाः स्ररगाभिद्रसर्त्वगैः ।
शरत्रयैर्युगैश्छिन्ना जन्भस्नज्गा वरूथिनी ॥
नवभिर्दशभिश्छिन्नं सरलं न्भ्रसजा जगौ ।
मत्तेभविक्रीडितं स्म्रन्म्यल्गा विश्वाश्वभेदनम् ॥

मदकलनी नजनभसा नलगाश्छिन्ना शराङ्गबाणाङ्गैः ।
कनकलता सा कथिता षण्नैर्युक्ता तथा लगाभ्यां च ॥

भ्रन्भभ्रल्गा ग्रहै रुद्रैर्विच्छिन्नोत्पलमालिका ।
म्रभ्नैः सुवदना यभ्लैर्गेनार्वाश्वारिभिद्युता ॥
रजत्रयलगैर्युक्तं मालवं केचिदूचिरे ।
वेश्यारत्नं तनललैर्गाभ्यां षट्षड्षडङ्घ्रिभित् ॥

मरभनया यौ मुनिमुनिमुनिभिः स्यात्स्रग्धरा विभिन्नाङ्गी ।
सुरनर्तकी रनरना रनरा विरती रसर्तुशास्त्रगुणैः ॥
मत्तेभाख्यं तभयजसरनगयुक्तं स्वरार्वफणिभिन्नम् ।
भरनरनरनगयुक्तं चुम्बनसूर्यैः प्रभद्रकं भिन्नम् ॥

मदिरा सप्तभगणैर्गुरुणान्तेऽपि संयुता ।
तुरंगना लगौ माध्वी मासै रुद्रैश्च वा यतिः ॥

नगणेन तर्कजलगै रुद्रर्तुरसैर्यतिः सुधालहरी ।
नजभजसजनलगयुतं रुद्रार्कैर्भिन्नमश्वललिताख्यम् ॥

घोटकाख्यं वृत्तमिदमष्टभिः सगणैर्युतम् ।
स्वैरिणीक्रीडनं प्रोक्तमष्टभी रगणैर्युतम् ॥

वेश्याप्रीतिर्मभयमनभनसयुक्ताहिफणिगजैश्छिन्ना ।
कलकण्ठाख्यं सजनजभनरनगाश्चाहिभोगिनिधिभिन्ना ॥

चेटीगतिश्च गायत्री या लगौ छिदिनैर्मृगैः ।
भ्नज्नस्नन्भगगैरर्वार्वार्वेषुभिदि रञ्जनम् ॥
लालिनी स्याद्रसजगा वालिका तु रनौ सगौ ।
तन्वी शरमुनीनैश्छिद्भस्मभनयैर्युता ॥

इति समवृत्तप्रकरणम् ।

नगणद्वितयं त्वादौ सप्त रेफास्ततो यदि ।
चण्डवृष्टिप्रयाताख्यो दण्डकश्चतुरङ्घ्रिकः ॥
नद्वयादष्टरैरर्णो नवरैरर्णवो मतः ।


