मन्त्रकौमुदी

विकिस्रोतः तः



 मन्त्रकौमुदी


मिथिलाविद्यापिठग्रन्थमाला

प्राचिनाचार्यग्रन्थावली

अष्टमं पुष्पम्

मन्त्रकौमुदी

महामहोपाध्यायदेवनाथठाकुरतर्कपञ्चाननकृता

श्रीरमानाथ शर्मणा सम्पादिता

डा० जनार्दनमिश्रेण

प्रस्तावनासूच्यादिभिः संस्कृता

प्रकाशिता च

शक १८८२ सम्. २०१६ आड् १९६०

॥ ओं नम इष्टदेवतायै ॥

ओङ्कारे मिलितश्रुतेर्मृगदृशां मानावदाने रण-
त्पञ्चेषोर्निशितः शरो निधुवनक्रीडातरोरङ्कुरः ।
आतोद्यध्वननं मनोभवमनोराज्याभिषेकश्रियः स्वान्ते
शातमुरीकरिष्यति चिरात्कंसारिवंशीरवः ॥ १ ॥

अधरनिहितवंशीनादपीयूषसारै- र्व्रजयुवतिजनानां
मोहयन्मानसानि । हृदयकमलमध्ये योगिभिर्भावनीयो हरतु
दुरितजातं देवकीनन्दनो नः ॥ २ ॥

योऽभूत्पुरा रविकरः सकलागमज्ञ- स्तस्यात्मजो बुधिकरोऽस्य
च केशवस्तु [क्: केशवोऽपि] । तस्यात्मजः
सकलतन्त्रसरोजभास्वान् [क्: सूर्यः] गोविन्द एष भुवने
विदितश्चकास्ति ॥ ३ ॥

मीमांसामवतार्य यः सदसतामद्धा विवेके गुरु- र्यो
वेदान्तविचारचारुचरिते सिद्धान्तवाचस्पतिः । आचार्योऽपि [क्:
उदयन आचार्य इति] विचार्यते यदवधिर्नैयायिको वा न वा
गोविन्दोऽयमखण्डमण्डलयशश्चन्द्रओ जगत्प्राप्तवान् ॥ ४ ॥

यो गोविन्द इति त्रिलोकविदितो यद्वाचि माध्वीरसो यद्गात्रे
सुरसिन्धुरेव करयोः के वा न कल्पद्रुमाः ।
तत्सिद्धान्तसरोरुहान्तरलसन्माध्वीकधारारसो-
न्मुग्धस्वान्तमधुव्रतो विजयते सत्तर्कपञ्चाननः ॥ ५ ॥

श्रीगोविन्दतनूद्भवेन सकलं तस्मादधीत्यागमं सिद्धान्तं
सरहस्यमस्य बहुशो विज्ञाय यत्नादरात् । विस्तारेषु
समर्थताविरहिणां सिद्ध्यर्थिनां प्रीतये मन्त्राणामयमत्र
साधनविधिः संक्षेपः कथ्यते ॥ १६ ॥

गोविन्दपञ्चमसुतो विदितो जगत्या- मत्यादरेण
विदिताखिलतन्त्रसारः । तर्काटवीसरणिसंभ्रमसाहसिक्य-
पञ्चाननो विजयते भुवि देवनाथः ॥ ७ ॥

वाग्देवनाथविदुषस्तनुते स्वभावा- दानन्दमेव पथि वा विपथे
सरन्ती । आस्वादिते मृदुतरे शयने वने वा बिम्बाधरे मृगदृशो
वद को विशेषः ॥ ८ ॥

ध्यानं पूजनयन्त्रं पूजावरणानि देवतापीठम् ।
विन्यासादिविशेषान् यो वेद स कौमुदीं वेद ॥ ९ ॥

सम्प्रदायविरोधेन सिद्धमप्युज्झितं मया । सम्प्रदायानुरोधेन
निर्माणमपि कथ्यते ॥ १ ॥

अथागमे न प्रमाण्यं विसंवादिनि सर्वतः ।
पञ्चरात्राप्रमाणत्वबोधकाद् भट्टवार्तिकात् ॥ २ ॥

वेदान्तवचनेनापि तत्राप्रामाण्यनिश्चयात् । न च वेद विरुद्धेषु
स्यादप्रामाण्यबोधकम् ॥ ३ ॥

पञ्चरात्रेष्विदं वाच्यं संकोचे मानहानितः ।
शिष्टाचारोऽपि नैवात्र प्रमाणं परिदृश्यते ॥ ४ ॥

तस्य गड्डुलिकास्रोतोन्यायेनैवोपपत्तितः । तस्मादनवधेयत्वं
किं किमर्थं निरूप्यते ॥ ५ ॥

उच्यते स्मृतिवेदादेरेवं स्यादप्रमाणता । नियामकस्य विरहात्
क्वचित्संवादशून्यता ॥ ६ ॥

तुल्यैव बीजवैगुण्यात् शिष्टाचारो निरन्वयः । भवतैव
कृतः किं च वचनादपि सिद्ध्यति ॥ ७ ॥

तत्प्रामाण्यं तथाह्युक्तं वाराहे पञ्चलक्षणे । अलाभे
वेदमन्त्राणां पञ्चरात्रोदितोविधिः ॥ ८ ॥

स्त्रीशूद्रयोर्न तच्छ्रोत्र पदवीमपि यास्यति ।
ब्रह्मक्षत्रविशां चैव पञ्चरात्रं विधीयते ॥ ९ ॥

शूद्रादीनां न तच्छ्रोत्रपदवीमपि यास्यति । उक्तं
ब्रह्मपुराणेऽपि चरिते पौरुषोत्तमे ॥ १० ॥

पञ्चरात्रविधानेन संपूज्य मधुसूदनम् ।
वेदान्तवाक्यविषयास्तस्माद्वेद विरोधिनः ॥ ११ ॥

प्. ४) आगमाः स्युस्तदन्योऽत्र विधिरेष निरूप्यते । वामं
पाशुपताचारास्तथा वै पाञ्चरात्रकाः ॥ १२ ॥

भविष्यन्ति कलौ तस्मिन् ब्राह्मणः क्षत्रिया रताः । वामं
पाशुपतं सोमं लक्ष्मणञ्चैव चौरवम् ॥ १३ ॥

असभ्यमेतत् कथितं वेदबाह्यं तथैव तत् । यद्प्येवं
पुराणेषु निन्दार्थं तत्परं च तत् ॥ १४ ॥

अत एव पुराणेषु नोक्तं पाशुपतादिकम् । प्रोक्तानि
पञ्चरात्राणि सप्तरात्राणि वै मया ॥ १५ ॥

व्यस्तानि मुनिभिर्लोके पञ्चविंशतिसंख्यया । हयशीर्षं
तन्त्रमाद्यं तन्त्रन्त्रैलोक्यमोहनम् ॥ १६ ॥

भैरवं पौष्करं तन्त्रं प्राह्लादं गार्ग्यगोतमम् ।
नारदीयं च माण्डव्यं शाण्डिल्यं रैणुकं तथा ॥ १७ ॥

सत्योक्तं शौनकं तन्त्रं वासिष्ठं ज्ञानसागरम् ।
स्वायम्भुवं कापिलं च तार्क्ष्यं नारायणात्मकम् ॥ १८ ॥

आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणम् । बौधायनं
तथाष्टार्णमित्युक्तस्तस्य विस्तरः ॥ १९ ॥

आदौ मन्त्रस्य जिज्ञासा प्रकारः कथ्यते मया । सिद्धादिकं
बुधो मन्त्रं सद्गुरोरुपदेशयेत् ॥ १ ॥

तथा नक्षत्रराशीभ्यामनुकूलं धनादिकम् ।
कटपोत्थेयवर्गोत्थैः पिण्डान्तैरङ्कमक्षरैः ॥ २ ॥

विद्यात् ङि नि पुनः शून्यं तथोक्तं केवले स्वरे । प्राप
लोभात्पटुः प्रायः रुद्रःस्यात्र रुरुः करम् ॥ ३ ॥

लोकलोपपटुः प्रायः खलौघा भेषु भेदिताः । वर्णाः
क्रमात् स्वरान्मौतु रेवत्यं सगतौ तदा ॥ ४ ॥

स्वजन्मराशिनक्षत्राद् गणयेत् साधकः क्रमात् । जन्म संपद्
विपत् क्षेम प्रत्यरिः साधको वधः ॥ ५ ॥

मित्रं परममित्रं च जन्मादीनि पुनः पुनः । [ननु
नामाद्यवर्णस्य राशिनक्षत्रशोधनम् ॥ ६ ॥

कथं न स्याद्यथा मन्त्रे] ([ ] कोष्ठान्तरितः पाठः) उच्यते
येन जन्मनः । गृह्येते [क्: पुस्तके नास्ति; शोध्यते] राशिनक्षत्रे
तयोः प्राधान्यमेतयोः ॥ ७ ॥

ज्योतिः शास्त्रे तथाचोक्तं नव ताराः स्वजन्मभात् । [ज्योतिः
शास्त्रेषु सर्वत्र किंचोक्तं दीपिकाकृता । नानाह्वय
जन्मभेषु गुणसंकलने मनोः ॥ ८ ॥

नचैतदपि ना (मैकं) नानानक्षत्ररा(शि)कम् । तथात्वे
जन्मपदगा निर्मूला लक्षणा भवेत् ॥ ९ ॥

निरूढा लक्षणा चैषा या चात्रावश्यकीष्यते । न
चोभयविचारार्थं वाक्यमेतद्भविष्यति ॥ १० ॥

प्. ६) तथापि जन्मनक्षत्रविचारस्तावदिष्यते । भवतापि
तथाचेदं नाम्नो ग्राह्यं कथं भवेत् ॥ ११ ॥

वस्तुत (स्तु) पदं (चेदं) पृथगेवान्वितं भवेत् । अतः
सिद्धाद्यपेक्षापि नास्त्यत्रेत्यवगम्यते ॥ १२ ॥

अत एव न सिद्ध्यादिशुद्धिरत्रेति तान्त्रिकाः] (क्: विचिन्तयेत्) । इति
चेतः समाधाय विलोकयतु युक्तिमान् ॥ १३ ॥

प्रकटं जन्मभं यस्य तस्य जन्मर्क्षतो भवेत् । प्रणष्टं
जन्मभं यस्य तस्य नामर्क्षमूहयेत् ॥ १४ ॥

विपद्वधः प्रत्यरिश्च परित्याज्या मनीषिभिः । अन्यत्र
त्वन्यथा प्रोक्तं मान्त्रिकैर्मन्त्रवेदिभिः ॥ १५ ॥

रसाष्टनवमा भद्रा वेदयुग्मगता अपि । इतराणि न भद्राणि
ज्ञातव्यं मन्त्रकोविदैः ॥ १६ ॥

बाणं गौरं खुरं शोणं शमि शोभेति राशिषु । क्रमेण
योजिता वर्णाः कन्यायां शादयः स्थिताः ॥ १७ ॥

केचिदत्रान्यथा प्राहुः (वर्णः) परपदं गतः ।
चतुर्भिर्यादिभिः सार्धं क्षकारो मीनगस्त्विति ॥ १८ ॥

राशयः स्युः परित्याज्या वसुवेददिवाकराः । एवं हि
शारदादौ यः पाठं पठति तान्त्रिकः ॥ १९ ॥

निगद्यते मया सोऽपि राशितत्त्वविचारकः । लग्नो धन
भ्रातृबन्धु पुत्रशत्रुकलत्रकाः ॥ २० ॥

मरणं धर्मकर्मायत्यया द्वादश राशयः ।
पूर्वपाठस्याविरुद्धमत्र पाठं पठत्वसौ [क्: विचिन्तयेत्] ॥
२१ ॥

[यदि वोभौ परित्याज्यौ राशी साधकसत्तमैः । ननु
तत्राविरुद्धोऽस्य पाठः किन्नहि पठ्यते ॥ २२ ॥

कर्तुमस्यान्यथा शक्यं मूलवाक्ये न शक्यते । अत्र
व्यत्ययमात्रं स्यात् पदयोस्तु पदान्तरम् ॥ २३ ॥

कल्पनीयं भवेत्तत्रेत्येवं वाल्लाधवाद् (बान्धवाद्) भवेत् ।]
([ ] कोष्ठान्तर्गतः पाठः (क्) पुस्तके नास्ति ।) लग्नो रोगप्रदो
नित्यं धनं धनविवृद्धिदम् ॥ २४ ॥

प्. ७) भ्रातरि भ्रातृवृद्धिं च शत्रौ शत्रुविवर्धनः । पुत्रे
पुत्र विवृद्धिःस्याद् बन्धौ बान्धववत्प्रियम् ॥ २५ ॥

क्रमोऽयं भैरवे तन्त्रे तमप्येवं समर्थयेत् । चन्द्रे वह्नौ
तथा रुद्रे ग्रहे नेत्रे युगे रवौ ॥ २६ ॥

दिक्षु षष्ठेष्टमे चन्द्रकलासु श्रुतिसोमके । भौतिके वलिगेहे
च शरचन्द्रे त्रयोदशे ॥ २७ ॥

विकारसंख्यकोष्ठेषु वर्णांल्लिपिगता&ल्लिखेत् । क्रमेणानेन
मतिमान् विद्यात् सिद्धादिकं ततः ॥ २८ ॥

कृत्वा चतुश्चतुःकोष्ठं स्वनामाद्यर्णकोष्ठकात् ।
मन्त्राद्यर्णचतुःकोष्ठपर्यन्तं गणयेद् बुधः ॥ २९ ॥

सिद्धसाध्यसुसिद्धारिक्रमेणैव प्रदक्षिणम् । सिद्धः सिध्यति
कालेन साध्यस्तु जपहोमतः ॥ ३० ॥

सुसिद्धो ग्रहमात्रेण रिपूर्मूलानि कृन्तति । तत्रापि
गणयेन्मन्त्री नामकोष्ठानुसारतः ॥ ३१ ॥

सिद्धसिद्धादिभेदेन फलमेषां प्रचक्षते । सिद्धसिद्धो
यथोक्तेन द्विगुणात् सिद्धसाध्यकः ॥ ३२ ॥

सिद्धसुसिद्धोऽर्धजपात् सिद्धारिर्हन्ति गोत्रजान् [क्: बान्धवान्] ।
द्विगुणात् साध्यसिद्धस्तु साध्यसाध्यो निरर्थकः ॥ ३३ ॥

त्रिगुणात् [क्: त्रिघ्नात्] साध्यसुसिद्धस्तु साध्यारिर्हन्ति
बान्धवान् । सुसिद्धसिद्धोऽर्धजपात् तत्साध्यत्रिगुणाज्जपात् ॥
३४ ॥

ग्रहणात्तत्सुसिद्धस्तु तच्चत्रुर्जातिहा स्मृतः । अरिसिद्धः सुतं
हन्यादरिसाध्यस्तु कन्यकाम् ॥ पत्नीमरिसुसिद्धस्तु शत्रु शत्रु
रथात्महा ॥ ३५ ॥

ताराशुद्धिर्वैष्णवानां कोष्ठशुद्धिः शिवे भवेत् । त्रैपुरे
राशिशुद्धिःस्याद वाराहीतन्त्रमब्रवीत् ॥ ३६ ॥

धनादिकं विदित्वा तु मौ सिद्धादिकेऽपि च । प्रवर्तितव्यं
धीमद्भिर्वैफल्यं यदतोऽन्यथा ॥ १ ॥

दक्षोत्तरायतं कुर्यात् सूत्रपञ्चकमुत्तमम् । प्राक्
प्रत्यगायताश्चैवं भानुरेखाः प्रकल्पयेत् ॥ २ ॥

द्वी द्वौ स्वरौ लिखेद् विद्वान् पञ्चकोष्ठे तथापरान् ।
षट्स्वेकमेकमालिख्य कादिहान्तं ततोऽक्षरम् ॥ ३ ॥

एकैकमेकादशसु त्रिकेषु मतिर्माल्लिखेत् ।
दिग्भूगिरिश्रुतिगजरामर्षिष्वब्धिषटत्रिकैः ॥ ४ ॥

गुणयेत् साधकस्यार्णान् स्वरव्यञ्जनभेदितान् ।
इन्द्रनक्षत्रनयनरविपञ्चदशतुर्भिः ॥ ५ ॥

श्रुत्यग्न्यायुधनागेन्द्रनवभिश्च तथा मनोः ।
नामार्णकोष्ठाङ्कमथो आद्यान्तनिहितं क्रमात् ॥ ६ ॥

हन्यात्कोष्ठगुणेनैव पञ्चमं पञ्चभिर्यथा । एवं
पर्यवसन्नास्ते गुणकाङ्काः समासतः ॥ ७ ॥

रुरुमीननरोद्यानभावकाः साधकाक्षरे । मन्त्रवर्णेषु
तत्तत्तु नगभूभानुनिम्नगाः ॥ ८ ॥

नामाज्झलादकचवाद् गजभक्तादिकं बुधः ।
ज्ञात्वोभयोर्-ऋणं विद्यात् अधिकं शेषमङ्कवित् ॥ ९ ॥

उ(भ)क्तं च वसुभिर्भागमाहरेदुभयोरपि । बाहुल्यं यत्र
दृश्येत सोऽधमर्णः प्रकीर्तितः [क्: समीरितः] ॥ १० ॥

प्. ९) धार्यते यस्य यैर्मन्त्रैर्गृह्नीयात्तान् मनून् स वै ।
तद्भावे समधनं धनिकं न कदाचन ॥ ११ ॥

अथवान्यप्रकारेण कुर्वीत ऋणशोधनम् । निजनामादिमं
वर्णमादाय परमं तु [क्: परतस्तु] ये ॥ १२ ॥

मन्त्राद्यक्षरपर्यन्तं गणनीयास्तु सर्वशः ।
सप्तभिर्गुणनीयास्तु हरणीयास्त्रिभिस्त्रिभिः ॥ १३ ॥

शेषीभवति या संख्या ऋणं तावदुदाहृतम् ।
मन्त्रस्यादिममादाय वर्णमन्ये परे तु ये ॥ १४ ॥

निजनामादिवर्णान्ता गणनीयाश्च ते बुधैः । यावती तावती
संख्या गुणनीयास्त्रिभिस्ततः ॥ १५ ॥

सप्तभिर्हरणीया च शेषं तद्धनमुच्यते ।
कुलाकुलपरीक्षायां प्रकारः कथ्यतेऽधुना ॥ १६ ॥

वाय्वग्नि भूजलाकाशाः पञ्चाशल्लिपयः क्रमात् ।
पञ्चह्रस्वाः पञ्चदीर्घा बिन्द्वन्ताः सन्धिसम्भवाः ॥ १७ ॥

पञ्चशः कादयः षक्षलसहान्ताः समीरिताः ।
साधकस्याक्षरं पूर्वं मन्त्रस्यापि यदक्षरम् ॥ १८ ॥

यद्येकभूतदैवत्यं जानीयात् सकुलं च तत् । पार्थिवे
वारुणं मित्रमाग्नेयमपि मारुतम् ॥ १९ ॥

पार्थिवाप्यक्षराणां च शत्रुत्वे मारुतं मतम् ।
आग्नेयस्याम्भसं शत्रुर्नभसस्तैजसं तथा ॥ २० ॥

एषामपितु सर्वेषामरिबोधि तु नाभसम् । परस्परविरुद्धानां न
कुर्यान्मेलनं बुधः ॥ २१ ॥

हस्तस्वाती श्रुतिमृगपुष्यमैत्राश्वरेवती । पुनर्वसुर्जगुरिति
भानि दैवानि मान्त्रिकाः ॥ २२ ॥

पूर्वोत्तरात्रयं चार्द्रा भरणी रोहिणी तथा ।
मर्त्याह्वयगणः प्रोक्तो भान्येतानि विशारदैः ॥ २३ ॥

प्. १०) चित्राश्लेषे मूलमघे धनिष्ठा ज्येष्ठिके तथा ।
वरुणः कृत्तिकेन्द्राग्नी रक्षोगण उदाहृतः ॥ २४ ॥

एकयोरुत्तमाप्रीतिर्दैवपुंसोस्तु मध्यमा । देवैर्मत्यैरपि महद्
रक्षसां वैरमुच्यते ॥ २५ ॥

एवं बुद्धा बुधो मन्त्रं विधिनात्मनि योजयेत् ।
मातृकावर्णभेदेभ्यः सर्वे मन्त्राः प्रजज्ञिरे ॥ २६ ॥

मन्त्रविद्याविभागेन द्विविधा मन्त्र जातयः । मन्त्राः
पुंदेवतामन्त्राः विद्याः स्त्रीदेवता मताः ॥ २७ ॥

स्त्रीपुंनपुसकात्मानो मन्त्रास्ते त्रिविधा मताः । स्वाहान्ताः
स्त्रीस्वरूपाश्च नमोऽन्ताश्च नपुंसकाः ॥ २८ ॥

हू&फडन्ताश्च ये मन्त्राः पुमांसस्ते प्रकीर्तिताः । शस्तास्ते
त्रिविधा मन्त्रा वश्यशान्त्यभिचारिके ॥ २९ ॥

सुप्तिप्रबोधकालादि मन्त्राणामभिधीयते । अग्नीषोमात्मका
मन्त्रा विज्ञेयाः क्रूरसौम्ययोः ॥ ३० ॥

कर्मणोर्वह्नितारान्त्यवियत्प्रायाः समीरिताः । आग्नेयामनवः
सौम्या भूयिष्ठेन्द्वमृताक्षराः ॥ ३१ ॥

आग्नेयाः सम्प्रबुध्यन्ते प्राणे चरति दक्षिणे । भागेऽन्यस्मिन्
स्थिते प्राणे सौम्या बोधं प्रयान्ति च ॥ ३२ ॥

नाडीद्वयगते प्राणे सर्वे बोधं प्रयान्ति ते । प्रयच्छन्ति
फलं सर्वे प्रबुद्धा मन्त्रिणां सदा ॥ ३३ ॥

सम्पुटीकृत्य मन्त्रेण लान्तान् वर्णान् सविन्दुकान् । पुनश्च
सविसर्गांस्तान् क्षकारं केवलं पठेत् ॥ ३४ ॥

एवं जप्त्वोपदिश्येत प्रबुद्धः सर्वसिद्धिदः ।
नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ॥ ३५ ॥

सम्पिण्डाक्षरमन्त्रस्य सिद्धादीन्नैव शोधयेत् । स्वप्नलब्धे
स्त्रिया दत्ते मालामन्त्रे तथैव च ॥ ३६ ॥

प्. ११) वैदिकेषु च सर्वेषु सिद्धादीन्नैव शोधयेत् । सिद्धे कूटे
त्रिबीजे च शक्तिरेकाक्षरे मनौ ॥ ३७ ॥

इष्टे मन्त्रेऽपि नैतेषां शुद्ध्यपेक्षेति केचन ।
विंशत्यर्णाधिका मन्त्रा मालामन्त्रा उदीरिताः ॥ ३८ ॥

दशाक्षराधिका मन्त्रास्तदधो बीजसंज्ञकाः ।
सापिण्डाक्षरमन्त्राश्च श्री चिन्तामणिकादयः ॥ ३९ ॥

वाधर्के सिद्धिदा मालामन्त्रा मन्त्राश्च यौवने ।
पञ्चाक्षराधिका वान्ये (बाल्ये)सर्वदा सिद्धिदाः परे ॥ ४० ॥

अथ मन्त्रग्रहे मासतिथिनक्षत्रकादिकान् । प्रशस्तान्
सर्वतन्त्राणामनुरोधेन वच्म्यहम् [क्: ब्रवीम्यहम्] ॥ १ ॥

मन्त्रारम्भो मासि चैत्रे सर्वदुःखफलप्रदः । वैशाखे
रत्नलाभः [क्: नाशः] स्यात् ज्येष्ठे च मरणं ध्रुवम् ॥ २ ॥

आषाढे बन्धुलाभः स्याच्छ्रावणे च शुभोदयः । प्रजानाशो
भाद्रपदे सर्वतः सुखमाश्विने ॥ ३ ॥

कार्तिके ज्ञानवृद्धिः स्यान्मार्गशीर्षे शुभोदयः । पौषे च
ज्ञानहानिः स्यान्माघे मेधाविवर्धनम् ॥ ४ ॥

फाल्गुने सर्वसिद्धिः स्यान्मन्त्रारम्भं तु कारयेत् । द्वितीया
शुक्लपक्षीया पुत्रवृद्धिकरी मता ॥ ५ ॥

तृतीया मध्यफलदा चतुर्थी हानिदा मता । पञ्चमी सिद्धिदा
प्रोक्ता षष्ठी सर्वत्र निन्दिता ॥ ६ ॥

सप्तम्यां धनलाभः स्यादष्टम्यां गुरुनाशनम् । नवमी
ॠक्थनाशा च दशमी सुखशंसिनी ॥ ७ ॥

एकादश्यां भवेल्लाभो बलस्य वृषभस्य च । द्वादश्यां
गोसमृद्धिः स्यात् त्रयोदश्यां शुभोदयः ॥ ८ ॥

शिष्यनाशश्चतुर्दश्यां पौर्णमासी च बुद्धिहा । अमावास्या
तु बलहा प्रतिपद्बुद्धिनाशिनी ॥ ९ ॥

शुक्लपक्षस्य दशमी सप्तमी च विशेषतः । निन्द्या सदैव
षष्ठी स्यादिति शैवागमान्तरे ॥ १० ॥

कृष्णपक्षेऽशुभं वापि न शुभंवापि दृश्यते । शुक्ले
वाञ्छितसिद्धिस्तु रत्नलाभः शुभोदयः ॥ ११ ॥

प्. १३) शुक्ले वाप्यथवा कृष्णे मन्त्रारम्भन्तु कारयेत् ।
सर्वकामार्थमिति तु प्रोक्तं श्रीमन्त्रदर्पणे ॥ १२ ॥

कुजाकतनयौ हित्वा सर्वे वाराः शुभामताः । चित्रा तथा
मृगशिरो रोहिणी च दिवाकरः ॥ १३ ॥

उत्तरत्रितयं मैत्र एषु मन्त्रग्रहो मतः । शुभदं सुखदं
नित्यं कन्याद्यं मीनकावधि ॥ १४ ॥

इतोऽन्यथा वदन्त्येके तदपीह निरूप्यते । तुरङ्गे
रङ्गसंपन्नः सुखभोजी धनाश्रयः ॥ १५ ॥

भरण्यां मरणं शीघ्रं धनहानिः प्रजाक्षयः ।
रोगशोकाकुलो नित्यं कृत्तिकायां सदा भवेत् ॥ १६ ॥

रोहिण्यां रोहिणीस्वामि सदृशो भाग्यमन्दिरम् । मृगशीर्षे
भवेल्लाभो नृपतीष्टः सबान्धवः ॥ १७ ॥

आर्द्रायां राजपीडास्यादर्थहानिः प्रजायते । पुनर्वसौ
प्रजावृद्धिः कार्यारम्भे सदास्थितिः ॥ १८ ॥

पुष्ये पुष्पायुधः तुष्टः सुखभुक्कामिनीप्रियः ।
अश्लेषायां तथा मन्त्री विनाशं याति नित्यशः ॥ १९ ॥

मघायां सुमहाभाग्यः सदाप्राप्तधनः सुखी ।
पूर्वत्रयेऽपि संपूर्णवेदत्रितयपारगः ॥ २० ॥

उत्तरत्रितये दान वेदविद्या समन्वितः । हस्ते चैव सदा वृद्धिः
विद्यालाभस्तथैव च ॥ २१ ॥

चित्रायां शोभनज्ञानप्राप्तिर्लोकप्रियः कृती । स्वातौ
मृत्युवशं याति बलहानिस्तथा भवेत् ॥ २२ ॥

विशाखायां क्षयं नित्यं प्राप्नोति वधबन्धनम् ।
अनुराधागते चन्द्रे भास्कराभः शुभः प्रियः ॥ २३ ॥

ज्येष्ठायां ज्येष्ठहानिः स्यादर्थहानिस्तथैव च । मूले
महामतिः प्राज्ञो बहुसन्ततिरेव च ॥ २४ ॥

श्रवणायां सदा दोनो धननाशस्तथा भवेत् । धनिष्ठायां
धनाढ्यस्तु युवतीलासकः कृतीः ॥ २५ ॥

प्. १४) शतभिषजि सत्यधनो धनध्यान्यसमन्वितः । रेवत्यां
चैव दीर्घायुर्धनधान्यसमाश्रयः ॥ २६ ॥

भवतीह नरः सत्यं मन्त्रारम्भादसंशयम् । आर्द्रायां
कृत्तिकायां च मन्त्रारम्भः प्रशस्यते ॥ २७ ॥

यदीशस्य कृशानोर्वा मन्त्रारम्भो यथाक्रमम् । मेषे शुचार्तो
भवति वृषे रोगसमन्वितः ॥ २८ ॥

दीनो मिथुनलग्ने स्यात् कुलीरेऽपि च तादृशः । सिंहे
कविकुलारातिः कन्यायां फलभाग्भवेत् ॥ २९ ॥

सुखोपभोक्ता तौलिनि वृश्चिके नाशमाप्नुयात् । धनाढ्यो धनुषि
श्रेयान् मकरे निर्धनो घटे ॥ ३० ॥

षट्कर्माभिरतो मीने धनी वक्ता सदा भवेत् । एभिर्गुणैः
सुसंपन्ने दीक्षामहनि कारयेत् ॥ ३१ ॥

वैष्णवे वैष्णवं शैवे शैवं शाक्ते तु शाक्तकम् ।
महागुरौ तु सर्वज्ञे विपरीते न योजयेत् ॥ ३२ ॥

सम्प्रदायानुरोधने वक्ष्ये दीक्षां कलावतीम् । संक्षेपादपि
संक्षेपान्मन्त्रिणां हितहेतवे ॥ ३३ ॥

विनानया न लभ्येत सर्वमन्त्रफलं यतः ।
मननात्सर्वभूतानां त्राणात् संसारसागरात् ॥ ३४ ॥

मन्त्ररूपो ह्युभयतो मननत्राणकर्मणि । मन्त्रमार्गानुसारेण
साक्षात्कृत्वेष्टदेवताम् ॥ ३५ ॥

गुरुरुद्बोधयेच्छिष्यं तस्माद्दीक्षेति सोच्यते । ज्ञानं दिव्यं
यतो दद्यात् कुर्यात्पापक्षयं यतः ॥ ३६ ॥

तस्माद्दीक्षेति संप्रोक्ता दैशिकैस्तन्त्रकोविदैः । ददाति
ज्ञानसर्वस्वं क्षिणोति पापपञ्जरम् ॥ ३७ ॥

तस्माद्दीक्षेति सा प्रोक्ता पापच्छेदकरी शुभा ।
ब्राह्मणादित्रयाणां च स्वकर्माध्ययनादिषु ॥ ३८ ॥

यथाधिकारो नास्तीह स्याच्चोपनयनादनु । तथैवादीक्षितानां
च मन्त्रयन्त्रार्चनादिषु ॥ ३९ ॥

प्. १५) नाधिकारोऽस्त्यतः कुर्यादात्मानं मन्त्रसंस्कृतम् ।
यदृच्छया श्रुतं मन्त्रं छद्मनाथ बलेन वा ॥ ४० ॥

पत्रेक्षितं च गाथावत् प्रजप्तमपि निष्फलम् । तस्मादावश्यकी
दीक्षा तत्प्रकारो निगद्यते ॥ ४१ ॥

एकभुक्तं च पूर्वेद्युः कुरुतां गुरुशिष्यकौ ।
कृतनित्यक्रियोऽन्यस्मिन् दिवसे गुरुसत्तमः ॥ ४२ ॥

उपचारैर्यजेद् भक्त्या देयमन्त्रस्य देवताम् । ततः
शङ्खमुपादाय तं प्रक्षाल्य फडम्बुना ॥ ४३ ॥

हृदा तत्र लिखेद्बीजं हृल्लेखायाः सुसंयतः [क्: विधानवित्]
। मूलेन मनुना दद्याज्जलं गन्धाष्टकं हृदा ॥ ४४ ॥

चन्दनागुरुकर्पूरचोरकुङ्कुमरोचनाः । जटामांसी कपियुता
शक्तेर्गन्धाष्टकं बिदुः ॥ ४५ ॥

चन्दनागुरुह्रीबेरकुष्ठकुङ्कुमसैच्यकाः । जटामांसीमुरमिति
विष्णोर्गन्धाष्टकं मतम् ॥ ४६ ॥

चन्दनागुरुकर्पूरतमालजलकुङ्कुमम् । कुशीतं
कुष्ठसंयुक्तं शैवं गन्धाष्टकं मतम् ॥ ४७ ॥

कलास्तत्र समावाह्य स्थापनीयाः कलानिधेः ।
षोडशस्वरसंभूता अम्टाद्या विधिक्रमात् ॥ ४८ ॥

ततः संपूज्यविधिवदसुस्थापनमाचरेत् । तथा द्वादश
भानोस्ता वह्नेर्दशकलास्तथा ॥ ४९ ॥

कभाद्या वसुदाः सौरा षडन्ता द्वादशेरिताः । आग्नया या
दशकला याद्याद्यास्ताः प्रकीर्तिताः ॥ ५० ॥

एतासां पूजनं प्राहुरेकदैव यथाक्रमात् । प्रत्येक पूजने
तासां नाम्नः पूर्वमनुक्रमात् ॥ ५१ ॥

वर्णान् सबिन्दुकान् बीजभावेन विनियोजयेत् । एकदैव तु पूजायां
भवेत् स्वरभवा इति ॥ ५२ ॥

अमृतादय इत्युक्त्वा षोडशेति पदं वदेत् । ततश्चन्द्रकला
एभिः पदैः पूजाखिलैः क्रमात् ॥ ५३ ॥

प्. १६) एवमग्रेऽपि विधिवदभिधाय प्रपूजयेत् । एवं
प्राणप्रतिष्ठादावेष एव विधिर्मतः ॥ ५४ ॥

ततस्त्वकारसंभूता दशावाह्य कलाबुधः । हंसश्च
प्रजपेन्मन्त्रं संपूज्य स्थापयेदसून् ॥ ५५ ॥

तथोकारसमुद्भूता दशाबाह्य कला बुधः । एतद्विष्णुः
पठेन्मन्त्रं संपूज्यस्थापयेदसून् ॥ ५६ ॥

ततो मकार संभूता [क्: समुद्भूता] दशावाह्य कला बुधः ।
त्र्यम्बकं प्रजपेन्मन्त्रं संपूज्य स्थापयेदसून् ॥ ५७ ॥

ततः पञ्च समावाह्य कला बिन्दुसमुद्भवा ।
तत्सवितुर्जपेन्मन्त्रं संपूज्य स्थापयेदसून् ॥ ५८ ॥

ततश्च षोडशावाह्य कलानादसमुद्भवाः । विष्णुर्योनिं
पठेन्मन्त्रं संपूज्य स्थापयेदसून् ॥ ५९ ॥

कादिवर्णादिकाः प्रोक्ता बिन्दुजान्ताः कलाः क्रमात् । नादजाः
क्रमतो ज्ञेयाः षोडशस्वरपूर्विकाः ॥ ६० ॥

अमृता मानदा पूषा तुष्टिः पुष्टीरतिर्धृतिः । शशिनी
चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ ६१ ॥

पूर्णा पूर्णामृता कामदायिन्यश्च यथा क्रमात् ।
षोडशेन्दुकलाः प्रोक्ता भानुमण्डलगाः क्रमात् ॥ ६२ ॥

तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः । सुषुम्ना भोगदा
विश्वा बोधिनी धारिणी क्षमा ॥ ६३ ॥

द्वादशैताः कलाः प्रोक्ता वह्नर्दशकला पुनः ।
धूम्रार्चिरूष्मा [क्: रुक्मा] ज्वालिनीज्वालिनीविस्फुलिङ्गिनी ॥ ६४


सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि । तारस्य
पञ्चभेदेभ्यः पञ्चाशद्वर्णगाः कलाः ॥ ६५ ॥

सृष्टिर्-ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृतिः स्थिरा ।
स्थितिः सिद्धिरिति प्रोक्ता दशाकारकलाः क्रमात् ॥ ६६ ॥

जरा च पालिनी शान्तिरैश्वरी रतिकामिके । वरदा ह्लादिनी
प्रीतिर्दीर्घा चोकारजाः क्रमात् ॥ ६७ ॥

प्. १७) तीक्ष्णा रौद्री भया निद्रा तन्द्राक्षुत्क्रोधिनी क्रिया ।
उत्कारी मृत्युरेताः स्युर्मकारात्मकलाः क्रमात् ॥ ६८ ॥

बिन्दुजाः पञ्च संप्रोक्ताः पीताश्वेतारुणासिताः । अनन्ता च
स्ववर्गस्था नादजाश्चकलाः क्रमात् ॥ ६९ ॥

निवृत्तिः स प्रतिष्ठा स्याद्विद्या शान्तिरनन्तरम् । इन्धिका
दीपिका चैव रोचिका मोचिका परा ॥ ७० ॥

सूक्ष्मासूक्ष्मामृता ज्ञानामृताचाप्यायिनो मता । व्यापिनी
व्योमरूपाः स्युरनन्ताः स्वरशक्तयः ॥ ७१ ॥

चन्द्रार्कादिकलानां तु न्यासादीनामनन्तरम् । त्र्यम्बकं चैव
गायत्रीं जातवेदो मनुं तथा ॥ ७२ ॥

न्यस्त्वा संपूज्य विधिवदेतासां स्थापयेदसून् । इति
केचिद्वदन्त्यत्राप्युपदेशजडग्रहात् ॥ ७३ ॥

पाशाङ्कुशेन पुटितां शक्तिमादौ समुद्धरेत् । यकारादि
सकारान्तान् बिन्दुभूषितमस्तकान् ॥ ७४ ॥

तदन्त उद्धरेत्प्राज्ञो व्योमसद्येन्दुसंयुतम् । ततो
हंसपरात्मानौ ततोऽमुष्यपदं वदेत् ॥ ७५ ॥

प्राणा इति वदेत्पश्चादिह प्राणास्ततः परम् । अमुष्य जीव
इहत (तु) स्थितोऽमुष्यपदं वदेत् ॥ ७६ ॥

सर्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः ।
श्रोत्रघ्राणपदे प्राणा इहागत्य सुखं चिरम् ॥ ७७ ॥

तिष्ठन्त्वग्निवधूः पूर्वं प्रत्यमुष्यपदं पुनः ।
पाशाद्यानि प्रयोज्यैवं प्राणमन्त्रं समुद्धरेत् ॥ ७८ ॥

अमुष्येतिपदस्थाने साध्यनाम समुद्धरेत् । त्रिर्जपेत् स्पर्शनं
कृत्वा सकृदेवाथवा जपेत् ॥ ७९ ॥

सर्वतन्त्रानुसारेण प्रोक्तोऽसुस्थापने विधिः । अथवानेन
मन्त्रेण मन्त्री संस्थापयेदसून् ॥ ८० ॥

अमुष्यपमुदद्धृत्य प्राणा इह वदेत्ततः । प्राणा अपि तथा
जीव इह स्थित इतीरयेत् ॥ ८१ ॥

प्. १८) तथा सर्वेन्द्रियाणीति तद्वद्वाङ्मनसी अपि । ततः
प्राणा इहायान्तु स्वाहान्तो मनुरीरितः ॥ ८२ ॥

साध्यनामादिकं तुल्य [क्: प्रपञ्चसारकथितम्] मन्यत्सर्वं
पुरोक्तवत् । ब्रह्मविष्णुशिवाः प्रोक्ता मुनयश्छन्द ईरितम् ॥ ८३


ऋग्यजुः साम चैतन्यरूपाशक्तिस्तु देवता । प्राणात्मिका
कवर्गेण वियत्पूर्वैर्हृदीरितम् ॥ ८४ ॥

शिरश्चवर्गशब्दाद्यैष्टवर्गाद्यैश्च धीन्द्रियैः ।
शिखाकर्मेन्द्रियैस्तद्वत्तवर्गाद्यैस्तनुच्छदम् ॥ ८५ ॥

वचनाद्यैः पवर्गाद्यैर्विलोचनमुदीरितम् ।
बुद्ध्याद्यैर्यादिसंयुक्तैरस्त्रमस्य प्रकीर्तितम् ॥ ८६ ॥

आत्मनेन्ताः समाख्याता अङ्गमन्त्राः सजातयः ।
प्रणवोऽग्निवधूर्बीजं शक्तिरुक्ता मनिषिभिः ॥ ८७ ॥

रक्ताब्धिपोते रक्ताब्जे स्थितां पाशाङ्कुशौ धनुः । इक्षुजं
बाणशूले च कपालं दधतीं करैः ॥ ८८ ॥

रक्तां त्रिनेत्रां प्रभजेद् देवीं दैन्यार्तिनाशिनीम् ।
प्रतिलोमेन संजप्य मूलमन्त्रं ततः सुधीः ॥ ८९ ॥

स्वकीयहृदयान्मूलमन्त्रतेजो यथाविधि । शङ्खे समावाह्य
वरैरुपचारैः प्रपूजयेत् ॥ ९० ॥

कलशस्थापनापक्षे सर्वतोभद्रमण्डलम् । संपूज्य
शालिधान्यादि यथावत्तत्र विन्यसेत् ॥ ९१ ॥

आधार शक्तिमारभ्य पीठमन्त्रान्तमर्चयेत् । हेमादिरचितं
कुम्भमस्त्राब्भिः क्षालितान्तरम् ॥ ९२ ॥

तन्तुभिस्त्रिगुणैर्वीतं गन्ध पुष्पादिपूजितम् ।
दूर्वाक्षतान्वितं मन्त्री नवरत्नोदरं शुभम् ॥ ९३ ॥

ओ&कारमुच्चर&स्तत्र स्थापयेत् पूरयेत्ततः ।
क्षीरद्रुमकषायेण पलाशत्वग्भवेन वा ॥ ९४ ॥

तीर्थोदकेन शुद्धेन गवां दुग्धेन वा गुरुः । विलोममातृकां
जप्त्वा मूलमन्त्रं तथैव च ॥ ९५ ॥

ततः प्रोक्तविधानेन शङ्खं संस्कृत्य तज्जजलम् । कुम्भे
निक्षिप्य चूताद्यैः पिधाय सफलाक्षतम् ॥ ९६ ॥

शराबं तन्मुखे न्यस्य सुरद्रुमफलात्मकम् । ततो गुरुर्निर्मलेन
क्षौमयुग्मेन वेष्टयेत् ॥ ९७ ॥

कुम्भवक्त्रे यजेत्तत्र यथावत्स्वेष्ट देवताम् । आसनाद्यैः
षोडशभिर्विशेषोऽयमुदीरितः ॥ ९८ ॥

मुक्तामाणिक्यवैदूर्यगोमेदा वज्रविद्रुमौ । पद्मरागं मरकतं
नीलं च नवरत्नकम् ॥ ९९ ॥

कनकं कुलिशं नीलं पद्मरागं समौक्तिकम् । एतानि
पञ्चरत्नानि यद्वा कुम्भे विनिःक्षिपेत् ॥ १०० ॥

अथ शिष्यो गुरुं ध्यान्यधनगोवसनादिभिः । संतोष्य
ब्राह्मणांश्चैव तनुं तस्मै समर्पयेत् ॥ १०१ ॥

ततः संनिहितं शिष्यं दिव्यदृष्ट्या विलोकयेत् । तच्चैतन्यं
स्वहृदयमानयेद्गुरुसत्तमः ॥ १०२ ॥

ततोनिवृत्तिमाजानु विन्यस्यानाभिजानुनोः । प्रतिष्ठां
कण्ठिकां यावन्नाभेर्विद्यां प्रविन्यसेत् ॥ १०३ ॥

कण्ठाल्ललाटपर्यन्तं शान्तिं तस्माच्छिरोवधि ।
शान्त्यतीतां प्रविन्यस्य व्युत्क्रमेण च बोधयेत् ॥ १०४ ॥

आत्मस्थितं तच्चैतन्यं पुनः शिष्ये नियोजयेत् । तस्य शिष्यस्य
शिरसि दत्त्वा दूर्वाक्षतं गुरुः ॥ १०५ ॥

मातृकां मूलमन्त्रस्य व्युत्क्रमान्मनसा जपन् । अभिषिञ्चेत्
प्रियं शिष्यं तुष्टो देशिकसत्तमः ॥ १०६ ॥

ततः शिष्यः समुत्थाय वाससी परिधाय च । आचम्य
व्यस्तहस्ताभ्यां पादौ संगृह्य दैशिकौ ॥ १०७ ॥

अलङ्कृतशरीरोऽसौ तिष्ठेद्दक्षिणतो गुरोः ।
भूतशुद्धिकलान्यासौ ततः शिष्ये समाचरेत् ॥ १०८ ॥

मन्त्रन्यासं ततः कुर्यात्तत्त्वन्यासादिमादरात् । आत्मनो
देवतां शिष्ये संक्रान्तां परिचिन्तयेत् ॥ १०९ ॥

प्. २०) पूजयेद्गन्धपुष्पाद्यैस्ततः प्रथमतो गुरुः । शिष्यहस्ते
जलन्दत्त्वैषामुको मन्त्र आवयोः ॥ ११० ॥

समानफलकोऽस्त्वित्थं वदेच्छिष्योऽप्यथास्त्विति ।
देवतागुरुमन्त्राणामैक्यं संभाव्य दण्डवत् ॥ १११ ॥

प्रणमेच्च गुरुं शिष्यो गन्धपुष्पादिभिर्यजेत् । कारुण्यनिलये
देवि सर्वसंपत्तिसंश्रये ॥ ११२ ॥

शरण्ये वत्सले मातः कृपामस्मिन् शिशौ कुरु । आणवप्रमुखैः
पाशैः पाशितस्य सुरेश्वरि ॥ ११३ ॥

दीनस्यास्य दयासारे कुरु कारुण्यमीश्वरि ।
ऐहिकामुष्मिकैर्भाग्यैरभिसंवर्द्ध्यतामसौ ॥ ११४ ॥

प्राञ्जलिः प्रार्थयेदार्ये नित्यमत्र स्थिरा भव । अथ
ऋष्यादिसंयुक्तं मन्त्रं श्रवसि दक्षिणे ॥ ११५ ॥

ब्रूयान्त्रिस्रो गुरुस्तस्मै दद्याच्छिष्योऽथ दक्षिणाम् । तदुक्तं
सर्वतन्त्रेषु मान्त्रिकैस्तन्त्रवेदिभिः ॥ ११६ ॥

सर्वस्वं वा तदर्धं वा दशांशं वा सुवर्णकम् ।
वित्तशाठ्यं परित्यज्य शिष्यः संतुष्टमानसः ॥ ११७ ॥

गुरवे दक्षिणां दद्यान्मन्त्रदीक्षाप्रसिद्धये । सर्वस्वं वा
तदर्धं वा यथाशक्त्यथवा बुधः ॥ ११८ ॥

गुरवे दक्षिणां दद्यादर्धराज्यं महीपतिः । इत्याह
दक्षिणामूर्तितन्त्रे श्री गार्ग्यसंहिता ॥ ११९ ॥

दीक्षातो ह्यनवाप्तश्च प्राप्तश्चादत्त दक्षिणः । तावुभौ
व्यर्थकर्माणौ साङ्गाच्छ्रौतात्फलंयतः ॥ १२० ॥

शतवारं ततो जप्यात् प्राप्तमन्त्रं स्वशक्तितः । अष्टवारं
बुधो जप्त्वा मन्त्री मन्त्रार्थसिद्धये ॥ १२१ ॥

शङ्खवस्त्रादिकं सर्वं गुरवे विनियोजयेत् । द्विजेभ्यो
दक्षिणान्दद्याद्ब्राह्मणानपि भोजयेत् ॥ १२२ ॥

त्र्यहं च ब्रह्मचर्यादिनियमानपि नोत्सृ(जे)त् । अनेन विधिना
शिष्यो दीक्षितः क्षीणकल्मषः ॥ १२३ ॥

प्. २१) ऐहिकामुष्मिकान् भोगानवाप्नोति न संशयः ।
मन्त्राशक्तिः प्रसक्ता या दत्तमन्त्रस्य मन्त्रिणः ॥ १२४ ॥

अष्टोत्तर सहस्रेण सा जपेन निवर्त्तते । शिष्यो मन्त्रस्य
ऋष्यादीन्न्यासादीनर्चनामपि ॥ १२५ ॥

शक्ति प्रच्यवसंत्रस्तस्त्वरयैव निरूपयेत् । सूर्योपरागसमये
नान्यदन्वेषितुं भवेत् ॥ १२६ ॥

सूर्यग्रहणकालेन समानो नास्ति कश्चन । तत्र यद्यत्कृतं
सर्वमनन्तफलदं भवेत् ॥ १२७ ॥

नानुशासति वारादिशोधनं सूर्यपर्वणि । ददातीष्टं
गृहीतं यत्तस्मिन् काले गुरोर्नृषु ॥ १२८ ॥

सिद्धिर्भवति मन्त्रस्य निरायासेन वेगतः । अतस्तत्रैव कर्तव्यं
दीक्षादि सति संभवे ॥ १२९ ॥

सत्तीर्थेऽर्कविधुग्रासे तन्तदामनपर्वणोः (?) । मन्त्रदीक्षां
प्रकुर्वाणो मासर्क्षादि न शोधयेत् ॥ १३० ॥

तत्र सूर्यग्रहः प्रोक्तो न तु चन्द्रग्रहो मतः । एवं
यत्कैश्चिदित्युक्तं तदमूलकमिष्यते ॥ १३१ ॥

एषा निगदिता दीक्षा संक्षेपेण सतां मुदे ।
सद्योधिवासविधिना सर्वशिष्टानुसारतः ॥ १३२ ॥

[* * * * * * * * न तावन्मन्त्रवेदनम् । अतिप्रसङ्गदोषेण न वा
तद्दानमप्यसौ ॥ १३३ ॥

सामानाधिकरण्येन फलबीजत्वनिर्णयः । * * * * तथा चात्र
कुर्यात्पापक्षयं यतः ॥ १३४ ॥

इत्यादि फलकूटन्तु दातुरेव प्रसज्यते ।
दीक्षायागविहीनोऽपीत्यादौ का (वा) गतिर्भवेत् ॥ १३५ ॥

अपि च व्यधिकरणस्य न प्रवृत्तिनिमित्ततः । गौरवेण
तथाचेदं प्रवर्तेत गुरोरपि ॥ १३६ ॥

न शिष्ये दीक्षितपदं न वा तल्लाभ इत्यपि । करोति
दीक्षामित्यादिशिष्यवाक्यविरोधतः ॥ १३७ ॥

प्. २२) अत्रोच्यते मनोर्दीक्षा यथाविधि मनोर्ग्रहः । यथाविधीति
च विधाबुपलक्षणमुच्यते ॥ १३८ ॥

न विशेषणमेवैतदन्यथा विधि वैशसात् । दीक्षायागेन
यक्ष्येऽहं तत्र त्वं मे गुरुर्भव ॥ १३९ ॥

रत्नाकरादिके प्रोक्तमत एवेति मन्त्रिभिः ।] ([ ] कोष्ठान्तरितः
पाठः क पुस्तके नास्ति) ।
दीक्षासामान्यकालोऽथमन्त्राणामभिधीयते ॥ १४० ॥

तत्त्वसागरसंदिष्टो मन्त्रिणां हितकाम्यया । यदैवेच्छा तदा
दीक्षा गुरोराज्ञानुरूपतः ॥ १४१ ॥

न तिथिर्न व्रतं होमो न स्नानं न जपक्रिया । दीक्षायाः
कारणं किन्तु स्वेच्छावाप्ते तु सद्गुरौ ॥ १४२ ॥

दीक्षां कारयितुं धीराः शकुवन्ति न विस्तरात् । अथवाऽनेन
विधिना संक्षिप्तेन प्रवर्त्तयेत् ॥ १४३ ॥

मण्डले सर्वतोभद्रे नवं कुम्भं निधापयेत् । सोदकं
गन्धपुष्पाभ्यामर्चितं वस्त्रभूषितम् ॥ १४४ ॥

सर्वौषधीपञ्चरत्नपञ्चपल्लवसंयुतम् । ततो देवार्चनं
कृत्वा हुनेदष्टोत्तरं [जेपेदित्यर्थः] शतम् ॥ १४५ ॥

शिष्यं स्वलङ्कृतं वेद्यामानीय विनिवेशयेत् । मन्त्री तं
प्रोक्षणीतोयैः शान्तिकुम्भजलैस्तथा ॥ १४६ ॥

मूलमन्त्रेणाष्टशतं मन्त्रितैरभिषेचयेत् । अथ
सम्पादयन्मन्त्रं हस्तं शिरसि धारयन् ॥ १४७ ॥

नमोऽस्त्वित्यक्षतं दद्यादथ शिष्ये मनुंवदेत् । सुरामांसी
वचा कुष्ठं शैलेयं रजनीद्वयम् ॥ १४८ ॥

तथा चम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः । अत्राप्यशक्तः
कश्चिच्चेदब्जमभ्यर्च्य [शंखमित्यर्थः] साक्षतम् ॥ १४९ ॥

तदम्बुनामिषिच्याष्टवारं मूलेन केवलम् । विन्यस्याष्टौ
जपेत्कर्णे उपदेशे त्वयं विधिः ॥ १५० ॥

चन्द्रसूर्यग्रहे तीर्थे विशुद्धे च शिवालये ।
मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥ १५१ ॥

प्. २३) दर्पणेऽपि स च प्रोक्त उपदेशविधिर्बुधैः ।
शङ्खतोयमुपादाय सपुष्पकुशचन्दनैः ॥ १५२ ॥

भक्तं मेधाविनं शान्तं प्रोक्षयित्वा प्रदापयेत् । पूजान्ते
संवदत्येनं मनुं श्रीगार्ग्य संहिता ॥ १५३ ॥

कृतनित्यक्रियो मन्त्रं मन्त्री ऋष्यादिसंयुतम् । शिष्यस्य
दक्षिणे कर्णे कथयेत्त्रिर्गुरूत्तमः ॥ १५४ ॥

वित्तशाठ्यं परित्यज्य देशिकायाथ दक्षिणाम् । दद्याच्छिष्य
समुत्थाय दण्डवत्प्रणमेद्गुरुम् ॥ १५५ ॥

शरीरमर्थं प्राणं च गुरवे विनिवेदयेत् । ततः प्रभृति
कुर्वीत गुरुप्रियमनन्यधीः ॥ १५६ ॥

ब्राह्मणेभ्योन्नवस्त्रादीन् यथाशक्ति परित्यजेत् ।
ब्रह्मचर्यादिनियमान् दीक्षाकर्मवदाचरेत् ॥ १५७ ॥

अरिमन्त्रं प्रमादाद्यो गृह्णीयादथवा जपेत् । गव्यक्षीरे
द्रोणमिते जपेन्मन्त्रं सहस्रकम् ॥ १५८ ॥

पीत्वा क्षीरे (रं) जले तद्वत् समुत्तार्य त्यजेत्तथा । अनेनैव
विधानेन त्वरिमन्त्राद्विमुच्यते ॥ १५९ ॥

वटपत्रे लिखित्वारिमन्त्रं स्रोतसि निःक्षिपेत् । एवं
मन्त्रविमुक्तः स्यादिति शिष्टपरम्परा ॥ १६० ॥

अथो हिताय जगतां प्रथितं मितचेतसाम् । अद्य संक्षिप्य
वक्ष्यामि लक्षणं गुरुशिष्ययोः ॥ १ ॥

स्वच्छन्दचरितोऽतुच्छः शुद्धधीस्त्यक्त हृच्छयः ।
देशकालादिविद्देशे देशे देशिक उच्यते ॥ २ ॥

अग्रगण्यः समग्रज्ञो नितान्तं शान्तविग्रहः ।
स्वदुःखकरणेनापि परं परसुखोद्यतः ॥ ३ ॥

आदर्श इव विद्यानां न तु दर्शनदूषकः । देवतोपासकः
शान्तो विषयेष्वपि निस्पृहः ॥ ४ ॥

अप्यात्मविद्ब्रह्मवादी वेदशाखार्थकोविदः । उद्धर्तुं चैव
संहर्तुं समर्थो ब्राह्मणोत्तमः ॥ ५ ॥

तन्त्रज्ञोऽयं न मन्त्राणां मर्मभेत्ता रहस्यवित् ।
षडङ्गविजयव्यग्रोऽनुग्रो विततमानसः ॥ ६ ॥

शुद्धः शुद्धाङ्गकोऽक्लिष्टकर्माविक्लवमानसः । सदारतः
सपर्यासु परः पुरमुरद्विषोः ॥ ७ ॥

वर्गोपेतसमारम्भो गम्भीरो दम्भवर्जितः ।
पुरश्चरणकृत्सिद्धः सिद्धमन्त्रः प्रयोगवित् ॥ ८ ॥

तपस्वी सत्यवादी च गृहस्थो गुरुरुच्यते ।
मध्यदेशकुरुक्षेत्रलाटाङ्कोल समुद्भवाः ॥ ९ ॥

अन्तर्वेदिप्रतिष्ठानामावन्त्याश्च गुरूत्तमाः । गौडाः
सान्धोद्भवाः सौरा मागधाः केरलास्तथा ॥ १० ॥

कोशलाश्च दशार्णाश्च गुरवः सप्तमध्यमाः ।
कार्ण्णाटनर्मदाराष्ट (ष्ट्र) कच्छा तीरोद्भवास्तथा ॥ ११


प्. २५) कलिङ्गाश्च कदम्बाश्च काम्बोजाश्च तथाधमाः । आस्तिको
गुरुभक्तश्च जिज्ञासुः श्रद्धया सह ॥ १२ ॥

कामक्रोधादिदुःखोत्थवैराग्यो वनितादिषु ।
चिरन्तदाराधनकृद्देहेन द्रविणेन च ॥ १३ ॥

तस्य पादारविन्दोत्थरजः कणविभूषितः । स्नानमप्राप्य न
प्राप्यं प्रायो वृद्धिमतेङ्गितम् ॥ १४ ॥

