भोजप्रबन्धः
भोजप्रबन्धः बल्लालः १९४९ |
॥ श्रीः ॥
भोजप्रबन्धः ।
स्वस्ति श्रीमहाराजाधिराजस्य भोजराजस्य प्रबन्धः कथ्यते-
आदौ धाराराज्ये सिन्धुलसंज्ञो राजा चिरं प्रजाः पर्यपालयत् । तस्य वृद्धत्वे भोज इति पुत्रः समजनि । स यदा पञ्चवार्षिकस्तदा पिता ह्यात्मनो जरां ज्ञात्वा मुख्यामात्यानाहूयानुजं मुञ्जं महाबलमालोक्य पुत्रं च बालं वीक्ष्य विचारयामास–'यद्यहं राज्यलक्ष्मीभारधारणसमर्थं सोदरमपहाय राज्यं पुत्राय प्रयच्छामि, तदा लोकापवादः। अथवा बालं मे पुत्रं मुञ्जो राज्यलोभाद्विषादिना मारयिष्यति, तदा दत्तमपि राज्यं वृथा । पुत्रहानिर्वंशोच्छेदश्च ।
लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च ।
द्वेषक्रोधादिजनको लोभः पापस्य कारणम् ॥ १ ॥
लोभात्क्रोधः प्रभवति क्रोधाद् द्रोहः प्रवर्तते ।
द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः ॥ २ ॥
मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम् ।
लोभाविष्टो नरो हन्ति स्वामिनं वा सहोदरम् ॥ ३ ॥
इति विचार्य राज्यं मुञ्जाय दत्त्वा तदुत्सङ्गे भोजमात्मजं मुमोच । ततः क्रमाद्राजनि दिवं गते सम्प्राप्तराज्यसम्पत्तिर्मुञ्जो मुख्यामात्यं बुद्धिसागरनामानं व्यापारमुद्रया दूरीकृत्य तत्पदेऽन्यं नियोजयामास । ततो गुरुभ्यः क्षितिपालपुत्रं वाचयति । ततः क्रमेण सभायां ज्योतिःशास्त्रपारङ्गतः सकलविद्याचातुर्यवान्ब्राह्मणः समागम्य राज्ञे 'स्वस्ति' इत्युक्त्वोपविष्टः । स चाह–'देव, लोकोऽयं मां सर्वज्ञं वक्ति । तत्किमपि पृच्छ ।
कण्ठस्था या भवेद्विद्या सा प्रकाश्या सदा बुधैः ।
या गुरौ पुस्तके विद्या तया मूढः प्रतायते ॥ ४ ॥
'मातेव रक्षति पितेव हिते नियुङ्क्ते
कान्तेव चाभिरमयत्यपनीय खेदम् ।
कीर्तिं च दिक्षु विमलां वितनोति लक्ष्मीं
किं किं न साधयति कल्पलतेव विद्या' ॥५॥
ततो विप्रवराय दशाश्वाना जानेयान्ददौ ।
ततः सभायामासीनो बुद्धिसागरः प्राह राजानम्- 'देव, भोजस्य जन्मपत्रिकां ब्राह्मणं पृच्छ' इति । ततो मुञ्जः प्राह-भोजस्य जन्मपत्रिकां विधेहि' इति । ततोऽसौ ब्राह्मण उवाच-'अध्ययनशालायां भोज आनेतव्यः' इति । मुञ्जोऽपि ततः कौतुकादध्ययनशालामलङ्कुर्वाणं भोजं भटैरानाययामास । ततः साक्षात्पितरमिव राजानमानम्य सविनयं तस्थौ । ततस्तद्रूपलावण्यमोहिते राजकुमारमण्डले प्रभूतसौभाग्यं महीमण्डलमागतं महेन्द्रमिव, साकारं मन्मथमिव, मूर्तिमत्सौभाग्यमिव, भोजं निरूप्य राजानं प्राह दैवज्ञः-'राजन् , भोजस्य भाग्योदयं वक्तुं विरिञ्चिरपि नालम्, कोऽहमुदरम्भरिब्राह्मणः । किञ्चित्तथापि वदामि स्वमत्यनुसारेण । भोजमितोऽध्ययनशालायां प्रेषय ।'ततो राजाज्ञया भोजे ह्यध्ययनशालां गते विप्रः प्राह-
'पञ्चाशत्पञ्चवर्षाणि सप्तमासदिनत्रयम् ।
भोजराजेन भोक्तव्यः सगौडो दक्षिणापथः ॥ ६ ॥
इति । तत्तदाकर्ण्य राजा चातुर्यादपहसन्निव सुमुखोऽपि विच्छायवदनोऽभूत् । ततो राजा ब्राह्मणं प्रेषयित्वा निशीथे शयनमासाद्यैकाकीसन्व्यचिन्तयत्-'यदि राज्यलक्ष्मीर्भोजकुमारं गमिष्यति, तदाहं जीवन्नपि मृतः।
तानीन्द्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः क्षणेन
सोऽप्यन्य एव भवतीति विचित्रमेतत् ॥ ७ ॥
किञ्च-शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः ।
बुद्धिप्रारब्धकार्यस्य नास्ति किञ्चन दुष्करम् ॥ ८ ॥
असूयया हतेनैव पूर्वोपायोद्यमैरपि ।
कर्तृणां गृह्यते सम्पत्सुहृद्भिर्मन्त्रिभिस्तथा ॥ ९ ॥
तत्रोद्यमे किं दुःसाध्यम् ।
अतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे ।
परापवादभीरूणां दूरतो यान्ति सम्पदः ॥ १० ॥
किञ्च- आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति सम्पदः ॥ ११ ॥
अवमानं पुरस्कृत्य मानं कृत्वा च पृष्ठतः ।
स्वार्थं समुद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ १२ ॥
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः ।
एतदेवातिपाण्डित्यं यत्स्वल्पाद्भूरिरक्षणम् ॥ १३ ॥
जातमात्रं न यः शत्रुं व्याधिं वा प्रशमं नयेत् ।
अतिपुष्टाङ्गयुक्तोऽपि स पश्चात्तेन हन्यते ॥ १४ ॥
प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः ।
हस्तन्यस्तातपत्रस्य वारिधारा इवारयः ॥ १५ ॥
अफलानि दुरन्तानि समव्ययफलानि च ।
अशक्यानि च वस्तूनि नारभेत विचक्षणः ॥ १६ ॥
ततश्चैवं विचिन्तयन्नभुक्त एव दिनस्य तृतीये याम एक एव मन्त्रयित्वा वङ्गदेशाधीश्वरस्य महाबलस्य वत्सराजस्याकारणाय स्वमङ्गरक्षकं प्राहिणोत् । स चाङ्गरक्षको वत्सराजमुपेत्य प्राह-'राजा त्वामाकारयति' इति । ततः स रथमारुह्य परिवारेण परिवृतः समागतो रथादवतीर्य राजानमवलोक्य प्रणिपत्योपविष्टः । राजा च सौधं निर्जनं विधाय वत्सराजं प्राह-
'राजा तुष्टोऽपि भृत्यानां मानमात्रं प्रयच्छति ।
ते तु सम्मानितास्तस्य प्राणैरप्युपकुर्वते ॥ १७ ॥
ततस्त्वया भोजो भुवनेश्वरीविपिने हन्तव्यः प्रथमयामे निशायाः । शिरश्चान्ते पुरमानेतव्यम्' इति । स चोत्थाय नृपं नत्वाऽऽह–'देवादेशः प्रमाणम् । तथापि भवल्लालनात्किमपि वक्तुकामोऽस्मि । ततः सापरारिमे वचः क्षन्तव्यम् ।
भोजे द्रव्यं न सेना वा परिवारो बलान्वितः ।
परं पोत इवास्तेऽद्य स हन्तव्यः कथं प्रभो ॥ १८ ॥
पारम्पर्य इवासक्तस्त्वत्पाद उदरम्भरिः ।
तद्वधे कारणं नैव पश्यामि नृपपुङ्गव' ॥ १९ ॥
ततो राजा सर्वं प्रातः सभायां प्रवृत्तं वृत्तमकथयत् । स च श्रुत्वा हसन्नाह-
'त्रैलोक्यनाथो रामोऽस्ति वसिष्ठो ब्रह्मपुत्रकः ।
तेन राज्याभिषेके तु मुहूर्तः कथितोऽभवत् ॥ २० ॥
तन्मुहूर्तेन रामोऽपि वनं नीतोऽवनीं विना ।
सीतापहारोऽप्यभवद्वैरिञ्चिवचनं वृथा ॥ २१ ॥
जातः कोऽयं नृपश्रेष्ठ किञ्चिज्ज्ञ उदरम्भरिः ।
यदुक्त्या मन्मथाकारं कुमारं हन्तुमिच्छसि ॥ २२ ॥
किञ्च-- किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
इति सञ्चिन्त्य मनसा प्राज्ञः कुर्वीत वा न वा ॥ २३ ॥
उचितमनुचितं वा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्ते-
र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ २४ ॥
किञ्च-येन सहासितमशितं हसितं कथितं च रहसि विश्रब्धम् ।
तं प्रति कथमसतामपि निवर्तते चित्तमामरणात् ॥ २५ ॥
किञ्च-अस्मिन्हते वृद्धस्य राज्ञः सिन्धुलस्य परमप्रीतिपात्राणि महाचीरास्तवैवानुमते स्थिताः, ते त्वन्नगरमुल्लोलकल्लोलाः पयोधरा इव प्लावयिष्यन्ति । चिराद्बद्धमूलोऽपि त्वयि प्रायः पौरा भोजं भुवो भर्तारं भावयन्ति।
किञ्च-सत्यपि च सुकृतकर्मणि दुर्नीतिश्चेच्छ्रियं हरत्येव ।
तैलैः सदोपयुक्तां दीपशिखां विदलयति हि वातालिः ॥२६॥
देव, पुत्रवधः क्वापि न हिताय ।'इत्युक्तं वत्सराजवचनमाकर्ण्य राजा कुपितः प्राह-- त्वमेव राज्याधिपतिः, न तु सेवकः।
स्वाम्युक्ते यो न यतते स भृत्यो भृत्यपाशकः ।
तज्जीवनमपि व्यर्थमजागलकुचाविव' ।। २७ ॥
इति । ततो वत्सराजः 'कालोचितमालोचनीयम्' इति मत्वा तूष्णीं बभूव ।
अथ लम्बमाने दिवाकर उत्तुङ्गसौधोत्सङ्गादवतरन्तं कुपितमिव कृतान्तं वत्सराजं वीक्ष्य समेता अपि विविधेन मिषेण स्वभवनानि प्रापुर्भीताः सभासदः । ततः स्वसेवकान्स्वागारपरित्राणार्थं प्रेषयित्वा रथं भुवनेश्वरीभवनाभिमुखं विधाय भोजकुमारोपाध्यायाकारणाय प्राहिणोदेकं वत्सराजः । स चाह पण्डितम्-'तात, त्वामाकारयति वत्सराजः' इति । सोऽपि तदाकर्ण्य वज्राहत इव, भूताविष्ट इव, ग्रहग्रस्त इव, तेन सेवकेन करेण धृत्वानीतः पण्डितः । तं च बुद्धिमान्वत्सराजः सप्रणाममित्याह— 'पण्डित, तात, उपविश । राजकुमारं जयन्तमध्ययनशालाया आनय' इति । आयान्तं जयन्तं कुमारं किमप्यधीतं पृष्ट्वानैषीत् । पुनः प्राह पण्डितम्-- 'विप्र, भोजकुमारमानय' इति । ततो विदितवृत्तान्तो भोजः कुपितो ज्वलन्निव शोणितेक्षणः समेत्याह-'आः पाप, राज्ञो मुख्यकुमारमेकाकिनं मां राजभवनाद्बहिरानेतुं तव का नाम शक्तिः इति वामचरणपादुकामादाय भोजेन तालुदेशे हतो वत्सराजः। ततो वत्सराजः प्राह--'भोज, वयं, राजादेशकारिणः ।' इति बालं रथे निवेश्य खड्गमपकोशं कृत्वा जगामाशु महामायाभवनम् । ततो गृहीते भोजे लोकाः कोलाहलं चक्रुः । हुम्भावश्च प्रवृत्तः । 'किं किम्' इति ब्रुवाणा भटा विक्रोशन्त आगत्य सहसा भोजं वधाय नीतं ज्ञात्वा हस्तिशालामुष्ट्रशालां वाजिशालां रथशालां प्रविश्य सर्वाञ्जघ्नुः । ततः प्रतोलीषु राजभवनप्राकारवेदिकासु बहिारविटङ्केषु पुरसमीपेषु भेरीपटहमुरजमड्डुकडिण्डिमनिनदाडम्बरेणाम्बरं विडम्बितमभूत् । केचिद्विमलासिना केचिद्विषेण केचित्कुन्तेन केचित्पाशेन केचिद्वह्निना केचित्परशुना केचिद्भल्लेन केचित्तोमरेण केचित्प्रासेन केचिदम्भसा केचिद्धारायां ब्राह्मणयोषितो राजपुत्रा राजसेवका राजानः पौरांश्च प्राणपरित्यागं दधुः । ततः सावित्रीसंज्ञा भोजस्य जननी विश्वजननीव स्थिता दासीमुखात्स्वपुत्रस्थितिमाकर्ण्य कराभ्यां नेत्रे पिधाय रुदती प्राह–'पुत्र, पितृव्येन कां दशां गमितोऽसि । ये मया नियमा उपवासाश्च त्वत्कृते कृताः, तेऽद्य मे, विफला जाताः । दशापि दिशामुखानि शून्यानि । पुत्र, देवेन सर्वज्ञेन सर्वशक्तिनामृष्टाः श्रियः । पुत्र, एनं दासीवर्गं सहसा विच्छिन्नशिरसं पश्य' इत्युक्त्वा भूमावपतत् ।
ततः प्रदीप्ते वैश्वानरे समुद्भूतधूमस्तोमेनैव मलीमसे नभसि पापत्रासादिव पश्चिमपयोनिधौ मग्ने मार्तण्डमण्डले महामायाभवनमासाद्य प्राह भोजं वत्सराजः-'कुमार, भृत्यानां दैवत, ज्योतिःशास्त्रविशारदेन केनचिद्ब्राह्मणेन तव राज्यप्राप्तावुदीरितायां राज्ञा भवद्वधो व्यादिष्टः इति । भोजः प्राह-
'रामे प्रव्रजनं बलेर्नियमनं पाण्डोः सुतानां वनं
वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् ।
कारागारनिषेवणं च वरणं सञ्चिन्त्य लङ्केश्वरे
सर्वः कालवशेन नश्यति नरः को वा परित्रायते ॥ २८ ॥
लक्ष्मीकौस्तुभपारिजातसहजः सूनुः सुधाम्भोनिधे-
र्देवेन प्रणयप्रसादविधिना मूर्ध्ना धृतः शम्भुना ।
अद्याप्युज्झति नैव दैवविहितं क्षण्यं क्षपावल्लभः
केनान्येन विलङ्घयते विधिगतिः पाषाणरेखासखी ॥ २९ ॥
विकटोर्व्यामप्यटनं शैलारोहणमपान्निधेस्तरणम् ।
निगडं गुहाप्रवेशो विधिपरिपाकः कथं नु सन्तार्यः ॥ ३० ॥
अम्भोधिः स्थलतां स्थलं जलधितां धूलालवः शैलतां
मेरुर्मत्कुणतां तृणं कुलिशतां वज्रं तृणप्रायताम् ।
वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया
लीलादुर्ललिताद्भुतव्यसनिने देवाय तस्मै नमः' ॥ ३१ ॥
ततो वटवृक्षस्य पत्र आदायैकं पुटीकृत्य जङ्गां छुरिकया छित्त्वा तत्र पुटके रक्तमारोप्य तृणेनैकस्मिन्पत्रे कञ्चन श्लोकं लिखित्वा वत्सं प्राह-- "महाभाग, एतत्पत्रं नृपाय दातव्यम् । त्वमपि राजाज्ञां विधेहि' इति । ततो 'वत्सराजस्यानुजो भ्राता भोजस्य प्राणपरित्यागसमये दीप्यमानमुखश्रियमवलोक्य प्राह--
'एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥ ३२ ॥
न ततो हि सहायार्थे माता भार्या च तिष्ठति ।
न पुत्रमित्रौ न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥ ३३ ॥
बलवानप्यशक्तोऽसौ धनवानपि निर्धनः।
श्रुतवानपि मूर्खश्च यो धर्मविमुखो जनः ॥ ३४ ॥
इहैव नरकव्याधेश्चिकित्सां न करोति यः ।
गत्वा निरौषधस्थानं स रोगी किं करिष्यति ॥ ३५ ॥
जरां मृत्युं भयं व्याधिं यो जानाति स पण्डितः ।
स्वस्थस्तिष्ठेन्निषीदेद्वा स्वपेद्वा केनचिद्धसेत् ॥ ३६ ॥
तुल्यजातिवयोरूपान्हृतान्पश्यति मृत्युना ।
नहि तत्रास्ति ते त्रासो वज्रवद्धृदयं तव' ॥ ३७ ॥