 अथ दण्डकनिरूपणं कुर्वन्नादौ चण्डवृष्टिप्रयातलक्षणमाह--- नगणेति । अदौ नगणद्वितयं [नगण] द्वयं ततः सप्त रेफा सप्त रगणा यदि, तर्हि चण्डवृष्टिप्रयाताख्यो दण्डको भवति । ननु सामान्यलक्षणमनुक्त्वा विभक्तभेदलक्षणकथनमयुक्तमिति चेदाह-- दण्डकश्चतुरङ्घ्रिकः इति । अङ्घ्रित्व चात्रैकोनसहस्रवर्णाधिकवर्णानात्मकत्वे सति सप्तविंशतिवर्णन्यूनवर्णानात्मकत्वे सति वर्णात्मकत्वम् । वृत्तपादातिप्रसङ्गवारणाय द्वितीयं दलम् । गद्यादिवारणायाद्यं दलम् । ध्वनिशब्दवारणाय वर्णात्मकत्वम् । यद्यपि एकन्यूनसहस्रवर्णाद्यात्मके गद्येऽतिप्रसङ्गस्तथापि वर्णात्मकत्वमित्यस्य नगणद्वयाव्यवहितोत्तररगणसजातीयगणघटितवर्णात्मकत्वविवक्षणान्न दोषः । साजात्य च गणविभाजकतावच्छेदकमत्त्वादिना । अव्यवहितोत्तरत्वनिवेशान्न पादाभासेऽतिप्रसङ्गः । तथा चैतादृशपादचतुष्टयवत्त्वं सामान्यलक्षणम् । प्रथमाङ्घ्रिसदृशद्वितीयाङ्घ्रिसदृशतृतीयाङ्घ्रिसदृशचतुर्थाङ्घ्रिमत्त्वमिति निष्कर्षः । तेन विषमिते दण्डकाभासे नातिप्रसङ्गः । सादृश्यं च स्वविशिष्टगणमात्रघटितत्वेन । गणे स्ववैशिष्ट्यं च स्वघटकगणगतसख्याक्रमोभयविशिष्टत्वबन्धेन । नन्वर्धसमे विषमे च दण्डकेऽव्याप्तिरिति चेन्न । तस्यालक्ष्यत्वात् । प्राचीनै रामकीर्तिगोमानसादिभिः समपादचतुष्टयस्यैव दण्डकत्वेनोक्तत्वादिति संक्षेपः । इत्थं च नगणद्वयोत्तररगणसप्तकघटितपादचतुष्टयवत्त्वं चण्डवृष्टिप्रयातस्य लक्षणं बोध्यम् । मादिगणद्वयोत्तररगणसप्तकघटिते दण्डकाभासेऽतिव्याप्तिवारणाय नगणद्वयोत्तरत्व रगणसप्तके विशेषणम् । वृत्तेऽतिव्याप्तिवारणाय घटितान्त पादविशेषणम् । दण्डकार्धवारणाय चतुष्टयपदम् । एवमैवाग्रेऽपि लक्षणं परिष्करणीयम् । उदाहरणं तु विस्तरभयान्न निरूपितं ग्रन्थकारेण । वयं त्वस्य ब्रूमहे--

कमलनयन केशवानन्त गोविन्द विष्णो हरे पाहि मां सर्वदा सर्वथा
परमपुरुष भोर्भवाम्भोधिमध्ये निमज्जन्तमत्यन्तमाम्नायवेद्योत्तम ।
कथमिह भुवि मामनाथ भवत्पादपद्मार्पितस्वान्तभृङ्ग वदोपेक्षसे
त्रिभुवनजनपालने नित्ययुक्तो भवान्सद्दयानीरधे श्रीनिधे कान्तिधे ॥

एवमन्यत्राप्युदाहरणान्युन्नेयानि ॥ नद्वयादिति । सर्वत्रान्वेति । अष्टररष्टमी रगणैः ॥

दशरैर्व्याल आख्यातो जीमूतो रुद्ररैर्मतः ॥
लीलाकरः सूर्यरैः स्यादुद्दामो विश्वरैर्मतः ।
मनुरैः शङ्खनामा स्यात्तिथिरैः पद्मको मतः ॥
एवमेकैकरगणवर्धनात्सकलाङ्घ्रिषु ।
एकन्यूनसहस्रार्णपर्यन्तं दण्डका मताः ॥
गणसप्तकसंयुक्तो नद्वयाद्रगणं विना ।
बुधैः प्रवितकः ख्यातः कैश्चिद्यैः सप्तभिर्युतः ॥
नगणद्वितयादेतदेकैकगणवर्धनात् ।
कुमुदाब्जतरङ्गादिनाम्ना भेदाश्च पूर्ववत् ॥

इति दण्डकप्रकरणम् ।

उपचित्रा ससौ सल्गा ओजे युजि भभा गुरू ।
द्रुतमध्या भत्रयं गावोजेऽन्यत्र नजौ जयौ ॥
ओजे वेगवती सागः समे तु भभसा गगौ ।
ओजे भद्रविराट् तज्रा गो नोजे मसजा गगौ ॥
ओजे केतुमती सज्सा गोऽनोजे भरताः सगौ ।
ओजे वियोगिनी सौ ज्गावनोजे सभरा लगौ ॥


एवमग्रेऽपि ॥ गणसप्तकेति । नद्वयान्नगणद्वयोत्तर रगणं विना । ‘पृथग्विनानानाभिस्तृतीयान्यतरस्याम्' इति द्वितीया । गणसप्तकेन युक्तः प्रवितकनामा दण्डको भवति । कैश्चित्केदारादिभिः । यैर्यगणैः ॥ इति माधुर्यरञ्जन्यां दण्डकप्रकरणम् ॥