नित्यशः कायवाकचित्तैस्त्रिद्व्येकाब्दाधिकावधि । परिचर्यारतः
शिष्यः स्यात् स्वयं यतमानसः ॥ १५ ॥

तन्तथाविधमालक्ष्य सदाऽवितथवादिनम् । मातृतः पितृतः
शुद्धिं बुद्धिमन्तमलोलुपमम् ॥ १६ ॥

अस्तेयवृत्तिमास्तिक्ययुक्तं युक्तकृतोद्यमम् । अकल्मषं
मृषाहीनमहीनद्रव्यमानसम् ॥ १७ ॥

ब्रह्मचर्यव्रतं नित्यं परिचर्यापरं गुरोः । अधीतवेदं
स्वाधीनमनाधिं व्याधिवर्जितम् ॥ १८ ॥

सुप्रसन्नमसन्नाङ्गं सदा संनिहितं गुरोः । परोपकारनिरतं
विरतं परदूषणे ॥ १९ ॥

मातृवद् गुरुपत्नीं च भ्रातृवत् तत्सुतानपि ।
स्मरन्तमस्मराबाधं स्मितोपेतमविस्मितम् ॥ २० ॥

परिग्रहेत् परीक्ष्यैव शिष्यमेवं विधं गुरुः । अनीदृशं
गुरुः शिष्यं न गृह्णीयात्कदाचन ॥ २१ ॥

यदि गृह्णाति तद्दोषः प्रायो गुरुमपि स्पृशेत् । प्रजादोषो यथा
राज्ञि पत्यौ जायाकृतो यथा ॥ २२ ॥

तथाशिष्यकृतो दोषो गुरुमेति न संशयः । स्नेहाद्वा यदि वा
लोभाद् योऽनुगृह्णात्यदीक्षया ॥ २३ ॥

तस्मिन् गुरौ सशिष्ये तु देवताशाप आपतेत् । मधुद्विषि महादेवे
मातापित्रोर्महीभृति ॥ २४ ॥

भक्तिर्या सा पदाम्भोजे कार्या निजगुरोः सदा । इष्टं
वानिष्टमादिष्टं गुरुणा यत्तु गुर्वपि ॥ २५ ॥

प्. २६) त्वरया परया कुर्याद् भक्त्या सम्यगजिह्नया । कर्मणा
मनसा वाचा सदा भक्तिपरो गुरुम् ॥ २६ ॥

निर्व्याजं पूजयेच्छिष्यो निजकार्यप्रसिद्धये । लोकोद्वेगकरी या
च या च मर्मनिकृन्तिनी ॥ २७ ॥

स्थित्युद्वेगकरी या च तां गिरं नैव भाषयेत् ।
रम्यमत्युत्कटं चापि मनसोऽपि समीप्सितम् ॥ २८ ॥

लोकविद्वेषणं रूपं न गृह्णीयात् कदाचन । इत्याचार्यपरः
सम्यगाचार्यं यः समर्चयेत् ॥ २९ ॥

कृतकृत्यः स वै शिष्यः परत्रेह च नन्दति ॥ ३० ॥

अथ प्रवक्ष्ये दीक्षादौ पूजार्थं मण्डलोत्तमम् । चतुरस्रे
चतुष्कोष्ठे कोणसूत्रचतुष्टयम् ॥ १ ॥

मध्ये मध्ये यथा मत्स्या भवेयुः पातयेत्तथा । पूर्वापरायते
द्वे द्वे मन्त्री याम्योत्तरायते ॥ २ ॥

पातयेदेषु मत्स्येषु समं सूत्रचतुष्टयम् ॥ ३ ॥

पूर्ववत्कोणकोष्ठेषु तद्वत्सूत्रं निपातयेत् । तदुद्भूतेषु
मत्स्येषु दद्यात्सूत्रचतुष्टयम् ॥ ४ ॥

ततः कोष्ठेषु मत्स्याः स्युस्तत्र सूत्राणि पातयेत् ।
यावच्छतद्वयं मन्त्री षट् पञ्चाशत्पदान्यपि ॥ ५ ॥

तावत्तेनैव विधिना तत्र सूत्राणि पातयेत् । षट्त्रिंशता
पदैर्मध्ये लिखेत्पद्मं सलक्षणम् ॥ ६ ॥

बहिः पंक्त्या लिखेत्पीठं पंक्तियुग्मेन वीथिका ।
द्वारशोभोपशोभादीन् शिष्टाभ्यां परिकल्पयेत् ॥ ७ ॥

शास्त्रोक्तविधिना मन्त्री ततः पद्मं समालिखेत् । पद्मक्षेत्रस्य
संत्यज्य द्वादशा (शां) शं ततः सुधीः ॥ ८ ॥

तन्मध्ये विभजेद् वृत्तैस्त्रिभिः समविभागतः । आद्यं स्यात्
कर्णिकास्थानं केसराणां द्वितीयकम् ॥ ९ ॥

तृतीयं तत्र पत्राणां मुक्तांसे (शे) न दलाग्रकम् ।
बाह्यवृत्तान्तरालस्य मानं यद्विधिना सुधीः ॥ १० ॥

निधाय केसराग्रेषु परितोर्धनिशाकरान् । लिखित्वा
सन्धिसंस्थानि तत्र सूत्राणि पातयेत् ॥ ११ ॥

दलाग्राणां च यन्मानं तन्मानं वृत्तमालिखेत् । तदन्तराले
तन्मध्यसूत्रस्योभयतः सुधीः ॥ १२ ॥

प्. २८) आलिखेद्बाह्यहस्तेन दलाग्राणि समन्ततः । दलमूलेषु
युगशः केसराणि प्रकल्पयेत् ॥ १३ ॥

एतत्साधारणं प्रोक्तं पञ्कजं तन्त्रवेदिभिः । पदानि त्रीणि
पादार्थं पीठकोणेषु मार्जयेत् ॥ १४ ॥

अवशिष्टैः पदैर्विद्वान् पीठगात्राणि कल्पयेत् । पदानि
वीथिसंस्थानि मार्जयेत्पंक्त्यभेदतः ॥ १५ ॥

दिक्षु द्वाराणि रचयेत् द्विश्चतुष्कोष्ठतस्ततः ।
पदैस्त्रिभिस्तथैकेन शोभाः स्युर्द्वारपार्श्वयोः ॥ १६ ॥

उपशोभाःस्युरेकेन त्रिभिः कोष्ठैरनन्तरम् । अवशिष्टैः
पदैःषड्भिः कोणानां स्याच्चतुष्टयम् ॥ १७ ॥

रञ्जयेत्पञ्चभिर्वर्णैर्मण्डलं तन्मनोहरम् । पीतं
हरिद्राचूर्णं स्यात् सितं तण्डुलसंभवम् ॥ १८ ॥

कुसुम्भचूर्णमरुणं कृष्णं दग्धपुलाकजम् । बिल्वादिपत्रजं
श्याममित्युक्तं वर्णपञ्चकम् ॥ १९ ॥

अङ्गुलोत्सेधनिस्ताराः सीमारेखाः सिताः शुभाः । कर्णिकां
पीतवर्णेन केसराण्यरुणेन च ॥ २० ॥

शुभ्रवर्णेन पत्राणि तत्सन्धी श्यामलेन च । रजसा
रञ्जयेन्मन्त्री यद्वा पीतैव कर्णिका ॥ २१ ॥

केसराः पीतरक्ताः स्युररुणानि दलान्यपि । संधयः
कृष्णावर्णाः स्युः पीतेनाप्यसितेन वा ॥ २२ ॥

रञ्जयेत् पीठगर्भाणि पादाः स्युररुणप्रभाः । गात्राणि
तस्य शुक्लानि वीथिष्वपि चतसृषु ॥ २३ ॥

आलिखेत्कल्पलतिका दलपुष्पफलान्विताः ।
वर्णैर्नानाविधैश्चित्राः सर्वदृष्टिमनोहराः ॥ २४ ॥

द्वाराणि श्वेतवर्णानि शोभा रक्ताः समीरिताः । उपशोभा
पीतवर्णा कोणान्यसितभानि च ॥ २५ ॥

तिस्त्रो रेखा बहिः कुर्यात् सितरक्तासिताः क्रमात् । मण्डलं
सर्वतोभद्रमेतत् साधारणं मतम् ॥ २६ ॥

प्. २९) चतुरस्त्रं भुवं भित्त्वा दिग्भ्यो द्वादशधा सुधीः ।
पातयेत्तत्र सूत्राणि कोष्ठानां दृश्यते शतम् ॥ २७ ॥

चतुश्चत्वारिंशदाढ्यं पञ्चात् षट्त्रिंशताम्बुजम् ।
कोष्ठैः प्रकल्पयेत् पीठं पंक्ता नैवात्र वीथिका ॥ २८ ॥

द्वारशोभे यथा पूर्वमुपशोभा न दृश्यते । अवशिष्टैः
पदैः कुर्यात् षड्भिः कोणानि मन्त्रवित् ॥ २९ ॥

विदध्यात् पूर्ववच्छेषमेवं वा मण्डलं मतम् । दीक्षादौ
देवपूजार्थं सर्वतोभद्रमण्डलम् । सर्वतन्त्रानुसारेण
प्रोक्तं सर्वसमृद्धिदम् ॥ ३० ॥

अनुकूलं मनुं लब्ध्वा गुरोरेवं सुसंयतः । पुरस्क्रियां
प्रकुर्वीत सप्रमाणं निगद्यते ॥ ३१ ॥

दीक्षितस्तु शुचौदेशे गुरुशुक्रोदये शुभे । लग्ने चोपचयस्थेऽपि
विहीने पापवीक्षितैः ॥ ३२ ॥

पुण्यमासेऽथ दिवसे शुभे रिक्तादिवर्जिते । शुभग्रहादि
संयुक्ते पुरश्चरणमाचरेत् ॥ ३३ ॥

जपो होमस्तर्पणं च मार्जनं द्विजभोजनम् । पुरश्चरणमेवं
हि पञ्चाङ्गकमुदीरितम् ॥ ३४ ॥

कैश्चित्तुमार्जनस्थाने दत्त्वात्रैकालिकार्चनम् ।
पुरश्चरणमाख्यातं पञ्चाङ्गं मन्त्रिसत्तमैः ॥ ३५ ॥

यदिच्छति लभेतैतन्मनसापि तपोधन (ः) । असाध्यमपि देवानां
द्वीपान्तरगतं च यत् ॥ ३६ ॥

पञ्चाङ्गोपासनं कृत्वा यद्यदिष्टं तदाप्नुयात् ।
पञ्चाङ्गमेतत्कुर्वीत यः पुरश्चरणं बुधः ॥ ३७ ॥

स वै विजयते लोके विद्यैश्वर्यसुतादिभिः । गुरोर्लब्धस्य
मन्त्रस्य सुप्रसन्नान्तरात्मनः ॥ ३८ ॥

पञ्चाङ्गोपासनं सिद्धेः पुरश्चैतद्विधीयते । यः
पुरश्चरणं कुर्यात् स सर्वेषु विशिष्यते ॥ ३९ ॥

विद्यया पुत्रपौत्रैश्च धनधान्यादिसम्पदा । नानेन सदृशो
धर्मो नानेन सदृशं तपः ॥ ४० ॥

प्. ३०) नानेन साधकं किंचिदिष्टार्थस्य कदाचन ॥ ४१ ॥

अथ किं तावदेतेषां पुरश्चरणमुच्यते । जपादिपञ्चकरणं
तदित्येतन्न युज्यते ॥ ४२ ॥

प्रत्येकं करणे तेषामतिव्याप्तेः पृथक् पृथक् । मिलितानां
तथात्वं चेन्मेलकं नातिरिच्यते ॥ ४३ ॥

जपाद्या मिलिताः पञ्च तथेत्यपि निरस्यते । एतेनाव्यवधानेन
कृताः पञ्चतथेति चेत् ॥ ४४ ॥

मैवं पञ्चाङ्गताबाधात् * * * नङ्गतास्थितेः । प्रत्येकं
मिलिताङ्गः स्यादिति चेन्नोक्तदोषतः ॥ ४५ ॥

भवेदङ्गद्वयेनैवेत्यादौ वा का गतिर्भवेत् । अथ
पञ्चाङ्गतेत्येतत् पञ्चावयवतार्थकम् ॥ ४६ ॥

षडङ्गयागविधिना त्वेतदप्यमनोरमम् ।
अमूललक्षणापत्तेर्दृष्टान्तो नैव संगतः ॥ ४७ ॥

यागस्येच्छाविशेषत्वा दुच्यतेतदुपासनम् । यथाविधि
जपादीनां पञ्चाङ्गानि जपादयः । इच्छारूपो यथा यागः
संकल्पो व्रतमुच्यते ॥ ४८ ॥

भवेदङ्गद्वयेनेत्याद्युक्तं यत्तदसङ्गतम् । अनुकल्पमुपादाय
तत्र पञ्चाङ्गतास्थितेः ॥ ४९ ॥

एकत्वादनुकल्पस्य सर्वेषान्त्व्य (न्द्व्य)ङ्गताश्रुतिः । यद्यदङ्ग
विहीयेतेत्याद्यप्येतेन युज्यते ॥ ५० ॥

एतत्कण्ठरवेणैव प्राह चागस्त्यसंहिता । पञ्चाङ्गोपासनं
भक्त्या पुरश्चरणमुच्यते ॥ ५१ ॥

मन्त्रसिद्ध्यन्तरापेक्षां विना वा येन सिद्ध्यति । मन्त्र
सकलसंमत्या तत्पुरश्चरणं मतम् ॥ ५२ ॥

विना न येन सिद्धः स्यान्मन्त्रो वर्षशतैरपि । इत्यादि
नानातन्त्रेष्वप्येतदेव व्यवस्थितम् ॥ ५३ ॥

सिद्धिः प्रयोगयोग्यत्वं मन्त्राणामिह कीर्तिता । यद्वा
इष्टविशेषोऽसाविति तर्कविदो विदुः ॥ ५४ ॥

निगद्यते गुरोर्भक्तिः प्रथमं जगतां हिता । प्रातः शिरसि
शुक्लेऽब्जे त्रिनेत्रं द्विभुजं गुरुम् ॥ १ ॥

वराभययुतं शान्तं स्मरेत्तन्नामपूर्वकम् । नमोऽस्तु गुरवे
तुभ्यमिष्टदेव स्वरूपिणे ॥ २ ॥

यस्यवाक्यामृतं हन्ति विषं संसारसंज्ञकम् । गुरुर्ब्रह्मा
गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ॥ ३ ॥

गुरुरेव परंब्रह्म तस्मादादौ तमर्चयेत् । सुप्रसन्ने गुरौ यस्य
न सिद्धिस्तस्यनान्यथा ॥ ४ ॥

यस्य मन्त्रे च देवे च गुरौ च त्रिषु निश्चला । न व्यवच्छिद्यते
भक्तिस्तस्य सिद्धिरदूरतः ॥ ५ ॥

यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः । गुरुणा
दर्शिते तत्त्वे तत्क्षणात्तन्मयो भवेत् ॥ ६ ॥

शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । अविद्योवा
सविद्योवा गुरुरेव सदा गतिः ॥ ७ ॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता
ह्यर्थाः प्रकाशन्ते मनीषिणः ॥ ८ ॥

प्रतिपद्य गुरुं यस्तु मोहाद् विप्रतिपद्यते । स कल्पकोटि नरके
पच्यते पुरुषाधमः ॥ ९ ॥

यथा सिद्धरसस्पर्शात्ताम्रं भवति काञ्चनम् । संनिधाने
गुरोरेवं शिष्यः शिवमयो भवेत् ॥ १० ॥

गुरुशय्यासनं यानं पादुकांशुकपीठकम् । स्नानोदकं
तथा छायां लङ्घयेन्न कदाचन ॥ ११ ॥

प्. ३२) गुरोरग्रे पृथक्पूजामद्वैतं च विवर्जयेत् ।
दीक्षाव्याख्यां प्रभुत्वादि गुरोरग्रे परित्यजेत् ॥ १२ ॥

नारकाश्चैव देहान्ते तिर्यक्षु प्रभवन्ति ते । ये गुर्ववज्ञां
कुर्वन्ति पापिष्ठाः पुरुषाधमाः ॥ १३ ॥

एतेषां नरकक्लेशनिस्तारो जायते कदा । यैः शिष्यैः
शश्वदाराध्या गुरवोह्यवमानिताः ॥ १४ ॥

पुत्रमित्रकलत्रादिसम्पद्भूयः पच्युताहिते । अधिक्षिप्य गुरुं
मोहात् परुषं प्रवदन्ति ये ॥ १५ ॥

शूकरत्वं भवत्येव तेषां जन्मशतेष्वपि । ये गुरुद्रोहिणो
मूढाः सततं पापकारिणः । तेषां च यावत्सुकृतं
दुष्कृतं तन्न संशयः ॥ १६ ॥

मन्त्रे च देवतायां च तथा मन्त्रप्रदे गुरौ । त्रिषु भक्तिः
सदा कार्या सा हि प्रथमसाधनम् ॥ १७ ॥

तीर्थान्मन्त्रोपदेशश्च श्रद्धा च जपकर्मणि । फलिष्यतीति
विश्वासश्चैतत् सिद्धेश्च लक्षणम् ॥ १८ ॥

पुरस्क्रियां प्रकुर्वीत तन्त्रोक्तफलसिद्धये । विनानया न
सिद्ध्येत मन्त्रो वर्षशतैरपि ॥ १ ।

यस्यां कृतायां लभते साधको वाञ्छितं फलम् । किं होमैः
किं जपैश्चैव किं मन्त्रन्यासविस्तरैः ॥ २ ॥

रहस्यानां हि मन्त्राणां यदि न स्यात् पुरस्क्रिया । पुरस्क्रिया
हि मन्त्रस्य प्रथमं बीजमुच्यते ॥ ३ ॥

वीर्यहीनो यथादेही सर्वकर्मसु न क्षमः । पुरश्चरणहीनो हि
तथा मन्त्रः प्रकीर्तितः ॥ ४ ॥

पुरस्क्रियामथो कर्तुं स्थाननैयत्यमुच्यते । पुण्यक्षेत्रं
नदीतीरं गुहा पर्वतमस्तकम् ॥ ५ ॥

तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं वनम् । उद्यानानि
विविक्तानि बिल्वमूलं तटं गिरेः ॥ ६ ॥

तुलसीकाननं गोष्ठं वृषशून्यः शिवालयः ।
अश्वत्थामलकीमूलं गोशाला जलमध्यतः ॥ ७ ॥

देवतायतनं कूलं समुद्रस्य निजं गृहम् । गुरूणां
संनिधानं च चित्तैकाग्रस्थलं तथा ॥ ८ ॥

प्रेतभूम्यादिकं चैव तत्तत्कल्पप्रदर्शितम् । एषामन्यतमं
स्थानमाश्रित्य जपमाचरेत् ॥ ९ ॥

उक्तानि मुनिभिर्यानि चासनानि निशामय । कुशासनं पुष्टिकरं
काम्बलं दुःखमोचनम् ॥ १ ॥

मृगाजिनं ज्ञानकरं वेलजं श्रीविवर्धनम् । वस्त्रासनं
रोगहरं वैयाघ्रं सर्वसिद्धिदम् ॥ २ ॥

अभिचारे कृष्णवर्णं रक्तं वश्यादिकर्मणि । शान्तिके
धवलं प्रोक्तं विचित्रं सर्वकर्मसु ॥ ३ ॥

स्तम्भने गजचर्म स्यान् मारणे माहिषं तथा । मेषीचर्म
तथोच्चाटे खड्गिजं वश्यकर्मणि ॥ ४ ॥

विद्वेषे जाम्बुकं प्रोक्तं भवेद्गोचर्म शान्तिके । वंशासने च
दारिद्र्यं दौर्भाग्यं दारुजासने ॥ ५ ॥

धरण्यां दुःखसंभूतिः पाषाणे व्याधिसंभवः ।
तृणासने यशोहानिः पल्लवे चित्तविभ्रमः ॥ ६ ॥

इष्टकायामथाधिः स्यादेतत् साधारणे जपे ।
तदुक्तमागमार्थानां सिद्धशैवागमादिषु ॥ ७ ॥

वंशाश्मधरणीदारुतृणपल्लवनिर्मितम् । वर्जयेदासनं
श्रीमान् दारिद्र्याद्याधिदुःखदम् ॥ ८ ॥

कृष्णाजिनं व्याघ्रचर्म कौशेयं वेत्रनिर्मितम् । वस्त्रासनं
कम्बलं वा कल्पयेदासनं मृदु ॥ ९ ॥

नादीक्षितो विशेत् कश्चित् कृष्णसारासने गृही ।
विशेद्यतिर्वनस्थश्च ब्रह्मचारी च स्नातकः ॥ १० ॥

कुशाजिनाम्बरेणाढ्यं चतुरङ्गलमुच्छ्रितम् । एकहस्तं
द्विहस्तं वा चतुरस्रं समन्ततः ॥ ११ ॥

प्. ३५) स्वस्तिकादिक्रमेणेत्थं विशेत्तत्र निरामयः ।
स्वास्तिकादीनि वक्ष्यामि चासनान्यथ सत्तम ॥ १२ ॥

स्वस्तिकं पद्मकं वीरं वज्रंचेति चतुष्टयम् । जपे
प्रशस्तमेतेषु पूजिते पुनरादिमे ॥ १३ ॥

अथैषां लक्षणं वक्ष्ये स्वस्त्यादीनां यथाक्रमम् ।
जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उमे ॥ १४ ॥

ऋजुकायः समासीनः स्वस्तिकं तदुदाहृतम् । वामोरूपरि
विन्यस्य दक्षिणं चरणं बुधः ॥ १५ ॥

वामं पुनर्दक्षिणोरौ व्युत्क्रमस्य विधानवित् । धृत्वा
कराभ्यामङ्गुष्ठे निधाय चिबुकं हृदि ॥ १६ ॥

नासाग्रं वीक्षयेद्विद्वान् पद्मासनमिदं मतम् । जपादौ
नैवमाख्यातं पद्मासनमिदं बुधैः ॥ १७ ॥

कृताञ्जलिपुटोभूत्वेत्यादिवाक्यावलोकनात् । वामोरौ दक्षिणं
पादं न्यसेद्वामं तथान्यतः ॥ १८ ॥

एतावदेव निर्वाह्य जपहोमादिकं चरेत् । वचनादपि सिद्धं
स्यादिदमित्यवगम्यताम् ॥ १९ ॥

नारदीये यतः प्राह नारायणमतौ मुनिः ।
उभाभ्यामूरूमूलाभ्यामग्रपादावुभावपि ॥ २० ॥

उपर्यारोप्य चासीत पद्मं नाम तदासनम् । एकं पादं
तथैकस्मिन् विन्यस्योरुणि संस्थितम् । इतरस्मिन् तथा चोरौ
वीरासनमुदीरितम् ॥ २१ ॥

मेढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च
विन्यस्य वज्रासनमुदीरितम् ॥ २२ ॥

अथ मुद्राः प्रवक्ष्यामि दर्शनीयाः प्रयत्ननः ।
याभिर्विरचिताभिश्च मोदन्ते मन्त्रदेवताः ॥ १ ॥

काश्चित्काश्चित् प्रकाश्यन्ते कुत्रकुत्रापि मुद्रिकाः । बिल्वाख्या
विदधौ वेणुंपद्ममालागदाः क्रमात् ॥ २ ॥

ज्ञानमुद्रा भगवतो रामस्य सशरं धनुः ।
श्रीवत्सकौस्तुभौ पर्शुर्गारुडी मोहनी परा ॥ ३ ॥

नारसिंही च वाराही हयग्रीवी च तत्प्रिया । काममुद्रा तथा
चास्य विष्णोरेताः प्रकीर्तितः ॥ ४ ॥

लिङ्गयोनी त्रिशूलाक्षे वराभीतिमृगात्मिका । खट्वाङ्गा च
कपाला च डमरुः शिवमुद्रिकाः ॥ ५ ॥

सूर्यस्यैकैव पद्माख्या दन्तविघ्नावपि क्रमात् । पाशाङ्कुशौ
पर्शुलड्डू बीजपूरा गणेशितुः ॥ ६ ॥

पाशाङ्कशवराभीतिखड्गाः शक्तेर्धनुः शरौ । चर्माख्या
मौसली दौर्गी लक्ष्मीमुद्रास्तदर्चने ॥ ७ ॥

वीणाव्याख्याक्षपुस्तानि वाग्वादिन्याः प्रपूजने ।
सप्तजिह्वाह्वया मुद्रा विज्ञेया वह्निपूजने ॥ ८ ॥

त्रिपुरायास्तु पूजायां दशमुद्राः प्रकीर्तिताः ।
संक्षोभमुद्रा प्रथमा द्वितीया कर्षिणीमता ॥ ९ ॥

तृतीया द्राविणी ज्ञेया त्रिखण्डावाहिनी मता । उन्मादिनी
तथा योनिस्तथावेशकरी परा ॥ १० ॥

महाङ्कशा खेचरी च बीजमुद्रापरा क्रमात् ।
कुम्भमुद्राभिषेकेस्यात् प्रार्थने प्रार्थनाह्वया ॥ ११ ॥

प्. ३७) वासुदेवाह्वया ध्याने तन्त्रविद्भिरुदीरिता ।
कालकर्णीकुम्भनादबिन्दुविस्मयसंज्ञिकाः ॥ १२ ॥

करकच्छपिका मुद्रा तत्त्वमुद्रा परा भवेत् । युक्ता या मुद्रिका
यत्र तत्र तां विनियोजयेत् ॥ १३ ॥

उद्देशानुक्रमादासामुच्यन्ते लक्षणानि च ॥ १४ ॥

उद्धृतं वामकाङ्गुष्ठं दक्षाङ्गुष्ठेन योजयेत् ।
तस्याग्रं पीडयित्वा च दक्षहस्ताङ्गुलीगणैः ॥ १५ ॥

पीडयेत्ता वामहस्तशाखाभिर्हृदि संयतः ।
स्थापयेदुच्चरन्मन्त्रं मारं बिल्वाह्वया मता ॥ १६ ॥

चक्रमुद्राभिधातव्या निवेद्यार्पणकर्मणि । वामाङ्गुष्ठन्तु
संगृह्य दक्षिणेन तु मुष्टिना ॥ १७ ॥

कृत्वोत्तानां ततो मुष्टिमङ्गुष्ठन्तु प्रसारयेत् ।
वामाङ्गुल्यस्तथा श्लिष्टाः संयुताः सुप्रसारिताः ॥ १८ ॥

दक्षिणाङ्गुष्ठसंश्लिष्टा मुद्रैषा शङ्खसन्निभा ।
ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका ॥ १९ ॥

दक्षिणाङ्गुष्ठसंयुक्ता तत्कनिष्ठा प्रसारिता ।
तर्जनीमध्यमानामाः किंचित्सङ्कोच्य चालिताः ॥ २० ॥

वेणुमुद्रा भवेदेषा सुगुप्ता प्रेयसी हरेः । पद्माख्या या
भवेन्मुद्रा सा वाच्यानुपदं पुनः ॥ २१ ॥

स्पृशेत्कण्ठादिपादान्तं तर्जन्याङ्गुष्ठनिष्ठया ।
करद्वयेनमालावन्मुद्रेयं वनमालिका ॥ २२ ॥

अन्योन्याभिमुखौ कृत्वा हस्तौ तु ग्रथिताङ्गुली । अङ्गुल्यौ
मध्यमे भूयः संलग्ने संप्रसारिते । गदामुद्रेयमुदिता
विष्णोः सन्तोषवर्द्धिनी ॥ २३ ॥

तर्जन्यङ्गुष्ठकौ सक्तावग्रतो हृदि विन्यसेत् । ज्ञानमुद्रा
भवेदेषा वक्तव्यं सशरं धनुः ॥ २४ ॥

अन्योन्यस्पृष्टकरयोर्मध्यमानामिकाङ्गुली । अङ्गुष्ठेन तु
बध्नीयात् कनिष्ठामूलसंश्रिते ॥ २५ ॥

प्. ३८) तर्जिन्यौकारयेदेषा मुद्रा श्रीवत्ससंज्ञिका ।
अनामास्पृष्टसंलग्ना दक्षिणस्य कनिष्ठिका ॥ २६ ॥

कनिष्ठामन्यया बद्ध्वा तर्जन्या दक्षया तथा ।
वामानामाञ्चबध्नीयाद्दक्षाङ्गुष्ठस्य मूलके ॥ २७ ॥

अङ्गुष्ठमध्यमे भूयः संयोज्य सरलाः पराः ।
चतस्रोऽप्यग्रसंलग्ना मुद्राकौस्तुभसंज्ञिका ॥ २८ ॥

हस्तौ तु विमुखौ कृत्वा ग्रथयित्वा कनिष्ठिके । मिथस्तर्जनिके
श्लिष्टे श्लिष्टावङ्गुष्ठकौ तथा ॥ २९ ॥

मध्यमानामिके द्वे तु द्वौ पक्षाविव चालयेत् । एषा
गरुडमुद्रास्याद् विष्णोः सन्तोषकारिणी ॥ ३० ॥

मूर्द्धस्थाङ्गुष्ठमुष्टी द्वे मुद्रा सा मोहिनी भवेत् ।
जानुमध्ये करौ कृत्वा चिबुकोष्ठौ समावृतौ ॥ ३१ ॥

मुखं विवृतकं कुर्याद् लेलिहानाञ्च जिह्विकाम् । नारसिंही
भवेदेषा मुद्रा तत्प्रीतिवर्धिनी ॥ ३२ ॥

देवोपरि करं वामं कृत्वोत्तानमधः सुधीः । नामयेदिति
संप्रोक्ता मुद्रा वाराहसंज्ञिका ॥ ३३ ॥

वामे हस्ततले दक्षाङ्गुलीस्तु तास्त्वधोमुखीः । संरोध्य
मध्यमां तासामुन्नम्याथ विकुञ्चयेत् ॥ ३४ ॥

हयग्रीवाह्वयामुद्रा तन्मूर्तेरनुकारिणी । हस्तौ तु
संपुटीकृत्य प्रसृताङ्गुलिकौ तथा ॥ ३५ ॥

तर्जन्यौ मध्यमापृष्ठे अङ्गुष्ठौ मध्यमास्थितौ ।
काममुद्रेयमुदिता सर्वदेवप्रियङ्करी ॥ ३६ ॥

महादेवप्रियाणां तु कथ्यन्ते लक्षणानि तु । उच्छ्रितं
दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन वेष्टयेत् ॥ ३७ ॥

तं च तत्करशाखाभिर्गाढं बद्ध्वा विशारदः ।
वामाङ्गलीर्दक्षिणाभिरङ्गुलीभिश्च बन्धयेत् ॥ ३८ ॥

लिङ्गमुद्रेयमाख्याता शिवसांनिध्यकारिणी । मिथः
कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके ॥ ३९ ॥

प्. ३९) अनामिकोर्ध्वसंश्लिष्टदीर्घमध्यमो (मयो) रधः ।
अङ्गुष्ठाग्रद्वयं न्यस्येद्योनिमुद्रेयमीरिता ॥ ४० ॥

अङ्गुष्ठेन कनिष्ठां तु बद्ध्वा श्लिष्टाङ्गुलित्रयम् ।
प्रसारयेदक्षमालाऽनुपदं च वराभये ॥ ४१ ॥

पञ्चाङ्गुल्यो दक्षिणास्तु मिलिता ह्यूर्ध्वमुन्नताः ।
खट्वाङ्गपात्रवद्वामहस्तं वामाङ्गके न्यसेत् ॥ ४२ ॥

ततश्चोच्छ्रितवत् कुर्यात् मुद्रा कापालिकी भवेत् । मुष्टिं च
शिथिलां बद्ध्वा किंचिदुच्छिरितमध्यमाम् ॥ ४३ ॥

दक्षिणान्तूर्ध्वमुन्नम्य कर्णदेशे प्रचालयेत् । एषा मुद्रा
डमरुका मृगमुद्रा जुहोतिषु ॥ ४४ ॥

हस्तौ तु सम्मुखौ कृत्वा सन्नतावुन्नताङ्गुली ।
तलान्तर्मिलिताङ्गुष्ठा पद्ममुद्रा विवस्वतः ॥ ४५ ॥

अथो गणेशमुद्राणामुच्यन्ते लक्षणानि च । उत्तानोर्ध्वमुखी
मध्या सरलाबद्धमुष्टिका ॥ ४६ ॥

दन्तमुद्रा निगदिता सर्वागमविशारदैः ।
तर्जनीमध्यमासन्धिनिर्गताङ्गुष्ठमुष्टिका ॥ ४७ ॥

अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका ।
वाममुष्टिस्थतर्जन्या दक्षमुष्टिस्थतर्जनी ॥ ४८ ॥

संयोज्याङ्गुष्ठकाग्राभ्यां तर्जन्यग्रे स्वकेक्षिपेत् । एषा
पाशाह्वया मुद्रा विद्वद्भिः परिकीर्तिता ॥ ४९ ॥

अङ्कुशाख्या तु या मुद्रा सा वाच्या शंखसंस्कृतौ । तले
तलं च करयोस्तिर्यक् संयोज्य चाङ्गुलीः ॥ ५० ॥

संहताः प्रसृताः कुर्यान् मुद्रेयं पर्शुसंज्ञिका । लड्डुका
बीजपूरा च प्रसिद्धत्वादुपेक्षिता ॥ ५१ ॥

शाक्तेयीनां च मुद्राणां कथ्यन्ते लक्षणानि तु ।
पाशाङ्कुशौ निगदितौ पूर्वमेव यथाविधि ॥ ५२ ॥

अधः कृतो दक्षहस्तः प्रसृतो वरमुद्रिका । ऊर्धीकृतो
वामहस्तः प्रसृतोऽभयमुद्रिका ॥ ५३ ॥

प्. ४०) कनिष्ठानामिकेबद्ध्वा स्वाङ्गुष्ठे नैव दक्षतः ।
शिष्टाङ्गुली तु प्रसृते संमृष्टे खड्गमुद्रिका ॥ ५४ ॥

वामस्य मध्यमाग्रं तु तर्जन्यग्रे नियोजयेत् । अनामिकां
कनिष्ठां च वामाङ्गुष्ठेन पीडयेत् ॥ ५५ ॥

दर्शयेद्वामके स्कन्धे धनुर्मुद्रेयमीरिता । दक्षमुष्टिस्थ
तर्जन्या दीर्घयावाणमुद्रिका ॥ ५६ ॥

वामहस्तं तथा तिर्यक्कृत्वा चैव प्रसारयेत् ।
आकुञ्चिताङ्गुलिं कुर्याच्चर्ममुद्रेयमीरिता ॥ ५७ ॥

मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणम् । कुर्वीत
मौशली मूर्ध्नि कृता दौर्ग्येव सा भवेत् ॥ ५८ ॥

चक्रमुद्रां तथा बद्ध्वा मध्य्मे द्वे प्रसार्य च । कनिष्ठिके
तथानीय तदग्रेङ्गुष्ठकौ क्षिपेत् ॥ ५९ ॥

लक्ष्मीमुद्रा पराप्येषा सर्वसम्पत्करी भवेत् ।
वीणावादनवद्धस्तौ कृत्वा संचारयेच्छिरः ।
वीणामुद्रेयमाख्याता सरस्वत्याः प्रियङ्करी ॥ ६० ॥

दक्षिणाङ्गुष्ठतर्जन्यावग्रलग्ने पराङ्गुलीः । प्रसार्य
संहतोत्ताना प्रोक्ता व्याख्यानमुद्रिका ॥ ६१ ॥

वाममुष्टिं स्वाभिमुखं कुर्यात् पुस्तकमुद्रिका ।
मणिबन्धस्थितौ कृत्वा प्रसृताङ्गुलिकौ करौ ॥ ६२ ॥

कनिष्ठाङ्गुष्ठयुगले मिलित्वान्तः प्रसारयेत् ।
सप्तजिह्वाख्यमुद्रेयं वैश्वानरप्रियङ्करी ॥ ६३ ॥

त्रिपुरायाः प्रवक्ष्यामो मुद्राः संक्षेपतोऽधुना ।
मध्यमामध्यगे कृत्वा कनिष्ठेऽङ्गुष्ठबो (रो) धिते ॥ ६४ ॥

तर्जन्यौ दण्डवत् कुर्यान् मध्यमोपर्यनामिके । एषैव प्रथमा
मुद्रा सर्वसंक्षोभकारिणी ॥ ६५ ॥

मध्यमातर्जनीभ्यां तु कनिष्ठानामिके समे ।
अङ्कुशाकाररूपाभ्यां मध्यगे परमेश्वरि ॥ ६६ ॥

प्. ४१) इयमाकर्षिणीमुद्रा सर्वाकर्षणकारिणी । प्रथमायास्तु
मुद्राया मध्यमे सरले यदा । जायेते परमेशानि सर्वविद्राविणी
मता ॥ ६७ ॥

परिवर्त्य करौ स्पृष्टावङ्गुष्ठौ कारयेत्समौ । अनामान्तर्गते
कृत्वा तर्जन्यौ कुटिलाकृती ॥ ६८ ॥

कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि । त्रिखण्डेयं
समाख्याता त्रिपुराह्वानकर्मणि ॥ ६९ ॥

सम्मुखौ तु करौ कृत्वा मध्यमामध्यगेऽन्तजे । अनामिके तु सरले
तद्बहिस्तर्जनीद्वयम् ॥ ७० ॥

दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमामध्यदेशगौ ।
मुद्रैषोन्मादिनी प्रोक्ता क्लेदिनी सर्वयोषिताम् ॥ ७१ ॥

मध्यमे कुटिले कृत्वा तर्जन्युपरिसंस्थिते । अनामिकामध्यगते
तथैव हि कनिष्ठिके ॥ ७२ ॥

सर्वा एकत्र संयोज्य अङ्गुष्ठपरिपीडिताः । योनिमुद्रा
भवेदेषा त्रिपुरातोषकारिणी ॥ ७३ ॥

पुटाकारौ करौकृत्वा तर्जन्यावङ्कुशाकृती ।
वरिवर्त्यकरेणैव मध्यमे तदधोगते ॥ ७४ ॥

क्रमेण देवि तेनैव कनिष्ठानामिकादयः । संयोज्य निबिडाः
सर्वाः अङ्गुष्ठावग्रदेशतः ॥ ७५ ॥

मुद्रेयं परमेशानि सर्वावेशकरीमता । उन्मादिन्यास्त्वनामे द्वे
अधः कृत्वाङ्कुशाकृती ॥ ७६ ॥

तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् । असौ महाङ्कुशा मुद्रा
सर्वकामार्थसाधिनी ॥ ७७ ॥

सव्यं दक्षिणदेशे तु सव्यदेशे तु दक्षिणम् । बाहुं कृत्वा
महेशानि हस्तौ संपरिवर्तयेत् ॥ ७८ ॥

कनिष्ठानामिके देवि युक्त्वा तेन क्रमेण च । तर्जनीभ्यां
समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ॥ ७९ ॥

अङ्गुष्ठौ तु महेशानि सरलावपि कारयेत् । इयं सा खेचरी
नाम्ना मुद्रा सर्वोत्तमोत्तमा ॥ ८० ॥

प्. ४२) परिवर्त्त्य करौ स्पष्टावर्धचन्द्राकृति प्रिये ।
तर्जन्यङ्गुष्ठयुगलं युगपत्कारयेत्ततः ॥ ८१ ॥

अधः कनिष्ठावष्टब्धे मध्यमे विनियोजयेत् । तथैव कुटिले
योज्ये सर्वाधस्तादनामिके ॥ ८२ ॥

बीजमुद्रेयमचिरात् सर्वसिद्धिकरीमता । दशाङ्गुष्ठं
पराङ्गुष्ठे क्षिप्त्वा हस्तद्वयेन तु ॥ ८३ ॥

सावकाशात्मकं मुष्टिं कुर्यात् सा कुम्भमुद्रिका ।
प्रसृताङ्गुलिकौ हस्तौ मिथः श्लिष्टे (ष्टौ) च संमुखौ ॥ ८४


कुर्यात्स्वहृदये सेयं मुद्रा प्रार्थनसंज्ञिका । अञ्जल्या
ध्यानमुद्रास्याद्वासुदेवाह्वया च सा ॥ ८५ ॥

अङ्गुष्ठावुन्नतौ कृत्वा मुष्ट्योः संलग्नयोर्द्वयोः ।
तावेवाभिमुखौ कुर्यात् बालकर्ण्यभिरक्षणे ॥ ८६ ॥

मुष्ट्योरूर्ध्वकृताङ्गुष्ठौ तर्जन्यग्रे तु संन्यसेत् ।
सर्वरक्षाकरीह्येषा कुन्तमुद्रा समीरिता ॥ ८७ ॥

मुष्टिरूर्ध्वीकृताङ्गुष्ठा दक्षिणा नादमुद्रिका ।
तर्जन्यङ्गुष्ठसंयोगादग्रतो बिन्दुमुद्रिका ॥ ८८ ॥

दक्षिणा निबिडा मुष्टिः नामिकार्पिततर्जनी । मुद्रा
विस्मयसंज्ञा स्यात् विस्मयावेशकारिणी ॥ ८९ ॥

हस्तौ तु संमुखौ श्लिष्टौ तिर्यक् संयोज्यचोच्छ्रितौ ।
अङ्गुष्ठौ संहतौ कार्यौ हृदि कच्छपिका भवेत् ॥ ९० ॥

अङ्गुष्ठानामिके श्लिष्टे वामे वामक्रमेण चेत् ।
तत्त्वमुद्रेयमुदिता महापातकनाशिनी ॥ ९१ ॥

जपकर्तुश्च यत्कृत्यं यच्चाकृत्यं शृणुष्वतत् । मन्त्रं
साधयमानस्तु त्रिसन्ध्यं देवमर्चयेत् ॥ १ ॥

द्विसन्ध्यमेकसन्ध्यं वा न मन्त्रं केवलं जपेत् । देवी
चित्तगता कार्या कार्यं व हृदयंस्थिरम् ॥ २ ॥

तत्त्वजप्तान्नपानीयैः कुर्यात्पानादिभोजनम् । एकग्रामस्थितो
नित्यं गत्वा वन्देत स्वंगुरुम् ॥ ३ ॥

प्रणामस्तु दिशान्यत्र देवतावन्दनं सदा । नित्यं नैमित्तिकं
कुर्यात् सङ्गमं साधुभिः सह ॥ ४ ॥

स्नायाच्च पञ्चगव्येन केवलेनामलेन वा । आज्येन दध्नाक्षीरेण
तिलकल्केन वा कृती ॥ ५ ॥

पुरश्चर्याविधौ तद्वत् स्नानं कुर्याद्विशुद्धये । शक्तौ
त्रिषवणं स्नानमशक्तौ द्विः सकृत्तथा ॥ ६ ॥

अस्नातस्य फलं नास्ति न चातर्पयतः पितॄन् । अन्यानि
काम्यकर्माणि तथा साधुसमागमम् ॥ ७ ॥

स्त्रीशूद्रपतितव्रात्यनास्तिकोच्छिष्टभाषणम् ।
असत्यभाषणं चोक्तिं कुटिलां परिवर्जयेत् ॥ ८ ॥

सत्येनापि न भाषेत जपहोमार्चनादिषु । यदि भाषति तत्काले
सत्यैः प्रस्तुतसाधकः ॥ ९ ॥

अन्यथानुष्ठितं सर्वं भवत्येव निरर्थकम् । वाङ्मनः
कर्मभिर्नित्यं निःस्पृहो वनितादिषु ॥ १० ॥

अभ्यङ्गनृत्यगीतादिदर्शनादिकमुत्सृजेत् । वर्जयेद्गन्धलेपं च
पुष्पधारणमेव च ॥ ११ ॥

प्. ४४) मैथुनं तत्कथालापं तद्गोष्ठीं च विवर्जयेत् ।
स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ॥ १२ ॥

संकल्पोव्यसायश्च क्रियानिष्पत्तिरेव च । एवमष्टविधं
प्रोक्तं मैथुनं तन्त्रवेदिभिः ॥ १३ ॥

नादद्यात् कस्यचित्किंचित् न विनोदी भवेद्बुधः । अस्नातांश्च
द्विजाञ्छूद्रान् स्त्रियो नैव स्पृशेत्तदा ॥ १४ ॥

त्यजेदुष्णोदकस्नानमनिवेदित भोजनम् । प्राणहिंसान्न कुर्वीत
पुरश्चरणकृद्बीजः ॥ १५ ॥

गोशुश्रूषादिकं चैव कल्पोक्तं विधिवच्चरेत् ॥ १६ ॥

ततो भक्ष्यमभक्ष्यं च तदानी यद्वदाम्यहम् । नाना
तन्त्रानुसारेण मन्त्रिणां हितकाम्यया ॥ १ ॥

भै (भा) क्ष्यं हविष्यं दुग्धान्नं शाकं च दधियावकम् ।
पयो मूलं फलं वापि यद्यद्यत्रोपपद्यते ॥ २ ॥

अन्यत्रापि समाख्यातं भक्ष्याणां लक्षणं बुधैः ।
भक्ष्यं हविष्यं शाकानि पयोमूलं फलं तथा ॥ ३ ॥

शक्तुकं क्षीरमात्रं वा पुरश्चरणकृद्बिजः । हैमन्तिकं
सितास्विन्नं धान्यं मुद्गास्तिला यवाः ॥ ४ ॥

कलायकङ्कुनीवाराः वास्तूकं हिलमोचिका ।
षष्टिकाकालशाकं च मूलकं केमुकेतरत् ॥ ५ ॥

कन्दं सैन्धवसामुद्रे लवणे दधिसर्पिषी ।
पयोऽनुद्धृतसारं च पनसाम्रहरीतकी ॥ ६ ॥

पिप्पली जीरकं चैव नागरङ्गं च तित्तली (तिन्तिणी) । कदली
लवलीधात्रीफलान्यगुडमैक्षवम् ॥ ७ ॥

अतैलपक्वं मुनयो हविष्यान्नं प्रक्षते । हविष्येषु यवा
मुख्यास्तदनु व्रीहयः स्मृताः ॥ ८ ॥

माषकोद्रवसिद्धार्थान् चणकोद्दालकानपि । मसूरचीनकुलत्थान्
सर्वाभावेऽपि वर्जयेत् ॥ ९ ॥

श्रीमतां दानयुक्तानां शुचीनां धर्मधीजुषाम् ।
सत्कुलस्थानजातानां भिक्षाशीलोऽग्रजन्मनाम् ॥ १० ॥

ब्रह्मपत्रे तु भुञ्जीत मध्यपत्रं तु वर्जयेत् । दक्षं
ब्रह्मोत्तरं विण्णुर्मध्यपत्रं महेश्वरः ॥ १ ॥

ग्राह्यं वह्निं विनावस्तु नान्यस्मात् सति सम्भवे । असम्भवे
वहिस्तीर्थात् प्रगृह्णीयादपर्वणि ॥ २ ॥

तत्रासमर्थोऽनुदिनं गृह्णीयाद्दिनभोजनम् ।
विशुद्धादधिकेरागाद्गृहीते नैव सिध्यति ॥ ३ ॥

मृदु कोष्णं सुपक्वं च कुर्याद्वैलब्धभोजनम् । नेन्द्रियाणां
यथा वृद्धिस्तथाभुञ्जीत साधकः ॥ ४ ॥

अन्यथा भोजनाद्दोषात् सिद्धिहानिश्च जायते । यद्वा तद्वा
परित्याज्यं दुष्टान्नं मन्त्रिभिः सदा ॥ ५ ॥

प्रशस्तान्नं समश्नीयान् मन्त्रसिद्धिसमीहया ।
जलाद्वृद्धिस्तरोर्यद्वदिन्द्रियाणां तथान्नतः ॥ ६ ॥

तस्मात्सर्वप्रयत्नेन शस्तान्नाशी भवेन्नरः । मधु मांसं
तथा क्षारलवणं तैलमेव च ॥ ७ ॥

स्विन्नं पर्युषितं चैव निःस्नेहं कीट दूषितम् । काञ्जिकं
गृञ्जनं बिल्वं कलञ्जं लशुनं तथा ॥ ८ ॥

मसूरं कोद्रवं माषं मन्तूकं चणकादिकम् । ताम्बूलं
कांस्यपात्रे च दिवाभोजनमेव च ॥ ९ ॥

एवमादीनि चान्यानि जपकाले विवर्जयेत् । अन्यथा भोजनात्तेषां
सिद्धिं नाप्नोति साधकः ॥ १० ॥

जपमालाविधानं च संक्षेपेण निगद्यते । तद्भेदस्तत्फलं
चापि मन्त्रिणां हितकाम्यया ॥ ११ ॥

प्. ४७) अल्पायासप्रसाध्या या बहुसिद्धिप्रदायिनी । प्रथमं
वर्णमालैव गद्यते सिद्धिकांक्षिणाम् ॥ १२ ॥

अनुलोमविलोमैस्तैर्बिन्दुवन्मातृकाक्षरैः । क्षमेरुकैः
साष्टवर्गैः क्लिप्तया वर्णमालया ॥ १३ ॥

प्रत्येकं वर्णयुङ्मन्त्राः जप्ताः स्युः क्षिप्रसिद्धिदाः ।
वैरिमन्त्रा अपि नॄणामन्ये मन्त्राश्च किं पुनः ॥ १४ ॥

अकचटतपयशा वर्गाद्यार्णाः समीरिताः । मन्त्राणां
वर्णयुक्तत्वं प्रथमं वर्णमुच्चरेत् ॥ १५ ॥

ततः समुच्चरेन्मन्त्रमेवमन्यत्र दर्शनात् । अनया योजपं कुर्यात्
तस्य सिद्धिरदूरतः ॥ १६ ॥

अत्राङ्गुलिजपंकुर्वन् साङ्गुष्ठाङ्गुलिभिर्जपेत् । अङ्गुष्ठेन
विना कर्म कृतं तदफलं भवेत् ॥ १७ ॥

कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता ।
तिस्त्रोङ्गुल्यास्त्रिपर्वाः स्युर्मध्यमाचैक पर्विका ॥ १८ ॥

पर्वद्वयं मध्यमाया जपकाले विवर्जयेत् । एतं मेरुं
विजानीयाद्ब्रह्मणा दूषितं स्वयम् । आरभ्यानामिकामध्यात्
प्रदक्षिणमनुक्रमम् ॥ १९ ॥

तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु । अथवा
मध्यमानामामध्यपर्वयुगात्मकम् ॥ २० ॥

मेरुं प्रदक्षिणीकुर्वन्ननामामूलपर्वणि ।
आरभ्यमध्यमामूलपर्यन्तं गणयेद्बुधः ॥ २१ ॥

अङ्गुलीर्न वियुञ्जीत किंचित्सङ्कोचयेत्तलम् । अङ्गुलीनां वियोगे
तु क्षिद्रेषु स्रवते जपः ॥ २२ ॥

अङ्गुल्यग्रे तु यज्जप्तं यज्जप्तं मेरुलङ्घने । पर्वसन्धिषु
यज्जप्तं तत्सर्वं निष्फलं भवेत् ॥ २३ ॥

गणनाविधिमुल्लङ्घ्य यो जपेत्तु प्रमादतः । गृह्णन्ति राक्षसा
यस्मान्नियतं गणयेद्बुधः ॥ २४ ॥

नित्यं जपं करे कुर्यान्न तु काम्यमबोधनात् । मालाभिस्तु
प्रकुर्वीत नित्यं काम्यं च साधकः ॥ २५ ॥

प्. ४८) आदिक्षान्तार्णयोगित्वादक्षमालेति कीर्तिता ।
तद्वर्णसंख्यमालाभिर्जपमाला प्रकल्पयेत् ॥ २६ ॥

रुद्राक्षैः सर्वकामाप्तिः शङ्खैः कीर्तिधनाप्तये ।
पद्माक्षाः पुष्टिलक्ष्मीदाः शत्रुनाशकराः सदा ॥ २७ ॥

पुत्रञ्जीवभवाः पुत्र पशुधीधान्यवृद्धिदाः । मुक्ताभी
रचिता माला सौभाग्यं विपुलां श्रियम् ॥ २८ ॥

मन्त्रप्रत्यक्षतासिद्धिं शान्तिकं चानुपौष्टिकम् । मुक्तिं च
तनुते तद्वत् स्फाटिक्यप्यक्षमालिका ॥ २९ ॥

सारस्वते पद्मरागाः पुष्कले च धने तथा । सौवर्णी राजती
माला सर्वान् कामान् प्रयच्छति ॥ ३० ॥

सारस्वते प्रबालोत्था वश्येऽधिकधनागमे । पापक्षयकरी
कौशी रुद्राक्षादिकुशान्तकैः ॥ ३१ ॥

सर्वैरेभिर्विरचिता माला स्यान्मुक्तये नृणाम् ।
उच्चाटनेऽश्वदन्तानां मालाः प्रोताश्चबालकैः ॥ ३२ ॥

खरदन्तैरधोभूतैर्मनुष्यस्नायुतन्तुना ।
ग्रथितैर्निर्मितामाला शत्रूणां नाशिनी मता ॥ ३३ ॥

प्रेतदन्तैरधोभूतैः कर्तव्या जपमालिका । साध्यदेहभवैः
केशैः प्रोतव्या द्वेषकर्मणि ॥ ३४ ॥

वैष्णवे तुलसीमाला गजदन्तैर्गणेश्वरे । त्रिपुराया जपे
शस्ता इन्द्राक्षैरक्तचन्दनैः ॥ ३५ ॥

महाशङ्खमयीज्ञेया नीलसारस्वते मनौ ।
अङ्गुलीजपसंख्यानमेकमेवमुदाहृतम् ॥ ३६ ॥

पुत्रञ्जीवैर्दशगुणं शतं शंखैः सहस्त्रकम् । प्रबालै
मलिरत्नैश्च दशसाहस्रकं स्मृतम् ॥ ३७ ॥

तदेव स्फाटिकैः प्रोकतं मौक्तिकैर्लक्षमुच्यते ।
स्वर्णैर्दशगुणा सैव सर्वैः शतगुणं तथा ॥ ३८ ॥

कुशग्रन्थ्या च रुद्राक्षैरनन्तगुणितं भवेत् ।
शुद्धपद्माक्षमालाभिरपिस्यादमितं फलम् ॥ ३९ ॥

प्. ४९) मातृकावर्णसंभूतमालयापि च तत्फलम् । अथवा तां
शतैः कुर्यात्सर्वसाधारणे जपे ॥ ४० ॥

पञ्चाशद्भिः काम्यकर्मसिद्धिः स्याच्चतुरुत्तरैः ।
अष्टोत्तरशतैः सर्वसिद्धिरुक्ता कृतस्रजा ॥ ४१ ॥

मोक्षार्थी पञ्चविंशत्या धनार्थी त्रिंशताजपेत् ।
पुष्ट्यर्थी सप्तविंशत्या पञ्चदश्याभिचारिके ॥ ४२ ॥

नारदीये तु संप्रोक्तं न पञ्चदश कस्यचित् । अनयोः
पक्षयोस्तस्माद्विकल्पः स्याद्व्यवस्थितः ॥ ४३ ॥

व्यवस्था चेयमत्रस्यान्नस्यादष्टाक्षरे मनौ । पुरुषस्येति
तस्याथो या कस्यचिदितिश्रुतम् । अथवा योजनीयन्तन्मतभेदेन
मन्त्रिभिः ॥ ४४ ॥

अथातो ग्रथनं वक्ष्ये मालानां तन्त्रदर्श्तितम् । एकभुक्तं
विद्यायादौ साधको ग्रथयेत् स्वयम् ॥ ४५ ॥

स्वयं च माला ग्रथितेत्यादिना यन्निषिध्यते ।
तच्चन्दनसकाशेन पुष्पस्रक्परमिष्यते ॥ ४६ ॥

कृतनित्यक्रियः शुद्धः उक्तेष्वेतेषु मन्त्रवित् । यथालाभं
यथाकाममक्षाण्यानीय यत्नतः ॥ ४७ ॥

मिथः सदृशरूपाणि नातिस्थूलकृशान्यपि ।
कीटादिभिरदुष्टानि न जीर्णानि नवानि वै ॥ ४८ ॥

प्रक्षाल्य पञ्चभिर्गव्यैस्तान्यक्षाणि पृथक् पृथक् । विग्रन्थि
द्विजपुण्यस्त्रीनिर्मितं त्रिगुणीकृतम् ॥ ४९ ॥

त्रिगुणीकृत्य तत्सूत्रं क्षालयेद्विधिवत्पुनः । शुक्लं रक्तं
तथा कृष्णं वश्यशान्त्यभिचारिके ॥ ५० ॥

सूत्रं संपादयेद्विद्वान् पट्टसूत्रमथापि वा ।
स्थापयेत्पद्मऊपेणाश्वत्थनवपल्लवान् ॥ ५१ ॥

सूत्रं मणींश्च गन्धाम्भः क्षालिता&स्तत्रनिःक्षिपेत् ।
तारं शक्तिं मातृकां च सूत्रै चैव मणिष्वथ ॥ ५२ ॥

विन्यस्य प्रयजेदाज्यैर्जुहुयाच्चैव शक्तितः । होमाशक्तौ
होमसंख्याद्विगुणं जपमाचरेत् ॥ ५३ ॥

प्. ५०) इति केचिद्वदन्त्यत्र वक्ष्यामो बाह्यपूजने ।
मणिमेकैकमादाय सूत्रे वै योजयेत्सुधीः ॥ ५४ ॥

मुखं मुखेषु संयोज्य पुच्छं पुच्छे तु योजयेत् ।
गोपुच्छसदृशी कार्या यद्वा सर्पाकृतिःशुभा ॥ ५५ ॥

तत्सजातीयमेकाक्षं मेरुत्वेनाग्रतो न्यसेत् । एकैकमणिमध्ये तु
ब्रह्मग्रन्थिं प्रकल्पयेत् ॥ ५६ ॥