इति । ततो वैराग्यमापन्नो वत्सराजो भोजं 'क्षमस्व' इत्युक्त्वा प्रणम्य तं च रथे निवेश्य नगराद्बहिर्घने तमसि गृहमागमय्य भूमिगृहान्तरे निक्षिप्य भोजं ररक्ष । स्वयमेव कृत्रिमविद्याविद्भिः सुकुण्डलं स्फुरद्वक्त्रं निमीलितनेत्रं भोजकुमारमस्तकं कारयित्वा तच्चादाय कनिष्ठो राजभवनं गत्वा राजानं नत्वा प्राह-'श्रीमता यदादिष्टं तत्साधितम्' इति । ततो राजा च पुत्रवधं ज्ञात्वा तमाह-'वत्सराज, खड्गप्रहारसमये तेन पुत्रेण किमुक्तम्' इति । वत्सस्तत्पत्रमदात् । राजा स्वभार्याकरेण दीपमानीय तानि पत्राक्षराणि वाचयति-
'मान्धाता च महीपतिः कृतयुगालङ्कारभूतो गतः
सेतुर्येन महोदधौ विरचितः कासौ दशास्यान्तकः ।
अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते
नैकेनापि समं गता वसुमती मुञ्ज त्वया यास्यति ॥ ३८ ॥
राजा च तदर्थं ज्ञात्वा शय्यातो भूमौ पपात । ततश्च देवीकरकमलचालितचेलाञ्चलानिलेन ससंज्ञो भूत्वा 'देवि, मा मां स्पृश हा हा पुत्रघातिनम्' इति विलपन्कुरर इव द्वारपालानानाय्य 'ब्राह्मणानानयत' इत्याह । ततः स्वाज्ञया समागतान्ब्राह्मणान्नत्वा 'मया पुत्रो हतः, तस्य प्रायश्चित्तं वदध्वम्' इति वदन्तं ते तमूचुः-'राजन् , सहसा वह्निमाविश' इति । ततः समेत्य बुद्धिसागरः प्राह–'यथा त्वं राजाधमः, तथैवामात्याधमो वत्सराजः । तव किल राज्यं दत्त्वा सिन्धुलनृपेण तेन त्वदुत्सङ्गे भोजः स्थापितः । तच्च त्वया पितृव्येणान्यत्कृतम् ।
कतिपयदिवसस्थायिनि मदकारिणि यौवने दुरात्मानः ।
विदधति तथापराधं जन्मैव यथा वृथा भवति ॥ ३९ ॥
सन्तस्तृणोत्सारणमुत्तमाङ्गात्सुवर्णकोट्यर्पणमामनन्ति ।
प्राणव्ययेनापि कृतोपकाराः खलाः परे वैरमिवोद्वहन्ति ॥ ४० ॥
उपकारश्चापकारो यस्य व्रजति विस्मृतिम् ।
पाषाणहृदयस्यास्य जीवतीत्यभिधा मुधा ॥ ४१ ॥
यथाङ्कुरः सुसूक्ष्मोऽपि प्रयत्नेनाभिरक्षितः ।
फलप्रदो भवेत्काले तथा लोकः सुरक्षितः ॥ ४२ ॥
हिरण्यधान्यरत्नानि धनानि विविधानि च ।
तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्युर्महीभृताम् ॥ ४३ ॥
राज्ञि धर्मिणि धर्मिष्ठाः पापे पापपराः सदा ।
राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥ ४४ ॥
ततो रात्रावेव वहिप्रवेशने निश्चिते राज्ञि सर्वे सामन्ताः पौराश्च मिलिताः 'पुत्रं हत्वा पापभयाद्भीतो नृपतिर्वह्निं प्रविशति' इति किंवदन्ती सर्वत्राजनि । ततो बुद्धिसागरो द्वारपालमाहूय 'न केनापि भूपालभवनं प्रवेष्टव्यम्' इत्युक्त्वा नृपमन्तःपुरे निवेश्य सभायामेकाकी सन्नुपविष्टः । ततो राजमरणवार्तां श्रुत्वा वत्सराजः सभागृहमागत्य बुद्धिसागरं नत्वा शनैः प्राह 'तात, मया भोजराजो रक्षितः' इति । बुद्धिसागरश्च कर्णे तस्य किमप्यकथयत् । तच्छ्रुत्वा वत्सराजश्च निष्क्रान्तः ।
ततो मुहूर्तेन कोऽपि करकलितदन्तीन्द्रदन्तदण्डो विरचितप्रत्यग्रजटाकलापः कर्पूरकरम्बितभसितोद्वर्तितसकलतनुर्मूर्तिमान्मन्मथ इव स्फटिककुण्डलमण्डितकर्णयुगलः कौशेयकौपीनो मूर्तिमांश्चन्द्रचूड इव सभां कापालिकः समागतः । तं वीक्ष्य बुद्धिसागरः प्राह-योगीन्द्र, कुत आगम्यते । कुत्र ते निवेशश्च । कापालिके त्वयि यच्चमत्कारकारी कलाविशेष औषधविशेषोऽप्यस्ति ।' योगी प्राह
देशे देशे भवनं भवने भवने तथैव भिक्षान्नम् ।
सरसि च नद्यां सलिलं शिव शिव तत्त्वार्थयोगिनां पुंसाम् ॥ ४५ ॥
ग्रामे ग्रामे कुटी रम्या निर्झरे निर्झरे जलम् ।
भिक्षायां सुलभं चान्नं विभवैः किं प्रयोजनम् ॥ ४६ ॥
देव, अस्माकं नैको देशः। सकलभूमण्डलं भ्रमामः । गुरूपदेशे तिष्ठामः । निखिलं भुवनतलं करतलामलकवत्पश्यामः । सर्पदष्टं विषव्याकुलं रोगग्रस्तं शस्त्रभिन्नशिरस्कं कालशिथिलितं तात, तत्क्षणादेव विगतसकलव्याधिसञ्चयं कुर्मः इति । राजापि कुड्यन्तर्हित एव श्रुतसकलवृत्तान्तः सभामागतः कापालिकं दण्डवत्प्रणम्य, योगीन्द्र, रुद्रकल्प, परोपकारपरायण, महापापिना मया हतस्य पुत्रस्य प्राणदानेन मां रक्ष' इत्याह । अथ कापालिकोऽपि 'राजन् , मा भैषीः । पुत्रस्ते न मरिष्यति । शिवप्रसादेन गृहमेष्यति । परं श्मशानभूमौ बुद्धिसागरेण सह होमद्रव्याणि प्रेषय' इत्यवोचत् । ततो राज्ञा 'कापालिकेन यदुक्तं तत्सर्वं तथा कुरु' इति बुद्धिसागरः प्रेषितः । ततो रात्रौ गूढरूपेण भोजोऽपि तत्र नदीपुलिने नीतः । 'योगिना भोजो जीवितः' इति प्रथा च समभूत् । ततो गजेन्द्रारूढो बन्दिभिः स्तूयमानो भेरीमृदङ्गादिघोषैर्जगद्वधिरीकुर्वन्पौरामात्यपरिवृतो भोजराजो राजभवनमगात् । राजा च तमालिङ्गय रोदिति । भोजोऽपि रुदन्तं मुञ्जं निवार्यास्तौषीत् । ततः सन्तुष्टो राजा निजसिंहासने तस्मिन्निवेशयित्वा छत्रचामराभ्यां भूषयित्वा तस्मै राज्यं ददौ । निजपुत्रेभ्यः प्रत्येकमेकैकं ग्रामं दत्त्वा परमप्रेमास्पदं जयन्तं भोजनिकाशे निवेशयामास । ततः परलोकपरित्राणो मुञोऽपि निजपट्टराज्ञीभिः सह तपोवनभूमिं गत्वा परं तपस्तेपे । ततो भोजभूपालश्च देवब्राह्मणप्रसादाद्राज्यं पालयामास ।
इति भोजराजस्य राज्यप्राप्तिप्रबन्धः ।
ततो मुञ्जे तपोवनं याते बुद्धिसागरं मुख्यामात्यं विधाय स्वराज्यं बुभुजे भोजराजभूपतिः । एवमतिक्रामति काले कदाचिद्राज्ञा क्रीडतोद्यानं गच्छता कोऽपि धारानगरवासी विप्रो लक्षितः । स च राजानं वीक्ष्य नेत्रे निमील्यागच्छन्राज्ञा पृष्टः- 'द्विज, त्वं मां दृष्ट्वा न स्वस्तीति जल्पसि । विशेषेण लोचने निमीलयसि । तत्र को हेतुः' इति । विप्र आह- 'देव, त्वं वैष्णवोऽसि । विप्राणां नोपद्रवं करिष्यसि ततस्त्वत्तो न मे भीतिः। किं तु कस्मैचित्किमपि न प्रयच्छसि; तेन तव दाक्षिण्यनामानं नास्ति । अतस्ते किमाशीर्वचसा । किं च प्रातरेव कृपणमुखावलोकनात्परतोऽपि लाभहानिः स्यादिति लोकोक्त्या लोचने निमीलिते ।
अपि च-प्रसादो निष्फलो यस्य कोपश्चापि निरर्थकः ।
न तं राजानमिच्छन्ति प्रजाः षण्ढमिव स्त्रियः ॥ ४७ ॥
अप्रगल्भस्य या विद्या कृपणस्य च यद्धनम् ।
यच्च बाहुबलं भीरोर्व्यर्थमेतत्त्रयं भुवि ॥ ४८ ॥
देव, मत्पिता वृद्धः काशीं प्रति गच्छन्मया शिक्षा पृष्टः- 'तात, मया किं कर्तव्यम्' इति । पित्रा चेत्थमभ्यधायि-
'यदि तव हृदयं विद्वन्सुनयं स्वप्नेऽपि मा स्म सेविष्ठाः ।
सचिवजितं षण्ढजितं युवतिजितं चैव राजानम् ॥ ४९ ॥
पातकानां समस्तानां द्वे परे तात पातके ।
एकं दुःसचिवो राजा द्वितीयं च तदाश्रयः ॥ ५० ॥
अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीवः ।
यत्र खलाश्च प्रबलास्तत्र कथं सज्जनावसरः ॥ ५१ ॥
राजा सम्पत्तिहीनोऽपि सेव्यः सेव्यगुणाश्रयः ।
भवत्याजीवनं तस्मात्फलं कालान्तरादपि ॥ ५२ ॥
अदातुर्दाक्षिण्यं नहि भवति । देव, पुरा कर्ण-दधिचि-शिबि-विक्रम-प्रमुखाः क्षितिपतयो यथा परलोकमलङ्कुर्वाणा निजदानसमुद्भूतदिव्यनवगुणैर्निवसन्ति महीमण्डले, तथा किमपरे राजानः ।
देहे पातिनि का रक्षा यशो रक्ष्यमपातवत् ।
नरः पतितकायोऽपि यशःकायेन जीवति ॥ ५३ ॥
पण्डिते चैव मूर्खे च बलवत्यपि दुर्बले ।
ईश्वरे च दरिद्रे च मृत्योः सर्वत्र तुल्यता ॥ ५४ ॥
निमेषमात्रमपि ते वयो गच्छन्न तिष्ठति ।
तस्माद्देहेष्वनित्येषु कीर्तिमेकामुपार्जयेत् ॥ ५५ ॥
जीवितं तदपि जीवितमध्ये गण्यते सुकृतिभिः किमु पुंसाम् ।
ज्ञानविक्रमकलाकुललज्जा त्यागभोगरहितं विफलं यत्' ॥ ५६ ॥
राजापि तेन वाक्येन पीयूषपूरस्नात इव, परब्रह्मणि लीन इव, लोचनाभ्यां हर्षाश्रूणि मुमोच । प्राह च द्विजम्-'विप्रवर, शृणु-
सुलभाः पुरुषा लोके सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ ५७ ॥
मनीषिणः सन्ति न ते हितैषिणो हितैषिणः सन्ति न ते मनीषिणः ।
सुहृच्च विद्वानपि दुर्लभो नृणां यथौषधं स्वादु हितं च दुर्लभम्' ॥ ५८ ॥
इति विप्राय लक्षं दत्त्वा 'किं ते नाम' इत्याह । विप्रः स्वनाम भूमौ लिखति 'गोविन्दः' इति । राजा वाचयित्वा 'विप्र, प्रत्यहं राजभवनमागन्तव्यम् । न ते कश्चिन्निषेधः । विद्वांसः कवयश्च कौतुकात्सभामानेतव्याः । कोऽपि विद्वान्न खलु दुःखभागस्तु, एनमधिकारं पालय' इत्याह ।
एवं गच्छत्सु कतिपयदिवसेषु राजा विद्वत्प्रियो दानवित्तेश्वर इति यामास।
प्रथामगात् । ततो राजानं दिदृक्षवः कवयो नानादिग्भ्यः समागताः । एवं वित्तादिव्ययं कुर्वाणं राजानं प्रति कदाचिन्मुख्यामात्येनेत्थमभ्यधायि-'देव, राजानः कोशबला एव विजयिनः । नान्ये ।
स जयी वरमातङ्गा यस्य तस्यास्ति मेदिनी ।
कोशो यस्य स दुर्धर्षो दुर्गं यस्य स दुर्जयः ॥ ५९ ॥
देव, लोकं पश्य-
प्रायो धनवतामेव धने तृष्णा गरीयसी ।
पश्य कोटिद्वयासक्तं लक्षाय प्रवणं धनुः' ॥ ६० ॥
इति राजा च तमाह-
'दानोपभोगवन्ध्या या सुहृद्भिर्या न भुज्यते ।
पुंसा समाहिता लक्ष्मीरलक्ष्मीः क्रमशो भवेत् ॥ ६१ ॥
इत्युक्त्वा राजा तं मन्त्रिणं निजपदादूरीकृत्य तत्पदेऽन्यं निवेशयामास ।
-आह च तम्-'लक्षं महाकवेर्देयं तदर्धं विबुधस्य च ।
देयं ग्रामैकमर्धस्य तस्याप्यर्धं तदर्थिनः ॥ ६२ ॥
यश्च मेऽमात्यादिषु वितरणनिषेधमनाः स हन्तव्यः । उक्तं च-
यद्ददाति यदश्नाति तदेव धनिनां धनम् ।
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ ६३ ॥
प्रियः प्रजानां दातैव न पुनर्द्रविणेश्वरः ।
अयच्छन्काङ्क्षते लोकैर्वारिदो न तु वारिधिः ॥ ६४ ॥
सङ्ग्रहैकपरः प्रायः समुद्रोऽपि रसातले ।
दातारं जलदं पश्य गर्जन्तं भुवनोपरि' ॥ ६५ ॥
एवं वितरणशालिनं भोजराजं श्रुत्वा कश्चित्कलिङ्गदेशात्कविरुपेत्य मासमात्रं तस्थौ । न च क्षोणीन्द्रदर्शनं भवति । आहारार्थे पाथेयमपि नास्ति । ततः कदाचिद्राजा मृगयाभिलाषी बहिर्निर्गतः । स कविर्दृष्ट्वा राजानमाह-
'दृष्टे श्रीभोजराजेन्द्रे गलन्ति त्रीणि तत्क्षणात् ।
शत्रोः शस्त्रं कवेः कष्टं नीवीबन्धो मृगीदृशाम्' ॥ ६६ ॥
एते हि गुणाः पङ्कज सन्तोऽपि न ते प्रकाशमायान्ति ।
यल्लक्ष्मीवसतेस्तव मधुपैरुपभुज्यते कोशः' ६७ ॥
भोजस्तमभिप्रायं ज्ञात्वा पुनर्लक्षमेकं ददौ । ततो राजा ब्राह्मणमाह-
'प्रभुभिः पूज्यते विप्र कलैव न कुलीनता ।
कलावान्मान्यते मूर्ध्नि सत्सुादेवेषु शम्भुना' ।। ६८ ।।
एवं वदति भोजे कुतोऽपि पञ्चषाः कवयः समागताः । तान्दृष्ट्वा राजा विलक्षण इवासीत्-'अद्यैव मयैतावद्वित्तं दत्तम्' इति । ततः कविस्तमभिप्रायं ज्ञात्वा नृपं पद्ममिषेण पुनः प्राह-
'किं कुप्यसि कस्मैचन सौरभसाराय कुप्य निजमधुने ।
यस्य कृते शतपत्र प्रतिपत्रं तेऽद्य मृग्यते भ्रमरैः' ॥ ६९ ॥
ततः प्रभु प्रसन्नवदनमवलोक्य प्रकाशेन प्राह-
'न दातुं नोपभोक्तुं च शक्नोति कृपणः श्रियम् ।
किन्तु स्पृशति हस्तेन नपुंसक इव स्त्रियम् ॥ ७० ॥
याचितो यः प्रहृष्येत दत्त्वा यः प्रीतिमान्भवेत् ।
तं दृष्ट्वाप्यथवा श्रुत्वा नरः स्वर्गमवाप्नुयात्' ॥ ७१ ॥
ततस्तुष्टो राजा पुनरपि कलिङ्गदेशवासिकवये लक्षं ददौ । ततः पूर्वकविः पुरःस्थितान्षट्कवीन्द्रान्दृष्ट्वाह–'हे कवयः, अत्र महासरः सेतुभूमौवासी राजा यदा भवनं गमिष्यति तदा किमपि ब्रूत' इति । ते च सर्वे महाकवयोऽपि सर्वे राज्ञः प्रथमचेष्टितं ज्ञात्वावर्तन्त । तेष्वेकः सरोमिषेण नृपं प्राह--
'आगतानामपूर्णानां पूर्णानामपि गच्छताम् ।
यदध्वनि न सङ्घट्टो घटानां तत्सरो वरम्' ॥ ७२ ॥
इति । तस्य राजा लक्षं ददौ । ततो गोविन्दपण्डितस्तान्कवीन्द्रान्दृष्ट्वा
चुकोप । तस्य कोपाभिप्रायं ज्ञात्वा द्वितीयः कविराह 'कस्य तृषं न क्षपयसि पिबति न कस्तव पयः प्रविश्यान्तः ।
यदि सन्मार्गसरोवरनक्रो न क्रोडमधिवसति' ॥ ७३ ॥
राजा तस्मै लक्षद्वयं ददौ । तं च गोविन्दपण्डितं व्यापारपदादूरीकृत्य त्वयापि सभायामागन्तव्यम् , परंतु केनापि दौष्ट्यं न कर्तव्यम्' इत्युक्त्वा ततस्तेभ्यः प्रत्येकं लक्षं दत्त्वा स्वनगरमागतः। ते च यथायथं गताः।
ततः कदाचिद्राजा मुख्यामात्यं प्राह--
'विप्रोऽपि यो भवेन्मूर्खः स पुराद्बहिरस्तु मे ।
कुम्भकारोऽपि यो विद्वान्स तिष्ठतु पुरे मम' ॥ ७४ ॥
