मनोविज्ञानस्य वर्तमानार्थस्य ऐतिह्यपृष्ठभूमि:

विकिस्रोतः तः
     मनोविज्ञानस्य यत्स्वरूपं विद्वद्भिर्मान्यं वर्तते, तन्निर्धारयितुं भारतीयदर्शनमपि सहायकं वर्तते।  दृश्यतेऽनेनेति व्युत्पत्त्या दर्शनपदं दृश् दर्शने धातोर्ल्युटि निष्पन्नम् । दर्शनं जीवनस्य सर्वस्मिन् पक्षे प्रकाशं वितरति | दर्शनशास्त्रं पुरा मनोविज्ञानशास्त्रेण सम्बद्धमासीत् । यतो हि आदौ मनोविज्ञानम् आत्मविज्ञानार्थकमासीत् । मनोविज्ञानस्यात्मविज्ञानम् इत्यर्थं पोषयितुं भारतीयदर्शने विविधानि प्रमाणानि वर्तन्ते । भारतीयदर्शने जीव:, जगत्, मूलप्रकृतिः प्रतिनिधीभूतः इति निरूपितो वर्तते । उदाहरणं यथा→ महाभारते यदा अर्जुनः शिथिलोऽभवत् तदा श्रीकृष्ण: मनोविज्ञानेन तस्य हृदयपरिवर्तनम् अकरोत् । एवञ - प्राणिनां बाह्यदृश्यमानव्यवहारस्याध्ययनं केनापि वैज्ञानिकविधिना कर्तुं शक्यते परं तेषामन्तःप्रकृतेरध्ययनाय प्रचलितस्य वैज्ञानिकविधेर्योजनेन नालम् । किन्तु भारतीयदर्शनेषु योगदर्शनमेव समर्थं जनानामन्त:स्वरूपं ज्ञातुम् | योगदर्शने मनोविज्ञानस्य विविधाः पक्षा: स्पष्टीकृताः भवन्ति ।
         मनोविज्ञानशास्त्रं प्रारम्भिकावस्थायां दर्शनशास्त्रसम्बदम् आसीत् । 400 ई. पू. तमे वर्षे पाश्चात्यमनोवैज्ञानिकेषु दार्शनिकेषु च अन्यतमं स्थानं प्राप्तवानासीत् यूनानदेशीय-एथेंसविश्वविद्यालयस्य कुलपतिः शुक्रातः । स महान् दार्शनिक आसीत् । स: दर्शनेन स्वकीयशिष्याणां मनसि ये दुश्चिन्ताकुण्ठादयः स्थिता: आसन् , तेषां निवारणाय प्रश्नोत्तरमाध्यमेन उत्तराणि ददाति स्म । प्लेटो, अरस्तुश्चापि तस्यैव शिष्यपरम्परामविकसत्। 1600 ई. तमे वर्षे 'डेकार्टे' इति नामधेयेन मनोवैज्ञानिकेन Psychology (मनोविज्ञानम्) इति शब्दः सर्वप्रथमं प्रयुक्तः ।

मनोविज्ञानम् (psychology) शब्दस्यास्यार्थ:---

   मनोविज्ञानशास्त्रं नातीवप्राचीनशास्त्रमस्ति । मनोविज्ञानपदमाङ्ग्लभाषाया: "Psychology" इति पदस्य रूपान्तरणमस्ति।
   आङ्ग्लभाषायाः "Psychology" इति पदं लैटिनेति भाषायाः आत्मार्थकं 'Psyche" इति चाथ अध्ययनविज्ञानार्थं (logos)" इति पदाभ्यां निष्णपन्नम्। एतस्यार्थो भवति "आत्मविज्ञानमिति"। मनोविज्ञानपदस्यैषा व्युत्पत्तिः शास्त्रस्यास्येतिहासमपि सूचयति । यतोहि शब्दस्यास्य नैकार्था: विहिताः परिवर्तिताश्च जाता:।

(1) आत्मविज्ञानम् (The Science of Soul) 1600ई.---

  मनोविज्ञानशास्त्रमादौ दर्शनशास्त्रेण सम्बद्धमासीत् । यूनानदेशीयो विद्वान् दार्शनिको मनोविचारं शारीरिकक्रियेति रूपेण स्वीकरोति स्म। "Pshycology" इति पदस्य व्युत्पत्ति: “आत्मानमधिकृत्य प्रवृत्तं शास्त्रमिति आत्मनः शास्त्रम्" अमन्यत् | दर्शनशास्त्रे आत्मनः स्वरूपं सविस्तरं वर्णितमस्ति तथैव भारतीयदर्शने अपि | तु विज्ञाने स एव प्रमाणितो भवति यो निरीक्षणालेखनवर्गीकरणस्पष्टीकरणप्रक्रियया संबद्धो भवति । किन्तु आत्मनो निरीक्षणादीनि चत्वारि न सम्भवानि। तस्य ज्ञानाध्ययने चाशक्ये । अत एव आत्मनः सत्तामपि न स्वीकुर्वन्ति नैका: विद्वास:। कारणादस्माद् अन्योऽप्यर्थः एतस्य पारिष्कृत्यमर्हति तद्यथा---