गायत्री जपने केचिन्मालां ग्रन्थन्ति मान्त्रिकाः ।
गायत्रीमन्त्रकथनं ब्रह्मग्रन्थिप्रकल्पने ॥ ५७ ॥

सामान्यतः कथं बाध्यमिति तेषामिहाशयः । जपमालां
विधायेत्थं तस्यास्त्वतिशयार्थकान् ॥ ५८ ॥

कुर्युर्वाच्यविधानेन संस्कारान् क्रमबोधितान् ।
क्षालयेत्पञ्चगव्येन सद्योजातेन सज्जलैः ॥ ५९ ॥

चन्दनागुरुगन्धाद्यैर्वामदेवेन घर्षयेत् । धूपयेत्तामघोरेण
तर्पयेत् पुरुषेण तु ॥ ६० ॥

मन्त्रयेदीशमन्त्रेण प्रत्येकं च शतं शतम् । सुमेरुं
पञ्चमेनैव ततो मन्त्रेण मन्त्रयेत् ॥ ६१ ॥

संस्कृत्यैवं बुधो मालां तत्प्राणांस्थापयेत्ततः । एवं
कृताक्षमालायां जपेन्मातृकया सुधीः ॥ ६२ ॥

मातृकावर्णभेदेभ्यः सर्वे मन्त्राः प्रजज्ञिरे । अतः
सकलमन्त्राणां जपः कार्योऽनयास्रजा ॥ ६३ ॥

गुरुं संपूज्य तस्मात्तां गृह्णीयात्सर्वसम्पदे । अशुचिर्न
स्पृशेदेनां करभ्रष्टां न कारयेत् ॥ ६४ ॥

अङ्गुष्ठस्थामक्षमालां चालयेन्मध्यमाग्रतः । तर्जन्या न
स्पृशेत्सोऽयं मुक्तिदो गणनक्रमः ॥ ६५ ॥

भुक्तौ मुक्तौ तथाऽकृष्टौ मध्यमायां जपेत्सुधीः ।
अङ्गुष्ठानामिकाभ्यां तु जपेदुत्तम कर्मणि ॥ ६६ ॥

जपान्यकाल इमां मालां पुजयित्वा तु गोपयेत् । गोपयेच्च निजं
मन्त्रं गोपयेच्च निजं गुरुम् ॥ ६७ ॥

प्. ५१) गोपयेदक्षमालां तु गोपयेन्निजमुद्रिकाम् । गुरुं
प्रकाशयेद्विद्वान् मन्त्रं नैव प्रकाशयेत् ॥ ६८ ॥

अक्षमालां तु मुद्रां च गुरोरपि न दर्शयेत् ।
भूतराक्षसवेतालाः सिद्धगन्धर्वचारि(र)णाः ॥ ६९ ॥

हरन्ति प्रकटं यस्मात्तस्माद्गुप्तं जपेत्सुधीः । दृढं
सूत्रं प्रयुञ्जीत न त्रुट्यति जपे यथा ॥ ७० ॥

हस्तान्नच्यवते यद्वज्जपतः स्रक् तथाचरेत् । हस्ताच्च्युते
भवेद्विघ्नं छिन्नायां मरणं ध्रुवम् ॥ ७१ ॥

जीर्णे सूत्रे पुनः सूत्रं ग्रथयित्वा शतं जपेत् ।
प्रमादात्पतिते हस्ताच्छतमष्टोत्तरं जपेत् ॥ ७२ ॥

तावन्निषिद्धसंस्पर्शे क्षालयित्वा यथोदितम् ।
शतादिजपसंख्यात्र मातृकाया विधीयते ॥ ७३ ॥

प्रक्रमात्तज्जपस्यैव सर्वत्रास्यैव बोधनात् । अपवादकबाधेन
सिद्धवच्चन्द्रिकाकृतः । चन्द्रिकाया विवरणेष्विममर्थमुदाहरन्
॥ ७४ ॥

जपमालां निगद्येत्थं वक्ष्यामि जपलक्षणम् । जपः
स्यादक्षरावृत्तिः स च त्रिविध ईरितः ॥ १ ॥

वाचिकश्च उपांशुश्च मानसश्च त्रिधा स्मृतः । त्रयाणां
जपयज्ञानां श्रेयान्स्यादुत्तरोत्तरः ॥ २ ॥

यदुच्चनीचस्वरितैः स्पष्टशब्दवदक्षरैः ।
मन्त्रमुच्चारयेद्व्यक्तं वाचिकः स जपः स्मृतः ॥ ३ ॥

शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत् ।
किंचिच्छ्रवणयोग्यः स्यादुपांशुः सजपः स्मृतः ॥ ४ ॥

धिया यदुच्चरेन्मन्त्रं स जपो मानसः स्मृतः ।
उच्चैर्जपोऽविशिष्टः स्यादुपांशुर्दशभिर्गुणैः ॥ ५ ॥

सहस्रो मानसः प्रोक्तः फलमेषां प्रचक्षते । वाचिको मारणे
चैव पुष्टिकाम उपांशुकः ॥ ६ ॥

मानसः सिद्धिकामस्य प्रशस्तो जप ईरितः । गृहेजपः
समःप्रोक्तो गोष्ठे दशगुणः स्मृतः ॥ ७ ॥

पुण्यारण्ये तथारामे सहस्रगुण ईरितः । अयुतं पर्वते पुण्ये
नद्यां लक्षमुदीरितम् ॥ ८ ॥

कोटिं देवालये प्राहुरनन्तं शिवसन्निधौ । असंख्याताच्च
संख्यातः सहस्रगुण उच्यते ॥ ९ ॥

संख्यातादपि साहस्र उर्ध्वपुण्ड्रावृतो जपः । देवतां
हृद्गतां कृत्वा कृत्वा च हृदयं स्थिरम् ॥ १० ॥

शिवादींश्च गुरुं नत्वा जपेन्मन्त्रं समाहितः । शनैः
शनैरविस्पष्टमद्रुतं न विलम्बितम् ॥ ११ ॥

प्. ५३) न न्यूनं नाधिके वापि जषं कुर्याद्दिने दिने ।
नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् ॥ १२ ॥

दिवसातिक्रमात्तेषां सिद्धिरोधः प्रजायते । ब्रह्मचर्यपरः
शान्तो विरतः परदूषणे ॥ १३ ॥

वृथा कथासु सन्मौनी सकृदेव हविष्यमुक् । अनन्यमानसः
प्रातःकालान्मध्यंदिनावधि ॥ १४ ॥

क्रोधादिदोषरहितो जपेन्मन्त्रमनन्यधीः । जपस्तु सर्वकर्मेभ्यः
परमोधर्म उच्यते ॥ १५ ॥

अहिंसया हि भूतानां जपयज्ञः प्रवर्तते । क्रुद्धो
भ्रान्तस्त्वरायुक्तः शयानो वा निरासनः ॥ १६ ॥

उपानदूढपादोवा रथ्यायामासवस्थले । उष्णीषी कञ्चुकी
वापि मुक्तकेशो गलावृतः ॥ १७ ॥

अपवित्रकरोऽशुद्धः प्रलपन्न जपेन्मनुम् । यानशय्यागतोवापि
गच्छन्नुत्थित एव वा ॥ १८ ॥

अप्रावृत्तौ करौ कृत्वा शिरसा प्रावृतोऽपि वा ।
चिन्ताव्याकुलचित्तो वा न मन्त्रं प्रजपेद्बुधः ॥ १९ ॥

न वदन्नब्रजन्नान्यमाश्रयं कमपि स्मरन् । न
क्षज्जृम्भणहिक्कादिविकलीकृतमानसः ॥ २० ॥

मन्त्रसिद्धिमवाप्नोति तस्माद्यत्नपरोभवेत् । शयनं
दर्भशय्यायां विन्यसेच्छुचिरात्मनः ॥ २१ ॥

तद्वासः क्षालयेन्नित्यमन्यथा विघ्नमावहेत् ।
उपर्यधोबहिर्वस्त्रविपर्यासं न कारयेत् ॥ २२ ॥

विपर्यासविधानेन भवेदनियमः क्वचित् । पुरश्चरणकार्ये च
वर्जयेत्तं प्रयत्नतः ॥ २३ ॥

अतिप्रयासजनकं वर्जयेत्कर्मसाधकः । प्रसार्य न
जपेत्पादावुत्कटासन एव वा ॥ २४ ॥

नैकवासाजपेन्मन्त्रं बहुवस्त्राकुलोऽपिवा । एवमादीनि चान्यानि
जपकाले विवर्जयेत् ॥ २५ ॥

प्. ५४) पतितानामन्त्यजानां दर्शने भाषणेश्रुते ।
श्रुतेऽधोवायुगमने जृम्भणेजपमुत्सृजेत् ॥ २६ ॥

उत्थायाचम्य तत्प्राप्तौ प्राणायामं षडङ्गकम् । कृत्वा
सम्यग्जपेच्छेषं यद्वा सूर्यादिदर्शनम् ॥ २७ ॥

मन्त्री मन्त्रजपं कुर्वन्न्शुचिं यदि पश्यति । प्राणायामं
सकृत्कृत्वा जपशेषं समापयेत् । अष्टाक्षरविधावुक्तमिति
श्रीनारदीयके ॥ २८ ॥

अथ छिन्नादि दोषाणां शान्तये विधिरुच्यते । तथा छिन्नादयो
दोषाः कथ्यन्ते सिद्धिबोधिनः ॥ १ ॥

आदौ दोषस्य हेयत्वात्तस्य लक्षणमुच्यते ।
मनोर्यस्यादिमध्यान्तेष्वानिलं बीजमुच्यते ॥ २ ॥

संयुक्तं वा वियुक्तं वा स्वराक्रान्तं त्रिधा पुनः । चतुर्धा
पञ्चधावाथ समन्त्रश्छिन्नसंज्ञकः ॥ ३ ॥

आदिमध्यावसानेषु भूबीजद्वन्द्वलाञ्छितः । रुद्धमन्त्रः स
विज्ञेयो भुक्तिमुक्तिविवर्जितः ॥ ४ ॥

मायात्रितत्त्वं वा बीजरावहीनस्तु यो मनुः । शक्तिहीनः स
कथितो यस्य मध्येन विद्यते ॥ ५ ॥

कामबीजं मुखे माया शिरस्यङ्कुशमेव वा । असौ पराङ्मुखः
प्रोक्तो हकारो बीज संयुतः ॥ ६ ॥

आद्यन्तमध्येष्विन्दुर्वा न भवेद्वधिरः स्मृतः । पञ्चवर्णो
मनुर्यः स्याद्रेफार्केन्दुविवर्जितः ॥ ७ ॥

नेत्रहीनः स विज्ञेयो दुःखशोकामयप्रदः ।
आदिमध्यावसानेषु हंसः प्रासादवागुरौ ॥ ८ ॥

हकारो बिन्दुमान् जीवो वारं वापि चतुष्कलम् । माया नमामि च
पदं नास्ति यस्मिन् स कीलितः ॥ ९ ॥

एकं मध्ये द्वयं मूर्ध्नि यस्मिन्नस्त्रपुरन्दरौ । न विद्येते स
मन्त्रःस्यात् स्तम्भितः सिद्धिबो(रो)धकः ॥ १० ॥

वह्निर्वायुसमायुक्तो यस्य मन्त्रस्य मूर्धनि । सप्तधा दृश्यते
तं तु दग्धं मन्वीत मन्त्रवित् ॥ ११ ॥

प्. ५६) अस्त्रं द्वाभ्यां त्रिभिः
षड्भिरष्टार्भिदृश्यतेक्षरैः । स्रस्तः सोऽभिहितो यस्य
मुखेन प्रणवः स्थितः ॥ १२ ॥

शिवो वा शक्तिरथवा भीताख्यः स प्रकीर्तितः ।
आदिमध्यावसानेषु भवेन्नार्णचतुष्टयम् ॥ १३ ॥

यस्य मन्त्रः स मलिनो मन्त्रवित्तं विवर्जयेत् । यस्य मध्ये दकारो
वा क्रोधो वा मूर्धनि द्विधा ॥ १४ ॥

अस्त्रं तिष्ठति मन्त्रः स तिरस्कृत उदीरितः । भ्योद्वयं
हृदये शीर्षे वषट्वौषट् च मध्यतः ॥ १५ ॥

यस्यासौ भेदितो मन्त्रस्त्याज्यः सिद्धिषु सूरिभिः । त्रिवर्णो
हंसहीनो यः सुषुप्तः स उदाहृतः ॥ १६ ॥

मन्त्रोवाऽप्यथवा विद्या सप्ताधिकदशाक्षरः । फट्कार
पञ्चकादिर्यो मदोन्मत्त उदाहृतः ॥ १७ ॥

तद्वदस्त्रं स्थितं मध्ये यस्य मन्त्रः स मूर्छितः ।
विरामस्थानगं यस्य हृतवीर्यः स कथ्यते ॥ १८ ॥

आदौ मध्ये तथा मूर्ध्नि चतुरस्त्रयुतो मनुः । ज्ञातव्यो हीन
इत्येष यः स्यादष्टादशाक्षरः ॥ १९ ॥

एकोनविंशत्यर्णो वा यो मन्त्रस्तारसंयुतः ।
हृल्लेखाङ्कुशबीजाढ्यस्तं प्रसुप्तं प्रचक्षते ॥ २० ॥

सप्तवर्णो मनुबलिः कुमारोऽष्टाक्षरस्तु यः । षोडशार्णो
युवा प्रौढश्चत्वारिंशल्लिपिर्मनुः ॥ २१ ॥

त्रिंशदर्णश्चतुः षष्टिवर्णो मन्त्रः शताक्षरः ।
चतुःशताक्षरश्चापि वृद्ध इत्यभिधीयते ॥ २२ ॥

नवाक्षरो ध्रुवयुतो मनुर्निश्चित्रश ईरितः । यस्यावसाने
हृदयं शिरो मन्त्रौ च मध्यतः ॥ २३ ॥

शिखा वर्म च संस्यातां वौषट् फट्कार एव वा ।
शिवशक्त्यर्णहीनो वा स निर्बीज इति स्मृतः ॥ २४ ॥

एषु स्थानेषु फट्कारः षोढा यस्मिन् प्रदृश्यते । स मन्त्रः
सिद्धिहीनः स्यान्मन्दः पंक्त्यक्षरो मनुः ॥ २५ ॥

प्. ५७) कूट एकाक्षरो मन्त्रः स एवोक्तो निरंशकः । द्विवर्णः
शक्तिहीनः स्याच्चतुर्वर्णस्तु केकरः ॥ २६ ॥

षडक्षरो बीजहीनस्त्वबन्धः सप्ताक्षरो मनुः ।
सार्धद्वादशवर्णो वा धूमितः स तु निन्दितः ॥ २७ ॥

सार्धबीजस्त्रयस्तद्वदेकविंशतिवर्णकः ।
विंशत्यर्णस्त्रिंशदर्णो यः स्यादालिङ्गितस्तु सः ॥ २८ ॥

द्वात्रिंशदक्षरो मन्त्रो मोहितः परिकीर्तितः ।
चतुर्विंशतिवर्णो यः सप्तविंशतिवर्णकः ॥ २९ ॥

(क्षुधार्तः स तु विज्ञेयश्चतुर्विंशति वर्णकः) ।
एकादशाक्षरी वापि पञ्च विंशतिसंख्यकः ॥ ३० ॥

त्रयोविंशतिवर्णो वा मन्त्रो दृप्त उदाहृतः ।
षड्विंशत्यक्षरो षट्त्रिंशद्वर्णकस्तथा ॥ ३१ ॥

त्रिंशदेकोनवर्णोवाऽप्यङ्गहीनोऽभिधीयते ।
अष्टाविंशदक्षरो यः एकत्रिंशदथापि वा ॥ ३२ ॥

अतिक्रुद्धः स गदितो निन्दितः सर्वकर्मसु । (त्रिंशदक्षरको
मन्त्रस्त्रयस्त्रिंशदथापि वा ॥ ३३ ॥

अतिक्रूरः स गदितो निन्दितः सर्वकर्मसु ।) चत्वारिंशतमारभ्य
त्रिषष्टिर्यावदापतेत् ॥ ३४ ॥

तावत्संख्या निगदिता मन्त्राः सव्रीडसंज्ञकाः ।
पञ्चषष्ट्यक्षरायेस्युर्मन्त्रास्ते शान्तमानसाः ॥ ३५ ॥

एकोनशतपर्यन्तं पञ्चषष्ट्यक्षरादितः । ये मन्त्रास्ते
निगदिताः स्थानभ्रष्टाह्वयाबुधैः ॥ ३६ ॥

त्रयोदशाक्षरा ये स्युर्मन्त्राः पञ्चदशाक्षराः ।
विकलास्तेऽभिधीयन्ते शतं सार्ध शतस्तु (न्तु) वा ॥ ३७ ॥

शतद्वयं द्विनवतिरेकहीनाथवापि सा । शतत्रयं वा
यत्संख्या निस्नेहास्ते समीरिता ॥ ३८ ॥

चतुः शतान्यथारभ्य यावदर्णसहस्रकम् । अतिवृद्धः स
यागेषु परित्याज्यः सदा बुधैः ॥ ३९ ॥

प्. ५८) सहस्रादधिका मन्त्रा दण्डकाः पीडिता मताः ।
द्विसहस्राधिका मन्त्राः खण्डशः शतधा मताः ॥ ४० ॥

ज्ञातव्याः स्तोत्ररूपास्ते मन्त्रास्ते स्युस्तथा मताः । तथा
विद्याश्च बोद्धव्या मन्त्रिभिः सर्वकर्मसु ॥ ४१ ॥

बन्धेन योनिमुद्राया दोषान् छिन्नादिकान् हरेत् ।
तदावश्यकमेवात्र तद्व्यक्तं शारदादिके ॥ ४२ ॥

दोषानिमानविज्ञाय यो मन्त्रंभजते जनः । सिद्धिर्न जायते
तस्य कल्पकोटिशतैरपि ॥ ४३ ॥

इत्यादिदोषदुष्टांस्तान्मन्त्रानात्मनि योजयेत् ।
शोधयेदूर्ध्वपवनो बद्धया योनिमुद्रया ॥ ४४ ॥

अथवा दोषशुद्ध्यर्थं प्रकारमिममाचरेत् । मन्त्रादिषु च
सर्वेषु हृल्लेखा कामबीजकम् ॥ ४५ ॥

श्रीबीजं वा विनिःक्षिप्य जपेन्मन्त्रं विशुद्धये ।
तारसंपुटितो वाथ दुष्टमन्त्रोऽपि सिद्ध्यति ॥ ४६ ॥

अथ वक्ष्ये योनिमुद्राबन्धयोगमनुत्तमम् । जित्वादावात्मनः
शत्रुन्कामादीन् योगमभ्यसेत् ॥ ४७ ॥

कामक्रोधौ लोभमोहौ तत्परं मदमत्सरम् । वदन्ति
दुःखदानेतानरिषड्वर्गमात्मनः ॥ ४८ ॥

योगाष्टाङ्गैरिमान् जित्वा योगिनो योगमाप्नुयुः ।
यमनियमासनप्राणायामाः ततः परम् ॥ ४९ ॥

प्रत्याहारं धारणां च ध्यानं सार्धं समाधिना ।
अष्टाङ्गान्याहुरेतानि योगिनो योगसाधने ॥ ५० ॥

अहिंसासत्यमस्तेयं ब्रह्मचर्यं कृपार्जवम् । क्षमा
धृतिर्मिताहारः शौचं चेति यमा दश ॥ ५१ ॥

तपः सन्तोष आस्तिक्यं दानं देवस्यं पूजनम् ।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्चजपोद्ग(व्र)तम् ॥ ५२ ॥

दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः । इन्द्रियाणां
विचरतां विषयेषु निरर्गलम् ॥ ५३ ॥

प्. ५९) बलादाहरणं तेभ्यः प्रत्याहारो वि(भि)धीयते ।
अङ्गुष्ठगुल्फजानूरुसीवनीलिङ्गनाभिषु ॥ ५४ ॥

हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि । भ्रूमध्ये
मस्तके मूर्ध्नि द्वादशान्ते यथा विधि ॥ ५५ ॥

धारणं प्राणमरुतो धारणेति निगद्यते । समाहितेन मनसा
चैतन्यान्तरवर्तिना ॥ ५६ ॥

आत्मन्यभीष्टदेवस्य ध्यानं ध्यानमिहोच्यते । समत्वभावना
नित्यं देवात्मपरमात्मनोः ॥ ५७ ॥

समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् ।
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ॥ ५८ ॥

युक्तस्वप्नावबोधस्य योगोभवति दुःखहा । प्राणायामं
समारभ्य विशुधान्तरनाडिकः ॥ ५९ ॥

आसने साधको दक्षपादपार्ष्णिं निवेशयेत् । गुदमार्गे तथा
लिङ्गे वामपार्ष्णिम (थ) न्यसेत् ॥ ६० ॥

निवर्तयेदिन्द्रियाणि विषयेभ्यः समाहितुः । ऋजुकायशिरोग्रीवः
काकचञ्चुयुतक्रमात् ॥ ६१ ॥

समाहृत्यजगत्प्राणमुदरं परिपूरयेत् । अङ्गुष्ठाभ्यामथो
कर्णौ तर्जनीभ्यां तु लोचने ॥ ६२ ॥

नासारन्ध्रे मध्यमाभ्यामवशिष्टाभिराननम् ।
अङ्गुलीभिर्नातिदृढमवरुध्य स्वकं मनः ॥ ६३ ॥

मूलाधारे स्थिरीकृत्य यथाश्वो गुदपद्धतिम् । संकोचयति
संत्यज्य पुरीषन्तु पुनः पुनः ॥ ६४ ॥

तथा सङ्कोचयेदेनमङ्गलग्नकरस्ततः । भूयो भूयो
हू&कृतेनोच्चारयेद्गुदमारुतम् ॥ ६५ ॥

उन्मीलयति सुषुम्ना सु(मु)खमभ्यस (स्य)तः क्रमात् । वायुस्तत्र
प्रविश्याजग्रन्थिं भित्वाजपङ्कजम् ॥ ६६ ॥

करोत्यूर्ध्वमुखंतस्मिन् प्रविष्टेऽन्तरथोध्वनिः ।
क्रमान्मेघनिनादाभो जायते तेन बुध्यते ॥ ६७ ॥

प्. ६०) सुप्रसुप्ता कुण्डलिनी ततो योन्यन्तके स्मरम् । भ्रमन्तं
विकसद्बन्धुजीवपुष्पाभमुज्ज्वलम् ॥ ६८ ॥

शिवस्वरूपं संचिन्त्य हंसरूपं विचिन्तयेत् ।
तयैकीकृतमात्मानं योगी कुण्डलिनीं ततः ॥ ६९ ॥

विधाय चित्कलायुक्तां हंसेन सहितां नयेत् । एतामूर्ध्वं
चित्रनाड्या सहस्रदलपङ्कजम् ॥ ७० ॥

चक्राणि षट् च लिङ्गानि त्रीणि भित्वा पृथक् पृथक् । गत्वा
तत्कर्णिकासंस्थशिवसायुज्यमाप्नुयात् ॥ ७१ ॥

सहस्रारोर्ध्वसर्गाख्यस्थानस्थितसुधाकरात् ।
निपतंत्रीं(न्तीं)मन्त्रमयीं लोहितामृतविश्रु(स्रु)तिम् ॥ ७२ ॥

पीत्वा तेनैव मार्गेण तास्ताः षट्चक्रदेवताः । प्रा (परा)
वृत्य प्रीणयन्ती स्वस्थानमधिगच्छति ॥ ७३ ॥

इत्थं गतागतं योगी भूयो भूयः समाचरन् ।
मन्त्रजापविधानेन दोषान् छिन्नादिकान् हरेत् ॥ ७४ ॥

अभ्यसेद्योनुदिवसं योगमेनं समाहितुः । जित्वा दुरितरोगादीन्
चिरंजीवेत्स्मरात्मकः ॥ ७५ ॥

साधयेत्सकलान्मन्त्रान्मौनी नीलशिरोरुहः । गुदध्वजान्तरे
पद्मं ब्रह्मणो भूषितं दलैः ॥ ७६ ॥

चतुर्भिर्हेमसंकाशैर्वादिसान्तैर्विभूषितैः । सबिन्दुभिरियं
प्राहुर्मूलाधारं तु योगिनः ॥ ७७ ॥

ध्वजमूले रसदलैर्बादिलान्तैः सबिन्दुभिः । वर्णैर्युतं
शिवस्थानं स्वाधिष्ठानसमाह्वयम् ॥ ७८ ॥

नीलाञ्जनाभैर्दशभिर्युक्तैर्डाद्यैः सबिन्दुभिः ।
दशाक्षरैर्दलैर्युक्तं नाभिस्थं मणिपूरकम् ॥ ७९ ॥

हृदीन्द्रगोपसन्ध्याम्बुवाहसिन्दूरदीधिति ।
दलैरादित्यसंख्याभिः कादिवर्णैर्विभूषितैः ॥ ८० ॥

सदन्तैः कमलं प्राहुरनाहतमिदं बुधाः । विशुद्धाख्यं तु
नलिनं कण्ठेऽलिरुचिभिर्युतम् ॥ ८१ ॥

प्. ६१) दलैः षोडशभिर्युक्तं स्वरैर्भगवतीगृहम् ।
शरच्चन्द्रमयुखाभमाज्ञानामसरोरुहम् ॥ ८२ ॥

भ्रूमध्येद्विदलं सेन्दुवर्णान्त्यद्वयभूषितम् ।
षट्चक्रकमिदं प्रोक्तं योगशास्त्रविशारदैः ॥ ८३ ॥

ब्रह्मा शिवो गदापार्णिहंसोभगवती तथा । बिन्दुः क्रमेण
चक्रेशाः षडत्र परिकीर्तिताः ॥ ८४ ॥

ब्रह्माविष्णुस्तथारुद्र ईश्वरोऽथ सदाशिवः । बिन्दुः क्रमेण
चक्रेशाः क्वचिदेवमुदीरिताः ॥ ८५ ॥

डाकिनी राकिनी चैव लाकिनी काकिनी तथा । शाकिनी हाकिनी
चेति क्रमात् षट्चक्रदेवताः ॥ ८६ ॥

स्वयम्भुना स्वयं लिङ्गं योनिमध्यविलान्तरे ।
हृदिबाला(णा)द्वयं लिङ्गमितरञ्चा(च्चा)न्तरालके ॥ ८७ ॥

सर्गाधो रक्तकिञ्जल्कसहस्रदलपङ्कजम् । निष्कलङ्कं
स्फुरद्रश्मि त्रिशृङ्ग(ङ्गं)हिमरश्मिकम् ॥ ८८ ॥

गुदध्वजान्तरे लिङ्गमुत्सेधाद्द्व्यङ्गुलं विदुः । तस्य
द्विगुणविस्तारवृत्तरूपेण वेष्टितम् ॥ ८९ ॥

नाड्यस्तत्र समुत्पन्ना मुख्यास्तिस्रः प्रकीर्तिताः । इडा नाडी
श्रिताभागं तनोर्वामं तु दक्षिणम् ॥ ९० ॥

पिङ्गलाथ तनोर्मध्ये पृष्ठवंशसमाश्रिता । सुषुम्ना
ब्रह्मरन्ध्रं तु चित्रा नाडी तदन्तरे ॥ ९१ ॥

पञ्चवर्णोज्ज्वला सूक्ष्मा देवैर्युक्ताथ पञ्चभिः । ब्रह्मा
जनार्दनो रुद्रः शिवसादाख्यकावपि ॥ ९२ ॥

चित्राख्यनाड्यन्तरस्था पञ्चभूताधिदेवताः । कन्दमध्ये
त्रिकोणास्ति योनिर्लोहितदीधितिः ॥ ९३ ॥

बालार्ककोटिकिरणशम्पेव चपलद्युतिः । कामः परिश्रमस्तत्र
चिन्तनीयस्तडिन्निभः ॥ ९४ ॥

अतिसूक्ष्माभमूर्ध्वे स्याच्छक्तिर्दीपशिखाकृतिः । परिस्फुरन्ती
तन्मध्ये शिवशक्तिस्वरूपिणी ॥ ९५ ॥

प्. ६२) सूर्यकोटिप्रतीकाशा सर्वदेवमयी विभुः ।
प्रसुप्तभुजगाकारा शंखावर्तभ्रमान्मुखम् ॥ ९६ ॥

वेष्टयन्ती सुषुम्नाया ध्येया कुण्डलिनी शुभा । संक्षिप्य
योनिमुद्राया बन्ध एवं प्रकीर्तितः ॥ ९७ ॥

कथ्यन्ते मन्त्रसंस्कारा शारदातिलका दश । जननं जीवनं
पश्चात्ताडनं बोधनं तथा ॥ १ ॥

अथाभिषेको विमलीकरणाप्यायने तथा । तर्पणं दीपनं
गुप्तिर्दशैता मन्त्रसंस्क्रियाः ॥ २ ॥

चन्दनादिभिरालिख्य पात्रे स्वर्णादिनिर्मिते ।
मन्त्रीसौवर्णलेखिन्या मातृकार्णान् यथाक्रमम् ॥ ३ ॥

ततोक्षराणि संगृह्य लिखेदभिमतं मनुम् ।
अवशिटैर्मातृकार्णैः संपुटीकृत्य तं जपेत् ॥ ४ ॥

एतज्जननमाख्यातं सम्प्रदायानुसारिभिः । प्रणवान्तरितान्
कृत्वा मन्त्रवर्णान् जपेत्सुधीः ॥ ५ ॥

एतज्जीवनमित्याहुर्मन्त्रशास्त्रविशारदाः । मन्त्रवर्णान्
समालिख्य ताडयेच्चन्दनाम्भसा ॥ ६ ॥

प्रत्येकं वायुना मन्त्री ताडनं तदुदाहृतम् । मन्त्रवर्णान्
समालिख्य प्रसूनैः करवीरजैः ॥ ७ ॥

तन्मन्त्राक्षरसंख्यातैर्हन्यात्स्यात्तेन बोधनम् ।
अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद्विशुद्धये ॥ ८ ॥

संचिन्त्यमनसा मन्त्रं मूले तेजस्त्रयात्मकम् ।
योनिबन्धोर्द्ध्वपवनस्तदुत्थज्योतिषा ततः ॥ ९ ॥

हृदम्भोजस्थिते वाच्यज्योतिर्मन्त्रेण निर्दहेत् । मन्त्रे मलत्रयं
मन्त्री विमलीकरणं त्विदम् ॥ १० ॥

तारं व्योमाग्निमनुयुग्दन्तीज्योतिर्मनुर्मतः । कुशोदकेन जप्तेन
प्रत्यर्णं प्रोक्षणं मनोः ॥ ११ ॥

तेन मत्रेण विधिवदेतदाप्यायनं मतम् । मन्त्रेण वारिणा
तन्त्रे तर्पणं तर्पणं मतम् ॥ १२ ॥

तारमायारमायोगो मनोर्दीपनमुच्यते । जप्यमानस्य मन्त्रस्य
गोपनं त्वप्रकाशनम् ॥ १३ ॥

इति मन्त्रस्य संस्कारा दशोक्ताः सिद्धिदायकाः । यान् कृत्वा
विधिना मन्त्री यथोक्तफलमश्नुते ॥ १४ ॥

अथ शैवागमाद्युक्तास्त्रन्यासविधिरुच्यते । अभयं वामतो
दद्याद् वरं दक्षे निवेशयेत् ॥ १ ॥

देवस्य पृष्ठदेशे तु तूणं सम्यङ्निवेशयेत् । शालिं च
नवनीतं च दधिभाण्डं तथा गुडम् ॥ २ ॥

अक्षमालां मृगं टङ्कं दक्षिणे विनिवेशयेत् । शुकं
वीणां तथा नागं व्यञ्जनं च कमण्डलुम् ॥ ३ ॥

तर्जनीं वामतस्तद्वदासनं दक्षतो न्यसेत् । वेदं च
पक्षिणं मुद्रां दक्षिणे विनियोजयेत् ॥ ४ ॥

शंखं चक्रं न्यसेत्तद्वत् कुशान् पद्मं द्वयोरपि । द्वयोः
पाशं च पुस्तं च पात्रं वामे विचिन्तयेत् ॥ ५ ॥

कपालं वामतो दक्षे जपमालां समर्पयेत् । दक्षे शक्तिं
फलं खड्गं त्रिशूलं डमरुं तथा ॥ ६ ॥

वनमालां सुरापात्रं शृ (सृ)णिं चापि शरं न्यसेत् ।
धनुर्वाणं चोभयोर्हस्तकङ्कणं मुद्रिकां गदाम् ॥ ७ ॥

कशां तु वामतो न्यस्य खेटकं शृङ्खलं तथा ।
अर्घपात्रं चोभयोस्तु दद्यात्पुष्पाञ्जलिं तथा ॥ ८ ॥

भूषान्युभयोर्दद्याद्वस्त्रं चित्रितमीरितम् । शुभ्रं वा
सर्वदेवानां पीतं विष्णोः समीरितम् ॥ ९ ॥

शं च गोपीश पं गं च श प चं गं श गो प चं । श प
चं गं ग पं शं च शंखाद्याः षट् प्रदक्षिणाः ॥ १०


के म सं दा राम प्रद्युविभाऽनि पुर्वधोजनाः । गो त्रि श्री हृ
नृसिंहाच्यु वा ना गो पे ह कृ क्रमात् ॥ ११ ॥

अथ जाप्यविधानं तु क्रमोक्तं प्रतिपद्यते । येन
सिद्धिर्भवेदाशु अभाग्यस्यापि देहिनः ॥ १ ॥

भूमेः परिग्रहं कुर्यात् परिमाणं च सर्ववित् ।
तथास्यामुकगोत्रस्य पुरश्चरणसिद्धये ॥ २ ॥

मयेयं गृह्यते भूमिर्मन्त्रो मे सिध्यतामिति । विषमं मण्डलं
वापि क्रोशं गव्यूतिमेव वा ॥ ३ ॥

नदी पर्वतवृक्षादौ परिमाणे नखान्ततम् । पुरश्चर्याभुवो
मानं क्वचिन्मानं न विद्यते ॥ ४ ॥

तदाह चन्द्रिकाकारो नानामन्त्रानुसारतः । ग्रामे क्रोशमितं
स्थानं क्रोशयुग्ममथापि वा ॥ ५ ॥

अहोरात्रिविहारार्थं तावतीं भूमिमाक्रमेत् । वितस्तिप्रमितान्
कृत्वा प्रत्येकं वै कदापि वा ॥ ६ ॥

क्षीरवृक्षोद्भवान् कीलानस्त्रमन्त्राभिमन्त्रितान् । तेषु
चास्त्रं समभ्यर्च्य मन्त्री पञ्चोपचारकैः ॥ ७ ॥

तानष्टौ सर्वदिग्भागे निखनेन्मध्य उद्धरेत् । क्षेत्रे तु कीलिते
मन्त्री न विघ्नैः परिभूयते ॥ ८ ॥

अश्वत्थोदुम्बरप्लक्षन्यग्रोधाः क्षीरशाखिनः । क्षेत्रपालं
स्ववर्गेण संपूज्य विधिवत्ततः ॥ ९ ॥

दिक्पतिभ्यो बलिं दद्यात् ततः क्षेत्रं समाश्रयेत् । जपस्थानं
समाश्रित्य कूर्मचक्रं विचिन्तयेत् ॥ १० ॥

वर्तुलं नवकोष्ठं तत् कृत्वा कूर्माकृतिं लिखेत् । कादीन्
वर्गान् लक्षमीशे मध्यकोष्ठे तथा लिखेत् ॥ ११ ॥

प्. ६७) स्वराननुक्रमेणैव पूर्वाद्यष्टहरिद्गतान् ।
क्षेत्रनामाद्यवर्णं (र्णः) तु यस्मिन् कोष्ठे स्थितो भवेत् ॥ १२


मुखं तत्तस्य जानीयात् हस्तावुभयतः स्थितौ । कोष्ठे कुक्षी
उभे पाणौ द्वे शिष्टं पुच्छमीरितम् ॥ १३ ॥

मुखस्थो लभते सिद्धिं करस्थः स्वल्पजीवनः । कुक्षिस्थितो
ह्युदासीनः पार्श्वस्थोदुःखमाप्नुयात् ॥ १४ ॥

पुच्छस्थः पीड्यते मन्त्री बन्धनोच्चाटनादिभिः ।
कूर्मचक्रमिदं प्रोक्तं मन्त्रिणां सिद्धिसाधनम् ॥ १५ ॥

मुखं तस्य समाश्रित्य जपहोमादिकं चरेत् । ग्रामे वा विपिने
वापि यत्र कुत्रावलोयन् ॥ १६ ॥

दीपस्थाने जपः कार्यः सर्वकाममभीप्सता ।
कूर्मचक्रमविज्ञाय यः कुर्याज्जपहोमकम् ॥ १७ ॥

तस्य जाप्यफलं नास्ति सर्वानर्थाय कल्पते । देहशुद्धिं
विधायादावेकभुक्तं समाचरेत् ॥ १८ ॥

प्रातः स्नात्वाथ गायत्रीं यथाशक्ति सुचिर्जपेत् ।
स्वर्णदानादिकं कुर्यादथवा सर्वकामदम् ॥ १९ ॥

ज्ञाताज्ञातस्य पापस्य क्षयार्थं प्रथमं ततः । विप्रान्
सन्तर्पयेत् सम्यक् भोजनाच्छादनाभिः ॥ २० ॥

पश्चात् तदनुज्ञापुरस्सरम् ॥ २१ ॥

पुरापि न विरुद्धं स्यादनुज्ञाग्रहणं गुरोः । असन्निधाने
स्वगुरोर्मनसैव समाचरेत् ॥ २२ ॥

अथवा गुरुसम्बद्धं गुरुं कञ्चन कल्पयेत् । एकभुक्तं
प्रकुर्वीत हविष्यान्नेन तद्दिने ॥ २३ ॥

अथ प्रातः समुत्थाय श्रीमान् ब्राह्ममुहूर्त्तके ।
कृतावश्यक्रियो धीरः उपविश्यासने शुभे ॥ २४ ॥

सहस्रदलसंशोभिब्रह्मरन्ध्रस्थपङ्कजे । श्रीगुरुं
परमात्मानं व्याख्यामुद्रालसत्करम् ॥ २५ ॥

प्. ६८) ध्यायेद्द्विनेत्रं द्विभुजं प्रीतं सकलसिद्धिदम् । एवं
ध्यात्वा च तत्पादस्रुतपीयूषधारया ॥ २६ ॥

स्थिरधीःक्षालितं देहं निजं संचिन्त्य देवताम् । स्वकीय
हृदये ध्यात्वा देहं स्वं परिचिन्तयेत् ॥ २७ ॥

तत्कान्तिपटलव्याप्तं नत्वा देवं तदाज्ञया । ऋष्यादीन्
विन्यसेत्पश्चान् मन्त्रार्थं संस्मरन्बुधः ॥ २८ ॥

गत्वा तीर्थं स्वशाखोत्थवर्त्मना स्नानमाचरेत् ।
पश्चात्स्वमन्त्र-ऋष्यादिन्यासपूर्वकमादरात् ॥ २९ ॥

ध्यात्वेष्टदेवतां तीर्थमावाह्याङ्कुशमुद्रया । अमृतीकृत्य
तत्तीर्थं मुद्रया धेनुसंज्ञया ॥ ३० ॥

वमित्यमृतबीजेन रक्षयेत्तच्छरेण वै । तज्जले देवतामूर्तिं
ध्यात्वा तच्चरणसृ(स्रु)ते ॥ ३१ ॥

तीर्थे निमज्य त्रिर्विद्वान्मनसा मन्त्रमुच्चरन् ।
कृत्वाघमर्षणं पश्चादुत्थायाचम्य वाससी । परिधाय ततो
मन्त्री कुर्यात्सन्ध्यादिकां क्रियाम् ॥ ३२ ॥

यथाशाखं समाप्यैतदृष्यादिन्यासपूर्वकम् । जप्त्वा
मूलमनुं त्वष्टाविंशति प्रमितं ततः ॥ ३३ ॥

मन्त्री वक्तव्यमार्गेण तावदेव प्रतर्पयेत् । अभिषिञ्चेत्त्रिशो
मूर्ध्नि तद्वत्कलशमुद्रया ॥ ३४ ॥

तत्तद्देवस्य गायत्रीं प्रजपेत्पंक्ति संख्यया । कामान्ते
त्रिपुरादेवि विद्महे पदमीरयेत् ॥ ३५ ॥

कामेश्वरि वदेत्पश्चात् धीमहीति वदेत्ततः । तन्न
इत्यभिधायाथ वदेत् क्लिन्ने प्रचोदयात् ॥ ३६ ॥

त्रिपुराया इयं प्रोक्ता गायत्री सर्वसिद्धिदा ।
त्रैलोक्यमोहनायेति विद्महे पदमीरयेत् ॥ ३७ ॥

स्मराय धीमहि ततस्तन्नो विष्णुः प्रचोदयात् । गायत्री
श्रीहरेः प्रोक्ता सकलार्थप्रदायिनी ॥ ३८ ॥

दाशरथाय विद्महे सीताकान्ताय धीमहि । तन्न
इत्यभिधायान्ते वदेद्रामः प्रचोदयात् ॥ ३९ ॥

प्. ६९) रामस्यैषा समुद्दिष्टा गायत्री सर्वसिद्धिदा ।
कामदेवाय विद्महे पुष्पबाणाय धीमहि ॥ ४० ॥

इत्युच्चार्य वदेत्पश्चात्ततोऽनङ्गः प्रचोदयात् । कामदेवस्य
गायत्री प्रोक्ता सकलसिद्धिदा ॥ ४१ ॥

तत्पुरुषाय विद्महे वामदेवाय धीमहि । अभिधाय पुनर्ब्रुयात्
तन्नो रुद्रः प्रचोदयात् ॥ ४२ ॥

शङ्करस्य समाख्याता गायत्री सकलार्थदा । सुदर्शनाय
विद्महे महाज्वालाय धीमहि ॥ ४३ ॥

अभिधाय बुधो ब्रूयात्तन्नश्चक्रः प्रचोदयात् । सुदर्शनस्य
गायत्री प्रोक्ता सर्वसमृद्धिदा ॥ ४४ ॥

चण्डघण्टाय विद्महे चण्डेश्वरा (य) धीमहि । उक्त्वा तदन्ते
प्रवदेत्तन्नश्चण्डः प्रचोदयात् ॥ ४५ ॥

इयं चण्डेश गायत्री सर्वसिद्धिकरी मता । षखोल्काय विद्महे
दिवाकराय धीमहि ॥ ४६ ॥

ततः समुच्चरेद्धीमान् तन्नः सूर्यः प्रचोदयात् । सूर्यस्यैषा
समुद्दिष्टा गायत्री सर्वसिद्धिदा ॥ ४७ ॥

यस्य मन्त्रस्य गायत्री कल्पे न परिदृश्यते ।
तन्मन्त्रदेवतानाम्ना गायत्रीं तत्र कल्पयेत् ॥ ४८ ॥

मन्त्रिणा मन्त्र गायत्री प्रोच्यतेऽत्र निदर्शनम् । ओं घृणि (ः)
सूर्य-आदित्येत्यष्टार्णेन च भानवे ॥ ४९ ॥

अर्घं दत्त्वाथ मूलेन दशधा मन्त्रितैर्जलैः । आचम्य
दिक्पतीन्नत्वा ततः संकल्पमाचरेत् ॥ ५० ॥

सिद्धिकामोऽस्य मन्त्रस्य इयत्संख्यं जपं ततः । दशांशं
हवनं होमाद्दशांशं तर्पणं ततः ॥ ५१ ॥

दशांशं मार्जनं तस्माद्दशांशं विप्रभोजनम् ।
पुरश्चरणमेवं हि करिष्ये प्रागुदङ्मुखः ॥ ५२ ॥

कुशाक्षतजलैरेवं करिष्ये प्रागुदङ्मुखः ।
कुशाक्षतजलैरेवं संकल्पः शास्त्रदर्शितः ॥ ५३ ॥

प्. ७०) अन्येषां तु यथायोग्यं संकल्प्य वचनं मतम् ।
इतोऽन्यथा वदन्त्येके सम्प्रदायानुसारिणः ॥ ५४ ॥

दशांशता पुनस्तेषां जपस्यैव विशेषतः । न तु सन्निधि
भावेनाप्युत्तरोत्तरशंसिता ॥ ५५ ॥

अश्वयुक्कृष्णपक्षे तु श्राद्धं कुर्यात् दिने दिने ।
त्रिभागहीनं पक्षं वा त्रिभागं त्वर्धमेव वा ॥ ५६ ॥

इत्यादौ सर्वशिष्टानां सम्मते तददर्शनात् । भोजनं
ब्राह्मणानां तु न कर्मविनिवेशितम् ॥ ५७ ॥

सर्वक्रियाणामङ्गत्वादन्यथा च तदिष्यते । परन्तु मन्त्रदेवस्य
जपस्यैव दशांशतः ॥ ५८ ॥

चिन्तनं मन्त्रिभिः कार्यं तदुक्तं मन्त्रिसत्तमैः ।
दशांशेनापि विद्याया देवतां चिन्तयेदपि ॥ ५९ ॥

पञ्चाङ्गता तु तेनैव पुरश्चरणकर्मणः । पादौ
प्रक्षालयेद्गत्वा ततो मण्डपसंनिधिम् ॥ ६० ॥

आचम्य विधिना कुर्यात्सामान्यर्घं तु तद्यथा । अस्त्रेण पात्रं
संशोध्य हृन्मन्त्रेण प्रपूर्य च ॥ ६१ ॥

तीर्थमन्त्रेण चावाह्य तीर्थं सवितृमण्डलान् । तज्जले
गन्धपुष्पाणि निःक्षिपेत्तारमुच्चरन् ॥ ६२ ॥

अस्त्रेण शोधयित्वैतत् स्पृष्ट्वा मूलंजपेत्त्रिशः ।
दर्शयेत्तत्वमुद्रां च सामान्यार्घमिदं भवेत् ॥ ६३ ॥

तज्जलैरस्त्रमन्त्रेण द्वारमभ्युक्ष्य पूजयेत् । द्वारस्य दक्षिणे
वामे गणेशं च सरस्वतीम् ॥ ६४ ॥

ऊर्ध्वोदुम्बरके मध्ये तयोद्वारश्रियं यजेत् । ततो
दक्षिणशाखायां विघ्नं क्षेत्रेशमन्यतः ॥ ६५ ॥

तयोः पार्श्वगते गङ्गायमुने पुष्पवारिभिः । धातारं च
विधातारं शंखपद्मनिधी तथा ॥ ६६ ॥

देहल्यामर्चयेदस्त्रं प्रतिद्वारमिति क्रमात् । ततस्तद्देवतायास्तु
तत्तद्वाराधिपान् यजेत् ॥ ६७ ॥

प्. ७१) विष्णोर्द्वाराधिपानन्दसुनन्दचण्डसंज्ञकाः ।
प्रचण्डोऽथबलश्चैव प्रबलो भद्र इत्यपि ॥ ६८ ॥

सुभद्रश्चैव संप्रोक्तः शैवा द्वाराधिपाः पुनः ।
नन्दिसंज्ञो महाकालो गणेशो वृषभस्तथा ॥ ८९ ॥

घृङ्गी रिटिस्तथा स्कन्द उमा चण्डेश्वरस्त्वमी ।
वक्रतुण्डश्चैकदंष्ट्रो महोदरगजाननौ ॥ ७० ॥

लम्बोदरोऽथ विकटो विघ्नराजाह्वयोऽपरः । धूम्रवर्णस्त्विमे
विघ्नाः शाक्तेयाः मातरः स्मृताः ॥ ७१ ॥

ब्राह्मी माहेश्वरी भूयः कौमारी वैष्णवी तथा ।
वाराह्यनन्तरेन्द्राणी चामुण्डा सप्तमी तथा ॥ ७२ ॥

अष्टमी स्यान्महालक्ष्मी प्रोक्ता विश्वस्य मातरः । इन्द्रो
यमोऽथ वरुणः कुबेरस्त्रैपुरा मताः ॥ ७३ ॥

द्वारं यद्येकमेवस्यात्तदा साधारणो विधिः ।
सकृत्स्याद्द्वारपालांश्च सर्वांस्तत्रैव पूजयेत् ॥ ७४ ॥

द्वारपूजां विधायेत्थं मूलमन्त्रं जपन् धिया ।
दिव्यान्तरिक्षभौमांस्तु सर्वविघ्नान्निवारयेत् ॥ ७५ ॥

शिवाज्ञया इतोऽन्यत्र व्रजन्तु सर्व एव हि । पार्ष्णिधातत्रयं
कृत्वा स्वाङ्गं संकोचयन् सुधीः ॥ ७६ ॥

वामशाखां स्पृशन्नन्तः प्रविशेद्दक्षिणाङ्घ्रिणा ।
द्वारापेक्षं तु वामत्वमित्येतन्नानु मन्यते ॥ ७७ ॥

पुरुषापेक्षया तस्मिन् बाधकानामभावतः । दक्षांशेन
स्पृशेदेतद्व्याख्यानमपि मन्त्रिणाम् ॥ ७८ ॥

[अज्ञानगहनध्वान्तसङ्गतन्नैव युज्यते] । तूर्ण्णायागे तु
संप्रोक्तं पार्ष्णिघातपुरःसरम् । सिद्धार्थाक्षतसंयुक्तं
नाराचास्त्रधिया बुधः ॥ ७९ ॥

अपसर्पन्तु ते भूता ये भूता ह्यत्रसंस्थिताः । विघ्नकर्तारो
ये भूतास्ते नश्यन्तु शिवाज्ञया ॥ ८० ॥

इत्यन्तेऽस्त्रं समुच्चार्य मण्डपान्तः परिक्षिपेत् । नैर्-ऋत्यां
दिशि वास्त्वीशं ब्राह्मणं च समर्चयेत् ॥ ८१ ॥

प्. ७२) पञ्चगव्यार्घतोयाभ्यां प्रोक्षयेद्यागमण्डपम् । अथावा
ये भवन्त्यत्र सालसा मितबुद्धयः ॥ ८२ ॥

द्वारपूजावसानं ते विदध्युर्न्नैव मानवाः । एवं विधाय
विधिना जपस्थाने समाचरेत् । पूजादिकं जपस्याङ्गं तत्कृत्वा
जपमाचरेत् ॥ ८३ ॥

परिष्कृत्य स्थलं रम्यं गोमयेनोपलेपितम् । उपचारान् प्रकुर्वीत
तानाहुस्त्रिविधान् बुधाः ॥ ८४ ॥

आसनं स्वागतं चार्घं पाद्यमाचमनीयकम् ।
मधुपर्काचमनस्नानवसनाभरणानि च ॥ ८५ ॥

सुगन्धसुमनोधूपदीपनैवेद्य वन्दनम् ।
प्रयोजयेदर्चनायामुपचारा&श्च षोडश ॥ ८६ ॥

अर्घपाद्याचमन मधुपर्का च मान्यथ । सुगन्ध
सुमनोधूपदीपनैवेद्यवन्दनम् ॥ ८७ ॥

प्रयोजयेदर्चनायामुपचारान् दश क्रमात् । गन्धादयो निवेद्यान्ता
पूजा पञ्चोपचारिकी ॥ ८८ ॥

पूर्वोक्तमासनं मन्त्री वेदिकायां प्रविन्यसेत् ।
प्रक्षाल्यपाणिचरणौ सुपवित्रकरः शुचिः ॥ ८९ ॥

आगत्य वेदिकास्थानं पूजाङ्गं विधिवच्चरेत् ।
तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम ॥ ९० ॥

भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि । इत्यनुज्ञां
गृहीत्वास्य स्थानशोधनमाचरेत् ॥ ९१ ॥

वीक्षणादिचतुष्केण सम्प्रोक्ष्यासनमादरात् ।
आधारशक्तिमारभ्य पृथिव्यन्ताः प्रपूजयेत् ॥ ९२ ॥

देवतास्तत्र मन्त्रज्ञो गन्धपुष्पाक्षतैर्जलैः । मेरुपृष्ठ
ऋषिश्च्छन्दः पृथिव्याः सुतलं मतम् ॥ ९३ ॥

देवता कूर्म आख्यातः संस्मरेदृषिपूर्वकान् । विनियोगोऽस्य
मन्त्रस्य आसने परिकीर्तितः ॥ ९४ ॥

पृथ्वित्वया धृता लोका देवित्वं विष्णुना धृता । त्वं च
धारय मां भद्रे पवित्रीकुरु चासनम् ॥ ९५ ॥

प्. ७३) इति मन्त्रं जपन् पीठे प्राङ्मुखोवाऽप्युदङ्मुखः ।
स्वस्तिकादिक्रमेणैव ऋजुकायो विशेद्बुधः ॥ ९६ ॥

गुरोः शिवस्य सूर्यस्य यथा विभवतो बुधः । दीपस्य
ज्वलितस्यापि संनिधानं प्रकल्पयेत् ॥ ९७ ॥

पीठाग्न्येयादिकोणेषु पूर्णकुम्भचतुष्टयम् । संप्राप्य
पूजयेत्तेषु गणेशं च सरस्वतीम् ॥ ९८ ॥

दुर्गां क्षेत्राधिपं चापि विधिवत्साधकोत्तमः । कुम्भानां
स्थापनं चैतत् पुरश्चर्यापरं मतम् ॥ ९९ ॥

स्थापयेद्दक्षिणे भागे पूजाद्रव्याणि साधकः ।
सुवासिताम्बुसम्पूर्णं सव्ये कुम्भं सुशोभनम् ॥ १०० ॥

प्रक्षालनाय करयोः पश्चात् पात्रं निवेशयेत् ।
घृतप्रज्वलितान्दीपान् स्थापयेत्परितः शुभान् ॥ १०१ ॥

दर्पणादिकमन्यद्यत् विधिवत्तत् प्रकल्पयेत् । कृताञ्जलिपुटो
भूत्वा वामदक्षिणपार्श्वयोः ॥ १०२ ॥

नमेद्गुरुं गणेशानं पुरतः स्वेष्टदेवताम् । यद्वा वामे
गुरुं दक्षे गणेशं पुरतोऽम्बिकाम् ॥ १०३ ॥

पश्चिमे क्षेत्रपालं च नमस्कुर्याद्विधानवित् । सुदर्शनस्य
मन्त्रेण रक्षां कुर्यात् समन्ततः ॥ १०४ ॥

ओं सहस्रारवर्मास्त्रं सुदर्शनमनुर्मतः । सुगन्धिपुष्पमद्दे
(र्द्दे)न सुरभीकृत्य हस्तकौ ॥ १०५ ॥

क्षिपेदुत्तरतः पुष्पं मन्त्री नाराचमुद्रया । अस्त्रमन्त्रेण
संशोध्य कुर्यात्तालत्रयं ततः ॥ १०६ ॥

कृत्वोर्ध्वोद्ध्वं च तेनैव दिग्बन्धनमथाचरेत् ।
ज्योतिर्ज्ञानसमुद्भूतं सत्यज्ञानसुखात्मकम् ॥ १०७ ॥

आत्मनः परितो वह्निप्राकारं त्राणनाय च ।
भूतप्रेतपिशाचेभ्यो विधाय तदनन्तरम् ॥ १०८ ॥

अद्भिः पुष्पाक्षतैश्चैव वह्निबीजास्त्रमन्त्रितैः ।
प्रक्षिपेत्परितो वह्निविगमायाथ साधकः ॥ १०९ ॥

प्. ७४) भूतशुद्धिं प्रकुर्वीत तत्प्रकारान् ब्रवीम्यहम् । पादतो
जानुपर्यन्तं चतुरस्रं सवज्रकम् ॥ ११० ॥

लं संयुतं पीतवर्णं भूमिस्थानं विचिन्तयेत् ।
जान्वोरानाभि चन्द्रार्धनिभं पद्मेन लाञ्छितम् ॥ १११ ॥

शुक्लवर्णं स्वबीजेन युतं ध्यायेदथो जलम् । नाभितः
कण्ठपर्यन्तं त्रिकोणं रक्तवर्णकम् ॥ ११२ ॥

सस्वस्तिकं स्वबीजेन युतं वह्नेस्तु मण्डलम् ।
कण्ठाद्भ्रूमध्यपर्यन्तं कृष्णं वायोस्तु मण्डलम् ॥ ११३ ॥

षट्कोणं बिन्दुभिः षड्भिर्युक्तं बीजेन चिन्तयेत् ।
भ्रूमध्याद्ब्रह्मरन्ध्रान्तं वर्तुलं ध्वजलाञ्छितम् ॥ ११४ ॥

धूम्रवर्णं स्वबीजेन युक्तं ध्यायेन्नभः स्हलम् । एवं
ध्यात्वा पुनस्तानि बूतानि प्रविलापयेत् ॥ ११५ ॥

पृथ्वीमप्सु च ता वह्नौ वह्निं वायौ समीरणम् । प्रविलाप्य
तथाकाशे आकाशं प्रकृतौ पुनः ॥ ११६ ॥

अपरब्रह्मरूपां तां मायाशक्तिं परात्मनि । प्रविलाप्य
परब्रह्मरूपस्तिष्ठेत् कियत्क्षणम् ॥ ११७ ॥

पुनरुत्पादयेद्देहं पवित्रं परमात्मनः । शब्दब्रह्मात्मिका या
सा मातृका प्रकृतिःपरा ॥ ११८ ॥

अजायत जगन्मातुराकाशं नभसोऽनिलः ।
समीरणादभूदग्निर्वह्नेरापस्ततो मही ॥ ११९ ॥

स्वीयमेभ्योऽपि भूतेभ्यस्तेजोरूपं कलेवरम् ।
देवताराधनेनैवमुत्पन्नमिति चिन्तयेत् ॥ १२० ॥