इति । अतः कोऽपि न मूर्योऽभूद्धारानगरे
ततः क्रमेण पञ्चशतानि विदुषां वररुचि-बाण-मयूर-रेफण-हरि-शंकर-कलिङ्ग-कर्पूर-विनायक-मदन-विद्या-विनोद-कोकिल-तारेन्द्रमुखाः सर्वशास्त्रविचक्षणाः सर्वे सर्वज्ञाः श्रीभोजराजसभामलंचक्रुः । एवं स्थिते कदाचिद्विद्वद्वृन्दवन्दिसिंहासनासीने कविशिरोमणौ कवित्वप्रिये विप्रप्रियबान्धवे भोजेश्वरे द्वारपाल एत्य प्रणम्य व्यजिज्ञपत्–'देव, कोऽपि विद्वान्द्वारि तिष्ठति' इति । अथ राज्ञा 'प्रवेशय तम्' इत्याज्ञप्ते सोऽपि दक्षिणेन पाणिना समुन्नतेन विराजमानो विप्रः प्राह-'राजन्नभ्युदयोऽस्तु'
राजा-'शंकरकवे किं पत्रिकायामिदम्'
कविः-'पद्यम्'
राजा-कस्य'
कविः-'तवैव भोजनृपते'
राजा-'तत्पठ्यताम्'
कविः-'पठ्यते'
एतासामरविन्दसुन्दरदृशां द्राक्चामरान्दोलना-
दुद्वेल्लभुजवल्लिकङ्कणझणत्कारः क्षणं वार्यताम् ॥ ७५ ॥
यथा यथा भोजयशो विवर्धते सितां त्रिलोकीमिव कर्तुमुद्यतम् ।
तथा तथा मे हृदयं विदूयते प्रियालकालीधवलत्वशङ्कया' ॥ ७६ ॥
ततो राजा शंकरकवये द्वादशलक्षं ददौ । सर्वे विद्वांसश्च विच्छायवदना बभूवुः । परं कोऽपि राजभयान्नावदत् । राजा च कार्यवशाद्गृहं गतः । ततो विभूपालां सभां दृष्ट्वा विबुधगणस्तं निनिन्द–'अहो नृपतेरज्ञता। किमस्य सेवया । वेदशास्त्रविचक्षणेभ्यः स्वाश्रयकविभ्यो लक्षमदात् । किमनेन वितुष्टेनापि । असौ च केवलं ग्राम्यः कविः शंकरः । किमस्य प्रागल्भ्यम् ।' इत्येवं कोलाहलरवे जाते कश्चिदभ्यगात् कनकमणिकुण्डलशाली दिव्यांशुकप्रावरणो नृपकुमार इव मृगमदपङ्ककलङ्कितगात्रो नवकुसुमसमभ्यर्चितशिराश्चन्दनाङ्गरागेण विलोभयन्विलास इव मूर्तिमान्कवितेव तनुमाश्रितः शृङ्गाररसस्य स्यन्द इव सस्पन्दो महेन्द्र इव महीवलयं प्राप्तो विद्वान् । तं दृष्ट्वा सा विद्वत्परिषद्भयकौतुकयोः पात्रमासीत् । स च सर्वान्प्रणिपत्य प्राह–'कुत्र भोजनृपः' इति । ते तमूचुः- 'इदानीमेव सौधान्तरगतः' इति । ततोऽसौ प्रत्येकं तेभ्यस्ताम्बूलं दत्त्वा गजेन्द्रकुलगतो मृगेन्द्र इवासीत् । ततः स महापुरुषः शंकरकविप्रदानेन कुमितांस्तान्बुद्ध्वा प्राह भवद्भिः शंकरकवये द्वादशलक्षाणि प्रदत्तानीति न मन्तव्यम् । अभिप्रायस्तु राज्ञो नैव बुद्धः। यतः शंकरपूजने प्रारब्धे शंकरकविस्त्वेकेनैव लक्षेण पूजितः । किं तु तन्निष्ठांस्तन्नाम्ना विभ्राजितानेकादशरुद्राशंकरानपरान्मूर्तीन्प्रत्यक्षाञ्ज्ञात्वा तेषां प्रत्येकमेकैकं लक्षं तस्मै शंकरकवय एव शंकरमूर्तये प्रदत्तमिति राज्ञोऽभिप्रायः' इति । सर्वेऽपि चमत्कृतास्तेन ।
ततः कोऽपि राजपुरुषस्तद्विद्वत्स्वरूपं द्राग्राज्ञे निवेदयामास । राजा च स्वमभिप्रायं साक्षाद्विदितवन्तं तं महेशमिव महापुरुषं मन्यमानः सभामभ्यगात् । स च 'स्वस्ति'-इत्याह राजानम् । राजा च तमालिङ्ग्य प्रणम्य निजकरकमलेन तत्करकमलमवलम्ब्य सौधान्तरं गत्वा प्रोत्तुङ्गगवाक्ष उपविष्टः प्राह–'विप्र भवन्नाम्ना कान्यक्षराणि सौभाग्यावलम्बितानि । कस्य वा देशस्य भवद्विरहः सुजनान्बाधते' इति । ततः कविर्लिखति राज्ञो हस्ते 'कालिदासः' इति । राजा वाचयित्वा पादयोः पतति ।
ततस्तत्रासीनयोः कालिदासभोजराजयोरासीत्सन्ध्या । राजा-सखे, 'सन्ध्यां वर्णय' इत्यवादीत् । कालिदासः-
'व्यसनिन इव विद्या क्षीयते पङ्कजश्री-
र्गुणिन इव विदेशे दैन्यमायान्ति भृङ्गाः।
कुनृपतिरिव लोकं पीडयत्यन्धकारो
धनमिव कृपणस्य व्यर्थतामेति चक्षुः' ॥ ७७ ॥
पुनश्च राजानं स्तौति कविः-
'उपचारः कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः ।
उत्पन्नसौहृदानामुपचारः कैतवं भवति ॥ ७८ ॥
दत्ता तेन कविभ्यः पृथ्वी सकलापि कनकसम्पूर्णा ।
दिव्यां सुकाव्यरचनां क्रमं कवीनां च यो विजानाति ॥ ७९ ॥
सुकवेः शब्दसौभाग्यं सत्कविर्वेत्ति नापरः ।
वन्ध्या न हि विजानाति परां दौर्हदसम्पदम्' ॥ ८० ॥
इति । ततः क्रमेण भोजकालिदासयोः प्रीतिरजायत ।
ततः कालिदासं वेश्यालम्पटं ज्ञात्वा तस्मिन्सर्वे द्वेषं चक्रः । न कोऽपि तं स्पृशति । अथ कदाचित्सभामध्ये कालिदासमालोक्य भोजेन मनसा चिन्तितम्-'कथमस्य प्राज्ञस्यापि स्मरपीडाप्रमादः' इति । सोऽपि तदभिप्रायं ज्ञात्वा प्राह-
'चेतोभुवश्चापलताप्रसङ्गे का वा कथा मानुषलोकभाजाम् ।
यद्दाहशीलस्य पुरां विजेतुस्तथाविधं पौरुषमर्धमासीत् ॥ ८१ ॥
ततस्तुष्टो भोजराजः प्रत्यक्षरं लक्षं ददौ ।
ततः कालिदासो भोजं स्तौति-
'महाराज श्रीमञ्जगति यशसा ते धवलिते
पयः पारावारं परमपुरुषोऽयं मृगयते ।
कपर्दी कैलासं करिवरमभौमं कुलिशभृ-
त्कलानाथं राहुः कमलभवनो हंसमधुना ॥ ८२ ॥
नीरक्षीरे गृहीत्वा निखिलखगततीर्याति नालीकजन्मा
चक्रं धृत्वा तु सर्वानटति जलनिधींश्चक्रपाणिर्मुकुन्दः ।
सर्वानुत्तुङ्गशैलान्दहति पशुपतिः फालनेत्रेण पश्यन्
व्याप्ता त्वत्कीर्तिकान्ता त्रिजगति नृपते भोजराज क्षितीन्द्र ॥ ८३ ॥
विद्वद्राजशिखामणे तुलयितुं धाता त्वदीयं यशः
कैलासं च निरीक्ष्य तत्र लघुतां निक्षिप्तवान्पूर्तये ।
उक्षाणं तदुपर्युमासहचरं तन्मूर्ध्नि गङ्गाजलं
तस्याग्रे फणिपुङ्गवं तदुपरि स्फारं सुधादीधितिम् ॥ ८४ ॥
स्वर्गाद्गोपाल कुत्र व्रजसि सुरमुने भूतले कामधेनो-
र्वत्सस्यानेतुकामस्तृणचयमधुना मुग्ध दुग्धं न तस्याः।
श्रुत्वा श्रीभोजराजप्रचुरवितरणं व्रीडशुष्कस्तनी सा
व्यर्थो हि स्यात्प्रयासस्तदपि तदरिभिश्चर्वितं सर्वमुाम् ॥ ८५ ॥
तुष्टो राजा प्रत्यक्षरं लक्षं ददौ ।
ततः कदाचिच्छ्रुतिस्मृतिपारंगताः केचिद्राजानं कवित्वप्रियं ज्ञात्वा क्वचिन्नगराद्बहिः भुवनेश्वरीप्रसादेन कवित्वं करिष्यामः' इत्युपविष्टाः । तेष्वेकेन पण्डितम्मन्येनैकश्चरणोऽपाठि-
'भोजनं देहि राजेन्द्र'
इति । अन्येनापाठि- 'घृतसूपसमन्वितम् ।'
इति । उत्तरार्धं न स्फुरति । ततो देवताभवनं कालिदासः प्रणामार्थमगात् । तं वीक्ष्य द्विजा ऊचुः--'अस्माकं समग्रवेदविदामपि भोजः किमपि नार्पयति । भवादृशां हि यथेष्टं दत्ते । ततोऽस्माभिः कवित्वविधानधियात्रागतम् । चिरं विचार्य पूर्वार्धमभ्यधायि, उत्तरार्धं कृत्वा देहि । ततोऽस्मभ्यं किमपि प्रयच्छति ।' इत्युक्त्वा तत्पुरस्तादर्धमभाणि । स च तच्छ्रुत्वा।
'माहिषं च शरच्चन्द्रचन्द्रिकाधवलं दधि' ॥ ८६ ॥
इत्याह । ते च राजभवनं गत्वा दौवारिकानूचुः 'वयं कवितां कृत्वा समागताः । राजानं दर्शयत' इति । ते च कौतुकाद्धसन्तो गत्वा राजानं प्रणम्य प्राहुः--
'राजमाषनिभैर्दन्तैः कटिविन्यस्तपाणयः ।
द्वारि तिष्ठन्ति राजेन्द्र च्छान्दसाः श्लोकशत्रवः' ॥ ८७ ॥
इति । राज्ञा प्रवेशितास्ते दृष्टराजसंसदो मिलिताः सन्तः सहैव कवित्वं पठन्ति स्म । राजा तच्छ्रुत्वोत्तरार्धं कालिदासेन कृतमिति ज्ञात्वा विप्रानाह–'येन पूर्वार्धं कारितं तन्मुखात्कवित्वं कदाचिदपि न करणीयम् । उत्तरार्धस्य किञ्चिद्दीयते, न पूर्वार्धस्य ।'इत्युक्त्वा प्रत्यक्षरं लक्षं ददौ । तेषु च दक्षिणामादाय गतेषु कालिदासं वीक्ष्य राजा प्राह-कवे उत्तरार्धं त्वया कृतम्' इति । कविराह-
'अधरस्य मधुरिमाणं कुचकाठिन्यं दृशोश्च तैक्ष्ण्यं च ।
कवितायां परिपाकं ह्यनुभवरसिको विजानाति' ॥ ८८ ॥
राजा च-'सुकवे, सत्यं वदसि ।
अपूर्वो भाति भारत्याः काव्यामृतफले रसः ।
चर्वणे सर्वसामान्ये स्वादुवित्केवलः कविः ॥ ८९ ॥
सञ्चिन्त्य सञ्चिन्त्य जगत्समस्तं त्रयः पदार्था हृदयं प्रविष्टाः ।
इक्षोर्विकारा मतयः कवीनां मुग्धाङ्गनापाङ्गतरङ्गितानि ॥ ९० ॥
ततः कदाचिद् द्वारपालकः प्रणम्य भोजं प्राह-- राजन्, द्रविडदेशात्कोऽपि लक्ष्मीधरनामा कविर्द्वारमध्यास्ते' इति । राजा 'प्रवेशय' इत्याह । प्रविष्टमिव सूर्यमिव विभ्राजमानं चिरादप्यविदितवृत्तान्तं प्रेक्ष्य राजा विचारयामास । आह च-
'आकारमात्रविज्ञानसम्पादितमनोरथाः ।
धन्यास्ते ये न शृण्वन्ति दीनाः क्वाप्यर्थिनां गिरः' ॥ ९१ ॥
स चागत्य तत्र राजानं 'स्वस्ति' इत्युक्त्वा तदाज्ञयोपविष्टः प्राह- 'देव, इयं ते पण्डितमण्डिता सभा । त्वं च साक्षाद्विष्णुरसि । ततः किं नाम पाण्डित्यं तथाऽपि किञ्चिद्वच्मि-
भोजप्रतापं तु विधाय धात्रा शेषैर्निरस्तैः परमाणुभिः किम् ।
हरेः करेऽभूत्पविरम्बरे च भानुः पयोधेरुदरे कृशानुः ॥ ९२ ॥
इति । ततस्तेन परिषच्चत्कृता। राजा च तस्य प्रत्यक्षरं लक्षं ददौ । पुनः कविराह-'देव, मया सकुटुम्बेनात्र निवासाशया समागतम् ।
क्षमी दाता गुणग्राही स्वामी पुण्येन लभ्यते ।
अनुकूलः शुचिर्दक्षः कविर्विद्वान्सुदुर्लभः ॥ ९३ ॥
इति । ततो राजा मुख्यामात्यं प्राह–'अस्मै गृहं दीयताम्' इति । ततो निखिलमपि नगरं विलोक्य कमपि मूर्खममात्यो नापश्यत् , यं निरस्य विदुषे गृहं दीयते । तत्र सर्वत्र भ्रमन्कस्यचित्कुविन्दस्य गृहं वीक्ष्य कुविन्दं प्राह--'कुविन्द, गृहान्निःसर । तव गृहं विद्वानेष्यति' इति । ततः कुविन्दो राजभवनमासाद्य राजानं प्रणम्य प्राह-'देव, भवदमात्यो मां मूर्खं कृत्वा गृहान्निःसारयति, त्वं तु पश्य मूर्खः पण्डितो वेति ।
काव्यं करोमि नहि चारुतरं करोमि
यत्नात्करोमि यदि चारुतरं करोमि ।
भूपालमौलिमणिमण्डितपादपीठ
हे साहसाङ्क कवयामि वयामि यामि ॥ ९४ ॥
ततो राजा त्वङ्कारवादेन वदन्तं कुविन्दं प्राह-'ललिता ते पदपङ्क्तिः, कवितामाधुर्यं च शोभनम्, परन्तु कवित्वं विचार्य वक्तव्यम्' इति । ततः कुपितः कुविन्दः प्राह-'देव, अत्रोत्तरं भाति किन्तु न वदामि । राजधर्मः पृथग्विद्वद्धर्मात्' इति । राजा प्राह–'अस्ति चेदुत्तरं ब्रूहि' इति । कुविन्दः प्राह-देव , कालिदासादृतेऽन्यं कविं न मन्ये । कोऽस्ति ते सभायां कालिदासादृते कवितातत्त्वविद्विद्वान् ।
यत्सारस्वतवैभवं गुरुकृपापीयूषपाकोद्भवं
तल्लभ्यं कविनैव नैव हठतः पाठप्रतिष्ठाजुषाम् ।
कासारे दिवसं वसन्नपि पयःपूरं परं पङ्किलं
कुर्वाणः कमलाकरस्य लभते किं सौरभं सैरिभः ॥९५॥
अयं मे वाग्गुम्फो विशदपदवैदग्ध्यमधुरः
स्फुरद्बन्धो वन्ध्यः परहृदि कृतार्थः कविहृदि ।
कटाक्षो वामाक्ष्या दरदलितनेत्रान्तगलितः
कुमारे निःसारः स तु किमपि यूनः सुखयति ॥ १६ ॥ इति
विद्वज्जनवन्दिता सीता प्राह-
विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये स्वे ।
निन्दति कञ्चुकमेव प्रायः शुष्कस्तनी नारी ॥ ९७ ॥
ततः कुविन्दः प्राह- बाल्ये सुतानां सुरतेऽङ्गनानां स्तुतौ कवीनां समरे भटानाम् । त्वंकारयुक्ता हि गिरः प्रशस्ताः कस्ते प्रभो मोहभरः स्मर त्वम् ।। ९८॥
ततो राजा 'साधु भोः कुविन्द' इत्युक्त्वा तस्याक्षरलक्षं ददौ। 'मा भैषीः, इति पुनः कुविन्दं प्राह ।
एंवंक्रमेणातिक्रान्ते कियत्यपि काले बाणः पण्डितवरः परं राज्ञा मान्यमानोऽपि प्राक्तनकर्मतो दारिद्र्यमनुभवति । एवं स्थिते नृपतिः कदाचिद्रात्रावेकाकी प्रच्छन्नवेषः स्वपुरे चरन्बाणगृहमेत्यातिष्ठत् । तदा निशीथे बाणो दारिद्र्याद्व्याकुलतया कान्तां वक्ति-'देवि,राजा कियद्वारं मम मनोरथमपूरयत् । अद्यापि पुनः प्रार्थितो ददात्येव । परन्तु निरन्तरप्रार्थनारसे मूर्खस्यापि जिह्वा जडीभवति ।' इत्युक्त्वा मुहूर्तार्धमौनेन स्थितः। पुनः पठति-
हर हर पुरहर परुषं क हलाहलफल्गु याचनावचसोः ।
एकैव तव रसज्ञा तदभयरसतारतम्यज्ञा ॥ ९९ ॥
देवि,
दारिद्र्यस्यापरा मूर्तिर्याच्या न द्रविणाल्पता ।
अपि कौपीनवाशंभुस्तथापि परमेश्वरः ॥ १०० ॥
सेवा सुखानां व्यसनं धनानां याच्या गुरूणां कुनृपः प्रजानाम् ।
प्रणष्टशीलस्य सुतः कुलानां मूलावघातः कठिनः कुठारः ॥ १०१ ॥
तत्सत्यपि दारिद्र्यं राज्ञो वक्तुं मया स्वयमशक्यम् ।
यच्छन्क्षणमपि जलदो वल्लभतामेति सर्वलोकस्य ।
नित्यप्रसारितकरः करोति सूर्योऽपि सन्तापम् ॥ १०२ ॥
किं च देवि, वैश्वदेवावसरे प्राप्ताः क्षुधार्ताः पश्चाद्यान्तीति तदेव मे हृदयं दुनोति।
