सामग्री पर जाएँ

मन्त्रब्राह्मणम्

विकिस्रोतः तः
मन्त्रब्राह्मणम्
[[लेखकः :|]]

Chapter: 1
1
1.1.1: Abend- und Morgenopfer.


 1
अ देव सवितः प्रसुव यज्ञं
   देव सवितर् प्र-सुव यज्ञम्

ब् प्रसुव यज्ञपतिं भगाय।
   प्र-सुव यज्ञ-पतिम् भगाय।

च् दिव्यो गन्धर्वः केतपूः केतं नः पुनातु
   दिव्यस् गन्धर्वस् केत-पूष् केतम् नस् पुनातु

द् वाचस्पतिर् वाचं नः स्वदतु ॥
   वाचस्-पतिष् वाचम् नस् स्वदतु ॥


1।1।2 - 1।4।5: होछ्zएइत्।


 2
अ काम वेद ते नाम मदो नामासि
   काम वेद ते नाम मदस् नाम असि

ब् समानयामुँ सुरा ते अभवत्।
   सम्-आ=नय अमुम् सुरा ते अभवत्।

च् परम् अत्र जन्माग्ने तपसो निर्मितोऽसि ॥ स्वाहा ॥
   परम् अत्र जन्म अग्ने तपसस् निष्-मितस् असि ॥ स्वाहा ॥

 3
अ इमं त उपस्थं मधुना सँसृजामि
   इमम् ते उपस्थम् मधुना सम्-सृजामि

ब् प्रजापतेर् मुखम् एतद् द्वितीयम्।
   प्रजा-पतेष् मुखम् एतत् द्वितीयम्।

च् तेन पुँसोऽभिभवासि सर्वान्
   तेन पुँसस् अभि-भवासि सर्वान्

द् अवशान् वशिन्य् असि राज्ञी ॥ स्वाहा ॥
   अ-वशान् वशिनी असि राज्ञी ॥ स्वाहा ॥

 4
अ अग्निं क्रव्यादम् अकृण्वन् गुहानाः
   अग्निम् क्रव्य-अदम् अकृण्वन् गुहानास्

ब् स्त्रीणाम् उपस्थम् ऋषयः पुराणाः।
   स्त्रीणाम् उपस्थम् ऋषयस् पुराणास्।

च् तेनाज्यम् अकृण्वँस् त्रैशृण्गं त्वाष्ट्रं
   तेन आज्यम् अकृण्वन् त्रै-शृण्गम् त्वाष्ट्रम्

द् त्वयि तद् दधातु ॥ स्वाहा ॥
   त्वयि तत् दधातु ॥ स्वाहा ॥

 5
अ या अकृण्तन्न् अवयन् या अतन्वत
   यास् अकृण्तन् अवयन् यास् अतन्वत

ब् याश् च देव्यो अन्तान् अभितोऽददन्त।
   {ऽददन्त कोर्रेक्तुर् नछ् अव्स् 14।01।45ब्;ऽततन्थ एद्।}
   यास् च देव्यस् अन्तान् अभितस् अददन्त।

च् तास् त्वा देव्यो जरसा सँव्ययन्त्व्
   तास् त्वा देव्यस् जरसा सम्-व्ययन्तु

द् आयुष्मतीदं परिधत्स्व वासः ॥
   आयुष्मति इदम् परि-धत्स्व वासस् ॥

 6
अ परिधत्त धत्त वाससैनाँ
   परि-धत्त धत्त वाससा एनाम्

ब् शतायुषीं कृणुत दीर्घम् आयुः।
   शत-आयुषीम् कृणुत दीर्घम् आयुष्।

च् शतं च जीव शरदः सुवर्चा
   शतम् च जीव शरदस् सु-वर्चास्

द् वसूनि चार्ये विभजासि जीवन् ॥
   {विभजासि कोर्रेक्तुर् नछ् अव्स् 19।24।6द्; विभृजासि एद्।}
   वसूनि च अर्ये वि-भजासि जीवन् ॥

 7
अ सोमोऽददद् गन्धर्वाय
   सोमस् अददत् गन्धर्वाय

ब् गन्धर्वोऽददद् अग्नये।
   गन्धर्वस् अददत् अग्नये।

च् रयिं च पुत्राँश् चादाद्
   रयिम् च पुत्रान् च अदात्

द् अग्निर् मह्यम् अथो इमाम् ॥
   अग्निष् मह्यम् अथो इमाम् ॥

 8
अ प्र मे पतियानः पन्थाः कल्पताँ
   प्र मे पति-यानस् पन्थास् कल्पताम्

ब् शिवा अरिष्टा पतिलोकं गमेयम् ॥
   शिवा अ-रिष्टा पति-लोकम् गमेयम् ॥

 9
अ प्रास्याः पतियानः पन्थाः कल्पताँ
   प्र अस्यास् पति-यानस् पन्थास् कल्पताम्

ब् शिवा अरिष्टा पतिलोकं गम्याः ॥
   शिवा अ-रिष्टा पति-लोकम् गम्यास् ॥

 10
अ अग्निर् एतु प्रथमो देवताभ्यः
   अग्निष् एतु प्रथमस् देवताभ्यस्

ब् सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात्।
   सस् अस्यै प्रजाम् मुञ्चतु मृत्यु-पाशात्।

च् तद् अयँ राजा वरुणोऽनुमन्यताँ
   तत् अयम् राजा वरुणस् अनु-मन्यताम्

द् यथेयँ स्त्री पौत्रम् अघं न रोदात् ॥ स्वाहा ॥
   यथा इयम् स्त्री पौत्रम् अघम् न रोदात् ॥ स्वाहा ॥

 11
अ इमाम् अग्निस् त्रायतां गार्हपत्यः
   इमाम् अग्निष् त्रायताम् गार्ह-पत्यस्

ब् प्रजाम् अस्यै जरदष्टिं कृणोतु।
   प्रजाम् अस्यै जरत्-अष्टिम् कृणोतु।

च् अशून्योपस्था जीवताम् अस्तु माता
   अ-शून्य=उपस्था जीवताम् अस्तु माता

द् पौत्रम् आनन्दम् अभिविबुध्यताम् इयँ ॥ स्वाहा ॥
   पौत्रम् आनन्दम् अभि-वि=बुध्यताम् इयम् ॥ स्वाहा ॥

 12
अ द्यौस् ते पृष्थँ रक्षतु
   द्यौष् ते पृष्थम् रक्षतु

ब् वायुर् ऊरू अश्विनौ च।
   वायुष् ऊरू अश्विनौ च।

च् स्तनंधयान् ते पुत्रान्त् सविताभिरक्षत्व्
   {स्तनंधयान् वर्। लेच्त्।; स्तनंधयस् एद्।}
   स्तनम्-धयान् ते पुत्रान् सविता अभि-रक्षतु

द् आ वाससः परिधानाद् बृहस्पतिर्
   आ वाससस् परि-धानात् बृहस्-पतिष्

ए विश्वे देवा अभिरक्षन्तु पश्चात् ॥ स्वाहा ॥
   विश्वे देवास् अभि-रक्षन्तु पश्चात् ॥ स्वाहा ॥

 13
अ मा ते गृहेषु निशि घोष उत्थाद्
   मा ते गृहेषु निशि घोषस् उत्-स्थात्

ब् अन्यत्र त्वद् रुदत्यः सँविशन्तु।
   अन्यत्र त्वत् रुदत्यस् सम्-विशन्तु।

च् मा त्वँ रुदत्य् उर आबाधिष्ठा
   {आबाधिष्ठा कोन्जेक्तुर्; आबधिष्ठा एद्।}
   मा त्वम् रुदती उरस् आ-बाधिष्ठास्

द् जीवपत्नी पतिलोके विराज
   जीव-पत्नी पति-लोके वि-राज

ए पश्यन्ती प्रजाँ सुमनस्यमानाँ ॥ स्वाहा ॥
   पश्यन्ती प्रजाम् सुमनस्यमानाम् ॥ स्वाहा ॥

 14
अ अप्रजस्यं पौत्रमृत्युं
   {पौत्रमृत्युं वर्। लेच्त्।; पौत्रमर्त्यं एद्।}
   अ-प्रजस्यम् पौत्र-मृत्युम्

ब् पाप्मानम् उत वाघम्।
   {वाघम् कोर्रेक्तुर् नछ् आप्म्प्। 1।4।11; वा अघम् एद्।}
   पाप्मानम् उत वा अघम्।

च् शीर्ष्णः स्रजम् इवोन्मुच्य
   शीर्ष्णस् स्रजम् इव उत्-मुच्य

द् द्विषद्भ्यः प्रतिमुञ्चामि पाशँ ॥ स्वाहा ॥
   द्विषद्भ्यस् प्रति-मुञ्चामि पाशम् ॥ स्वाहा ॥

 15
अ परैतु मृत्युर् अमृतं म आगाद्
   परा-एतु मृत्युष् अ-मृतम् मे आ-अगात्

ब् वैवस्वतो न अभयं कृणोतु।
   वैवस्वतस् नस् अ-भयम् कृणोतु।

च् परं मृत्यो अनुपरेहि पन्थाँ
   परम् मृत्यो अनु-परा=इहि पन्थाम्

द् यत्र नो अन्य इतरो देवयानात्।
   यत्र नस् अन्यस् इतरस् देव-यानात्।

ए चक्षुष्मते शृण्वते ते ब्रवीमि
   चक्षुष्मते शृण्वते ते ब्रवीमि

f मा नः प्रजाँ रीरिषो मोत वीरान्त् ॥ स्वाहा ॥
   मा नस् प्रजाम् रीरिषस् मा उत वीरान् ॥ स्वाहा ॥
   
तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 2
प्रेविओउस् पर्त्

2

 1
अ इमम् अश्मानम् आरोहा-
   इमम् अश्मानम् आ-रोह

ब् -श्मेव त्वँ स्थिरा भव।
   अश्मा इव त्वम् स्थिरा भव।

च् द्विषन्तम् अपबाधस्व
   द्विषन्तम् अप-बाधस्व

द् मा च त्वं द्विषताम् अधः ॥
   मा च त्वम् द्विषताम् अधस् ॥

 2
अ इयं नार्य् उपब्रूते
   इयम् नारी उप-ब्रूते

ब् अग्नौ लाजान् आवपन्ती।
   अग्नौ लाजान् आ-वपन्ती।

च् दीर्घायुर् अस्तु मे पतिः
   दीर्घ-आयुष् अस्तु मे पतिष्

द् शतँ वर्षाणि जीवत्व्
   शतम् वर्षाणि जीवतु

ए एधन्तां ज्ञातयो मम ॥ स्वाहा ॥
   एधन्ताम् ज्ञातयस् मम ॥ स्वाहा ॥

 3
अ अर्यमणं नु देवं
   अर्यमणम् नु देवम्

ब् कन्या अग्निम् अयक्षत।
   कन्यास् अग्निम् अयक्षत।

च् स इमां देवो अर्यमा
   स इमाम् देवस् अर्यमा

द् प्रेतो मुञ्चतु मामुतः ॥ स्वाहा ॥
   प्र इतस् मुञ्चतु मा अमुतस् ॥ स्वाहा ॥

 4
अ पूषणं नु देवं
   पूषणम् नु देवम्

ब् कन्या अग्निम् अयक्षत।
   कन्यास् अग्निम् अयक्षत।

च् स इमां देवो पूषा
   स इमाम् देवस् पूषा

द् प्रेतो मुञ्चतु मामुतः ॥ स्वाहा ॥
   प्र इतस् मुञ्चतु मा अमुतस् ॥ स्वाहा ॥

 5
अ कन्यला पितृभ्यः पतिलोकँ यती-
   कन्यला पितृभ्यस् पति-लोकम् यती

ब् -यम् अप दीक्षाम् अयष्ट।
   इयम् अप दीक्षाम् अयष्ट।

च् कन्य उत त्वया वयं धारा उदन्या इवा-
   {कन्य उत कोन्जेक्तुर् स्त्öन्नेर्, स्। XXइX; कन्या उत एद्।}
   कन्ये उत त्वया वयम् धारास् उदन्यास् इव

द् -तिगाहेमहि द्विषः ॥
   {-गाहेमहि कोर्रेक्तुर् नछ् र्व् 2।7।3च्; -गहेमहि एद्।}
   अति-गाहेमहि द्विषस् ॥

 6
अ एकम् इषे विष्णुस् त्वा नयतु ॥
   एकम् इषे विष्णुष् त्वा नयतु ॥

 7
अ द्वे ऊर्जे विष्णुस् त्वा नयतु ॥
   द्वे ऊर्जे विष्णुष् त्वा नयतु ॥

 8
अ त्रीणि व्रताय विष्णुस् त्वा नयतु ॥
   त्रीणि व्रताय विष्णुष् त्वा नयतु ॥

 9
अ चत्वारि मायोभवाय विष्णुस् त्वा नयतु ॥
   चत्वारि मायस्-भवाय विष्णुष् त्वा नयतु ॥

 10
अ पञ्च पशुभ्यो विष्णुस् त्वा नयतु ॥
   पञ्च पशुभ्यस् विष्णुष् त्वा नयतु ॥

 11
अ षड् रायस् पोषाय विष्णुस् त्वा नयतु ॥
   षट् रायस् पोषाय विष्णुष् त्वा नयतु ॥

 12
अ सप्त सप्तभ्यो होत्राभ्यो विष्णुस् त्वा नयतु ॥
   सप्त सप्तभ्यस् होत्राभ्यस् विष्णुष् त्वा नयतु ॥

 13
अ सखा सप्तपदी भव
   सखा सप्त-पदी भव

ब् सख्यं ते गमेयँ
   सख्यम् ते गमेयम्

च् सख्यात् ते मा योषँ
   {सख्यात् कोर्रेक्तुर् नछ् त्ब् 3।7।7।12 उस्w।, सख्यं एद्।}
   {योषँ कोर्रेक्तुर् नछ् त्ब् 3।7।7।12 उस्w।, योषाः एद्।}
   सख्यात् ते मा योषम्

द् सख्यान् मे मा योष्ठाः ॥
   {सख्यान् मे कोर्रेक्तुर् नछ् त्ब् 3।7।7।12 उस्w।, सख्यं ते एद्।}
   सख्यात् मे मा योष्ठास् ॥