तस्मिन् देहे परात्मानं सर्वज्ञं सर्वशक्तिमत् ।
समस्तदेवतारूपं सर्वदेवमयं विभुम् ॥ १२१ ॥

आत्मरूपेण देहे स्वे बीजभावेन तिष्ठति । इत्येषा भावना
मुख्या भूतसुद्धिरुदीरिता ॥ १२२ ॥

[पूर्णमच्छिद्रमव्यक्तं तेजस्तत्प्रणवात्मकम् ।
सर्वमन्त्रनिदानं तु गुणत्रयविवर्जितम् ॥ १२३ ॥

प्. ७५) आधारहृदयाच्चैव भ्रूमध्यान्मन्त्रिसत्तमैः ।
द्वादशान्तपदे नीत्वा स्थाणुवद्भावयेद्वपुः ॥ १२४ ॥

नाभिस्थानवायुना मन्त्री सपापंशोधयेत्ततः । वह्निना
हृदयस्थेन दहेछुष्कं कलेवरम् ॥ १२५ ॥

सहस्रारे महापद्मे ललाटे च स्थितं विधुम् ।
संपूर्णमण्डलं शुभ्रं चिन्तयेदमृतात्मकम् ॥ १२६ ॥

तस्माद्गलितधाराभिः प्लावयेद्भस्मसाद्वपुः ।
अपिवर्णमयैश्चैव पञ्चभूतात्मकं वपुः ॥ १२७ ॥

पूर्ववद्भावयेद्देवि श्रुतं विज्ञानमन्त्रितम् । मण्डलानि च
भूतानां देहे स्वे परिचिन्तयेत् ॥ १२८ ॥

पूर्ववन्मोहने वोक्तमेवं भूतविशोधनम् ।] अथवान्यप्रकारेण
भूतशुद्धिर्विधीयते ॥ १२९ ॥

आनन्दकन्दसंभूतं ज्ञाननालं सुशोभनम् ।
ऐश्वर्याष्टदलं चैव परं वैराग्यकर्णिकम् ॥ १३० ॥

स्वीयहृत्कमलं ध्यायेत्प्रणवेन प्रकाशितम् । कृत्वा
तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् ॥ १३१ ॥

सुषुम्नावर्त्मनात्मानं परमात्मनि योजयेत् । योगयुक्तेन विधिना
सोऽहं मन्त्रेण साधकः ॥ १३२ ॥

आकाशवायुतेजांसि जलपृथ्वीनभांसि च ।
त्वक्चक्षूरसनघ्राणमुखपाणिपुरःसरम् ॥ १३३ ॥

पादं पायुं तथोपस्थं शब्दस्पर्शौ यथायथम् । रूपं
रसं च गन्धं च वागादाने गतिं तथा ॥ १३४ ॥

विसर्गं च तथानन्दं तथान्येतानि संयुतम् । व्युत्क्रमाद्
बीजभावेन तत्र लीनानि चिन्तयेत् ॥ १३५ ॥

वामनासापुटे वायोर्बीजं यमिति चिन्तयेत् । धूम्रं
कन्दगतैर्वातैरेकीभूतं नभस्वतम् ॥ १३६ ॥

मण्डलस्थं पूरकाख्ये कुम्भकेतु विचिन्तयेत् । शुष्कं
शरीरं स्थिरधीर्दक्षिणेन तु रेचयेत् ॥ १३७ ॥

प्.७६) ततो दक्षपुटे वह्नेर्बीजं रमिति चिन्तयेत् । रक्तं
विलीनपवनं वह्निमण्डलसंस्थितम् ॥ १३८ ॥

हृदिस्थवह्निना मन्त्री सम्भाव्यैकं तनुं ततः ।
ध्यायेदनलसम्पूर्णां कुम्भके रेचके च ताम् ॥ १३९ ॥

दग्धां विचिन्तयेद्योगी भस्मना सह रेचयेत् । वामनासापुटे
चैवं निश्चलाङ्गो जितेन्द्रियः ॥ १४० ॥

ततो वामपुटे सोमबीजं ठमिति चिन्तयेत् । श्वेतं
पाथोमण्डलस्थममृतेनैकतां गतम् ॥ १४१ ॥

सम्भाव्यपूरके बीजं नीत्वा भालसुधारुचिम् । पीयूषबीजं
प्रजप - [न्नथ किन्नहि रूप्यते ॥ १४२ ॥

तदेव पूरकं बीजं ध्याने किञ्च नियामकम् ।
किञ्चात्रमन्त्रजापेषु ध्यानम्व नियामकम् ॥ १४३ ॥

वर्णानां यादिसंज्ञानां जप्यत्वं कथमन्यथा । अत्रोच्यते
शारदादिनिबन्ध स्वरसो यतः ॥ १४४ ॥

ध्यानमात्रमतस्तस्य स्वधाबीजं जपं मतम् ।
विशेषविधिमुत्सृज्य तदुक्तं शारदादिके ॥ १४५ ॥

ततो वमिति बीजेन प्लावयेत्सकलां तनुम् । पक्षयोरनयोर्धीर
विकल्पः किं न कल्प्यते ॥ १४६ ॥

न भवत्येकवाक्यत्वं यत्र यत्र विकल्प्यते । दीपिकादौ स्फुटं
चैतत्] कुम्भके वर्णमिश्रिताम् ॥ १४७ ॥

चन्द्रान्निपातयेद् वृष्टिममृतस्य पुनः पुनः ।
शरीरदोषजातानि विश्लेषं कारयेत्तनुम् ॥ १४८ ॥

दिव्यामुत्पाद्याचरणमामस्तकमुदारधीः । अमृतेन परिप्लाव्य
वायुं दक्षेण रेचयेत् ॥ १४९ ॥

कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् ।
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥ १५० ॥

अंशत्रयात्मकः प्रोक्तः पूरकुम्भकरेचकैः ।
बाह्यादापूरणं वायोरुदरे पूरको मतः ॥ १५१ ॥

प्. ७७) संपूर्णकुम्भवद्वायोर्धारणं कुम्भको मतः ।
बहिर्यद्रेचनं वायोरुदरा (द्रे) चकोपि सः ॥ १५२ ॥

प्राणायाममिमं द्वेधा प्राहुर्योग विशारदाः । सगर्भं
तद्विगर्भं च तद्द्वयं कथ्यते यथा ॥ १५३ ॥

जपध्यानादिभिर्युक्तं सगर्भं तं वदन्त्यमी । तदपेतं च
विगर्भं च योगशास्त्रविशारदाः ॥ १५४ ॥

सगर्भे जपसंख्यानमीरितं दीपिकादिषु । आद्ये
षोडशधाजप्यात् कुम्भके तच्चतुर्गुणम् ॥ १५५ ॥

तदधर्मवसाने तु विगर्भं मात्रयेरितम् । कालेन यावता स्वीयो
हस्तः स्वं जानुमण्डलम् ॥ १५६ ॥

पर्येति मात्रा सा तुल्या स्वयैकश्वासमात्रया । भूयो भूयः
क्रमात्तस्य व्यत्यासेन समाचरेत् ॥ १५७ ॥

येनैव संत्यजेत्तेन पूरयेद्धारयेत्ततः । रेचयेच्च ततोऽन्येन
शनैरेवं पुनः पुनः ॥ १५८ ॥

यथा सिंहो गजो व्याघ्रो भवेद्धार्यः शनैः शनैः । तथैव
चलितो वायुरन्यथा हन्ति साधकम् ॥ १५९ ॥

प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोगेन
सर्वरोगसमुद्भवः ॥ १६० ॥

हिक्का श्वासश्च कासश्च शिरः कर्णाक्षिवेदनाः । भवन्ति
विविधा रोगाः प्राणायाम व्यतिक्रमात् ॥ १६१ ॥

अतः शास्त्रोक्त मार्गेण प्राणायामं समभ्यसेत् । ततो लीनानि
तत्त्वानि स्वस्वस्थानं समानयेत् ॥ १६२ ॥

हंसेन जीवं परमात्मनः स्वस्थानमानयेत् । केचिदत्रान्यथा
प्राहुर्न स्वदेहं विशोधयेत् ॥ १६३ ॥

ततः पुरुषनिभं पापमनादिभवसंचितम् ।
ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् ॥ १६४ ॥

सुरापान हृदा युक्तं गुरुतल्पकटिद्वयम् ।
तत्संयोगिपदद्वन्द्वमङ्गप्रत्यङ्ग पातकम् ॥ १६५ ॥

प्. ७८ ) उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ।
खड्गचर्मधरं कृष्णं कुक्षौ दक्षिणतः स्मरेत् ॥ १६६ ॥

ततः संशोधयेदेनं पूरकादिक्रमेण वै । भूतशुद्धिरियं
प्रोक्ता योगशास्त्रविशारदैः ॥ १६७ ॥

अथवान्य प्रकारेण भूतशुद्धिर्विधीयते । सुषम्नावर्त्मना
जीवं पुष्करस्थे सदाशिवे ॥ १६८ ॥

संयोज्य हंसमन्त्रेण वह्निबीजेन भस्मसात् । विदधीत धिया
गात्रं सर्वं तद्भस्म वायुना ॥ १६९ ॥

अपनयन् वायुबीजेन अखिलं भुवनं बुधः । संप्लावयन्
बलभिदा स्वमात्मानं विचिन्तयेत् ॥ १७० ॥

जलेति बुद्बुदाकारं दृढं योगविशारदः । ततो
बुद्बुदमध्यस्थं प्रस्फुरत्कान्तिमण्डलम् ॥ १७१ ॥

अण्डमाजं बुधो ध्यायेत्तदन्तर्भुवनान्यपि । विचिन्त्य भूतलं
रम्यं तदन्तश्चिन्तयेद्बुधः ॥ १७२ ॥

शोभितं स्मितपुष्पेण हृद्यगन्धेन चोत्कटम् । समन्ततो
यतमनाश्चिन्तयेन्नीपकाननम् ॥ १७३ ॥

तदन्तर्मण्डितं रत्नैः सौवर्णं मण्डपं बुधः ।
मार्त्तण्डमण्डलरुचिं चतुर्द्वारसुशोभनम् ॥ १७४ ॥

तोरणैर्मणिसम्भिन्नैश्चतुर्भिः परिशोभितम् ।
उद्यदिन्दुद्युतिसितं वितानवरलाञ्छितम् ॥ १७५ ॥

द्वारि द्वारि स्थितौ यस्य माल्याम्बरविभूषितौ । अन्वितौ
परिवारेण क्षेत्रेश्वर गणेश्वरौ ॥ १७६ ॥

द्वारपालिस्थ देवस्य स्वस्वद्वारि विचिन्तयेत् ।
ततोऽन्तरमरस्त्रीणां गणान् ध्यायेदनाकुलः ॥ १७७ ॥

सङ्गीतादिरतान्मन्त्री गन्धर्वप्रमुखानपि । मध्ये सिंहासने
तस्य पद्ममष्टदलं बुधः ॥ १७८ ॥

उद्यदादित्यसंकाशं ध्यायेदरुणकेसरम् । कर्णिकायां
स्वासनस्थां चिन्तयित्वेष्टदेवताम् ॥ १७९ ॥

प्. ७९) आत्मनैकतया ध्यायेद्योगशास्त्रविशारदः ।
अन्यत्राप्येवमेवस्याद्यद्रूपां स्वेष्टदेवताम् ॥ १८० ॥

योगयुक्तेन मनसा तदभेदं विचिन्तयेत् । हृदम्भोजं पुनर्जीवं
साधको हंसरूपिणम् ॥ १८१ ॥

आनयेत् पुष्कराम्भोजनिविष्टपरमात्मनः । भूतशुद्धिरियं
प्रोक्ता तत्त्वज्ञैर्मान्त्रिकोत्तमैः ॥ १८२ ॥

एषामन्यतमं पक्षमाश्रित्य परिशोधयेत् । एवं वपुः
साधकवरो देवताराधनोद्यतः ॥ १८३ ॥

भूतशुद्धिरियं कार्या पूजादौ सर्वथा बुधैः ।
भूतशुद्धिं विना कर्तुर्जपहोमार्चनक्रियाः ॥ १८४ ॥

भवन्ति निष्फलाः सर्वाः प्रकारेणाप्यनुष्ठिताः ।
प्राणप्रतिष्ठया पश्चाज्जीवं देहे निधापयेत् ॥ १८५ ॥

इति ज्ञानार्णवप्रोक्त वचनादात्मनोऽप्यसून् ।
स्थापयेदुक्तमन्त्रेण यथावदिति मान्त्रिकाः ॥ १८६ ॥

अथो वक्ष्यामि विन्यासं मात्रिकाया यथाविधि । जपाद्यं
सर्वमन्त्राणां विन्यासेन विना लिपेः ॥ १ ॥

कृतं तन्निष्फलं विद्यात्तस्मात्पूर्वं लिपिं न्यसेत् । न्यासं
विना जपं प्राहुः निष्फलं सकलासुरम् ॥ २ ॥

ऋषिर्ब्रह्मा समुद्दिष्टो गायत्री छन्द ईरितम् । सरस्वती
समाख्याता देवता देशिकोत्तमैः ॥ ३ ॥

अक्लीबह्रस्वदीर्घान्तर्गतैः षड्वर्गकैः क्रमात् । षडङ्गानि
विधेयानि जातियुक्तानि देशिकैः ॥ ४ ॥

ललाटमुखवृत्ताक्षिश्रुतिघ्राणेषु दन्तयोः ।
ओष्ठदन्तोत्तमाङ्गास्ये दोःपत्संध्यग्रकेषु च ॥ ५ ॥

पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेंऽसके । ककुद्यं से
च हृत्पूर्वं पाणिपादयुगे ततः ॥ ६ ॥

जठराननयोर्न्यस्येन्मातृकार्णान् यथाक्रमम् । यादिवर्णेषु
सर्वेषु हृत्पूर्वत्वसमन्वयः ॥ ७ ॥

एतज्ज्ञानार्णवः प्राह मालामन्त्रे स्फुटक्रमात् । दीपिकायां
मात्रिकाया विन्यासेऽपीति केचन ॥ ८ ॥

[चतुर्णामेव तत्रापि हृत्पूर्वत्वसमन्वयः ।
नैतत्समासाक्रान्तत्वात् पृथगन्वयवैशसात्] ॥ ९ ॥

न्यसेत्सर्गान्वितां सृष्ट्या ध्यात्वा देवीं यथाविधि ।
सर्गर्बिन्द्वन्तिकां न्यसेत् टार्णाद्यां स्थितिवर्त्मना ॥ १० ॥

विद्यात्पूर्वोदितान्मन्त्री ऋष्यादीनङ्गसंयुतान् ।
सर्वंकर्तुमशक्तश्चेत् सृष्टिमात्रं लिपिं न्यसेत् ॥ ११ ॥

प्. ८१) देवभावार्पकावेतौ पूजनादिषु मन्त्रिणाम् । आवश्यकौ
ततो ज्ञेयो पूजनादिषु मन्त्रिभिः ॥ १२ ॥

इत्यच्युतीकृततनुरित्यादि क्रमदीपिका - - वाक्येन देवताभाव
कारिता गम्यते तयोः ॥ १३ ॥

देवो भूत्वा यजेद्देवं नादेवो देवमर्चयेत् । इत्यादि श्रुतिवाक्येन
नित्यत्वमवगम्यते ॥ १४ ॥

जपाद्यं सर्वमन्त्राणामित्यादिवचनादपि ।
प्रत्येकादुभयोरावश्यकत्वमिति गम्यते ॥ १५ ॥

नित्यत्वमेव चैकस्य विन्यासश्चेति कश्चन् । तदसत्फलबाधेन
चतुर्णामपि कीर्तनात् ॥ १६ ॥

यथानुकल्पसंप्राप्तेरनित्यत्वमिहेष्यते ।
स्नानसंध्यादिकेप्येवमनित्यत्वं भविष्यति ॥ १७ ॥

बहुना किमिहोक्तेन पूजानावश्यकी भवेत् । फलमस्तीति
चेद्वाच्यं तत्त्वन्यासेऽपि का गतिः ॥ १८ ॥

ततः कल्पस्थितान्मन्त्री न्यासानन्यान् समाचरेत् । यथा हि
वैष्णवीतन्त्रे तत्त्वन्यासं विदुर्बुधाः ॥ १९ ॥

प्राणायामं ततः कुर्यान्मन्त्री जितजितेन्द्रियः । ते नैव
मनुवर्येण यं मन्त्रं जप्तुमिच्छति ॥ २० ॥

अथवा साधकः कुर्यात्प्रणवेनासुसंयमम् । स्त्रीभिः
शूद्रैश्च कर्तव्यो लौकिकेनासुसंयमः ॥ २१ ॥

न वैदिकं पठेच्छूद्रः स्त्रियश्चैव कदाचन । तत्र शक्तस्य
पूर्वोक्ता संख्याऽशक्तस्य चान्यथा ॥ २२ ॥

युक्तं युक्तं पिबद्वायुं युक्तं युक्तं च धारयेत् । युक्तं
युक्तं त्यजेदेनमेवं सिद्धिमवाप्नुयात् ॥ २३ ॥

इत्यनेन यथाशक्ति जपसंख्यानमीरितम् । परन्तु यावता पूरः
कुम्भकश्तच्चतुर्गुणः ॥ २४ ॥

पूरकद्विगुणस्त्यागः सर्वसाधारणो विधिः ।
रेचकादिकमेकेऽत्र प्राणायामे क्रमं विदुः ॥ २५ ॥

प्. ८२) रेचकादित्रयं च स्यादिति वाक्यप्रमाणकाः ।
तदसत्पूरकाभावे रेचकानुपपत्तितः ॥ २६ ॥

शारीरस्यैव वायोः स्याद्रेचनं नेति युज्यते ।
इडयाकर्षयेद्वायुं बाह्यं षोडशमात्रया ॥ २७ ॥

इत्यादौ पूरकाद्येषु बाह्येस्मिन् कर्मताश्रुतेः ।
प्राणायाममिमं प्राहुरिति च क्रमबोधनात् ॥ २८ ॥

नापि नानार्थतैवास्य गौरवेणावसीयते । प्राथम्ये रेचके
किंच शेषे पवनसंयमे ॥ २९ ॥

कुम्भके रेचकाकांक्षा पवनेन निवर्तते । तस्मान्न रेचकादिति
क्रमतात्पर्यकं वचः । तदेतत् षण्ढमुद्वाह्य मुग्धया
पुत्रयाचनम् ॥ ३० ॥

ऋष्यादीन्विसेन्मन्त्री प्राणायामं ततश्चरेत् ।
ततश्चमातृकां न्यस्येदिति तन्त्रेषु केषुचित् ॥ ३१ ॥

अन्तः पूजामथो कर्तुं पीठन्यासं समाचरेत् ।
आधारशक्तिमारभ्य वेदिकान्तं हृदिन्यसेत् । धर्मादीनं
सयोरूर्वोरधर्मादीन् प्रविन्यसेत् ॥ ३२ ॥

मुखपार्श्वनाभिपार्श्वेषु प्रादक्षिण्येन साधकः । शेषादि
पीठमन्त्रान्तं हृदिविन्यस्य तं स्मरेत् ॥ ३३ ॥

धर्ममारभ्य संप्रोक्तं पूजनं न्यसनं क्वचित् । ततो मन्त्रस्य
ॠष्यादीन्विनियोगावधि स्मरेत् ॥ ३४ ॥

यद्येन ऋषिणा दृष्टं सिद्धिः प्राप्ता च येन वै । मन्त्रेण
तस्य तत्प्रोक्तमृषेर्भावस्तदार्षकम् ॥ ३५ ॥

छादनाच्छन्द उद्दिष्टं वाससी इव चाकृतेः । आत्मा
संछादितो देवैः पुरा मृत्योस्तु वै भयात् ॥ ३६ ॥

आदित्यैर्वसुभि रुद्रैस्तेन छन्दांसि तानि वै । यस्य यस्य तु
मन्त्रस्य तद्दिष्टा या तु देवता ॥ ३७ ॥

तदाकारं भवेत्तस्य देवत्वं देवतोच्यते । पुराकल्पे समुत्पन्ना
मन्त्राः कर्मार्थमेव च ॥ ३८ ॥

प्. ८३) अनेनेदं तु कर्त्तव्यं विनियोगः स उच्यते ।
ऋषिच्छन्दोदैवतानि शिरोवदनहृत्सु च ॥ ३९ ॥

विन्यस्य करविन्यासो यदि कल्पो भवेत्तदा । न्यस्य
तत्कल्पसंप्रोक्तैरङ्गमन्त्रैः करद्वये ॥ ४० ॥

अङ्गुष्ठादिकनिष्ठान्तं तलयोस्तत् प्रविन्यसेत् । हृदयाय
नमः पूर्व शिरसे वह्निवल्लभा ॥ ४१ ॥

शिखायै वषडित्युक्तं कवचाय हूमितीरितम् ।
नेत्रयोर्वौषडित्युक्तम् अस्त्राय फडिति क्रमात् ॥ ४२ ॥

अङ्गमन्त्राः सकृद्दिष्टाः सर्वत्रागमवेदिभिः ।
मन्त्रशास्त्रं तथा चोक्तं प्राप्तमन्त्रेण धीमता ॥ ४३ ॥

यस्य मन्त्रस्य ये न्यासाः कर्तव्याः सिद्धिमिच्छता ।
जपतर्पणहोमार्चासिद्धमन्त्रकृता अपि ॥ ४४ ॥

अङ्गन्यासादिभिर्हीना न दास्यन्ति फलान्यमी । अतः कर्तव्यता
तेषां सर्वथैव प्रकीर्तिता ॥ ४५ ॥

अस्त्रं च तत्रयोर्न्यस्य कुर्यात्तालत्रयं ततः । दिशस्तेनैव
बध्नीयाच्छोटिकाभिः समन्ततः ॥ ४६ ॥

पञ्चाङ्गेऽस्त्रमनुन्यासं कनिष्ठायां समाचरेत् ।
दीपिकायां विन्यसेत्पञ्चाङ्गमङ्गुलिपञ्चके ॥ ४७ ॥

इति वाक्यानुसारेण चास्त्रं तु तलयोर्न्यसेत् । इति
यच्छारदावाक्यं तत्षडङ्गपरं भवेत् ॥ ४८ ॥

इत्याहुः केचिदपरे लक्षमन्त्रे च मन्त्रिणः । सामान्यस्य हि
सङ्कोचो बाधकेन विधीयते ॥ ४९ ॥

न चात्र बाधकं किञ्चिद्दीपिकात्र न बाधिका ।
उपक्रमानुसारेण विशेषपरता भवेत् ॥ ५० ॥

तस्याः सामान्यसंप्राप्तेः सङ्कोचोऽनुपपत्तितः । कल्प्योऽतो
विरहात्तस्यास्तदभावविनिश्चयात् ॥ ५१ ॥

इति चित्तं समाधाय विलोकयतु युक्तिमान् । उरः शिरः शिखा
वर्म्म नेत्र पाणितलेष्वपि ॥ ५२ ॥

प्. ८४) अङ्गमन्त्रांस्ततो न्यस्येत्पञ्चाङ्गे नयनं त्यजेत् ।
अङ्गहीनस्य मन्त्रस्य स्वेनैवाङ्गानि कल्पयेत् ॥ ५३ ॥

जपारम्भे तु मन्त्राणां सामान्ये यं प्रकल्पना ।
करयोरङ्गविन्यासेऽग्राङ्गुष्ठाद्यङ्गमुल्लिखेत् ॥ ५४ ॥

सर्वत्र हृदयादिभ्यः करादीनां यथायथम् । अविशेषादिति
प्राहुः केचिदुत्तानवेदिनः ॥ ५५ ॥

उच्यते हृदयादीनां ङेयुतानां नमोमुखैः । जातित्वं
तत्कथं तत्राङ्गुष्ठाद्युल्लेख इष्यते ॥ ५६ ॥

आधारत्वेन तेषां चेत्तर्हिस्यान्मातृकालिपेः । विन्यासेऽपि
ललाटादेरुल्लेखस्तुल्यताबलात् ॥ ५७ ॥

अर्थासङ्गतिरप्यत्र न तथा तन्निगद्यते ॥ ५८ ॥

हृदयं बुद्धिगम्यत्वं प्रणामः स्यान्नमः पदम् । क्रियते
हृदयेनातो बुद्धिगम्यनमस्क्रिया ॥ ५९ ॥

तुङ्गार्थकं शिरः प्रोक्तं विषयाहरणे द्विठम् ।
शिरोमन्त्रेण चोत्तुङ्गं विषयाहृतिरीरिता ॥ ६० ॥

शिखा तेजः समुद्दिष्टा वर्षाऽत्यङ्गमुच्यते । तत्तेजा
(जोऽ)स्य तनुः प्रोक्ता शिखामन्त्रेणमन्त्रिणः ॥ ६१ ॥

कवग्रहण इत्यस्माद्धातोः कवचसंभवः । हूंतेजस्तेजसा
देवो गृह्यते कवचन्ततः ॥ ६२ ॥

नेत्रं दृष्टिः समुद्दिष्टा वौषड्दर्शनमुच्यते । दर्शनं
दृशियेन स्यात्तत्तेजो नेत्रवाचकम् ॥ ६३ ॥

अमुत्र सादिकौ धातूस्तः क्षेपचलनार्थकौ ।
ताभ्यामनिष्टमाक्षिप्य चालयेत्फट्पदाग्निना ॥ ६४ ॥

प्रोक्तानीत्यङ्गमन्त्राणि सर्वतन्त्रेषु सूरिभिः ।
श्रीगार्ग्यसंहिताप्येनमर्थं साक्षादुवाच वै ॥ ६५ ॥

अङ्गन्यासकरन्यासावङ्गमन्त्रैः समाचरेत् । छिन्नमस्तामनौ
तन्त्रे प्रोक्तं कण्ठरवेणतत् ॥ ६६ ॥

अथ प्रवक्ष ते मुद्राः षडङ्गानां यथाविधि ।
अङ्गुष्ठरहिताः पाणिशाखा हृदयशीर्षयोः ॥ ६७ ॥

प्. ८५) अधोङ्गुष्ठा कृतामुष्टिः शिखायां मुद्रिका मता ।
करयोरुभयोः शाखाः कवचे परिकीर्त्तिताः ॥ ६८ ॥

यत्राक्षिणी मते तत्र तर्जनी मध्यमे मते । नेत्रत्रयं
भवेद्यत्र तत्रानामापि संस्मृता ॥ ६९ ॥

नारा च मुष्टिनोत्थाप्य बाहुयुग्मं विधानवित् ।
अङ्गुष्ठतर्जनीभ्यां य(त्) विष्वग्जनयति ध्वनिम् ॥ ७० ॥

विभक्तमस्त्रमुद्रा सा कीर्तितागमवेदिभिः । एताः
षडङ्गमुद्रास्तु सर्वमन्त्रेषु योजयेत् ॥ ७१ ॥

ततो मन्त्रादिविन्यासो यदा तमपि साधकः ।
कुर्याद्विशेषकल्पोक्तं पदन्यासादिकं तथा ॥ ७२ ॥

तत्तत्कल्पविशेषोक्तानन्यान् न्यासान् समाचरेत् ॥ ७३ ॥

मनुना पुटितैर्वर्णैर्मातृकायाः सबिन्दुभिः । वर्त्मना
शास्त्रदृष्टेन विन्यसेन्मन्त्रवित्ततः ॥ १ ॥

अथर्ष्यङ्गकरन्यासस्ततो मुद्राः प्रदर्शयेत् । ततोऽस्त्रमनुना
मन्त्री कुर्याद्दिग्बन्धनं सुधीः ॥ २ ॥

ओ& नमः सुदर्शनास्त्रायास्त्रान्तं मनुरीरितः ।
ध्यात्वेष्टदेवतारूपमात्मानमथपूजयेत् ॥ ३ ॥

मानसैरर्घपादाद्यैर्विधिना भक्तिभावितः । मानसैः
कुसुमैरर्त्र्या (र्चा) सात्त्विकी साशुभा मता ॥ ४ ॥

अनिर्माल्यापरा शुद्धा मोक्षदा सिद्धिदाशुभा ।
तस्मात्सर्वप्रयत्नेन मानसं पूजनं शुभम् ॥ ५ ॥

आत्मान्तर्यागयोर्वैश्वदेवमिच्छन्ति केचन । भोजनानन्तरं
चान्तर्वैश्वदेवं समाचरेत् ॥ ६ ॥

मूलाधारगते कुण्डे देवताग्निसमुज्ज्वले । धर्माधर्मान्विते
त्र्यस्ते मूलमन्त्रपुरस्सरम् ॥ ७ ॥

इदन्तापात्रसम्पूर्ण महन्तापरमामृतम् । पराहन्तामये वह्नौ
जुहोमि शिवरूपतः ॥ ८ ॥

एवं संचिन्त्यमनसा यहावन्मान्त्रिकोत्तमः । अमुं जुहोमि स्वाहेति
प्रत्येकं जुहुयात्ततः ॥ ९ ॥

अहन्तासत्यपैशुन्य कामक्रोधादिकं हविः । मन एव स्रुवः
प्रोक्तः सुषुम्ना स्रगुदीरिता ॥ १० ॥

तदन्ते तन्मयो भूत्वा जपेदिच्छानुरूपतः । तं जपं
सर्वसम्पत्त्यै गुह्येत्यादि समर्पयेत् ॥ ११ ॥

प्. ८७) ततस्तु देवतारूपो भूत्वा तिष्ठेत्कियत्क्षणम् ।
विज्ञानेश्वरसिद्दान्ते त्वन्यथामार्चनेरिता ॥ १२ ॥

देहधीवायुवृत्तीनां देवतायां यदर्पणम् । चित्तयागे
तदेवस्यादर्घादि त्रयमुत्तमम् ॥ १३ ॥

द्वादशान्तमहापद्मसितदीधितिमण्डलात् । गलितैः सलिलैः
सेकक्रिया स्नान मिहेष्यते ॥ १४ ॥

अर्चनायाः समस्तायाः सगुणायाः समर्पणम् । देवताया
भवेद्गन्धः सपर्यासु महेश्वरि ॥ १५ ॥

समस्तशब्दसंयुक्त गगनस्यापि चेतसा । देवतायां नभः
पुष्पपूजास्यादिह कथ्यते ॥ १६ ॥

भवेतां धूपदीपौ च पवनाग्न्यात्मकौ धिया ।
समर्पयेत्समन्तात्तौ मनुवित् स्थिरमानसः ॥ १७ ॥

रसैरनेकैर्युक्तस्य जलतत्त्वस्य सादरम् । समर्पणं
स्यात्सर्वस्य निवेद्यं प्रीतिदायकम् ॥ १८ ॥

होमे भेदोन्व (नु) लक्ष्योऽत्र देवतायै शिवानने (नले) ।
नृत्यमज्ञत्वधि * * * गीतं वाक् परिपूर्णता ॥ १९ ॥

एवं यन्मानसं प्रोक्तं दीपिकादौ समर्चनम् । तदेवमपि
सम्पन्नमित्याहुः साम्प्रदायिकाः ॥ २० ॥

ततोर्घस्थापनं कुर्यादिष्टदेवार्थमादरात् ।
गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपैः ॥ १ ॥

सदूर्वैः सर्वदेवानामेतदर्ध्य मुदीरितम् । अस्त्रेण शंखं
प्रक्षाल्यवामतो वह्निमण्डले ॥ २ ॥

स्थापयित्वा हृदा तत्र गन्धपुष्पाक्षतादिकान् । निःक्षिप्य
प्रतिलोमेन मूलान्ते मातृकां जपन् ॥ ३ ॥

सबिन्दुकां जगद्बीज बिन्दुस्रुतसुधाधिया ।
तोयैरापूरयेच्छुद्धैः योगशास्त्रविशारदः ॥ ४ ॥

दीपिकादिमतेत्वत्र मूलमन्त्रो न पठ्यते । केचिन्मूलं
पठन्त्येव विधाने मातृकामनोः ॥ ५ ॥

आधारं पावकं शंखं सूर्यं तोयं सुधाकरम् ।
चिन्तयित्वा कलास्तेषां तत्र तत्र विचिन्तयेत् ॥ ६ ॥

ततो दशकलात्मानं वह्निमण्डलमाश्रयेत् ।
दिवाकरकलात्मानं तथा वै भानुमण्डलम् ॥ ७ ॥

निशाकरकलात्मानं तथा नैशाकरं यजेत् । ममाद्यबीजं
विज्ञेयमं द्वितीयं प्रकीर्तितम् ॥ ८ ॥

तृतीयम्बं (मुं) समाख्यातमेतान्यादौ नियोजयेत् ।
आवाहयेत्तत्तो मन्त्री तीर्थमङ्कुशमुद्रया ॥ ९ ॥

मार्तण्डमण्डलात्तीर्थमनुस्तत्रैव कल्प्यते । गङ्गे च यमुने
चैव गोदावरि सरस्वति । नर्मदे सिन्धु काबेरि जलेऽस्मिन्
सन्निधिंकुरु ॥ १० ॥

अयं तीर्थमनुः प्रोक्तो दुरितौघ विनाशनः । ऋज्वीं च
मध्यमां कृत्वा तर्जनीमध्यपर्वणि ॥ ११ ॥

प्. ८९) संयोज्याकुञ्चयेत्किञ्चित् मुद्रैषाङ्कुश संज्ञिका ।
तत्रेष्ट देवतां मन्त्री स्वीयहृत्कमलादपि ॥ १२ ॥

आवाह्य गालिनीं मुद्रां शिखामन्त्रेण दर्शयेत् ।
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् ॥ १३ ॥

तर्जनीमध्यमानामसंहता भुग्नवर्जिताः । मुद्रैषा गालिनी
प्रोक्ता शङ्खस्योपरिचालिता ॥ १४ ॥

कराभ्यामवगुण्ठ्यैतदमृतीकृत्य मुद्रया ।
सुरभेर्मूलमन्त्रेण मन्त्रयेत्सलिलं ततः ॥ १५ ॥

दक्षिणा निबिडा मुष्टिर्दीर्घाधोमुख तर्जनी ।
अवगुण्डनमुद्रेयमभितो भ्रामिता मता ॥ १६ ॥

अन्योन्याभिमुखाश्लिष्टकनिष्ठानामिके पुनः । तथैव तर्जनी
मध्या धेनुमुद्रा समीरिता ॥ १७ ॥

विन्यासेनाङ्गमन्त्राणां सकलीकृत्य रक्षयेत् । अस्त्रमस्त्रेण
गन्धाद्यैर्हृदा तत्रेष्टदेवताम् ॥ १८ ॥

संपूज्य देवतारूपं तज्जलं मत्स्यमुद्रया । आच्छाद्य
संस्पृशन्नष्टवारं मूलं जपेत्ततः ॥ १९ ॥

अधोमुखो दक्षहस्ते तादृशो वामहस्तकः । मत्स्यमुद्रा निगदिता
शंख संस्करणे मता ॥ २० ॥

दक्षिणे प्रोक्षणीपात्रं निधायाब्भिः प्रपूरयेत् ।
किञ्चिदर्घाम्बु दत्त्वात्र हस्तेनाङ्गानि चात्मनः ॥ २१ ॥

साधनान्यभिषिञ्चेयुर्देहपूजामथाचरेत् । निजनाथं शिरोदेशे
आधारे गणपं यजेत् ॥ २२ ॥

इष्ट्वा न्यासविधानेन पीठार्थं तमथादरात् । आधारे
हृदये मध्ये भ्रुवो मूलमनोर्यजेत् ॥ २३ ॥

मूलेन तेजस्त्रितयं बीजेनैकीकृतस्तु (न्तु) तत् ।
तत्तत्कल्पविशेषोक्त प्रकारान्यन्तविग्रहम् ॥ २४ ॥

अभ्यर्चयेदासनाद्यैर्भूषां तैरथ तत्तनौ । यजेदङ्गादिकं
मन्त्री तत्तत्कल्पप्रकाशितम् ॥ २५ ॥

प्. ९०) विना निवेद्यं गन्धाद्यैरुपचारैः समर्चयेत् । अभ्यर्च्य
गन्धपुष्पाभ्यां बिन्दुस्रुतसुधारसैः ॥ २६ ॥

देवं तु प्रीणयेदेतदुवाच क्रमदीपिका । अभ्यर्च्य प्राणमायम्य
जपेन्मन्त्रं यथाक्षणम् ॥ २७ ॥

प्राणायामं पुनः कृत्वा जपमेव समर्पयेत् ।
बीजमष्टोत्तरशतं जपेत् प्रणवसंपुटम् ॥ २८ ॥

शेषं वक्तव्यमार्गेण विदध्यादविरोधिनम् । अगस्त्य
संहितायां तु प्रोक्तमावरणार्चनम् ॥ २९ ॥

आत्मयागं विधायोक्तं तथा वान्तर पूजनम् । ततो विज्ञाप्य
देवेशं परिवारा&श्च पूजयेत् ॥ ३० ॥

एवं संपूजितो देवः सर्वान् कामान् प्रयच्छति । बाह्यपूजां
ततः कुर्याद्दै(दै) हिकाभ्युदयाय वै ॥ ३१ ॥

युक्तं चैतत् प्रधाने तु पूज्यमानेङ्गपूजनम् । बाध्यते केन
मानेन नाप्यनुक्तिर्निवेदनात् ॥ ३२ ॥

यो यद्भक्त इतिन्यायान्महादानादिकर्मणि । यथा ग्रहपदेनैव
साधिप्रत्यधिदेवताः । गृह्यन्ते देवतास्तद्वदिति तन्त्रविदो विदुः
॥ ३३ ॥

सर्वमेतत्प्रयुञ्जीत प्रोक्षणीस्थेन वारिणा । विसृज्य
प्रोक्षणीतोयं सलिलैः परिपूरयेत् ॥ ३४ ॥

किञ्चिदर्घाम्बु दत्त्वात्र उपचारान् प्रकल्पयेत् । अर्घस्योत्तरतः
पाद्यं कार्यमाचमनीयकम् ॥ ३५ ॥

तथैव मधुपर्कश्च पुनराचमनादिकम् । आत्मनः पुरतः
शंखं पूर्वतः सुसमाहितः ॥ ३६ ॥

पाद्याद्यर्थं न्यसेत्पात्राण्येवं क्वचिदुदीरितम् । एकस्मिन्नथवा
पात्रे पाद्यादीनि प्रकल्पयेत् ॥ ३७ ॥

तत्त्व सागरसम्प्रोक्तं पात्रलक्सणमुत्तमम् । हैरण्यं राजतं
ताम्रं कांक्ष्यं पालाशपत्रकम् ॥ ३८ ॥

रत्नोद्भवं शंखजं वा पद्मपत्रमथापि वा ।
पात्रमष्टविधं प्रोक्तं सर्वसिद्धिकरं परम् ॥ ३९ ॥

प्. ९१) सर्वेष्वेव च पात्रेषु शंखपात्रं विशिष्यते ।
षट्त्रिंशदङ्गुलीपात्रमुत्तमं परिकीर्तितम् ॥ ४० ॥

मध्यमं तत्रिभागोन मधमं द्वादशाङ्गुलम् ।
वस्वङ्गुलिविहीनं तु न पात्रं कारयेत्क्वचित् ॥ ४१ ॥

दक्षभागे प्रविन्यस्येत् पुष्पपात्रं पुरः पुनः ।
गन्धाक्षतादिकं मन्त्री साधनं सकलं न्यसेत् ॥ ४२ ॥

बाह्यपूजामथो वक्ष्ये मन्त्रिणां हितकाम्यया । आदौ
लिखेद्यन्त्रराजं तत्तत्कल्पोक्तरूपवत् ॥ ४३ ॥

कामक्रोधादि निःशेषमनोमलनियन्त्रणात् । यन्त्रमित्याहुरेतस्मिन्
देवः प्रीणाति पूजितः ॥ ४४ ॥

तत्तत्कल्पोक्तद्रव्येण लिखेद्यन्त्रमनुत्तमम् । सौवर्णे राजते
ताम्रे पीठे भूर्जे पटे भुवि ॥ ४५ ॥

विना यन्त्रेण चेत्पूजा देवता न प्रसीदति । नोक्तं यन्त्रं यदा
कल्पे तदा भूपुरसंयुतम् ॥ ४६ ॥

अष्टपत्रं शुभं पद्मं चतुर्द्वारं विभूषितम् । तन्त्रोक्त
विधिनालिख्य पूजयेदिष्टदेवताम् ॥ ४७ ॥

पद्मसंलिखनं चैतच्छक्तिपूजानुरोधतः ।
पूजाधारतयोक्तत्वादावश्यकमिहोच्यते ॥ ४८ ॥

उत्तरस्यामथ गुरून् दक्षिणे गणनायकम् । ऊर्ध्वमूर्ध्वं
मध्यभागे ततः सम्पूजयेद्बुधः ॥ ४९ ॥

अधः कूर्मशिलारूढां शतचन्द्रनिभप्रभाम् ।
आधारशक्तिं प्रयजेत्पङ्कजद्वयधारिणीम् ॥ ५० ॥

प्रकृतिं पूजयेन्मन्त्री ततः कल्पोक्तवर्त्मना । मूर्ध्नितस्याः
समासीनं कूर्मं नीलाभमर्चयेत् ॥ ५१ ॥

ऊर्ध्वं ब्रह्मासनासीनमनन्तं कुन्दसन्निभम् । यजेच्चक्रधरं
मूर्ध्नि धारयन्तं वसुन्धराम् ॥ ५२ ॥

तमालश्यामलां तत्र नीलेन्दीवरधारिणीम् ।
अभ्यर्चयेद्वसुमतीं स्फुरत्सागरमेखलाम् ॥ ५३ ॥

प्. ९२) क्षीरसिन्धुं रत्नद्वीपं ततः कल्पमहीरुहान् । अधस्तात्
पूजयेत्तेषां वेदिकां मण्डलोज्ज्वलाम् ॥ ५४ ॥

रक्तश्याम हरिद्रेन्द्रनीलाभान् पादरूपिणः ।
वृषकेसरिभूतेभरूपान् धर्माधिकान् भजेत् ॥ ५५ ॥

गात्राणि पूजयेत्ता&स्तु अपूर्वानुक्तलक्षणान् । आग्नेयादिषु
कोणेषु दिक्षु चाथाम्बुजं यजेत् ॥ ५६ ॥

आनन्दकन्दं प्रथमं संविन्नालमनन्तरम् । सर्वतत्त्वात्मकं
पद्ममभ्यर्च्य तदनन्तरम् ॥ ५७ ॥

मन्त्री प्रकृति पत्राणि विकारमयकेसरान् ।
पञ्चाशद्वर्णबीजाढ्यां कर्णिकां च प्रपूजयेत् ॥ ५८ ॥

धर्मादिपूजनान्ते तु प्रोच्यानन्तसमर्चनम् । केचित्पद्मपदेनैव
पद्मपूजनमूचिरे ॥ ५९ ॥

प्रणवांशैस्त्रिभिः सूर्यमण्डलादीनि पूजयेत् । आद्येन
सौरं संपूज्य तं तापिन्यादि तत्कलाः ॥ ६० ॥

परेणाभ्यर्च्य शाशाङ्क(ङ्का) ममृतादिकलां यजेत् । ओंष
(उष)र्बुधं तृतीयेन धूम्रार्चिः प्रभृतीः कलाः ॥ ६१ ॥

सितरक्तासिताः प्रोक्ता गुणाः पीठोपरिस्थिता । सत्त्वं
रजस्तमः प्रोक्ता आदिबीजैः समर्चयेत् ॥ ६२ ॥

आत्मानमन्तरात्मानं परमात्मानमादरात् । आदिबीजादिकानेतान्
यथाविधि समर्चयेत् ॥ ६३ ॥

ज्ञानात्मानं यजेन्मन्त्री मायादिमथ संयजेत् । किञ्जल्केषु
तथा मध्ये शक्तीर्नंव यथाक्रमम् ॥ ६४ ॥

स्वमन्त्रेण ततः पीठं मूर्तिं मूलेन कल्पयेत् ।
कल्पोक्तैरथवा मन्त्रैर्मूलमुच्चार्य साधकः ॥ ६५ ॥

छायायां कल्पवृक्षस्य गन्धाद्यैर्मूर्तिमर्चयेत् । देवतां
कल्पसंप्रोक्तरूपां ध्यायेत्ततः परम् ॥ ६६ ॥

ध्यानमात्मेष्टदेवस्य मनसा वेदनं मतम् । तदपि द्विविधं
प्रोक्तं सगुणं निर्गुणं तथा ॥ ६७ ॥

प्. ९३) यज्जीवब्रह्मणोरैक्ये सोऽहंस्यामिति वेदनम् । तदेवं
निर्गुणं ध्यानमिति ब्रह्मविदो विदुः ॥ ६८ ॥

आत्मनो हृदयाम्भोजं कर्णिकाकेसरान्वितम् । प्रफुल्लं
सोमसूर्याग्निमण्डलेन विराजितम् ॥ ६९ ॥

स्वीयेष्टदेवतां तत्र ध्यायेदागमवेदिताम् । एवं यद्वेदनं
तद्धि सगुणं ध्यानमुच्यते ॥ ७० ॥

मूलाधारे प्रदीपाभं देवतेजो विचिन्तयेत् । मूलमन्त्रेण
तत्तेजः सुषुम्नावर्त्मना शिवे ॥ ७१ ॥

संयोज्यानीय भालान्तं चिन्तयित्वेन्दुसन्निभम् ।
नासिकारन्ध्रमार्गेण निर्गतं सुमनोहरम् ॥ ७२ ॥

करण्डपुष्पसंभारे मातृकाम्भोजरूपिणि । संयोज्य
ब्रह्मरन्ध्रेण मूर्तौ तस्यां विधानतः ॥ ७३ ॥

आवाहनं बुधः कुर्यादावाहनस्य मुद्रया । आवाह्य स्थापयेत्
सम्यक् संस्थापनाख्यमुद्रया ॥ ७४ ॥

पश्चात्तं सन्निधीकृत्य सन्निधापनमुद्रया । संनिरुध्य
निरोधिन्या सम्मुखीकृत्य मुद्रया ॥ ७५ ॥

सम्मुखीकरण्या पश्चात् सकलीकृत्य साधकः । सकलीकरण्या
पश्चादवगुण्ठनमुद्रया ॥ ७६ ॥

अवगुण्ठ्यामृतीकृत्यामृतीकरणमुद्रया । परमीकरणीं
बद्ध्वा विदध्यात् परमीकृतिम् ॥ ७७ ॥

उद्देशानुक्रमादासामुच्यन्ते लक्षणानि तु । हस्ताभ्यामञ्जलिं
बद्ध्वानामिकामूलपर्वणोः ॥ ७८ ॥

अङ्गुष्ठं निःक्षिपेत्सेयं मुद्रात्वावाहनी मता । अधोमुखी
त्वियं चेत्स्यात्स्थापिनी मुद्रिका मता ॥ ७९ ॥

उच्छ्रिताङ्गुष्ठमुष्ट्योश्च संयोगात्सन्निधापिनी । अन्तः
प्रवेशिताङ्गुष्ठा सैव संबो(रो)धिनी मता ॥ ८० ॥

उत्तानमुष्टियुगला सम्मुखीकरणी मता । देवताङ्गे
षडङ्गानां न्यासः स्यात्सकलीकृतिः ॥ ८१ ॥

प्. ९४) अवगुण्ठनिका मुद्रा धेनुमुद्रा प्रकीर्त्तिता । अन्योन्य
ग्रथिताङ्गुष्ठा प्रसारित पराङ्गुलिः ॥ ८२ ॥

महामुद्रेयमुदिता परमीकरणे बुधैः । प्रयोजयेदिमा मुद्रा
देवताह्वानकर्मणि ॥ ८३ ॥

शालग्रामे स्थावरे च नावाहन विसर्जने । शालग्रामशिलायां
तु नित्यं सन्निहितो हरिः ॥ ८४ ॥

इति केचिद्वदन्त्यत्र बौधायन निदर्शनात् । सर्वत्र परिपूर्णस्य
तत्त्वरूपस्य तेजसः ॥ ८५ ॥

सादरं सम्मुखीभाव आवाहनमुदीरितम् । इति
सिद्धान्तसारीयवचनस्यानुरोधतः ॥ ८६ ॥

शिलादावपि कुर्वन्ति केचिदावाहनं बुधाः ।
शिवस्यावाहितस्यास्य विद्याद्देहेऽत्र सन्निधिम् ॥ ८७ ॥

स्थिरीकरणमुद्दिष्टं स्थापनं भक्तितोऽर्चने । पूजां
प्रपूज्यमानां तु गृहीत्वा निग्रहादिकम् ॥ ८८ ॥

कर्तुं सामर्थ्यमस्येह तत्सान्निध्यं प्रचक्ष्यते । आसमाप्तेस्तु
पूजायां तान्निध्यं हि शिवस्य यत् ॥ ८९ ॥

स सन्निबो (रो) ध उद्दिष्टो विभोरप्यस्य भक्तितः ।
आनन्दायतनं तत्त्वं सच्चिदानन्दलक्षणम् । तदत्र सकले
व्याप्तं ध्येयं स्यादवगुण्ठनम् ॥ ९० ॥

अपि भिन्नस्वभावानां तदभिन्नप्रयोजनम् । अङ्गानामङ्गिना
सार्धममृतीकरणं मतम् ॥ ९१ ॥

क्षमा तस्यापराधानां विज्ञेया परमाकृतिः ।
आवाहनादिकार्याणामयमर्थः प्रकाशितः ॥ ९२ ॥

व्योमेन्द्वौरस मा (ना ला) वर्णैः कर्णिकाभिर्द्विधा द्विधा ।
केसराः पञ्चवर्गेण यशना (ला)र्णादिकैरपि ॥ ९३ ॥

पत्राणि भूषितानिस्युराशास्वाश्रषु (स्वस्त्रेषु) च क्रमात् ।
नास्तानाङ्गलिनौज्ञेयातद्वत् क्षोणीपुरस्य वै ॥ ९४ ॥

प्. ९५) मातृकाम्भोजमाख्यातं सर्वापद्विनिवारणम् ॥ ९५ ॥

देवदेहाद्बहिर्भूतं परिवारगणं बुधः । स्फुलिङ्गरूपिणं
स्थाने स्वे स्वे मन्त्र्युपवेशयेत् ॥ ९६ ॥

अथोपचारान् कुर्वीत मूलमन्त्रपुरःसरम् । मूलमन्त्रं
समुच्चार्य पीठं तस्यै निवेदयेत् ॥ ९७ ॥

तत्र तत्र जलं दद्यादुपचारान्तरान्तरे । नन्वेतज्जलदानं
स्यात् क्वच (क्वाचि) त्कोवा नियामकः ॥ ९८ ॥

नियमव्यतिरेकेण दानं नातिप्रसङ्गतः । तस्मात्कुत्र जलं
देयं कथं स्यादेष निर्णयः ॥ ९९ ॥

उच्यते तत्र तत्रेति वाक्ये वीप्साद्वयश्रुतेः । स्थानं
नियमयत्येका परा साकल्यबोधिका ॥ १०० ॥

तथा च यत्र दानं स्यादुपचारस्य वा यथा । तथा तत्रैव
दातव्यं जलमित्यवगम्यते ॥ १०१ ॥

सर्वोपचारवस्तूनामभावे भावयेद्धिया । उपचारप्रदानेषु
विशिष्टो नास्तिचेन्मनुः ॥ १०२ ॥

ताराद्यां ङेसमायुक्तां नमोऽन्तां देवताभिधाम् ।
समुच्चरेदयं मन्त्रो मूलादिः परिकीर्तितः ॥ १०३ ॥

स्वागतं कुशलं चापि निगदेदथ साधकः । अर्धं दिशेत्ततो
मूर्ध्नि शिरोमन्त्रेण संस्कृतम् ॥ १०४ ॥

पाद्यं पादाम्बुजे दद्याद्देवस्य हृदयानुना । तच्च
श्यामाकदूर्वाब्जविष्णुक्रान्ताजलैर्मतम् ॥ १०५ ॥

स्वधानुना ततस्तुण्डे दद्यादाचमनं त्रिधा ।
जातीलवङ्गकक्कोलैस्तदुक्तं मन्त्रवेदिभिः ॥ १०६ ॥

क्वचिदर्घप्रदानान्ते पाद्यमाचमनीयकम् । प्रयच्छेदिति
संप्रोक्तं विकल्पस्त्वनयोर्द्वयोः ॥ १०७ ॥

तूर्णायागादिके प्रोक्तं कुर्यादर्घादिकेष्वपि ।
मन्त्रान्नमोन्वितानेव तदुक्तं तत्र मन्त्रिभिः ॥ १०८ ॥

नमः स्वधा च स्वाहा च वौषडिति यथाक्रमम् । हृत् पुरः
सरमुच्चार्य पाद्यादीनि प्रकल्पयेत् ॥ १०९ ॥

प्. ९६) हृन्मन्त्रेणाथ शिरसि अर्घं दूर्वाक्षतान्वितम् । अर्घ्यं
नम इति प्रोच्य दद्यात्पाद्यं च पादयोः ॥ ११० ॥

हृत्पुरःसरमित्येतदन्यथासङ्गतं भवेत् । यदि न
स्यात्पुनस्तस्योच्चारणार्थमिदं वचः ॥ १११ ॥

स्वधापदेन तद्बीजं लक्ष्यमित्यपि कश्चन । स्वधेत्या
चमनीयं च त्रिवारं मुखपङ्कजे ॥ ११२ ॥

एवं विधादिवाक्यानामनु रोधान्मनुर्मतः ।
स्वधेत्याराध्यचरणाः प्रदीपे व्यक्तमूचिरे ॥ ११३ ॥

स्वधानुना ततः कुर्यान्मधुपर्कं मुखाम्बुजे । आज्यं
दधिमधून्मिश्रं मधुपर्कः समीरितः ॥ ११४ ॥

यथोक्तवस्त्वत्लाभे तु ग्राह्यं तदनुकारि यत् । यवानामिव
गोधूमा व्रीहीणामिव शालयः ॥ ११५ ॥

तदलाभेऽपि गन्धाद्यैः सदृशं परिकल्पयेत् । तेनैव मनुना
दद्यादब्भिराचमनीयकम् ॥ ११६ ॥

स्नानाय प्रार्थ्य यच्छेत स्नानवस्त्रं सुशोभनम् ।
अभ्यङ्गोद्वर्तनं कुर्यान्महाराजोपचारवत् ॥ ११७ ॥

गन्धाब्भिः कारयेत् स्नानं दद्यादाचमनीयकम् ।
केशान्गमार्जनं वस्त्रं दत्त्वा सूक्ष्मे दुकूलके ॥ ११८ ॥

यज्ञसूत्रं ततो दत्त्वा दद्यादाचमनं पुनः ।
संस्थाप्यमण्डले रम्ये दिव्यमाल्यानुलेपनैः ॥ ११९ ॥

अन्यैराभरणैर्दिव्यैर्नानारत्नसमन्वितैः । अलङ्कृत्य ततो
मन्त्री तत्तत्कल्पप्रकाशितम् ॥ १२० ॥

अङ्गादिकं यजेद्देहे देवताया विधानवित् । चन्दनं
मलयोत्पन्नमनाघ्रातं सुशीतलम् ॥ १२१ ॥

कर्पूरागुरुसन्मिश्रं ततो मन्त्री निवेदयेत् । न्यासक्रमेण मनुना
पुटितैर्मातृकाक्षरैः ॥ १२२ ॥

तं यजेद्गन्ध पुष्पाद्यैरिति तन्त्रेषु केषु चित् ।
उत्तमाङ्गहृदाधारपादसर्वाङ्गकैः क्रमात् ॥ १२३ ॥

प्. ९७) पञ्चकृत्वस्ततः कुर्यात्पुष्पाञ्जलिमनन्यधीः । कमले
करवीरे द्वे कुमुदे तुलसीद्वयम् ॥ १२४ ॥

जातीद्वयं केतके द्वे कल्हारं चम्पकोत्पले ।
कुन्दमन्दारपुंनाग पाटलानाग चम्पकम् ॥ १२५ ॥

आरग्वधं कर्णिकारं पारन्ती नवमालिका । सौगन्धिकं
सकोरण्टं पलाशाशोकमल्लिकाः ॥ १२६ ॥

धूत्थुरं सर्जकं बिल्वमर्जुनं मुनिपत्रकम् । अन्यान्यपि
सुगन्धीनि पुष्पपत्राणि साधकः ॥ १२७ ॥

उपदिष्टानि पूजायामाददीत विचक्षणः । मलिनं
भूमिसंस्पृष्टं कृमिकेशादि दूषितम् ॥ १२८ ॥

स्पृष्टमङ्गेन चाघ्रातं मुकुलं चोषितं त्यजेत् । देवस्य
मस्तकं कुर्यात्कुसुमोपहितं सदा ॥ १२९ ॥

पूजाकाले देवताया नोपरि भ्रामयेत् करम् । गोपालस्य तु
पूजायां कुसुमाञ्जलिपञ्चके ॥ १३० ॥

अन्यथा कीर्तितो धीरैः प्रकारः स निगद्यते । तुलसीयुगलं
दद्यात्पादद्वन्द्वे विधानवित् ॥ १३१ ॥

मध्ये हयारियुगलं शीर्षे पद्मयुगं तथा । सर्वेः सर्वतनौ
दद्यात्परिवारानथार्चयेत् ॥ १३२ ॥

[पादयोरेक एव स्यादञ्जलिः परमार्थतः । किन्तु
षड्भिरपीत्युक्तेर्मूर्ध्निस्यादञ्जलिद्वयम् ॥ १३३ ॥

दीपिकार्थ इति स्पष्टो निरटङ्कीह माहशैः ।]
अथेष्टदेवतानुज्ञां गृहीत्वाङ्गानि पूजयेत् । प्रायः
प्रथमता तेषां क्वचिदेवान्यथा भवेत् ॥ १३४ ॥

केसरेष्वग्निकोणादि हृदयादीनि पूजयेत् । नेत्रमग्रे
दिक्षुचास्त्रमङ्गमन्त्रैर्नमोऽन्तकैः ॥ १३५ ॥