 अथ दण्डकस्यापि समपादचतुष्टयवत्त्वेन समवृत्तकथनानन्तरमधुनार्धसमवृत्तानि क्रमप्राप्तानि लक्षयति । सामान्यलक्षणं तु पूर्वमेवोक्तमिति । तद्भेदेषु प्रथमं तावदुपचित्रालक्षणमाह-- उपचित्रेति । ओजे विषमे ससौ सगणद्वयं सल्गाः सगणलघुगुरवः । युजि समे समपादयोरित्यर्थः । भभा भगणत्रयं गुरू गुरुद्वयं यदि तर्हि उपचित्रा नाम वृत्तं भवति । एवमग्रेऽपि बोध्यम् । अत्र केषाचिद्भद्रविराडादीनामौपच्छन्दसिकादिभ्यो वैतालीयभेदेभ्योऽभेदेऽपि गणनियमानियमरूपोपाधिभेदाद्भेदो बोध्यः । अत एव केदारोऽपि औपच्छन्दसिक विराड्वृत्तमप्याह स्म । अत एव पिङ्गलोऽप्युवाच--'वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः । पुष्पिताग्राभिध केचिदौपच्छन्दसिकं तथा ॥' इति । इदमेव वृत्तं रत्नाकरेऽप्युदाहृतम् ॥ इति माधुर्यरञ्जन्यामर्धसमवृत्तप्रकरणम् ॥

ओजे सौ सलगा युक्ते नभभ्रा हरिणप्लुता ।
अयुज्यपरवक्त्रं नौ रल्गा युजि नजौ जरौ ॥
पुष्पिताग्रा ननरया युक्ते तु नजजा रगौ ।
ओजे परावती रज्रा जोऽनोजे तु जरौ ज्रगाः ॥
ओजे सज्सजगा युक्ते सज्ससा मितभाषिणी ।
फलिताग्रं गाधिकान्ते वियोगिन्येव साङ्घ्रिषु ॥
सभतैर्यसभैर्गाभ्यां युक्ता विषमपादयोः ।
सभतैर्यससैर्युक्ता कलिकाललिता युजोः ॥

इत्यर्धसमवृत्तप्रकरणम् ।

आद्यपादेऽष्टवर्णाः स्युर्युग्माद्येषूत्तरोत्तरम् ।
अधिकाश्च चतुर्वर्णा नियमो लगयोर्न चेत् ॥
विबुधास्तत्पदचतुरूर्ध्वाख्यं वृत्तमूचिरे ।
अपीडोऽत्रैवान्त्यवर्णौ गावन्ये ला यदाङ्घ्रिषु ॥
आदौ गुरू न चान्ते चेत्प्रत्यापीडो भवेदयम् ।
आपीडाद्यद्वितीयाङ्घ्री यदि विनिमयात्कृतौ ॥
तदा तु कलिकेत्युक्ता मण्डरीत्यपि कैश्चन ।
आपीडस्यैवाद्यपादस्तृतीयश्चेत्तृतीयकः ॥
द्वितीयश्चेद्द्वितीयोऽपि यदादिर्लवलीति सा ।
आपीडस्यादिमस्तुर्यस्तुरीयश्चेत्तृतीयकः ॥
तृतीयोऽपि द्वितीयोऽङ्घ्रिर्द्वितीयः प्रथमो यदि ।
उक्ता सामृतधारेति मञ्जरीत्यपि कैश्चन ॥

इति विषमे पदचतुरूर्ध्वप्रकरणम् ।

 अथ क्रमप्राप्तान्विषमवृत्तभेदानाह–- आद्येति । युग्माद्येषु द्वितीयतृतीयचतुर्थेष्वित्यर्थः । यस्यादिमपादोऽष्टवर्णात्मकः, द्वितीयो द्वादशवर्णात्मकः, तृतीयः षोडशवर्णात्मकः, चतुर्थो विंशतिवर्णात्मकः । किं च गुरुलघुनियमाविशिष्टाः सर्वे पादाश्चेत्पदचतुरूर्ध्वनामकं वृत्तं भवति ॥ आपीड इति । अन्येऽन्त्यवर्णद्वयभिन्नाः । ला लघवः । अतः पूर्वस्मादस्य भेदः । एवमग्रेऽपि । इति माधुर्यरञ्जन्यां पदचतुरूर्ध्वप्रकरणम् ॥