 14
अ सुमङ्गलीर् इयँ वधूर्
   सु-मङ्गलीष् इयम् वधूष्

ब् इमाँ समेत पश्यत।
   इमाम् सम्-आ=इत पश्यत।

च् सौभाग्यम् अस्यै दत्त्वाया-
   सौ-भाग्यम् अस्यै दत्त्वाय

द् -थास्तँ विपरेतन ॥
   अथ अस्तम् वि-परा=इतन ॥

 15
अ समञ्जन्तु विश्वे देवाः
   सम्-अञ्जन्तु विश्वे देवास्

ब् सम् आपो हृदयानि नौ।
   सम् आपस् हृदयानि नौ।

च् सं मातरिश्वा सं धाता
   सम् मातरिश्वा सम् धाता

द् सम् उ देष्ट्री दधातु नौ ॥
   सम् उ देष्ट्री दधातु नौ ॥

 16
अ गृभ्नामि ते सौभगत्वाय हस्तं
   गृभ्नामि ते सौ-भगत्वाय हस्तम्

ब् मया पत्या जरदष्टिर् यथासः।
   मया पत्या जरत्-अष्टिष् यथा असस्।

च् भगो अर्यमा सविता पुरंधिर्
   भगस् अर्यमा सविता पुरन्धिष्

द् मह्यम् त्वादुर् गार्हपत्याय देवाः ॥
   मह्यम् त्वा अदुष् गार्ह-पत्याय देवास् ॥

 17
अ अघोरचक्षुर् अपतिघ्न्य् एधि
   अ-घोर=चक्षुष् अ-पति=घ्नी एधि

ब् शिवा पशुभ्यः सुमनाः सुवर्चाः।
   शिवा पशुभ्यस् सु-मनास् सु-वर्चास्।

च् वीरसूर् जीवसूर् देवकामा स्योना
   वीर-सूष् जीव-सूष् देव-कामा स्योना

द् शं नो भव द्विपदे शं चतुष्पदे ॥
   शम् नस् भव द्वि-पदे शम् चतुष्-पदे ॥

 18
अ आ नः प्रजां जनयतु प्रजापतिर्
   आ नस् प्रजाम् जनयतु प्रजा-पतिष्

ब् आ जरसाय समनक्त्व् अर्यमा।
   आ जरसाय सम्-अनक्तु अर्यमा।

च् अदुर्मङ्गलीः पतिलोकम् आविश
   अ-दुष्=मङ्गलीष् पति-लोकम् आ-विश

द् शं नो भव द्विपदे शं चतुष्पदे ॥
   शम् नस् भव द्वि-पदे शम् चतुष्-पदे ॥

 19
अ इमां त्वं इन्द्र मीढ्वः
   इमाम् त्वम् इन्द्र मीढ्वस्

ब् सुपुत्राँ सुभगां कृधि।
   सु-पुत्राम् सु-भगाम् कृधि।

च् दशास्यां पुत्रान् आधेहि
   दश अस्याम् पुत्रान् आ-धेहि

द् पतिं एकादशं कुरु ॥
   पतिम् एका-दशम् कुरु ॥

 20
अ सम्राज्ञी श्वशुरे भव
   सम्-राज्ञी श्वशुरे भव

ब् सम्राज्ञी श्वश्र्वां भव।
   सम्-राज्ञी श्वश्र्वाम् भव।

च् ननान्दरि सम्राज्ञी भव
   ननान्दरि सम्-राज्ञी भव

द् सम्राज्ञी अधि देवृषु ॥
   सम्-राज्ञी अधि देवृषु ॥

 21
अ मम व्रते ते हृदयं दधातु
   मम व्रते ते हृदयम् दधातु

ब् मम चित्तम् अनु चित्तं ते अस्तु।
   मम चित्तम् अनु चित्तम् ते अस्तु।

च् मम वाचम् एकमना जुषस्व
   मम वाचम् एक-मनास् जुषस्व

द् बृहस्पतिस् त्वा नियुनक्तु मह्यम् ॥
   बृहस्-पतिष् त्वा नि-युनक्तु मह्यम् ॥
   
तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 3
प्रेविओउस् पर्त्

3

 1
अ लेखासंधिषु पक्ष्मस्व्
   लेखा-सम्=धिषु पक्ष्मसु

ब् आवर्तेषु च यानि ते।
   आ-वर्तेषु च यानि ते।

च् तानि ते पूर्णाहुत्या
   तानि ते पूर्ण-आहुत्या

द् सर्वाणि शमयाम्य् अहम् ॥
   सर्वाणि शमयामि अहम् ॥

 2
अ केशेषु यच् च पापकम्
   केशेषु यत् च पापकम्

ब् ईक्षिते रुदिते च यत्।
   ईक्षिते रुदिते च यत्।

च् तानि ते पूर्णाहुत्या
   तानि ते पूर्ण-आहुत्या

द् सर्वाणि शमयाम्य् अहम् ॥
   सर्वाणि शमयामि अहम् ॥

 3
अ शीले च यच् च पापकं
   शीले च यत् च पापकम्

ब् भाषिते हसिते च यत्।
   भाषिते हसिते च यत्।

च् तानि ते पूर्णाहुत्या
   तानि ते पूर्ण-आहुत्या

द् सर्वाणि शमयाम्य् अहम् ॥
   सर्वाणि शमयामि अहम् ॥

 4
अ आरोकेषु च दन्तेषु
   आ-रोकेषु च दन्तेषु

ब् हस्तयोः पादयोश् च यत्।
   हस्तयोष् पादयोस् च यत्।

च् तानि ते पूर्णाहुत्या
   तानि ते पूर्ण-आहुत्या

द् सर्वाणि शमयाम्य् अहम् ॥
   सर्वाणि शमयामि अहम् ॥

 5
अ ऊर्वोर् उपस्थे जङ्घयोः
   ऊर्वोष् उपस्थे जङ्घयोष्

ब् संधानेषु च यानि ते।
   सम्-धानेषु च यानि ते।

च् तानि ते पूर्णाहुत्या
   तानि ते पूर्ण-आहुत्या

द् सर्वाणि शमयाम्य् अहम् ॥
   सर्वाणि शमयामि अहम् ॥

 6
अ यानि कानि च घोराणि
   यानि कानि च घोराणि

ब् सर्वाङ्गेषु तवाभवन्।
   सर्व-अङ्गेषु तव अभवन्।

च् पूर्णाहुतिभिर् आज्यस्य
   पूर्ण-आहुतिभिष् आज्यस्य

द् सर्वाणि तान्य् अशीशमम् ॥
   सर्वाणि तानि अशीशमम् ॥

 7
अ ध्रुवा द्यौर् ध्रुवा पृथिवी
   ध्रुवा द्यौष् ध्रुवा पृथिवी

ब् ध्रुवँ विश्वम् इदं जगत्।
   ध्रुवम् विश्वम् इदम् जगत्।

च् ध्रुवासः पर्वता इमे
   ध्रुवासस् पर्वतास् इमे

द् ध्रुवा स्त्री पतिकुले ^ इयम् ॥
   ध्रुवा स्त्री पति-कुले इयम् ॥

 8
अ अन्नपाशेन मणिना
   अन्न-पाशेन मणिना

ब् प्राणसूत्रेण पृश्निना।
   प्राण-सूत्रेण पृश्निना।

च् बध्नामि सत्यग्रन्थिना
   बध्नामि सत्य-ग्रन्थिना

द् मनश् च हृदयं च ते ॥
   मनस् च हृदयम् च ते ॥

 9
अ यद् एतद् धृदयं तव
   यत् एतत् हृदयम् तव

ब् तद् अस्तु हृदयं मम।
   तत् अस्तु हृदयम् मम।

च् यद् इदँ हृदयं मम
   यत् इदम् हृदयम् मम

द् तद् अस्तु हृदयं तव ॥
   तत् अस्तु हृदयम् तव ॥

 10
अ अन्नं प्राणस्य पड्विँशस्
   अन्नम् प्राणस्य पड्विँशस्

ब् तेन बध्नामि त्वासौ ॥
   तेन बध्नामि त्वा असौ ॥

 11
अ सुकिँशुकँ शल्मलिँ विश्वरूपँ
   सु-किँशुकम् शल्मलिम् विश्व-रूपम्

ब् सुवर्णवर्णँ सुकृतँ सुचक्रम्।
   सु=वर्ण-वर्णम् सु-कृतम् सु-चक्रम्।

च् आरोह सूर्ये अमृतस्य नाभिँ
   आ-रोह सूर्ये अ-मृतस्य नाभिम्

द् स्योनं पत्ये वहतुं कृणुष्व ॥
   स्योनम् पत्ये वहतुम् कृणुष्व ॥

 12
अ मा विदन् परिपन्थिनो
   मा विदन् परि-पन्थिनस्

ब् य आसीदन्ति दम्पती।
   ये आ-सीदन्ति दम्-पती।

च् सुगेभिर् दुर्गम् अतीताम्
   सुगेभिष् दुर्गम् अति-इताम्

द् अपद्रान्त्व् अरातयः ॥
   अप-द्रान्तु अ-रातयस् ॥

 13
अ इह गावः प्रजायध्वम्
   इह गावस् प्र-जायध्वम्

ब् इहाश्वा इह पूरुषाः।
   इह अश्वास् इह पूरुषास्।

च् इहो सहस्रदक्षिणो
   इह उ सहस्र-दक्षिणस्

द् अपि पूषा निषीदतु ॥
   अपि पूषा नि-सीदतु ॥

 14
अ इह धृतिर् इह स्वधृतिर्
   इह धृतिष् इह स्व-धृतिष्

ब् इह रन्तिर् इह रमस्व।
   इह रन्तिष् इह रमस्व।

च् मयि धृतिर् मयि स्वधृतिर्
   मयि धृतिष् मयि स्व-धृतिष्

द् मयि रमो मयि रमस्व ॥
   मयि रमस् मयि रमस्व ॥

   तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 4
प्रेविओउस् पर्त्

4

 1
अ अग्ने प्रायश्चित्ते
   अग्ने प्रायस्-चित्ते

ब् त्वं देवानां प्रायश्चित्तिर् असि।
   त्वम् देवानाम् प्रायस्-चित्तिष् असि।

च् ब्राह्मणस् त्वा नाथकाम उपधावामि।
   ब्राह्मणस् त्वा नाथ-कामस् उप-धावामि।

द् यास्याः पापी लक्ष्मीस्
   या अस्यास् पापी लक्ष्मीष्

ए ताम् अस्या अपजहि ॥
   ताम् अस्यै अप-जहि ॥

 2
अ वायो प्रायश्चित्ते
   वायो प्रायस्-चित्ते

ब् त्वं देवानां प्रायश्चित्तिर् असि।
   त्वम् देवानाम् प्रायस्-चित्तिष् असि।

च् ब्राह्मणस् त्वा नाथकाम उपधावामि।
   ब्राह्मणस् त्वा नाथ-कामस् उप-धावामि।

द् यास्याः पतिघ्नी तनूस्
   या अस्यास् पति-घ्नी तनूष्

ए ताम् अस्या अपजहि ॥
   ताम् अस्यै अप-जहि ॥

 3
अ चन्द्र प्रायश्चित्ते
   चन्द्र प्रायस्-चित्ते

ब् त्वं देवानां प्रायश्चित्तिर् असि।
   त्वम् देवानाम् प्रायस्-चित्तिष् असि।

च् ब्राह्मणस् त्वा नाथकाम उपधावामि।
   ब्राह्मणस् त्वा नाथ-कामस् उप-धावामि।

द् यास्या अपुत्र्या तनूस्
   या अस्यास् अ-पुत्र्या तनूष्

ए ताम् अस्या अपजहि ॥
   ताम् अस्यै अप-जहि ॥

 4
अ सूर्य प्रायश्चित्ते
   सूर्य प्रायस्-चित्ते

ब् त्वं देवानां प्रायश्चित्तिर् असि।
   त्वम् देवानाम् प्रायस्-चित्तिष् असि।

च् ब्राह्मणस् त्वा नाथकाम उपधावामि।
   ब्राह्मणस् त्वा नाथ-कामस् उप-धावामि।

द् यास्या अपशव्या तनूस्
   या अस्यास् अ-पशव्या तनूष्

ए ताम् अस्या अपजहि ॥
   ताम् अस्यै अप-जहि ॥

 5
अ अग्निवायुचन्द्रसूर्याः प्रायश्चित्तयो
   अग्नि-वायु-चन्द्र-सूर्यास् प्रायस्-चित्तयस्

ब् यूयं देवानां प्रायश्चित्तयः स्थ।
   यूयम् देवानाम् प्रायस्-चित्तयस् स्थ।

च् ब्राह्मणो वो नाथकाम उपधावामि।
   ब्राह्मणस् वस् नाथ-कामस् उप-धावामि।

द् यास्याः पापी लक्ष्मीर् या पतिघ्नी
   या अस्यास् पापी लक्ष्मीष् या पति-घ्नी

ए यापुत्र्या यापशव्या
   या अ-पुत्र्या या अ-पशव्या

f ता अस्या अपहत ॥
   तास् अस्यै अप-हत ॥


1।4।6-7: गर्भाधान (एम्प्fäन्ग्निस्)।


 6
अ विष्णुर् योनिं कल्पयतु
   विष्णुष् योनिम् कल्पयतु

ब् त्वष्टा रूपाणि पिँशतु।
   त्वष्टा रूपाणि पिँशतु।

च् आसिञ्चतु प्रजापतिर्
   आ-सिञ्चतु प्रजा-पतिष्

द् धाता गर्भं दधातु ते ॥
   धाता गर्भम् दधातु ते ॥

 7
अ गर्भं धेहि सिनीवालि
   गर्भम् धेहि सिनीवालि

ब् गर्भं धेहि सरस्वति।
   गर्भम् धेहि सरस्वति।

च् गर्भं ते अश्विनौ देवाव्
   गर्भम् ते अश्विनौ देवौ

द् आधत्तां पुष्करस्रजौ ॥
   आ-धत्ताम् पुष्कर-स्रजौ ॥


1।4।8-9: पुँसवन (Füर् एइन् म्äन्न्लिछेस् किन्द्)।


 8
अ पुमाँसौ मित्रावरुणौ
   पुमाँसौ मित्रा-वरुणौ

ब् पुमाँसाव् अश्विनाव् उभौ।
   पुमाँसौ अश्विनौ उभौ।

च् पुमान् अग्निश् च वायुश् च
   पुमान् अग्निष् च वायुष् च

द् पुमान् गर्भस् तवोदरे ॥
   पुमान् गर्भस् तव उदरे ॥

 9
अ पुमान् अग्निः पुमान् इन्द्रः
   पुमान् अग्निष् पुमान् इन्द्रस्

ब् पुमान् देवो बृहस्पतिः।
   पुमान् देवस् बृहस्-पतिष्।

च् पुमाँसं पुत्रँ विन्दस्व
   पुमाँसम् पुत्रम् विन्दस्व

द् तं पुमान् अनु जायताम् ॥
   तम् पुमान् अनु जायताम् ॥

   तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 5
प्रेविओउस् पर्त्

5


1।5।1-5: हअर्स्छेइतेलुन्ग्।


 1
अ अयम् ऊर्जावतो वृक्ष
   अयम् ऊर्जावतस् वृक्षस्

ब् ऊर्जीव फलिनी भव।
   ऊर्जी इव फलिनी भव।

च् पर्णँ वनस्पतेऽनु त्वा-
   पर्णम् वनस्-पते अनु त्वा

द् -नु त्वा सूयताँ रयिः ॥
   अनु त्वा सूयताम् रयिष् ॥

 2
अ येनादितेः सीमानं नयति
   येन अदितेष् सीमानम् नयति

ब् प्रजापतिर् महते सौभगाय।
   प्रजा-पतिष् महते सौभगाय।

च् तेनाहम् अस्यै सीमानं नयामि
   तेन अहम् अस्यै सीमानम् नयामि

द् प्रजाम् अस्यै जरदष्टिं कृणोमि ॥
   प्रजाम् अस्यै जरत्-अष्टिम् कृणोमि ॥

 3
अ राकाम् अहँ सुहवाँ सुष्टुती हुवे
   राकाम् अहम् सु-हवाम् सु-स्तुती हुवे

ब् शृणोतु नः सुभगा बोधतु त्मना।
   शृणोतु नस् सु-भगा बोधतु त्मना।

च् सीव्यत्व् अपः सूच्याच्छिद्यमानया
   सीव्यतु अपस् सूच्या अ-छिद्यमानया

द् ददातु वीरँ शतदायुमुख्यम् ॥
   {र्व् 2।32।4द्: द्áदातु वीर्áं शत्áदायम् उक्थ्य्àम्}
   ददातु वीरम् शत=दायु-मुख्यम् ॥