अस्त्रमन्त्रं महादिक्षु नेत्रमीशानगोचरे । स्फुटेमेवेति यत्प्राह
पूजने गार्ग्यसंहिता ॥ १३६ ॥

अङ्गान्येव प्रकुर्वीत नमोन्तानीति केचन । तुषार
स्फटिकश्यामनीलकृष्णारुणत्विषः ॥ १३७ ॥

प्. ९८) वरदाभयदायिन्यः प्रधानतनवः स्त्रियः । ध्यातव्या
विदुषाऽनेन क्रमेणैवाङ्गदेवताः ॥ १३८ ॥

ननु पूर्वादिकं ग्राह्यं किं देवस्याथवात्मनः । नियामकस्य
विरहात् सन्देहोऽत्र विजायते ॥ १३९ ॥

अत्रोच्यते देवताया ग्राह्यं पूर्वादिकं बुधैः । ज
(य)ष्टुरभिमुखादेवा देवाभिमुखतो दश । प्राच्यादि हरितो
ज्ञेयाः पूजाहोमादिकर्मणि ॥ १४० ॥

इति सर्वाभ्युपेतस्य वचनस्यानुरोधतः । यत्रैवानुपपत्तिः
स्यात्तत्रैवं दिक्प्रकल्पना ॥ १४१ ॥

अन्यत्र प्रकृता एव ग्राह्याः प्राच्यादिकादिशः । इत्येके
मन्त्रिणः प्राहुरपरे तु समन्ततः ॥ १४२ ॥

प्रोक्तवाक्यानुरोधेन दिशां नियममूचिरे ।
पश्चादभ्यर्चनायाःस्युः कल्पोक्ता वृत्तयः क्रमात् ॥ १४३ ॥

ततो यजेल्लोकपालान्मूलपारिषदान्वितान् ।
हेतिजात्याधिपोपेतानन्थथा कश्चिदिच्छति ॥ १४४ ॥

पत्राधीश्वरवर्णास्त्र परिवाराङ्ग संयुतान् । इन्द्राय
वज्रहस्ताय सुराधिपतये पदम् ॥ १४५ ॥

सवाहनपदं पश्चात् परिवाराय इत्यपि । नमोन्तं
चैवमन्येषां वाहनादिकमुद्धरेत् ॥ १४६ ॥

तूर्णायागेषु सम्प्रोक्तमेवमिन्द्रादिपूजनम् । इन्द्रो वह्निर्यमो
यक्षो वरुणः पवनो विधुः ॥ १४७ ॥

ईशानः पन्नगाधीशस्त्वध ऊर्ध्वं पितामहः । पीतो
रक्तोऽसितो धूम्रः शुक्लो धूम्रसितावुभौ ॥ १४८ ॥

गौरोरुणः क्रमादेते वर्णतः परिकीर्त्तिताः ॥ १४९ ॥

करपद्मस्थितस्वास्त्रा दिव्यवेशाः स्रगुज्ज्वलाः । वज्रं शक्तिं
दण्डमसिं पाशमङ्कुशकं गदाम् । शूलं चक्रं
पद्ममेषामायुधानि क्रमाद्विदुः ॥ १५० ॥

पीतशुक्ल सिताकाश विद्युद्रक्त सितासिताः । कुरुविन्द
पाटलाभा वज्राद्याः परिकीर्त्तिताः ॥ १५१ ॥

प्. ९९) स्वस्वायुधाभययुतपाणिपद्माः सुशोभनाः ।
ऐरावतस्तथा मेषो महिषः प्रेतसंज्ञकः ॥ १५२ ॥

मकराख्यो मृगः पश्चादुरगो वृषभस्तथा । कूर्मो हंसः
क्रमादेषां वाहनानि विदुर्बुधाः ॥ १५३ ॥

क्वचिन्नैवेद्यदानान्ते प्रोक्तमावरणार्चनम् । साम्प्रदायिक एवासौ
विकल्पेनान्वितो भवेत् ॥ १५४ ॥

समस्तपरिवाराणां यो न पूजाविधौ क्षमः । स
इहाङ्गेन्द्रवज्राद्यैः पूजयेदिष्टदेवताम् ॥ १५५ ॥

प्रावृतीः परिपूज्याथ धूपादीन् विनिवेदयेत् । नीचैर्धूपं
प्रकुर्वीत ताम्रकांस्यादिनिर्मिते ॥ १५६ ॥

भाजने द्विपदे भुग्ननालपद्माकृतौ शुभे ।
साराङ्गारविनिःक्षिप्तैर्गुग्गुल्वगुरुवृक्षजैः ॥ १५७ ॥

निर्यासाद्युत्थितैरन्यैर्गन्धद्रव्यैरथोदितैः ।
अनन्यार्पितधूपोऽयं शस्यतेऽर्चनकर्मणि ॥ १५८ ॥

दीपोऽपि धूपवत् पात्रे पद्माकार विनिर्मिते । प्रतिपत्रं
प्रदीप्तश्च वर्त्या गव्यघृताक्तया ॥ १५९ ॥

कर्पूरगर्भया दीप्त उच्चैर्देयः सुसौरभः ।
शारदायामतिस्पष्टं लक्षणं धूपदीपयोः ॥ १६० ॥

सगुग्गुल्वगुरूशीरशर्करामधुचन्दनैः ।
धूपयेदाज्यसंमिश्रैर्नीचैर्देवस्य देशिकः ॥ १६१ ॥

वर्त्याकर्पूर गर्भिण्या सर्पिषा तिलजेन वा । आरोप्य
दर्शयेद्दीपानुच्चैः सौरभशालिनः ॥ १६२ ॥

ततः पुष्पाञ्जलिं दत्त्वा पाद्यमाचमनीयकम् । नैवेद्यस्य
प्रदानार्थं प्रार्थयेदिष्ट देवताम् ॥ १६३ ॥

सौवर्णे राजते ताम्रे कांस्ये रत्नादि निर्मिते । पात्रे निधाय
नैवेद्यं मृदु सोष्णं सुपाचितम् ॥ १६४ ॥

स्वादूपदंशं विमलं पायसं सहृशर्करम् ।
कदलीपनसाम्रादि दधि दुग्धं प्रपानकम् ॥ १६५ ॥

प्. १००) संस्थाप्य पुरतः प्रोक्ष्य तारेण सुमनो न्यसेत् ।
अस्त्रोक्षितं चक्रमुद्रारक्षितं वायुवारिणा ॥ १६६ ॥

विशोष्य वह्निना दग्ध्वा दक्षिणपाणिना । वामहस्ते
सुधाधारापूर्णं मूलामृतीकृतम् ॥ १६७ ॥

स्पृष्ट्वा त्रिशो जपेन्मन्त्रं मुद्रया धेनुसंज्ञया ।
अमृतीकृत्य गन्धाद्यैर्नैवेद्यमथ पूजयेत् ॥ १६८ ॥

अथ सम्प्रार्थयेदेवमस्यस्याद्विसरेन्मह (स्याद्विसरन्महः) ।
स्वाहान्तं मूलमुच्चार्य जलं दत्त्वा निवेदयेत् ॥ १६९ ॥

निवेदयामि भवते जुषाणेदं हविर्हरे । निवेद्यार्पणमन्त्रोऽयं
सर्वार्चासु निजाख्यया ॥ १७० ॥

अथामृतोपस्तरणमसीत्याचमयेत्ततः । ग्रासमुद्रां
वामदोष्णा विकचोत्पत्रसन्निभाम् ॥ १७१ ॥

प्रदर्शयेद्दक्षिणेन प्राणादीनां च दर्शयेत् । मुद्राः
कनिष्ठिकानामे अङ्गुष्ठशिरसा स्पृशेत् ॥ १७२ ॥

तेनाद्या जायते तासु परा तर्जनिमध्यमे । तृतीयानामिकामध्ये
मध्यातर्जन्यनामिकाः ॥ १७३ ॥

चतुर्थी सकनिष्ठास्ताः पञ्चीसमुदीरिता । प्राणापान
व्यानोदानसमानास्तारपूर्विकाः ॥ १७४ ॥

चतुर्थ्यग्निवधूयुक्ताः प्राणादिमनवस्त्वमी । उक्ताः
प्राणादिका मुद्रा दर्शनीयाः क्रमेण वै ॥ १७५ ॥

हस्तौ तु सम्मुखौ कृत्वा संलग्नौ सम्प्रसारितौ ।
कनिष्ठाङ्गुष्ठकौ युक्तौ मुद्रैषा चक्रसंज्ञिता ॥ १७६ ॥

ततो निवेद्यमुद्रिकां प्रधानया करद्वये । स्पृशन्ननामिकां
निजां मनुं जपन् प्रदर्शयेत् ॥ १७७ ॥

ध्वौ& नमः पराय पदमाभाष्य वामने वदेत् । अनिरुद्धाय
चाभाष्य निवेद्यं कल्पयामि च ॥ १७८ ॥

मन्त्रोऽयं वैष्णवे तन्त्रे शैवादावेवमूहयेत् । ततः
पिष्टकसंजातान् समवर्तिसमन्वितान् ॥ १७९ ॥

प्. १०१) घृतादिज्वालितान्मन्त्री उच्चैर्दीपान् प्रदर्शयेत् ।
पारावतभ्रमाकारानतिदीप्तिसमन्वितान् ॥ १८० ॥

आदाय पाणिना ध्यायन् मूर्ध्निनीराजयेत् प्रभुम् । आरात्रिकमिति
प्रोक्तं घण्टावादनपूर्वकम् ॥ १८१ ॥

दक्षिणे स्थण्डिलं कुर्यात्तत्राधाय हुताशनम् । संस्कृत्य
विधिवद्विद्वान् वैश्वदेवं समाचरेत् ॥ १८२ ॥

तत्र सम्पूज्य गन्धाद्यैर्देवतामुक्तविग्रहाम् ।
तारव्याहृतिभिर्हुत्वा मूलमन्त्रेण मन्त्रवित् ॥ १८३ ॥

ससर्पिषा पायसेन पञ्चविंशति संख्यया ।
पुनर्व्याहृतिभिर्दत्त्वा गन्धाद्यैः पुनरर्चयेत् ॥ १८४ ॥

तां योजयित्वा पीठस्थां मूर्तौवह्निं विसर्जयेत् ।
अवशिष्टेन हविषा विकिरेत् परितो बलिम् ॥ १८५ ॥

देवतायाः पारिषदेभ्यो गन्धपुष्पाक्षतान्वितम् । होमाशक्तौ
होमसंख्याद्विगुणं जपमाचरेत् ॥ १८६ ॥

यद्यदङ्गं विहीयेत तत्संख्याद्विगुणो जपः । इति
वाक्यानुसारेण सर्वत्राहुर्मनीषिणः ॥ १८७ ॥

केचिन्नास्माकमत्रार्थे सम्मतिस्तद्वचो यतः ।
पुरस्क्रियाङ्गवैगुण्यप्रवृत्तिं नैव गच्छति ॥ १८८ ॥

अन्यत्रातिप्रङ्गेन न चेन्न नियमो भवेत् । नाप्यस्य
वचनन्यायसङ्कोचो निष्प्रमाणकः ॥ १८९ ॥

प्रयोगाद्यनुरोधेन तस्यावश्यकतास्थितेः । कदापि
भूतशुद्ध्यादौ त्वेतच्छिष्टैर्न सम्मतम् ॥ १९० ॥

न वाच्यं नित्यहोमेऽस्मिन्ननुकल्पस्थलो (लं) भवेत् ।
इष्टापत्तेर्नतस्यास्ति नियमो नित्यकर्मणः । तस्मादाचार एवास्य
करणे शरणीभवेत् ॥ १९१ ॥

पानीयममृतीकृत्य मुद्रया धेनुसंज्ञया ।
चुल्लुकोदकममृतापिधानमसि ठद्वयम् ॥ १९२ ॥

प्. १०२) अनेन देवता हस्ते ततो दत्त्वा मुखोद्भवम् ।
मुखमुद्वासयेत्तेजोजलं दत्त्वा विचिन्तयेत् । गतसारं च
नैवेद्यं ततश्चैतत्समुद्धरेत् ॥ १९३ ॥

उच्छिष्टं तद्भुजे दत्त्वैशान्यां स्थानं विशोधयेत् ।
विष्वकृसेनः स्मृतो विष्णोस्तेजश्चण्डो विवश्वतः ॥ १९४ ॥

चण्डेश्वरी तथा शक्तेः चण्डेशः शङ्करस्य च । लम्बोदरो
गणपतेरभी उच्छिष्टभोजिनः ॥ १९५ ॥

गण्डूषं दन्तधवनमाचामम्मुखमार्जनम् । हस्तानुलेपनं
तुण्डवासकं माल्यभूषणम् ॥ १९६ ॥

अर्पयित्वा बुधस्तानि जलदानपुरःसरम् । कर्पूरसकलैर्मिश्रं
ताम्बूलं च निवेदयेत् ॥ १९७ ॥

चन्दनादि प्रदीपान्तैरुपचारैः पुनर्यजेत् ।
प्रसन्नार्चेयमाख्याता सर्वदेवप्रसादिनी । अर्घंदत्त्वा
प्रयच्छेत पुष्पाञ्जलिमनन्यधीः ॥ १९८ ॥

पञ्चोपचारैः पूजेयमित्येवमपरे विदुः । पूजने
पार्षदार्चायां विवदन्तेऽत्र केचन ॥ १९९ ॥

गन्धादिभिः सपरिवारमेतेन क्रमदीपिका । वाक्येनैवानुकल्पाः
स्युरतो नेह बहूच्यते ॥ २०० ॥

तत्तद्देवं स्तवैः स्तुत्वा प्रदक्षिणमथाचरेत् ।
एकहस्तप्रणामं च एकं वापि प्रदक्षिणम् । अकाले दर्शनं
विष्णोः हन्ति पुण्यं पुराकृतम् ॥ २०१ ॥

ततः प्रणामं कुर्वीत वस्वङ्गं वा शराङ्गकम् । दोर्भ्यां
पदाभ्यां जानुभ्यामुरसा वचसा दृशा ॥ २०२ ॥

शिरसा मनसा चेति प्रणामोष्टाङ्ग ईरितः । बाहुभ्यां (च)
सजानुभ्यां शिरसा वचसा धिया । पञ्चाङ्गकः प्रणामः
स्यात्पूजासु प्रवराविमौ ॥ २०३ ॥

अथोपचारमुद्राणां लक्षणं सम्यगुच्यते । पद्ममुद्रा निगदिता
हृत्स्था सैवासने भवेत् ॥ २०४ ॥

प्. १०३) ईषन्नम्राङ्गुलिर्दक्षा संयोज्याङ्गुलकं वरम् ।
स्वागतस्वस्तिका मुद्रा मध्यामूलगला (ता)ङ्गुलिः ॥ २०५ ॥

स्वस्तिमुद्रा द्विहस्तेन मुद्रा त्वर्घस्य कीर्तिता । तौ च प्रसारितौ
हस्तौ पाद्यमुद्रा समीरिता ॥ २०६ ॥

देशिनीमूलगाङ्गुष्ठा दक्षिणाधः कनीयसी । प्रसार्य
मध्यमास्तिस्रो मुद्राचामे प्रकीर्त्तिता ॥ २०७ ॥

युक्तावनामिकाङ्गुष्ठौ तिस्रोऽन्याः सम्प्रसारिताः । मधुपर्के
तु सा मुद्रा संकल्प्य कलसं करे ॥ २०८ ॥

कृत्वा मुष्टिं तथा स्नाने मध्यमाङ्गुष्ठकौ युतौ । अन्याः
प्रसारितास्तिस्रो मुद्रा वस्त्रस्य कीर्त्तिता ॥ २०९ ॥

कनिष्ठाङ्गुष्ठकौ लग्नौ तिस्रो मध्याः प्रसारिताः ।
यज्ञोपवीतमुद्रेयं कथिता वेदपारगैः ॥ २१० ॥

मधुपर्की समुत्ताना मुद्रालङ्करणी मता । मुक्ता
निर्नामिकामुष्टिर्गन्धमुद्रेति कीर्तिता ॥ २११ ॥

उत्थिताधोमुखी मध्या बद्धाङ्गुष्ठा यदीतराः । पुष्पमुद्रा
समाख्याता पुष्पदानविवर्धिनी ॥ २१२ ॥

अङ्गुष्ठस्तर्जनीलग्नास्तिस्रः सङ्कुचितापराः । मुद्रा
धूपप्रदाने स्याद् देवानां तुष्टिकारिणी ॥ २१३ ॥

उत्ताना पौष्पिकी मुद्रा दीपमुद्रेति कीर्तिता ।
पञ्चाङ्गुल्यग्रसंलग्ना ग्रथितोर्ध्वमुखी यदि ॥ २१४ ॥

त्रिधा निबद्धा मुद्रेयं नैवेद्यस्य प्रकीर्त्तिता । द्वौ करौ
पृष्ठसंलग्नौ भ्रामयेद्ग्रथिताङ्गुली । छोतिकेति समाख्याता
प्रणामे तां विनिर्दिशेत् ॥ २१५ ॥

अथातो विष्णुपूजायां विबुधश्चुलुकोदकैः ।
ब्रह्मार्पणाख्यमनुना कुर्याद्ब्रह्मार्पणक्रियाम् ॥ १ ॥

प्राणायामत्रयं कुर्यात् पुरतः परतो जपे । मनः संयमनः
शुद्धो मौनी मन्त्रानु चिन्तनः । अव्यग्रचित्तो निर्दोषो देवतां
समनुस्मरन् ॥ २ ॥

सूर्यादिसन्निधौकुर्याज्जपं सधकसत्तमः । सर्वसिद्ध्यै तथा
चाह मन्त्रदेवप्रकाशिका ॥ ३ ॥

सूर्यस्याग्रे गुरोरिन्दोर्दीपस्य च जलस्य च । विप्राणां च गवां
चैव सन्निधौ सम्मुखोजपेत् ॥ ४ ॥

यथाशक्त्या जपं कृत्वा तं जपं सर्वसिद्धये । दक्षिणे
देवता हस्ते मनुनानेन चार्पयेत् ॥ ५ ॥

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु
मे मातस्त्वं गतिः परमेश्वरि ॥ ६ ॥

अयं शाक्ते मनौ मन्त्रो वैष्णवादावथोहयेत् । सुछत्रचामरै
राज्ञामुपचारैः प्रतोषयेत् ॥ ७ ॥

उपचारेषु सर्वेषु यत्किंचिद्दुर्लभं भवेत् । तत्सर्वं मनसा
ध्यात्वा पुष्पक्षेपेण कल्पयेत् ॥ ८ ॥

यत्वो (द्वो) पचारवस्तूनामभावे जलमर्पयेत् । तोयेन विमलेनैव
पूर्णतेत्याह नारदः ॥ ९ ॥

पुष्पाञ्जलिं पुनर्दत्वा साष्टाङ्गं प्रणमेद्बुधः ।
तत्तद्देवस्तवैः स्तुत्वा तं तं देवं यथाविधि ॥ १० ॥

अथ सम्प्रार्थयेदेनां मन्त्री प्रार्थनमुद्रया । अज्ञानाद्वा
प्रमादाद्वा वैकल्यात् साधनस्य च । यन्न्यूनमतिरिक्तं च
तत्सर्वं क्षन्तुमर्हसि ॥ ११ ॥

प्. १०५) द्रव्यहीनं क्रियाहीनं श्रद्धामन्त्रविवर्जितम् ।
तत्सर्वं कृपया तावत् क्षमस्व त्वं दयानिधे ॥ १२ ॥

यन्मया क्रियते कर्म जाग्रत्स्वप्नसुषुप्तिषु । तत्सर्वं तावकी
पूजा भूयात्द्भूयै च मे प्रभो ॥ १३ ॥

यन्मया क्रियते कर्म सुमहत् स्वल्पमेव वा । तत्सर्वं
करुणाहेतोः क्षन्तव्यमयमञ्जलिः ॥ १४ ॥

उत्थायासनमारुह्य तन्मूर्त्तावुपसंहरेत् । परिवारगणं
सर्वमुपसंहारमुद्रया ॥ १५ ॥

अधोमुखे वामहस्ते उर्ध्वास्यं दक्षहस्तकम् ।
क्षिप्त्वाङ्गुलीरङ्गुलिभिः संयोज्य परिवर्तयेत् ॥ १६ ॥

एषा संहारमुद्रास्याद्विसर्जन विधौ मता । क्षमस्वेति
वदन्मूल मन्त्रेण व्यापकं त्रिशः ॥ १७ ॥

विधाय देवतां पश्चात्स्वीयहृत्सरसीरुहे । सुषुम्नावर्त्मना
पुष्पमाघ्रायोद्वासयेत्सुधीः ॥ १८ ॥

शिष्टं गन्धं शंखतोये दत्त्वालोड्य चन्दनेन च । पाणौ
कृत्वा सप्तवारं मन्त्रं मूलं जपेत्सुधीः ॥ १९ ॥

सर्वतीर्थकृतं ध्यात्वा स्वमङ्गंप्रोक्षयेद्बुधः ।
देवार्चनावशिष्टं यत् सलिलं शङ्खमध्यगम् ॥ २० ॥

अङ्गे लग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति । निर्माल्यं
मस्तके धार्यं सर्वाङ्गे चानुलेपनम् ॥ २१ ॥

नैवेद्यं चोपभुञ्जीत दत्त्वा तद्भक्तिशालिने ।
गन्धाद्यैर्मानसैरिष्ट्वा ऋष्यादिन्यासपूर्वकम् ॥ २२ ॥

ध्यात्वेष्टदेवतारूपमात्मानं प्रजपेन्मनुम् । शास्त्रदृष्टेन
विधिना भक्तिमान् स्थिरमानसः ॥ २३ ॥

संख्या पूर्तौ पुनः कुर्यादृष्यादिप्राणसंयमान् ।
इत्याहोद्वासनस्यान्ते पुरश्चरण चन्द्रिका ॥ २४ ॥

विधिदृष्टं च यत्कर्म करोत्यविधिना नरः । फलं न
किञ्चिदाप्नोति क्लेशमात्रं हि तस्य तत् ॥ २५ ॥

प्. १०६) श्रद्धाभक्तिसमायुक्तं यत्कर्म क्रियते नृभिः ।
सुविशुद्धेन भावेन तदानन्त्याय कल्पते ॥ २६ ॥

विधिहीनं भावदुष्टं कृतमश्रद्धया च यत् ।
तद्गृह्णन्त्यसुरास्तस्य गू (मू)ढस्य दृष्कृतात्मनः ॥ २७ ॥

पूजाकर्मविशेषेण दशकालानुरोधतः । यथाशक्ति
यथान्यायं यथालोकाविगर्हितम् ॥ २८ ॥

स्वस्थः समर्थः कुर्वीत उत्तमैरेव साधनैः । मध्यमो
मध्यमैरेव न्यूनो हीनैः समाचरेत् ॥ २९ ॥

अग्निकार्येण हविषा भूषणैश्च समन्वितम् ।
द्रव्यशुद्धिसमायुक्तमुत्तमं पूजनं भवेत् ॥ ३० ॥

अग्निकार्यविहीनं तु कालसर्गं निवेदयेत् । उपचारैर्युतं सर्वं
मध्यमं पूजनं भवेत् ॥ ३१ ॥

वस्त्रालङ्कारशोभादि वर्जयित्वा पृथग्विधम् । केवलं
पुष्पयागं तु कनिष्ठं पूजनं हि तत् ॥ ३२ ॥

एतत्कर्तुं न शक्नोति साधको यदि पूजनम् । तदा हि
देवतामात्रं ध्यात्वा सम्यक् प्रपूजयेत् ॥ ३३ ॥

अथवा मानसां कुर्यादात्मपूजामथापि वा । अथवा केवलां
बाह्यां पूजां कुर्याद्विचक्षणः ॥ ३४ ॥

अर्चामात्रासमर्थस्तु दद्यादर्चनसाधनम् । यो दातुं नापि
शक्नोति कुर्यादर्चनदर्शनम् ॥ ३५ ॥

पूर्वपूर्वस्य चाशक्तौ उत्तरोत्तरमाश्रयेत् । यद्येतदन्यथा
कुर्यत्तदनिष्टफलं श्रुतौ ॥ ३६ ॥

प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते । ना साग्परायिकं
तस्य दुर्मतेर्जायते फलम् ॥ ३७ ॥

नैकं च विद्यते यस्य सोऽधो याति न संशयः । एवं यत् केन
चित्प्रोक्तमकृत्वामानसार्चनम् ॥ ३८ ॥

देवताभावजनकं न बाह्ये देवमर्चयेत् । बाल प्रलपितं
त्वेतन्न (वा) तद्देवतात्मताम् ॥ ३९ ॥

प्.१०७) सम्पादयेत् कलान्यासावसानेनैव कर्मणा । तत्सिद्धेरिति हि
प्रोक्तं विन्यासे मातृका मनोः ॥ ४० ॥

विशेषं सूतके त्वाह तत्त्वसागरसंहिता । अथ सूतकिनः
पूजां वक्ष्याभ्यागमबोधिताम् ॥ ४१ ॥

स्नात्वा नित्यं च निर्वर्त्त्य मानस्या क्रियया परम् ।
बाह्यपूजाक्रमेणैव ध्यानयोगेन पूजयेत् ॥ ४२ ॥

यदि कामी न चेत् कामी नित्यकर्मवदाचरेत् । नियमव्यतिरेकेण यः
कुर्याद्देवतार्चनम् ॥ ४३ ॥

किञ्चिदप्यस्य न फलं भस्मराशौ हुतं यथा ।
योऽर्चयेद्विधिवद्भक्त्या परानीतैश्च साधनैः ॥ ४४ ॥

पूजा फलार्धमेवास्य न समग्रं फलं भवेत् । यस्तु भक्त्या
प्रयत्नेन स्वयं सम्पाद्य चाखिलम् । साधनं चार्चयेद्धीमान् स
समग्रं फलं लभेत् ॥ ४५ ॥

स्वयमानीय चोत्पाद्य पूजोपकरणानि च । पूजयेत्तद्वरं
ह्येतदुत्तमं प्रार्थितार्थदम् ॥ ४६ ॥

कलत्रपुत्रमित्रादितत्तत्सम्पादितं च यत् । मध्यमं चार्चनं
तेन तैः सार्धं तत्फलं भवेत् ॥ ४७ ॥

अन्यैः सम्पाद्य यद्दत्तं क्रयक्रीतं च तेन वा ।
गौणमाराधितं तेन पादमात्रफलं भवेत् ॥ ४८ ॥

पररोपितवृक्षेभ्यः पुष्पाण्यानीय चार्चयेत् । अविज्ञाप्यैव
तं यस्तु निष्फलं तस्य पूजनम् ॥ ४९ ॥

विहितं येऽनुतिष्ठन्ति त एव फलभाजनम् ।
सर्वेषामीप्सितार्थानामन्यथा चेत्तथा नहि ॥ ५० ॥

न्यायार्जितैः साधनैश्च दानहोमार्चनादिकम् । कुर्यान्नचेदधो
याति भक्तया कुर्वन्नपि द्विजः ॥ ५१ ॥

इति पूजाविधिः सम्यक् साधारण उदीरितः । ततो
जपदशांशेन होमं कुर्याद्दिने दिने ॥ ५२ ॥

दशांशता पुनस्तेषां क्वचिदेवान्यथा भवेत् । अथवा
लक्षसंख्यायां पूर्णायां होममाचरेत् ॥ ५३ ॥

प्. १०८) यद्वा यस्य जपो यावान् तत्पूर्णे होममाचरेत् । होमं
दशांशतः कुर्यात् स्वाहान्तं मन्त्रमुच्चरन् ॥ ५४ ॥

होमकार्येऽग्निजायान्ताः पूजायां ते तनोऽन्तकाः ।
मन्त्रेणोङ्कारपूतेन स्वाहान्तेन विचक्षणः ॥ ५५ ॥

स्वाहावसाने जुहुयाद्ध्यायन् वै मन्त्रदेवताम् । इत्यादिवाक्यैः
सर्वेषु स्वाहान्तत्वं व्यवस्थितम् ॥ ५६ ॥

स्वाहान्तेऽपि मनौ स्वाहां पुनरुच्चारयेदिदम् । केषां
चिन्मतमज्ञानगाढान्तर्ध्वान्तसङ्गतम् ॥ ५७ ॥

नमः स्वाहा स्वधा वौषट्वषटां विनिवेदने । विनियोगो
भवेदेतदेकयैव किमन्यया ॥ ५८ ॥

मन्त्रस्तदन्त इत्येतदन्ते तदिति बोधकम् ।
अदृष्टार्थकतापत्तावन्यथा गौरवं भवेत् ॥ ५९ ॥

अग्नौ करणहोमेऽपि छन्दोगाचारसंमतः । अत एव विना
स्वाहामतिरिक्तां समर्थितः ॥ ६० ॥

नमः पदादावप्येवं बुद्धिमानवधारयेत् । शिष्टाचार
विशिष्टं च वाक्यमप्यनुपठ्यते ॥ ६१ ॥

वाक् च कामश्च शक्तिश्च प्रणवः श्रीश्च कथ्यते ।
एतदाद्येषु मन्त्रेषु प्रणवं नैव योजयेत् ॥ ६२ ॥

ठद्वयान्ते ठद्वयं न नमोऽन्ते न नमो वदेत् ॥ ६३ ॥

अथ होम वधिं वक्ष्ये सर्वतन्त्रानुसारतः । कल्पानपि
समालोक्य संहिताः शारदादिकम् ॥ १ ॥

चतुरस्रादिके कुण्डे होमं कुर्याद्विधानतः । सर्वार्थप्राप्तये
मन्त्री तद्विधानं प्रवक्ष्यते ॥ २ ॥

नित्यं नैमित्तिकं होमं स्थण्डिले वा समाचरेत् । यद्यपि
स्थण्डिले काम्यहोमस्य न विधिः क्वचित् ॥ ३ ॥

तथाप्यस्यानिषिद्धत्वाद् व्यवहारानुरोधतः । काम्योऽपि होमः
कर्त्तव्यः साधकैस्तत्र कुत्रचित् ॥ ४ ॥

होमकृच्चरणौ सम्यक् प्रक्षाल्याचम्य बोधिते । आस्यासने च
गुर्वादीन्नत्वा भूतविशोधनम् ॥ ५ ॥

कृत्वा तु मातृकान्यासं तत्तत्कल्पप्रकाशितम् ।
तत्त्वन्यासादिकं कृत्वा तथैव प्राणसंयमम् ॥ ६ ॥

स्थानं संस्कृत्य तन्मत्री कुण्डं वा स्थण्डिलं चरेत् ।
एकहस्तं प्रकुर्वीत चतुरङ्गुलमुच्छ्रितम् ॥ ७ ॥

अरत्निमात्रमानं वाङ्गुष्ठपर्वसमुच्छ्रितम् । सुशोभनं
वालुकाभिश्चतुरस्रं समन्ततः ॥ ८ ॥

संस्कुर्याद्वाच्यविधिना यद्वा तद्वीक्षणादिभिः । वीक्षणं
मूलमन्त्रेण शरेण प्रोक्षणं मतम् ॥ ९ ॥

तेनैव ताडनं दर्भैर्वर्मणाऽभ्युक्षणं मतम् । तिस्रस्तिस्रो
लिखेल्लेखा हृदा प्रागुदगग्रगाः ॥ १० ॥

प्रागग्राणां स्मृता देवा मुकुन्देशपुरन्दराः ।
रेखाणामुदगग्राणां ब्रह्मवैवस्वतेन्दवः ॥ ११ ॥

प्. ११०) पक्ष प्राप्तपरं वाक्यं लिखेच्छाखानुसारतः ।
लिखेद्रेखाः स्वशाखोक्ता इति यल्लघुदीपिका ॥ १२ ॥

प्रपञ्चसारेऽप्यत्रोक्तं स्वशाखानुगता लिखेत् । दर्भद्वयं तु
बर्हिः स्यात्तेनेदमिति कश्चन ॥ १३ ॥

अथवा षट्कोणवृतं त्रिकोणं तत्र संलिखेत् । बाह्ये
सकेसरं त्वष्टदलं पद्मं ततो बहिः ॥ १४ ॥

चतुरस्रं चतुर्द्वारमु (यु)क्तं कृत्वा तदन्तरम् । त्रिकोणे
शक्तिमालिख्य मध्ये सधकसत्तमः ॥ १५ ॥

कर्मयोग्यान् भूतरत्नान् साध्यनामाक्षराणि च । विदर्भितानि
मन्त्रार्णैः शक्तिबीजाभितो लिखेत् ॥ १६ ॥

मेखलासु तथा मन्त्री चक्राद्यर्णान् यथाविधि । सहस्रारपदं
पूर्वं कौमोदकि ततो भवेत् ॥ १७ ॥

महाशङ्खपदं पश्चान् महाशङ्खपदं ततः । प्रोक्तानि
वर्मास्त्रान्तानि निजमन्त्राणि वै क्रमात् ॥ १८ ॥

पूर्वं महापाञ्चजन्यं महाहलमनन्तरम् । ततो महामुशलकं
महाशूलं ततः परम् ॥ १९ ॥

स्वाहान्तानि च मन्त्राणि शङ्खादीनां क्रमाद्विदुः ।
चक्रादयस्तु दिक्संस्थाः शंङ्खाद्याः कोणसंस्थिताः ॥ २०


तारेण प्रोक्षयेत्पश्चात् साधनं हविरादिकम् । सर्वं
वागीश्वरीपीठं ततो मन्त्री प्रपूजयेत् ॥ २१ ॥

आधारशक्तिमारभ्य पीठमन्त्रान्तमादरात् । वक्ष्यामि
भुवनेश्वर्याः शक्तीः पीठमनुं तथा ॥ २२ ॥

जयाख्या विजया पश्चादजिता चापराजिता । नित्या विलासिनी
दोग्ध्री अघोरा मङ्गला नव ॥ २३ ॥

वागीश्वरीश्वरयोर्योगपीठात्मने नमः । ह्रीमाद्यः
पीठमन्त्रोऽयमावाह्यास्मिन् प्रपूजयेत् ॥ २४ ॥

वागीश्वरीमृतुस्नातां नीलेन्दीवरधारिणीम् ।
वागीश्वरेणसहितामुपचारैरनुक्रमात् ॥ २५ ॥

प्. १११) ततो वागीश्वरीदेहं चिन्तयेत्तद्विधानवित् । यच्चोक्तं
तत्त्वसागर संहितादिषु पूजयेत् ॥ २६ ॥

लक्ष्मीमृतुमतीं तत्र प्रभोर्नारायणस्य च । ग्राम्यधर्मेण
संजातमाग्निं तत्र विचिन्तयेत् ॥ २७ ॥

अवगच्छेद्विशेषे तत्तदुपचारैरनुक्रमात् ।
सूर्यकान्तादिसम्भूतं यद्वा श्रोत्रियगेहजम् ॥ २८ ॥

आनीय वह्निं पात्रेण कांस्यादिरचितेन च । अस्त्रेण
किञ्चिदङ्गारमादाय कवचाणुना ॥ २९ ॥

क्रव्यादांशं त्यजेत्तस्मान्मन्त्री सर्वार्थसिद्धये ।
क्रव्यादांशं त्यजामीति केचित्त्यागमिहोचिरे ॥ ३० ॥

अवशिष्टं तु संस्कुर्याच्चतुर्भिर्वीक्षणादिभिः ।
औदर्यवैन्दवाग्निभ्यामैक्यं संभावयनवसोः ॥ ३१ ॥

रमित्यनेन बीजेन चैतन्यं योजयेद्वसौ । ओङ्कारमन्त्रितं मन्त्री
धेनुमुद्रामृतीकृतम् ॥ ३२ ॥

रक्षितं शरमन्त्रेण वर्ममन्त्रावगुण्ठितम् । अर्चितं त्रिः
परिभ्राम्य प्रदक्षिणमतन्द्रितः ॥ ३३ ॥

प्रणवस्य यथान्यायमुच्चारणपुरस्सरम् । आत्मनोऽभिमुखं
वह्निं जानुस्पृष्टमहीतलः ॥ ३४ ॥

वागीश्वर्याः सकामायाः स्वपन्त्याः शिवसन्निधौ ।
शिववीर्यधिया देव्या योनावेनं विनिःक्षिपेत् ॥ ३५ ॥

प्रादेशसंमितां मन्त्री समिधं घृतसंप्लुताम् । अग्नौ
निःक्षिप्य विधिवद्दग्ध्वास्मिन् होमकर्मणि ॥ ३६ ॥

कृताकृतावेक्षकस्त्वमत्र ब्रह्मा भवेत्यपि । अभिधायासने
मन्त्री वह्नेर्दक्षिणतः कुशे ॥ ३७ ॥

कमण्डलुं चोत्तरीयं कौशेयं बटुकं तथा । ब्रह्माणं
कल्पयेदेतान्यशक्तौ साधकोत्तमः ॥ ३८ ॥

शक्तौ तु वृणुयादेव ब्राह्मणं ब्रह्मकर्मणि ।
पुष्पचन्दनताम्बूलसहितं वाससां त्रयम् ॥ ३९ ॥

प्.११२)

अलङ्करणमित्यहुर्बुधा वरणसंभृतिम् । मौथुनान्तधिया
ताभ्यां दद्यादाचमनीयकम् ॥ ४० ॥

दीपिकादौ तु संप्रोक्तमिह कङ्कणबन्धनम् । अस्त्रेण वह्निं
सम्प्रोक्ष्य योनिमाच्छाद्य सत्कुशैः ॥ ४१ ॥

दिक्षु काण्ड पुटं न्यस्येदस्त्रमन्त्रेण साधकः । तेनैव
गर्भरक्षार्थं मूलमन्त्राभिमन्त्रितम् ॥ ४२ ॥

कौतुकं तु निबध्नीयाद्दर्भकङ्कणकं करे । रक्षार्थं
गर्भिणीं शक्तिं रक्ष रक्षेति चोच्चरन् ॥ ४३ ॥

दर्शयेज्ज्वालिनीं मुद्रामिति रत्नावलीमतम् । तस्यास्तु लक्षणं
प्रोक्तं तत्रैव तदिहोच्यते ॥ ४४ ॥

मणिबन्धौ समौ कृत्वा करौ प्रवितताङ्गुली । मध्यमे मिलिते
कृत्वा तन्मध्येङ्गुष्ठकौ क्षिपेत् ॥ ४५ ॥

वह्निं संदीपयेन्मुद्रा ज्वालिन्युद्दीपिका मता ।
ज्वालयेन्मनुनानेन तमग्निमथ साधकः ॥ ४६ ॥

चित्पिङ्गल हल दह पचयुग्मान्युदीर्य च । सर्वज्ञाज्ञापय
स्वाहा मन्त्रः पावकवल्लभः [चित्पिङ्गल हल दह पच पच
सर्वज्ञाज्ञापय स्वाहा] ॥ ४७ ॥

जुहूषंश्च हुते चैव पाणिशूर्पास्यदारुभिः । न
कुर्यादग्निधमनं कुर्याच्च व्यजनादिना ॥ ४८ ॥

मुखेनैव धमेदग्निं मुखादेषोऽध्यजायत । न मुखेनेति
यच्चोक्तं लौकिके योजयन्ति तत् ॥ ४९ ॥

सप्तजिह्वाह्वयां मुद्रां ततो मन्त्री प्रदर्शयेत् । अग्निं
प्रज्वलितं वन्दे जातवेदं हुताशनम् ॥ ५० ॥

सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् । अनेनाग्निमुपस्थाय
त्रिविधा रसना वसोः ॥ ५१ ॥

विन्यसेदात्मनो देहे वक्ष्यमाणा विधानवित् । लिङ्ग पायुशिरोवक्र
प्राणनेत्रेषु सर्वतः ॥ ५२ ॥

वह्निरर्धांशसंयुक्ताः सादियान्ताः सबिन्दवः । वर्णा
मन्त्राः समुद्दिष्टा जिह्वानां सप्त च क्रमात् ॥ ५३ ॥

प्. ११३) पद्मरागासुवर्णान्या तृतीया भद्रलोहिता । लोहिता च
ततः श्वेता धूमिनी च करालिका ॥ ५४ ॥

राजस्यो रसना वह्नेर्विहिता वश्यकर्मणि । हिरण्या गगना रक्ता
कृष्णान्या सुप्रभा मता ॥ ५५ ॥

बहुरूपा चातिरक्ता सात्त्विक्यो रसनाः स्मृताः ।
विश्वमूर्तिस्फुलिङ्गिन्यो धूम्रवर्णा मनोजवा ॥ ५६ ॥

लोहिता च करालाख्या काली तामसजिह्विकाः । सात्विक्यो
दिव्यपूजासु राजस्यः काम्यकर्मसु ॥ ५७ ॥

तामस्यः क्रूरकार्येषु प्रयोक्तव्या विपश्चिता । सुराः
सपितृगन्धर्वयक्षनागपिशाचकाः ॥ ५८ ॥

राक्षसाश्च क्रमादग्नेराश्रिता रसनास्वमी । वह्नेः
कराङ्गविन्यासावेभिर्मन्त्रैर्यथा पुरा ॥ ५९ ॥

सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषस्ततः । धूमव्यापी
सप्तजिह्वो धनुर्धर इतीरिताः ॥ ६० ॥

न्यस्तव्या जातिसंयुक्ता अङ्गमन्त्रा यथाक्रमात् । मूर्तीरष्टौ
तनौ तद्वदात्मनो जातवेदसः ॥ ६१ ॥

मूर्धाङ्गपार्श्वकट्यन्धुकटिपार्श्वांसकेषु च ।
प्रक्षिणक्रमान्न्यस्येदुच्यन्ते ता यथा क्रमात् ॥ ६२ ॥

जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः । अश्वोदरज
संज्ञोऽन्यस्तथा वैश्वानराह्वयः ॥ ६३ ॥

कौमारतेजाः स्याद्विश्वमुखो देवमुखस्तथा । ताराग्नये
पदाद्याः स्युर्नमोऽन्ता वह्निमूर्तयः ॥ ६४ ॥

आधारशक्तिमारभ्य वह्निमण्डलकावधि । पीठं
सम्पूजयेन्मन्त्री नवशक्ति समन्वितम् ॥ ६५ ॥

पीता श्वेताऽरुणा कृष्णा पृषातीव्रास्फुलिङ्गिनी । रुचिरा
ज्वालिनी प्रोक्ताः कृशानोर्नवशक्तयः ॥ ६६ ॥

बीजेनैवासनं दत्त्वा मूर्तिं मूलेन कल्पयेत् ।
वरशक्तिस्वस्त्यभीतीर्दधानं करपल्लवैः ॥ ६७ ॥

प्. ११४) हैमाकल्पं जवाकान्तिं पद्मसंस्थं त्रिलोचनम् ।
जिह्वाभिर्वक्ष्यमाणाभिर्युक्तं कर्मसु तं क्रमात् ॥ ६८ ॥

बद्धमौलिजटाजूटैरेवं ध्यायेद्विधानवित् । हेमवर्णा
हिरण्येशे कृष्णा रक्षसि नीलरुक् ॥ ६९ ॥

वैदूर्यवर्णा कनका प्राच्यां रक्ता कृशानुगा ।
तरुणार्कप्रभा पद्मरागप्रख्या जले स्थिता ॥ ७० ॥

सुप्रभा वायुभागेतिरक्तिका रजनप्रभा । यथार्था बहुरूपा
च दक्षोत्तरनिवासिनी ॥ ७१ ॥

कुण्डमध्ये प्रशस्ता सा फलमेषां प्रचक्षते ।
हिरण्याऽकर्षणादौ स्यात् कनका स्तम्भनादिषु ॥ ७२ ॥

द्वेषणादौ मता रक्ता कृष्णा मारणकर्मणि । सुप्रभा
गदिता शान्ता तूच्चाटे चातिरक्तिका ॥ ७३ ॥

बहुरूपोत्तरे सिद्धिमृद्धिं दक्षिणतस्तथा । सा शुभानि सदा
मध्ये तनोतीति न संशयः ॥ ७४ ॥

परिषिञ्चेत्ततस्तोयैर्विशुद्धैर्मेखलोपरि ।
दर्भैरगभैर्मध्यस्थमेखलायां परिस्तरेत् ॥ ७५ ॥

परिस्तरणकार्ये हि त्यजेद्गोपुच्छमीषिकाम् । तदुक्तं
भट्टनागेन त्रिपुरासारसंग्रहे ॥ ७६ ॥

गोपुच्छमीषिकां त्यक्त्वा तृणमन्यत् परिस्तरेत् । निःक्षिपेद्दिक्षु
परिधीन् प्राचिवर्जं विचक्षणः ॥ ७७ ॥

प्रादक्षिण्येन सम्पूज्यास्तेषु ब्रह्मादयस्त्रयः ।
एकवृक्षसमुद्भूतानार्द्रानति-ऋजून् शुभान् ॥ ७८ ॥

दोर्मातान् मेखलातुल्यमानान् वा खदिरोद्भवान् । औदुम्बरान्वा
गृह्णीयात् पूर्वाभावे परं परम् ॥ ७९ ॥

ध्यातं वह्निं यजेन्मध्ये वह्निमन्त्रेण साधकः । मध्ये षट्सु
च कोणेषु जिह्वा बीजादिका यजेत् ॥ ८० ॥

केसरेषूक्तमार्गेण पूजयेदङ्गदेवताः । दलेषु
पूजयेन्मूर्त्तीः शक्तिस्वस्तिकधारिणीः ॥ ८१ ॥

प्. ११५) लोकपालांस्ततो दिक्षु तदस्त्राणि ततो बहिः ।
पश्चादादाय पाणिभ्यां स्रुक्सु (स्रु) वौ तावधोमुखौ ॥ ८२ ॥

त्रिशः प्रतप्य दहने दर्भानादाय साधकः ।
तदग्रमूलमध्यानि शोधयेत्तैर्यथाक्रमम् ॥ ८३ ॥

गृहीत्वा वामहस्तेन प्रोक्षयेद्दक्षिणेन तौ । पुनः
प्रतापयेन्मन्त्री दर्भानग्नौ विनिःक्षिपेत् ॥ ८४ ॥

आत्मनो दक्षिणे भागे स्थापयेत्तौ कुशान्तरे ।
आज्यस्थालीमथादाय प्रोक्षयेदस्त्रवारिणा ॥ ८५ ॥

प्रादेशमात्रे पात्रे द्वे पवित्रे तत्र निःक्षिपेत् । तस्यामाज्यं
विनिःक्षिप्य संस्कृतं वीक्षणादिभिः ॥ ८६ ॥

उद्धृत्य वायवेऽङ्गारान् हृदा तत्र विनिःक्षिपेत् । इदं
तापनमुद्दिष्टं साधकैस्तन्त्रकोविदैः ॥ ८७ ॥

सन्दीप्य दर्भयुगलमाज्ये क्षिप्त्वानले क्षिपेत् । बुधो
हृदयमन्त्रेण पवित्रीकरणं त्विदम् ॥ ८८ ॥

दीप्तेन दर्भयुग्मेन नीराज्याज्यं सवर्मणा । अग्नौ
विसर्जयेद्दर्भमभिद्योतनमीरितम् ॥ ८९ ॥

घृते प्रज्वालितान् दर्भान् प्रदर्श्यास्त्रानुना ततः । जातवेदसि
तान्न्यस्येत् प्रद्योतनमिदं मतम् ॥ ९० ॥

गृहीत्वा घृतमङ्गारान् प्रक्षिप्याग्नौ जलं स्पृशेत् ।
अङ्गुष्ठोपकनिष्ठाभ्यां दर्भौ प्रादेश सम्मितौ ॥ ९१ ॥

धृत्वोत्पुनीयादस्त्रेण घृतमुत्पवनं मतम् ।
तद्वद्धृदयमन्त्रेण कुशाभ्यामात्मसंमुखम् ॥ ९२ ॥

घृते सम्प्लवनं कुर्यात् संस्काराः ष्डुदीरिताः ।
प्रादेशमात्रं सग्रन्थि दर्भयुग्मं घृतान्तरे ॥ ९३ ॥

निःक्षिप्य भागौ द्वौ कृत्वा पक्षे शुक्लेतरे स्मरेत् । वामे
नाडीमिडां भागे सक्षिणे पिङ्गलां ततः ॥ ९४ ॥

सुषुम्नां मध्यतो ध्यात्वा कुर्याद्धोमं विधानतः । स्रुवेण
दक्षिणाद्भागादादायाज्यं हृदा बुधः ॥ ९५ ॥

प्. ११६) जुहुयादग्नये स्वाहेत्यग्नेर्दक्षिणलोचने ।
वामतस्तद्वदादाय वामे वह्निविलोचने ॥ ९६ ॥

जुहुयादथ सोमाय स्वाहेति हृदयानुना । मध्यादाज्यं समादाय
वह्नेर्भालविलोचने ॥ ९७ ॥

जुहुयादग्नि सोमाभ्यां स्वाहेति च न वैष्णवे । वह्नौ
त्रिनेत्रसद्भावो विद्यते नृहरिं विना ॥ ९८ ॥

केचित्तु वैष्णवेऽप्येतामाहुतिं सर्वतो विदुः । न हि
वह्नेस्त्रिनेत्रत्वं देवतापेक्षमुच्यते ॥ ९९ ॥

तथा सत्यन्यमन्त्रेण कथमेषाहुतिर्भवेत् । हृन्मन्त्रेण
स्रुवेणाज्यं भागादादाय दक्षिणात् ॥ १०० ॥

जुहुयादग्नये स्विष्टकृते स्वाहेति तन्मुखे । हेति सम्पातयेद्
भागेष्वाज्यस्याद्वा (द्या) हुतिक्रमात् ॥ १०१ ॥

स्री सोमशम्भुनाप्येतदुक्तं शैवागमान्तरे ।
क्रमाद्भागत्रयादाज्यं स्रुवेणादाय साधकः ॥ १०२ ॥

स्वेत्यग्नौ हेति तद्भागे शेषमाज्यं क्षिपेत्क्रमात् ।
इत्यग्निवक्त्रनेत्राणां कुर्यादुद्घाटनं बुधः ॥ १०३ ॥

मध्यप्राग्याम्यवरुणोदीच्यभागान्विचिन्तयेत् ।
ईशतत्पुरुषाघोरसद्योवामस्वरूपिणः ॥ १०४ ॥

होमकालेऽग्निमूर्त्तौ तु ध्यात्वा होमो विधीयते । पश्चिमे वदने
मन्त्री नित्यहोमं समाचरेत् ॥ १०५ ॥

वश्याकर्षणसौभाग्यपुष्ट्यादौ साधकोत्तमः । शान्तिके
पाकशुद्धौ च वामे होमं समाचरेत् ॥ १०६ ॥

निस्त्रिंशापादनादौ तु तथैव विजिगीषया ।
इष्टसञ्जननार्थं तु प्राचीनवदने यजेत् ॥ १०७ ॥

मारणोच्चाटनद्वेषस्तम्भनार्थं च दक्षिणे । प्रायश्चित्तं
तु तत्रैव पञ्चमे तु विमुक्तये ॥ १०८ ॥

मन्त्रमुक्तावली ग्रन्थे सम्प्रोक्तं भागकल्पनम् ।
सताराभिर्व्याहृतिभिराज्येन जुहुयात्ततः ॥ १०९ ॥

प्. ११७) जुहुयादग्निमन्त्रेण त्रिवारं साधकोत्तमः ।
गर्भाधानादिका वह्नेः क्रिया निर्वर्त्तयेत्क्रमात् ॥ ११० ॥

अष्टाभिराज्याहुतिभिः प्रणवेन पृथक् पृथक् । ज्ञानार्णवे
तु मूलेन गर्भाधानादिकाः क्रियाः ॥ १११ ॥

मन्त्रमुक्तावलीग्रन्थेऽप्येमेव प्रकीर्त्तितम् । हृदा
सप्ताहुतीर्दत्त्वा गर्भाधानादिकाः क्रियाः ॥ ११२ ॥

प्रत्येकं कारयेदेवमाहुः केचन मान्त्रिकाः । गर्भाधानं
पुंसवनं सीमन्तोन्नयनं ततः ॥ ११३ ॥

अनन्तरं जातकर्म स्यान्नामकरणं तथा । बहिर्निष्क्रमणं
पश्चादन्नप्राशनमीरितम् ॥ ११४ ॥

चूडोपनयने भूयो महानास्यं (म्यं) महाव्रतम् । तथो (थौ)
पनिषदं पश्चाद् गोदानोद्वाहकौ मृतिः ॥ ११५ ॥

शुभेषु स्युर्विवाहान्ताः क्रियास्ताः क्रूरकर्मसु । मरणान्ताः
समुद्दिष्टा वह्नेरागमवेदिभिः ॥ ११६ ॥

संस्काराः षोडशैवेति प्रसिद्धेश्चन्द्रिकाकृता ।
गोदानान्तेत्यतः प्रोक्तं समावर्तनमुच्यते ॥ ११७ ॥

तूर्णायागादिके प्रोक्तो विशेषो नामकार्मणि ।
आज्याहुत्यष्टकैर्दत्त्वा नामकर्म तथैव च ॥ ११८ ॥

देशिकस्त्वं हुताशेति मूलमन्त्रेण कल्पयेत् । ततश्च पितरौ
तस्य संपूज्यात्मनि योजयेत् ॥ ११९ ॥

समिधः पञ्च जुहुयान्मूलाग्रे घृतसंप्लुताः ।
श्लेष्मातापिशाचतरुसमुद्भूताः परित्यजेत् ॥ १२० ॥

तदुक्तं भट्टनागेनाप्यर्थात् सारसमुच्चये ।
श्लेष्मातापिशाचतरुं त्यक्त्वाऽन्येभ्यस्तु तां हरेत् ॥ १२१ ॥

मन्त्रैर्जिह्वाङ्गमूर्त्तीनां क्रमाद्वह्नेर्यथाविधि । प्रत्येकं
जुहुयादेकामाहुतिं मन्त्रवित्तमः ॥ १२२ ॥

नत्यादीनङ्गमन्त्रा&श्च केचिदिच्छन्ति तान्त्रिकाः ।
केचिन्मूलमनोरङ्गमन्त्रांस्तन्त्रार्थवेदिनः ॥ १२३ ॥

प्. ११८) अर्घादिकं तथा होमः परस्परनिदर्शनम् ।
सम्प्रदायोऽत्रशरणं न किञ्चिदवशिष्यते ॥ १२४ ॥

अवदाय स्रुवेणाज्यं चतुः स्रुचि पिधायताम् । स्रुवेण
तिष्ठन्नेवाग्नौ साधको यतमानसः ॥ १२५ ॥

जुहुयाद्वह्निमन्त्रेण वौषडन्तेन सम्पदे । विघ्नेश्वरस्य
मन्त्रेण जुहुयादाहुतीर्दश ॥ १२६ ॥

व्यस्तेन च समस्तेन चतस्रो जुहुयात्ततः । सामान्यं
सर्वमन्त्राणामेतदग्निमुखं मतम् ॥ १२७ ॥

अथाभ्यर्च्येष्टमन्त्रस्य पीठं वह्नौ सशक्तिकम् ।
अर्चयेदग्निरूपां तां देवतामिष्टदायिनीम् ॥ १२८ ॥

तन्मुखे जुहुयान्मन्त्री पञ्चविंशति संख्यया । आज्येन
मूलमन्त्रैण वक्त्रैकीकरणं स्मृतम् ॥ १२९ ॥

वह्निदैवतयोरैक्यमात्मना सह भावयन् । मूलमन्त्रेण
जुहुयादाज्येनैकादशाहुतीः ॥ १३० ॥

नाडीसन्धानमुद्दिष्टमेतदागमवेदिभिः ।
जुहुयादङ्गमुख्यानामाहुतीनामनुक्रमात् ॥ १३१ ॥

एकैकामाहुतिं सम्यक् सर्पिषा साधकोत्तमः ।
ततस्त्रिमधुरोपेतैस्तिलैर्वा कल्पदेशितैः ॥ १३२ ॥

द्रव्येर्वाऽभीष्टसिद्ध्यर्थं होमं कुर्याद्यथेप्सितम् ।
महाव्याहृतिभिः कुर्यादथ होमं विधानवित् ॥ १३३ ॥

भूर्भुवःस्वर्भूभुवःस्वः पूर्वं स्वाहान्तमेव च । अग्नये च
पृथिव्यै च महते च समन्वितम् ॥ १३४ ॥

चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यश्च महतेन्वितम् ।
महाव्याहृतयस्त्वेताः सर्वशो देवतामयाः ॥ १३५ ॥

शारदायां तु सम्प्रोक्तं ततो व्याहृतिभिर्हुनेत् । तत्र
व्याहृतिभिः प्रोक्ता महाव्याहृतयो यथा ॥ १३६ ॥

विकल्प एव मन्तव्यो विद्वद्भिः पक्षयोर्द्वयोः । स्रुचा
पूर्णाहुतिं दद्यान्मूलमन्त्रेण साधकः ॥ १३७ ॥

प्. ११९) तस्यास्तु लक्षणं प्रोक्तं पूर्णयागे विशेषतः ।
आज्येन स्रुवमापूर्य तेनापूर्य स्रुचं ततः ॥ १३८ ॥

तदूर्ध्वेऽधोमुखं कृत्वा स्रुवमुत्थाय मन्त्रवित् ।
ऋजुकायस्तयोर्मूलं नाभिमूले निधाय च ॥ १३९ ॥

मूलन्नादान्तमुच्चार्य वामपादपुरःसरम् ।
फलपुष्पाक्षतोपेतमविछिन्नाज्यधारया ॥ १४० ॥

कुर्यात्पूर्णाहुतिं मन्त्री परामृतधिया पुनः ।
श्रीसोमशम्भुना प्रोक्तं सम्पूर्णाहुति लक्षणम् ॥ १४१ ॥