दारिद्र्यानलसन्तापः शान्तः सन्तोषवारिणा ।
याचकाशाविघातान्तर्दाहः केनोपशाम्यते ॥ १०३ ॥
राजा चैतत्सर्वं श्रुत्वा 'नेदानीं किमपि दातुं योग्यः । प्रातरेव बाणं पूर्णमनोरथं करिष्यामि ।' इति निष्क्रान्तो राजा-
'कृतो यैर्न च वाग्मी च व्यसनी तं न यैः पदम् ।
यैरात्मसदृशो नार्थी किं तैः काव्यैर्बलैर्धनैः ॥ १०४॥
कोटिद्वयपरिमितमणिकनकजातेन किं करिष्यसि' इति ।
शकुन्तः 'एतद्धनं कस्मैचिद्विजन्मनेद् दास्यामि यथायं वेदवेदाङ्गपारणोऽन्यं न प्रार्थयति ।'
मराल:-"सखे चारु।
ददतो युध्यमानस्य पठतः पुलकोऽथ चेत् ।
आत्मनश्च परेषां च तद्दानं पौरुषं स्मृतम् ॥ १०५॥
अनेन दानेन तव कथं पुण्यफलं भविष्यति ।'
शकुन्तः–'अस्माकं पितृपैतामहोऽयं धर्मः, यच्चौर्येण वित्तमानीयते'
मराल:- 'शिरश्छेदमङ्गीकृत्यार्जितं द्रव्यं निखिलमपि कथं दीयते ।'
शकुन्तः–'मूर्खो नहि ददात्यर्थं नरो दारिद्र्यशङ्कया ।
प्राज्ञस्तु वितरत्यर्थं नरो दारिद्रयशङ्कया' ॥ १०६ ॥
मरालः-'किश्चिद्वेदमयं पात्रं किञ्चित्पात्रं तपोमयम् ।
पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ॥ १०७ ॥
शकुन्तः-'अनेन वित्तेन किं करिष्यति भवान् ।'
मरालः-सखे, काशीवासी कोऽपि विप्रबटुरत्रागात् । तेनास्मत्पितुः पुरः काशीवासफलं व्यावर्णितम् । ततोऽस्मत्तातो बाल्यादारभ्य चौर्य कुर्वाणो दैववशात्स्वपापानिवृत्तो वैराग्यात्सकुटुम्बः काशीमेष्यति । तदर्थमिदं द्रविणजातम् ।
शकुन्तः-'महद्भाग्यं तव पितुः । तथा हि-
वाराणसीपुरीवासवासनावासितात्मना।
किं शुना समतां याति वराकः पाकशासनः ॥ १०८।।
ऊषरं कर्मसस्यानां क्षेत्रं वाराणसी पुरी ।
यत्र सँल्लभ्यते मोक्षः समं चण्डालपण्डितैः ॥ १०९ ॥
मरणं मङ्गलं यत्र विभूतिश्च विभूषणम् ।
कौपीनं यत्र कौशेयं सा काशी केन मीयते ॥ ११० ॥
एवमुभयोः संवादं श्रुत्वा राजा तुतोष । अचिन्तयच्च मनसि-कर्मणां गतिः सर्वथैव विचित्रा उभयोरपि पवित्रा मतिः' इति ।
ततो राजा विनिवृत्त्य भवनान्तरे पितृपुत्रावपश्यत् । तत्र पिता पुत्रं प्राह-'इदानीं परिज्ञातशास्त्रतत्त्वोऽपि नृपतिः कार्पण्येन किमपि न प्रयच्छति । किं तु-
अर्थिनि कवयति कवयति पठति च पठति स्तवोन्मुखे स्तौति ।
पश्चाद्यामीत्युक्ते मौनी दृष्टिं निमीलयति' ॥ १११ ॥
राजाप्येतच्छ्रुत्वा तत्समीपं प्राप्य 'मैवं वद' इति स्वगात्रात्सर्वाभरणान्युत्तार्य दत्त्वा तस्मै; ततो गृहमासाद्य कालान्तरे सभामुपविष्टः कालिदासं प्राह- -'सखे,
'कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि ।'
ततः कविराह-
'यत्र हंसवयांसीव भुवनानि चतुर्दश' ॥ ११२ ॥
ततो राजा प्रत्यक्षरमुक्ताफललक्षं ददौ ।
ततः प्रविशति द्वारपाल:-'देव, कोऽपि कौपीनावशेषो विद्वान्द्वारि तिष्ठति' इति । राजा-'प्रवेशय ।' ततः प्रवेशितः कविरागत्य 'स्वस्ति' इत्युक्त्वानुक्त एवोपविष्टः प्राह-
इह निवसति मेरुः शेखरो भूधराणा-
मिह हि निहितभाराः सागराः सप्त चैव ।
इदमतुलमनन्तं भूतलं भूरिभूतो-
द्भवधरणसमर्थं स्थानमस्मद्विधानाम् ॥ ११३ ॥
राजा-महाकवे, किं ते नाम ? अभिधत्स्व ।
कविः-नामग्रहणं नोचितं पण्डितानाम् । तथापि वदामो यदि जानासि ।
नहि स्तनन्धयी बुद्धिर्गम्भीरं गाहते वचः ।
तलं तोयनिधेर्द्रष्टुं यष्टिरस्ति न वैणवी ॥ ११४ ॥
देव, आकर्णय-
च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं
समं चक्रीकृत्य प्रहसितमुखी शैलतनया ।
अवोचद्यं पश्येत्यवतु गिरिशः सा च गिरिजा
स च क्रीडाचन्द्रो दशनकिरणामूरिततनुः ॥ ११५ ।।
कालिदासः-'सखे क्रीडाचन्द्र, चिराद्दृष्टोऽसि । कथमीदृशी ते दशा मण्डले विराजत्यपि राजनि बहुधनवति ।'
क्रीडाचन्द्रः-
धनिनोऽप्यदानविभवा गण्यन्ते धुरि महादरिद्राणाम् ।
हन्ति न यतः पिपासामतः समुद्रोऽपि मरुरेव ॥ ११६ ॥
किं च-
उपभोगकातराणां पुरुषाणामर्थसञ्चयपराणाम् ।
कन्यामणिरिव सदने तिष्ठत्यर्थः परस्यार्थे ॥ ११७ ॥
सुवर्णमणिकेयूराडम्बरैरन्यभूभृतः ।
कलयैव पदं भोज तेषामाप्नोति सारवित् ॥ ११८ ॥
सुधामयानीव सुधां गलन्ति विदग्धसंयोजनमन्तरेण ।
काव्यानि निर्व्याजमनोहराणि वाराङ्गनानामिव यौवनानि ॥ ११९॥
ज्ञायते जातु नामापि न राज्ञः कवितां विना ।
कवेस्तद्व्यतिरेकेण न कीर्तिः स्फुरति क्षितौ ॥ १२० ॥
मयूरः-
'ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः।
यैर्निबद्धानि काव्यानि ये च काव्ये प्रकीर्तिताः ॥ १२१ ।।
वररुचिः-
पदव्यक्तिव्यक्तीकृतसहृदयाबन्धललिते
कवीनां मार्गेऽस्मिन्स्फुरति बुधमात्रस्य धिषणा।
न च क्रीडालेशव्यसनपिशुनोऽयं कुलवधू-
कटाक्षाणां पन्थाः स खलु गणिकानामविषयः ॥ १२२ ।।
कविः स्तौति-
'कङ्कणं नयनद्वन्द्वे तिलकं करपल्लवे ॥
अहो भूषणवैचित्र्यं भोजप्रत्यर्थियोषिताम् ॥ १२३ ॥
तुष्टो राजा पुनरक्षरं लक्षं ददौ ।
ततः कदाचित्कोऽपि जराजीर्णसर्वाङ्गसन्धिः पण्डितो रामेश्वरनामा सभामभ्यगात् । स चाह-
पञ्चाननस्य सुकवेर्गजमांसैनृपश्रिया ।
पारणा जायते क्वापि सर्वत्रैवोपवासिनः ॥ १२४ ॥
वाहानां पण्डितानां च परेषामपरो जनः ।
कवीन्द्राणां गजेन्द्राणां ग्राहको नृपतिः परः ॥ १२५ ॥
एवं हि-
सुवर्णैः पट्टचेलैश्च शोभा स्याद्वारयोषिताम् ।
पराक्रमेण दानेन राजन्ते राजनन्दनाः ॥ १२६ ॥
इत्याकर्ण्य राजा रामेश्वरपण्डिताय सर्वाभरणान्युत्तार्य लक्षद्वयं प्रायच्छत् ।
ततःस्तौति कविः-
भोज त्वत्कीर्तिकान्ताय नभोभालस्थितं महत् ।
कस्तूरीतिलकं राजन्गुणाकर विराजते ॥ १२७ ॥
बुधाग्रे न गुणान्ब्रूयाॉत्साधु वेत्ति यतः स्वयम् ।
मूर्खाग्रेऽपि च न ब्रूयाद्बुधप्रोक्तं न वेत्ति सः ॥ १२८ ॥
तेन चमत्कृताः सर्वे।
रामेश्वरकविः-
ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम् ।
पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति' ॥ १२९ ॥
ततस्तुष्टो राजा प्रत्यक्षरं लक्षं ददौ । राजेन्द्र कविः प्राह-
'कवित्वं न शृणोत्येव कृपणः कीर्तिवर्जितः।
नपुंसकः किं कुरुते पुरःस्थितमृगीदृशा' ॥ १३० ॥
- सीता प्राह- -
'हता देवेन कवयो वराकास्ते गजा अपि ।
कालिदासः-
'अदातृमानसं क्वापि न स्पृशन्ति कवेर्गिरः।
दुःखायैवातिवृद्धस्य विलासास्तरुणीकृताः ॥ १३२ ॥
राजा प्रतिपण्डितं लक्षं दत्तवान् ।
ततः कदाचिद्राजा समस्तादपि कविमण्डलादधिकं कालिदासमवलोक्यायान्तं परं वेश्यालोलत्वेन चेतसि खेदलवं चक्रे । तदा सीता विद्वद्वृन्दवन्दिता तदभिप्रायं ज्ञात्वा प्राह- -'देव,
दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते ।
प्रीत्यैव शशिनि पतितं पश्यति लोकः कलङ्कमपि ॥ १३३ ॥
तुष्टो राजा सीतायै लक्षं ददौ । तथापि कालिदासं यथापूर्वं न मानयति यदा, तदा स च कालिदासो राज्ञोऽभिप्रायं विदित्वा तुलामिषेण प्राह-
'प्राप्य प्रमाणपदवीं को नामास्ते तुलेऽवलेपस्ते ।
नयसि गरिष्ठमधस्तात्तदितरमुच्चैस्तरां कुरुषे ॥ १३४ ॥
पुनराह-
'यस्यास्ति सर्वत्र गतिः स कस्मात्स्वदेशरागेण हि याति खेदम् ।
तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति' ॥ १३५ ॥
ततो राज्ञा कृतामवज्ञां मनसि विदित्वा कालिदासो दुर्मना निजवेश्म ययौ।
अवज्ञास्फुटितं प्रेम समीकर्तुं क ईश्वरः ।
सन्धिं न याति स्फुटितं लाक्षालेपेन मौक्तिकम् ॥ १३६ ॥
ततो राजापि खिन्नः स्थितः । ततो लीलावती खिन्नं दृष्ट्वा राजानं विषादकारणमपृच्छत् । राजा च रहसि सर्वं तस्यै प्राह । सा च राजमुखेन कालिदासावज्ञां ज्ञात्वा पुनः प्राह–'देव प्राणनाथ, सर्वज्ञोऽसि ।
स्नेहो हि वरमघटितो न वरं सञ्जातविघटितस्नेहः ।
हृतनयनो हि विषादी न विषादी भवति जात्यन्धः ॥ १३७ ॥
दोषाकरोऽपि कुटिलोऽपि कलङ्कितोऽपि
मित्रावसानसमये विहितोदयोऽपि ।
चन्द्रस्तथापि हरवल्लभतामुपैति
नैवाश्रितेषु गुणदोषविचारणा स्यात् ॥ १३८ ॥
राजा-'प्रिये, सर्वमेतत्सत्यमेव' इत्यङ्गीकृत्य 'श्वः कालिदासं प्रातरेव सन्तोषयिष्यामि' इत्यवोचत् ।
अन्येद्यू राजा दन्तधावनादिविधिं विधाय निवर्तितनित्यकृत्यः सभां प्राप । पण्डिताः कवयश्च गायका अन्ये प्रकृतयश्च सर्वे समाजग्मुः। कालिदासमेकमनागतं वीक्ष्य राजा स्वसेवकमेकं तदाकारणाय वेश्यागृहं प्रेषयामास । स च गत्वा कालिदासं नत्वा प्राह–'कवीन्द्र, त्वामाकारयति भोजनरेन्द्रः' इति । ततः कविरचिन्तयत्-'गतेऽह्नि नृपेणावमानितोऽहमद्य प्रातरेवाकारणे किं कारणमिति ।
यं यं नृपोऽनुरागेण सम्मानयति संसदि ।
तस्य तस्योत्सारणाय यतन्ते राजवल्लभाः ॥ १६९ ॥
किन्तु विशेषतो राज्ञान्वहं मान्यमाने मयि मायाविनो मत्सराद्वैरं बोधयन्ति ।
अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीवः ।
यत्र खलाश्च प्रबलास्तत्र कथं सज्जनावसरः ॥ १४० ॥
इति विचारयन्सभामागच्छत् । ततो दूरे समायान्तं वीक्ष्य सानन्दमासनादुत्थाय 'सुकवे, मत्प्रियतम, अद्य कथं विलम्बः क्रियते' इति भाषमाणः पञ्चषट्पदानि सम्मुखो गच्छति । ततो निखिलाऽपि सभा स्वासनादुत्थिता । सर्वे सभासदश्च चमत्कृताः । वैरिणश्चास्य विच्छायवदना बभूवुः । ततो राजा निजकरकमलेनास्य करकमलमवलम्ब्य स्वासनदेशं प्राप्य तं च सिंहासनमुपवेश्य स्वयं च तदाज्ञया तत्रैवोपविष्टः । ततो राजसिंहासनारूढे कालिदासे बाणकविर्दक्षिणं बाहुमुद्धृत्य प्राह-
'भोजः कलाविद्रुद्रो वा कालिदासस्य माननात् ।
विबुधेषु कृतो राजा येन दोषाकरोऽप्यसौ' ॥ १४१ ॥
ततोऽस्य विशेषेण विद्वद्भिः सह वैरानलः प्रदीप्तः । ततः कैश्चिबुद्धिमद्भिर्मन्त्रयित्वा सर्वैरपि विद्वद्भिर्भोजस्य ताम्बूलवाहिनी दासी धनकनकादिना सम्मानिता । ते च तां प्रत्युपायमूचुः- 'सुभगे, अस्मत्कीर्तिमसौ कालिदासो गलयति । अस्मासु कोऽपि नैतेन कलासाम्यं प्रवहते । वत्से, यथैनं राजा देशान्तरं निःसारयति तद्भवत्या कर्तव्यम्' इति । दासी प्राह-'भवद्भयो हारं प्राप्य मया युष्मत्कार्यं क्रियते । तन्मम प्रथमं हारो दातव्यः' इति । ततः सा ताम्बूलवाहिनी तैर्दत्तं हारमादाय व्यचिन्तयत् । तथा हि-'बुधैरसाध्यं किं वास्ति । 'ततः समतिक्रामत्सु कतिपयवासरेषु दैवादेकाकिनि प्रसुप्ते राजनि चरणसंवाहनादिसेवामस्य विधाय तत्रैव कपटेन नेत्रे निमील्य सुप्ता । ततश्चरणचलनेन राजानमीषज्जागरूकं सम्यग्ज्ञात्वा प्राह-'सखि मदनमालिनि, स दुरात्मा कालिदासो दासीवेषेणान्तः पुरं प्राप्य लीलादेव्या सह रमते । राजा तच्छ्रुत्वोत्थाय प्राह–'तरङ्गवति, किं जागर्षि' इति । सा च निद्राव्याकुलेव न शृणोति । राजा च तस्या अपध्वनिं श्रुत्वा व्यचिन्तयत्-'इयं तरङ्गवती निद्रायां स्वप्नवशंगता वासनावशाद्देव्या दुश्चरितं प्राह । स च स्त्रीवेषेणान्तःपुरमागच्छतीत्येतदपि सम्भाव्यते । को नाम स्त्रीचरितं वेद' इति । ततश्चेत्थं विचार्य राजा परेद्युः प्रातरात्मनि कृत्रिमज्वरं विधाय शयानः कालिदासं दासीमुखेनानाय्य तदागमनानन्तरं तयैव लीलादेवीं चानाय्य देवीं प्रत्यवदत्-'प्रिये, इदानीमेव मया पथ्यं भोक्तव्यम्' इति । इत्युक्ते सापि तथैव' इति पथ्यं गृहीत्वा राज्ञे रजतपात्रे दत्त्वा तत्र मुद्गदालीं प्रत्यवेषयत् । ततो राजापि तयोरभिप्रायं जिज्ञासमानः श्लोकार्धं प्राह-
'मुद्गदाली गदव्याली कवीन्द्र वितुषा कथम् ।' इति ।
ततः कालिदासो देव्यां समीपवर्तिन्यामप्युत्तरार्धं प्राह-
'अन्धवल्लभसंयोगे जाता विगतकञ्चुकी' ॥ १४२ ॥
अश्वप्लुतं वासवगर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम् ।
अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्यः ॥ १४३ ॥
किन्त्वयं ब्राह्मणो दारुणापराधित्वेऽपि न हन्तव्य इति विशेषेण सरस्वत्याः पुरुषावतारः' इति विचार्य कालिदासं प्राह 'कवे, सर्वथास्मद्देशे न स्थातव्यम् । किं बहुनोक्तेन । प्रतिवाक्यं किमपि न वक्तव्यम् ।'ततः कालिदासोऽपि वेगेनोत्थाय वेश्यागृहमेत्य तां प्रत्याह-'प्रिये, अनुज्ञां देहि । मयि भोजः कुपितः स्वदेशे न स्थातव्यमित्युवाच । अहह--