 4
अ यास् ते राके सुमतयः सुपेशसो
   यास् ते राके सु-मतयस् सु-पेशसस्

ब् याभिर् ददासि दाशुषे वसूनि।
   याभिष् ददासि दाशुषे वसूनि।

च् ताभिर् नो अद्य सुमना उपागहि
   ताभिष् नस् अद्य सु-मनास् उप-आ=गहि

द् सहस्रपोषँ सुभगे रराणा ॥
   सहस्र-पोषम् सु-भगे रराणा ॥

 5
अ किं पश्यसि।
   किम् पश्यसि।

ब् प्रजां पशून्त् सौभाग्यं मह्यं
   प्रजाम् पशून् सौ-भाग्यम् मह्यम्

च् दीर्घायुष्ट्वं पत्युः ॥
   दीर्घ-आयुष्ट्वम् पत्युष् ॥


1।5।6-9: गेबुर्त्स्हन्द्लुन्ग्।


 6
अ या तिरश्ची निपद्यते
   या तिरश्ची नि-पद्यते

ब् अहँ विधरणी इति।
   अहम् वि-धरणीष् इति।

च् तां त्वा घृतस्य धारया
   ताम् त्वा घृतस्य धारया

द् यजे सँराधनीम् अहम्।
   यजे सम्-राधनीम् अहम्।

ए सँराधन्यै देव्यै देष्ट्र्यै ॥
   सम्-राधन्यै देव्यै देष्ट्र्यै ॥

 7
अ विपश्चित् पुच्छम् अभरत्
   विपश्चित् पुच्छम् अभरत्

ब् तद् धाता पुनर् आहरत्।
   तत् धाता पुनर् आ-अहरत्।

च् परेहि त्वँ विपश्चित्
   परा-इहि त्वम् विपश्चित्

द् पुमान् अयं जनिष्यते
   पुमान् अयम् जनिष्यते

ए असौ नाम ॥
   असौ नाम ॥

 8
अ इयम् आज्ञेदम् अन्नम्
   इयम् आ-ज्ञा इदम् अन्नम्

ब् इदम् आयुर् इदम् अमृतम् ॥
   इदम् आयुष् इदम् अ-मृतम् ॥

 9
अ मेधां ते मित्रावरुणौ
   मेधाम् ते मित्रा-वरुणौ

ब् मेधाम् अग्निर् दधातु ते।
   मेधाम् अग्निष् दधातु ते।

च् मेधां ते अश्विनौ देवाव्
   मेधाम् ते अश्विनौ देवौ

द् आधत्तां पुष्करस्रजौ ॥
   आ-धत्ताम् पुष्कर-स्रजौ ॥


1।5।10-13: एर्स्तेर् औस्गन्ग् मित् देम् किन्द्।


 10
अ यत् ते सुसीमे हृदयँ
   यत् ते सुसीमे हृदयम्

ब् हितम् अन्तः प्रजापतौ ॥
   हितम् अन्तर् प्रजा-पतौ ॥

च् वेदाहं मन्ये तद् ब्रह्म
   वेद अहम् मन्ये तत् ब्रह्म

द् माहं पौत्रम् अघं निगाम् ॥
   मा अहम् पौत्रम् अघम् नि-गाम् ॥

 11
अ यत् पृथिव्या अनामृतं
   यत् पृथिव्यास् अन्-आ=मृतम्

ब् दिवि चन्द्रमसि श्रितम्।
   दिवि चन्द्र-मसि श्रितम्।

च् वेदामृतस्याहं नाम
   वेद अ-मृतस्य अहम् नाम

द् माहं पौत्रम् अघँ रिषम् ॥
   मा अहम् पौत्रम् अघम् रिषम् ॥

 12
अ इन्द्राग्नी शर्म यच्छतं
   इन्द्र-अग्नी शर्म यच्छतम्

ब् प्रजायै मे प्रजापती।
   प्रजायै मे प्रजा-पती।

च् यथायं न प्रमीयेत
   यथा अयम् न प्र-मीयेत

द् पुत्रो जनित्र्या अधि ॥
   पुत्रस् जनित्र्यास् अधि ॥

 13
अ यद् अदश् चन्द्रमसि कृष्णं
   यत् अदस् चन्द्र-मसि कृष्णम्

ब् पृथिव्या हृदयँ श्रितम्।
   पृथिव्यास् हृदयम् श्रितम्।

च् तद् अहँ विद्वाँस् तत् पश्यन्
   तत् अहम् विद्वान् तत् पश्यन्

द् माहं पौत्रम् अघँ रुदम् ॥
   मा अहम् पौत्रम् अघम् रुदम् ॥


1।5।14-15: नमेन्गेबुन्ग्।


 14
अ कोऽसि कतमोऽस्य्
   कस् असि कतमस् असि

ब् एषोऽस्य् अमृतोऽसि।
   एषस् असि अ-मृतस् असि।

च् आहस्पत्यं मासं प्रविशासौ ॥
   आहस्-पत्यम् मासम् प्र-विश असौ ॥

 15
अ स त्वाह्ने परिददात्व्
   स त्वा अह्ने परि-ददातु

ब् अहस् त्वा रात्र्यै परिददातु
   अहर् त्वा रात्र्यै परि-ददातु

च् रात्रिस् त्वाहोरात्राभ्यां परिददात्व्
   रात्रिष् त्वा अहस्-रात्राभ्याम् परि-ददातु

द् अहोरात्रौ त्वार्धमासेभ्यः परिदत्ताम्
   अहस्-रात्रौ त्वा अर्ध-मासेभ्यस् परि-दत्ताम्

ए अर्धमासास् त्वा मासेभ्यः परिददतु
   अर्ध-मासास् त्वा मासेभ्यस् परि-ददतु

f मासास् त्व र्तुभ्यः परिददत्व्
   मासास् त्वा ऋतुभ्यस् परि-ददतु

ग् ऋतवस् त्वा सँवत्सराय परिददतु
   ऋतवस् त्वा संवत्सराय परि-ददतु

ह् सँवत्सरस् त्वायुषे जरायै परिददात्व् असौ ॥
   संवत्सरस् त्वा आयुषे जरायै परि-ददातु असौ ॥


1।5।16-19: क्üस्सेन् देस् हौप्तेस्।


 16
अ अङ्गादङ्गात् सँश्रवसि
   अङ्गात्-अङ्गात् सम्-श्रवसि

ब् हृदयाद् अधि जायसे।
   हृदयात् अधि जायसे।

च् प्राणं ते प्राणेन संदधामि
   प्राणम् ते प्राणेन सम्-दधामि

द् जीव मे यावद् आयुषम् ॥
   जीव मे यावत् आयुषम् ॥

 17
अ अङ्गादङ्गात् संभवसि
   अङ्गात्-अङ्गात् सम्-भवसि

ब् हृदयाद् अधि जायसे।
   हृदयात् अधि जायसे।

च् वेदो वै पुत्रनामासि
   वेदस् वै पुत्र-नाम असि

द् स जीव शरदः शतम् ॥
   स जीव शरदस् शतम् ॥

 18
अ अश्मा भव परशुर् भव
   अश्मा भव परशुष् भव

ब् हिरण्यम् अस्तृतं भव।
   हिरण्यम् अ-स्तृतम् भव।

च् आत्मासि पुत्र मा मृथाः
   आत्मा असि पुत्र मा मृथास्

द् स जीव शरदः शतम् ॥
   स जीव शरदस् शतम् ॥

 19
अ पशूनां त्वा हिङ्कारेणाभिजिघ्राम्य् असौ ॥
   पशूनाम् त्वा हिङ्-कारेण अभि-जिघ्रामि असौ ॥
  
  तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 6
प्रेविओउस् पर्त्

6


1।6।1-8: हअर्स्छ्नेइदेन्।


 1
अ आयम् अगात् सविता क्षुरेण ॥
   आ अयम् अगात् सविता क्षुरेण ॥

 2
अ उष्णेन वाय उदकेनैधि ॥
   उष्णेन वायो उदकेन एधि ॥

 3
अ आप उन्दन्तु जीवसे ॥
   आपस् उन्दन्तु जीवसे ॥

 4
अ विष्णोर् दँष्ट्रोऽसि ॥
   विष्णोष् दँष्ट्रस् असि ॥

 5
अ ओषधे त्रायस्वैनम् ॥
   ओषधे त्रायस्व एनम् ॥

 6
अ स्वधिते मैनँ हिँसीः ॥
   स्वधिते मा एनम् हिँसीष् ॥

 7
अ येन पूषा बृहस्पतेर्
   येन पूषा बृहस्-पतेष्

ब् वायोर् इन्द्रस्य चावपत्।
   वायोष् इन्द्रस्य च अवपत्।

च् तेन ते वपामि ब्रह्मणा
   तेन ते वपामि ब्रह्मणा

द् जीवातवे जीवनाय दीर्घायुष्ट्वाय वर्चसे ॥
   जीवातवे जीवनाय दीर्घ-आयुष्ट्वाय वर्चसे ॥

 8
अ त्र्यायुषं जमदग्नेः
   त्रि-आयुषम् जमत्-अग्नेष्

ब् कश्यपस्य त्र्यायुषम्
   कश्यपस्य त्रि-आयुषम्

च् अगस्त्यस्य त्र्यायुषँ
   अगस्त्यस्य त्रि-आयुषम्

द् यद् देवानां त्र्यायुषं
   यत् देवानाम् त्रि-आयुषम्

ए तत् ते अस्तु त्र्यायुषम् ॥
   तत् ते अस्तु त्रि-आयुषम् ॥


1।6।9-32: एइन्füह्रुन्ग् देस् स्छ्üलेर्स्।


 9
अ अग्ने व्रतपते व्रतं चरिष्यामि
   अग्ने व्रत-पते व्रतम् चरिष्यामि

ब् तत् ते प्रब्रवीमि
   तत् ते प्र-ब्रवीमि

च् तच् छकेयं तेन र्ध्यासम्।
   तत् शकेयम् तेन ऋध्यासम्।

द् इदम् अहम् अनृतात् सत्यम् उपैमि ॥ स्वाहा ॥
   इदम् अहम् अन्-ऋतात् सत्यम् उप-एमि ॥ स्वाहा ॥

 10
अ वायो व्रतपते व्रतं चरिष्यामि
   वायो व्रत-पते व्रतम् चरिष्यामि

ब् तत् ते प्रब्रवीमि
   तत् ते प्र-ब्रवीमि

च् तच् छकेयं तेन र्ध्यासम्।
   तत् शकेयम् तेन ऋध्यासम्।

द् इदम् अहम् अनृतात् सत्यम् उपैमि ॥ स्वाहा ॥
   इदम् अहम् अन्-ऋतात् सत्यम् उप-एमि ॥ स्वाहा ॥

 11
अ सूर्य व्रतपते व्रतं चरिष्यामि
   सूर्य व्रत-पते व्रतम् चरिष्यामि

ब् तत् ते प्रब्रवीमि
   तत् ते प्र-ब्रवीमि

च् तच् छकेयं तेन र्ध्यासम्।
   तत् शकेयम् तेन ऋध्यासम्।

द् इदम् अहम् अनृतात् सत्यम् उपैमि ॥ स्वाहा ॥
   इदम् अहम् अन्-ऋतात् सत्यम् उप-एमि ॥ स्वाहा ॥

 12
अ चन्द्र व्रतपते व्रतं चरिष्यामि
   चन्द्र व्रत-पते व्रतम् चरिष्यामि

ब् तत् ते प्रब्रवीमि
   तत् ते प्र-ब्रवीमि

च् तच् छकेयं तेन र्ध्यासम्।
   तत् शकेयम् तेन ऋध्यासम्।

द् इदम् अहम् अनृतात् सत्यम् उपैमि ॥ स्वाहा ॥
   इदम् अहम् अन्-ऋतात् सत्यम् उप-एमि ॥ स्वाहा ॥

 13
अ व्रतानाँ व्रतपते व्रतं चरिष्यामि
   व्रतानाम् व्रत-पते व्रतम् चरिष्यामि

ब् तत् ते प्रब्रवीमि
   तत् ते प्र-ब्रवीमि

च् तच् छकेयं तेन र्ध्यासम्।
   तत् शकेयम् तेन ऋध्यासम्।

द् इदम् अहम् अनृतात् सत्यम् उपैमि ॥ स्वाहा ॥
   इदम् अहम् अन्-ऋतात् सत्यम् उप-एमि ॥ स्वाहा ॥