घृतेन् स्रुचि पूर्णायां निधायाधोमुखं स्रुवम् । स्रुगग्रे
पुष्पमारोप्य पश्चाद्वामेन पाणिना ॥ १४२ ॥

पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया ।
समङ्गतोर्ध्वकायश्च समपादः समन्वितः ॥ १४३ ॥

नाभौ तन्मूलमाधाय स्रुगग्रव्यग्रलोचनः ।
दुर्गादिकारणत्यागाद्विनिःसृत्य सुषुम्नया ॥ १४५ ॥

वामस्थलान्तमानीय तयोर्मूलमतन्द्रितः ।
मूलमन्त्रमतस्योर्ध्वं वौषडन्तं समुद्धरेत् ॥ १४६ ॥

तदग्नौ जुहुयादाज्यं यवसम्मितधारया ।
ब्रह्मार्पणाख्यमनुना पुनरष्टावथाहुतीः ॥ १४७ ॥

जुहुयान्मन्त्रवर्येण कर्मबन्धविमुक्तये । इतः सर्वं
प्राणबुद्धिदेहधर्माधिकारतः ॥ १४८ ॥

जाग्रत्स्वप्न सुषुप्तीनामन्ते वस्तामुदीरयेत् । ततः सुमनसा
वाचा कर्मणा च प्रभाषयेत् ॥ १४९ ॥

सहस्ताभ्यां तथा पद्भयामुदरेणेति भाषयेत् । शिष्णा च
यत् स्मृतं चोक्त्वा यदुक्तं यत्कृतं तथा ॥ १५० ॥

तत्सर्वमिति संभाष्य वदेद्ब्रह्मार्पणं पदम् । भवत्वन्ते
द्विचा (ठा) न्तोयं ब्रह्मार्पणमनुर्मतः ॥ १५१ ॥

ततस्तु साङ्गावरणामुद्वास्य स्वेष्टदेवताम् । पुनः
प्रोक्तविधानेन जिह्वादीनां विभावसोः ॥ १५२ ॥

प्. १२०) एकैकामाहुतिं दत्त्वा परिषिच्याद्भिरात्मनि । पावकं
योजयित्वा स्वे परिधीन् सपरिस्तरान् ॥ १५३ ॥

नैमित्तिके दहेन्मन्त्री नित्ये तु न दहेदिमान् । हुते तु देशिकः
पश्चान्मण्डले बलिमाहरेत् ॥ १५४ ॥

नक्षत्राणां सराशीनां सवाराणां यथा क्रमात् ।
दद्याद्बलिं गन्धपुष्पधूपपूर्वकमादरात् ॥ १५५ ॥

ताराणामश्विन्यादीनां राशिः पादाधिकं द्वयम् ।
मेषादिमुक्त्वा नक्षत्रसंज्ञापूर्वमनन्तरम् ॥ १५६ ॥

देवताभ्यः पदं चोक्त्वा दिवानक्तं पदं वदेत् ।
चारिभ्यश्चाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् ॥ १५७ ॥

एवं राशौ तु सम्पूर्णे तस्मिंस्तत्र प्रयोजयेत् । तथा
राश्यधिपानां च ग्रहाणां तत्र तत्र तु ॥ १५८ ॥

सप्तानां करणानां तु दद्यान्मीनाह्वमेषयोः । अन्तराले
बलिस्त्वेवं सम्प्रोक्तो होमकर्मणि ॥ १५९ ॥

अन्तर्बहिर्विभागेन रचयेद्राशिमण्डलम् । वृत्तं चक्रमुशन्त्येके
चतुरस्रं च तद्विदः ॥ १६० ॥

यदि वा वर्तुलाकाराः स्युश्च द्वादशराशयः । ते स्युः
पिपीलिकाकारा मातुलुङ्गनिभा अपि ॥ १६१ ॥

चक्रं च चतुरस्रं चे * * द्वादश राशयः । भवेयुः
पङ्कजदलनिभा वा कथिता बुधैः ॥ १६२ ॥

कुजः शुक्रो बुधः सोमो रविर्बुधयुतो भृगुः । कुजो
बृहस्पतिर्मन्द शनिगीष्पतयः क्रमात् ॥ १६३ ॥

प्रोक्ता राश्यधिपास्त्वेते रूपमेषामिहोच्यते । अरुणश्च
सितश्चैव हरितः पाटलस्तथा ॥ १६४ ॥

पाण्डुश्चैव विचित्रश्च सितेतर पिशङ्गकौ । पिङ्गलः कर्बुरो
वभ्रुःमलिनो रुचिभिः क्रमात् ॥ १६५ ॥

वाराः सराहवः सप्तकेत्वन्ताः स्युर्नवग्रहाः । ववश्च
मानवस्तद्वत् कौलवस्तैत्तिरस्तथा ॥ १६६ ॥

प्. १२१) गदश्च वाणिजो विष्टिरुक्तं करणसप्तकम् । ततस्तु
विधिवन्मन्त्री देवतां परिपूजयेत् ॥ १६७ ॥

ब्राह्मणान्वस्त्रभूषाद्यैरथ सन्तोषयेद्बुधः ।
प्रोक्तमग्निमुखं मन्त्री नित्यहोमेऽपि योजयेत् ॥ १६८ ॥

उत्तानाः केचिदत्राहुर्नित्ये नैष विधिर्भह्वेत् ।
नित्यात्काम्यविधेर्भेदः सर्वत्रैव हि दृश्यते ॥ १६९ ॥

अपि चास्य विधेर्नित्यकर्तव्यत्वे गतं दिनैः । अनेनैव विधानेन
किमन्यैः शारदादिके ॥ १७० ॥

दक्षिणे स्थण्डिलं कृत्वेत्यादि वैशेषिको विधिः ।
शेषाननुज्ञाफलको नातो गर्भादिका क्रिया ॥ १७१ ॥

अत्रास्त्यत्रोच्यते येन कार्या गर्भादिकाः क्रियाः । सर्वं
होमविधिं चोक्त्वा शेषे यच्छारदादिके ॥ १७२ ॥

नैमित्तिके दहेन्मन्त्री नित्ये तु न दहेदिमान् । अदाह एव
परिधेर्विशेषः केवलो मतः ॥ १७३ ॥

तावानेव विशेषोऽत्र उभयोरवगम्यते । नो चेदन्यः कथं नोक्तो
विशेषस्तेन होमयोः ॥ १७४ ॥

संहितायामगस्त्यस्य समस्तविधिशेषतः । नित्ये नैमित्तिके
काम्येऽप्येतदग्निमुखं मतम् ॥ १७५ ॥

ज्ञानार्णवेऽपि कुर्वीत गर्भाधानादिकाः क्रियाः । नित्यहोमं
ततः कुर्यात् काम्य होममनन्तरम् ॥ १७६ ॥

इत्यादि नानावाक्यानामनुरोधेन ताः क्रियाः ।
नित्येऽपीत्यवगन्तव्यं यच्च वैशेषिको विधिः ॥ १७७ ॥

[शेषाननुज्ञाफलकः तदयुक्तमितीष्यते । विध्यन्तरमिति
प्रोक्तं न तु वैशेषिको विधिः] ॥ १७८ ॥

समस्ताग्निमुखप्राप्तावधिकं व्याहृतिद्वयम् । आदावन्ते च
होमस्य व्याहृत्योर्वाद्वयोः स्वकात् ॥ १७९ ॥

स्थानात् स्थानान्तरं प्रोक्तं वक्त्त्रैकीकरणं च वा ।
नास्ताञ्च नाडी सन्धानं प्रतिपक्षशिरः स्विदम् ॥ १८० ॥

प्. १२२) वाक्यं विपक्षदण्डः स्यादिति तर्कानुसारिणः । अथ
संस्कारशब्दस्य वीक्षणादि चतुष्टये ॥ १८१ ॥

तात्पर्यमितिवक्तव्यं लाघवाद्विधिभेदतः । मुख्यकल्पः स
एवास्तामनुकल्पे द्व (त्व)यं विधिः ॥ १८२ ॥

इति चेदुच्यते नायं वीक्षणादिपरो भवेत् ।
आधानपूर्वकालत्वाद्वीक्षणादेः श्रुतक्रमे ॥ १८३ ॥

मानाभावेन न त्यागो न चाधानपुरःसरम् । वीक्षणादिपरं
भूयात्तन्मूलान्तरकल्पने ॥ १८४ ॥

गौरवात्संस्कृते वह्नावित्यादिष्वपि कर्मसु । काम्येषु तेन
निर्वाहादपि चाधानकर्मणः ॥ १८५ ॥

इति कर्तव्यताकांक्षा सामान्ये न निवर्तते । प्रकारेणान्यथा
तत्र मन्त्रपात्रसमन्वयः ॥ १८६ ॥

पूर्णाहुतिर्वा नो भूयादभिधान विलोकनात् । न वा
संस्कारशब्दार्थश्चत्वारो वीक्षणादयः ॥ १८७ ॥

एतदग्निमुखं प्रोक्तमिति यच्छारदावचः । उक्तं च
भट्टनागेनाप्यमुना तु सुसंस्कृते ॥ १८८ ॥

एवं विधादिवचनैरिति शब्दादियोगिभिः । तावत्क्रियाकलापस्य
तदर्थद्वारबोधनात् ॥ १८९ ॥

अन्यथास्तरणादीनामभावे नित्यहोमके । असङ्गतं
भवेदेतन्नित्येषु न दहेदिमान् ॥ १९० ॥

संस्कृत्य विधिवद्विद्वानिति वा युज्यते कथम् ।
तस्मादेतद्वधूमाषमापनेनोपमीयते ॥ १९१ ॥

अथ सानत्कुमारीयो होमे संक्षेप उच्यते । कथ्यते
वह्निसंस्कारः सर्वसाधरणो मया ॥ १ ॥

येन सिध्यन्ति कार्याणि शृणु नारद साम्प्रतम् । नित्ये नैमित्तिके
काम्ये पुरश्चरणकर्मणि ॥ २ ॥

प्रयोगे देवताप्रीत्यै सर्वत्रायं प्रशस्यते । प्राणायामं
विधायादौ सामान्यार्घं विधाय च ॥ ३ ॥

कुण्डे वा स्थण्डिले वापि मध्यतो विष्टरं न्यसेत् ।
मूलमन्त्रेण संशोध्य संस्कारैर्वीक्षणादिभिः ॥ ४ ॥

देवेन सहितां देवीमृतुस्नातां प्रपूजयेत् । वह्निं संस्कृत्य
विधिना क्षिप्त्वा प्रज्वाल्य बोधयेत् ॥ ५ ॥

परिस्तीर्य कुशैर्दिक्षु परिधीनपि विन्यसेत् । विष्टरेषु च
संपूज्य ब्रह्मादीनग्निमर्चयेत् ॥ ६ ॥

स्रुकस्रुवौ शोधयित्वाज्यं शोधयित्वा यथाविधि । हुत्वा पञ्च
समिधोऽग्नौ घृताहुति चतुष्टयम् ॥ ७ ॥

गर्भाधानादिसंस्कारान् कुर्यात्प्रत्येकमष्टभिः ।
आहुतिभिर्घृतैर्हुत्वा यथावत्साधकोत्तमः ॥ ८ ॥

एवं वह्निं तु संस्कृत्य मूलमन्त्रं न्यसेत्तनौ । ध्यात्वा
तद्देवतां वह्नौ विधिना पूजयेदपि ॥ ९ ॥

तन्मुखे जुहुयात्प्रोक्तद्रव्यं संख्या यथोदिता । हुत्वा
दशांशमङ्गेषु दद्यात् पूर्णाहुतिं ततः ॥ १० ॥

एवं सनत्कुमारोक्तो होमे संक्षेप ईरितः । होमाशक्तौ जपस्यैव
जपं कुर्युश्चतुर्गुणम् ॥ ११ ॥

प्. १२४) षड्गुणं वाष्टगुणितं यथासंख्यं द्विजातयः ।
केचित्तु होमसंख्यायाश्चातुर्गुण्यमिहोचिरे ॥ १२ ॥

प्रक्रमन्याय सिद्धत्वाल्लाघवादनुरोधतः ।
संहितादेरशक्तानामित्यादौ दीपिकोदिते ॥ १३ ॥

अत्रोच्यते जपस्यैव चातुर्गुण्यं विधीयते । अध्याहारप्रसङ्गेन
विशिष्टविधिगौरवात् ॥ १४ ॥

स होमश्चेदेवमादिवाक्य संदंशवैशसात् । तेनेह होमे विषये
स होमे कामतेरिता ॥ १५ ॥

न च न्याय विरोधोऽपि हीनाङ्गस्यानुकल्पतः । अस्तु वा
शक्त्यपेक्षोऽयं विकल्पो होमपक्षतः ॥ १६ ॥

यथा ग्रहादि पूजायां होमसंख्यानुपूर्वतः । उत्तरस्येति
गुरवोऽप्यमुमर्थमवादिशन् ॥ १७ ॥

होमानुसारतो ज्ञेया तर्पणादेर्दशांशता । तस्यैव
प्रकृतत्वेन न तु जापदशांशतः ॥ १८ ॥

तर्पणाद्यनुकल्पस्तु द्विगुणादिजपाद्भवेत् । होमानुकल्पमात्रं हि
दीपिकावाक्यगोचरः ॥ १९ ॥

द्विजस्त्रीणां तु विज्ञेयो द्विजानामहुतो जपः । स्वामिन्युक्तो
जपः शूद्रे प्रोक्तस्तन्नविशारदैः ॥ २० ॥

पुरस्क्रियादिसम्प्राप्तेस्तस्य होमाङ्गतास्थितौ । स्त्रीशूद्रावपि
कुर्यातां होममित्यपचेष्टता ॥ २१ ॥

तयोस्तु होमरहितो य उक्तेत्यादिदीपिका । वाक्येन होमरहिते
पौरश्चरणके विधौ ॥ २२ ॥

अधिकारावगमतो ह्यन्यहा तद्विशेषणम् । नोपाददीतोपादाने
तदप्राप्तिः सहोमके ॥ २३ ॥

यदा सहोमस्यैवायं विधिरित्युच्यते तदा । तदप्राप्तिरहोमे
स्याद्विरोधः प्रकृते भवेत् ॥ २४ ॥

प्रक्रान्ते होमविरहे पुरश्चरणबोधनात् । अपि
चाम्नायमन्त्राणां साध्ये स्यादधिकारिता ॥ २५ ॥

प्. १२५) कुतोऽर्थापत्तिविरहात्पुरश्चरणकर्मणः ।
अन्यथैवोपपत्तेश्च पूजाहोमो (मे)ऽपि सा भवेत् ॥ २६ ॥

न च प्रणवसंयुक्तमन्नबाधे तु का गतिः । इति वाच्यं विन
मन्त्रं न तं पूजा यदा भवेत् ॥ २७ ॥

पुरश्चरणसंप्राप्तौ पूजाप्राप्तिवशात्तदा । तत्राधिकार
एवास्तु पुरश्चरणकर्मणः ॥ २८ ॥

विनापि होमं संसिद्धिरिति भेदो महान् द्वयोः । एवमप्यधिकारः
स्याद्यदा होमे तयोर्द्वयोः ॥ २९ ॥

तदा कातीयकल्पेन स्नानं को वारयिष्यति । तदिदं
मूढविक्रीतगवां रक्षणमुच्यते ॥ ३० ॥

शिष्टाचारविशिष्टं तु वाक्यमत्र पठन्ति च । प्रणवस्य
जपाद्धोमात् शालग्रामशिलार्चनात् ॥ ३१ ॥

ब्राह्मणीगमनाच्चैव शूद्रश्चाण्डालतां व्रजेत् ।
त्रयाणामेव वर्णानां होमे विधिरुदीरितः ॥ ३२ ॥

शूद्रस्तु तत्फलाकांक्षी होमात्तु द्विगुणं जपेत् ।
वायवीसंहिताऽप्याह स्फुटमर्थमिमं यथा ॥ ३३ ॥

सर्वेषामेव वर्णानां दीक्षा कार्या क्रियावती । स्त्रीणां
तथैव शूद्रानां प्रशस्येत न हौमिकी ॥ ३४ ॥

एवं प्रयोगविध्यादौ यदि क्वाप्यवगम्यते । तयोर्होमाधिकारित्वं
तदा तत्रास्तु का क्षतिः ॥ ३५ ॥

स्वाहोच्चरणवत् कृष्णमन्त्रादौ विधि दर्शनात् । अथवा
यद्यशक्तिः स्याद्धोमे वा तर्पणेऽपि वा ॥ ३६ ॥

तावत्संख्याजपेनैव ब्राह्मणाराधनेन च । भवेदङ्ग
द्वयेनैव पुरश्चरण कर्म वै ॥ ३७ ॥

यद्यदङ्गं विहीयेत तत्संख्याद्विगुणो जपः । कर्तव्यः
साङ्गसिद्ध्यर्थं तदशक्तेन भक्तितः ॥ ३८ ॥

न चेदङ्गं विहीयेत ततो नेष्टमवाप्नुयात् । येषां जपे च होमे
च संख्या नोक्ता मनीषिभिः ॥ ३९ ॥

प्. १२६) तेषामष्टसहस्राणि संख्या स्याज्जपहोमयोः ।
संख्यानुक्तौ शतं साष्टं सहस्रं वा दशापि वा ॥ ४० ॥

नारयण्यामिति प्रोक्तं मानं पुरस्क्रियां विना । मानं
संमोहने प्रोक्तमनुक्ते काम्यकर्मणः ॥ ४१ ॥

लक्षं वाप्ययुतं वापि सहस्रं शतमेव वा । कर्मणां
गौरवान्मन्त्री तत्तद्धोमं समाचरेत् ॥ ४२ ॥

तत्त्वसागरे संजप्यात् सहस्रं शतमेव वा । अथवा विंशतिं
चैतदुक्तं प्रात्यहिके जपे ॥ ४३ ॥

षट्सहस्रं सहस्रं वा शतमष्टोत्तरं जपेत् ।
अगस्त्यसंहितायामप्येष वैशेषिको विधिः ॥ ४४ ॥

ननु यत्र विशेषस्य विधिर्नास्ति करादिषु । दिशां वा नियमो
नास्ति न वा प्रह्वादिकल्पनम् ॥ ४५ ॥

विशेषविध्यभावेन व्यवहारप्रवर्तनम् । कथं
स्यादित्यपेक्षायामुच्यते मुनिभाषितम् ॥ ४६ ॥

यत्रोपदिश्यते कर्म कर्तुरङ्गं न चोच्यते । दक्षिणस्तत्र
विज्ञेयः कर्मणां पारगः करः ॥ ४७ ॥

यत्र दिङ् नियमो नास्ति जपहोमार्चनादिषु । तिस्रस्तत्र दिशः
प्रोक्ता ऐन्द्री सौम्यापराजिता ॥ ४८ ॥

आसीन ऊर्ध्वः प्रह्वो (वा) नियमो यत्र नेदृशः । तदासीनेन
कर्तव्यं न प्रह्वेन न तिष्ठता ॥ ४९ ॥

होमाद्दशांशतः कुर्यात्तर्पणं देवतामुखे ।
तर्पयेत्तद्दशांशेन विद्यानन्दकृतागमे ॥ ५० ॥

उक्तं विद्याधराचार्यै रत्नावल्याख्य-आगमे । तथैव
त्रिपुरासारसंग्रहेऽपि प्रकीर्त्तितम् ॥ ५१ ॥

नातो जपदशांशेन तर्पणादि विधीयते । तर्पणस्य विधिं
वक्ष्ये सम्प्रदायानुसारतः ॥ ५२ ॥

होमान्ते देवतायाश्च पीठं तोये विचिन्तयेत् । तर्पयित्वा
जलेनैव पीठमन्त्रान्तमादरात् ॥ ५३ ॥

प्. १२७) तत्रावह्यार्चयेद्देवं पाद्याद्यैरुदकात्मकैः ।
होमाद्दशांशतो देववदने सलिलैः शुभैः ॥ ५४ ॥

तर्पयेद्वक्ष्यमाणेन मनुना यतमानसः । तर्पयामि पदं
योज्यं मन्त्रान्ते स्वेषु नामसु ॥ ५५ ॥

द्वितीयान्तेष्विति बुधैस्तर्पणस्य मनुर्मतः । अञ्जलिस्थजलेनैव
तर्पणं विदधीत वै ॥ ५६ ॥

तर्पणं तज्जले कार्यं तदुक्तं संहितादिषु । तर्पयेच्च
विधानेन दशांशं शुद्धवारिणा ॥ ५७ ॥

पुष्पाक्षतादियुक्तेन जले संपूज्य पूर्ववत् । सम्पूर्णायां तु
संख्यायां बुधस्त्वेकैकमञ्जलिम् ॥ ५८ ॥

अङ्गादि परिवारेभ्यो दत्त्वा देवं विसर्जयेत् । आद्येऽपि
केचिदिच्छन्ति परिवारस्य तर्पणम् ॥ ५९ ॥

मूलमन्त्रं समुच्चार्य तदन्ते देवताभिधाम् । द्वितीयान्तामहं
पदात्तर्पयामि नमोऽन्ततः ॥ ६० ॥

कैश्चिदेवं मनुःप्रोक्तश्चाङ्गादीनां च कल्पयेत् । तर्पणस्य
दशांशेन मार्जयेदात्ममूर्धनि ॥ ६१ ॥

मार्जनस्य विधिं वक्ष्ये सर्वतन्त्रानुसारतः । देवरूपतया
ध्यातस्यात्मनो मूर्ध्नि साधकः ॥ ६२ ॥

जलक्षेपात्मकं कुर्यादभिषेकं स्वमुद्रया । नमोऽन्तं
मूलमुच्चार्य कुर्यादिति चिरन्तनाः ॥ ६३ ॥

येषां मते पञ्चमाङ्गं कर्मणि द्विजभोजनम् । तत्प्रकारमतो
वक्ष्ये तन्मतस्यानुसारतः ॥ १ ॥

ब्राह्मणामन्त्रणं कृत्वा भक्ष्यं सम्पाद्य षड्रसम् ।
समावाह्यासनं दत्त्वा मूलेनैवेष्टदेवताम् ॥ २ ॥

ध्यात्वा चावाहयेन्मन्त्री ब्राह्मणाङ्गे यथोदिताम् ।
पाद्याद्यैरर्चयेदिष्टदेवतारूपभूसुरान् ॥ ३ ॥

भक्ष्यैर्नानारसोपेतैर्भोजयेद्देवताधिया । सुभोजितेषु विप्रेषु
तत्साङ्गं सफलं भवेत् ॥ ४ ॥

विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेद्यतः । सर्वथा
भोजयेद्विद्वान् कृतसाङ्गार्थसिद्धये ॥ ५ ॥

अङ्गहीनं भवेद्यद्यत्कार्यं तन्ने (ष्ट) साधनम् । अतो यत्नेन
विदुषो भोजयेत् सर्वकर्मसु ॥ ६ ॥

यान्यन्यान्यपि कर्माणि हीयन्ते द्विजभोजनैः । निरर्थकानि तानि
स्युः पथि राज्ञां गजा इव ॥ ७ ॥

येषां न कर्मण्यरिष्टं ब्राह्मणानां च भोजनम् । परन्तु
जपमात्रस्य दशांशादेव चिन्तनम् ॥ ८ ॥

ते यथोदितां सद्रूपां देवतां चिन्तयन्त्वथ । पुरश्चर्यां
विधायेत्थं सम्यक् साधक सत्तमः ॥ ९ ॥

तदन्ते महतीं पूजां कुर्याद् ब्राह्मणभोजनम् ।
बहुभिर्वस्त्रभूषाभिः पूजयेद्गुरुमात्मनः ॥ १० ॥

दीनानाथांश्च सन्तोष्य मन्त्राः सिद्ध्यन्तिमन्त्रिणाम् ॥ ११ ॥

अथवाल्पधियामेष प्रकारो मन्त्रसिद्धये । चन्द्रसूर्योपरागे तु
स्नात्वा संयतमानसः ॥ १ ॥

एकं पन्थानमाश्रित्य बुधः प्रोक्तप्रकारयोः ।
कुशाक्षतजलैः कुर्यात् संकल्पं देवतान्ततः ॥ २ ॥

अनन्यचित्तः संपूज्य प्रकारेणाथ केनचित् ।
स्पर्शाद्विमुक्तिपर्यन्तं जपेन्मन्त्रं समाहितः ॥ ३ ॥

होमादिकं ततः कुर्याद्यथाविधि यथासुखम् । तदन्ते महतीं
पूजां कुर्याद्ब्राह्मणतर्पणम् ॥ ४ ॥

ततो मन्त्रप्रसिद्ध्यर्थं गुरुं सम्पूज्य तोषयेत् । एवं कृते तु
मन्त्रस्य जायते सिद्धिरुत्तमा ॥ ५ ॥

नद्यां समुद्रगामिन्यां यद्वा पूर्वमुपोषितः । नाभिमात्रोदके
स्थित्वा जपेन्मन्त्रमनन्यधीः । एष उत्तमपक्षः
स्यात्पौरश्चरणके विधौ ॥ ६ ॥

दक्षिणामूर्त्तितन्त्रे तु त्रिरात्रोपोषितः शुचिः । इत्युक्तं
दक्षिणामूर्तिमन्त्रे तदिति तान्त्रिकाः ॥ ७ ॥

एवं कृते न सिद्धःस्याद्यदि मन्त्रः कदाचन ।
तावत्पुरस्क्रियां कुर्याद्यावत्सिद्धो भवेन्मनुः ॥ ८ ॥

कल्पोक्तानखिलान् कामान् प्रयोगान् साधयेत्ततः । जपतोऽपि सदा
पुंसो विनियोगमजानतः ॥ ९ ॥

मन्त्रः प्रच्यवते वीर्यात्तस्माद्यत्नपरो भवेत् । एवं च
संहितादौ यत् प्रयोगः प्रतिषिध्यते ॥ १० ॥

तद्राममन्त्रविषयं तदुपक्रम्यबोधनात् । अत एवाह मन्त्रस्य
प्रयोगविधिशेषतः ॥ ११ ॥

प्. १३०) यथा श्रीराममन्त्राणां प्रयोक्तुः पापसंभवः । न
तथा लक्ष्मणमनोः किन्तु याति परां गतिम् ॥ १२ ॥

अथवा प्रतिषेधोऽयं निषिद्धविषयो मतः । अत-एवोपसंहारे
मारणादिरुदाहृतः ॥ १३ ॥

नायं मुक्तिप्रदो मन्त्रो मारणादौ नियुज्यताम् । उक्तं
प्रयोगकर्तॄणां परलोको न विद्यते ॥ १४ ॥

निषिद्धविषयं नोचेत्कथं तदुपपद्यताम् ।
परलोकार्थविहितप्रयोगे नैव तत्फलम् ।
भविष्यतीत्यन्यतरबाधावश्यं भविष्यति ॥ १५ ॥

सेयं चोभयतः पाशारज्जुरित्यभिधीयते । तस्मादवश्यं
स्वीकार्यं निषिद्ध विषयं हि तत् ॥ १६ ॥

किं च तन्मात्रविश्रान्तिप्रतिषेधपरं च तत् ।
नानाविधवचोबाधाभयेन परिकल्प्यते ॥ १७ ॥

प्रवृत्तमन्यथा कुर्याद्यदि मोहात् कथंचन ।
यतस्तदन्यथाभूतं तत एव समापयेत् ॥ १८ ॥

समाप्ते यदिजानियान्मयैतदन्यथा कृतम् । तावदेव पुनः
कुर्यान्नावृत्तिः सर्वकर्मणः ॥ १९ ॥

प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः ।
तदङ्गस्याक्रिया (यान्तु) सन्तु नावृत्तिर्नैव तत्क्रिया ॥ २० ॥

मन्त्राणामथ सिद्ध्यर्थं प्रवक्ष्ये वीरसाधनाम् । यस्मिन्मन्त्रे
श्रमेणापि नैव सिद्धिः समीहिता ॥ २१ ॥

जायते तत्र कर्तव्या यत्नतो वीरसाधना । सम्यक्
सिद्धैकमन्त्रस्य नासाध्यं विद्यते क्वचित् ॥ २२ ॥

बहुमन्त्रवतः पुंसः का कथा शिव एव सः । यः कश्चित्कुरुते
वीरसाधनां सुसमाहितः ॥ २३ ॥

प्राप्नोति परमां सिद्धिं नात्र कार्या विचारणा ।
तस्मात्सर्वप्रयत्नेन कर्तव्या वीरसाधना ॥ २४ ॥

निर्भयेनैव शुचिना भूत्वा सर्वार्थसिद्धिदा । नास्याः
परतरं किञ्चिद्विद्यते शीघ्रसिद्धिदम् ॥ २५ ॥

प्. १३१) तस्मात्सर्वप्रयत्नेन कर्तव्या वीरसाधना । कथ्यते चैव
लोकोक्त्या तद्विधानमनुत्तमम् ॥ २६ ॥

भैरवेण पुरा प्रोक्तं सर्वसिद्धिकरं परम् । गृह एव
समुत्पाद्य मधुमांसगुडौदनैः ॥ २७ ॥

सपिष्टकैर्बलिच्छागमक्षतं कुसुमादिकम् । आदाय दुग्धसहितं
सार्धयामोत्तरं निशि ॥ २८ ॥

एकावेक्षकसंयुक्तोऽप्यस्त्रपाणिर्भयोज्झितः । चितामागत्य तं
दूरे दृष्ट्वा धृत्वा कियति पश्चिमे ॥ २९ ॥

उपविश्य चिताभागे प्राङ्मुखोवोत्तरामुखः ।
आचम्याञ्जलिमाबद्ध्य मन्त्रमेनं जपेत्सुधीः ॥ ३० ॥

येचात्रैव स्थिता देवा राक्षसाश्च भयानकाः । ते प्रयच्छन्तु
मे सिद्धिं ममत्वेनानुकम्पया ॥ ३१ ॥

इति वारत्रयं कृत्वा बलिं पात्रेषु कल्पयेत् । उदीच्यादि
चिताद्वारचतुष्के तच्चतुष्टयम् ॥ ३२ ॥

धृत्वा प्रदक्षिणं दुग्धैर्मन्त्रेण बलिमुत्सृजेत् । हू&
श्मशानषम्भ इमं सामिषान्नबलिं वदेत् ॥ ३३ ॥

गृह्ण गृह्णापयद्वन्द्वं ततो विघ्नं निवारय । मम सिद्धिं
प्रयच्छेति स्वाहान्तेति मनुर्मतः ॥ ३४ ॥

मायान्ते भैरवेत्युक्त्वा भयानकपदं वदेत् । श्मशानाधिप
इत्युक्त्वा इममित्यादिको परः ॥ ३५ ॥

हू& कालभैरवेत्युक्त्वा श्मशानाधिप ईरयेत् ।
इममित्यादिकस्त्वन्यो दक्षिणस्यां मनुर्मतः ॥ ३६ ॥

हू& महाकाल इत्युक्त्वा श्मशानेत्यादि पूर्ववत् । प्रतीच्यामेष
मन्त्रः स्यात्ततोऽनेन निवेदयेत् ॥ ३७ ॥

श्मशानवासिनि महाभीमे कालिके घोरनिश्वने । गृहाणेवं
(मं) बलिं मातर्देहि मे सिद्धिमुत्तमाम् ॥ ३८ ॥

हू& कालिके द्विचा (ठा)न्तेन महाकालसमीपतः ।
प्राणायामादिकं कुर्यात्ततो ध्यात्वेष्ट देवताम् ॥ ३९ ॥

[हू& श्मशानषम्भ इमं सामिषान्नबलिं गृह्ण गृह्णापय
गृह्णापय विघ्नं निवारय मम सिद्धिं प्रयच्छ स्वाहा ।]

प्. १३२) जपेदव्यग्रहृदयो निर्भयः शुद्धमानसः ।
एकाक्षरेऽयुतं जापो द्व्याक्षरेऽ(ष्ट) सहस्रकम् ॥ ४० ॥

त्र्यक्षरेत्वयुतार्धं स्यादतः साष्टसहस्रकम् । सर्वमन्त्रेषु
संख्योक्ता जपान्ते देवता यदि ॥ ४१ ॥

साक्षाद्भवति तामिष्ट्वा देहि देहीति भाषते । तदा
छागबलिं दत्त्वा वरं सम्प्रार्थयेद्बुधः ॥ ४२ ॥

अथवा मृतके कुर्यात्साधको वीरसाधनाम् । तं
पञ्चवत्सरादूर्ध्वम (ष्टो)र्द्ध्वमिति कश्चन ॥ ४३ ॥

सार्धयामोर्ध्वतो रात्रौ निर्भयस्तु समानयेत् । धृत्वा
चतुष्पथे तीरे नद्या वा मृतकं बुधः ॥ ४४ ॥

हूमित्यानीय तेनैव स्नापयेदुपवेशयेत् । मृतकोपरि संपूज्य
विधिवत्स्वेष्ट देवताम् ॥ ४५ ॥

बल्यादिकं यथापूर्वं सर्वत्रैवायुतं जपेत् ।
दद्याच्छागबलिन्त्वन्ते भैरवेऽनामिका मता ॥ ४६ ॥

तर्जनीमध्यमानामा योगिन्यां तर्जनी मता । क्षेत्रपाले
गणेशे तु मध्यान्यत्र यथेष्ट (च्छ) या ॥ ४७ ॥

नास्मात्परतरं किंचिद्वर्तते शीघ्रसिद्धिदम् ।
मुनिभिर्दैवतैश्चैव कथितं साधकेप्सितम् ॥ ४८ ॥

निर्भयश्च शुचिश्चैव अक्रोधो विजितेन्द्रियः । महाबलो दयालुश्च
कथितोऽयमवेक्षकः ॥ ४९ ॥

ततः प्रयोगान् कुर्वीत साधको निजवाञ्छितान् ॥ ५० ॥

अथात्र होमद्रव्याणां प्रमाणमभिधीयते । विस्तरेणापि
संक्षेपान्नानातन्त्रानुसारतः ॥ १ ॥

कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् । उक्तानि
पञ्चगव्यानि तत्समानं मनीषिभिः ॥ २ ॥

तत्समं मधुदुग्धान्नमक्षमात्रमुदाहृतम् । पयश्चुलुकमात्रं
स्यात्तथा मध्विति केचन ॥ ३ ॥

ननु (न्व) सङ्गतमेतत्स्याद्द्रवद्रव्ये स्रुवः स्रुतेः । तत्कथं
मधुदुग्धादेर्भवेच्चुलुकमात्रता ॥ ४ ॥

उच्यतेऽश्वत्थपत्रादेर्विधिना तत्परं भवेत् । मूलवाक्यं
स्रुवालाभे नित्यहोमादिकर्मणि ॥ ५ ॥

चुल्लुकेनापि होतव्यमिति सूचकमुच्यते । चुल्लुकग्रहणं
केचिदित्याहुः साम्प्रदायिकाः ॥ ६ ॥

दधि प्रसृतिमात्रं स्याल्लाजाःस्युर्मुष्टिसम्मिताः ।
पृथुकास्तत्प्रमाणाः स्युः सक्तवोऽपि तथोदिताः ॥ ७ ॥

गुडः पलार्धमानं स्याच्छर्करापि तथोदिता । ग्रासार्धं
चरुमानं स्यादिक्षुः पर्वावधिर्मतः ॥ ८ ॥

एकैकं पत्रपुष्पाणि तथापूपानि कल्पयेत् ।
कदलीफलनारङ्गफलान्येकैकशो विदुः ॥ ९ ॥

मातुलुङ्गं चतुःखण्डं पनसं दशधाकृतम् । एकैकं
मातुलुङ्गानीत्येवं केचिदिहोचिरे ॥ १० ॥

अष्टधा नारिकेराणि खण्डितानि विदुर्बुधाः । त्रिधाकृतं
फलं बैल्वं कपित्थं खण्डितं द्विधा ॥ ११ ॥

प्. १३४) उर्वारुकफलं होमे कथितं खण्डितं त्रिधा ।
फलान्यन्यानि खण्डानि समिधः स्युर्दशाङ्गुलाः ॥ १२ ॥

नाङ्गुष्ठादधिका ग्राह्या समित्स्थूलतमा क्वचित् । न वियुक्ता
त्वचा चैव न सकीटा न पाट्रिता ॥ १३ ॥

प्रादेशान्नाधिका नोना तथा न स्याद्वि (द्द्वि) शाखिका । न
सपर्णा न निर्वीर्या होमेषु च विजानता ॥ १४ ॥

शान्त्यर्थं सत्वचश्चार्द्रा विपरीता जिघांसता । विशीर्णा
विदला ह्रस्वा वक्राः ससुषिरास्तथा ॥ १५ ॥

दीर्धाः स्थूला घुणैर्युक्ताः सर्वसिद्धिविनाशिकाः ।
श्रीसोमशम्भुरप्याह प्रमाणं मूलकादिषु ॥ १६ ॥

खण्डत्रयं च मूलानां फलानां स्वस्वमानतः ।
ग्रासार्धमात्रमन्नानामक्षाणि पञ्चहोमयेत् ॥ १७ ॥

इक्षोरापर्विकं मानं लतानामङ्गुलद्वयम् । कन्दानामष्टमं
भागं जुहुयाद्विधिना परम् ॥ १८ ॥

दूर्वात्रयं समुद्दिष्टं गुलूची चतुरङ्गुला । व्रीहयो
मुष्टिमात्राः स्युर्मुद्गमाषयवा अपि ॥ १९ ॥

इतोऽन्यथा वदन्त्येके प्रमाणं मुद्गकादिषु । मुद्गाः (काः)
कर्षमात्राः स्युः सप्ताष्टौ वा यवा मताः ॥ २० ॥

पञ्चषा भालतारे(वे णुयवाः पूपनि (पूपानि) कै (चै)कशः
। मुष्ट्यर्धं तण्डुलाः प्रोक्ता मुष्ट्यर्धार्धास्तु क(कै)
श्चन ॥ २१ ॥

कोद्रवा मुष्टिमात्राः स्युर्यवाग्वाः पयसो मितिः । गोधूमा
रक्तकलमा विहिता मुष्टिमानतः ॥ २२ ॥

राजमाषाः षोडशशः गोधूमा रक्तशालयः ।
राजमाषमिताः प्रोक्ता इत्यन्ये तन्त्रवेदिनः ॥ २३ ॥

तिलाश्चुलुकमात्राःस्युः सर्षपोऽपितथोदितः । कैश्चिदाहुतिषु
प्रोक्ताः कर्षार्धार्धास्तु सर्षपाः ॥ २४ ॥

ज्ञानार्णवे तु सम्प्रोक्ता शतं संख्या तयोर्द्वयोः ।
शुक्तिप्रमाणं लवणं मरीचान्येकविंशतिः ॥ २५ ॥

प्. १३५) गुरुर्बदरमात्रंस्याद्रामठं तत्समं स्मृतम् ।
चतुरङ्गुष्ठमानं स्याद्व्यञ्जनं कृशरं तथा ॥ २६ ॥

तिलकल्कं तथा प्रोक्तं मन्त्रतन्त्रविशारदैः ।
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमानि च ॥ २७ ॥

तिन्तिणीबीजमानानि कथितानि मनीषिभिः । श्रीसोमशम्भुना
प्रोक्तं प्रमाणं चन्दनादिषु ॥ २८ ॥

कलायसम्मितानेतान् गुग्गुलुं बदरास्थिवत् । घनसारश्चन्दनानि
कस्तूरीकुङ्कुमानि च ॥ २९ ॥

चणकप्रमितान्यन्यैः प्रोक्तान्यागमवेदिभिः । अनुक्ते तु
हविर्द्रव्ये तिलाज्यं हविरुच्यते ॥ ३० ॥

अनुक्ते चाञ्जनद्रव्ये घृतमेवाञ्जनं विदुः । संख्यानुक्तौ
सहस्रं स्यद्द्रव्यानुक्तो घृतं तथा ॥ ३१ ॥

समिधोऽनुक्तविषये पालाश्यः परिकीर्तिताः ।
दक्षिणामूर्तितन्त्रे तु प्राहैतद्गार्ग्यसंहिता ॥ ३२ ॥

आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते । समु(म्ब) दत्येतदेतेन
स्मृतिदृष्टेन वर्त्मना ॥ ३३ ॥

लाजादिहोमो हस्तेन साङ्गुष्ठेन विधीयते ।
समित्पुष्पफलादीनां कर्तव्यो मृगमुद्रया ॥ ३४ ॥

द्रवद्रव्ये स्रुवः प्रोक्तो मन्त्रतन्त्रविशारदैः ।
मिलित्वानामिकाङ्गुष्ठमध्यमाग्राणि योजयेत् ॥ ३५ ॥

शिष्टाङ्गुल्युच्छ्रिते कुर्यात् मृगमुद्रेयमीरिता । वैश्वानरं
स्थितं ध्यायेत् समिद्धोमेषु साधकः ॥ ३६ ॥

शयानमाज्यहोमेषु निषण्णं शेषवस्तुषु । कर्णे होमाद्
भवेद्व्याधिः नेत्रेऽन्धत्वमुदीरितम् ॥ ३७ ॥

नासिकायामथाधिः स्यद्द्रव्यच्छेदोऽथ मस्तके । तेन होमं
प्रकुर्वीत मुखे नित्यं विभावसोः ॥ ३८ ॥

यतः काष्ठं ततः श्रोत्रं यतो धूमोऽत्र नासिका ।
यत्राल्पज्वलनं नेत्रं यत्राङ्गारस्ततः शिरः ॥ ३९ ॥

प्. १३६) यत्र प्रज्वलिता ज्वाला जिह्वा सा जातवेदसः ।
क्षुत्तृटक्रोधत्वरायुक्तो हीनमन्त्रैर्जुहोति यः ॥ ४० ॥

अप्रवृद्धे (बुद्धे) सधूमे वा सोऽन्धः स्यादन्यजन्मनि । स्वल्पे
रूक्षे सस्फुलिङ्गे वामावर्त्ते भयानके ॥ ४१ ॥

आर्द्रकाष्ठेन सम्पूर्णे तथा लिहति मेदिनीम् । कृष्णार्चिषि
सुदुर्गन्धे फूत्कारवति पावके ॥ ४२ ॥

आहुतीर्जुहुयाद्यस्तु तस्य नाशो भवेद्ध्रुवम् । योऽनर्चिषि
जुहोत्यग्नौ व्य * विनि च मानवः ॥ ४३ ॥

मन्दाग्निरामयावी च दरिद्रश्चैव जायते । तस्मात्समिद्धे
होतव्यं नासमिद्धे कदाचन । आरोग्यमिच्छतायुश्च
श्रियमात्यन्तिकीं तथा ॥ ४४ ॥

स्वर्णसिन्दूर बालार्क कुङ्कुमक्षौद्रसन्निभः । सुवर्णरेतसो
वर्णः शोभनः परिकीर्त्तितः ॥ ४५ ॥

भेरी वारिदहस्तीन्द्रध्वनिर्वह्नेः शुभावहः । नागचम्पक
पुन्नाग पाटलायूथिकानिभः ॥ ४६ ॥

पद्मेन्दीवरकल्हारसर्पिर्गुग्गुलुसन्निभः । पावकस्य शुभोगन्ध
इत्युक्तं तन्त्रवेदिभिः ॥ ४७ ॥

प्रदक्षिणास्त्यक्तकम्पाः छत्राभाः शिखिनः शिखाः ।
शुभदा यजमानस्य राष्ट्रस्यापि विशेषतः ॥ ४८ ॥

शुभदः काशसंकाशो धूमोऽग्नेः कुन्दसन्निभः । पिङ्गो
रोगकरो नित्यं रौप्याभो राष्ट्रहानिदः ॥ ४९ ॥

कृष्णो हुतभुजो वर्णो यजमानं विनाशयेत् ।
खरवायससंराव सदृशो ध्वनिरिष्टहा ॥ ५० ॥

विष्ठायाः सदृशो गन्धो वह्नेर्दुःखानि कारयेत् । मूत्रसमो
बलहानिं स्वेदाभः शुभनाशकः ॥ ५१ ॥

पूतिगन्धो हुतभुजो होतुर्दुःखप्रदो भवेत् । छिन्नावृता शिखा
कुर्यान्मृत्युं धनपरिक्षयम् ॥ ५२ ॥

शुकपक्षसमो धूमः पारावतसमप्रभः । हानिं
तुरगजातीनां गवां च कुरुते चिरात् ॥ ५३ ॥

प्. १३७) आवर्तः शुभदो नित्यं प्रादक्षिण्यविधिक्रमात् । दर्दुरे
विद्युतां पाते विस्फुलिङ्गे तथैव च ।
कृशानोर्होमकालेस्यादनर्थमशुभोदयः ॥ ५४ ॥

एवमादिषु दोषेषु प्रायश्चित्ताय साधकः । मूलमन्त्रेण
जुहुयात्पञ्चविंशतिसंख्यया ॥ ५५ ॥

आज्यैरष्टाधिकशतं जुहुयाच्छान्तये बुधः । अस्त्रेण
साधकवरश्चक्रपूजां समाचरेत् ॥ ५६ ॥

प्रायश्चित्तमिदं प्रोक्तं त्रिपुरासारसंग्रहे ॥ ५७ ॥

अथ प्रशङ्गाच्छास्त्रोक्तं प्रमाणमभिधीयते ।
पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ॥ १ ॥

[पलं सुवर्णाश्चत्वारो निष्कमष्टोत्तरं शतम्] ।
द्वार्त्रिशत्पलकं प्रस्थं स्वयमुक्तं स्वयम्भुवा ॥ २ ॥

[निष्कमक्षं वदन्त्येके निष्कं पलमथापरे । द्वे गुञ्जे
रूप्यमाषः स्यात्पलानि धरणो दश] ॥ ३ ॥

आढकं तु चतुष्प्रस्थं चतुर्भिर्द्रोण आढकैः ।
राशिमानं तदेवस्यात् खारी षोडशभिश्च तैः ॥ ४ ॥

विंशत्या च भवेत् कुम्भो वाहः स्याद्दशभिश्च तैः ।
खारीणां त्रितयं भार उदितः शास्त्रतः क्रमात् ॥ ५ ॥

द्वे सहस्रे पलानां तु भारः सम्यगुदीरितः । भारस्य
दशमांशेन हारमिच्छन्ति केचन ॥ ६ ॥

मुष्टिः पलप्रमाणं स्याद्द्वे पले प्रसृतिर्भवेत् ।
अष्टमुष्टिर्भवेत्कुञ्चः कुञ्चेरष्टौ तु पुष्कलम् ॥ ७ ॥

पुष्कलानि च चत्वारि आढकं तदनुक्रमात् । अष्टौ तु
पुष्कलान्येवं पूर्णपात्रमथोचिरे ॥ ८ ॥

चतुः सष्ट्या पलैः कुम्भं चतुष्प्रस्थमुदीरयेत् । द्वे पले च
प्रकुब्जं स्यात् प्रसरं तद्युगं भवेत् । तद्युगं कुलवं
द्विष्टं प्रस्थं पात्रमनुक्रमात् ॥ ९ ॥

तथाढकं शिवमथ द्रोणं खारीति केचन । पञ्चगुञ्जो
भवेन्माषः तेऽक्षः कर्षस्तु षोडश ॥ १० ॥

प्. १३९) माषास्तु द्वादशैवाक्ष इति विष्णुरिहाब्रवीत् । वैदिके
परिभाषैषा नागमेषूपयुज्यते ॥ ११ ॥

तस्मात् प्रसृतिमुष्ट्यादि शुक्तिवच्चुलुकादिवत् । लौकिकं
तदुपादेयमिति चागमवेदिनः ॥ १२ ॥

होमस्य कुण्डसाध्यत्वादिनानीं तन्निरूप्यते ।
होमानुसारतस्तच्च कामनावशतस्तथा ॥ १ ॥

नानाविधं प्रसङ्गेन मण्डपस्यापि लक्षणम् । संक्षेपादपि
संक्षेपाद्यथाशास्त्रं प्रकाश्यते ॥ २ ॥

इन्द्रेशसोमदिग्भागे पूजामण्डपतश्चरेत् । मण्डपं
तत्फलाकांक्षी शुभार्थसिद्धयः क्रमात् ॥ ३ ॥

दीक्षापुरस्क्रियादीनां साक्षाद्यदुपकारकम् । अधुना तत्
समासेन कण्ठनाभिसमेषणम् (खलम्) ॥ ४ ॥

सयोनिमण्डपं भूरिभेदं कुण्डं प्रकाश्यते । न्यूनाधिके तु
तस्योक्ता भूरिदोषा विशारदैः ॥ ५ ॥

यत्नमास्थाय कर्तव्यं तदुक्तं विश्वकर्मणा । खातेऽधिके
भवेद्रोगी हीने धेनुधनक्षयः ॥ ६ ॥

वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले । मेखलारहिते
शोकोऽत्यधिके वित्तसंक्षयः ॥ ७ ॥

भार्याविनाशनं प्रोक्तं कुण्डं योनिविनाकृतम् ।
अपत्यध्वंसनं प्रोक्तं कुण्डं यत्कण्ठवर्जितम् ॥ ८ ॥

मानाधिक्ये भवेन्मृत्युर्मानहीने दरिद्रता । भैरवेऽपि च ते
प्रोक्ताः कुण्डदोषाः प्रयत्नतः ॥ ९ ॥

सूत्राधिके भवेद्द्वेषो मानहीने दरिद्रता । सक्रोधः
कण्ठहीने स्यादसिद्धिर्न्यूनमेखले ॥ १० ॥

उच्चाटस्त्रुटिते छिद्रसङ्कुले वाच्यता भवेत् । भूमिशुद्धिं
विधायादौ खननादि विधानतः ॥ ११ ॥

प्. १४१) ज्ञात्वा च समतां भूमेर्मण्डपादि समाचरेत् ।
शुद्धोक्तः साम्यकरणे प्रकारः कल्प्यते मया ॥ १२ ॥

कोणेनैकीकृते मूले पृथक् सूक्ष्मसमाग्रयोः ।
दण्डयोरग्रनैकट्येऽर्न्यस्तिर्यक् मध्यचिह्नितः ॥ १३ ॥

कीलादिना योजनीयो दण्डः समतया द्वयोः । मूलदेशेन
स्वसूत्रमस्पृशद्भारवद्गुरुम् ॥ १४ ॥

भूस्थेऽग्रयुग्मे मध्याङ्कात्तिर्यग्दण्डगताद्यतः ।
खनेत्तत्पूरयेदन्यन्निम्नयेद्वापि युक्तितः ॥ १५ ॥

अङ्के यावत्सूत्रमेति भूरेवं समतां व्रजेत् ॥ १६ ॥

अथवान्यप्रकारेण जानीयात् समतां भुवः । गृहीतवास्तुं
खात्वा तु शल्योद्धारं तु कारयेत् ॥ १७ ॥

सर्वतः सुसमं कृत्वा स्थलं दर्पणसन्निभम् । छिद्रमध्यन्तु
कलशं साराम्बुपरिपूरितम् ॥ १८ ॥

सुसमाधारकं कृत्वा स्थलमध्ये समं न्यसेत् । ततः परिस्रुतो
(ता)म्भोभिः समांसिक्ते (समासिक्ते) तु भूतले । न्यूनाधिकं तु
संस्थानं यथा ज्ञेयं तदम्भसा ॥ १९ ॥

अथ प्राच्यादिबुद्ध्यर्थं विधानं सम्यगुच्यते । सूच्यग्रं
शरणं शङ्कुमृजुं संस्थाप्यमध्यतः ॥ २० ॥

तन्मानं मण्डलं कृत्वा तच्छाया प्रविशेद्यतः । निर्याति च
यतस्तद्वद्दद्याच्चिह्नं द्वयोरपि ॥ २१ ॥

सूत्रं प्राक्सूत्रमेवं स्यादतः प्राच्यादिनिर्णयम् । विधाय
मण्डपादीनि रचयेदप्यतन्द्रितः ॥ २२ ॥

दीक्षा पुरस्क्रियादौ यो मण्डपः सतु कथ्यते ।
नक्षत्रवारराशीनामनुकूले शुभे दिने ॥ २३ ॥

पुण्याहं वाचयित्वा तु मण्डपं रचयेच्छुभम् । संपूज्य
गन्धपुष्पाद्यैर्ब्राह्मणान् स्वस्ति वाचयेत् ॥ २४ ॥

सोङ्कारं ब्राह्मणे ब्रूयान्निरोङ्कारं महीपतौ । उपांशु च
तथा वैश्ये स्वस्ति शूद्रे प्रयोजयेत् ॥ २५ ॥

प्. १४२) पञ्चभिः सप्तभिर्वापि नवभिर्वा सि(मि) तान्तरम् ।
षोडशस्तम्भसंयुक्तं चत्वारस्तेषु मध्यगाः ॥ २६ ॥

अष्टहस्तसमुच्छ्रायाः संस्थाप्या द्वादशाभितः ।
पञ्चहस्तप्रमाणास्ते विच्छिद्रा ऋजवः शुभाः ॥ २७ ॥

तत्पञ्चमांशं निखनेन्मेदिन्यां तन्त्रवित्तमः ।
नारिकेरदलैर्वांशैश्छादयेत्तं समन्ततः ॥ २८ ॥

द्वाभ्यां द्वाभ्यां कराभ्यां स्याद्दिक्षु द्वारचतुष्टयम् ।
चतुरष्टाङ्गुलाधिक्यात् प्रोक्तं मध्यमपूज्ययोः ॥ २९ ॥

द्वारेषु तोरणानि स्युः क्रमेण क्षीरभूरुहाम् । स्तम्भो व्राजः
स्मृतस्तेषां पञ्चषट्सप्तभिः करैः ॥ ३० ॥

हीनादिप्रक्रमादेवं परिणाहो दशाङ्गुलैः ।
तिर्यक्काष्ठनिवेशार्थं मूर्ध्निचूडां निवेशयेत् ॥ ३१ ॥

तिर्यक्कनकमानं स्यात् स्तम्भानामर्धमानतः । वैष्णवे
मण्डपे द्वारे कीलानेवं प्रकल्पयेत् ॥ ३२ ॥

स्तम्भेषु प्रोक्तमानेन शङ्खचक्रगदाम्बुजान् ।
प्रागादिक्रमयोगेन न्यसेत्तेषां सुदारुजान् ॥ ३३ ॥

शूलानि कल्पयेच्छैवे तोरणे हस्तमानतः । शूले नवाङ्गुलं
दैर्घ्यं तुरीयांशेन विस्तृतिः ॥ ३४ ॥

ऋजु वै मध्यशृङ्गं स्यात् किञ्चिद्वक्रं च पार्श्वयोः । हीने
चैवं समाख्यातं द्व्यङ्गुलं रोपयेत्तथा ॥ ३५ ॥

अन्यत्र द्व्यङ्गुलाद्वृद्धिरैशस्याङ्गुलिवृद्धितः । दिक्पताका
निबध्नीयाल्लोकपालसमप्रभाः ॥ ३६ ॥

मध्ये ध्वजः किङ्किणिकायुतो द्वारेषु युग्मशः ।
सुगन्धरत्नमाल्यादियुक्ताः कुम्भाः प्रकीर्त्तिताः ॥ ३७ ॥

पताकानां तु विस्तारो वितस्तिर्दीर्घता करैः । पञ्चभिस्तु
ध्वजस्येतो द्विगुणं मानमुच्यते ॥ ३८ ॥

विचित्रो वर्णतः कार्यः सर्वदृष्टिमनोहरः । वितान
दर्भमाल्याद्यैरलङ्कुर्वीतमण्डपम् ॥ ३९ ॥

प्. १४३) तत्त्रिभागमिते क्षेत्रेऽरत्निमात्रसमुच्छ्रिताम् ।
चतुरस्रां ततो वेदीं मण्डलाय प्रकल्पयेत् ॥ ४० ॥

यथोक्तमण्डपे विद्वान् वेदिकाया बहिस्त्रिधा । क्षेत्रं विभज्य
मध्यांशे पूर्वादि परिकल्पयेत् ॥ ४१ ॥

अष्टास्वाशासु कुण्डानि रम्याकाराण्यनुक्रमात् । चतुरस्रं
योनिमर्धचन्द्रं त्र्यस्रं सुवर्तुलम् ॥ ४२ ॥

षडस्रं पङ्गजाकारमष्टास्रं तानि नामतः ।
आचार्यकुण्डं मध्ये स्याद गौरीपतिमहेन्द्रयोः ॥ ४३ ॥

ऐन्द्र्यां स्तम्भे चतुष्कोणं अग्नौ भोगे (भागे) भगाकृति ।
चन्द्रार्धं मारणे याम्ये त्र्यस्रं द्वेषेतु नैर्-ऋते ॥ ४४ ॥

वारुण्यां शान्तिके वृत्तं षद (स्रमु) च्चाटनेऽनिले ।
उदीदीच्यां पौष्टिके पद्मं रौद्र्यामष्टाश्रि मुक्तिदम् ॥ ४५ ॥

पञ्चाश्रिकुण्डं वायव्ये भूतादिग्रहनिग्रहम् ।
अभिचारोपशान्त्यर्थं ईशे सप्ताश्रि विन्यसेत् ॥ ४६ ॥

भुजौ (भुक्तौ) मुक्तौ तथा पुष्टौ जीर्णोद्धारे तथैव तत् ।
सदा होमे तथाशान्तावेकं वरुणदिग्गतम् ॥ ४७ ॥

सर्वसिद्धिकरं कुण्डं चतुरस्रं सुशोभनम् । अर्द्धेन्द्वाभं
रिपुहरं त्र्यस्त्रं मारणकार्मणि ॥ ४८ ॥

षडस्रं रोगशमनमष्टास्रमिति केचन । चतुरस्रं तु
विप्राणा राज्ञां वर्तुलमिष्यते ॥ ४९ ॥

वैश्यानामर्धचन्द्राभं शूद्राणां त्र्यस्रमीरितम् ।
चतुरस्रं च सर्वेषां केचिदिच्छन्ति तान्त्रिकाः ॥ ५० ॥