(2) मनसः विज्ञानम् (the Science of Mind) 1700 ई॰

    आत्मनोऽस्फुटत्वाद् मनोविज्ञानस्यार्थः “मनसः विज्ञानं" इति व्याख्यात: मान्यमानदार्शनिकेषु इटलीदेशीयपॉम्पोनाजीनामकेन प्रमुखेन | मनोऽपि आत्मवदस्फुटमेव तत् ता एव समस्या: या: आत्मविषये आसन् ता अत्रापि । मनसोऽपि भौतिकस्वरूपस्य निर्धारणमशक्यमासीत् । अस्फुटं वस्त्वधिकृत्य विशदशास्त्रं भवितुं नार्हति ।

(3) चेतनाया: विज्ञानम् (the Science of consciousness) 1900 ई.---

    मनोविज्ञानं चैतन्यविचारकं शास्त्रमिति लक्षणं स्पेनदेशीया: विलियमवुन्ट- विलियमजेम्स-जेम्ससीलीप्रमुखा: दार्शनिका: कुर्वन्ति स्म । एतेषां मतमासीद्यत्---
    मनोविज्ञाने मानवानां चैतन्यक्रियाणामध्ययनं विधीयते । अत एव चेतनाया: विज्ञानमस्ति मनोविज्ञानमिति ते उद्‌घोषितवन्तः । 1879 ई॰  तमे वर्षे सर्वप्रथमं विलियमवुन्टेन लीपजींगविश्वविद्यालये मनोविज्ञानस्य प्रथमा प्रयोगशा(लोद्घाटिता।चेतनाया: त्रयो भेदाश्चेतनमचेतनमर्धचेतनाश्च भवन्ति ।एतासु कस्या: विचारो मनोविज्ञाने भवेदित्यत्र विवाद: । यदि केवलं चेतनमनस: परीक्षणं स्यात् तर्हि अन्ययो: किं भविष्यति, चाथ अन्ययो: निरीक्षणादयोऽपि असम्भवा: । अतो विद्वद्‌भिरयमपि सिद्धान्तो नो स्वीकृतः ।

(4) व्यवहारस्य विज्ञानम् (The Science of Behaviour) 2000 ई॰ ---

    प्राणिनां व्यवहाराध्ययनाय प्रवृत्तं शास्त्रं मनोविज्ञानमिति सर्वै: स्वीक्रियते । प्रो. जे.वी. वाटसनमहोदयादयः व्यवहारवादिनो मनोवैज्ञानिका: विविधैः प्रयोगैर्व्यवहारस्याध्ययनं विधाय मनोविज्ञानस्य "व्यवहारविज्ञानं" लक्षणमिदं प्रतिपादितवन्तः। व्यवहारे बाह्यव्यवहारस्याध्ययनेन सहास्य कारणभूतायाः आन्तरिक्या दशाया: अध्ययनमपि क्रियते । सिद्धान्तोऽयं 2003 ई॰ तमे वर्षे प्रचलने समागत: आसीत् । जीवनस्याभिव्यक्ति: क्रियाभिर्भवति तदेतासां क्रियाणां समुच्चयो व्यवहारपदेन व्यवह्रियते ।
    व्यवहाराध्ययने मनसः सर्वाः क्रिया: चाथ स्मितकोपमोदविषादकरुणादुःखादिभावा अपि सम्मिलिता भवन्ति । व्यवहारपदम् अतीवव्यापकार्थि भवति । मनोविज्ञानं मानवानां चाथ सर्वेषामपि प्राणिनां व्यवहाराध्ययनं विदधाति। कस्या अपि क्रियाया: प्रतिक्रिया एव "व्यवहार:" इत्यभिधीयते । सम्प्रति: " Psychology" इति शब्दस्यार्थो "व्यवहारस्य विज्ञानमिति" प्रचलन्नस्ति अत एव प्रो. जे. बी. वाटसन: मनोविज्ञानस्य जनकरूपेण प्रसिद्धोऽस्ति ।
   इत्थं वयं जानीमः यत् कथं मनोविज्ञानस्य अर्थः आत्मनो विज्ञानतः मनसो विज्ञानं ततः चेतनायाः विज्ञानं भूत्वा अन्ते व्यवहारस्य विज्ञानं जातमिति।।