अघटितघटितं घटयति सुघटितघटितानि दुर्घटीकुरुते ।
विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥ १४४ ॥
किं च किमपि विद्वद्वृन्दचेष्टितमेवेति प्रतिभाति । तथा हि-
बहूनामल्पसाराणां समवायो दुरत्ययः ।
तृणैर्विधीयते रज्जुर्बध्यन्ते तेन दन्तिनः ॥ १४५ ॥
ततो विलासवती नाम वेश्या तं प्राह-
तदेवास्य परं मित्रं यत्र सङ्क्रामति द्वयम् ।
दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥ १४६॥
दयित, मयि विद्यमानायां किं ते राज्ञा, किं वा राजदत्तेन वित्तेन कार्यम् । सुखेन निःशङ्क तिष्ठ मद्गृहान्तः कुहरे' इति । ततः कालिदासस्तत्रैव'वसन्कतिपयदिनानि गमयामास ।
ततः कालिदासे गृहान्निर्गते राजानं लीलादेवी प्राह–'देव, कालिदासकविना साकं नितान्तं निबिडतमा मैत्री । तदिदानीमनुचितं कस्मात्कृतं यस्य देशेऽप्यवस्थानं निषिद्धम् ।
इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा रसविशेषः ।
तद्वत्सज्जनमैत्री विपरीतानां च विपरीता ॥ १४७ ॥
शोकारातिपरित्राणं प्रीतिविस्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १४८ ॥
राजाप्येतल्लीलादेवीवचनमाकर्ण्य प्राह-'देवि, केनापि ममेत्यभिधायि यत्कालिदासो दासीवेषेणान्तःपुरमासाद्य देव्या सह रमते' इति । मया चैतद्व्यापारजिज्ञासया कपटज्वरेणायं भवती च वीक्षितौ । ततः समीपवर्तिन्यामपि त्वय्युत्तरार्धमित्थं प्राह । तच्चाकर्ण्य त्वयापि कृतो हासः । ततश्च सर्वमेतद्दृष्ट्वा ब्राह्मणहननभीरुणा मया देशान्निःसारितः । त्वां च न दाक्षिण्येन हन्मि' इति । ततो हासपरा देवी चमत्कृता प्राह- -निःशङ्कं देव, अहमेव धन्या यस्यास्त्वं पतिरीशः । यत्त्वया भुक्तशीलाया मम मनः कथमन्यत्र गच्छति । यतःसर्वकामिनीभिरपि कान्तोपभोगे स्मर्तव्योऽसि । अहह देव, त्वं यदि मां सतीमसतीं वा कृत्वा गमिष्यसि, तर्ह्यहं सर्वथा मरिष्ये' इति । ततो राजापि 'प्रिये, सत्यं वदसि' इति । ततः स नृपतिः पुरुषैरहिमानयामास । तप्तं लोहगोलकं कारयामास । धनुश्च सजं चक्रे । ततो देवी स्नाता निजपातिव्रत्यानलेन देदीप्यमाना सुकुमारगात्री सूर्यमवलोक्य प्राह-'जगच्चक्षुस्त्वं सर्वं वेत्सि ।
जाग्रति स्वप्नकाले च सुषुप्तौ यदि मे पतिः ।
भोज एव परं नान्यो मच्चित्ते भावितोऽस्ति न -॥ १४९ ॥
इत्युक्त्वा ततो दिव्यत्रयं चक्रे । ततःशुद्धायामन्तःपुरे लीजावत्यां लज्जानतशिरा नृपतिः पश्चात्तापात्पुरः 'देवि, क्षमस्व पापिष्ठं माम् । किं वदामि' इति कथमायास । राजा च तदाप्रभृति न निद्राति, न च भुङ्क्ते, न केनचिद्वक्ति । केवलमुद्विग्नमनाः स्थित्वा दिवानिशं प्रविलपति-'किं नाम मम लज्जा, किं नाम दाक्षिण्यम्, क्व गाम्भीर्यम् । हा हा कवे, कवि कोटिमुकुटमणे, कालिदास, हा मम प्राणसम, हा । मूर्खेण किमश्राव्यं श्रावितोऽसि । अवाच्यमुक्तोऽसि' इति प्रसुप्त इव ग्रहग्रस्त इव, मायाविध्वस्त इव, पपात । ततः प्रियाकरकमलसिक्तजलसञ्जातसंज्ञः कथमपि तामेव प्रियां वीक्ष्य स्वात्मनिन्दापरः परमतिष्ठत् । ततो निशानाथहीनेव निशा, दिनकरहीनेव दिनश्रीः, वियोगिनीव योषित्, शक्ररहितेव सुधर्मा, न भाति भोजभूपालसभा रहिता कालिदासेन । तदाप्रभृति न कस्यचिन्मुखे काव्यम् । न कोऽपि विनोदसुन्दरं वचो वक्ति ।
ततो गतेषु केषुचिद्दिनेषु कदाचिद्राकापूर्णेन्दुमण्डलं पश्यन्पुरश्च लीलादेवीमुखेन्दं वीक्ष्य प्राह-
'तुलणं अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।'
कुत्र च पूर्णेऽपि चन्द्रमसि नेत्रविलासाः, कदा वाचो विलसितम् । प्रातश्चोत्थितः प्रातर्विधीर्विधाय सभां प्राप्य राजा विद्वद्वरान्प्राह-'अहो कवयः, इयं समस्या पूर्यताम् ।' ततः पठति-
'तुलणं अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।
तुलनामन्वनुसरति, ग्लौसो मुखचन्द्रस्य खल्वेतस्याः'
पुनराह-'इयं चेत्समस्या न पूर्यते भवद्भिर्मद्देशे न स्थातव्यम्' इति । ततो भीतास्ते कवयः स्वानि गृहाणि जग्मुः । चिरं विचारितेऽप्यर्थे कस्यापि नार्थसङ्गतिः स्फुरति । ततः सर्वैमिलित्वा बाणः प्रेषितः । ततः सभां प्राप्याह राजानम्-'देव, सर्वैर्विद्वद्भिरहं प्रेषितः। अष्टवासरानवधिमभिधेहि । नवमेऽह्नि पूरयिष्यन्ति ते । न चेद्देशान्निर्गच्छन्ति ।' ततो राजा 'अस्तु' इत्याह । ततो बाणस्तेषां विज्ञाप्य राजसन्देशं स्वगृहमगात् । ततोऽष्टौ दिवसा अतीताः । अष्टमदिनरात्रौ मिलितेषु तेषु कविषु बाणः प्राह-'अहो तारुण्यमदेन राजसंनप्रमादेन किञ्चिद्विद्यामदेन कालिदासो निःसारितोऽभवत् । समे भवन्तः सर्व एव कवयः। विषमे स्थाने तु स एक एव कविः । तं निःसार्येदानीं किं नाम महत्त्वमासीत् । स्थिते तस्मिन्कथमियमवस्थास्माकं भवेत् । तन्निःसारे या या बुद्धिः कृता सा भवद्भिरेवानुभूयते ।
सामान्यविप्रविद्वेषे कुलनाशो भवेत्किल ।
उमारूपस्य विद्वेषे नाशः कविकुलस्य हि ॥ १५० ॥
ततः सर्वे गाढं कलहायन्ते स्म मयूरादयश्च । ततस्ते सर्वान्कलहान्निवार्य सद्यः प्राहुः-'अद्यैवावधिः पूर्णः कालिदासमन्तरेण न कस्यचित्सामर्थ्यमस्ति समस्यापूरणे ।
सङ्ग्रामे सुभटेन्द्राणां कवीनां कविमण्डले ।
दीप्तिर्वा दीप्तिहानिर्वा मुहूर्तेनैव जायते ॥ १५१ ॥
यदि रोचते ततोऽद्यैव मध्यरात्रे प्रमुदितचन्द्रमसि निगूढमेव गच्छामः सम्पत्तिसम्भारमादाय । यदि न गम्यते श्वो राजसेवका अस्मान् बलान्निसारयन्ति । तदा देहमात्रेणैवास्माभिर्गन्तव्यम् । तदद्य मध्यरात्रे गमिष्यामः ।' इति सर्वे निश्चित्य गृहमागत्य बलीवर्दव्यूढेषु शकटेषु सम्पद्भारमारोप्य रात्रावेव निष्क्रान्ताः। ततः कालिदासस्तत्रैव रात्रौ विलासवतीसदनोद्याने वसन् पथि गच्छतां तेषां गिरं श्रुत्वा वेश्याचेटीं प्रेषि- । तवान्-'प्रिये, पश्य क एते गच्छन्ति ब्राह्मणा इव ।' ततः सा समेत्य सर्वानपश्यत् । उपेत्य च कालिदासं प्राह-
एकेन राजहंसेन या शोभा सरसोऽभवत् ।
न सा बकसहस्रेण परितस्तीरवासिना ॥ १५२ ॥
सर्वे च बाणमयूरप्रमुखाः पलायन्ते, नात्र संशयः' इति । कालिदासः- 'प्रिये, वेगेन वासांसि भवनादानय, यथा पलायमानान्विप्रान्रक्षामि । किं पौरुषं रक्षति यो न वार्तान् किं वा धनं नार्थिजनाय यत्स्यात् । सा किं क्रिया या न हितानुबद्धा किं जीवितं साधुविरोधि यद्वै ॥ १५३ ॥
ततः स कालिदासश्चारवेषं विधाय खङ्गमुद्वहन्क्रोशार्धमुत्तरं गत्वा तेषामभिमुखमागत्य सर्वान्निरूप्य 'जय' इत्याशीर्वचनमुदीर्य पप्रच्छ चारणभाषया-'अहो विद्यावारिधयः, भोजसभायां सम्प्राप्तमहत्त्वातिशयाः, बृहस्पतय इव सम्भूय कुत्र जिगमिषवो भवन्तः । कञ्चित्कुशलं वः । राजा च कुशली । अस्माभिः काशीदेशादागम्यते भोजदर्शनाय वित्तस्पृहया च । ततः परिहासं कुर्वन्तः सर्वे निष्कान्ताः । ततस्तेषु कश्चित्तद्गिरमाकर्ण्य तं च चारणं मन्यमानः कुतूहलेन विपश्चित्प्राह-'अहो चारण' शृणु । 'त्वया पश्चादपि श्रोष्यत एव । अतो मयाद्यैवोच्यते । राज्ञा किलैभ्यो विद्वद्भयः पूरणाय समस्योक्ता । तत्पूरणाशक्ताः कुपितराज्ञो भयाद्देशान्तरे क्वचिजिगमिषव एते निश्चक्रमुः। चारणः- राज्ञा का वा समस्या प्रोक्ता ।' ततः पठति स विपश्चित्-
'तुलणं अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।'
चारणः- एतत्साध्वेव गूढार्थम् । एतत्पूर्णेन्दुमण्डलं वीक्ष्य राज्ञापाठि । एतस्योत्तरार्धमिदं भवितुमर्हति-
'अणु इदि वण्णयदि कहं अणुकिदि तस्स प्पडिपदि चन्दस ॥
सर्वे श्रुत्वा चमत्कृताः । ततश्चारणःसर्वान्प्रणिपत्य निर्ययौ । ततः सर्वे विचारयन्ति स्म-अहो, इयं साक्षात्सरस्वती पुंरूपेण सर्वेषामस्माकं परित्राणायागता । नायं भवितुमर्हति मनुष्यः। अद्यापि किमपि केनापि न ज्ञायते । ततः शीघ्रमेव गृहमासाद्य शकटेभ्यो भारमुत्तार्य प्रातः सर्वैरपि राजभवनमागन्तव्यम् । न चेच्चारण एव निवेदयिष्यति । ततो झटिति गच्छामः।' इति योजयित्वा तथा चक्रुः । ततो राजसभां गत्वा राजानमालोक्य 'स्वस्ति' इत्युक्त्वा विविशुः । ततो बाणः प्राह–'देव, सर्वज्ञेनयत्त्वया पठ्यते तदीश्वर एव वेद । केऽमी वराका उदरम्भरयो द्विजाः। तथाप्युच्यते-
तुलणं अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।
अणु इदि वण्णयदि कहं अणुकिदि तस्स प्पडिपदि चन्दस्स ॥ १५४ ॥
तुलनामन्वनुसरति ग्लौसो मुखचन्द्रस्य खल्वेतस्याः।
अन्विति वर्ण्यते कथमनुकृतिस्तस्य प्रतिपदि चन्द्रस्य ॥ इति च्छाया ।
राजा यथाव्यवसितस्याभिप्रायं विदित्वा 'सर्वथा कालिदासो दिवसप्राप्यस्थाने निवसति । उपायैश्च सर्वं साध्यम्' इत्याह । ततो बाणाय रुक्माणां पञ्चदशलक्षाणि प्रादात् । सन्तोषमिषेणैव विद्वद्वृन्दं स्वं स्वं सदनं प्रति प्रेषितम् ।
गते च विद्वन्मण्डले शनैर्द्वापालायादिष्टं राज्ञा-'यदि केचिद्विजन्मान आयास्यन्ति; तदा गृहमध्यमानेतव्याः । ततः सर्वमपि वित्तमादाय स्वगृहं गते बाणे केचित्पण्डिता आहुः-'अहो, बाणेनानुचितं व्यवधायि । यदसावप्यस्माभिः सह नगरान्निष्कान्तोऽपि सर्वमेव धनं गृहीतवान् । सर्वथा भोजस्य बाणस्वरूपं ज्ञापयिष्यामः । यथा कोऽपि नान्यायं विधत्ते विद्वत्सु ।' ततस्ते राजानमासाद्य ददृशुः । राजा तान्प्राह- एतत्स्वरूपं ज्ञातमेव । भवद्भिर्यथार्थतया वाच्यम् ।' ततस्तैः सर्वमेव निवेदितम् । ततो राजा विचारितवान्-'सर्वथा कालिदासश्चारणवेषेण मद्भयान्मदीयनगरमध्यस्ते। 'ततश्चाङ्गरक्षकानादिदेश-'अहो, पलाय्यन्तां तुरङ्गाः । ततः क्रीडोद्यानप्रयाणे पटहध्वनिरभवत्-'अहो, इदानीं राजा देवपूजाव्यग्र इति शुश्रुमः । पुनरिदानीं क्रीडोद्यानं गमिष्यति' इति व्याकुलाः सर्वे भटाः सम्भूय पश्चाद्यान्ति । ततो राजा तैर्विद्वद्भिः सहाश्वमारुह्य रात्रौ यत्र चारणप्रसङ्गः समजनि, तत्प्रदेशं प्राप्तः । ततो राजा चरतां चौराणां पदज्ञाननिपुणानाहूय प्राह-'अनेन वर्मना यः कोऽपि रात्रौ निर्गतस्तस्य पदान्यद्यापि दृश्यन्ते, तानि पश्यन्तु' इति । ततो राजा प्रतिपण्डितं लक्षं दत्त्वा तान्प्रेषयित्वा च स्वभवनमगात् । ते च पदज्ञा राजाज्ञया सर्वतश्चरन्तोऽपि तमनवेक्षमाणा विमूढा इवासन् । ततश्च लम्बमाने सवितरि कामपि दासीमेकं पदत्राणं त्रुटितमादाय चर्मकारवेश्म गच्छन्तीं दृष्ट्वा तुष्टा इवासन् । ततस्तत्पदत्राणं तया चर्मकारकरे न्यस्तं वीक्ष्य तैश्च तस्याः करान्मिषेणादाय रेणुपूर्णे पथि मुक्त्वा तदेव पदं तस्येति ज्ञात्वा तां च दासीं क्रमेण, वेश्याभवनं विशन्तीं वीक्ष्य तस्या मन्दिरं परितो वेष्टयामासुः । ततश्च तैः क्षणेन भोजश्रवणपथविषयमभिज्ञानवार्ता प्रापिता । ततो राजा सपौरः सामात्यः पद्भ्यामेव विलासवतीभवनमगात् । ततस्तच्छ्रुत्वा विलासवतीं प्राह कालिदासः-'प्रिये, मत्कृते किं कष्टं ते पश्य ।'विलासवती-सुकवे,
उपस्थिते विप्लव एव पुंसां समस्तभावः परिमीयतेऽतः ।
अवाति वायौ नहि तूलराशेर्गिरेश्च कश्चित्प्रतिभाति भेदः ॥ १५५ ॥
मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः ।
आपन्निकषपाषाणे जनो जानाति सारताम् ॥ १५६ ॥
अप्रार्थितानि दुःखानि यथैवायान्ति देहिनः ।
सुखानि च तथा मन्ये दैन्यमत्रातिरिच्यते ॥ १५७ ॥
सुकवे, राज्ञा त्वयि मनाङ्निराकृते वचसापि मया सदेहं दासीवृन्दं प्रदीप्तवह्नौ पतिष्यति ।' कालिदासः-'प्रिये, नैवं मन्तव्यम् । मां दृष्ट्वा विकासीकृतास्यो भोजः पादयोः पतिष्यति' इति । ततो वेश्यागृहं प्रविश्य भोजः कालिदासं दृष्ट्वा सम्भ्रममाश्लिष्य पादयोः पतति । स राजा पठति च-
'गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा।
मा भून्मनः कदाचिन्मे त्वया विरहितं कवे' ॥ १५८ ॥
कालिदासस्तच्छ्रुत्वा ब्रीडावनताननस्तिष्ठति । राजा च कालिदासमुखमुन्नमय्याह-