पूर्वापरायतं सूत्रं विन्यसेद्धस्तमानतः । तस्यार्धार्धं
परित्यज्य मत्स्यौ द्वौ परितो लिखेत् ॥ ५१ ॥

पूर्वापराग्रमालम्ब्य अर्धचन्द्रद्वयेन तु । तयोर्मध्यगतं
सूत्रं विन्यसेद्दक्षिणोत्तरम् ॥ ५२ ॥

उदक्सूत्रं त्विदं विद्याच्चतुरसरं ततश्चरेत् । चतुः
सूत्राग्रमालम्ब्य मध्यतो दिक्चतुष्टये ॥ ५३ ॥

प्. १४४) वर्त्तुंलार्धानि निर्माय मत्स्यान्कोणगतांल्लिखेत् । मत्स्ये
वक्रगताग्राणि तत्रसूत्राणि पातयेत् ॥ ५४ ॥

चतुरस्रं भवेदेवमशुद्धं त्वन्यथा भवेत् । होमानुसारतो
यावत् प्रमाणं कुण्डमिष्यते ॥ ५५ ॥

मूलभूतं तदन्येषां चतुरस्रं प्रकल्पयेत् । ततो
योन्यादिकुण्डानि तावत्क्षेत्रमितानि च ॥ ५६ ॥

कारयेदतियत्नेन न्यूनाधिक्येऽतिदोषटः । ब्रह्मसूत्रस्य
वेदोनशतं भागान् निधाय च ॥ ५७ ॥

एकोनविंशतिं भागानग्रतो वर्धयेद्वहिः । चिह्नं कृत्वा तथा
सूत्रं प्रतीच्यां दक्षिणोत्तरम् ॥ ५८ ॥

पार्श्वयोर्वर्धयेद्विद्वानर्धाधिकनवांशकैः । चिह्नं कृत्वा
तयोः पार्श्वे सावधानतया सुधीः ॥ ५९ ॥

प्राचीचिह्नं समारभ्य श्रोण्योश्चिह्नद्वयावधि । दत्ते
सूत्रद्वये पश्चात्त्रिकोणं जायते ततः ॥ ६० ॥

प्राक्सूत्रस्य परागत्र श्रोणीसूत्राग्रकाङ्कयोः । यन्मानं
विद्यते तस्य त्वर्धमानेन साधकः ॥ ६१ ॥

श्रोण्योरग्रं समारभ्य मध्यसूत्रस्य पश्चिमम् । अग्रं
यावत्परिभ्राम्येदर्धचन्द्रद्वयं भवेत् । योनिकुण्डं
भवेदेतदन्यूनानधिकं शुभम् ॥ ६२ ॥

चतुरस्रीकृतं क्षेत्रं चतुर्विंशतिभागतः । प्रविभज्य
ततश्चाधः सार्धभागद्वयं त्यजेत् ॥ ६३ ॥

अङ्कं कृत्वा ततश्चोर्ध्वं सार्धभागद्वयं पुनः । भागस्य
षोडशांशोनं मुक्त्वा तत्रापि चिह्नयेत् ॥ ६४ ॥

पूर्वचिह्नमवष्टभ्य ज्यासूत्रं दक्षिणोत्तरम् । पातयित्वा
ततश्चाधश्चिह्नमानेन पूर्वतः ॥ ६५ ॥

कर्कटेनाथ सूत्रेण भ्रामयेदर्धचन्द्रकम् । अर्धचन्द्रनिभं
कुण्डं शोभनीयमिदं भवेत् ॥ ६६ ॥

चतुरस्रमितं क्षेत्रं चतुर्विंशतिधा भजेत् ।
पञ्चभिर्वर्धयेदग्रे श्रोण्याः सूत्रं पृथक् पृथक् ॥ ६७ ॥

प्. १४५) प्राच्यां सूत्रं दशांशेन न्यूनाष्टमनवेन च ।
संवर्ध्य त्रिषु स्थानेषु चिह्नंकृत्वा त्रिसूत्रकम् ।
पातयेत्तेषु चिह्नेषु त्रिकोणं कुण्डमुत्तमम् ॥ ६८ ॥

षोडशांशैर्विभज्यास्य मध्यसूत्रं बहिर्न्यसेत् । एकं
भागं कर्कटेन मानेनानेन मध्यतः । भ्रामयेद्वृत्तमेतत्स्यात्
सर्वदृष्टिमनोहरम् ॥ ६९ ॥

मध्यसूत्रं जिनांशेन विभज्य पुरतोन्यसेत् । सार्धान्
पञ्चनवान् मध्यात् तेन मानेन वर्तुलम् ॥ ७० ॥

भ्रामयेत्तद्विभज्याथ षोढा चिह्नेषु षट्स्वपि । सूत्रषट्कं
ततो दद्यात् षडस्रं कुण्डमुत्तमम् ॥ ७१ ॥

चतुरस्रीकृतं क्षेत्रं विभजेदष्टधा सुधीः । अष्टमांश
प्रमाणेन कर्कटेन तु मध्यतः ॥ ७२ ॥

भ्रामयेद्वर्तुलं सेयं कर्णिका केसराः पुनः ।
अष्टमांशद्वयेनैव मध्यतो भ्रमणे कृते ॥ ७३ ॥

तृतीयेनाष्टमांशेन पत्राणां मध्यभूर्मता ।
चतुर्थेनोर्ध्वभूः क्षेत्रन्यासतुल्येन च क्रमात् ॥ ७४ ॥

चतुर्विंशतिधा भुं (भं) क्त्वा क्षेत्रस्य मध्यमं गुणम् ।
तस्यैकं भागमादाय भुं (भं) क्त्वा षोडशधा पुनः ॥ ७५


पञ्चभिः षोडशैर्भागैर्न्यूनं पञ्चममष्टमम् ।
भागमादाय तद्बाह्ये पञ्चमं मण्डलं सुधीः ॥ ७६ ॥

मध्यतो भ्रामयेत्सावै पत्राणामग्र भूर्मता । प्रागुक्त
विधिना मन्त्री ततः पद्मं समालिखेत् ॥ ७७ ॥

खननं सर्वकुण्डानामग्रे यद्यपि दर्शितम् । तथाप्यस्य
विशेषार्थं खननं प्रोच्यतेऽधुना ॥ ७८ ॥

कर्णिकाव्यासमानेन परित्यज्य तदुच्चताम् । निखनेदवशिष्टं
तत् केसराणां च मण्डलम् ॥ ७९ ॥

खनेदन्तस्तदाकारं कुर्वन् पत्रभुवं खनेत् । पत्राकारा यथा
सम्यग्जायन्ते निपुणस्तथा ॥ ८० ॥

प्. १४६) पद्मकुण्डमिदं प्रोक्तं कैश्चित्तु बहिरिष्यते । पद्मस्य
लिखनं तन्न युक्तं कुण्डस्य तादृशम् । अनुसन्धीयते रूपं
यत इत्यवगम्यते ॥ ८१ ॥

चतुरस्रीकृतं क्षेत्रं चतुर्विंशतिधा भजेत् । द्वात्रिंशता
विभक्तस्य भागैकस्य त्रयोदश ॥ ८२ ॥

भागैश्च सहितानन्यां (र्न्यांश्च) चतुरस्तेषु वर्धयेत् ।
तावन्मानमितं मध्यसूत्रं कृत्वान्यदा लिखेत् ॥ ८३ ॥

चतुरस्रान्तरं बाह्ये दिक्सूत्रद्वयसंयुतम् । दिक्कोणयोरन्तराले
अष्टौ चिह्नानि कारयेत् ॥ ८४ ॥

एकैकमन्तरा चिह्नं त्यक्त्वा * *ष्टसु पातयेत् ।
सरलान्यष्टसूत्राणि सम्पातानीतरेतरम् ॥ ८५ ॥

चतुरस्रोभयस्यापि रेखाः सर्वाः प्रमार्जयेत् । अष्टसूत्र्य
(त्र्या)श्च सूत्राणि कोणाष्टादधिकानि च ॥ ८६ ॥

मार्जयेदष्टकोणाख्यं कुण्डमेतदुदीरितम् ॥ ८७ ॥

पूर्वोक्तब्रह्मसूत्रस्य अर्धं द्वादशधा भजेत् । नवांशानां
च यो विंशोप्यंशस्तेन समन्वितान् ॥ ८८ ॥

त्रींस्तु भागान्समादाय ब्रह्मसूत्रन्तु वर्धयेत् ।
तावद्व्यासार्धमानेन मण्डलं रचयेत्सुधीः ॥ ८९ ॥

तद्व्यासं पञ्चधा कृत्वा हित्वा भागद्वयं ततः ।
ज्यासूत्रं शेषमानं तु कृत्वा पञ्च प्रपातयेत् ॥ ९० ॥

परस्पराग्रसम्पाता ज्यासूत्राणि च मण्डले । यथा पञ्च
धनूंषि स्युर्ज्याषष्ठांशशराणि च ॥ ९१ ॥

ज्यापञ्चकावशेषात्तु पञ्चास्रं कुण्डमुत्तमम् ॥ ९२ ॥

पूर्वोक्त ब्रह्मसूत्रस्य अर्धं षट्त्रिंशता भजेत् । अन्यान्
सप्तन (ल) वांस्तस्मिन्सूत्रे संवर्ध्य तावता ॥ ९३ ॥

व्यासार्धेन ततः कुर्यान्मण्डलं तस्य विस्तरम् । विभज्य
भागैर्विंशत्या विंशांशो विशिखोयथा ॥ ९४ ॥

प्. १४७) भवेत्सर्वधनुःष्वेवं ज्यासूत्रमथ पातयेत् ।
नवभिर्नवभिस्त्वंशैर्मिलिताग्रं समन्ततः ॥ ९५ ॥

सप्तधनूंषि जायन्ते ततः सम्मार्ज्य तानि वै ।
ज्यासप्तकावशेषात्तु सप्तास्रं कुण्डमुत्तमम् ॥ ९६ ॥

शारदादि निबन्धेषु कथिते कुण्डलक्षणे ।
न्युनाधिकत्वदोषोऽस्तीत्यङ्कवित् परिभावयेत् ॥ १ ॥

यथाकामं तु कुण्डानि विधाय खननं चरेत् । यावान्
कुण्डस्य विस्तारः खननं तावदीरितम् ॥ २ ॥

दिव्यसारस्वते ग्रन्थेऽप्येतदेव प्रकीर्तितम् । चतुरस्रं
चतुष्कोष्ठं सूत्रं कृत्वायथा पुरा । हस्तमानेन तन्मध्ये
तावन्निम्नायतं खनेत् ॥ ३ ॥

श्रीसारसंग्रहेऽप्येष एवार्थः स्फुटमीरितः । अयमेव हि
सिद्धान्त उपपत्त्यापि सिध्यति ॥ ४ ॥

आद्यमेखलया सार्धं तावदित्यपि केचन ॥ ५ ॥

होमावद्धोत्तरे प्रोक्तं प्रतिष्ठासारसंग्रहे । हस्तमात्रं
खनेत्तिर्यक् ऊर्द्ध्वमेखलया सह ॥ ६ ॥

कुण्डं जिनाङ्गुलैस्तद्वदूर्द्ध्व मेखलया सह ।
मन्त्रमुक्तावलीग्रन्थेऽप्येवमेव प्रकीर्त्तितम् ॥ ७ ॥

एवं यत्केनचित्प्रोक्तं निर्मूलकमिदं मतम् ।
मन्त्रमुक्तावलीकर्तुस्तदबोधविजृम्भितम् ॥ ८ ॥

योन्यादिकुण्डखननं चतुरस्रायतं मतम् ।
क्षेत्रव्यासचतुर्विंशेनाङ्केन परितस्तलम् । त्यक्त्वा कुण्डेषु
सर्वेषु मेखलां रचयेत्सुधीः ॥ ९ ॥

परित्यक्तं तु यत्स्थानं तत्स्थानं कण्ठ उच्यते ।
विस्तारद्वादशांशेन केचिदिच्छन्ति तान्त्रिकाः ॥ १० ॥

मेखलानां भवेदन्तः परितो नेमिरङ्गुलात् (?) । एकहस्तस्य
कुण्डस्य वर्धयेत्तत्क्रमात्सुधीः ॥ ११ ॥

प्. १४९) दशहस्तान्तमन्येषामर्धाङ्गुलवशात् पृथक् ।
कामिकैकांशतः प्रोक्तः कण्ठः काम्यपरस्तु सः ॥ १२ ॥

इत्याह कश्चिदुभयोर्विकल्पः परमार्थतः । मेखलैका च द्वे
त्रिस्रो भूतसंख्या यथेच्छया ॥ १३ ॥

कुर्याद्योन्यादिकुण्डेषु तत्तत्कुण्डानुरूपतः । जिनांशेन
विभक्ते ताः व्यासे तिस्रस्तु मेखलाः ॥ १४ ॥

चतुस्त्रीक्षणभागैः स्युर्नवर्तुदहनोन्नताः ।
केचिद्विस्तारतौल्येन ह्युन्नतत्वं वदन्ति वै ॥ १५ ॥

कुण्डानां यादृशं रूपं मेखलानां तु तादृशम् ।
कुर्यात्सर्वत्र कुण्डेषु तिस्रः सर्वत्र शोभनाः ॥ १६ ॥

षडर्व्ध्यशोच्चविस्तारा विज्ञेयात्वेकमेखला ।
द्वयोर्मेखलयोर्मानमाद्योर्मेखलयोर्यथा ॥ १७ ॥

मेखलाः पञ्चधा कार्याः षट्पञ्चाधि त्रिपक्षकैः ।
भागैर्विस्तारिताज्ञेया उन्नताद्या नवाङ्गुलैः ॥ १८ ॥

नवांशानां पञ्मोंश स्तन्न्यूनैश्चतुरंशकैः । द्वितीया
चोन्नता द्वाभ्यामूनैस्तैश्च परा मता ॥ १९ ॥

त्रिभिरूनैश्चतुर्थीस्यादवशिष्टैस्तु पञ्चमी । शारदातिलके
तासां मानं यत्तदिहोच्यते ॥ २० ॥

उत्सेधायामतो मुष्टौ त्वेकार्धाङ्गुलसम्मिताः । अरत्निमाने
कुण्डे तास्तिथ्येकाङ्गुल सम्मिताः ॥ २१ ॥

एकहस्तमिते कुण्डे वेदाग्निनयनाङ्गुलाः । कुण्डे द्विहस्ते ता
ज्ञेया रसवेदगुणाङ्गुलाः ॥ २२ ॥

चतुर्हस्ते तु कुण्डे ता वसुतर्कयुगाङ्गुलाः । कुण्डे रसकरे
तास्तु दशाष्टार्थाङ्गुलान्विताः ॥ २३ ॥

वसुहस्तमिते कुण्डे मनुपंक्त्यष्टकाङ्गुलाः । दशहस्तमिते
कुण्डे मनुभानदशाङ्गुलाः ॥ २४ ॥

विस्तारोप्सेधतोज्ञेया मेखलास्तन्त्रवेदिभिः । दिव्य सारस्वते
ग्रन्थे मानमुक्तमितोऽन्यथा ॥ २५ ॥

प्. १५०) सात्त्विकी मेखला पूर्वा सोन्नता द्वादशाङ्गुलैः ।
द्वितीया राजसी ज्ञेया मेखलाष्टाङ्गुलोच्छ्रिता ॥ २६ ॥

तृतीया तामसी प्रोक्ता मेखला चतुरङ्गुला ।
पृथग्विस्तारमेतासु चतुरङ्गुलमानतः ॥ २७ ॥

प्रागग्नियाम्य कुण्डानां प्रोक्ता योनिरुदङ्मुखा । दक्षस्था
पूर्वयाम्ये तु जलस्था पश्चिमोत्तरे ॥ २८ ॥

नवमस्यापि कुण्डस्य योनिर्दक्षिण दिक्स्थिता । शेषाणां
प्राङ्मुखा प्रोक्तेत्यादावेवं प्रतीयते ॥ २९ ॥

यिनिकुण्डे योनिमब्जकुण्डे नाभिं च वर्जयेत् । प्रागग्नीत्यादि
यत्प्रोक्तं सावकाशं तदन्यतः ॥ ३० ॥

तथाहि चतुरस्रस्य सर्वास्वाशासु बोधनात् । सर्वार्थ साधकं
यस्माच्चतुरस्रमुदाहृतम् ॥ ३१ ॥

मेखला मध्यतो योनिः कुण्डस्यार्धांशमानतः । आयता
विस्तृता त्र्यंशैश्चतुर्विंशांशमानतः ॥ ३२ ॥

उन्नता तावदंशेन कृताग्रा कुण्ड मध्यतः । प्रविष्टेवेति
वक्राग्रा जिनांशकृतमेखला ॥ ३३ ॥

मेखलार्थं पृथग्भूमिर्नग्राह्या किन्तु मध्यतः ।
योनिक्षेत्रस्य संग्राह्या मूले कुम्भद्वयोपमा ॥ ३४ ॥

अग्रे संकोचमापन्ना यद्वाश्वत्थदलाकृतिः ।
मुष्ट्यरत्न्येकहस्तानां कुण्डानामथवा भवेत् ॥ ३५ ॥

षट्चतुर्द्व्यङ्गुलायाम विस्तारोन्नतिशालिनी । एकाङ्गुलं तु
योन्यग्रं कुर्यादीषदधोमुखम् ॥ ३६ ॥

एकैकाङ्गुलतो योनिं कुण्डेष्वन्येषु वर्धयेत् ।
यवद्वयक्रमेणैव तदग्रमपि वर्धयेत् ॥ ३७ ॥

योनेरन्तर्विलं स्रुग्वद्घृतस्य क्षरणक्षमम् । स्थलादारभ्य
नालं स्याद्योनिमूलस्य धारणम् ॥ ३८ ॥

नालमेखलयोर्मध्ये परिधेः स्थापनाय च । रन्ध्रं
कुर्यात्तथा विद्वान् द्वितीयमेखलोपरि ॥ ३९ ॥

प्.१५१) कुण्डानां कल्पयेदन्तर्नाभिमम्बुज सन्निभाम् ।
तत्तत्कुण्डानुरूपां वा मानमस्य (स्या) निगद्यते ॥ ४० ॥

कुण्डार्क्कांशसमुच्छ्राया कुण्डाष्टांशैश्च विस्तृता ।
तावद्भिरायताप्यंशैर्नाभिरुक्ता मनीषिभिः ॥ ४१ ॥

मुष्ट्यरत्न्येकहस्तानामथवोत्सेधतावतः । नेत्रवेदाङ्गुलोपेता
कुण्डेष्वन्येषु वर्धयेत् ॥ ४२ ॥

यवद्वयक्रमेणैव नाभिं पृथगुदारधीः । नाभिक्षेत्रं
त्रिधा कृत्वा मध्ये कृत्वा तु कर्णिकाम् ॥ ४३ ॥

बहिरंशद्वयेनाष्टौ दलानिपरिकल्पयेत् । पत्राग्राणि ततः
कुर्यात् सम्पूर्णं कुण्डलक्षणम् ॥ ४४ ॥

अत्राहुत्यनुसारेण कुण्डलक्षणमीरितम् । मुष्टिमानमितं
कुण्डं शतार्धे संप्रचक्षते ॥ ४५ ॥

शतहोमेऽरत्निमात्रं हस्तमात्रं सहस्रके । द्विहस्तमयुते लक्षे
चतुर्हस्तमुदीरितम् ॥ ४६ ॥

षढस्तं दशलक्षे च कोट्यामष्टकरं स्मृतम् ।
एकहस्तमितं कुण्डमेकलक्षे विधीयते ॥ ४७ ॥

लक्षाणां दशकं यावत्तावद्धस्तेन वर्धयेत् ।
दशलाक्षाच्च आकोटेर्दशहस्तं विधीयते ॥ ४८ ॥

कोटि संख्यामिताद्धोमान्नास्ति होमोऽधिकोऽपरः ।
दशहस्तमितात्कुण्डान्न कुण्डं त्वधिकं भवेत् ॥ ४९ ॥

पुरष्क्रियादौ सर्वत्र चतुरस्रं प्रयोजकम् । यतस्तदुक्तं
सर्वेषां सर्वसिद्धिकरं बुधैः ॥ ५० ॥

अपि योन्यादिकुण्डानां प्रसङ्गादेव कीर्त्तनम् । द्विहस्तादिषु
कुण्डेषु केचिदाहुरिहोल्वणाः ॥ ५१ ॥

द्विहस्तादिमितं ब्रह्मसूत्रं कृत्वा द्विकोणके । विधाय तत्र
योन्यादि कुण्डान्यन्यानि कारयेत् ॥ ५२ ॥

कतिहस्ता त्वियं शालेत्येवं प्रश्ने कृते परः । आहेयं
दशहस्तेति लौकिकं हि निदर्शनम् ॥ ५३ ॥

प्. १५२) तदसद्द्विकरं कुण्डमित्यादौ तददर्शनात् ।
आकांक्षाविरहादेव त्वध्याहारो न युज्यते ॥ ५४ ॥

दशहस्तेति यच्चोक्तं प्रस्तावात्तत्तथोच्यते । द्विहस्तमयुते
कुण्डमित्यादौ नैव दृश्यते ॥ ५५ ॥

प्रस्ताव आयतेर्वापि विस्तारस्याथवा ततः । द्विहस्तं
कुण्डमित्यादिरुपदेशोऽयमुच्यते ॥ ५६ ॥

किन्तुक्षेत्रफलस्यैव द्वैगुण्याद्यवधार्यते । इत्यस्मत्सम्मतः
पक्षस्तत्प्रकारोऽथ कथयते ॥ ५७ ॥

हस्तक्षेत्रे चतुर्विंशत्यङ्गुलं मध्यसूत्रकम् । अङ्गुलानि
त्रयस्त्रिंशद्यव सप्तक संयुताः ॥ ५८ ॥

चतस्रस्तु तथा यूकाः सार्धं लिख्याचतुष्टयम् । द्विहस्ते
मध्यसूत्रे तु मानमेवं त्रिहस्तके ।
तन्मानमङ्गुलानेकचत्वारिंशच्चतुर्यवाः ॥ ५९ ॥

यूकाचतुष्टयं किञ्चिदूनं लिख्याचतुष्टयम् । चतुष्करे
चाष्ट चत्वारिंशतङ्गुलकं च तत् ॥ ६० ॥

अङ्गुलानि त्रिपञ्चाशद्विलिख्योनाश्च षड्यवाः । पञ्चहस्ते तु
तन्मानं षट्करे क्षेत्र उच्यते ।
तन्मूलमष्टपञ्चाशदङ्गुलानि च षड्यवाः ॥ ६१ ॥

किञ्चिद्भागाधिकं यूकाद्वयं सप्तकरस्य तु । मूलं
चतुर्यवैः साकं त्रिषष्टिश्चाङ्गुलान्यपि ॥ ६२ ॥

अङ्गुलानि तथा सप्तषष्टिः सप्तयवाः पुनः । किञ्चिदूना
मध्यसूत्रमष्टहस्तस्य तूच्यते ॥ ६३ ॥

द्वासप्ततिरङ्गुलानि मूलं नवकरे मतम् । दसहस्तमिते कुण्डे
तन्मूलं मध्यसूत्रकम् । वर्धयेत्पञ्चसप्तत्याङ्गुलैः
सप्तयवैस्तथा ॥ ६४ ॥

अल्पाधिकाभ्यां लिख्या (?) भ्यां साकमेवं प्रकीर्त्तितम् ।
अतियत्नेन कुण्डानि द्विकरादीनि कल्पयेत् ॥ ६५ ॥

प्. १५३) निर्माणं दुर्घटं यस्माद्द्विहस्तादिस्वरूपिणाम् ।
कुण्डस्य रूपं जानीयात् परमं प्रकृतेर्वपुः ॥ ६६ ॥

प्राच्यां शिरः समाख्यातं बाहूदक्षिणसौम्ययोः । उदरं
कुण्डमित्युक्तं योनिः पादौ तु पश्चिमे ॥ ६७ ॥

अष्टादश स्युः संस्काराः कुण्डानां तत्र देशिताः ।
वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् ॥ १ ॥

तेनैव ताडनं दर्भैर्वर्मणाभ्युक्षणं मतत् । अस्त्रेण
खननोद्धारौ हृन्मन्त्रेण प्रपूरणम् ॥ २ ॥

समीकरणमन्त्रेण वर्मणाभ्युक्षणं मतम् । कुट्टनं
हेतिमन्त्रेण वर्ममन्त्रेण मार्जनम् ॥ ३ ॥

विलेपनं कलारूपकल्पनं तदनन्तरम् । त्रिसूत्रीकरणं
पश्चाद् हृदयेनार्चनं मतम् ॥ ४ ॥

अस्त्रेण वक्त्रीकरणं हृन्मन्त्रेण कुशैः शुभैः ।
चतुष्पथं तनुत्रेण तत्त्वया दक्षपाटनम् ॥ ५ ॥

यागे कुण्डानि संस्कुर्यात् संस्कारैरेति (भि) रीरितैः । अथवा
तानि संस्कुर्याच्चतुर्भिर्वीक्षणादिभिः ॥ ६ ॥

निबन्धान् विविधान् दृष्ट्वा सारमुद्धृत्य सर्वतः ।
कुण्डादिविधिरत्रोक्तो दध्नो घृतमिवादरात् ॥ ७ ॥

अथ हस्तवितस्त्यादि ज्ञानाय प्रतिपाद्यते । अङ्गुलादि विभागाय
प्रकारः शास्त्रबोधितः ॥ १ ॥

तत्रास्ति विमतिर्बह्वी वादिनां शारदादिषु ।
कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलि पर्वणः ॥ २ ॥

त्रसरेणुरनुरेणुर्वाणाग्रं लिख्यया सह । यूकायवोङ्गुलमिति
क्रमादष्टगुणात्मकम् ॥ ३ ॥

जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्
प्रमाणानां त्रसरेणुं प्रचक्षते ॥ ४ ॥

त्रसरेणुस्तु विज्ञेयो योऽष्टौ स्युः परमाणवः ।
कृतमुष्टिकः प्रकोष्ठो मुष्टी रत्निरिहोच्यते ॥ ५ ॥

कर-एव कलांशेन हीनो रत्निरुदाहृतः । तदुक्तं
नामलिङ्गानामनुशासनसंग्रहे ॥ ६ ॥

प्रकोष्ठो विस्तृतकरो हस्तोमुष्ट्या च बद्धया । सरत्निः
स्यादरत्निः स निः कनिष्ठेन मुष्टिना ॥ ७ ॥

वस्तुतः परीषिष्टादेः स्मृतित्वात् स्मार्तकर्मणि ।
तदुक्तमङ्गलं विद्यादागमोक्तेषुकर्मसु । शारदाद्युक्तविधिना
विद्याद्धस्तादि लक्षणम् ॥ १ ॥

पञ्चरात्रे तथाचोक्तं हस्तादीनां तु लक्षणम् ।
आचार्यदक्षिणकरे मध्यमाङ्गलिमध्यमे । पर्वणोरन्तरं
दैर्घ्यं मात्राङ्गुलमुदाहृतम् ॥ २ ॥

परमाणुक्रमात् प्रोक्तो यवोऽष्टगुणितोङ्गुलः । मध्यस्य
दैर्घ्यमानेन मात्राङ्गुलमुदाहृतम् ॥ ३ ॥

छन्दोगपरिशिष्टे यदङ्गुलस्य तु लक्षणम् ।
अङ्गुष्ठाङ्गुलमानं तु यत्रयत्रोपदिश्यते । तत्र तत्र
बृहत्पर्वग्रन्थिभिर्मिनुयात् सदा ॥ ४ ॥

तथा कात्यायनेनापि उक्तमङ्गुल लक्षणम् । अङ्गुलस्य प्रमाणं
तु षड्यवाः पार्श्वसम्मिताः ॥ ५ ॥

इदमप्यभियुक्तानां वचः सकल सम्मतम् ।
मध्याङ्गलीकूर्परयोर्मध्ये प्रामाणिकः करः ॥ ६ ॥

रत्निरङ्गुष्ठपर्वाणि संख्याया चैक विंशतिः ।
दशत्वङ्गुष्ठपर्वाणि प्रादेशः परिकीर्तितः ॥ ७ ॥

एवं विकल्प्य सिद्धान्तान् पुरश्चरण चन्द्रिकाम् । कुर्वताऽत्रैष
सिद्धान्तः कृतो हस्तादिकर्मणि ॥ ८ ॥

सिद्धान्तः कल्पकारस्य वाक्यादत्र भविष्यति । कल्पकृद्वचनं
साक्षाद्दृष्टवेदोपजीवकम् ॥ ९ ॥

स्मृतिकाराः स्मृतिं चक्रुरनुमायागमं ततः । समस्ते
प्रपदस्ते (स्थे) वा यः स्यादूर्ध्वकरेण वै ॥ १० ॥

प्. १५७) पञ्चमोंऽशः स हस्तः स्यात् जिनांशस्तस्य चाङ्गुलम् ।
लवोष्टमोयवस्तस्य प्रोक्तं हस्तादि लक्षणम् ॥ ११ ॥

अङ्गुलं तु भवेन्भानं वितस्तिर्द्वादशाङ्गुलम् । तद्द्वयं
हस्तमुदितं तत् किन्त्विति मतं परम् ॥ १२ ॥

अनयोर्विषयः प्रोक्तस्तत्रैवाङ्गुलयोर्यथा । यागोपकरणं
सर्वं कुर्यान्मात्राङ्गुलेन वै ॥ १३ ॥

होमाङ्गानि स्रुवादीनि कुण्डमुष्ट्यङ्गुलानि च । मानाङ्गुलेन
कुर्वीत यथाशास्त्रं विचक्षणः ॥ १४ ॥

कर्मणामथ सर्वेषां किष्कुरेवाथवा मतः ।
इत्याहुस्तत्त्वसिद्धान्त सारसंभारवेदिनः ॥ १५ ॥

अङ्गुलारत्निमुष्ट्यादि याजमानमिहोच्यते । नाचार्यस्य
नवान्येषामृत्विजां विद्यते कदा ॥ १६ ॥

छन्दोगपरिशिष्टे यत्प्राह कात्यायनो मुनिः ।
मानक्रियायामुक्तायामनुक्ते मानकर्तरि । मानकृद्यजमानः
स्याद्विदुषामेव निर्णयः ॥ १७ ॥

प्रकल्पयेत् स्रुचं यागे वक्ष्यमाणेन वर्त्मना ।
कारस्करेष्वामलकी पलाशखदिरेष्वपि ॥ १८ ॥

श्रीपर्णा शिंशपा शीरशाखिष्वेकतमं बुधः । गृहीत्वा
विभजेद्धस्तमात्रं षट्त्रिंशता पुनः ॥ १९ ॥

विंशत्यंशैर्भवेदन्तो वेदी तैरष्टभिर्भवेत् ॥ २० ॥

एकांशेन मितः कण्ठः सप्तभागमितं मुखम् ।
वेदीत्र्यंशेन विस्तारः कण्ठस्य परिकीरितः ॥ २१ ॥

अग्रं कण्ठसमानं स्यान्मुखे मार्गं प्रकल्पयेत् ।
कनिष्ठाङ्गुलिमानेन सर्पिषो निर्गमाय वै ॥ २२ ॥

वेदीमध्ये विधातव्या भागेनैकेन कर्णिका । विदधीत
बहिस्तस्या एकांशेनाभितो वटम् ॥ २३ ॥

तस्य खातं त्रिभिर्भागैर्त्तर्वृमर्धांशतो बहिः ।
अंशेनैकेन परितो दलानि परिकपयेत् ॥ २४ ॥

प्. १५८) पत्राण्यपि खनेदेतदूचिरे केचिदु (ल्व) णाः ।
तदत्रानुपदेशेन जाव (य) ते न मनोहरम् ॥ २५ ॥

मेखला मुखवेद्योः स्यात् परितोऽर्धांशमानतः ।
दन्तमूलाग्रयोः कुण्डौ (?) गुणवेदाङ्गुले क्रमात् ॥ २६ ॥

दन्ती युग्मयमांशैः स्यादण्डस्यानाह ईरितः ।
षड्भिरंशैः पुच्छभागो वेद्याः कूर्माकृतिर्भवेत् ॥ २७ ॥

हंसस्य वा हस्तिनो वा पत्रिणो वा मुखं लिखेत् । मुखस्य
पृष्ठभागेऽस्याः संप्रोक्तं लक्षणं स्रुचः ॥ २८ ॥

स्रुचश्चतुर्विंशतिभिर्भागैरारचयेत् स्रुवम् ।
द्वाविंशत्यादण्डमानमंशैरेतस्य कीर्तितम् ॥ १ ॥

चतुर्भिरंशैरानाहः कर्षाज्यग्र(ग्रा) हितच्छिरः ।
अंशद्वयेन निखनेत् पङ्के मृगपदाकृतिम् ॥ २ ॥

दण्डमूलाग्रयोर्गुण्डी भवेत्कङ्कणभूषिता । स्रुवस्य
लक्षणं प्रोक्तं सर्वतन्त्रानुसारतः ॥ ३ ॥

सुवर्णरूप्यताम्रैर्वा यद्वा लोहेन कल्पयेत् । स्रुक्स्रुवौ
विधिवद्विद्वानिति फेत्कारिणीमतम् ॥ ४ ॥

मूले हानिकरं प्रोक्तं मध्ये शोककरं तथा । अग्रे
व्याधिकरं प्रोक्तं स्रुवं धारयते कथम् ॥ ५ ॥

चतुरलंङ्ग परित्यज्याग्रे चैव द्विरष्टकम् । चतुरलंङ्गु तु
तन्मध्ये धारयेच्छंखमुद्रया ॥ ६ ॥

हीयते यजमानो वै स्रुवमूलस्य दर्शनात् ।
तस्मात्सङ्गोपयेन्मन्त्री होमकाले यथाविधि ॥ ७ ॥

उत्तानेनैव हस्तेन अङ्गुष्ठाग्रेण पीडितम् ।
संहताङ्गुलिपाणिस्तु वाग्यतो जुहुयाद्धविः ॥ ८ ॥

पलाशपत्रे निश्छिद्रे रुचिरे स्रुक्स्रुवौमुने । कुर्यादश्वत्थपत्रे
वा संक्षिप्ते होमकर्मणि ॥ ९ ॥

ततः प्रयोगान् कुर्वीत सिद्धवत् कथितान् पुरा ।
इदानीमभिधास्येऽत्र सम्यक् षट्कर्मलक्षणम् ॥ १० ॥

सर्वतन्त्रानुसारेण प्रयोगफलसिद्धिदम् । शान्तिवश्यस्तम्भनानि
द्वेषणोच्चाटने ततः । मारणान्तानि शंसन्ति षट्कर्माणि
मनीषिणः ॥ ११ ॥

प्. १६०) रोगकृत्याग्रहादीनां निराशः शान्तिरीरिता ।
वश्यंजनानां सर्वेषां विधेयत्वमुदीरितम् ॥ १२ ॥

प्रवृत्तिरोधः सर्वेषां स्तम्भनं समुदाहृतम् । स्निग्धानां
द्वेषजननं मिथो विद्वेषणं मतम् ॥ १३ ॥

उच्चाटनं स्वदेशादेर्भ्रंशनं परिकीर्तितम् । प्राणिनां
प्राणहरणं मारणं समुदाहृतम् ॥ १४ ॥

स्वदेवतादिक्कालादीन् ज्ञात्वा कर्माणि साधयेत् । रतिर्वाणी
रमा ज्येष्ठा दुर्गा काली यथा क्रमात् । षट्कर्मदेवताः
प्रोक्ताः कर्मादौ ताः प्रपूजयेत् ॥ १५ ॥

ईशचन्द्रेन्द्रनिर्-ऋतिर्वाय्वग्नीनां दिशोमताः । सूर्योदयं
समारभ्य घटिकादशशः क्रमात् । ऋतवः स्युर्वसन्ताद्या
अहोरात्रं दिने दिने ॥ १६ ॥

वसन्तग्रीष्मवर्षाभ्यः शरधेमन्तशैशिराः । हेमन्तः
शान्तिके प्रोक्तो वसन्तो वश्यकर्मणि ॥ १७ ॥

शिशिरे सम्मानं ज्ञेयं विद्वेषे ग्रीष्म ईरितः ।
प्रावृडुच्चाटने ज्ञेया शरन्मारण कर्मणि ॥ १८ ॥

पद्माख्यं स्वस्तिको भूयो विकटं कुक्कुटं तथा । वक्रकं
भद्रमित्याहु रासनानि मनीषिणः ॥ १९ ॥

जानुजङ्घान्तराले तु भुजयुग्मं प्रकाशयेत् ।
विकटासनमेतत्स्यादुपविश्योत्कटासने ॥ २० ॥

कृत्वोत्कटासनं पूर्वं समपादद्वयं ततः । अन्तर्जानु
करद्वन्द्वं कुक्कुटासनमीरितम् ॥ २१ ॥

गुल्फौ च वृषणस्याधः सीरण्या (सीवन्याः) पार्श्वतोन्यसेत्
। पार्श्वपादौ च पाणिभ्यां बद्धं भद्रासनं भवेत् ॥ २२ ॥

अन्यानि स्वस्तिकादीनि पुरा प्रोक्तानि वै क्रमात् । षड्मुद्राः
क्रमतो ज्ञेयाः पद्मपाशगदाह्वयाः ॥ २३ ॥

मुसलाशनि खड्गाख्यास्ताः पुरोक्ता यथाक्रमात् ।
पद्मपाशादिका मुद्राः कथ्यतेऽशनि लक्षणम् ॥ २४ ॥

प्. १६१) कनिष्ठाङ्गुष्ठ युङ्मुद्रा त्रिकोणात्वशनिर्भवेत् ।
जलं शान्तिविधौ शस्तं वश्ये वह्निरुदीरितः ॥ २५ ॥

स्तम्भने पृथिवी ज्ञेया विद्वेषे व्योमकीर्त्तितम् । उच्चाटने स्मृतो
वायुर्भूयोऽग्निर्मारणे मतः ॥ २६ ॥

तत्तद्भूतोदये सम्यक् तत्तन्मण्डल संयुतम् ।
तत्तत्कर्मविधातव्यं मन्त्रिणा निशितात्मना ॥ २७ ॥

दण्डाकारागतिर्भूमेः पुटयोरुभयोरधः । तोयस्य
पावकस्योर्ध्वं गतिस्तिर्यङ्नभस्वतः ॥ २८ ॥

गतिर्व्योम्नो भवेन्मध्ये भूतानामुदयः स्मृतः । धरणेरुदये
कुर्यात् स्तम्भनं वश्यमात्मवित् ॥ २९ ॥

शान्तिकं पौष्टिकं कर्म तोयस्य समये वसोः । मारणादीनि
मरुतो विपक्षोच्चाटनादिकम् ॥ ३० ॥

क्ष्वेडादिनाशनं शस्तंमुदये च विहायसः । भूतानामुदयः
प्रोक्तस्तेषां वक्ष्यामि मण्डलम् ॥ ३१ ॥

वृत्तं दिवस्तत्षड्बिन्दुलाञ्छितं मातरिश्वनः । त्रिकोणं
स्वस्तिकोपेतं वह्नेरर्धेन्दुसंयुतम् ॥ ३२ ॥

अम्भोजमम्भसो भूमेः चतुरस्रं सवज्रकम् ।
तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधाः ॥ ३३ ॥

वर्णैस्तैरञ्चितान्याहुः स्वस्वनामावृतान्यपि । स्वच्छं
वियन्मरुत्कृष्णो रक्तोऽग्निर्विशदं पयः ॥ ३४ ॥

पीता भूमिः पञ्चभूतान्येवमुक्तानि रूपतः । वर्णाः
प्रोक्ताः पुरातेषां कुलाकुलपरीक्षणे ॥ ३५ ॥

शीतांशुसलिलक्षोणीव्योमवायुहविर्भुजाम् । वर्णाः
स्युर्यन्त्रबीजानि षट्कर्मसु यथाक्रमम् ॥ ३६ ॥

ग्रथनं च विदर्भश्च सम्पुटो रोधनं तथा । योगः पल्लव
इत्येते विन्यासाः षट्सु कर्मसु ॥ ३७ ॥

मन्त्रार्णान्तरितान् कुर्यान्नामवर्णान् यथाविधि । ग्रथनं
तद्विजानीयात्प्रशस्तं शान्तिकर्मणि ॥ ३८ ॥

प्. १६२) मन्त्रार्णद्वन्द्वमध्यस्थं साध्यनामाक्षरं लिखेत् ।
विदर्भ एषु (ष) विज्ञेयो मन्त्रिभिर्वश्यकर्मणि ॥ ३९ ॥

आदावन्ते च मन्त्रः स्यान्नाम्नोऽसौ सम्पुटो मतः । एष
संस्तम्भने शस्त इत्युक्तं मन्त्रवेदिभिः ॥ ४० ॥

नाम्न आद्यन्तमध्येषु मन्त्रः स्थाद्रोधनं मतम् ।
विद्वेषणविधानेषु प्रशस्तमिदमीरितम् ॥ ४१ ॥

मन्त्रस्यान्ते भवेन्नाम योगः प्रोच्चाटने मतः । अन्ते नाम्नो
भवेन्मन्त्रः पल्लवो मारणे मतः ॥ ४२ ॥

सितरक्तपीतमिश्रकृष्णधूमाः प्रकीर्त्तिताः । वर्णतो
मन्त्रसम्प्रोक्ता देवताः षट्षु कर्मसु ॥ ४३ ॥

पञ्चमी च द्वितीया च तृतीया सप्तमी तथा ।
बुधेज्यरविसंयुक्ता शान्तिकर्मणि पूजिता ॥ ४४ ॥

गुरुचन्द्रयुता षष्ठी चतुर्थी च त्रयोदशी । सप्तमी
पौष्टिके शस्ता अष्टमी नवमी तथा ॥ ४५ ॥

दशम्येकादशी चैव भानुशुक्रदिनान्विता ।
आकर्षणेत्वमावास्या नवमी प्रतिपत्तथा ॥ ४६ ॥

पौर्णमासी चन्द्रभानुयुता विद्वेष कर्मणि । कार्ष्णी
चतुर्दशीतद्वदष्टमी मन्दतारका ॥ ४७ ॥

उच्चाटने तेऽतिशस्ताः प्रदोषेषु विशेषतः ।
चतुर्दश्यष्टमी कृष्णा अमावास्या तथैव च ॥ ४८ ॥

नन्दा चार्कदिनोपेता पञ्चमी सप्तमी तथा । पौर्णमासी च
विज्ञेया तिथिः स्तम्भनकर्मणि ॥ ४९ ॥

शुभग्रहे शुभं कुर्यादशुभान्यशुभोदये । रौद्रकर्मणि
रिक्तार्के मृत्युयोगे च मारणम् ॥ ५० ॥

मन्त्राणां लिखनद्रव्यं चन्दनं रोचना निशा ।
गृहधूमश्चिताङ्गारो मारणेऽष्टविषाणि च ॥ ५१ ॥

श्येनाग्निनोनपिन्तानि धत्तूरकरसन्तथा ।
गृहधूमास्त्रिकटुकं विषाष्टकमुदाहृतम् ॥ ५२ ॥

प्. १६३) देवताकालमुद्रादीन् ज्ञात्वा सम्यग्विचक्षणः ।
षट्कर्माणि प्रयुञ्जीत यथोक्तफलसिद्धये ॥ ५३ ॥

षट्कर्मणां बहिर्भूते कुर्यात्कर्माणि मन्त्रवित् । शान्तिकस्य
विधानानीत्यूचिरे साम्प्रदायिकाः ॥ ५४ ॥

कर्मणा प्रबलेनैव प्रतिबन्धे विरोधिना । यदि सिद्धिं न लभते
द्विस्त्रिर्वा पुनराचरेत् ॥ ५५ ॥

दैवेनोपहतोऽत्यन्तमैहिकानि न कारयेत् । नापराधोऽस्त्यत्र
किञ्चिदुपहासमवाप्नुयात् ॥ ५६ ॥

अथातः संप्रवक्ष्यामि मन्त्रांस्तन्त्रेषु गोपितान् ।
प्रसिद्धानप्रसिद्धांश्च नीलसारस्वतादिकान् ॥ १ ॥

दक्षिणामूर्त्तितन्त्रोक्तानपि फेत्कारिणीगतान् ।
तत्तत्प्रसिद्धविविधप्रबन्धपटलस्थितान् ॥ २ ॥

न ब्रवीमि तथा कांश्चित्साधकालस्यकारणात् । आदौ
त्रिपुरभैरव्या वाग्भवं बीजमुद्धरेत् ॥ ३ ॥

तारेण परमां देवीं सम्पुटीकृत्यमन्त्रवित् ।
सरस्वत्यैनमश्चान्ते रुद्रसंख्याक्षरो मनुः ॥ ४ ॥

ऋषिःस्याद्दक्षिणामूर्तिः छन्दोगायत्रमीरितम् ।
पारिजातेश्वरी वाणी देवता समुदीरिता ॥ ५ ॥

अत्रिर्वरुणसंरुद्धोदवाग्वादिनि च द्वयम् । वागीश्वर्या
दशार्णोऽयं मन्त्रो वाग्विभवप्रदः । ऋषिः कण्वोविराट्
छन्दो देवता वाक् समीरिता ॥ ६ ॥

हृदयान्ते भगवति वदशब्दद्वयं तथा । वाग्देवि
वह्निजायान्तं वाग्भवाद्यं समुद्धरेत् । मनुं
षोडशवर्णाढ्यं वागैश्वर्यफलप्रदम् ॥ ७ ॥

तारो मायाधवोबिन्दुशक्तिस्तारं सरस्वती । ङेन्तानत्यन्तिको
मन्त्रः प्रोक्त एकादशाक्षरः ॥ ८ ॥

वाचस्पतेऽमृते भूयः प्लूवः प्लूरिति कीर्तयेत् । वागाद्यो
मुनिभिः प्रोक्तो रुद्रसंख्याक्षरो मनुः ॥ ९ ॥

तोयस्थं शयनं विष्णोः सकेवलचतुर्मुखम् । बिन्दुर्घांशयुतो
वह्निः बिन्दुसद्याम्बुवान् भृगुः । उक्तानि त्रीणि बीजानि सद्भिः
सारस्वार्थिनाम् ॥ १० ॥

प्. १६५) [वाग्भवं वामनेत्रं च बिन्दुमद्भुवनेश्वरी । उक्तानि
त्रीणि बीजानि ऋष्याद्येतस्य पूर्ववत् ॥ ११ ॥

शक्तिमादौ समुद्धृत्य त्रीङ्कारं च ततो वदेत् । दीर्घं
तनुच्छदं चान्ते नीलसारस्वतो मनुः] ॥ १२ ॥

तारादिकः फडन्तोऽसावुक्तस्तारामनुः पृथक् । तारहीनः
फडन्तश्चेदुक्ता चैकजटा पृथक् ॥ १३ ॥

कथ्यते ऋषिरक्षोभ्यो बृहतीच्छन्द ईरितम् । देवता देशिकैरत्र
कथितैव यथाक्रमात् ॥ १४ ॥

लज्जायुगं वधूबीजं ततो दीर्घं तनुच्छदम् । सारस्वतोऽपरो
मन्त्रः कथितश्चतुरक्षरः ॥ १५ ॥

तदन्ते यदि फट्कारो मनुःपञ्चाक्षरोऽपरः ।
तारशक्तिवधूबीजान्यन्ते दीर्घं तनुच्छदम् ॥ १६ ॥

अस्त्रमग्निवधूरन्ते मनुः सप्ताक्षरोऽपरः । मन्त्रशास्त्रेषु
संप्रोक्तस्तथा दीर्घेण वर्मणा । पुटितं च
वधूबीजमपरोऽसौ गुणाक्षरः ॥ १७ ॥

वकारौ रेफवामाक्षि बिन्दुयुक्तौ त्रितत्त्वफट् । तारं पद्मे
युगं पश्चान्महापद्मे समीरयेत् ॥ १८ ॥

पद्मावति द्विठान्तैकजटा सप्तार्णवर्णयुक् । द्वादशस्वरगो
बिन्दुर्बालाबीजमिदं भवेत् ॥ १९ ॥

वान्तं वह्निसमारूढं वामनेत्रेन्दुसंयुतम् । बीजमेतच्छ्रियः
प्रोक्तं चिन्तारत्नमिवापरम् । ऋषिर्भुगुर्निवृच्छन्दो देवता
श्रीः समीरिता ॥ २० ॥

वाग्भवं वनिता विष्णोर्माया मकरकेतनः । चतुर्बीजात्मको
मन्त्रः चतुर्वर्गफलावहः ॥ २१ ॥

दीर्घामारादिसर्गान्तौ ब्रह्मभानुर्वसुन्धरा । वान्तेसिन्यै
प्रिया वह्नेर्मनुः प्रोक्तो दशाक्षरः । ऋषिर्दक्षो विराट् छन्दो
देवताः श्रीः समीरिता ॥ २२ ॥

वाग्भवं शम्भुवनिता रमामकरकेतनः । तार्तीयञ्च जगत्
पाशौ वह्निबीज समुज्ज्वलः ॥ २३ ॥

प्. १६६) अर्घांशाढ्यो भृगुस्त्यैहृन्मन्त्रोऽयं द्वादशाक्षरः
। महालक्ष्म्याः समुद्दिष्टस्ताराद्यः सर्वसिद्धिदः ॥ २४ ॥

ऋषिर्ब्रह्मा समुद्दिष्टश्छन्दो गायत्रमीरितम् । देवता
जगतामादिर्महालक्ष्मीः समीरिता ॥ २५ ॥

शम्भुपत्नी श्रिया रुद्धा कामो भगवती मही । ब्रह्मादित्यौ
धरा दीर्घा लक्षादिर्भगवान्मरुत् ॥ २६ ॥

प्रसीदयुगलं भूयः श्रीरुद्धा भुवनेश्वरी । महालक्ष्मि
नमोऽन्तः स्यात् प्रणवादिरयम्मनुः । सप्तविंशत्यक्षराद्यः
प्रोक्तः सर्वसमृद्धिदः ॥ २७ ॥

चन्द्रेशमादलक्ष्मेश बह्निदीर्घाक्षिमण्डितम् ।
बिन्दुध्रुवेश्वरीयुक्तं श्रीबीजपुटितं भवेत् ॥ २८ ॥

ऋषिर्हरिस्तथाछन्दो गायत्री चास्य सम्मता । देवता मोहिनी
लक्ष्मीर्महा साम्राज्यदा भवेत् ॥ २९ ॥

नकुलीशोग्निमारूढो वामनेत्रार्ध चन्द्रवान् । बीजं तस्याः
समाख्यातं सेवितं सिद्धिकांक्षिभिः ॥ ३० ॥

ऋषिः शक्तिर्भवेच्छन्दो गायत्री देवता मनोः । कथिता
सुरसंघेन सेविता भुवनेश्वरी ॥ ३१ ॥

वाग्भवं शम्भुवनिता रमा बीजत्रयात्मकम् । मन्त्रं
समुद्धरेन्मन्त्री त्रिवर्गफलसाधनम् ॥ ३२ ॥

वाग्बीजपुटिता माया विद्येयं त्र्यक्षरी मता ॥ ३३ ॥

अनन्तो बिन्दुसंयुक्तो माया ब्रह्माग्नितारवान् । पाशादित्र्यक्षरो
मन्त्रः सर्ववश्यप्रदायकः । ऋष्याद्याः पूर्वमुक्ताः
स्युर्देवता भुवनेश्वरी ॥ ३४ ॥

तारो माया वर्मबीजमृद्धिरीश्वरसंयुता । कूर्मस्तदन्तो
भगवान् क्षन्त्री (स्त्री) दीर्घंतनुच्छदम् ॥ ३५ ॥

संवर्त्तो भगवान् माया फडन्तो द्वादशाक्षरः । मुनिरर्जुन
आख्यातो विराट् छन्दःसमीरितम् । त्वरिता देवता प्रोक्ता
पुरुषार्थफलप्रदा ॥ ३६ ॥

प्. १६७) कवचं भगवांश्चन्तो मेरुः सर्गसमन्वितः । त्रिकण्ठ
(ण्ट)की समाख्याता विद्या वर्णत्रयात्मिका ॥ ३७ ॥

क्षेरुद्धा स्त्री त्रिवर्णेयं विद्या वश्यत्रिकण्टकी ॥ ३८ ॥

तारो मायावाग्भवान्ते नित्यक्लिन्ने मदद्रवे । * * * * वह्निजायान्तो
मन्त्रः पञ्चदशाक्षरः ॥ ३९ ॥

वाग्भवं मान्मथं बीजं नित्यक्लिन्ने मदौ पुनः । द्रवे
वह्निवधूर्मन्त्रो द्वादशार्णोऽयमीरितः । ऋषिः संमो (ह)
नश्छन्दो निवृन्नित्या च देवता ॥ ४० ॥

वाङ्मायानन्तरं भूयो नित्यक्लिन्ने मदद्रवे । द्विचान्तो
रविसंख्यार्णो मन्त्रोवश्यप्रदायकः ॥ ४१ ॥

अङ्गिराः स्यादृषिस्त्रिष्टुप् छन्दो मुनिभिरीरितम् । वज्र
प्रस्तारिणी प्रोक्ता देवताभीष्ट दायिनी ॥ ४२ ॥

भुवनेशीं समुच्चार्य नित्यक्लिन्ने मदद्रवे । नवाक्षरा च
विद्येयं द्विचान्तोरुद्रवर्णभाग् ॥ ४३ ॥

श्रीमायामदनैः प्रोक्तो मन्त्रोबीजत्रयात्मकः । ऋषिः
सम्मोहनश्छन्दो गायत्रं त्रिपुटेश्वरी ॥ ४४ ॥

पाशाङ्कुशपुटाशक्तिर्झिण्टीशो गगनं मरुत् । परमेश्वरि
शब्दान्ते द्विचान्तः प्रणवादिकः । अश्वारूढो मनुः
प्रोक्तस्त्रयोदशभिरक्षरैः ॥ ४५ ॥

माया हृद्भगवत्यन्ते माहेश्वरि पदं भवेत् । अन्नपूर्णे
ठयुगलं मनुः सप्तदशाक्षरः ॥ ४६ ॥

पराश्रीकामयुगलं तदन्ते भगवत्यथ । माहेश्वरि
ततश्चान्नपूर्णे स्वाहा ध्रुवादिवान् ॥ ४७ ॥

द्विदशार्णो मुनिर्ब्रह्मा पंक्तिश्छन्दोऽभिधीयते ।
अन्नपूर्णेश्वरी सिद्धा देवता समुद्रीरिता ॥ ४८ ॥

माया पद्मावतिपदं ततः पावकवल्लभा । सप्तार्णो
मनुराख्यातः सर्ववश्यप्रदायकः ॥ ४९ ॥

प्. १६८) दान्तावर्घांशबिद्वन्तौ बीजे धूमावति द्विठम् ।
पिप्पलादो मुनिश्छन्दो निवृद्धूमावतीमनुः ॥ ५० ॥

परा ज्वालामुखीत्यन्ते द्विठं सप्ताक्षरो मनुः । मायाऽत्रिः
कर्णबिन्द्वाढ्यो भूयोऽसौ सर्गवान् भवेत् ॥ ५१ ॥

पञ्चान्तकः प्रतिष्ठावान् मारुतो भौतिकासनः । तारादि
हृदयान्तोऽयं मन्त्रो वस्वक्षरात्मकः ॥ ५२ ॥

ऋषिः स्यान्नारदश्छन्दो गायत्री देवता मनोः ।
दुर्गासमीरितासद्भिर्दुरितापन्निवारिणी ॥ ५३ ॥

भान्तं वियत्सनयनं श्वेतो मर्द्ध (र्ग) नि ठद्वयम् ।
अष्टाक्षरी समाख्याता विद्या महिषमर्दिनी ॥ ५४ ॥

तारे दुर्गे युतं रक्तमन्त्योढान्तं सलोचनम् । द्विचान्ता जय
दुर्गेयं विद्या वेद्या दशाक्षरी ॥ ५५ ॥

वदेन्महिषशब्दान्ते हिंसिके कूर्चमुच्चरेत् । अस्त्रं च
वह्निजायान्तो मनुरेष दशाक्षरः ॥ ५६ ॥

ज्वल ज्वलपदस्यान्ते शूलिनिद्वितयं ततः । दुष्टग्रह * * *
मस्त्रान्ते वह्निजायावधिर्मनुः ॥ ५७ ॥

अष्टादशाक्षरैः प्रोक्तो ग्रहक्षुद्रारिनाशकः ।
ऋषिर्दीर्घतमाः प्रोक्तः ककुप् छन्द उदाहृतम् । शूलिनी
देवता प्रोक्ता समस्तसुरवन्दिता ॥ ५८ ॥

उत्तिष्ठपदमाभाष्य पुरुषिस्यात्पदं पुनः । पितामहः
सनेत्रेन्दुः स्वपिषिस्याद्भयं च मे ॥ ५९ ॥

समुपस्थितमुच्चार्य यदिशक्यमनन्तरम् । अशक्यं वा पुनस्तन्मे
वदेद्भगवतिं ततः ॥ ६० ॥

शमयाग्निवधूः सप्तत्रिंशदर्णात्मको मनुः ।
ऋषिरारण्यकश्छन्दोऽप्यत्युनुष्टुबुदाहृतम् । देवता
वनदुर्गाख्या सर्वदुर्गविनाशिनी ॥ ६१ ॥

कामबीजपुटं तारयुगं रामेश्वरीरयेत् । कूर्चयुग्मान्तरे
शक्तिरस्त्रं वह्निवधूर्भवेत् ॥ ६२ ॥

प्. १६९) रामेश्वरीयं ताराद्या विद्या पञ्चदशाक्षरी ।
शक्तित्रितत्त्ववाग्बीजं तारमन्त्रान् समुद्धरेत् ॥ ६३ ॥