 14
अ आगन्त्रा समगन्महि
   आ-गन्त्रा सम्-अगन्महि

ब् प्र सुमर्त्यँ युयोतन।
   प्र सु-मर्त्यम् युयोतन।

च् अरिष्टाः संचरेमहि
   अ-रिष्टास् सम्-चरेमहि

द् स्वस्ति चरताद् अयम् ॥
   स्वस्ति चरतात् अयम् ॥

 15
अ अग्निष् टे हस्तम् अग्रहीत्
   अग्निष् ते हस्तम् अग्रहीत्

ब् सविता हस्तम् अग्रहीद्
   सविता हस्तम् अग्रहीत्

च् अर्यमा हस्तम् अग्रहीन्
   अर्यमा हस्तम् अग्रहीत्

द् मित्रस् त्वम् असि कर्मणा-
   मित्रस् त्वम् असि कर्मणा

ए -ग्निर् आचार्यस् तव ॥
   अग्निष् आचार्यस् तव ॥

 16
अ ब्रह्मचर्यम् आगाम् उप मा नयस्व ॥
   ब्रह्म-चर्यम् आ-अगाम् उप मा नयस्व ॥

 17
अ को नामास्य् असौ नामास्मि ॥
   कस् नाम असि असौ नाम अस्मि ॥

 18
अ देवस्य ते सवितुः प्रसवे
   देवस्य ते सवितुष् प्र-सवे

ब् अश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याँ
   अश्विनोष् बाहुभ्याम् पूष्णस् हस्ताभ्याम्

च् हस्तं गृह्णाम्य् असौ ॥
   हस्तम् गृह्णामि असौ ॥

 19
अ सूर्यस्यावृतम् अन्वावर्तस्वासौ ॥
   सूर्यस्य आ-वृतम् अनु-आ=वर्तस्व असौ ॥

 20
अ प्राणानां ग्रन्थिर् असि मा विस्रसो
   प्राणानाम् ग्रन्थिष् असि मा वि-स्रसस्

ब् अन्तक ^ इदं ते परिददाम्य् अमुम् ॥
   अन्तक इदम् ते परि-ददामि अमुम् ॥

 21
अ अहुर ^ इदं ते परिददाम्य् अमुम् ॥
   अहुर इदम् ते परि-ददामि अमुम् ॥

 22
अ कृशन ^ इदं ते परिददाम्य् अमुम् ॥
   कृशन इदम् ते परि-ददामि अमुम् ॥

 23
अ प्रजापते त्वा परिददाम्य् असौ ॥
   प्रजा-पते त्वा परि-ददामि असौ ॥

 24
अ देवाय त्वा सवित्रे परिददाम्य् असौ ॥
   देवाय त्वा सवित्रे परि-ददामि असौ ॥

 25
अ ब्रह्मचार्य् अस्य् असौ ॥
   ब्रह्म-चारी असि असौ ॥

 26
अ समिधम् आधेह्य् अपोऽशान
   सम्-इधम् आ-धेहि अपस् अशान

ब् कर्म कुरु मा दिवा स्वाप्सीः ॥
   कर्म कुरु मा दिवा स्वाप्सीष् ॥

 27
अ इयं दुरुक्तात् परिबाधमाना
   इयम् दुष्-उक्तात् परि-बाधमाना

ब् वर्णं पवित्रं पुनती म आगात्।
   वर्णम् पवित्रम् पुनती मे आ-अगात्।

च् प्राणापानाभ्यां बलं आहरन्ती
   प्राण-अपानाभ्याम् बलम् आ-हरन्ती

द् स्वसा देवी सुभगा मेखलेयम् ॥
   स्वसा देवी सु-भगा मेखला इयम् ॥

 28
अ ऋतस्य गोप्त्री तपसः परस्पी
   {परस्पी कोर्रेक्तुर् नछ् आप्म्प्। 2।2।10, व्ग्ल्। स्त्öन्नेर्, स्। XXX; परस्वी एद्।}
   ऋतस्य गोप्त्री तपसस् परस्पी

ब् घ्नती रक्षः सहमाना अरातीः।
   घ्नती रक्षस् सहमाना अ-रातीष्।

च् सा मा समन्तम् अभिपर्येहि भद्रे
   सा मा समन्तम् अभि-परि=आ=-इहि भद्रे

द् धर्तारस् ते मेखले मा रिषाम ॥
   धर्तारस् ते मेखले मा रिषाम ॥

 29
अ तत् सवितुर् वरेण्यं
   तत् सवितुष् वरेण्यम्

ब् भर्गो देवस्य धीमहि।
   भर्गस् देवस्य धीमहि।

च् धियो यो नः प्रचोदयात् ॥
   धियस् यस् नस् प्र-चोदयात् ॥

 30
अ भूर् भुवः स्वर् ओँ ॥
   भूष् भुवस् स्वर् ओम् ॥

 31
अ सुश्रवः सुश्रवसं मा कुरु
   सु-श्रवस् सु-श्रवसम् मा कुरु

ब् यथा त्वँ सुश्रवः सुश्रवा देवेष्व्
   यथा त्वम् सु-श्रवस् सु-श्रवास् देवेषु

च् एवम् अहँ सुश्रवः सुश्रवा ब्राह्मणेषु भूयासम् ॥
   एवम् अहम् सु-श्रवस् सु-श्रवास् ब्राह्मणेषु भूयासम् ॥

 32
अ अग्नये समिधम् आहार्षं
   अग्नये सम्-इधम् आ-अहार्षम्

ब् बृहते जातवेदसे।
   बृहते जात-वेदसे।

च् यथा त्वम् अग्ने समिधा समिध्यस
   {समिध्यस [-से] वर्। लेच्त्।, आप्म्प्। 2।6।2, हिर्ग्स् 1।7।2; समिध्यस्य् एद्।}
   यथा त्वम् अग्ने सम्-इधा सम्-इध्यसे

द् एवम् अहम् आयुषा मेधया वर्चसा प्रजया पशुभिर्
   एवम् अहम् आयुषा मेधया वर्चसा प्रजया पशुभिष्

ए ब्रह्मवर्चसेन धनेनान्नाद्येन समेधिषीय ॥ स्वाहा ॥
   ब्रह्म-वर्चसेन धनेन अन्न-अद्येन सम्-एधिषीय ॥ स्वाहा ॥


1।6।33-34: Üब्ले वोर्बेदेउतुन्ग्।


 33
अ पुनर् माम् ऐत्व् इन्द्रियं
   पुनर् माम् आ-एतु इन्द्रियम्

ब् पुनर् आयुः पुनर् भगः।
   पुनर् आयुष् पुनर् भगस्।

च् पुनर् द्रविणम् ऐतु मा
   पुनर् द्रविणम् आûएतु मा

द् पुनर् ब्राह्मणम् ऐतु मा ॥
   पुनर् ब्राह्मणम् आ-एतु मा ॥

 34
अ पुनर् मनः पुनर् आत्मा म आगात्
   पुनर् मनस् पुनर् आत्मा मे आ-अगात्

ब् पुनश् चक्षुः पुनः श्रोत्रं म आगात्।
   पुनर् चक्षुष् पुनर् श्रोत्रम् मे आ-अगात्।

च् वैश्वानरो अदब्धस् तनूपा
   वैश्वानरस् अ-दब्धस् तनू-पास्

द् अन्तस् तिष्ठतु मे मनोऽमृतस्य केतुः ॥ स्वाहा ॥
   अन्तर् तिष्ठतु मे मनस् अ-मृतस्य केतुष् ॥ स्वाहा ॥
   
   तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 7
प्रेविओउस् पर्त्

7


1।7।1-16: औस्त्रित्त् औस् देर् स्छुले।


 1
अ ये अप्स्व् अन्तर् अग्नयः प्रविष्टा
   ये अप्सु अन्तर् अग्नयस् प्र-विष्टास्

ब् गोह्य उपगोह्यो मरूको मनोहाः
   गोह्यस् उप-गोह्यस् मरूकस् मनस्-हास्

च् खलो विरुजस् तनूदूषिर् इन्द्रियहा
   खलस् वि-रुजस् तनू-दूषिष् इन्द्रिय-हास्

द् अति तान्त् सृजामि ॥
   अति तान् सृजामि ॥

 2
अ यद् अपां घोरँ यद् अपां क्रूरँ
   यत् अपाम् घोरम् यत् अपाम् क्रूरम्

ब् यद् अपाम् अशान्तम् अति तत् सृजामि ॥
   यत् अपाम् अ-शान्तम् अति तत् सृजामि ॥

 3
अ यो रोचनस् तम् इह गृह्णामि
   यस् रोचनस् तम् इह गृह्णामि

ब् तेनाहं माम् अभिषिञ्चामि ॥
   तेन अहम् माम् अभि-सिञ्चामि ॥

 4
अ यशसे तेजसे ब्रह्मवर्चसाय
   यशसे तेजसे ब्रह्म-वर्चसाय

ब् बलायेन्द्रियाय वीर्यायान्नाद्याय
   बलाय इन्द्रियाय वीर्याय अन्न-अद्याय

च् रायस् पोषाय त्विष्या अपचित्यै ॥
   रायस् पोषाय त्विष्या अप-चित्यै ॥

 5
अ येन स्त्रियम् अकृणुतम्
   येन स्त्रियम् अकृणुतम्

ब् येनापामृशतँ सुराम्।
   येन अप-अमृशतम् सुराम्।

च् येनाक्षान् अभ्यषिञ्चतँ
   येन अक्षान् अभि-असिञ्चतम्

द् येनेमां पृथिवीं महीम्।
   येन इमाम् पृथिवीम् महीम्।

ए यद् वां तद् अश्विना यशस्
   यत् वाम् तत् अश्विना यशस्

f तेन माम् अभिषिञ्चतम् ॥
   तेन माम् अभि-सिञ्चतम् ॥

 6
अ उद्यन् भ्राजभृष्टिभिर् इन्द्रो मरुद्भिर् अस्थात्
   उत्-यन् भ्राज-भृष्टिभिष् इन्द्रस् मरुद्भिष् अस्थात्

ब् प्रातर्यावभिर् अस्थात्।
   प्रातर्-यावभिष् अस्थात्।

च् दशसनिर् असि दशसनिं मा कुर्व्
   दश-सनिष् असि दश-सनिम् मा कुरु

द् आ त्वा विशाम्य् आ मा विश ॥
   आ त्वा विशामि आ मा विश ॥

 7
अ उद्यन् भ्राजभृष्टिभिर् इन्द्रो मरुद्भिर् अस्थात्
   उत्-यन् भ्राज-भृष्टिभिष् इन्द्रस् मरुद्भिष् अस्थात्

ब् सांतपनेभिर् अस्थात्।
   साम्-तपनेभिष् अस्थात्।

च् शतसनिर् असि शतसनिं मा कुर्व्
   शत-सनिष् असि शत-सनिम् मा कुरु

द् आ त्वा विशाम्य् आ मा विश ॥
   आ त्वा विशामि आ मा विश ॥

 8
अ उद्यन् भ्राजभृष्टिभिर् इन्द्रो मरुद्भिर् अस्थात्
   उत्-यन् भ्राज-भृष्टिभिष् इन्द्रस् मरुद्भिष् अस्थात्

ब् सायँयावभिर् अस्थात्।
   सायम्-यावभिष् अस्थात्।

च् सहस्रसनिर् असि सहस्रसनिं मा कुर्व्
   सहस्र-सनिष् असि सहस्र-सनिम् मा कुरु

द् आ त्वा विशाम्य् आ मा विश ॥
   आ त्वा विशामि आ मा विश ॥

 9
अ चक्षुर् असि चक्षुष् ट्वम् अस्य्
   चक्षुष् असि चक्षुष् त्वम् असि

ब् अव मे पाप्मानं जहि।
   अव मे पाप्मानम् जहि।

च् सोमस् त्वा राजावतु
   सोमस् त्वा राजा अवतु

द् नमस् तेऽस्तु
   नमस् ते अस्तु

ए मा मा हिँसीः ॥
   मा मा हिँसीष् ॥

 10
अ उद् उत्तमँ वरुण पाशम् अस्मद्
   उत् उत्तमम् वरुण पाशम् अस्मत्

ब् अवाधमँ वि मध्यमँ श्रथाय।
   अव अधमम् वि मध्यमम् श्रथाय।

च् अथादित्य व्रते वयं तवानागसो अदितये स्याम ॥
   अथ आदित्य व्रते वयम् तव अन्-आगसस् अ-दितये स्याम ॥

 11
अ श्रीर् असि मयि रमस्व ॥
   श्रीष् असि मयि रमस्व ॥

 12
अ नेत्र्यौ स्थो नयतं माम् ॥
   नेत्र्यौ स्थस् नयतम् माम् ॥

 13
अ गन्धर्वोऽस्य् उपाव उप माम् अव ॥
   गन्धर्वस् असि उप-अवस् उप माम् अव ॥

 14
अ यक्षम् इव चक्षुषः प्रियो वो भूयासम् ॥
   यक्षम् इव चक्षुषस् प्रियस् वस् भूयासम् ॥

 15
अ ओष्ठापिधाना नकुली
   ओष्ठ-अपि=धाना नकुली

ब् दन्तपरिमितः पविः।
   दन्त-परि=मितस् पविष्।

च् जिह्वे मा जिह्वलो वाचं
   {जिह्वलो वर्। लेच्त्।; विह्वलो एद्।}
   जिह्वे मा जिह्वलस् वाचम्

द् चारु माद्येह वादय ॥
   चारु मा अद्य इह वादय ॥

 16
अ वनस्पते वीड्वङ्गो हि भूया
   वनस्-पते वीडु-अङ्गस् हि भूयास्

ब् अस्मत्सखा प्रतरणः सुवीरः।
   अस्मत्-सखा प्र-तरणस् सु-वीरस्।

च् गोभिः संनद्धो असि वीडयस्व ^
   गोभिष् सम्-नद्धस् असि वीडयस्व

द् आस्थाता ते जयतु जेत्वानि ॥
   आ-स्थाता ते जयतु जेत्वानि ॥

   तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 8
प्रेविओउस् पर्त्

8


1।8।1-8: गेदेइहेन् देस् विएह्स्।


 1
अ इमा मे विश्वतोवीर्यो
   इमास् मे विश्वतस्-वीर्यस्

ब् भव इन्द्रश् च रक्षताम्।
   {रक्षताम् कोन्जेक्तुर्; रक्षतम् एद्।}
   भवस् इन्द्रस् च रक्षताम्।