प्रथमे सजसा लश्चेद्द्वितीये नसजा गुरुः ।
तृतीये भ्नज्लगास्तुर्ये सज्सगैः सहितोद्गता ॥
उद्गतायास्तृतीयोऽङ्घ्रिरन्भगैः सहितो यदि ।
तदा सौरभकं ब्रूतेऽन्ये सौरलकमूचिरे ॥
उद्गतायास्तृतीयोऽङ्घ्रिर्नन्ससैर्ललितं मतम् ।
उद्गतायाश्चतुर्थोऽङ्घ्रिर्ननन्गैः सरलं मतम् ॥

इत्युद्गताप्रकरणम् ।

आद्ये मसजभैर्गाभ्यां द्वितीये स्नज्रगैर्युतम् ।
तृतीये ननसैर्युक्तं तुर्ये त्रिनजयैर्यदि ॥
उपस्थितप्रकुपितं तमाहुः पूर्वसूरयः ॥
अस्यैवाङ्घ्रिस्तृतीयश्चेन्ननसैर्ननसैर्युतः ।
तदा तु वर्धमानाख्यं वृत्तं पूर्वे बभाषिरे ॥
तार्तीयीकस्तु तस्याङ्घ्रिस्तजरैः संयुता यदि ।
वृत्तं वदन्ति तच्छुद्धविराडार्षभनायकम् ॥

इत्युपस्थितप्रकुपितप्रकरणम् ।

प्रोक्तान्येतानि विषमवृत्तानि प्रस्फुटं विना ।
अन्यान्यसमवृत्तानि गाथाः प्राहुर्मनीषिणः ॥

इति विषमवृत्तप्रकरणम् ।

 अथ मात्राच्छन्दः कथ्यते--

ओजे गणत्रयं पादे द्वितीये तच्चतुष्टयम् ।
गुरुश्चतुर्थेऽपि तथा किं तु लोऽत्र तृतीयके ॥
विषमे जगणो नात्र पथ्यार्या संप्रकीर्तिता ॥


 उपसंहरति-- प्रोक्तानीति । प्रस्फुटं यथा तथा प्रोक्तानि एतानि विषमवृत्तानि विना अन्यानीतराणि असमवृत्तानि विषमवृत्तानि मनीषिणः गाथाः प्राहुरित्यन्वयः । इति माधुर्यरञ्जन्या विषमवृत्तप्रकरणम् ॥

 इदानीं मात्राछन्दोभेदाल्लक्षयन्प्रतिजानीते-- अथेति । मात्रागणघटितत्वं लक्षणम्, आर्याद्यन्यतमत्वं वा । मात्रागणलक्षणं तु स्वयमेवाग्रे वक्ष्यति । तत्रादौ पथ्यालक्षणमाह-- आज इति । ओजे विषमे पादे गणत्रयम् । अत्र सर्वत्रापि मात्रागण एव गणपदेन ज्ञेयः ।

गणत्रयं समुल्लङ्घ्य विषमश्चरणो यदि ।
द्वयोः शकलयोरेनां विपुलार्या प्रचक्षते ॥
द्वितीयावोजयोर्यत्र समयोरादिमौ तथा ।
जगणौ संप्रकाशेते चपलार्येति सा मता ॥
चपला लक्षणं त्वाद्ये पथ्यालक्षणमन्तिमे ।
शकले स्यात्तर्हि मुखचपलेति प्रकीर्तिता ॥
पथ्यार्यालक्षणं त्वाद्ये चपलालक्ष्म चान्तिमे ।
दले यदि स्याज्जघनचपलेति प्रकीर्तिता ॥

इत्यार्याप्रकरणम् ।

गीतिः पथ्यादिमदललक्षणं दलयोर्यदि ।
उपगीतिस्तु दलयोः पथ्यार्योत्तरलक्ष्म चेत् ॥
उद्गीतिः स्याच्छकलयोः पथ्याया व्यत्यये सति ।
आर्यागीतिस्तु पथ्याया आद्यंशे गुरुणाधिके ॥
यत्रैकद्वित्रिमात्राणामाधिक्ये प्रथमे पदि ।
तदा विगीतिः कथिता द्वितीये चेत्सुगीतिका ॥
तृतीये त्वतिगीतिः स्याच्चतुर्थे स्वरगीतिका ।
कटुगीतिस्त्वोजयोश्चेत्समयोर्मधुगीतिका ॥
यदि द्वितीयादिमयोर्बालगीतिरुदाहृता ।
वक्रगीतिस्तु कथिता चेत्तृतीयचतुर्थयोः ॥