'कालिदास कलावास दासवच्चालितो यदि ।
राजमार्गे व्रजन्नत्र परेषां तत्र का जपा ॥ १५९ ॥
धन्यां विलासिनीं मन्ये कालिदासो यदेतया ।
निबद्धः स्वगुणैरेष शकुन्त इव पञ्जरे' ॥ १६० ॥
राजा नेत्रयोहर्षाश्रु मार्जयति कराभ्यां कालिदासस्य । ततस्तत्प्राप्तिप्रसन्नो राजा ब्राह्मणेभ्यः प्रत्येकं लक्षं ददौ । निजतुरगे च कालिदासमारोप्य सपरिवारो निजगृहं ययौ ।
कियत्यपि कालेऽतिक्रान्ते राजा कदाचित्सन्ध्यामालोक्य पाह-
'परिपतति पयोनिधौ पतङ्गः'
ततो बाणः प्राह-
'सरसिरुहामुदरेषु मत्तभृङ्गः।
ततो महेश्वरकविः-
'उपवनतरुकोटरे विहङ्गः'
ततः कालिदासः प्राह-
'युवतिजनेषु शनैःशनैरनङ्गः ॥ १६१ ॥
तुष्टो राजा लक्षं लक्षं ददौ । चतुर्थचरणस्य लक्षद्वयं ददौ ।
कदाचिद्राजा बहिरुद्यानमध्ये मार्गं प्रत्यागच्छन्तं कमपि विप्रं ददर्श । तस्य करे चर्ममयं कमण्डलुं वीक्ष्य तं चातिदरिद्रं ज्ञात्वा मुखश्रिया विराजमानं चावलोक्य तुरङ्गं तदग्रे निधायाह-'विप्र, चर्मपात्रं किमर्थं पाणौ वहसि' इति । स च विप्रो नूनं मुखशोभया मृदूक्त्या च भोजं इति विचार्याह' देव, वदान्यशिरोमणौ भोजे पृथ्वीं शासति लोहताम्राभावः समजनि । तेन चर्ममयं पात्रं वहामि' इति । राजा- भोजे शासति लोहताम्राभावे को हेतुः । तदा विप्रः पठति-
'अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम् ।
शत्रूणां शृङ्खलैर्लोहं ताम्रं शासनपत्रकैः' ॥ १६२ ॥
ततस्तुष्टो राजा प्रत्यक्षरं लक्षं ददौ ।
कदाचिद् द्वारपालः प्राह--'धारेन्द्र, दूरदेशादागतः कश्चिद्विद्वान्द्वारि तिष्ठति, तत्पत्नी च । तत्पुत्रः सपत्नीकः । अतोऽतिपवित्रं विद्वत्कुटुम्बं द्वारि तिष्ठति' इति । राजा-'अहो गरीयसी शारदाप्रसादपद्धतिः । तस्मिन्नवसरे गजेन्द्रपाल आगत्य राजानं प्रणम्य प्राह-'भोजेन्द्र, सिंहलदेशाधीश्वरेण सपादशतं गजेन्द्राः प्रेषिताः षोडश महामणयश्च ।' ततो बाणः प्राह-
'स्थितिः कवीनामिव कुञ्जराणां स्वमन्दिरे वा नृपमन्दिरे वा ।
गृहे गृहे किं मशका इवैते भवन्ति भूपालविभूषिताङ्गाः' ॥ १६३ ॥
ततो राजा गजानवलोकनाय बहिरगात् । ततस्तद्विद्वत्कुटुम्बं वीक्ष्य चोलपण्डितो राज्ञः प्रियोऽहमिति गर्वं दधार । यन्मया राजभवनमध्यं गम्यते । विद्वत्कुटुम्बं तु द्वारपालज्ञापितमपि बहिरास्ते । तदा राजा तच्चेतसि गर्वं विदित्वा चोलपण्डितं सौधाङ्गणान्निःसारितवान् ।
काशीदेशवासी कोऽपि तण्डुलदेवनामा राज्ञे 'स्वस्ति' इत्युक्त्वातिष्ठत् । राजा च तं पप्रच्छ-- सुमते, कुत्र निवासः ।' तण्डुलदेवः--
वर्तते यत्र सा वाणी कृपाणीरिक्तशाखिनः ।
श्रीमन्मालवभूपाल तत्र देशे वसाम्यहम् ॥ १६४ ॥
तुष्टो राजा तस्मै गजेन्द्रसप्तकं ददौ ।
ततः कोऽपि विद्वानागत्य प्राह-
'तपसः सम्पदः प्राप्यास्तत्तपोऽपि न विद्यते ।
येन त्वं भोज कल्पद्रुर्दृग्गोचरमुपैष्यसि ॥ १६५ ॥
तस्मै राजा दशगजेन्द्रान्ददौ ।
ततः कश्चिद्ब्राह्मणपुत्रो भूम्भारवं कुर्वाणोऽभ्येति । ततः सर्वे सम्भ्रान्ताः कथं भूम्भारवं करोषि' इति । राज्ञा स्वदृग्गोचरमानीतः पृष्टः । स प्राह-
"देव त्वद्दानपाथोधौ दारिद्र्यस्य निमज्जतः ।
न कोऽपि हि करालम्ब दत्ते मत्तेभदायक' ॥ १६६ ॥
ततस्तुष्टो राजा तस्मै त्रिंशद्गजेन्द्रान्प्रादात् ।
ततः प्रविशति पत्नीसहितः कोऽपि विलोचनो विद्वान् ‘स्वस्ति' इत्युक्त्वा प्राह-
"निजानपि गजान्भोजं ददानं प्रेक्ष्य पार्वती ।
गजेन्द्रवदनं पुत्रं रक्षत्यद्य पुनः पुनः' ॥ १६७ ॥
ततो राजा सप्त गजांस्तस्मै ददौ ।
ततो राजा विद्वत्कुटुम्बं तदैव पुरतः स्थितं वीक्ष्य ब्राह्मणं प्राह-
'क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।'
वृद्धद्विजः प्राह
'घटो जन्मस्थानं मृगपरिजनो भूर्जवसनो
वने वासः कन्दादिकमशनमेवंविधगुणः ।
अगस्त्यः पाथोधिं यदकृत कराम्भोजकुहरे
क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे' ॥ १६८ ॥
ततो राजा बहुमूल्यानपि षोडशमणीस्तस्यै ददौ । ततस्तत्पत्नीं प्राह राजा-'अम्ब, त्वमपि पठ।' देवी-
'रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा
निरालम्बो मार्गश्चरणविकलः सारथिरपि ।
रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे' ॥ १६६ ॥
राजा तुष्टः सप्तदश गजान्सप्त रथांश्च तस्यै ददौ । ततो विप्रपुत्रं प्राह राजा-'विप्रसुत, त्वमपि पठ ।' विप्रसुतः-
'विजेतव्या लङ्का चरणतरणीयो जलनिधि-
र्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः ।
पदातिर्मर्त्योऽसौ सकलमवधीद्राक्षसकुलं
क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ १७० ॥
तुष्टो राजा विप्रसुतायाष्टादश गजेन्द्रान्प्रादात् । ततः सुकुमारमनोज्ञनिखिलाङ्गावयवालङ्कृतां शृङ्गाररसोपजातमूर्तिमिव चम्पकलतामिव
लावण्यगात्रयष्टिं विप्रस्नुषां वीक्ष्य 'नूनं भारत्याः काऽपि लीलाकृतिरियम्' इति चेतसि नमस्कृत्य राजा प्राह- मातः त्वमप्याशिषं वद ।
विप्रस्नुषा-'देव, शृणु।
धनुः पौष्पं मौर्वी मधुकरमयी चञ्चलदृशां
दृशां कोणो बाणः सुहृदपि जडात्मा हिमकरः ।
स्वयं चैकोऽनङ्गः सकलभुवनं व्याकुलयति
क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे' ॥ १७१ ॥
चमत्कृतो राजा लीलादेवीभूषणानि सर्वाण्यादाय तस्यै ददौ । अनर्घ्यांश्च सुवर्णमौक्तिकवेड्यावालांश्च प्रददौ ।
ततः कदाचित्सीमन्तनामा कविः प्राह-
'पन्थाः संहर दीर्घतां त्यजनिजं तेजः कठोरं रवे
श्रीमन्विन्ध्यगिरे प्रसीद सदयं सद्यः समीपे भव ।
इत्थं दूरपलायनश्रमवतीं दृष्ट्वा निजप्रेयसीं
श्रीमन्भोज तव द्विषः प्रतिदिनं जल्पन्ति मूर्छन्ति च ॥ १७२ ॥
तस्मिन्नेव क्षणे कश्चित्सुवर्णकारः प्रान्तेषु पद्मरागमणिमण्डितं सुवर्णभाजनमादाय राज्ञः पुरो मुमोच । ततो राजा सीमन्तकविं प्राह-'सुकवे, इदं भाजनं कामपि श्रियं दर्शयति ।' ततः कविराह-
धारेश त्वत्प्रतापेन पराभूतस्त्विषांपतिः।
सुवर्णपात्रव्याजेन देव त्वामेव सेवते ॥ १३ ॥
ततस्तुष्टो राजा तदेव पात्रं मुक्ताफलैरापूर्य प्रादात् ।
कदाचिद्राजा मृगयारसेन पुरः पलायमानं वराहं दृष्ट्वा स्वयमेकाकितया दूरं वनान्तमासादितवान् । तत्र कञ्चन द्विजवरमवलोक्य प्राह-
"द्विज, कुत्र गन्तासि ।'
द्विजः-'धारानगरम् ।'
भोजः-'किमर्थम् ।
द्विजः-'भोजं द्रष्टुं द्रविणेच्छया । स पण्डिताय दत्ते । अहमपि मूर्खं न याचे ।
भोजः-विप्र, तहिं त्वं विद्वान्कविर्वा ।
द्विजः-महाभाग, कविरहम् ।
भोजः-तर्हि किमपि पठ ।
द्विजः-भोजं विना मत्पदसरणिं न कोऽपि जानाति ।
राजा-ममाप्यमरवाणीपरिज्ञानमस्ति । राजा च मयि स्निह्यति । त्वद्गुणं
च श्रावयिष्यामि । किमपि कलाकौशलं दर्शय ।
विप्रः-किं वर्णयामि ।
राजा-कलमानेतान्वर्णय
विप्रः-'कलमाः पाकविनम्रा मूलतलाघ्रातसुरभिकल्हाराः ।
पवनाकम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघाम् ॥ १७४ ॥
राजा तस्मै सर्वाभरणान्युत्तार्य ददौ ।
ततः कदाचित्कुम्भकारवधू राजगृहमेत्य द्वारपालं प्राह-'द्वारपाल, राजा द्रष्टव्यः। स आह–'किं ते राज्ञा कार्यम्'। सा चाह-'न तेऽभि धास्यामि । नृपाग्र एव कथयामि ।' स सभायामागत्य प्राह-'देव, कुम्भकारप्रिया काचिद्राज्ञो दर्शनाकाङ्क्षिणी न वक्ति मत्पुरः कार्यम् । भवत्पुरतः कथयिष्यति ।' राज्ञा–प्रवेशय ।' सा चागत्य नमस्कृत्य वक्ति-
'देव मृत्खननाद्दृष्टं निधानं वल्लभेन मे ।
स पश्यन्नेव तत्रास्ते त्वां ज्ञापयितुमभ्यगाम्' ॥ १७५ ॥
राजा च चमत्कृतो निधानकलशमानयामास । तद्द्वारमुद्धाट्य यावत्पश्यति राजा तावत्तदन्तर्वर्तिद्रव्यमणिप्रभामण्डलमालोक्य कुम्भकारं पृच्छति-'किमेतत्कुम्भकार ।' स चाह
'राजचन्द्रं समालोक्य त्वां तु भूतलमागतम् ।
रत्नश्रेणिमिषान्मन्ये नक्षत्राण्यभ्युपागमन् ॥ १७६ ॥
राजा कुम्भकारमुखाच्छ्लोकं लोकोत्तरमाकर्ण्यचमत्कृतस्तस्मै सर्वं ददौ ।
ततः कदाचिद्राजा रात्रावेकाकी सर्वतो नगरचेष्टितं पश्यन्पौरगिरमाकर्णयंश्चचार। तदा क्वचिद्वैश्यगृहे वैश्यः स्वप्रियां प्राह-'प्रिये, राजा स्वल्पदानरतोऽप्युज्जयिनीनगराधिपतेर्विक्रमार्कस्य दानप्रतिष्ठां काङ्क्षते । सा किं भोजेन प्राप्यते । कैश्चित्स्तोत्रपरायणैर्मयूरादिकविभिर्महिमानं प्रापितो भोजः । परन्तु भोजो भोज एव । प्रिये, शृणु ।
आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितो यदि पदं मृगवैरिणः श्वा ।
मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥ १७७ ॥
राजा श्रुत्वा विचारितवान्—'असौ सत्यमेव वदति ।' ततः पुनः पुनर्वदन्तं शृणोति-
'आपन्न एव पात्रं देहीत्युच्चारणं न वैदुष्यम् ।
उपपन्नमेव देयं त्यागस्ते विक्रमार्क किमु वर्ण्यः ॥ १७८ ॥
विक्रमार्क त्वया दत्तं श्रीमन्ग्रामशताष्टकम् ।
अर्थिने द्विजपुत्राय भोजे त्वन्महिमा कुतः ॥ १७९ ॥
प्राप्नोति कुम्भकारोऽपि महिमानं प्रजापतेः ।
यदि भोजेऽप्यवाप्नोति प्रतिष्ठां तव विक्रमः' ॥ १८० ॥
राजा-'लोके सर्वोऽपि जनः स्वगृहे निःशङ्कं सत्यं वदति । मया वान्येन वा सर्वथा विक्रमार्कप्रतिष्ठा न शक्या प्राप्तुम् । ततः कदाचित्कश्चित्कवी राजद्वारं समागत्याह-'राजा द्रष्टव्यः' इति । ततः प्रवेशितो राजानं 'स्वस्ति' इत्युक्त्वा तदाज्ञयोपविष्टः पठति-
'कविषु वादिषु भोगिषु देहिषु द्रविणवत्सु सतामुपकारिषु ।
धनिषु धन्विषु धर्मधनेष्वपि क्षितितले नहि भोजसमो नृपः' ॥ १८१ ॥
राजा तस्मै लक्षं प्रादात् । सर्वाभरणान्युत्तार्य तं च तुरगं ददौ ।
ततः कदाचिद्राजा क्रीडोद्यानं प्रस्थितो मध्ये मार्गं कामपि मलिनांशुवसनां तीक्ष्णतरतपनकरविदग्धमुखारविन्दं सुलोचनां लोचनाभ्यामालोक्य पप्रच्छ--
'का त्वं पुत्रि' इति ।
‘सा च तं श्रीभोजभूपालं मुखश्रिया विदित्वा तुष्टा प्राह-
'नरेन्द्र, लुब्धकवधूः
हर्षसम्भृतो राजा तस्याः पटुप्रबन्धानुबन्धेनाह-
'हस्ते किमेतत्'
सा चाह- 'पलम्'
राजाह - "क्षामं किम्'
सा चाह- 'सहजं ब्रवीमि नृपते यद्यादराच्छ्रूयते ।
गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना ।
गीतान्धा न तृणं चरन्ति हरिणास्तेनामिषं दुर्बलम्' ॥ १८२ ॥
राजा तस्यै प्रत्यक्षरं लक्षं प्रादात् ।
ततो गृहमागत्य गवाक्ष उपविष्टः । तत्र चासीनं भोजं दृष्ट्वा राजवर्त्मनि स्थित्वा कश्चिदाह-'देव, सकलमहीपाल, आकर्णय ।
इतश्चेतश्चाद्भिर्विघटिततटः सेतुरुदरे
धरित्री दुर्लङ्घ्या बहुलहिमपङ्को गिरिरयम् ।
इदानीं निर्वृत्ते करितुरगनीराजनविधौ
न जाने यातारस्तव च रिपवः केन च पथा' ॥ १८३ ॥
ततो नदीं समुत्तीर्णं शिरस्यारोपितेन्धनम् ।
वेषेण ब्राह्मणं ज्ञात्वा राजा पप्रच्छ सत्वरम् ॥ १८४ ॥
"कियन्मानं जलं विप्र'
स आह-'जानुदघ्नं नराधिप ।'
चमत्कृतो राजाह-'ईदृशी किमवस्था ते'
स आह-नहि सर्वे भवादृशाः' ॥ १८५ ॥
राजा प्राह कुतूहलात्–'विद्वन्, याचस्व कोशाधिकारिणम् । लक्षं दास्यति मद्वचसा ।' ततो विद्वान्काष्ठं भूमौ निक्षिप्य कोशाधिकारिणं गत्वा प्राह-महाराजेन प्रेषितोऽहम् । लक्षं मे दीयताम् ।' ततः स हसन्नाह- विप्र, भवन्मूर्तिर्लक्षं नार्हति ।' ततो विषादी स राजानमेत्याह-
'स पुनर्हसति देव, नार्पयति ।' राजा कुतूहलादाह-'लक्षद्वयं प्रार्थय दास्यति ।' पुनरागत्य विप्रः 'लक्षद्वयं देयमिति राज्ञोक्तम्' इत्याह । स पुनर्हसति । विप्रः पुनरपि भोजं प्राप्याह-'स पापिष्ठो मां हसति नार्पयति । ततः कौतूहली लीलानिधिर्महीं शासञ्श्रीभोजराजः प्राह–'विप्र,
लक्षत्रयं याचस्व । अवश्यं स दास्यति ।' स पुनरेत्य प्राह-राजा मे लक्षत्रयं दापयति । स पुनर्हसति । ततः क्रुद्धो विप्रः पुनरेत्याह-'देव, स नार्पयत्येव।
राजन्कनकधाराभिस्त्वयि सर्वत्र वर्षति ।
अभाग्यच्छत्रसंछन्ने मयि नायान्ति बिन्दवः ॥ १८६ ॥