च् पूषँस् त्वं पर्यावर्तया-
   पूषन् त्वम् परि-आ=वर्तय

द् -नष्टा आयन्तु नो गृहान् ॥
   अ-नष्टास् आ-यन्तु नस् गृहान् ॥

 2
अ इमा मधुमतीर् मह्यम्
   इमास् मधुमतीष् मह्यम्

ब् अनष्टाः पयसा सह।
   अ-नष्टास् पयसा सह।

च् गाव आज्यस्य मातर
   गावस् आज्यस्य मातरस्

द् इहेमाः सन्तु भूयसीः ॥
   इह इमास् सन्तु भूयसीष् ॥

 3
अ गवाँ श्लेष्मासि
   गवाम् श्लेष्म असि

ब् गावो मयि श्लिष्यन्तु ॥
   गावस् मयि श्लिष्यन्तु ॥

 4
अ संग्रहण संगृहाण
   सम्-ग्रहण सम्-गृहाण

ब् ये जाताः पशवो मम।
   ये जातास् पशवस् मम।

च् पूषैषाँ शर्म यच्छतु
   पूषा एषाम् शर्म यच्छतु

द् यथा जीवन्तो अप्ययान् ॥
   यथा जीवन्तस् अपि-अयान् ॥

 5
अ भुवनम् असि साहस्रम्
   भुवनम् असि साहस्रम्

ब् इन्द्राय त्वा सृमोऽददात्।
   इन्द्राय त्वा सृमस् अददात्।

च् अक्षतम् अरिष्टम् इलान्दम् ॥
   अ-क्षतम् अ-रिष्टम् इलान्दम् ॥

 6
अ गोपोषणम् असि गोपोषस्येशिषे गोपोषाय त्वा।
   गो-पोषणम् असि गो-पोषस्य ईशिषे गो-पोषाय त्वा।

ब् सहस्रपोषणम् असि सहस्रपोषस्येशिषे
   सहस्र-पोषणम् असि सहस्र-पोषस्य ईशिषे

च् सहस्रपोषाय त्वा ॥
   सहस्र-पोषाय त्वा ॥

 7
अ लोहितेन स्वधितिना
   लोहितेन स्वधितिना

ब् मिथुनं कर्णयोः कृतम्।
   मिथुनम् कर्णयोष् कृतम्।

च् यावतीनाँयावतीनाँ व
   यावतीनाम्-यावतीनाम् वस्

द् ऐषमो लक्षणम् अकारिषम्।
   ऐषमस् लक्षणम् अकारिषम्।

ए भूयसीनांभूयसीनाँ व
   भूयसीनाम्-भूयसीनाम् वस्

f उत्तरामुत्तराँ समां क्रियासम् ॥
   उत्तराम्-उत्तराम् समाम् क्रियासम् ॥

 8
अ इयं तन्ती गवां माता
   इयम् तन्ती गवाम् माता

ब् सवत्सानां निवेशनी।
   स-वत्सानाम् नि-वेशनी।

च् सा नः पयस्वती दुहा
   सा नस् पयस्वती दुहे

द् उत्तरामुत्तराँ समाम् ॥
   उत्तराम्-उत्तराम् समाम् ॥
   
   तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 9
प्रेविओउस् पर्त्

छप्तेर्: 2

1


2।1।1-7: श्रवणा-Zएरेमोनिए।


 1
अ यः प्राच्यां दिशि सर्पराज
   यस् प्राच्याम् दिशि सर्प-राजस्

ब् एष ते बलिः ॥
   एष ते बलिष् ॥

 2
अ यो दक्षिणस्यां दिशि सर्पराज
   यस् दक्षिणस्याम् दिशि सर्प-राजस्

ब् एष ते बलिः ॥
   एष ते बलिष् ॥

 3
अ यः प्र्तीच्यां दिशि सर्पराज
   यस् प्र्तीच्याम् दिशि सर्प-राजस्

ब् एष ते बलिः ॥
   एष ते बलिष् ॥

 4
अ य उदीच्यां दिशि सर्पराज
   यस् उदीच्याम् दिशि सर्प-राजस्

ब् एष ते बलिः ॥
   एष ते बलिष् ॥

 5
अ नमः पृथिव्यै दँष्ट्राय
   नमस् पृथिव्यै दँष्ट्राय

ब् विश्वभृन् मा तेऽन्ते रिषाम।
   विश्व-भृत् मा ते अन्ते रिषाम।

च् सँहतं मा विवधीर्
   सम्-हतम् मा वि-वधीष्

द् विहतं माभिसँवधीः ॥
   वि-हतम् मा अभि-सम्=वधीष् ॥

 6
अ सोमो राजा सोमस्तम्बो राजा
   सोमस् राजा सोम-स्तम्बस् राजा

ब् सोमोऽस्माकँ राजा सोमस्य वयँ स्मः।
   सोमस् अस्माकम् राजा सोमस्य वयम् स्मस्।

च् अहिजम्भनम् असि सौमस्तम्बँ
   अहि-जम्भनम् असि सौम-स्तम्बम्

द् सौमस्तम्बम् अहिजम्भनम् असि ॥
   सौम-स्तम्बम् अहि-जम्भनम् असि ॥

 7
अ याँ सन्धाँ समधत्त
   याम् सम्-धाम् सम्-अधत्त

ब् यूयँ सप्तर्षिभिः सह।
   यूयम् सप्त-ऋषिभिष् सह।

च् ताँ सर्पा मात्यक्रामिष्ट
   ताम् सर्पास् मा अति-अक्रामिष्ट

द् नमो वो अस्तु मा नो हिँसिष्ट ॥
   नमस् वस् अस्तु मा नस् हिँसिष्ट ॥


2।1।8: पृषातक-ओप्fएर्।


 8
अ मा नस् तोके तनये मा न आयौ
   मा नस् तोके तनये मा नस् आयौ

ब् मा नो गोषु मा नो अश्वेषु रीरिषः।
   मा नस् गोषु मा नस् अश्वेषु रीरिषस्।

च् वीरान् मा नो रुद्र भामितो वधीर्
   वीरान् मा नस् रुद्र भामितस् वधीष्

द् हविष्मन्तः सदम् इत् त्वा हवामहे ॥
   हविष्मन्तस् सदम् इत् त्वा हवामहे ॥


2।1।9-16: एर्स्त्लिन्ग्सोप्fएर्।


 9
अ शतायुधाय शतवीर्याय
   शत-आयुधाय शत-वीर्याय

ब् शतोतयेऽभिमातिषाहे।
   शत-ऊतये अभि=माति-साहे।

च् शतँ यो नः शरदो अजीयाद्
   {अजीयाद्, अजीजाद् (व्ग्ल्। ब्लोओम्fइएल्द्, वेदिच् चोन्चोर्दन्चे, 913ब्) इस्त् कोर्रुप्तेल् füर् अजीतान्, व्ग्ल्। z।ब्। त्स् 5।7।2।3}
   शतम् यस् नस् शरदस् अजीयात्

द् इन्द्रो नेषद् अति दुरितानि विश्वा ॥
   इन्द्रस् नेषत् अति दुरितानि विश्वा ॥

 10
अ ये चत्वारः पथयो देवयाना
   ये चत्वारस् पथयस् देव-यानास्

ब् अन्तरा द्यावापृथिवी वियन्ति।
   अन्तरा द्यावा-पृथिवी वि-यन्ति।

च् तेषाँ यो अज्यानिम् अजीतिम् आवहात्
   तेषाम् यस् अ-ज्यानिम् अ-जीतिम् आ-वहात्

द् तस्मै नो देवाः परिदत्तेह सर्वे ॥
   तस्मै नस् देवास् परि-दत्त इह सर्वे ॥

 11
अ ग्रीष्मो हेमन्त उत नो वसन्तः
   ग्रीष्मस् हेमन्तस् उत नस् वसन्तस्

ब् शरद् वर्षाः सुवितं नो अस्तु।
   शरत् वर्षास् सु-इतम् नस् अस्तु।

च् तेषाम् ऋतूनाँ शतशारदानां
   तेषाम् ऋतूनाम् शत-शारदानाम्

द् निवात एषाम् अभये स्याम ॥
   नि-वाते एषाम् अ-भये स्याम ॥

 12
अ इद्वत्सराय परिवत्सराय
   इत्-वत्सराय परि-वत्सराय

ब् सँवत्सराय कृणुता बृहन् नमः।
   सम्-वत्सराय कृणुता बृहत् नमस्।

च् तेषाँ वयँ सुमतौ यज्ञियानां
   तेषाम् वयम् सु-मतौ यज्ञियानाम्

द् ज्योग् अजीता अहता स्याम ॥
   ज्योक् अ-जीतास् अ-हतास् स्याम ॥

 13
अ भद्रान् नः श्रेयः समनैष्ट देवास्
   भद्रात् नस् श्रेयस् सम्-अनैष्ट देवास्

ब् त्वयावसेन समशीमहि त्वा।
   त्वया अवसेन सम्-अशीमहि त्वा।

च् स नो मयोभूः पितव् आविशस्व
   स नस् मयस्-भूष् पितो आ-विशस्व

द् शं तोकाय तन्वै स्योनः ॥ स्वाहा ॥
   शम् तोकाय तन्वै स्योनस् ॥ स्वाहा ॥

 14
अ अमोऽसि प्राण तद् ऋतं ब्रवीम्य्
   अमस् असि प्राण तत् ऋतम् ब्रवीमि

ब् अमा ह्य् असि सर्वम् अनु प्रविष्टः।
   अमा हि असि सर्वम् अनु प्र-विष्टस्।

च् स मे जराँ रोगम् अपमृज्य शरीराद्
   स मे जराम् रोगम् अप-मृज्य शरीरात्

द् अपाम एधि मा मृथा न इन्द्र ॥
   अ-पामस् एधि मा मृथास् नस् इन्द्र ॥

 15
अ अग्निः प्राश्नातु प्रथमः
   अग्निष् प्र-अश्नातु प्रथमस्

ब् स हि वेद यथा हविः।
   स हि वेद यथा हविष्।

च् शिवा अस्मभ्यम् ओषधीः
   शिवास् अस्मभ्यम् ओषधीष्

द् कृणोतु विश्वचर्षणिः ॥ स्वाहा ॥
   कृणोतु विश्व-चर्षणिष् ॥ स्वाहा ॥

 16
अ एतम् उ त्यं मधुना सँयुतँ यवँ
   एतम् उ त्यम् मधुना सम्-युतम् यवम्

ब् सरस्वत्या अधि मनाव् अचकृषुः।
   सरस्वत्यास् अधि मनौ अचकृषुष्।

च् इन्द्र आसीत् सीरपतिः शतक्रतुः
   इन्द्रस् आसीत् सीर-पतिष् शत-क्रतुष्

द् कीनाशा आसन् मरुतः सुदानवः ॥ स्वाहा ॥
   कीनाशास् आसन् मरुतस् सु-दानवस् ॥ स्वाहा ॥
   
   तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 10
प्रेविओउस् पर्त्

2


2।2।1-4: आग्रहायण-Zएरेमोनिए।


 1
अ प्रथमा ह व्युवास
   प्रथमा ह वि-उवास

ब् सा धेनुर् अभवद् यमे।
   सा धेनुष् अभवत् यमे।

च् सा नः पयस्वती दुहाम्
   सा नस् पयस्वती दुहाम्

द् उत्तरामुत्तराँ समाम् ॥
   उत्तराम्-उत्तराम् समाम् ॥

 2
अ प्रति क्षत्रे प्रतितिष्ठामि राष्त्रे
   प्रति क्षत्रे प्रति-तिष्ठामि राष्त्रे

ब् प्रत्य् अश्वेषु प्रतितिष्ठामि गोषु।
   प्रति अश्वेषु प्रति-तिष्ठामि गोषु।

च् प्रति प्राणे प्रतितिष्ठामि पुष्टौ
   प्रति प्राणे प्रति-तिष्ठामि पुष्टौ

द् प्रत्य् अङ्गेषु प्रतितिष्ठाम्य् आत्मनि ॥
   प्रति अङ्गेषु प्रति-तिष्ठामि आत्मनि ॥

 3
अ प्रति द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे ॥
   प्रति द्यावा-पृथिव्योष् प्रति-तिष्ठामि यज्ञे ॥

 4
अ स्योना पृथिवि नो भवा-
   स्योना पृथिवि नस् भव

ब् -नृक्षरा निवेशनी।
   अन्-ऋक्षरा नि-वेशनी।

च् यच्छा नः शर्म सप्रथो
   यच्छा नस् शर्म स-प्रथस्

द् देवान् मा भयाद् इति ॥
   देवात् मा भयात् इति ॥


2।2।5 - 2।3।17: अष्टका-Fएइएर्न्।


 5
अ यत् पशवः प्रध्यायत
   यत् पशवस् प्र-ध्यायत

ब् मनसा हृदयेन च।
   मनसा हृदयेन च।

च् वाचा सहस्रपाशया
   वाचा सहस्र-पाशया

द् प्रतिबध्नामि वो मनः ॥
   प्रति-बध्नामि वस् मनस् ॥

 6
अ अनु त्वा माता मन्यताम्
   अनु त्वा माता मन्यताम्

ब् अनु पितानु भ्राता।
   अनु पिता अनु भ्राता।

च् सगर्भ्योऽनु सखा सयूथ्यः ॥
   स-गर्भ्यस् अनु सखा स-यूथ्यस् ॥

 7
अ आत्तं देवेभ्यो हविः ॥
   आ-त्तम् देवेभ्यस् हविष् ॥

 8
अ यत् पशुर् मायुम् अकृतो-
   यत् पशुष् मायुम् अकृत

ब् -रो वा पद्भिर् आहते।
   उरस् वा पद्भिष् आ-हते।

च् अग्निर् मा तस्माद् एनसो
   अग्निष् मा तस्मात् एनसस्

द् विश्वान् मुञ्चत्व् अँहसः ॥
   विश्वात् मुञ्चतु अँहसस् ॥

 9
अ अग्नाव् अग्निश् चरति प्रविष्ट
   अग्नौ अग्निष् चरति प्र-विष्टस्

ब् ऋषीणां पुत्रो अधिराज एषः।
   ऋषीणाम् पुत्रस् अधि-राजस् एषस्।

च् स नः स्योनः सुयजा यजाति
   स नस् स्योनस् सु-यजा यजाति

द् यथा देवानां जनिमानि वेद ॥
   यथा देवानाम् जनिमानि वेद ॥

 10
अ औलूखलाः संप्रवदन्ति ग्रावाणो
   औलूखलास् सम्-प्र=वदन्ति ग्रावाणस्

ब् हविष् कृण्वन्तः परिवत्सरीणाम्।
   हविष् कृण्वन्तस् परि-वत्सरीणाम्।

च् एकाष्टके सुप्रजसः सुवीरा
   एकाष्टके सु-प्र=जसस् सु-वीरास्

द् ज्योग् जीवेम बलिहृतो वयं ते ॥
   ज्योक् जीवेम बलि-हृतस् वयम् ते ॥

 11
अ इडायास् पदं घृतवत् सरीसृपं
   इडायास् पदम् घृतवत् सरीसृपम्

ब् जातवेदः प्रति हव्या गृभाय।
   जात-वेदस् प्रति हव्या गृभाय।

च् ये ग्राम्याः पशवो विश्वरूपास्
   ये ग्राम्यास् पशवस् विश्व-रूपास्

द् तेषाँ सप्तानां मयि रन्तिर् अस्तु ॥
   तेषाम् सप्तानाम् मयि रन्तिष् अस्तु ॥

 12
अ एषैव सा या पूर्वा व्यौच्छत्
   एषा एव सा या पूर्वा वि-औच्छत्

ब् सेयम् अप्स्व् अन्तश् चरति प्रविष्टा।
   सा इयम् अप्सु अन्तर् चरति प्र-विष्टा।

च् वधूर् जिगाय प्रथमा जनित्री
   {वधूर् कोर्रेक्तुर् नछ् आव्स् 3।10।4द् उ।अ।; वसूर् एद्।}
   वधूष् जिगाय प्रथमा जनित्री