इति गीतिकाप्रकरणम् ।


द्वितीये तच्चतुष्टयं मात्रागणचतुष्टयं गुरुश्च । चतुर्थे पादेऽपि तथा गणचतुष्टयं गुरुश्च । अत्र द्वितीयाद्विशेषमाह-- किं त्विति । अत्र चतुर्थपादो तृतीयके तृतीयगणस्थाने । लो लघुरेक एवेत्यर्थः । अत्रासमपादयोर्विषमे विषमस्थाने जगणो न भवति । तर्हि पथ्यार्येति संप्रकीर्तिता । अयं भावः विषमयोः ॥

 गीतिकालक्षणमाह-- गीतिरिति । दलयोः प्रथमद्वितीययोः । अत्र सर्वत्र दलपदं वृत्तार्धपरम् । उपगीतिरिति । पथ्यार्योत्तरलक्ष्म ॥ पथ्यार्योत्तरदललक्षणम् ॥ इति गीतिप्रकरणम् ॥

उक्ताचलधृतिः प्राज्ञैर्द्व्यष्टाभिर्लघुभिर्युता ।
जो वा नलौ वा विश्लोकः ख्यातो मात्राचतुष्टयात् ॥
जो वा नलौ वा द्व्यब्धिभ्यो मात्राभ्यो वा नवासिका
लघुश्चेन्नवमश्चित्रा तथैवाष्टमपञ्चमौ ॥
उपचित्रा तु मात्राभ्यो वसुभ्यो भगणो यदि ।
कथं वा द्व्यष्टमात्राभिः पादाकुलकमिष्यते ॥

इति मात्रासमके षोडशमात्राप्रकरणम् ।

रुचिरा लघवो यत्र विंशतिश्चेत्पुनर्नव ।
अष्टाविंशतिलैर्गेन युतं शिखितमुच्यते ॥
त्रिंशल्लैर्गेन युक्तं तु गुणितं परिकीर्तितम् ।
विषमे शैखितं युक्ते गौणितं यदि सा शिखा ॥
अस्यां तु विपरीतायां खजेति परिकीर्त्यते ।
गुरवः षोडशायुक्ते द्वात्रिंशल्लघवो युजि ।
यदि स्युर्ब्रुवतेऽनङ्गक्रीडां तां तु मनीषिणः ॥

इति मात्रासमके त्रिंशन्मात्राप्रकरणं मात्रासमप्रकरणं च ।

ओजयोः पादयोरादौ षण्मात्रा रलगा अथ ।
युक्तयोः पादयोरादावष्टमात्रा रलौ गुरुः ॥


 अथ मात्रासमकभेदानाह-- तत्रादौ षोडशमात्रावृत्तभेदानाह--उक्तेति । द्व्यष्टाभिः षोडशभिः लघुभिर्युता प्राज्ञैरचलधृतिरित्युक्ता । जो वेति । मात्राचतुष्टयात् जो वा जगणो वा । नलौ वा नगणलघू वा यदि तर्हि विश्लोको नाम वृत्तं भवति । अस्य षोडशमात्रात्मकत्वं सर्वं मिलित्वा एकपादस्य नियतमेव । एतादृशपादचतुष्टयात्मकं वृत्तं भवति । एवमग्रेऽपि । द्व्यब्धिभ्यो मात्राभ्यः अष्टमात्राभ्य इत्यर्थः । वसुभ्यः अष्टाभ्यः । कथं वेति । गुरुलघुनियमो नास्तीत्यर्थः । इति षोडशमात्राप्रकरणम् ॥

 अथ त्रिंशन्मात्रावृत्तान्याह-- रुचिरेत्यादिना । ननु त्रिंशन्मात्रावत्त्वाभावादस्य पादस्य कथं त्रिंशन्मात्रावत्त्वमिति चेत् । अष्टाविंशतिमात्रामारभ्य द्वात्रिंशन्मात्रापर्यन्तं त्रिंशन्मात्रोपचारः पूर्वैरङ्गीकृत इति न विरोधः । इति त्रिंशन्मात्राप्रकरणम् ॥

 अथ वैतालीयं लक्षयति-- ओजयोरित्यादिश्लोकत्रयेण । ओजयोः पादयोः विषमपादयोः, युक्तयोः पादयोः समपादयोरित्यर्थः । एतयोः समपादयोः केवलं लघवः नैव ।