वज्रवैरोचनीत्यन्ते भगवान्मारुतो भवेत् । कूर्चमस्त्रं (न्त्रं)
द्विचान्तोऽसौ त्रिशक्तिस्तावदक्षरी ॥ ६४ ॥

तारं ततो वज्रपदं ततो वैरोचनी भवेत् । भगवान्मारुतो
मायायुगं चास्त्रं द्विठं भवेत् । त्रयोदशाक्षरश्चैष
छिन्नमस्तामनुर्भवेत् ॥ ६५ ॥

आदिलक्ष्मी शक्तिकूर्चवाग्बीजानि समुद्धरेत् । वज्रवैरोचनीये
स्यान्मायायुग्मं फडुच्चरेत् ॥ ६६ ॥

वहिजायावधिर्मन्त्रः प्रत्येकं बहुशो भवेत् । बीजैः
पञ्चभिराद्यन्तमध्येषु मिलितैः पृथक् ॥ ६७ ॥

व्यस्तैरनुक्रमोक्तैश्च छिन्नमस्तां प्रकीर्तयेत् । ऋषिः
सम्राडिह प्रोक्तश्छन्दोऽस्या भैरवं भवेत् ॥ ६८ ॥

वियद्भृगुहुताशस्थो भौतिको बिन्दुशेखरः ।
वियत्तदादिकेन्द्राग्निस्थितं वामाक्षि बिन्दुमत् ॥ ६९ ॥

आकाशभृगुवह्निस्थो मनुः सर्गेन्दुखण्वान् । वाग्भवं
प्रथमं बीजं कामबीजं द्वितीयकम् ॥ ७० ॥

तृतीयं शक्तिबीजाख्यं त्रिभिर्बीजैरुदाहृता ।
पञ्चकूटात्मिका विद्या वेद्या त्रिपुरभैरवी ॥ ७१ ॥

ऋषिः स्याद् दक्षिणामूर्तिश्छन्दः पंक्तिः समीरितम् । देवता
देशिकैरुक्ता देवी त्रिपुरभैरवी ॥ ७२ ॥

आद्यन्तौ रेफरहितावन्ते बिन्दुं परित्यजेत् । मध्यमे
चन्द्रबीजाधः शिवबीजमिति क्वचित् ॥ ७३ ॥

कान्तान्तं वान्तसंयुक्तमकुलान्तं च नान्तवत् ।
षट्कूटमेतत्कथितं बिन्दुनादयुतं क्रमात् ॥ ७४ ॥

तारं कामो नमोऽन्तश्चेत्तद्देवी हृदयं भवेत् ।
पूर्वोक्तभैरवीमन्त्रे कामकूटे परा शिवाम् ॥ ७५ ॥

प्. १७०) हित्वोच्चरेत्तदा देवी भैरवी डामरी भवेत् । तारक्ष्मा
मादनं बीजं शिवमत्र त्रिधा भवेत् ॥ ७६ ॥

अर्केण चेन्दुकलया क्रमात्तं मान्ततं कुरु । बिन्दुनादात्मकं
चाद्ययुग्ममन्त्यं विसर्गवत् ॥ ७७ ॥

षट्कूटभैरवी देवी ऋष्यादि त्रिपुरेशिवत् ।
षट्कूटभैरवीवर्णान् संहारक्रमतो लिखेत् ॥ ७८ ॥

तथा सामान्यनित्येयं भैरवी भयहृद्भवेत् ।
डामरेश्वरभैरव्याः कामं हित्वा सुरेश्वरि ॥ ७९ ॥

बिन्दुनादकलाक्रान्तं शक्तिबीजं समालिखेत् । भयविध्वंसिनी
नाम भैरवी समुदाहृता ॥ ८० ॥

पञ्चभिस्त्रिपुराबाणैर्विद्या पञ्चाक्षरी भवेत् । ऋषिरस्यास्तु
मदनो गायत्रं छन्द उच्यते । कामेश्वरीव पुजादि देवता
चेयमीश्वरी ॥ ८१ ॥

अधरो बिन्दुनादाढ्यो ब्रह्मेन्द्रस्थः शशीयुतः । द्वितीयं
भृगुसर्गाढ्यो मनुस्तार्त्तियमीरितम् ॥ ८२ ॥

आदिमादिञ्च मध्यं च मध्यं मध्यं तथान्तिमम् । अन्त्यमन्त्यं
तथादिं च सैव शीघ्रफला भवेत् ॥ ८३ ॥

नवार्णा त्रिपुरेशानी प्रणवेन दशाक्षरी ।
ऋषिःस्याद्दक्षिणामूर्तिश्छन्दः पंक्तिरुदीरितम् । देवता
त्रिपुरेशानी भजतां कामदो मणिः ॥ ८४ ॥

शिवचन्द्राग्निदीर्घाक्षी बिन्दुनादात्मकं ततः ।
चन्द्रेशवह्निवामाक्षिबिन्दुनादमयं भवेत् ॥ ८५ ॥

शक्तिं कलाढ्यमन्त्ये च चतुर्बीजमुदाहृतम् । श्रीबीजं
कुरुतार्त्तीयं विद्या वेदाक्षरी भवेत् ॥ ८६ ॥

शक्तिबीजं वाग्भवे तत् काम बीजन्तु पूर्ववत् । अन्त्यं
शिवसमायुक्तं त्रिपुरेश्या महेश्वरि । इयं तु ललिता देवी
सर्वसौभाग्यदा भवेत् ॥ ८७ ॥

प्. १७१) केवलं कामबीजन्तु कामेशीमनुरुच्यते । ऋषिः कालेऽस्य
मन्त्रस्य गायत्रं छन्दं उच्यते । कामेश्वरी समाख्याता
देवता जगदीश्वरी ॥ ८८ ॥

वदद्वन्द्वं वादिनीति वाङ्मध्ये परिनिःक्षिपेत् । हंसैकं
वाग्भवे देवि नित्यक्लेदिनि चालिखेत् ॥ ८९ ॥

महाक्षोभं कुरुद्वन्द्वं शिवचन्द्रकलानलान् ।
वामाक्षिबिन्दुनादान्तान् तारबीजं ततो लिखेत् ॥ ९० ॥

मोक्षं कुरुयुगं हंसः शक्रस्वरविसर्गवान् । इयं
सञ्जीवनीदेवी ऋषिरस्याः सितो भवेत् । गायत्रं छन्द
आख्यातं देवता जीवनी भवेत् ॥ ९१ ॥

वाग्भवं त्रिपुरेशान्या हित्वा तत् संलिखेत् पुनः ।
कामशक्तिद्वयान्तश्च विद्येयं त्र्यक्षरी भवेत् । त्रिपुरेशीव
ऋष्यादि देवी कामेश्वरी मता ॥ ९२ ॥

प्रणवान्तेङ्कुशयुगं तन्मध्ये च भरें(भवें) लिखेत् ।
चवर्गमन्त्यहीनं तु विलिखेद्वह्निसंस्थितम् ॥ ९३ ॥

चतुर्दशस्वरोपेतं बिन्दुनादाङ्कितं पृथक् । स्वाहान्तो मनुरेष
स्याद् भरेण्डा देवता भवेत् ॥ ९४ ॥

परां विलिख्य वह्न्यन्ते वासिन्यै नम इत्यपि ॥ ९५ ॥

अष्टार्णेयं महेशानी देवता वह्निवासिनी । ऋषिरस्या
वसिष्ठः स्याद्गायत्रं छन्द उच्यते ॥ ९६ ॥

नित्यक्लिन्नां समालिख्य मुखे तारं समालिखेत् । हृल्लेखान्ते
कथं (फरैं) माया चन्द्रबीजं विसर्गवत् ॥ ९७ ॥

चतुर्दशाक्षरी विद्या ऋषिर्ब्रह्मा निगद्यते । छन्दो
गायत्रमित्युक्तं देवीवज्रेश्वरी भवेत् ॥ ९८ ॥

भुवनेशीं समुच्चार्य शिवदूत्यै नमो वदेत् । सप्तार्णा
शिवदूतीयं त्रैलोक्यक्षोभणी भवेत् । रुद्रो मुनिस्तु गायत्री
छन्दोऽस्यां देवतेरिता ॥ ९९ ॥

प्. १७२) जीववारुणताराढ्यं सर्वान्ते मङ्गलापदम् । ङेचान्ते
नम आलिख्य नवार्णा सर्वमङ्गला । ऋषिश्छन्दो महेशानि
गायत्री छन्द उच्यते ॥ १०० ॥

ओङ्कारं बीजमुच्चार्य नमो भगवतीत्यपि । ज्वालामालिनि देवेशि
सर्वभूतान्तिमं लिखेत् । ज्वालामालिन्यसौ प्रोक्ता भजतां
कामदो मणिः ॥ १०१ ॥

शिवश्च चन्द्रजान्ताग्निरुद्रस्वरविभूषिताः । विजयां जयदां
देवीमनेन विधिनोद्धरेत् । ककानुग्रहबिन्द्विन्दु भूषितं
मनुमालिखेत् ॥ १०२ ॥

ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते । विचित्रा देवता
प्रोक्ता भजतां कामदो मणिः ॥ १०३ ॥

वानया पुटितां कुर्यात्तथा वै नित्यभैरवीम् ।
पञ्चबाणा&श्च देवेशि नित्या शक्राक्षरी भवेत् । अन्ये च बहवो
भेदा नोक्ता विस्तरकारणात् ॥ १०४ ॥

मादनं तदधः शक्तिस्तदन्ते बिन्दुमालिनी । ऐन्द्रं च
भुवनेशानीबीजं तद् वाग्भवं भवेत् ॥ १०५ ॥

शिवबीजं त्रिधाकृत्वा सृष्टि स्थितिलयक्रमात् । द्वयमाद्येन
रहितमाद्याधो मदनाक्षरम् ॥ १०६ ॥

परस्थित शिवाधस्तादिन्द्रबीजं नियोजयेत् ।
तथालयशिवाधोऽपि वह्निस्तूर्यस्वरेन्दुमान् । एवमेतन्महाबीजं
कामबीजं महोदयम् ॥ १०७ ॥

मायाबीजं महेशानि मादनं शक्रसंयुतम् । चन्द्रबीजं
केवलं तु विनियोज्य वरानने ॥ १०८ ॥

संहारक्रमयोगेन शक्तिबीजंसमुद्धरेत् । आद्यबीजे स्वरौ
मुक्त्वा शिवशक्ती पुरो वदेत् । श्रीविद्येयं क्वचित्प्रोक्ता देवता
पुरसुन्दरी ॥ १०९ ॥

प्रथमायास्तु विद्यायाः शक्तिं तुर्यञ्च सुन्दरि ॥ ११० ॥

हित्वा मुखे शिवेन्दुभ्यां लोपामुद्रा त्वियं भवेत् । तस्या एव तु
विद्यायास्तार्तीयं सुरवन्दिते ॥ १११ ॥

प्. १७३) स (म) हाद्यं शक्तिबीजं स्याद्विद्यागस्त्येन पूजिता ।
लोपामुद्राप्रभावेण साक्षाद्ब्रह्मस्वरूपिणी ॥ ११२ ॥

उद्धरेदथवा देवीं शक्तिमादनमध्यगम् । शिवं
कुर्याद्वाग्भवे तु शिवाद्यं कामबीजकम् ॥ ११३ ॥

चन्द्राद्यं तु तृतीयं स्याद्विद्येयं मानवी भवेत् । अन्ये च
बहवो भेदा नोक्ता विस्तरकारणात् । ऋषिः
स्याद्दक्षिणामूर्त्तिश्छन्दः पंक्त्याह्वयं भवेत् ॥ ११४ ॥

[जीवः शिवयुगं जीवकान्तकान्ता शिवेन्दु मत् । एतदाद्यं च
मध्यं च हंसयुक्क्ष्माक्षहेन्दुमत् ॥ ११५ ॥

अन्ते तु हलसत्केन्दु क्षहेन्द्वाकाशमण्डितम् । दक्षिणामूर्त्ति
(तन्त्रे तु) त्रिकूटमिदमुक्तवत्] ॥ ११६ ॥

लक्ष्मीमाये पुनस्तारः परा लक्ष्मीः कुमारिका । विद्याव्यस्ता
ततो बाला श्रीः परा षोडशाक्षरी ॥ ११७ ॥

द्वितीयस्यादियुग्मं तु विपरीतं लिखेत्सुधीः । बालां
चान्तर्मुखं कृत्वा विलिखेत्तदनन्तरम् ॥ ११८ ॥

तारं मायां ततो लक्षीं क्रमात्कूटत्रयं लिखेत् । बालया
सम्पुटं कुर्याद्रमाख्या परमेश्वरी ॥ ११९ ॥

चन्द्रान्तं वारुणान्तं च शक्रादिसहितं पृथक् । वामाक्षि
बिन्दुनादान्तमादौ व्यत्यासतो लिखेत् ॥ १२० ॥

अन्तर्मुखा कुमारी च पञ्चभिः पुटितं लिखेत् । षट्कूटं
षोडशार्णेयं प्रोक्ता तन्त्रान्तरे क्रमात् ॥ १२१ ॥

तारमायादिबीजानि विद्या सट्कूटकं भवेत् । ऋष्यादिः
पूर्ववद्भेदा नोक्ता विस्तरकारणात् ॥ १२२ ॥

ब्रह्माचाधारशक्तिश्च कलास्मरपुरन्दराः । एतान् संयोज्य
परत ईश्वरीं योजयेच्छिवे ॥ १२३ ॥

चन्द्रबीजं तदादिस्थं शिवबीजं नियोजयेत् । मादनं
शक्रबीजस्थं योजयेद्भुवनेश्वरीम् ॥ १२४ ॥

शिवबीजं मादनस्थं शक्रषष्ठसमन्वितम् ।
रक्तसप्तमशक्रस्थं मायाबीजं समुद्धरेत् ॥ १२५ ॥

प्. १७४) तुण्डाक्षरीशिवादिस्थं मरुदिन्द्रसमन्वितम् ।
धराधरसुताबीजमेकत्रापि नियोजयेत् ॥ १२६ ॥

वक्त्राच्चतुर्थबीजाधः क्रोधीशं च नियोजयेत् । पिनाकीशं
चन्द्रसंस्थमाकाशं रक्तसंस्थितम् ॥ १२७ ॥

चतुर्थस्वरसंयुक्तं नादबिन्दुविभूषितम् । सर्वमेकत्र संयोज्य
पञ्च पञ्चाक्षरो भवेत् । पञ्चकूटात्मिका विद्या पञ्चमी
परदेवता ॥ १२८ ॥

वाङ्मायाकमलास्तारनमोन्ते भगवत्यथ । श्रीमातङ्गेश्वरि
वदेत् सर्वजनमनोहरि ॥ १२९ ॥

सर्वादिसु (मु) खराज्यन्ते सर्वादिसु (मु) खरञ्जिनि ।
सर्वराजवशं पश्चात् करिसर्वपदं ततः ॥ १३० ॥

स्त्रीपुरुषवशं ब्रह्मानेत्रमग्न्यासनं ततः ।
सर्वदुष्टमृगवशं करि सर्वभृगुस्त्वर ॥ १३१ ॥

शङ्करि स्यात्सर्वलोकममुकं शिव अग्ररिः । वशमानय
जायाग्नेरष्टाशीत्यक्षरो मनुः ॥ १३२ ॥

नमः पाशाङ्कुशौद्वेधा फट् स्वाहा कालिकालिके ।
दीर्घंतनुच्छदं काली मनुः पञ्चदशाक्षरः ॥ १३३ ॥

प्रासादान्ते वदेत्कालि महाकालिपदं वदेत् । कलावक्षियुतौ
द्वेधा तदन्ते च फडुच्चरेत् ॥ १३४ ॥

स्वाहा चतुर्दशार्णोऽयं महाकालीमनुर्भवेत् । लज्जाबीजं
ततः कूर्चं फडन्ता त्र्यक्षरी भवेत् ॥ १३५ ॥

प्रलयाग्नी सरुधिरावूर्ध्वकेशीसमन्वितौ ।
नादविन्दुसमायुक्तावेवं क्रोधद्वयं पुनः ॥ १३६ ॥

गुणाक्षरमनुरसौ कौमार्याः कामदो मणिः ।
उच्छिष्टपदमाभाष्य वदेच्चाण्डालिनीत्यपि ॥ १३७ ॥

तदन्ते सुमुखीदेवीं महायुक्तापिशाचिनीम् । शक्तिबीजं
ततष्टान्तो गुणशः सर्गबिन्दुवा (मा) न् ॥ १३८ ॥

प्. १७५) अथवोच्छिष्टचान्तानि (ण्डालि) मातङ्गिपदमीरयेत् ।
ततः सर्ववशं चान्ते करिहृद्वह्निवल्लभा । एकोनविंशता
वर्णैः सर्वाभीष्टकरो भवेत् ॥ १३९ ॥

शक्तिबीजं त्रिगुणितं भृगुः सर्गयुतोभवेत् ।
महाश्वेतामनुरसौ सम्प्रोक्तश्चतुरक्षरः ॥ १४० ॥

पञ्चान्तकं शशियुतं बीजं गणपतेर्विदुः । गणकः
स्यान्मुनिश्छन्दो निवृद्विघ्नोऽस्य देवता ॥ १४१ ॥

चतुरीयो विलोमेन ध्रुवादिर्बिन्दुसंयुतः । वैघ्नो मन्त्रो
हृदन्तोर्च्चाविधौहोमेहि (द्वि) चा (ठा) न्तिकः ॥ १४२ ॥

श्रीशक्तिस्मरभूविघ्नबीजानि प्रथमं वदेत् । ङेन्तं
गणपतिं पश्चाद्वरान्ते वरदं पदम् ॥ १४३ ॥

उक्त्वा सर्वजनं मेऽन्ते वशमानय ठद्वयम् ।
अष्टाविंशत्यक्षरोऽयं ताराद्यो मनुरीरितः ॥ १४४ ॥

गणकः स्यादृषिश्छन्दो गायत्री निवृदन्विता । इदं
गृहाणवदतो वर्मास्त्रानलवल्लभा । चतुर्दशाक्षरी प्रोक्ता
महाकाली ध्रुवादिका ॥ १४५ ॥

व (क) कारो रक्तवामाक्षिबिन्दुयुक्तस्त्रिधा भवेत् । ततः
कूर्चयुगं मायायुगं स्याद्दक्षिणे पदम् ॥ १४६ ॥

कालिके शक्तयस्तिस्रः तथा दीर्घतनुच्छदौ । शक्तियुगं
द्विठं कालीमनुर्द्वाविंशदक्षरः ॥ १४७ ॥

भैरवो मुनिराख्यातश्छन्दोनुष्टुबिति क्रमात् । हान्तान्तपूर्वो
मान्तश्च लान्तोनान्तस्तथैव च ॥ १४८ ॥

कैकादशः कादिषष्ठः खान्तो विष्णुपुरः सरः ।
एभिरष्टाक्षरैर्मन्त्रं शोणपद्ममिव स्मरेत् ॥ १४९ ॥

ओङ्कारं पूर्वतः कृत्वा जप्यः स्यान्नारदो मुनिः ।
छन्दोऽनुष्टुब्देवता च महामाया मनोर्भवेत् ॥ १५० ॥

तारयुग्मं ततः शक्तिर्वैष्णवीमन्त्रमुद्धरेत् । त्रितनुं
(त्त्वां) तारयोर्मध्ये वाराहीत्यपरा भवेत् ॥ १५१ ॥

प्. १७६) तारो वियदिन्दुरेफमथ (नु) स्वरयुतं भवेत् ।
भुवनेशीति संप्रोक्ता भवान्यास्त्र्यक्षरो मनुः ॥ १५२ ॥

मायावियदिन्दुरेफमनुस्वरयुतं भवेत् । स्वरमस्य परित्यज्य
सर्गयोगात्परो भवेत् ॥ १५३ ॥

महागणपतिः प्रोक्तो देवता देववन्दिता ॥ १५४ ॥

माया विविपदद्वन्द्वं ततो गणपतिं वदेत् । खड्गीशपावकौ
पश्चाद् वरदान्ते वदेत् पुनः ॥ १५५ ॥

सर्वलोकं मे पदान्तं वशमानय ठद्वयम् ।
षड्विंशत्यक्षरोमन्त्रो भजतां सुरपादपः ॥ १५६ ॥

गणकः स्यादृषिश्छन्दो गायत्रं देवता मनोः । वि वि
विघ्नेश्वरः प्रोक्तो भजतां सर्वकामदः ॥ १५७ ॥

शक्तिरुद्धं निजं बीजं महागणपतिं वदेत् ।
ङेऽन्तमग्निवधूः प्रोक्तो मन्त्रोऽयंद्वादशाक्षरः ॥ १५८ ॥

गणकः स्यादृषिश्छन्दो गायत्री निवृदादिका । उदिता देवता
तन्त्रे नाम्नाशक्तिगणाधिपः ॥ १५९ ॥

शक्त्या रुद्धं निजं बीजं वशमानय ठद्वयम् । ताराद्यो
मनुराख्यातो रुद्रसंख्याक्षरान्वितः । ऋष्.याद्याः
पूर्वमुक्ताः स्युरस्य मन्त्रस्य वै क्रमात् ॥ १६० ॥

संवर्तको नेत्रयुतः पार्श्वौवह्न्यासने स्थितः । प्रसादनाय
हृन्मन्त्रः स्वबीजाद्यो दशाक्षरः ॥ १६१ ॥

गणको मुनिरस्य स्याद्विराट् छन्द उदीरितम् । क्षिप्रप्रसादनो
विघ्नो देवतास्य उदीरिता ॥ १६२ ॥

पञ्चान्तको बिन्दुयुतो वामकर्णविभूषितः ।
तारादिहृदयान्तोऽयं हेरम्बमनुरीरितः ॥ १६३ ॥

तारं खड्गीश्वरः कूर्मो निःस्वरोलान्त ईरितः । भुवे नतिः
सप्तवर्णः स्वब्रह्मण्यात्मको मनुः ॥ १६४ ॥

तारं हस्तिपदं पश्चात् पिशाचपदमीरयेत् । इन्द्रमक्षियुतं
दुर्गामेकाराढ्यां समुद्धरेत् ॥ १६५ ॥

प्. १७७) उच्छिष्ट गणनाथस्य लिखेत् स्वाहा दशाक्षरः ।
बीजादिकं वदन्त्येके गायत्री निवृता भवेत् । छन्दो मुनिश्च
संप्रोक्तः सुश्रीवादिरपि क्रमात् ॥ १६६ ॥

शक्तिस्तारं हस्तिमुखं प्रलम्बोदरशब्दवत् ।
ङेन्तमुच्छिष्टशब्दाढ्यं महात्मानं तथा वदेत् ॥ १६७ ॥

अङ्कुशं दीर्घरक्ताढ्यं पार्श्वं बिन्दुयुतं वदेत् । शक्तिं
ङेन्तमथोच्छिष्ट स्वाहाष्टाविंशदर्णवान् ॥ १६८ ॥

वक्रतुण्डाय कवचं दीर्घमेष षडक्षरः । वक्रतुण्डाय
मायान्ते नमश्चाष्टाक्षरो भवेत् ॥ १६९ ॥

खड्गी शम्भोर्भृगुर्बिन्दुर्मनुस्वरसमन्वितः । सोमाय
हृदयान्तोऽयं मन्त्रः प्रोक्तः षडक्षरः । ऋषिः प्रोक्तो
भृगुश्छन्दः पंक्तिः सोमोऽस्य देवता ॥ १७० ॥

तारो घृणिर्भृगुः पश्चाद्वामकर्णविभूषितः । वह्न्यासनो
मरुत् शेषः सनेत्रोऽत्रिस्त्यपश्चिमः ॥ १७१ ॥

अष्टाक्षरो मनुः प्रोक्तो भानोरभिमतप्रदः । देवभागो मुनिः
प्रोक्तो गायत्री छन्द ईरितम् । देवता जगतामादिः
सविताभीष्टसिद्धिदः ॥ १७२ ॥

आकाशवह्निदीर्घेन्दु संयुतं भुवनेश्वरी । सर्गान्वितो
भृगुर्भानोस्त्र्यक्षरोमनुरीरितः ॥ १७३ ॥

आकाशमग्निपवनसद्यान्तार्घीश बिन्दुमत् । मार्तण्डभैरवं
नाम बीजमेतदुदाहृतम् । पुटितं बिम्बबीजेन सर्वकाम
फलप्रदम् ॥ १७४ ॥

टान्तं दहननेत्रेन्दुसहितं तदुदाहृतम् । वियदर्धेन्दुललितं
तदादिः सर्गसंयुतः ॥ १७५ ॥

अजपाख्यो मनुः प्रोक्तो द्व्यक्षरः सुरपादपः । ऋषिर्ब्रह्मा
स्मृतो देवी गायत्री छन्द ईरितम् । देवता जगतामादिः सम्प्रोक्तो
गिरिजापतिः ॥ १७६ ॥

व्याहृतित्रयमग्ने स्याज्जातवेद इहावह । सर्वकर्माणि सम्भाष्य
साधयाग्निप्रिया ततः ॥ १७७ ॥

प्. १७८) ताराद्योऽयं मनुः प्रोक्तः सप्तविंशतिवर्णवान् ।
ऋषिर्भृगुर्भवेच्छन्दो गायत्री देवतानलः ॥ १७८ ॥

उत्तिष्ठ पुरुषं ब्रूयाद्धवि (रि) पिङ्गल तत्परम् ।
लोहिताक्षपदं देहि मे ददापय ठद्वयम् ॥ १७९ ॥

चतुर्विंशत्यक्षरात्मा समृद्धिमनुरीरितः । ऋष्यादयः पुरा
प्रोक्ता मनोरस्य मनीषिभिः ॥ १८० ॥

प्रणवो भूर्भुवः स्वश्च स्वाहा सप्ताक्षरो मनुः ।
ऋष्याद्याः प्राग्वदेवास्य देवता पावको महान् ॥ १८१ ॥

अनुग्रहादिर्देवेशि बिन्दुनादकलात्मकः । तारः परा हंसपदं
सोहं स्वाहाष्टवर्णवान् ॥ १८२ ॥

ऋषिर्नारायणः प्रोक्तो गायत्रं छन्द उच्यते । ब्रह्मैव देवता
साक्षात्परं ज्योतिः स्वरूपधृक् ॥ १८३ ॥

तारं नमः पदं ब्रूयान्नरौ दीर्घसमन्वितौ । पवनो णाय
मन्त्रोयं प्रोक्तो वस्वक्षरात्मकः ॥ १८४ ॥

साध्या (ध्यो) नारायणः प्रोक्तो मुनिश्छन्द उदाहृतम् । मन्त्रस्य
देवी गायत्री देवता विष्णुरव्ययः ॥ १८५ ॥

प्रणवो हृद्भगवते वासुदेवाय कीर्तितः । प्रधानं वैष्णवे
तन्त्रे मन्त्रोऽयं द्वादशाक्षरः ॥ १८६ ॥

ऋषिः प्रजापतिश्छन्दो गायत्री परिकीर्त्तितम् । देवतास्य मनोः
प्रोक्तो वासुदेवो मनीषिभिः ॥ १८७ ॥

हृल्लेखा बीजयुगलं रमाबीज युगं तथा । लक्ष्म्यन्ते
वासुदेवाय हृदन्तः प्रणवादिकः ॥ १८८ ॥

तारो हृद्विष्णवे पश्चात् ङेन्तः सुरपतिर्भवेत् । महाबलाय
ठद्वन्द्वं मनुरष्टादशाक्षरः । र्षिर्बिन्दुर्विराट् छन्दो
देवता दधिवामनः ॥ १८९ ॥

उद्गिरतपदमाभाष्य प्रणवोद्गीथशब्दतः ।
सर्ववागीश्वरेत्यन्ते प्रवदेदीश्वरेत्यथ ॥ १९० ॥

सर्ववेदमयाचिन्त्य पदान्ते सर्वमुच्चरेत् । बोधय द्वितयान्तोऽयं
मन्त्रस्तारादिरीरितः ॥ १९१ ॥

प्. १७९) ऋषिर्ब्रह्मास्य निर्दिष्टः छन्दाऽनुष्टुबुदाहृतम् ।
देवता स्याद्धयग्रीवो वागैश्वर्यप्रदायकः ॥ १९२ ॥

अनन्तोऽग्न्यासनः सेन्दुर्बीजं रामाय हृन्मनुः ।
षडक्षरोऽयमादिष्टः भजतां कामदो मणिः ॥ १९३ ॥

ब्रह्मा प्रोक्तो मुनिश्छन्दो गायत्रं देवता मनोः । देशिकेन्द्रैः
समाख्यातो रामो राक्षसमर्दनः ॥ १९४ ॥

कवचं जानकीत्युक्त्वा वल्लभायाग्निसुन्दरी । दशाक्षरो
मनुरसौ भजतां कामदो मणिः ॥ १९५ ॥

रामित्येकाक्षरो मन्त्रो रामेति द्व्यक्षरो मनुः ।
तारशक्तिरमाकामवाक्स्वबीजादिकं क्रमात् । रामेति त्र्यक्षरो
मन्त्रस्तन्त्रविद्भिरुदीरितः ॥ १९६ ॥

रामेति चन्द्रभद्रान्तौ सम्प्रोक्तौ चतुरक्षरौ ।
स्वाहान्तोऽङ्गफडन्तश्च नमोऽन्तश्च षडर्णवान् ॥ १९७ ॥

कामबीज रमाबीज पुटितोऽथ यथाक्रमात् ।
रामशब्दश्चतुर्थ्यन्तो नमः पञ्चाक्षरो मनुः ॥ १९८ ॥

कामबीज रमाबीज शक्तिबीजादिकं क्रमात् । षडक्षरो
मनुरसौ कथितं तन्त्रवेदिभिः ॥ १९९ ॥

रामचन्द्रपदं ङेन्तं नमोऽन्तः प्रणवादिकः ।
रामभद्रपदेऽप्येवमुदितोऽष्टाक्ष्रो मनुः ॥ २०० ॥

शक्तिबीजरमाबीजवाग्वीज पुटितं भवेत् । रामेति
चन्द्रभद्रान्तं सचतुर्थं नवाक्षरम् ॥ २०१ ॥

तारं नमो भगवते रामचन्द्राय कीर्त्तयेत् । अथवा
रामभद्राय तावुभौ द्वादशाक्षरौ । सन्त्यन्ये बहवो मन्त्रा
नोक्ता विस्तरकारणात् ॥ २०२ ॥

तारं नमो भगवते वराहपदमीरयेत् । रूपाय भूर्भुवः स्वः
स्यात्पतये तदनन्तरम् ॥ २०३ ॥

भूपतित्वं मे पदान्ते देह्यन्ते च ददापय ।
वह्निजायावधिर्मन्त्रः स्यात्त्रयस्त्रिंशदक्षरः ॥ २०४ ॥

प्. १८०) भार्गवो मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् ।
देवतादिवराहोऽस्य मन्त्रस्य कथितो बुधैः ॥ २०५ ॥

हृदयं भगवत्यै स्याद्धरण्यै तदनन्तरम् । धरण्यन्ते धरे
द्वन्द्वं द्विठान्तोऽयं ध्रुवादिकः ॥ २०६ ॥

एकोन विंशत्यर्णाढ्यं धराहृदयमीरितम् । वराहोऽस्य मुनिः
प्रोक्तश्छन्दो निवृदुदाहृतम् ॥ २०७ ॥

देवता सर्वभूतानां प्रकृतिर्धरणीमता ॥ २०८ ॥

उग्रं वीरं वदेत् पूर्वं महाविष्णुमनन्तरम् । ज्वलन्तं
पदमाभाष्य सर्वतोमुखमीरयेत् ॥ २०९ ॥

नृसिंहं भीषणं भद्रं मृत्युमृत्युं वदेत्ततः ।
नमाम्यहमयं प्रोक्तो मन्त्रराजः सुरद्रुमः ॥ २१० ॥

ऋषिर्ब्रह्मासमुद्दिष्टश्छन्दोऽनुष्टुबुदाहृतम् । देवता
नरसिंहोऽस्य सुरासुरनमस्कृतः ॥ २११ ॥

क्षकारो बह्निमारूढो मनुस्वर समन्वितः ।
बिन्दुनादलसन्मूर्धा बीजं नरहरेर्विदुः ॥ २१२ ॥

बीजं नमो भगवते नरसिंहाय तत्परम् । स्याज्ज्वालामालिने
पश्चाद्दीप्तदंष्ट्रायतत्परम् ॥ २१३ ॥

अग्निनेत्राय सर्वाय रक्षोघ्नाय पदं वदेत् ।
सर्वभूतविनाशान्ते ल(न) कारो बिन्दुमान् मरुत् ॥ २१४ ॥

सर्वज्वरविनाशान्ते लायार्णौ (नायार्णौ) दह युग्मकम् ।
पचद्वन्द्वं रक्षयुगं हू&फट् स्वाहा ध्रुवादिकः ।
सप्तषष्ट्यक्षरैः प्रोक्तो ज्वालामाली महामनुः ॥ २१५ ॥

पाशः शक्तिर्नरहरिरङ्कुशो वर्मफट् मनुः । सडक्षरो
नरहरेः कथितः सर्वकामदः ॥ २१६ ॥

ऋषिर्ब्रह्मा समुद्दिष्टः पंक्तिश्छन्द उदाहृतम् । देवता
नरसिंहोऽस्य मन्त्रस्य समुदीरितः ॥ २१७ ॥

तारो भृगुर्वियद्भूयस्तदाढ्यं वह्निदीर्घयुक् । पावकः
कवचास्त्रान्तो मन्त्रः सप्ताक्षरः स्मृतः ॥ २१८ ॥

प्. १८१) अहिर्बुध्न्यो मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् । देवता
मुनिभिः प्रोक्तश्चक्ररूपी हरिः स्वयम् ॥ २१९ ॥

कृष्णाय पदमाभाष्य गोविन्दाय ततः परम् ।
गोपीजनपदस्यान्ते वल्लभाय द्विठावधिः ॥ २२० ॥

कामबीजादिराख्यातो मनुरष्टादशाक्षरः । नारदोऽस्य मुनिः
प्रोक्तो गायत्रं छन्द ईरितम् । देवता कथितः कृष्णः
सर्वकामफलप्रदः ॥ २२१ ॥

गोपीजनपदस्यान्ते वल्लभायाग्निसुन्दरी । दशाक्षरो नारदोऽस्य
ऋषिश्छन्दो विराडपि । देवता देशिकैः प्रोक्तः कृष्णः
कंसनिषूदनः ॥ २२२ ॥

ब्रह्मा भूम्यासनासीनः शान्तिरिन्दु विभूषितः । बीजं
मनोभुवः प्रोक्तं जगत्त्रितयमोहनम् ॥ २२३ ॥

ऋषिः सम्मोहनः प्रोक्तो गायत्रं छन्द ईरितम् । सर्वसम्मोहनः
साक्षाद्देवता मकरध्वजः ॥ २२४ ॥

श्रीमन्मुकुन्दचरणु सदेति शरणं ततः । अहं प्रपद्य इत्युक्तो
मौकुन्दोऽष्टादशाक्षरः । नारदोऽस्य तु गायत्री
मुकुन्दश्चर्षिपूर्वकः ॥ २२५ ॥

अथवैतत्समस्तान्ते मरुन्नमितशब्दतः । बाललोलात्मने हू& फट्
नम इत्यपरोमनुः ॥ २२६ ॥

नलकूबरगायत्री बालकृष्ण इतीरितः (ताः) । र्ष्याद्याः
सिद्धयः सर्वाः स्युर्जपाद्यैरिहामुना ॥ २२७ ॥

अनुरूपपदस्यान्ते रसरूपपदं वदेत् ।
कृष्णरूपनमोद्वन्द्वमन्नाधिपतये नमः ॥ २२८ ॥

अन्नं प्रयच्छ स्वाहेति विंशदर्णोऽन्नदो मनुः ।
नारदोऽनुष्टुबन्नाधिपतयोऽस्यर्षिपूर्वकाः ॥ २२९ ॥

मनुरेष द्वादशार्ण(ः) हू& फट् स्वाहान्तिकोऽपरः ।
ऋष्याद्या ब्रह्म-गायत्री-ग्रहघ्नहरयः क्रमात् ॥ २३० ॥

असावन्यो मनुर्द्वादशान्ते पुरुषोत्तम । आयुर्मे देहि सम्भाष्य
विष्णवे प्रभविष्णवे ॥ २३१ ॥

प्. १८२) नमोन्तो द्व्यधिकत्रिंशदर्णोऽस्यर्षिस्तु नारदः ।
छन्दोऽनुष्टुब्देवतास्य श्रीकृष्णः परिकीर्त्तितः ॥ २३२ ॥

उक्त्वा गोपालकपदं पुनर्वेषधराय च । वासुदेवाय
वर्मास्त्रशिरांस्यष्टादशाक्षरः ॥ २३३ ॥

मनुर्नारदगायत्री कृष्णर्ष्यादिरुदीरितः । काव्यमध्ये
लियस्यान्ते फणामध्ये दिवर्णकान् ॥ २३४ ॥ [कालियफणामध्ये]

उक्त्वा पुनर्वदेन्नृत्यं करोति तमनन्तरम् । नमामि
देवकीपुत्रमित्युक्त्वान्नृत्यशब्दतः ॥ २३५ ॥

राजानमच्युतं ब्रूयादिति दन्तलिपिर्मनुः । देशिकैरस्य मन्त्रस्य
संप्रोक्तो नारदो मुनिः । छन्दोऽनुष्टुब्देवता च कृष्णः
कालियमर्दनः ॥ २३६ ॥

शक्ति श्रीपूर्वकोऽष्टादशार्णो विंशतिवर्णकः ।
मन्त्रोऽनेन ददृक्षोऽन्यो मनुर्नहि जगत्त्रये । र्षिर्ब्रह्मास्य
गायत्री छन्दः कृष्णस्तु देवता ॥ २३७ ॥

वाग्भवं कामबीजं च कृष्णाय भुवनेश्वरी । गोविन्दाय
रमा गोपीजनवल्लभ ङेशिरः ॥ २३८ ॥

चतुर्दशस्वरोपेतः शुक्लः सर्गी तदूर्ध्वतः ।
द्वाविंशत्यक्षरो मन्त्रो वागीशत्वप्रदायकः ।
अष्टादशार्णवत्सर्वमङ्गर्ष्यादिकमूहयेत् ॥ २३९ ॥

श्रीशक्ति स्मरकृष्णाय * * * * शिरो मनुः ।
रव्यर्णोब्रह्मगायत्रीकृष्णर्ष्यादिरनुक्रमात् ॥ २४० ॥

श्रीशक्ति कामपूर्वोङ्गजन्मशक्तिरमान्तिकः । दशाक्षरः स
एवादौ स्याच्चेच्छक्तिरमान्वितः ॥ २४१ ॥

मारशक्तिरमापूर्वशक्ति श्रीमार पूर्वकः । श्रीशक्ति
मारपूर्वश्च दशार्णामनवस्त्रयः । एतेषां
मनुवर्णानामङ्गर्ष्यादि दशार्णवत् ॥ २४२ ॥

अष्टादशार्णो मारान्तो मनुः सुतधनप्रदः ।
ऋष्याद्यष्टादशार्णोक्तं मनोरस्य यथाक्रमात् ॥ २४३ ॥

प्. १८३) तारं हृद्भद्भगवान्ङेन्तो नन्दपुत्रपदं तथा ।
नन्दान्ते वपुषेऽस्त्यग्निमायान्तो दशवर्णकः ॥ २४४ ॥

अष्टाविंशत्यक्षरोऽयं ब्रुवे द्वात्रिंशदक्षरम् ।
नन्दपुत्रपदं ङेन्तं श्यामलाङ्गपदं तथा ॥ २४५ ॥

तथा बालवपुः कृष्णो गोविन्दो दशवर्णकः । अनयोर्नारद
ऋषिश्छन्दश्चोष्णिगनुष्टुभौ ॥ २४६ ॥

तारं हृद्भगवान्ङेन्तो रुक्मिणीवल्लभस्तथा । शिरोऽन्तः
षोडशार्णोऽयं रुक्मिणीवल्लभाह्वयः ॥ २४७ ॥

सर्वसम्पत्प्रदो मन्त्रो नारदोऽस्य मुनिः स्मृतः ।
छन्दोऽनुष्टुब्देवता च रुक्मिणीवल्लभो हरिः ॥ २४८ ॥

नी(ली)ला दन्ता (दण्डा) वधौ गोपीजनसंयुक्तदोः पदम् ।
दण्डान्ते बालरूपेति मेघश्यामपदं ततः ॥ २४९ ॥

एकोनविंशदर्णोऽस्य मनुर्नारद ईरितः । छन्दोऽनुष्टुब्देवता
च नी (ली) लादण्डहरिर्मतः ॥ २५० ॥

त्रयोदशस्वरयुतः शार्ङ्गी मेदः सकेशवः । तथा
मांसयुगन्ताय शिरः सप्ताक्षरो मनुः ॥ २५१ ॥

भजतां कामदः प्रोक्तो नारदोऽस्यमुनिः स्मृतः । छन्द
उष्णिग्देवता च गोवल्लभ उदीरितः ॥ २५२ ॥

सलवो वासुदेवश्च हृन्ङेन्तं भगवत्पदम् । श्रीगोविन्दपद
द्वन्द्वं द्वादशार्णोऽयमीरितः ॥ २५३ ॥

मनुर्नारदगायत्रीकृष्णर्ष्यांदिरूदीरितः । ऊर्ध्वदन्तयुतः
शार्ङ्गी चक्री दक्षिणकर्णयुक् ॥ २५४ ॥

मां सं नाथाय नत्यन्तो मूलमन्त्रोऽष्टवर्णकः ।
ऋषिर्ब्रह्मास्य गायत्री छन्दः कृष्णस्तु देवता ॥ २५५ ॥

तारश्रीशक्तिमारान्ते श्रीकृष्णाय पदं वदेत् । गोविन्दाय च
तस्योर्ध्वं श्री गोपीजन इत्यथ । वल्लभाय ततः स्त्रीं
श्रीं सिद्ध गोपालको मनुः ॥ २५६ ॥

चक्री मनुस्वरयुतः सर्ग्येकार्णो मनुर्मतः । कृष्णेति
द्वयक्षरः कामपूर्वस्त्र्यर्णः स एव चेत् ॥ २५७ ॥

प्. १८४) स एव चतुरर्णः स्यान्ङेऽन्तोऽन्यश्चतुरक्षरः ।
वक्ष्यते पञ्चवर्णः स्यात्कृष्णाय नम इत्यपि ॥ २५८ ॥

कृष्णायेति स्मरद्वन्द्वमध्ये पञ्चाक्षरोऽपरः ।
गोपालायाग्निजायान्तः षडक्षर उदाहृतः ॥ २५९ ॥

कृष्णाय स्मरबीजाद्यो वह्विजायान्तिकोऽपरः । षडक्षरो
नमोऽन्तोऽन्यः कृष्णगोविन्दकः पुनः ॥ १६० ॥

स चतुर्थी सप्तवर्णः सप्तार्णोन्यः पुरोदितः ।
श्रीशक्तिमाराः कृष्णाय मारः सप्ताक्षरोऽपरः ॥ १६१ ॥

कृष्णगोविन्दकौ ङेन्तौ स्मराद्यावष्टवर्णकः ।
दधिभक्षणङेवह्निजायमिरपरोष्टकः ॥ २६२ ॥

सुप्रसन्नात्मने प्रोक्तो नम इत्यपरोष्टकः । प्राक्प्रोक्तो
मूलमन्त्रश्च नवार्णः स्मरसंपुटः ॥ २६३ ॥

कृष्णगोविन्दकौ ङेन्तावेतेषां नारदो मुनिः । उक्तं छन्दस्तु
गायत्री देवता कृष्ण ईरितः ॥ २६४ ॥

मन्त्रोऽसौ मारयुग्मान्तरस्थ कृष्णपदाद् भवेत् ।
ऋषिच्छन्दोदैवतानि पूर्वोक्तानि प्रयोजयेत् । मारयोरस्य
मांसाधो रक्तं चेदपरो मनुः ॥ २६५ ॥

सत्यः शौरिश्च वर्गस्य मध्यमश्च तदन्तयुक् । चत्वारः
शिखिवामाक्षिशशिखण्डविभूषिताः ॥ २६६ ॥

जयकृष्णयुग्मयुग्मान्ते निरन्तरपदं वदेत् ।
क्रीडासक्तप्रशब्दान्ते वदेन्मुचेतसे ॥ २६७ ॥

नित्यप्रियपदं पश्चात् सचतुर्थि प्रकीर्त्तयेत् । ङेन्तं
कृष्णपदं चेक्षुकार्मुकान्ते दशाक्षरः ॥ २६८ ॥

सलवाः चाचलसुतारमाभिश्च समुद्धरेत् । वीतं
क्रमोत्क्रमवशाद् द्विपञ्चाशल्लिपिर्मनुः ॥ २६९ ॥

जनानुरागकवितामहालक्ष्मी करोऽघहृत् । आनन्दनारदाश्चस्य
ऋषिश्छन्दो विराड्भवेत् ॥ २७० ॥

देवता हरिरेवास्य जगन्मोहनकारणम् । हृदयं रपरं
साक्षिलान्तो लतान्वितो मरुत् ॥ २७१ ॥

प्. १८५) पञ्चाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः ।
वामदेवो ऋषिश्छन्दः पंक्तिरीशोऽस्य देवता ॥ २७२ ॥

षडक्षरः शक्तिरुद्धः कथितोऽष्टाक्षरो मनुः ।
ऋषिश्छन्दः पुरा प्रोक्तो देवता स्यादुमापतिः ॥ २७३ ॥

सान्तः सद्यान्त संयुक्तो बिन्दुभूषितमस्तकः । प्रासादाख्यो
मनुः प्रोक्तो भजतां सर्वसिद्धिदः । वामदेवो मुनिश्छन्दः
पंक्तिर्देवः सदाशिवः ॥ २७४ ॥

तारो माया वियद्बिन्दुमनुस्वरसमन्वितः । पञ्चाक्षर समायुक्तो
वसुवर्णो मनुर्मतः ॥ २७५ ॥

तारस्थिरा सकर्णेन्दुर्भृगुः सर्गसमन्वितः । त्र्यक्षरात्मा
निगदितोमन्त्रो मृत्युञ्जयात्मकः ॥ २७६ ॥

ऋषिः कहोलो देव्यादिगायत्री छन्द ईरितम् । मृत्युञ्जयो महादेवो
देवतास्य समीरितः ॥ २७७ ॥

दक्षिणामूर्तये पूर्वं तुभ्यं पदमनन्तरम् ।
वटमूलपदस्यान्ते पदंपश्चान्निवासिने ॥ २७८ ॥

ध्यानैकनिरताङ्गाय पश्चाद्ब्रूयान्नमः पदम् । रुद्राय
शम्भवे तारशक्तिरुद्धोऽयमीरितः । षट्त्रिंशदक्षरो
मन्त्रः सर्वकामफलप्रदः ॥ २७९ ॥

मुनिःशक्रः समुद्दिष्टः छन्दोऽनुष्टुप्समीरितम् ।
दक्षिणामूर्त्तिनामास्य देवता शम्भुरीरितः ॥ २८० ॥

प्रणवो हृदयं पश्चात् ततो भगवते पदम् । ङेयुतं
दक्षिणामूर्त्तिं मह्यं मेधामुदीरयेत् ॥ २८१ ॥

प्रयच्छ ठद्वयान्तोऽयं द्वाविंशत्यक्षरो मनुः ।
मुनिश्चतुर्मुखश्छन्दो गायत्री देवता मनोः ।
दक्षिणामूर्त्तिराख्यातो वेदव्याख्यानतत्परः ॥ २८२ ॥

लोहितोऽग्न्यासनः सत्यबिन्दुमान् प्रथमं ततः । द्वितीयं
बह्निबीजस्था दीर्घा शान्तीन्दुभूषिता ॥ २८३ ॥

तृतीयं लाङ्गली सर्गी मन्त्रोबीजत्रयात्मकः ।
नीलकण्ठात्मकः प्रोक्तो विषद्वयहरः परः ॥ २८४ ॥

प्. १८६) अग्निसंवर्तकादित्यानिलौ षष्ठबिन्दुमत् । चिन्तामणिरिति
ख्यातं बीजं सर्वसमृद्धिदम् ॥ २८५ ॥

कश्यपोमुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् । अर्धनारीश्वरः
प्रोक्तो देवता जगतां पतिः ॥ २८६ ॥

क्षकारोमाग्निपवनवामकर्णार्धचन्द्रवान् । उक्तं
तुम्बरूबीजन्तद्येन सिध्यन्ति साधकाः ॥ २८७ ॥

मायास्फुरद्वयं भूयः प्रस्फुरद्वितयं ततः ।
घोरघोरतरेत्यन्ते तनुरूपपदं ततः ॥ २८८ ॥

चटयुग्मं तदन्ते स्यात्प्रचट द्वितयं ततः । कहयुग्मं
रमद्वन्द्वं ततो बन्धयुगं पुनः ॥ २८९ ॥

घातय द्वितयं वर्मफडन्तः समुदीरितः ।
एकपञ्चाशदर्णोऽयमघोरास्त्रमहामनुः ॥ २९० ॥

अघोरोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् । अघोररुद्रः
संदिष्टो देवतामन्त्रवित्तमैः ॥ २९१ ॥

तारो वान्तो धरासंस्थो वामनेत्रेन्दुभूषितः । पार्श्वोरकः
कर्णयुतो वर्मास्त्रान्तः षडक्षरः ॥ २९२ ॥

मनुः पाशुपतास्त्राख्यो ग्रहक्षुद्र निवारणः ।
वर्णान्त्यमौवर्णयुतं क्षेत्रपालाय हृन्मनुः । ताराद्यो
वसुवर्णोऽयं क्षेत्रपालस्य कीर्तितः ॥ २९३ ॥

उद्धरेद्वटुकं ङेन्तमापदुद्धरणं तथा । कुरुद्वयं
पुनर्ङेन्तं वटुकं तं समुद्धरेत् । एकविंशत्यक्षरात्मा
शक्तिरुद्धो महामनुः ॥ २९४ ॥

अर्घीशोवह्निशिखरो लान्तस्थो दान्त-ईरितः ।
फडन्तश्चण्डमन्त्रोऽयं त्रिवर्णान्तः समीरितः ॥ २९५ ॥

अस्य त्रिको मनुः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् । चण्डेशो
देवता प्रोक्तो देशिकैस्तन्त्रकोविदैः ॥ २९६ ॥

पार्श्वमर्घीन्दु अक्कोलि चतुरावृत्तमुच्चरेत् । रकारो
दीर्घसंयुक्तश्चान्ते स्याद्द्विचतुर्थयोः ॥ २९७ ॥

प्. १८७) निकरेयो (निकारयो) श्चादिबीजं लघुचान्ते समुद्धरेत् ।
कुक्कुटेश्वरमन्त्रोऽयमुक्तः पञ्चदशाक्षरः ॥ २९८ ॥

शक्तिस्तारं नमः पश्चात्ततो भगवते पदम् । अघोरेभ्योऽथ
घोरेभ्यो रुद्रेभ्य इति वोच्चरेत् ॥ २९९ ॥

नमोऽस्तुवह्निजायान्तश्चतुविंशतिवर्णवान् ।
महाभैरवमन्त्रोऽयमुड्डीशः सिद्धिसाधनम् ॥ ३०० ॥

येऽन्ये दिनास्त्रकृत्यास्त्र यक्षिण्यस्त्र्यम्बकादयः । सन्तोऽपि
बहवो नोस्तेऽलसैरपरिग्रहात् ॥ ३०१ ॥

षोडशैव सरस्वत्याः श्रियः षड्मनवः क्रमात् । दशाष्टौ
च महेशान्या दौर्गाश्चैव दशापरे ॥ ३०२ ॥

भैरवी सुन्दरी रामा नित्याष्टत्रिंशदादरात् । त्रयोदश
गणेशस्य सोमस्यैकमथक्रमात् ॥ ३०३ ॥

चत्वारो भास्करस्याग्नेस्त्रयस्ते वैष्णवास्ततः ।
चत्वारिंशत्तथाऽष्टौ च गोपालमनवः क्रमात् ॥ ३०४ ॥

रामस्यापि चतुस्त्रिंशत् परे नारायणादयः । चतुर्नवतिरेवान्ते
शम्भोः पञ्चदशेरिताः ॥ ३०५ ॥

प्रपञ्चसार सिद्धान्तं शारदातिलकं तथा ।
सपरिष्कारमालोक्य तथा सारसमुच्चयम् ॥ १ ॥

प्रयत्नेन दीपिकां दृष्ट्वा तथा सलघुदीपिकाम् । तथा
पूजाप्रदीपं च पुरश्चरण चन्द्रिकाम् ॥ २ ॥

मन्त्रदर्पणसिद्धान्तं मन्त्रदेवप्रकाशिकाम् । मन्त्रनेत्रं च
मन्त्रा * * * श्रीरामार्चनचन्द्रिकाम् ॥ ३ ॥

मन्त्रमुक्तावली-रत्ना-वली-ज्ञानार्णवादिकान् । तन्त्रं
सनत्कुमारस्य नारदीयं चतुःशतीम् ॥ ४ ॥

तूर्णायागं सोमशम्भु-मतंचागस्त्यसंहिताम् । संहितां
वैष्णवीं तद्वत्तत्त्वसागर संहिताम् ॥ ५ ॥

संहितां कपिलप्रोक्तां श्रीमन्त्रवरसंहिताम् । तन्त्रं
श्रीभुवनैश्वर्याः नयसिद्धान्तमादरात् ॥ ६ ॥

कल्पं श्रीवनदूर्गायाः तन्त्रं संमोहनाह्वयम् ।
हयग्रीवमतं तद्वत्तथा विज्ञानभारतम् (भैरवम्) ॥ ७ ॥

गु * * * ञ्च तन्त्रराजं च तथा वै पिङ्गलामतम् ॥ ८ ॥

वामकेश्वरतन्त्रं च समस्तं वरदीक्षितम् । विज्ञानेश्वर
सिद्धान्तं सारश्रीसंहितां क्रमात् ॥ ९ ॥

विज्ञानललितं पञ्च-रात्रं नारायणीमपि ।
वसिष्ठसंहितां गार्ग्य-संहितां भैरवं तथा ॥ १० ॥

दिव्य सारस्वतं * * चिच्चन्द्रकामिकमादरात् । होमवरोत्तरं
ग्रन्थं प्रतिष्ठासार संग्रहम् ॥ ११ ॥

प्. १८९) संहितां वायवी यस्तद्वत् (न्तद्वत्)
संहितांब्रह्मणस्तथा । कृशानोः संहितां
विष्णुब्रह्मरुद्रादियामलम् ॥ १२ ॥

तथैव यामलोद्धारं मत्स्यसूक्तमपि क्रमात् ।
पार्वतीहरसंवादं वाराहीतन्त्रमादरात् ॥ १३ ॥

तथैव कुब्जिकातन्त्रं त्वरिताज्ञानमादरात् । तथा
फेत्कारिणीतन्त्रं सुभगोदयमादरात् ॥ १४ ॥

तथैव योगिनी तन्त्रं क्रमशस्त्रिपुरार्णवम् । ईशानसंहितां
तद्वत्सिद्धान्तं विश्वकर्मणः ॥ १५ ॥

तन्त्रं श्रीदक्षिणामूर्त्तेर्वैशम्पायनसंहिताम् । पुराणं
विविधं तद्वत् स्मृतिशास्त्राणि भारतम् ॥ १६ ॥

ज्योतिःशास्त्राणि चालोक्य सकलाः पद्धतीः क्रमात् । सर्वेषां
सारमुद्धृत्य देवनाथेन धीमता । विधानमिति संप्रोक्तं
पुरश्चर्यादिकर्मणः ॥ १७ ॥

तर्ककर्कशमञ्जीरा शब्दार्थस्तनमन्थरा । रचनाहारललिता
वल्लभा मम कौमुदी ॥ १८ ॥

माता मे कौमुदी किं च पितापि मम कौमुदी । यशो मे कौमुदी
किं च जीवनं मम कौमुदी ॥ १९ ॥

स्वगौरवेण कर्त्तव्या नोपेक्षात्र मनीषिभिः । मनुराह यतो
ग्राह्य& बालादपि सुभाषितम् ॥ २० ॥

युञ्जानैरपि योगिभिः परतरं नालम्भि यत्संभ्रमा- दालोकि
प्रणतैर्नवा सरसु (मरमुख) ब्रह्मादिभिर्दैवतैः । गोपीनां
कुचकुम्भनिर्भरपरीरम्भाय सम्भावितं वेदान्तं
प्रतिपादिताय महसे तस्मै परस्मैनमः ॥ २१ ॥

मौकुन्दे पादपद्मे सरभसमधरीभूतचेताः पुरस्ता-
दारादालिङ्ग्य पादाम्बुजयुगलरजो गौरवं गौरवेण । मातुः
पादारविन्दोपरिलुठितशिराः सादरं शूलपाणेः-
श्चूडापीडावलम्बी विधुरिव विदधे कौमुदीं देवनाथः ॥ २२


प्. १९०) यस्तर्कतन्त्र-रमणी-कमनीयकान्तो गोविन्द एव भुवने
विदितः सुकीर्त्तिः । तस्यात्मजेन रचिता खलु कौमुदीयं श्री
देवनाथ विबुधेन सतां मुदेऽस्तु ॥ २३ ॥

अब्दे लक्ष्मणसेनस्य वियच्छून्याब्धिलक्षिते । अकरोत्कौमुदीमेतां
देवनाथो जगद्धिताम् ॥ २४ ॥

इति श्रीतर्कपञ्चाननमहामहोपाध्यायश्रीदेवनथकृता
मन्त्रकौमुदी समाप्ता ॥

॥ शुभमस्तु ॥ श्रीरस्तु ॥

"https://sa.wikisource.org/w/index.php?title=मन्त्रकौमुदी&oldid=210760" इत्यस्माद् प्रतिप्राप्तम्