द् विश्वे ह्य् अस्यां महिमानो अन्तः ॥
   विश्वे हि अस्याम् महिमानस् अन्तर् ॥

 13
अ एषैव सा या प्रथमा व्यौच्छत्
   एषा एव सा या प्रथमा वि-औच्छत्

ब् सा धेनुर् अभवद् विश्वरूपा।
   सा धेनुष् अभवत् विश्व-रूपा।

च् सँवत्सरस्य या पत्नी
   संवत्सरस्य या पत्नी

द् सा नो अस्तु सुमङ्गली ॥
   सा नस् अस्तु सु-मङ्गली ॥

 14
अ यां देवाः प्रतिपश्यन्ति
   याम् देवास् प्रति-पश्यन्ति

ब् रात्रीं धेनुम् इवायतीम्।
   रात्रीम् धेनुम् इव आ-यतीम्।

च् सा नः पयस्वती दुहा
   सा नस् पयस्वती दुहे

द् उत्तरामुत्तराँ समाम् ॥
   उत्तराम्-उत्तराम् समाम् ॥

 15
अ सँवत्सरस्य प्रतिमाँ
   संवत्सरस्य प्रति-माम्

ब् यां त्वा रात्रि यजामहे।
   याम् त्वा रात्रि यजामहे।

च् प्रजाम् अजर्यां नः कुरु
   प्रजाम् अ-जर्याम् नस् कुरु

द् रायस् पोषेण सँसृज ॥
   रायस् पोषेण सम्-सृज ॥

 16
अ अन्व् इमं नो अनुमतिर्
   अनु इमम् नस् अनु-मतिष्

ब् यज्ञं देवेषु मन्यताम्।
   यज्ञम् देवेषु मन्यताम्।

च् अग्निश् च हव्यवाहनः
   अग्निष् च हव्य-वाहनस्

द् स नो दाद् दाशुषे मयः ॥
   स नस् दात् दाशुषे मयस् ॥

   तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 11
प्रेविओउस् पर्त्

3

 1
अ स्वाहा सोमाय पितृमते ॥
   स्वाहा सोमाय पितृमते ॥

 2
अ स्वाहाग्नये कव्यवाहनाय ॥
   स्वाहा अग्नये कव्य-वाहनाय ॥

 3
अ अपहता असुरा रक्षाँसि वेदिषदः ॥
   अप-हतास् असुरास् रक्षाँसि वेदि-सदस् ॥

 4
अ ये रूपाणि प्रतिमुञ्चमाना
   ये रूपाणि प्रति-मुञ्चमानास्

ब् असुराः सन्तः स्वधया चरन्ति।
   असुरास् सन्तस् स्वधया चरन्ति।

च् परापुरो निपुरो ये भरन्त्य्
   परा-पुरस् नि-पुरस् ये भरन्ति

द् अग्निष् टाँल् लोकात् प्रणुदत्व् अस्मात् ॥
   अग्निष् तान् लोकात् प्र-नुदतु अस्मात् ॥

 5
अ एत पितरः सोम्यासो
   आ-इत पितरस् सोम्यासस्

ब् गम्भीरेभिः पथिभिः पूर्विणेभिः।
   गम्भीरेभिष् पथिभिष् पूर्विणेभिष्।

च् दत्तास्मभ्यं द्रविणेह भद्रँ
   दत्त अस्मभ्यम् द्रविणा इह भद्रम्

द् रयिं च नः सर्ववीरं नियच्छत ॥
   रयिम् च नस् सर्व-वीरम् नि-यच्छत ॥

 6
अ अत्र पितरो मादयध्वँ
   अत्र पितरस् मादयध्वम्

ब् यथाभागम् आवृषायध्वम् ॥
   यथा-भागम् आ-वृषायध्वम् ॥

 7
अ अमीमदन्त पितरो
   अमीमदन्त पितरस्

ब् यथाभागम् आवृषायिषत ॥
   यथा-भागम् आ-वृषायिषत ॥

 8
अ नमो वः पितरो जीवाय
   नमस् वस् पितरस् जीवाय

ब् नमो वः पितरः शूषाय ॥
   नमस् वस् पितरस् शूषाय ॥

 9
अ नमो वः पितरो घोराय
   नमस् वस् पितरस् घोराय

ब् नमो वः पितरो रसाय ॥
   नमस् वस् पितरस् रसाय ॥

 10
अ नमो वः पितरः स्वधायै
   नमस् वस् पितरस् स्वधायै

ब् नमो वः पितरो मन्यवे ॥
   नमस् वस् पितरस् मन्यवे ॥

 11
अ नमो वः पितरः पितरो नमो वः ॥
   नमस् वस् पितरस् पितरस् नमस् वस् ॥

 12
अ गृहान् नः पितरो दत्त ॥
   गृहान् नस् पितरस् दत्त ॥

 13
अ सदो वः पितरो देष्म ॥
   सदस् वस् पितरस् देष्म ॥

 14
अ एतद् वः पितरो वासः ॥
   एतत् वस् पितरस् वासस् ॥

 15
अ ऊर्जँ वहन्तीर् अमृतं घृतं पयः
   ऊर्जम् वहन्तीष् अ-मृतम् घृतम् पयस्

ब् कीलालं परिस्रुतँ स्वधा स्थ।
   कीलालम् परि-स्रुतम् स्वधास् स्थ।

च् तर्पयत मे पित्îऋन् ॥
   तर्पयत मे पित्îऋन् ॥

 16
अ आधत्त पितरो गर्भं
   आ-धत्त पितरस् गर्भम्

ब् कुमारं पुष्करस्रजम्।
   कुमारम् पुष्कर-स्रजम्।

च् यथेह पुरुषः स्यात् ॥
   यथा इह पुरुषस् स्यात् ॥

 17
अ अभून् नो दूतो हविषो जातवेदा
   अभूत् नस् दूतस् हविषस् जात-वेदास्

ब् अवाड् ढव्यानि सुरभीणि कृत्वा।
   अवाट् हव्यानि सु-रभीणि कृत्वा।

च् प्रादात् पितृभ्यः स्वधया ते अक्षन्
   प्र-अदात् पितृभ्यस् स्वधया ते अक्षन्

द् प्रजानन्न् अग्ने पुनर् एहि योनिम् ॥
   प्र-जानन् अग्ने पुनर् आ-इहि योनिम् ॥


2।3।18-19: बेसोन्देरे Fäल्ले बेइ तिएरोप्fएर्न्।


 18
अ वह वपां जातवेदः पितृभ्यो
   वह वपाम् जात-वेदस् पितृभ्यस्

ब् यत्रैतान् वेत्थ निहितान् पराचः।
   यत्र एतान् वेत्थ नि-हितान् पराचस्।

च् मेदसः कुल्या अभि तान् स्रवन्तु
   मेदसस् कुल्यास् अभि तान् स्रवन्तु

द् सत्या एषाम् आशिषः सन्तु कामाः ॥ स्वाहा ॥
   सत्यास् एषाम् आ-शिषस् सन्तु कामास् ॥ स्वाहा ॥

 19
अ जातवेदो वपया गच्छ देवाँस्
   जातवेदस् वपया गच्छ देवान्

ब् त्वँ हि होता प्रथमो बभूव।
   त्वम् हि होता प्रथमस् बभूव।

च् सत्या वपा प्रगृहीता मे अस्तु
   सत्या वपा प्र-गृहीता मे अस्तु

द् समृध्यतां मे यद् इदं करोमि ॥
   सम्-ऋध्यताम् मे यत् इदम् करोमि ॥


2।3।20: Zउर्üच्केर्स्तत्तुन्ग् एइनेर् स्छुल्द्।


 20
अ यत् कुसीदम् अप्रदत्तं मयेह
   यत् कुसीदम् अ-प्र=दत्तम् मया इह

ब् येन यमस्य निधिना चराणि।
   येन यमस्य नि-धिना चराणि।

च् इदं तद् अग्ने अनृणो भवामि
   इदम् तत् अग्ने अन्-ऋणस् भवामि

द् जीवन्न् एव प्रति तत् ते ददामि ॥
   जीवन् एव प्रति तत् ते ददामि ॥


2।3।21: इन्द्र।


 21
अ एकाष्टका तपसा तप्यमाना
   एकाष्टका तपसा तप्यमाना

ब् जजान गर्भं महिमानम् इन्द्रम्।
   जजान गर्भम् महिमानम् इन्द्रम्।

च् तेन देवा असहन्त शत्रून्
   तेन देवास् असहन्त शत्रून्

द् हन्तासुराणाम् अभवच् छचीभिः ॥
   हन्ता असुराणाम् अभवत् शचीभिष् ॥
   
   तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 12
प्रेविओउस् पर्त्

4

 1
अ इदं भूमेर् भजामह
   इदम् भूमेष् भजामहे

ब् इदं भद्रँ सुमङ्गलम्।
   इदम् भद्रम् सु-मङ्गलम्।

च् परा सपत्नान् बाधस्वा-
   परा सपत्नान् बाधस्व

द् -न्येषाँ विन्दते धनम्
   अन्येषाम् विन्दते धनम्

ए अन्येषाँ विन्दते वसु ॥
   अन्येषाम् विन्दते वसु ॥

 2
अ इमँ स्तोमम् अर्हते जातवेदसे
   इमम् स्तोमम् अर्हते जात-वेदसे

ब् रथम् इव संमहेमा मनीषया।
   रथम् इव सम्-महेमा मनीषया।

च् भद्रा हि नः प्रमतिर् अस्य सँसद्य्
   भद्रा हि नस् प्र-मतिष् अस्य सम्-सदि

द् अग्ने सख्ये मा रिषामा वयं तव ॥
   अग्ने सख्ये मा रिषामा वयम् तव ॥

 3
अ भरामेध्मं कृणवामा हवीँषि ते
   भराम इध्मम् कृणवामा हवीँषि ते

ब् चितयन्तः पर्वणापर्वणा वयम्।
   चितयन्तस् पर्वणा-पर्वणा वयम्।

च् जीवातवे प्रतराँ साधया धियो
   जीवातवे प्रतराम् साधया धियस्

द् अग्ने सख्ये मा रिषामा वयं तव ॥
   अग्ने सख्ये मा रिषामा वयम् तव ॥

 4
अ शकेम त्वा समिधँ साधया धियस्
   शकेम त्वा सम्-इधम् साधया धियस्

ब् त्वे देवा हविर् अदन्त्य् आहुतम्।
   त्वे देवास् हविष् अदन्ति आ-हुतम्।

च् त्वम् आदित्याँ आवह ताँ ह्य् उश्मस्य्
   त्वम् आदित्यान् आ-वह तान् हि उश्मसि

द् अग्ने सख्ये मा रिषामा वयं तव ॥
   अग्ने सख्ये मा रिषामा वयम् तव ॥

 5
अ तपश् च तेजश् च श्रद्धा च ह्रीश् च सत्यं चा-
   तपस् च तेजस् च श्रद्धा च ह्रीष् च सत्यम् च

ब् -क्रोधश् च त्यागश् च धृतिश् च धर्मश् च
   अ-क्रोधस् च त्यागस् च धृतिष् च धर्मस् च

च् सत्वं च वाक् च मनश् चात्मा च ब्रह्म च
   सत्वम् च वाक् च मनस् च आत्मा च ब्रह्म च

द् तानि प्रपद्ये तनि माम् अवन्तु।
   तानि प्र-पद्ये तनि माम् अवन्तु।

ए भूर् भुवः स्वर् ओं
   भूष् भुवस् स्वर् ओम्

f महान्तम् आत्मानं प्रपद्ये ॥
   महान्तम् आत्मानम् प्र-पद्ये ॥

 6
अ विरूपाक्षोऽसि दन्ताञ्जिः।
   वि=रूप-अक्षस् असि दन्त-अञ्जिष्।

ब् तस्य ते शय्या पर्णे गृहा अन्तरिक्षे विमितँ हिरण्मयम्।
   तस्य ते शय्या पर्णे गृहास् अन्तरिक्षे वि-मितम् हिरण्मयम्।

च् तद् देवानाँ हृदयान्य् अयस्मये कुम्भेऽन्तः संनिहितानि।
   तत् देवानाम् हृदयानि अयस्मये कुम्भे अन्तर् सम्-नि=हितानि।

द् तानि बलभृच् च बलसाच् च रक्षतोऽप्रमणी अनिमिषतः सत्यम्।
   तानि बल-भृत् च बल-सात् च रक्षतस् अ-प्र=मणी अ-नि=मिषतस् सत्यम्।

ए यत् ते द्वादश पुत्रास्
   यत् ते द्वा-दश पुत्रास्

f ते त्वा सँवत्सरेसँवत्सरे कामप्रेण यज्ञेन याजयित्वा
   ते त्वा संवत्सरे-संवत्सरे काम-प्रेण यज्ञेन याजयित्वा

ग् पुनर् ब्रह्मचर्यम् उपयन्ति।
   पुनर् ब्रह्म्-अचर्यम् उप-यन्ति।

ह् त्वं देवेषु ब्राह्मणोऽस्य् अहं मनुष्येषु
   त्वम् देवेषु ब्राह्मणस् असि अहम् मनुष्येषु