केवलं नैव लघवस्त्वेतयोराद्यषट्कलाः ।
समस्तेष्वपि पादेषु द्वितुर्यारिस्थिताः कलाः ॥
त्रिबाणसप्तमस्थानस्थितैश्च त्रुटिभिः सह ।
गुरुत्वं न भजेयुश्चेद्वैतालीयं प्रकीर्तितम् ॥
औपच्छन्दसिकं प्रोक्तं सर्वत्रान्ते रयौ यदि ।
आपाताली कीर्तितेयं पर्यन्ते भगगा यदि ॥
द्वितीयगुणयोरेको गुरुश्चेद्दक्षिणान्तिका ।
उदीच्यवृत्तिः कथिता तादृग्गश्चेदयुग्मयोः ॥
युग्मयोः प्राच्यवृत्तिस्तु गुरुश्चेत्तूर्यबाणयोः ।
उदीच्यप्राच्यवृत्त्योस्तु पादयोर्विषमौ समौ ।
समौ चेद्यदि तद्वृत्तं प्रवृत्तकमितीर्यते ॥

इति वैतालीयप्रकरणम् ।


द्वितूर्यारिस्थिताः द्वितीयचतुर्थषष्ठस्थानस्थिताः कलाः मात्राः । त्रिबाणसप्तमस्थानस्थितैः तृतीयपञ्चमसप्तमस्थानस्थैः । त्रुटिभिः मात्राभिः । 'स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः' इत्यमरः । गुरुत्वमेकगुरुभावम् । अयं भावः-- प्रथमतृतीयपादयोरादौ षण्मात्राः ततो रगणलघुगुरवः । द्वितीयचतुर्थपादयोरादावष्टमात्रास्ततो रगणलघुगुरवः । किं च द्वितीयचतुर्थषष्ठस्थानिकास्तृतीयपञ्चमसप्तमस्थानिकाभिर्मात्राभिः सहैकगुरुत्वं न भजेयुश्चेद्वैतालीयं वृत्तं भवति । अत्र समपादादिमात्रा गुरुणा मिश्रिता भवेयुरित्यनेन विषमपादादिमात्राः केवलं लघुरूपा अपि न दोषः । यथा मदीये पाण्डुरङ्गविलासे-- 'अधुनार्यनिदेशवर्तिनी सखि पश्यानुभवामि बल्लवि । गिरिसारकठोरपञ्जरस्थितिखिद्यच्छुककामिनीदृशाम् ॥' 'औपच्छन्दसिकमिति । नामैतत् । सर्वत्र पादचतुष्टये । आपातालीति । नामैतत् । पर्यन्ते मात्रान्ते । अत्रापि सर्वत्रेत्यनुषज्यते । द्वितीयगुणयोः द्वितीयतृतीयस्थानिकयोर्मात्रयोः स्थाने एक एव गुरुः । दक्षिणान्तिकेति नाम । उदीच्यवृत्तिरिति । नामैतत् । अयुग्मयोर्विषमयोः । पादयोरित्यर्थः । तादृग्गश्चेद्द्वितीयतृतीयस्थानिकमात्राद्वयस्थानिकैकगुरुश्चेदित्यर्थः । तथा च दक्षिणान्तिकापादचतुष्टयेऽप्येतादृशगुरुः उदीच्यवृत्तेस्तु विषमचरणयोरेवायं गुरुरिति विशेषः । उदीच्येति । विषमौ समौ च पादौ उदीच्यप्राच्यवृत्त्योः पादयोः समौ चेत्प्रवृत्तकमित्यन्वयः । तथा उदीच्यवृत्तिविषमपादयोर्विषमपादौ समौ प्राच्यवृत्तिसमपादयोः समपादौ समौ चैत्प्रवृत्तकमिति भावः । एषु सर्वेष्वप्यन्यत्सर्वं वैतालीयसदृशमेव बोध्यम् । किं चात्रावधेयम् । एतत्प्रवृत्तसमपादसदृशपादचतुष्टयसत्त्वेऽपि प्रवृत्त