त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः ।
अस्माकमर्कवृक्षाणां पूर्वपत्रेषु संशयः ॥ १८७ ॥
एकमस्य परमेकमुद्यम निस्त्रपत्वमपरस्य वस्तुनः ।
नित्यमुष्णमहसा निरस्यते नित्यमन्धतमसं प्रधावति' ॥ १८८ ॥
ततो राजा प्राह-
'क्रोधं मा कुरु मद्वाक्याद्गत्वा कोशाधिकारिणम् ।
लक्षत्रयं गजेन्द्राश्च दश ग्राह्यास्त्वया द्विज' ॥ १८९ ॥
ततस्त्वङ्गरक्षकं प्रेषयति । ततः कोशाधिकारी धर्मपत्रे लिखति-
'लक्षं लक्षं पुनर्लक्षं मत्ताश्च दश दन्तिनः ।
दत्ता भोजेन तुष्टेन जानुदघ्नप्रभाषणात् ॥ १९० ॥
'राजन् कोऽपि शुकदेवनामा कविर्दारिद्र्यविडम्बितो द्वारि वर्तते । राजा बाणं प्राह–'पण्डितवर, सुकवे, तत्त्वं विजानासि ।' बाणः- शुकदेवपरिज्ञानसामर्थ्याभिज्ञः कालिदास एव, नान्यः । 'राजा- 'सुकवे, सखे कालिदास, किं विजानासि शुकदेवकविम् ।' इत्याह । कालिदासः-'देव,
सुकविर्द्वितयं जाने निखिलेऽपि महीतले ।
भवभूतिः शुकश्चायं वाल्मीकिस्त्रितयोऽनयोः' ।। १९१
ततो विद्वद्वन्दवन्दिता सीता प्राह-
'काकाः किं किं न कुर्वन्ति क्रोङ्कारं यत्र तत्र वा ।
शुक एव परं वक्ति नृपहस्तोपलालितः' ॥ १९२ ॥
ततो मयूरः प्राह-
'अपृष्टस्तु नरः किञ्चिद्यो ब्रूते राजसंसदि ।
न केवलमसम्मानं लभते च विडम्बनाम् ॥ १९३ ॥
देव, तथाप्युच्यते-
का सभा किं कविज्ञानं रसिकाः कवयश्च के ।
भोज किं नाम ते दानं शुकस्तुष्यति येन सः ॥ १९४ ॥
तथापि भवनद्वारमागतः शुकदेवः सभायामानेतव्य एव ।' तदा राजा विचारयति शुकदेवसामर्थ्यं श्रुत्वा हर्षविषादयोः पात्रमासीत् । महाकविरवलोकित इति हर्षः । अस्मै सत्कविकोटिमुकुटमणये किं नाम देयमिति च विषादः । 'भवतु । द्वारपाल, प्रवेशय ।' तत आयान्तं शुकदेवं दृष्ट्वा राजा सिंहासनादुदतिष्ठत् । सर्वे पण्डितास्तं शुकदेवं प्रणम्य सविनयमुपवेशयन्ति । स च राजा तं सिंहासन उपवेश्य स्वयं तदाज्ञयोपविष्टः । ततः शुकदेवः प्राह–'देव, धारानाथ, श्रीविक्रमनरेन्द्रस्य या दानलक्ष्मीस्त्वामेव सेवते । देव, मालवेन्द्र एव धन्यः नान्ये भूभुजः, यस्य ते कालिदासादयो महाकवयः सूत्रबद्धाः पक्षिण इव निवसन्ति ।' ततः पठति-
'प्रतापभीत्या भोजस्य तपनो मित्रतामगात् ।
और्वो वाडवतां धत्ते तडित्क्षणिकतां गता' ॥ १९५ ॥
'सुवर्णकलशं प्रादाद्दिव्यमाणिक्यसम्भृतम् ।
भोजः शुकाय सन्तुष्टो दन्तिनश्च चतुःशतम् ॥ १९६ ॥
इति पुण्यपत्रे लिखित्वा सर्वं दत्त्वा कोशाधिकारी शुकं प्रस्थापयामास ।
राजा स्वदेशं प्रति गतं शुकं ज्ञात्वा तुतोष । सा च परिषत्सन्तुष्टा ।
अन्यदा वर्षाकाले वासुदेवो नाम कविः कश्चिदागत्य राजानं दृष्टवान् । राजाह-सुकवे, पर्जन्यं पठ ।' ततः कविराह-
'नो चिन्तामणिभिर्न कल्पतरुभिर्नो कामधेन्वादिभि-
र्नो देवैश्च परोपकारनिरतैः स्थूलैर्न सूक्ष्मैरपि ।
अम्भोदेह निरन्तरं जलभरैस्तामुर्वरां सिञ्चतां
धौरेयेण धुरं त्वयाद्य वहता मन्ये जगज्जीवति' ॥ १९७ ॥
राजा लक्षं ददौ ।
कदाचिद्राजानं निरन्तरं दीयमानमालोक्य मुख्यामात्यो वक्तुमशक्तो राज्ञः शयनभवनभित्तौ व्यक्तान्यक्षराणि लिखितवान्-
'आपदर्थं धनं रक्षेत्'
राजा शयनादुत्थितो गच्छन्भित्तौ तान्यक्षराणि वीक्ष्य स्वयं द्वितीय- चरणं लिलेख- श्रीमतामापदः कुतः ।
अपरेद्युरमात्यो द्वितीय चरणं लिखितं दृष्ट्वा स्वयं तृतीयं लिलेख-
“सा चेदपगता लक्ष्मी
परेद्यू राजा चतुर्थं चरणं लिखति–'सञ्चितार्थो विनश्यति' ॥ १९८ ॥
ततो मुख्यामात्यो राज्ञः पादयोः पतति–'देव, क्षन्तव्योऽयं ममापराधः ।
अन्यदा धाराधीश्वरमुपरि सौधभूमौ शयानं मत्वा कश्चिद्द्विजचोरः खातपातपूर्वं राज्ञः कोशगृहं प्रविश्य बहूनि विविधरत्नानि वैडूर्यादीनि हृत्वा तानि परलोकऋणानि मत्वा तत्रैव वैराग्यमापन्नो विचारयामास-
'यद्व्यङ्ग्याः कुष्ठिनश्चान्धाः पङ्गवश्च दरिद्रिणः ।
पूर्वोपार्जितपापस्य फलमश्नन्ति देहिनः ॥ १९९ ॥
ततो राजा निद्राक्षये दिव्यशयनस्थितो विविधमणिकङ्कणालङ्कृतं दयितवर्गं दर्शनीयमालोक्य गजतुरगरथपदातिसामग्रीं च चिन्तयन्राज्यसुखसन्तुष्टः प्रमोदभरादाह-
'चेतोहरा युवतयः सुहृदोऽनुकूलाः
सद्वान्धवाः प्रणयगर्भगिरश्च भृत्याः।
वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गाः'
इति चरणत्रयं राज्ञोक्तम् । चतुर्थचरणं राज्ञो मुखान्न निःसरति तदा चोरेण श्रुत्वा पूरितम्-
'सम्मीलने नयनयोर्नहि किञ्चिदस्ति' ॥ २०० ॥
ततो ग्रथितग्रन्थो राजा चोरं वीक्ष्य तस्मै वीरवलयमदात् । ततस्तस्करो वीरवलयमादाय ब्राह्मणगृहं गत्वा शयानं ब्राह्मणमुत्थाप्य तस्मै दत्त्वा प्राह–'विप्र, एतद्राज्ञः पाणिवलयं बहुमूल्यम् अल्पमूल्येन न विक्रेयम् । ततो ब्राह्मणः पण्यवीथ्यां तद्विक्रीय दिव्यभूषणानि पट्टदुकूलानि च जग्राह । ततो राजकीयाः केचनैनं चोरं मन्यमाना राज्ञो निवेदयन्ति । ततो राजनिकटे नीतः। राजा पृच्छति 'विटधार्य पटमपि नास्ति । अद्य प्रातरेव दिव्यकुण्डलाभरणपट्टदुकूलानि कुतः ?' विप्रः प्राह-
'भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः
पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् ।
तस्मिञ्शुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं
यत्राकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ २०१ ॥
तुष्टो राजा तस्मै वीरवलयं चोरप्रदत्तं निश्चित्य स्वयं च लक्षं ददौ ।
अन्यदा कोऽपि कवीश्वर विष्ण्वाख्यो राजद्वारि समागत्य तैः प्रवेशितो राजानं दृष्ट्वा स्वस्तिपूर्वकं प्राह-
'धाराधीश धरामहेन्द्रगणनाकौतूहलीयानयं
वेधास्त्वद्गणने चकार खटिकाखण्डेन रेखां दिवि ।
सैवेयं त्रिदशापगा समभवत्त्वत्तुल्यभूमीधरा-
भावात्तु त्यजति स्म सोऽयमवनीपीठे तुषाराचलः ॥'
राजा लोकोत्तरं श्लोकमाकर्ण्य 'किं देयम्' इति व्यचिन्तयत् । तस्मिन्क्षणे तदीयकवित्वमप्रतिद्वन्द्वमाकर्ण्य सोमनाथाख्यकवेर्मुखं विच्छायमभवत् । ततः स दौष्ट्याद्राजानं प्राह-'देव, असौ सुकविर्भवति । परमनेन न कदापि वीक्षितास्ति राजसभा । यतो दारिद्र्यवारिधिरयम् । अस्य च जीर्णमपि कौपीनं नास्ति ।' ततो राजा सोमनाथं प्राह-
'निरवद्यानि पद्यानि यद्यनाथस्य का क्षतिः ।
भिक्षुणा कक्षनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ॥ २०३ ॥
ततः सर्वेभ्यस्ताम्बूलं दत्त्वा राजा सभाया उदतिष्ठत् । ततः सर्वैरप्यन्योन्यमित्यभ्यधायि-'अद्य विष्णुकवेः कवित्वमाकर्ण्य सोमनाथेन सम्यग्दौष्ट्यमकारि ।' ततः समुत्थिता विद्वत्परिषत् । ततो विष्णुकविरेकं पद्यं पत्रे लिखित्वा सोमनाथकविहस्ते दत्वा प्रणम्य गन्तुमारभत । 'अत्र सभायां त्वमेव चिरं नन्द । ततो वाचयति सोमनाथकविः-
'एतेषु हा तरुणमारुतधूयमान-
दावानलैः कवलितेषु महीरुहेषु ।
अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च
वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः' ॥ २०४ ॥
ततः सोमनाथकविर्निखिलमपि पट्टदुकूलवित्तहिरण्यमयीं तुरङ्गमादिसंपत्तिं कलत्रवस्त्रावशेषं दत्तवान् । ततो राजा मृगयारसप्रवृत्तो गच्छंस्तं विष्णुकविमालोक्य व्यचिन्तयत्-'मयास्मै भोजनमपि न प्रदत्तम् । मामनादृत्यायं सम्पत्तिपूर्णः स्वदेशं प्रति यास्यति । पृच्छामि । विष्णुकवे, कुतः सम्पत्तिः प्राप्ता ।' कविराह-
सोमनाथेन राजेन्द्र देव त्वद्गृहभिक्षुणा ।
अद्य शोच्यतमे पूर्णं मयि कल्पद्रुमायितम्' ॥ २०५ ॥
राज्ञा पूर्वं सभायां श्रुतस्य श्लोकस्याक्षरलक्षं ददौ । सोमनाथेन च यावद्दत्तं तावदपि सोमनाथाय दत्तवान् । सोमनाथः प्राह-
किसलयानि कुतः कुसुमानि वा क्व च फलानि तथा वनवीरुधाम् ।
अयमकारणकारुणिको यदा न तरतीह पयांसि पयोधरः ॥ २०६ ॥
ततो विष्णुकविः सोमनाथदत्तेन राज्ञा दत्तेन च तुष्टवान् । तदा सीमन्तकविः प्राह-
'वहति भुवनश्रेणी शेषः फणाफलकस्थितां
कमठपतिना मध्ये पृष्ठं सदा स च धार्यते ।
तमपि कुरुते क्रोडाधीनं पयोनिधिरादरा-
दहह महतां निःसीमानश्चरित्रविभूतयः ॥ २०७ ॥
कदाचित्सौधतले राजानमेत्य भृत्यः प्राह– 'देव, अखिलेष्वपि कोशेषु यद्वित्तजातमस्ति तत्सर्वं देवेन कविभ्यो दत्तम् । परन्तु कोशगृहे धनलेशोपि नास्ति । कोऽपि कविः प्रत्यहं द्वारि तिष्ठति । इतः परं कविर्विद्वान्वा कोऽपि राज्ञे न प्राप्य इति मुख्यामात्येन देवसन्निधौ विज्ञापनीयमित्युक्तम् ।' राजा कोशस्थं सर्वं दत्तमिति जानन्नपि प्राह-'अद्य द्वारस्थं कविं प्रवेशय ।' ततो विद्वानागत्य 'स्वस्ति' इति वदन्प्राह--
'नभसि निरवलम्बे सीदता दीर्घकालं त्वदभिमुखविसृष्टोत्तानचञ्चूपुटेन ।
जलधरजलधारा दूरतस्तावदास्तां ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन' ।
राजा तदाकर्ण्य 'धिग्जीवितं यद्विद्वांसः कवयश्च द्वारमागत्य सीदन्ति' इति तस्मै विप्राय सर्वाण्याभरणान्युत्तार्य ददौ । ततो राजा कोशाधिकारिणमाहूयाह-'भाण्डारिक, मुञ्जराजस्य तथा मे पूर्वेषां च ये कोशाः सन्ति तेषां मध्ये रत्नपूर्णाः कलशाः कुत्र ।' ततः काश्मीरदेशान्मुचुकुन्दकविरागत्य 'स्वस्ति' इत्युक्त्वा प्राह-
'त्वद्यशोजलधौ भोज निमज्जनभयादिव ।
सूर्येन्दुबिम्बमिषतो धत्ते कुम्भद्वयं नभः' ॥ २०९ ॥
राजा तस्मै प्रत्यक्षरं लक्षं ददौ । पुनः कविराह-
'आसन्क्षीणानि यावन्ति चातकाश्रूणि तेऽम्बुद ।
तावन्तोऽपि त्वयोदार न मुक्ता जलबिन्दवः' ॥ २१० ॥
ततः स राजा तस्मै शततुरगानपि ददौ । ततो भाण्डारिको लिखति-
'मुचुकुन्दाय कवये जात्यानश्वाशतं ददौ ।
भोजः प्रदत्तलक्षोऽपि तेनासौ याचितः पुनः' ॥ २११ ॥
ततो राजा सर्वानपि वेश्म प्रेषयित्वान्तर्गच्छति । ततो राज्ञश्चामरग्राहिणी प्राह-
'राजन्मुञ्जकुलप्रदीप सकलक्ष्मापालचूडामणे
युक्तं सञ्चरणं तवाद्भुतमणिच्छत्रेण रात्रावपि ।
मा भूत्त्वद्वदनावलोकनवशाद्व्रीडाभिनम्रः शशी
मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम् ॥ २१२ ॥
अन्यदा कुण्डिननगराद्गोपालो नाम कविरागत्य स्वस्तिपूर्वकं प्राह-
'त्वच्चित्ते भोज निर्यातं द्वयं तृणकणायते ।
क्रोधे विरोधिनां सैन्यं प्रसादे कनकोच्चयः ॥ २१३ ॥
राजा श्रुत्वापि तुष्टो न दास्यति । राजपुरुषैः सह चर्चां कुर्वाणस्तिष्ठति । ततः कविर्व्यचिन्तयत्-'किमु राज्ञा नाश्रावि' । ततः क्षणेन समुन्नतमेवावलोक्य राजानं कविराह-
'हे पाथोद यथोन्नतं हि भवता दिग्व्यावृता सर्वतो
मन्ये धीर तथा करिष्यसि खलु क्षीराब्धितुल्यं सरः ।
किन्त्वेष क्षमते नहि क्षणमपि ग्रीष्मोष्मणा व्याकुलः
पाठीनादिगणस्त्वदेकशरणस्तद्वर्ष तावत्कियत् ॥ २१४ ॥
राजा कविहृदयं विज्ञाय 'गोपालकवे' दारिद्र्याग्निना नितान्तं दग्धोऽसि ।'
इति वदन्षोडशमणीननर्घ्यान् षोडशदन्तीन्द्रांश्च ददौ ।
एकदा राजा धारानगरे विचरन्क्वचिच्छिवालये प्रसुम्नं पुरुषद्वयमपश्यत् । तयोरेको विगतनिद्रो वक्ति-'अहो, ममास्तरासन्न एव कस्त्वं प्रसुप्तोऽसि जागर्षि नो वा ।' ततस्त्वपर आह–'विप्र, प्रणतोऽस्मि । अहमपि ब्राह्मणपुत्रस्त्वामत्र प्रथमरात्रौ शयानं वीक्ष्य प्रदीप्ते च प्रदीपे कमण्डलूपवीतादिभिर्ब्राह्मणं ज्ञात्वा भवदास्तरासन्न एवाहं प्रसुप्तः । इदानीं त्वद्गिरमाकर्ण्य प्रबुद्धोऽस्मि ।' प्रथमः प्राह–'वत्स, यदि त्वं प्रणतोऽसि ततो दीर्घायुभव । वद कुत आगम्यते, किं नाम, अत्र च किं कार्यम् ।' द्वितीयः प्राह-'विप्र, भास्कर इति मे नाम । पश्चिमसमुद्रतीरे प्रभासतीर्थसमीपे वसतिर्मम । तत्र भोजस्य वितरणं बहुभिावर्णितम् । ततो याचितुमहमागतः। त्वं मम वृद्धत्वात्पितृकल्पोऽसि । त्वमपि सुपरिचयं वद ।' स आह–'वत्स, शाकल्य इति मे नाम । मयैकशिलानगर्या आगम्यते भोजं प्रति द्रविणाशया। वत्स, त्वयानुक्तमपि दुःखं त्वयि ज्ञायते कीदृशं तद्वद ।' ततो भास्करः प्राह-'तात, किं ब्रवीमि दुःखम् ।
क्षुत्तामाः शिशवः शवा इव भृशं मन्दाशया बान्धवा