इ ब्राह्मणो वै ब्राह्मणम् उपधावत्य् उप त्वा धावामि।
   ब्राह्मणस् वै ब्राह्मणम् उप-धावति उप त्वा धावामि।

ज् जपन्तं मा मा प्रतिजापीर् जुह्वन्तं मा मा प्रतिहौषीः
   जपन्तम् मा मा प्रति-जापीष् जुह्वन्तम् मा मा प्रति-हौषीष्

क् कुर्वन्तं मा मा प्रतिकार्षीः।
   कुर्वन्तम् मा मा प्रति-कार्षीष्।

ल् त्वां प्रपद्ये त्वया प्रसूत इदं कर्म करिष्यामि
   त्वाम् प्र-पद्ये त्वया प्र-सूतस् इदम् कर्म करिष्यामि

म् तन् मे राध्यतां तन् मे समृध्यतां तन् म उपपद्यताम्।
   तत् मे राध्यताम् तत् मे सम्-ऋध्यताम् तत् मे उप-पद्यताम्।

न् समुद्रो मा विश्वव्यचा ब्रह्मानुजानातु
   समुद्रस् मा विश्व-व्यचास् ब्रह्मा अनु-जानातु

ओ तुथो मा विश्ववेदा ब्रह्मणः पुत्रोऽनुजानातु
   तुथस् मा विश्व-वेदास् ब्रह्मणस् पुत्रस् अनु-जानातु

प् श्वात्रो मा प्रचेता मैत्रावरुणोऽनुजानातु।
   श्वात्रस् मा प्र-चेतास् मैत्रा-वरुणस् अनु-जानातु।

q तस्मै विरूपाक्षाय दन्ताञ्जये समुद्राय विश्वव्यचसे
   तस्मै वि=रूप-अक्षाय दन्त-अञ्जये समुद्राय विश्व-व्यचसे

र् तुथाय विश्ववेदसे श्वात्राय प्रचेतसे
   तुथाय विश्व-वेदसे श्वात्राय प्र-चेतसे

स् सहस्राक्षाय ब्रह्मणः पुत्राय नमः ॥
   सहस्र-अक्षाय ब्रह्मणस् पुत्राय नमस् ॥

 7
अ सहस्रबाहुर् गौपत्यः
   सहस्र-बाहुष् गौ-पत्यस्

ब् स पशून् अभिरक्षतु।
   स पशून् अभि-रक्षतु।

च् मयि पुष्टिं पुष्टिपतिर् दधातु
   मयि पुष्टिम् पुष्टि-पतिष् दधातु

द् मयि प्रजां प्रजापतिः ॥ स्वाहा ॥
   मयि प्रजाम् प्रजा-पतिष् ॥ स्वाहा ॥

 8
अ कौतोमतँ सँवननँ
   कौतोमतम् सम्-वननम्

ब् सुभागंकरणं मम।
   सु=भागम्-करणम् मम।

च् नाकुली नाम ते माता-
   नाकुली नाम ते माता

द् -थाहं पुरुषामयः।
   अथ अहम् पुरुषामयस्।

ए यन् नौ कामस्य विच्छिन्नं
   यत् नौ कामस्य वि-छिन्नम्

f तन् नौ संधेह्य् ओषधे ॥
   तत् नौ सम्-धेहि ओषधे ॥

 9
अ वृक्ष इव पक्वस् तिष्ठसि
   वृक्षस् इव पक्वस् तिष्ठसि

ब् सर्वान् कामान् भुवस्पते।
   सर्वान् कामान् भुवस्-पते।

च् यस् त्वैनँ वेद तस्मै मे
   यस् त्वा एनम् वेद तस्मै मे

द् भोगान् धुक्ष्वाक्षतान् बृहन् ॥
   भोगान् धुक्ष्व अ-क्षतान् बृहन् ॥

 10
अ ऋतँ सत्ये प्रतिष्ठितं
   ऋतम् सत्ये प्रति-स्थितम्

ब् भूतं भविष्यता सह।
   भूतम् भविष्यता सह।

च् आकाश उपनिरज्जतु
   आ-काशस् उप-नि=रज्जतु

द् मह्यम् अन्नम् अथो श्रियम् ॥
   मह्यम् अन्नम् अथो श्रियम् ॥

 11
अ अभिभागोऽसि सर्वस्मिँस्
   अभि-भागस् असि सर्वस्मिन्

ब् तद् उ सर्वं त्वयि श्रितम्।
   तत् उ सर्वम् त्वयि श्रितम्।

च् तेन सर्वेण सर्वो मा
   तेन सर्वेण सर्वस् मा

द् विवासन विवासय ॥
   वि-वासन वि-वासय ॥

 12
अ कोश इव पूर्णो वसुना
   कोशस् इव पूर्णस् वसुना

ब् त्वं प्रीतो ददसे धनम्।
   {ददसे ब्लोओम्fइएल्द्, वेदिच् चोन्चोर्दन्चे, 461अ; दधसे एद्।}
   त्वम् प्रीतस् ददसे धनम्।

च् अदृष्टो दृष्टम् आभर
   अ-दृष्टस् दृष्टम् आ-भर

द् सर्वान् कामान् प्रयच्छ मे ॥
   सर्वान् कामान् प्र-यच्छ मे ॥

 13
अ आकाशस्यैष आकाशो
   आ-काशस्य एष आ-काशस्

ब् यद् एतद् भाति मण्डलम्।
   यत् एतत् भाति मण्डलम्।

च् एवं त्वा देव यो वेदे-
   {देव यो कोन्जेक्तुर् ज्öर्गेन्सेन्, स्। 67; वेद यो एद्।}
   एवम् त्वा देव यस् वेद

द् -शानेशां प्रयच्छ मे ॥
   {-एशां प्र- कोन्जेक्तुर् ज्öर्गेन्सेन्, स्। 67; -एशान् प्र- एद्।}
   ईशान ईशाम् प्र-यच्छ मे ॥

 14
अ भूर् भुवः स्वर् ओँ
   भूष् भुवस् स्वर् ओम्

ब् सूर्य इव दृशे भूयासम्
   सूर्यस् इव दृशे भूयासम्

च् अग्निर् इव तेजसा वायुर् इव प्राणेन
   अग्निष् इव तेजसा वायुष् इव प्राणेन

द् सोम इव गन्धेन बृहस्पतिर् इव बुद्ध्या-
   सोमस् इव गन्धेन बृहस्-पतिष् इव बुद्ध्या

ए -श्विनाव् इव रूपेणेन्द्राग्नी इव बलेन
   अश्विनौ इव रूपेण इन्द्र-अग्नी इव बलेन

f ब्रह्मभाग एवाहं भूयासं
   ब्रह्म-भागस् एव अहम् भूयासम्

ग् पाप्मभागा मे द्विषन्तः ॥
   पाप्म-भागास् मे द्विषन्तस् ॥

   तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 13
प्रेविओउस् पर्त्

5

 1
अ मूर्ध्नोऽधि मे वैश्रवणाञ्
   मूर्ध्नस् अधि मे वै-श्रवणान्

ब् छिरसोऽनुप्रवेशिनः।
   शिरसस् अनु-प्र=वेशिनस्।

च् ललाटाद् घस्वरान् घोरान्
   ललाटात् घस्वरान् घोरान्

द् विघनान् विबृहामि वः ॥ स्वाहा ॥
   वि-घनान् वि-बृहामि वस् ॥ स्वाहा ॥

 2
अ ग्रीवाभ्यो मे स्कन्धाभ्यां मे
   ग्रीवाभ्यस् मे स्कन्धाभ्याम् मे

ब् नस्तो मेऽनुप्रवेशिनः।
   नस्तस् मे अनु-प्र=वेशिनस्।

च् मुखान् मे वद्वदान् घोरान्
   मुखात् मे वद्वदान् घोरान्

द् विघनान् विबृहामि वः ॥ स्वाहा ॥
   वि-घनान् वि-बृहामि वस् ॥ स्वाहा ॥

 3
अ बाहुभ्यां मे यतोयतः
   बाहुभ्याम् मे यतस्-यतस्

ब् पार्श्वयोर् उद्भटान् अधि।
   पार्श्वयोष् उत्-भटान् अधि।

च् उरसो वद्वदान् घोरान्
   उरसस् वद्वदान् घोरान्

द् विघनान् विबृहामि वः ॥ स्वाहा ॥
   वि-घनान् वि-बृहामि वस् ॥ स्वाहा ॥

 4
अ वङ्क्ष्णाभ्यो मे लोहितादान्
   {वङ्क्ष्नाभ्यो द्रुच्क्fएह्लेर् इन् देर् एद्।}
   वङ्क्ष्णाभ्यस् मे लोहित-अदान्

ब् योनिहान् पज्रिहान् अधि।
   योनि-हान् पज्रि-हान् अधि।

च् ऊरुभ्यां निश्रिषो घोरान्
   ऊरुभ्याम् नि-श्रिषस् घोरान्

द् विघनान् विबृहामि वः ॥ स्वाहा ॥
   वि-घनान् वि-बृहामि वस् ॥ स्वाहा ॥

 5
अ जङ्गाभ्यां मे यतोयतः
   जङ्गाभ्याम् मे यतस्-यतस्

ब् पार्ष्ण्योर् उद्भटान् अधि।
   पार्ष्ण्योष् उत्-भटान् अधि।

च् पादयोर् विकिरान् घोरान्
   पादयोष् वि-किरान् घोरान्

द् विघनान् विबृहामि वः ॥ स्वाहा ॥
   वि-घनान् वि-बृहामि वस् ॥ स्वाहा ॥

 6
अ परिबाध्नँ यजामहे
   परि-बाध्नम् यजामहे

ब् अणुजङ्घँ शबलोदरम्।
   अणु-जङ्घम् शबल-उदरम्।

च् यो नोऽयं परिबाधते
   यस् नस् अयम् परि-बाधते

द् दानाय च भगाय च ॥ स्वाहा ॥
   दानाय च भगाय च ॥ स्वाहा ॥

 7
अ अपेहि त्वं परिबाध
   अप-इहि त्वम् परि-बाध

ब् मा विबाध विबाधथाः।
   मा वि-बाध वि-बाधथास्।

च् सुगं पन्थानं मे कुरु
   सु-गम् पन्थानम् मे कुरु

द् येन मा धनम् एष्यति ॥ स्वाहा ॥
   येन मा धनम् एष्यति ॥ स्वाहा ॥

 8
अ प्रजापते न त्वद् एतान्य् अन्यो
   प्रजा-पते न त्वत् एतानि अन्यस्

ब् विश्वा जातानि परि ता बभूव।
   विश्वा जातानि परि ता बभूव।

च् यत्कामास् ते जुहुमस् तन् नो अस्तु
   यत्-कामास् ते जुहुमस् तत् नस् अस्तु

द् वयँ स्याम पतयो रयीणाम् ॥ स्वाहा ॥
   वयम् स्याम पतयस् रयीणाम् ॥ स्वाहा ॥

 9
अ यशोऽहं भवामि ब्राह्मणानाँ
   यशस् अहम् भवामि ब्राह्मणानाम्

ब् यशो राज्ञाँ यशो विशाँ
   यशस् राज्ञाम् यशस् विशाम्

च् यशः सत्यस्य भवामि
   यशस् सत्यस्य भवामि

द् भवामि यशसो यशः ॥
   भवामि यशसस् यशस् ॥

 10
अ पुनर् मा यन्तु देवता
   पुनर् मा यन्तु देवतास्

ब् या मद् अपचक्रमुर् महस्वन्तो महान्तो
   यास् मत् अप-चक्रमुष् महस्वन्तस् महान्तस्

च् भवाम्य् अस्मिन् पात्रे हरिते सोमपृष्ठे ॥
   भवामि अस्मिन् पात्रे हरिते सोम-पृष्ठे ॥

 11
अ रूप रूपं मे दिश
   रूप रूपम् मे दिश

ब् प्रातरह्नस्य तेजसो
   प्रातर्-अह्नस्य तेजसस्

च् अन्नम् उग्रस्य प्राशिषम्
   अन्नम् उग्रस्य प्र-आशिषम्

द् अस्तु वै मयि त्वयीदम्
   अस्तु वै मयि त्वयि इदम्

ए अस्तु त्वयि मयीदम् ॥
   अस्तु त्वयि मयि इदम् ॥

 12
अ यद् इदं पश्यामि चक्षुषा
   यत् इदम् पश्यामि चक्षुषा

ब् त्वया दत्तं प्रभासया
   त्वया दत्तम् प्र-भासया

च् तेन मा भुञ्ज तेन भुक्षिषीय तेन मा विश ॥
   तेन मा भुञ्ज तेन भुक्षिषीय तेन मा विश ॥

 13
अ अहर् नो अत्यपीपरद् रात्रिर् नो अतिपारयद्
   अहर् नस् अति-अपीपरत् रात्रिष् नस् अति-पारयद्

ब् रात्रिर् नो अत्यपीपरद् अहर् नो अतिपारयत् ॥
   रात्रिष् नस् अति-अपीपरत् अहर् नस् अति-पारयत् ॥

 14
अ आदित्य नावम् आरोक्षं
   आदित्य नावम् आ-अरोक्षम्

ब् पूर्णाम् अपरिपादिनीम्।
   पूर्णाम् अ-परि=पादिनीम्।

च् अच्छिद्रां पारयिष्ण्वीँ
   अ-छिद्राम् पारयिष्ण्वीम्

द् शतारित्राँ स्वस्तये ॥
   शत-अरित्राम् स्वस्तये ॥

 15
अ भलाय स्वाहा ॥
   भलाय स्वाहा ॥

 16
अ भल्लाय स्वाहा ॥
   भल्लाय स्वाहा ॥
   
   तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 14
प्रेविओउस् पर्त्

6
2।6।1: हौस्बौ।


 1
अ वास्तोष्पते प्रतिजानीह्य् अस्मान्
   वास्तोष्-पते प्रति-जानीहि अस्मान्

ब् स्वावेशो अनमीवो भवा नः।
   सु-आ=वेशस् अन्-अमीवस् भवा नस्।

च् यत् त्वेमहे प्रति तन् नो जुषस्व
   {त्वेमहे कोन्जेक्तुर् ज्öर्गेन्सेन्, स्। 70; ते महे एद्।}
   यत् त्वा ईमहे प्रति तत् नस् जुषस्व