सर्वपादेषु न स्यातां नसावाद्याक्षरात्परम् ।
अब्ध्यक्षरेभ्यो यगणो वक्त्रमाहुरनुष्टुभि ॥
युजोरब्धेर्जकारश्चेत्पथ्यावक्त्रमुदाहृतम् ।
ओजयोरब्धितो जश्चेद्विपरितादि तन्मतम् ॥
चपलावक्त्रमयुजोः समुद्रान्नगणो यदि ।
युग्मयोः सप्तमो लश्चेत्सा युग्मविपुला मता ॥
सर्वेषु सप्तमो लश्चेदपि सैवोदिता बुधैः ।
अब्धेस्तश्चेत्तविपुला रश्चेद्रविपुला मता ।
भश्चेद्भविपुला प्रोक्ता नश्चेन्नविपुला मता ॥

इति वक्त्रप्रकरणम् ॥

जलजनिजनिजायाप्रेमपाकेन गोपीजनमनसिजकेलीलम्पटे लम्पटेन ।
गुहपुरनिलयेन प्रोद्धृतो वृत्तबिन्दुः सुरकुसुममरन्दे चारुचम्पूप्रबन्धे ।

 इति श्रीमद्घटिकाशतशतघण्टाविहिताष्टभाषाचरणनिपुणस्य वासुदेवयोगीश्वरस्यान्तेवास्यन्यतमस्य गुहपुरवासशर्मणः कृष्णशर्मणः कवेः कृतौ मन्दारम(क)रन्दे चम्पूप्रबन्धे वृत्तबिन्दुः प्रथमः समाप्तिमगमत् ।


कमेव । एतद्विषमपादसदृशपादचतुष्टयसत्त्वेऽपि प्रवृत्तकमेवेति । केचित्तु इमौ भेदौ परान्तिकाचारुहासिनीनामकावाहुः । इति वैतालीयप्रकरणम् ॥

 वक्त्रभेदानाह–- सर्वेति । सर्वपादेषु आद्याक्षरात्परमाद्यवर्णोत्तरं नसौ नगणसगणौ न स्याताम् । अब्ध्यक्षरेभ्यश्चतुर्वणेभ्यः परं यगणश्चेद्वक्त्रं नाम वृत्तं भवति । अत्राद्यवर्णो गुरुर्लघुर्वा ततः नगणसगणौ विना यथेच्छमेको गणस्ततो यगणस्तदुत्तरं गुरुः लघुर्वा स्थाप्य इत्यर्थः । अत एवोक्तमनुष्टुभीति । अनुष्टुप्छन्दस्येवेमे भेदा भवन्ति न त्वन्यछन्दसीत्यर्थः । यद्यपीदं वर्णच्छन्दस्येव वक्तव्यं तथापि यथा मात्राछन्दसि लघुगुरुनियमो नास्ति तथात्रापीति मात्राछन्दोनिरूपणावसर एवोक्तम् । एव चैतादृशपादचतुष्टयवत्त्वं वक्त्रस्य लक्षणं बोध्यम् । यथा-- 'रमाकान्तमुदाराङ्गराधाविहारसंतुष्टम् । नमाम्येनं सदा विघ्नशान्त्यै कमलसद्वक्त्रम् ॥' एवमग्रेऽपि । युजोरिति । अब्धेश्चतुरक्षरादित्यर्थः । जकारो जगणः । अन्यत्सर्वं वक्त्रवदेव । एवमग्रेऽपि । विपरीतादि तदिति । विपरीतपथ्यावक्त्रमित्यर्थः । युग्मयोरिति । समपादयोरित्यर्थः । अस्य पथ्यावक्त्रेणैव चारितार्थ्येऽपि संज्ञान्तरसूचनाय विपुलाधिकारे पुनरप्युक्तिरिति ज्ञेयम् । पिङ्गलाचार्यमतमाह-- सर्वेष्विति । सैव युग्मविपुलैव । इति वक्त्रप्रकरणम् ॥

इमं वृत्तबिन्दुमुपसंहरति--- जलजनीति । जले जनिर्यस्य तस्मिन् जनिरुत्पत्तिर्यस्य

  1. अस्याश्च चम्प्वाष्टीकायाश्च पुस्तकमेकैक बङ्गलूरुनगरवास्तव्यपण्डितवर्यश्रीयुतकुण्डलगिर्याचार्यैः काव्यमालार्थं प्रेषितमिति तेषामुपकार सधन्यवाद प्रकाशयामः.
  2. 'गणकार्यमनित्यम्' इत्येतदाश्रित्येदम्. 'शास्ति स स्म' इति पाठ एव केनचित्पर्यावर्तितो भवेत्.