द् शं नो भव द्विपदे शं चतुष्पदे ॥
   शम् नस् भव द्वि-पदे शम् चतुष्-पदे ॥


2।6।2 - 2।7।6: Wउन्स्छ्- उन्द् वेर्ह्üतुन्ग्सोप्fएर्।


 2
अ हये राके सिनीवलि
   हये राके सिनीवलि

ब् सिनीवलि पृथुष्टुके।
   सिनीवलि पृथु-स्तुके।

च् सुभद्रे पथ्ये रेवति
   सु-भद्रे पथ्ये रेवति

द् पथा नो यश आवह ॥ स्वाहा ॥
   पथा नस् यशस् आ-वह ॥ स्वाहा ॥

 3
अ ये यन्ति प्राञ्चः पन्थानो
   ये यन्ति प्राञ्चस् पन्थानस्

ब् य उ चोत्तरत आययुः।
   ये उ च उत्तरतस् आ-ययुष्।

च् ये चेमे सर्वे पन्थानस्
   ये च इमे सर्वे पन्थानस्

द् तेभिर् नो यश आवह ॥ स्वाहा ॥
   तेभिष् नस् यशस् आ-वह ॥ स्वाहा ॥

 4
अ यथा यन्ति प्रपदो
   यथा यन्ति प्र-पदस्

ब् यथा मासा अहर्जरम्।
   यथा मासास् अहर्-जरम्।

च् एवं मा श्रीधातारः
   एवम् मा श्री-धातारस्

द् समवयन्तु सर्वतः ॥ स्वाहा ॥
   सम्-अव=यन्तु सर्वतस् ॥ स्वाहा ॥

 5
अ यथा समुद्रँ स्रवन्तीः
   यथा समुद्रम् स्रवन्तीष्

ब् समवयन्ति दिशोदिशः।
   सम्-अव=यन्ति दिशस्-दिशस्।

च् एवं मा सखायो ब्रह्मचारिणः
   एवम् मा सखायस् ब्रह्म-चारिणस्

द् समवयन्तु दिशोदिशः ॥ स्वाहा ॥
   सम्-अव=यन्तु दिशस्-दिशस् ॥ स्वाहा ॥

 6
अ वसुवन एधि वसुवन एधि वसुवन एधि ॥
   वसु-वने एधि वसु-वने एधि वसु-वने एधि ॥

 7
अ वशंगमौ देवयानौ युवँ स्थो
   वशम्-गमौ देव-यानौ युवम् स्थस्

ब् यथा युवयोः सर्वाणि भूतानि वशम् आयन्त्य्
   यथा युवयोष् सर्वाणि भूतानि वशम् आ-यन्ति

च् एवं ममासौ वशम् एतु ॥ स्वाहा ॥
   एवम् मम असौ वशम् एतु ॥ स्वाहा ॥

 8
अ शङ्खश् च मनआयुश् च देवयानौ युवँ स्थो
   शङ्खस् च मनस्-आयुष् च देव-यानौ युवम् स्थस्

ब् यथा युवयोः सर्वाणि भूतानि वशम् आयन्त्य्
   यथा युवयोष् सर्वाणि भूतानि वशम् आ-यन्ति

च् एवं ममासौ वशम् एतु ॥ स्वाहा ॥
   एवम् मम असौ वशम् एतु ॥ स्वाहा ॥

 9
अ आकूतीं देवीं मनसा प्रपद्ये
   आकूतीम् देवीम् मनसा प्र-पद्ये

ब् यज्ञस्य मातरँ सुहवा मे अस्तु।
   यज्ञस्य मातरम् सु-हवा मे अस्तु।

च् यस्यास् त एकम् अक्षरं परँ
   यस्यास् ते एकम् अक्षरम् परम्

द् सहस्रा अयुतं च शाखास्
   सहस्रास् अयुतम् च शाखास्

ए तस्यै वाचे निहवे जुहोम्य्
   तस्यै वाचे नि-हवे जुहोमि

f आ मा वरो गच्छतु श्रीर् यशश् च ॥ स्वाहा ॥
   आ मा वरस् गच्छतु श्रीष् यशस् च ॥ स्वाहा ॥

 10
अ इदम् अहम् इमँ विश्वकर्माणँ श्रीवत्सम् अभिजुहोमि ॥ स्वाहा ॥
   इदम् अहम् इमम् विश्व-कर्माणम् श्री-वत्सम् अभि-जुहोमि ॥ स्वाहा ॥

 11
अ पूर्णहोमँ यशसे जुहोमि
   पूर्ण-होमम् यशसे जुहोमि

ब् योऽस्मै जुहोति वरम् अस्मै ददाति
   यस् अस्मै जुहोति वरम् अस्मै ददाति

च् वरँ वृणे यशसा भामि लोके ॥ स्वाहा ॥
   वरम् वृणे यशसा भामि लोके ॥ स्वाहा ॥

 12
अ इन्द्रामवदात्
   इन्द्रामवदात्
   {उन्वेर्स्त्äन्द्लिछ्}

ब् तमो वः पुरस्ताद्
   तमस् वस् पुरस्तात्

च् अहँ वो ज्योतिर्
   अहम् वस् ज्योतिष्

द् माम् अभ्येत सर्वे ॥ स्वाहा ॥
   माम् अभि-एत सर्वे ॥ स्वाहा ॥

 13
अ अन्नँ वा एकच्छन्दस्यम्
   अन्नम् वा एक-छन्दस्यम्

ब् अन्नँ ह्य् एकं भूतेभ्यश् छन्दयति ॥ स्वाहा ॥
   अन्नम् हि एकम् भूतेभ्यस् छन्दयति ॥ स्वाहा ॥

 14
अ श्रीर् वा एषा यत् सत्वानो
   श्रीष् वा एषा यत् सत्वानस्

ब् विरोचनो मयि सत्त्वम् अवदधातु ॥ स्वाहा ॥
   वि-रोचनस् मयि सत्त्वम् अव-दधातु ॥ स्वाहा ॥

 15
अ अन्नस्य घृतम् एव रसस्
   अन्नस्य घृतम् एव रसस्

ब् तेजःसंपत्कामो जुहोमि ॥ स्वाहा ॥
   तेजस्=सम्=-पत्-कामस् जुहोमि ॥ स्वाहा ॥

 16
अ क्षुधे स्वाहा ॥
   क्षुधे स्वाहा ॥

 17
अ क्षुत्पिपासाभ्याँ स्वाहा ॥
   क्षुत्-पिपासाभ्याम् स्वाहा ॥

 18
अ मा भैषीर् न मरिष्यसि
   मा भैषीष् न मरिष्यसि

ब् जरदष्टिर् भविष्यसि।
   जरत्-अष्टिष् भविष्यसि।

च् रसँ विषस्य नाविदम्
   रसम् विषस्य न अविदम्

द् उग्रस्फेनम् इवास्यम् ॥
   उग्र-स्फेनम् इव आस्यम् ॥

 19
अ तुर गोपाय मा नाथ गोपाय मा-
   तुर गोपाय मा नाथ गोपाय मा

ब् -शस्तिभ्योऽरातिभ्यः
   अ-शस्तिभ्यस् अ-रातिभ्यस्

च् स्वस्त्ययनम् असि ॥
   स्वस्ति-अयनम् असि ॥
   तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 15
प्रेविओउस् पर्त्

7

 1
अ हतस् ते अत्रिणा कृमिर्
   हतस् ते अत्रिणा कृमिष्

ब् हतस् ते जमदग्निना।
   हतस् ते जमत्-अग्निना।

च् गोतमेन तृणीकृतो
   गोतमेन तृणी-कृतस्

द् अत्रैव त्वा कृमे ब्रह्मवद्यम् अवद्यम् ॥
   अत्र एव त्वा कृमे ब्रह्म-वद्यम् अ-वद्यम् ॥

 2
अ भरद्वाजस्य मन्त्रेण
   भरत्-वाजस्य मन्त्रेण

ब् संतृणोमि कृमे त्वा ॥
   सम्-तृणोमि कृमे त्वा ॥

 3
अ कृमिँ ह वक्रतोदिनं
   कृमिम् ह वक्र-तोदिनम्

ब् कृमिम् आन्त्रानुचारिणम्।
   कृमिम् आन्त्र-अनु=चारिणम्।

च् कृमिं द्विशीर्षम् अर्जुनं
   कृमिम् द्वि-शीर्षम् अर्जुनम्

द् द्विशीर्षँ ह चतुर्हनुम् ॥
   द्वि-शीर्षम् ह चतुष्-हनुम् ॥

 4
अ हतः कृमीणां क्षुद्रको
   हतस् कृमीणाम् क्षुद्रकस्

ब् हता माता हतः पिता।
   हता माता हतस् पिता।

च् अथैषां भिन्नकः कुम्भो
   अथ एषाम् भिन्नकस् कुम्भस्

द् य एषाँ विषधानकः ॥
   यस् एषाम् विष-धानकस् ॥

 5
अ कृमिम् इन्द्रस्य बाहुभ्याम्
   कृमिम् इन्द्रस्य बाहुभ्याम्

ब् अवाञ्चं पातयामसि ॥
   अवाञ्चम् पातयामसि ॥

 6
अ हताः कृमयः साशातिकाः सनीलमक्षिकाः ॥
   हतास् कृमयस् स-आशातिकास् स-नील=मक्षिकास् ॥
   
   तितुस्
सम-वेद: मन्त्र-ब्रह्मन
पर्त् नो। 16
प्रेविओउस् पर्त्

8





 1
अ अर्हणा पुत्रवास
   {पुत्रवास इस्त् कोर्रुप्तेल्; व्ग्ल्। ओल्देन्बेर्ग्, स्बे 30, स्। 129; अम् एन्दे कोन्जेक्तुर् क्नौएर् उवास; दस् मेत्रुम् हत् एइने सिल्बे zउwएनिग्}
   अर्हणा पुत्रवास

ब् सा धेनुर् अभवद् यमे।
   सा धेनुष् अभवत् यमे।

च् सा नः पयस्वती दुहा
   सा नस् पयस्वती दुहे

द् उत्तरामुत्तराँ समाम् ॥
   उत्तराम्-उत्तराम् समाम् ॥

 2
अ इदम् अहम् इमां पद्याँ विराजम्
   इदम् अहम् इमाम् पद्याम् विराजम्

ब् अन्नाद्यायाधितिष्ठामि ॥
   अन्न-अद्याय अधि-तिष्ठामि ॥

 3
अ या ओषधीः सोमराज्ञीर्
   यास् ओषधीष् सोम-राज्ञीष्

ब् बह्वीः शतविचक्षणाः।
   बह्वीष् शत-वि=चक्षणास्।

च् ता मह्यम् अस्मिन्न् आसने
   तास् मह्यम् अस्मिन् आसने

द् अच्छिद्राः शर्म यच्छत ॥
   अ-छिद्रास् शर्म यच्छत ॥

 4
अ या ओषधीः सोमराज्ञीर्
   यास् ओषधीष् सोम-राज्ञीष्

ब् विष्ठिताः पृथिवीम् अनु।
   वि-स्थितास् पृथिवीम् अनु।

च् ता मह्यम् अस्मिन्न् आसने
   तास् मह्यम् अस्मिन् आसने

द् अच्छिद्राः शर्म यच्छत ॥
   अ-छिद्रास् शर्म यच्छत ॥

 5
अ यतो देवीः प्रतिपश्याम्य् आपस्
   यतस् देवीष् प्रति-पश्यामि आपस्

ब् ततो मा राद्धिर् आगच्छतु ॥
   ततस् मा राद्धिष् आ-गच्छतु ॥

 6
अ सव्यं पादम् अवनेनिजे
   सव्यम् पादम् अव-नेनिजे

ब् अस्मिन् राष्ट्रे श्रियं दधे ॥
   अस्मिन् राष्ट्रे श्रियम् दधे ॥

 7
अ दक्षिणं पादम् अवनेनिजे
   दक्षिणम् पादम् अव-नेनिजे

ब् अस्मिन् राष्ट्रे श्रियम् आवेशयामि ॥
   अस्मिन् राष्ट्रे श्रियम् आ-वेशयामि ॥

 8
अ पूर्वम् अन्यम् अपरम् अन्यम् उभौ पादाव् अवनेनिजे
   पूर्वम् अन्यम् अपरम् अन्यम् उभौ पादौ अव-नेनिजे

ब् राष्ट्रस्य र्द्ध्या अभयस्यावरुद्ध्यै ॥
   राष्ट्रस्य ऋद्ध्यै अ-भयस्य अव-रुद्ध्यै ॥

 9
अ अन्नस्य राष्ट्रिर् असि
   अन्नस्य राष्ट्रिष् असि

ब् राष्ट्रिर् अहं भूयासम्।
   राष्ट्रिष् अहम् भूयासम्।

 10
अ यशोऽसि यशो मयि धेहि ॥
   यशस् असि यशस् मयि धेहि ॥

 11
अ यशसो यशोऽसि ॥
   यशसस् यशस् असि ॥

 12
अ यशसो भक्षोऽसि
   यशसस् भक्षस् असि

ब् महसो भक्षोऽसि
   महसस् भक्षस् असि

च् श्रीभक्षोऽसि
   श्री-भक्षस् असि

द् श्रियं मयि धेहि ॥ स्वाहा ॥
   श्रियम् मयि धेहि ॥ स्वाहा ॥

 13
अ मुञ्च गाँ वरुण पाशाद्
   मुञ्च गाम् वरुण पाशात्

ब् द्विषन्तं मेऽभिधेहि
   द्विषन्तम् मे अभि-धेहि

च् तं जह्य् अमुष्य चोभयोर्
   तम् जहि अमुष्य च उभयोष्

द् उत्सृज गाम् अत्तु तृणानि पिबतूदकम् ॥
   उत्-सृज गाम् अत्तु तृणानि पिबतु उदकम् ॥

 14
अ माता रुद्रानां दुहिता वसूनाँ
   माता रुद्रानाम् दुहिता वसूनाम्

ब् स्वसादित्यानाम् अमृतस्य नाभिः।
   स्वसा आदित्यानाम् अ-मृतस्य नाभिष्।

च् प्र णु वोचं चिकितुषे जनाय
   प्र नु वोचम् चिकितुषे जनाय

द् मा गाम् अनागाम् अदितिँ वधिष्ट ॥
   मा गाम् अन्-आगाम् अदितिम् वधिष्ट ॥

ए (ओम् उत् सृजत) ॥
   (ओम् उत् सृजत) ॥

"https://sa.wikisource.org/w/index.php?title=मन्त्रब्राह्मणम्&oldid=403953" इत्यस्माद् प्रतिप्राप्तम्