लिप्ता झर्झरघर्घरी जतुलवैर्नो मां तथा बाधते ।
गहिन्या त्रुटितांशुकं घटयितुं कृत्वा सकाकुस्मितं
कुप्यन्ती प्रतिवेश्म लोकगृहिणी सूचिं यथा याचिता ॥ २१५ ॥
राजा श्रुत्वा सर्वाभरणान्युत्तार्य तस्मै दत्वा प्राह-भास्कर, सीदन्त्यतीव ते बालाः। झटिति देशं याहि ।' ततः शाकल्यः प्राह-
अत्युद्धृता वसुमती दलितोऽरिवर्गः
क्रोडीकृता बलवता बलिराजलक्ष्मीः ।
एकत्र जन्मनि कृतं यदनेन यूना
जन्मत्रये तदकरोत्पुरुषः पुराणः' ।। २१६।।
ततो राजा शाकल्याय लक्षत्रयं दत्तवान् ।
अन्यदा राजा मृगयारसेन विचरंस्तत्र पुरः समागतहरिण्यां बाणेन विद्धायामपि वित्ताशया कोऽपि कविराह-
'श्रीभोजे मृगयां गतेऽपि सहसा चापे समारोपिते-
ऽप्याकर्णान्तगतेऽपि मुष्टिगलिते बाणेऽङ्गलग्नेऽपि च ।
स्थानान्नैव पलायितं न चलितं नोत्कम्पितं नोत्प्लुतं
मृग्या मद्वशगं करोति दयितं कामोऽयमित्याशया' ॥२१७॥
राजा तस्मै लक्षत्रयं प्रयच्छति ।
अन्यदा सिंहासनमलङ्कुर्वाणे श्रीभोजनृपतौ द्वारपाल आगत्याह- 'देव, जानवीतीरवासिनी काचन वृद्धब्राह्मणी विदुषी द्वारि तिष्ठति' ।
राजा-'प्रवेशय ।' तत आगच्छन्ती राजा प्रणमति । सा तं 'चिरं जीव' इत्युक्त्वाह-
'भोजप्रतापाग्निरपूर्व एष जागर्ति भूभृत्कटकस्थलीषु ।
यस्मिन्प्रविष्टे रिपुपार्थिवानां तृणानि रोहन्ति गृहाङ्गणेषु ॥ २१८ ॥
राजा तस्यै रत्नपूर्णं कलशं प्रयच्छति । ततो लिखति भाण्डारिकः-
'भोजेन कलशो दत्तः सुवर्णमणिसम्भृतः ।
प्रतापस्तुतितुष्टेन वृद्धायै राजसंसदि' ॥ २१९ ॥
अन्यदा दूरदेशादागतः कश्चिचोरो राजानं प्राह-'देव, सिंहलदेशे मया काचन चामुण्डालये राजकन्या दृष्टा, मालवदेशदेवस्य महिमानं बहुधा श्रुतं त्वमपि वदेति पप्रच्छ। मया च तस्या देवगुणा व्यावर्णिताः। सा चात्यन्ततोषाच्चन्दनतरोर्निरुपमं गर्भखण्डं दत्त्वा यथास्थानं प्रपेदे । देवगुणाभिवर्णनप्राप्तं तदेतद्गृहाण । एतत्प्रमृतपरिमलभरेण भृङ्गाभुजङ्गाश्च समायान्ति ।' राजा तद्गृहीत्वा तुष्टस्तस्मै लक्षं दत्तवान् । ततो दामोदरकविस्तन्मिषेण राजानं स्तौति-
'श्रीमच्चन्दनवृत्त सन्ति बहवस्ते शाखिनः कानने
येषां सौरभमात्रकं निवसति प्रायेण पुष्पश्रिया ।
प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातः प्रसिद्धात्मना
योऽसौ गन्धगुणस्त्वया प्रकटितः कासाविह प्रेक्ष्यते ॥
राजा स्वस्तुतिं बुद्ध्वा लक्षं ददौ ।
ततो द्वारपाल आगत्य प्राह--'देव, काचित्सूत्रधारी स्त्री द्वारि वर्तते ।' राजा-'प्रवेशय ।' ततः सागत्य राजानं प्रणिपत्याह-
'बलिः पातालनिलयोऽधः कृतश्चित्रमत्र किम् ।
अधः कृतो दिविस्थोऽपि चित्रं कल्पद्रुमस्त्वया ॥ २२१ ॥
राजा तस्यै प्रत्यक्षरं लक्षं ददौ ।
ततः कदाचिन्मृगयापरिश्रान्तो राजा क्वचित्सहकारतरोरधस्तात्तिष्ठति स्म । तत्र मल्लिनाथाख्यः कविरागत्य प्राह-
'शाखाशतशतवितताः सन्ति कियन्तो न कानने तरवः ।
परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः' ॥ २२२ ॥
ततो राजा तस्मै हस्तवलयं ददौ ।
तत्रैवासीने राज्ञि कोऽपि विद्वानागत्य 'स्वस्ति' इत्युक्त्वा प्राह-- 'राजन् , काशीदेशमारभ्य तीर्थयात्रया परिभ्राम्यते क्षीणदेशवासिना मया ।' राजा-'भवादृशानां तीर्थवासिनां दर्शनात्कृतार्थोऽस्मि ।' स आह-वयं मान्त्रिकाश्च ।' राजा-'विप्रेषु सर्वं सम्भाव्यते ।' राजा पुनः प्राह-'विप्र, मन्त्रविद्यया यथा परलोके फलप्राप्तिः, तथा किमिहलोकेऽप्यस्ति ।' विप्रः-'राजन् , सरस्वतीचरणाराधनाद्विद्यावाप्तिर्विश्वविदिता । परं धनावाप्तिर्भाग्याधीना ।
गुणाः खलु गुणा एव न गुणा भूतिहेतवः ।
धनसञ्चयकतॄणि भाग्यानि पृथगेव हि ॥ २२३ ।।
देव, विद्यागुणा एवं लोकानां प्रतिष्ठायै भवन्ति । न तु केवलं सम्पदः । देव,
आत्मायत्ते गुणग्रामे नैर्गुण्यं वचनीयता ।
दैवायत्तेषु वित्तेषु पुंसां का नाम वाच्यता ॥ २२४ ॥
देव, मन्त्राराधनेनाप्रतिहता शक्तिः स्यात् । देव, एवं कुतूहलं यस्य । मया यस्य शिरसि करो निधीयते; स सरस्वतीप्रसादेनास्खलितविद्याप्रसारः स्यात् ।' राजा प्राह 'सुमते, महती देवताशक्तिः । ततो राजा कामपि दासीमाकार्य विप्रं प्राह-'द्विजवर, अस्या वेश्यायाः शिरसि करं निधेहि । 'विप्रस्तस्याः शिरसि करं निधाय तां प्राह-'देवि, यद्राजाज्ञापयति तद्वद । ततो दासी प्राह 'देव, अहमद्य समस्तवाङ्मयजातं हस्तामलकवत्पश्यामि । देव, आदिश किं वर्णयामि ।' ततो राजा पुरः खङ्गं वीक्ष्य प्राह-खड्गं मे व्यावर्णय' इति । दासी प्राह-
'धाराधरस्त्वदसिरेष नरेन्द्र चित्रं
वर्षन्ति वैरिवनिताजनलोचनानि ।
कोशेन सन्तततमसङ्गतिराहवेऽस्य
दारिद्र्यमभ्युदयति प्रतिपार्थिवानाम् ॥ २२५ ॥
राजा तस्यै रत्नकलशाननर्घ्यान्पञ्च ददौ ।
ततस्तस्मिन्क्षणे कुतश्चित्पञ्च कवयः समाजग्मुः । तानवलोक्येषद्विच्छायमुखं राजानं दृष्ट्वा महेश्वरकविर्वृक्षमिषेणाह-
'किं जातोऽसि चतुष्पथे घनतरच्छायोऽसि किं छायया
छन्नश्चेत्फलितोऽसि किं फलभरैः पूर्णोऽसि किं संनतः ।
हे सद्वृक्ष सहस्व सम्प्रति चिरं शाखाशिखाकर्षण-
क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः' ॥ २२६ ॥
ततो राजा तस्मै लक्षं ददौ। ततस्ते द्विजवराः पृथक्पृथगाशीर्वचनमुदीर्य यथाक्रमं राजाज्ञया कम्बल उपविश्य मङ्गलं चक्रुः । तत एकः पठति-
'कूर्मः पातालगङ्गापयसि विहरतां तत्तटीरूढमुस्ता-
मादत्तामादिपोत्री शिथिलयतु फणामण्डलं कुण्डलीन्द्रः ।
दिङ्मातङ्गा मृणालीकवलनकलनां कुर्वतां पर्वतेन्द्राः
सर्वे स्वैरं चरन्तु त्वयि वहति विभो भोज देवीं धरित्रीम्' ॥ २२७ ॥
'क्रीडोद्याने नरेन्द्रेण शतमश्वा मनोजवाः ।
प्रदत्ताः कामदेवाय सहकारतरोरधः' ॥ २२८ ॥
ततः कदाचिद्भोजो विचारयति स्म-मत्सदृशो वदान्यः कोऽपि नास्ति' इति । तद्गर्वं विदित्वा मुख्यामात्यो विक्रमार्कस्य पुण्यपत्रं भोजाय प्रदर्शयामास । भोजस्तत्र पत्रे किञ्चित्प्रस्तावमपश्यत् । तथाहि- विक्रमार्कः पिपासया प्राह-
स्वच्छं सज्जनचित्तवल्लघुतरं दीनार्तिवच्छीतलं
पुत्रालिङ्गनवत्तथैव मधुरं तद्बाल्यसञ्जल्पवत् ।
एलोशीरलवङ्गचन्दनलसत्कर्पूरकस्तूरिका-
जातीपाटलिकेतकैः सुरभितं पानीयमानीयताम् ॥ २२९ ॥
ततो मागधः प्राह-
'वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते
बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
वाहिन्यः पार्श्वमेताः कथमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं
स्वच्छे चित्ते कुतोऽभूत्कथय नरपते तेऽम्बुपानाभिलाषः' ॥ २३० ॥
ततो विक्रमार्कः प्राह । तथाहि-
'अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः
पञ्चाशन्मधुगन्धमत्तमधुपाः क्रोधोद्धताः सिन्धुराः ।
अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं
दत्तं पाण्ड्यनृपेण यौतकमिदं वैतालिकायार्प्यताम् ॥ २३१ ॥
ततो भोजः प्रथमत एवाद्भुतं विक्रमार्कचरित्रं दृष्ट्वा निजगर्वं तत्याज । ततः कदाचिद्धारानगरे रात्रौ विचरन्राजा कंचन देवालये शीतालुं ब्राह्मणमित्थं पठन्तमवलोक्य स्थितः-
'शीतेनाध्युषितस्य माघजलवच्चिन्तार्णवे मज्जतः
शान्ताग्नेः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम ।
निद्रा काप्यवमानितेव दयिता सन्त्यज्य दूरं गता
सत्पात्रप्रतिपादितेव कमला नो हीयते शर्वरी' ॥ २३२ ॥
'रात्रौ जानुर्दिवा भानुः कृशानुः सन्ध्ययोर्द्वयोः ।
एवं शीतं मया नीतं जानुभानुकृशानुभिः' ॥ २३३ ॥
राजा तस्मै सुवर्णकलशत्रयं प्रादात् । ततः कवी राजानं स्तौति-
धारयित्वा त्वयात्मानं महात्यागधनायुषा
मोचिता बलिकर्णाद्याः स्वयशोगुप्तकर्मणः' ॥ २३४ ॥
राजा तस्मै लक्षं ददौ ।
एकदा क्रीडोद्यानपाल आगत्यैकमिक्षुदण्डं राज्ञः पुरो मुमोच । तं राजा करे गृहीतवान् । ततो मयूरकविर्नितान्तं परिचयवशादात्मनि राज्ञा कृतामवज्ञां मनसि निधायेक्षुमिषेणाह-
'कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि
किं चासि पञ्चशरकार्मुकमद्वितीयम् ।
इक्षो तवास्ति सकलं परमेकमूनं
यत्सेवितो भजसि नीरसतां क्रमेण' ॥ २३५ ॥
राजा कविहृदयं ज्ञात्वा मयूरं सम्मानितवान् । ततः कदाचिद्रात्रौ सौधोपरि क्रीडापरो राजा शशाङ्कमालोक्य प्राह-
'यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते
तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।'
ततश्चाधो भूमौ सौधान्तः प्रविष्टः कश्चिच्चोर आह-
'अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी-
कटाक्षोल्कापातव्रणकणकलङ्काङ्किततनुम् ॥ २३६ ॥
राजा तच्छ्रुत्वा प्राह–'अहो महाभाग, कस्त्वमर्धरात्रे कोशगृहमध्ये तिष्ठसि' इति । स आह–'देव, अभयं नो देहि' इति । राजा-'तथा' इति । ततो राजानं स चोरः प्रणम्य स्ववृत्तान्तमकथयत् । तुष्टो राजा चोराय दश कोटीः सुवर्णस्योन्मत्तान्गजेद्रांश्च ददौ । ततः कोशाधिकारी धर्मपत्रे लिखति-
तदस्मै चोराय प्रतिनिहतमृत्युप्रतिभिये
प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते ।
सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरी-
न्गजेन्द्रानप्यष्टौ मदमुदितकूजन्मधुलिहः ॥ २३७ ॥
ततः कदाचिद्वारपाल आगत्य प्राह--'देव, कौपीनावशेषो विद्वान्द्वारि वर्तते' इति । राजा-'प्रवेशय' इति । ततः प्रविष्टः स कविर्भोजमालोक्याद्य मे दारिद्र्यनाशो भविष्यतीति मत्वा तुष्टो हर्षाश्रूणि मुमोच । राजा तमालोक्य प्राह-'कवे, किं रोदिषि' इति । ततः कविराह-'राजन्, आकर्णय मद्गृहस्थितिम् ।
अये लाजा उच्चैः पथि वचनमाकर्ण्य गृहिणी
शिशोः कर्णौ यत्नात्सुपिहितवती दीनवदना ।
मयि क्षीणोपाये यदकृत दृशावश्रुबहुले
तदन्तः शल्यं मे त्वमसि पुनरुद्धर्तुमुचितः ॥ २३८ ॥
राजा 'शिव शिव कृष्ण कृष्ण' इत्युदीरयन्प्रत्यक्षरलक्षं दत्वा प्राह- 'सुकवे त्वरितं गच्छ गेहम् । त्वद्गृहिणी खिन्नाभूत्' इति ।
ततः कदाचिन्मृगयापरिश्रान्तो राजा कस्यचिन्महावृक्षस्य छायामाश्रित्य तिष्ठति स्म । तत्र शाम्भवदेवो नाम कविः कश्चिदागत्य राजानं वृक्षमिषेणाह-
आमोदैर्मरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः
पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया ।
स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्तत-
स्त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदोऽन्ये द्रुमाः ॥ २३६ ॥
किंच-
अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् |
अनधिगतपरिमलापि च हरति दृशं मालतीमाला ॥ २४० ॥
ताभ्यां श्लोकाभ्यां चमत्कृतो राजा प्रत्यक्षरं लक्षं ददौ ।
अन्यदा श्रीभोजः श्रीमहेश्वरं नन्तुं शिवालयमभ्यगात् । तदा कोऽपि ब्राह्मणो राजानं शिवसन्निधौ प्राह–'देव,
अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं
देवेत्थं जगतीतले पुरहराभावे समुन्मीलति ।
गङ्गासागरमम्बरं शशिकला नागाधिपः क्ष्मातलं
सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां तु भिक्षाटनम् ॥ २४१ ॥
ततः कदाचिद्द्वारपाल आगत्य प्राह-'देव, कोऽपि विद्वान्द्वारि तिष्ठति' इति । राजा-प्रवेशय' इति । ततः प्रविष्टो विद्वान्पठति-
"क्षणमप्यनुगृह्णाति यं दृष्टिस्तेऽनुरागिणी ।
ईर्ष्ययेव त्यजत्याशु तं नरेन्द्र दरिद्रता ॥ २४२ ॥
राजा लक्षं ददौ । पुनरपि पठति कविः-
केचिन्मूलाकुलाशाः कतिचिदपि पुनः स्कन्धसम्बन्धभाज-
श्छायां केचित्प्रपन्नाः प्रपदमपि परे पल्लवानुन्नयन्ति ।
अन्ये पुष्पाणि पाणौ दधति तदपरे गन्धमात्रस्य पात्रं
वाग्वल्ल्याः किं तु मूढाः फलमहह नहि द्रष्टुमप्युत्सहन्ते ॥ २४३ ॥
एतदाकर्ण्य बाणः प्राह-
परिच्छन्नस्वादोऽमृतगुडमधुक्षौद्रपयसां
कदाचिच्चाभ्यासाद्भजति ननु वैरस्यमधिकम् ।
प्रियाबिम्बोष्ठे वा रुचिरकविवाक्येऽप्यनवधि-
र्नवानन्दः कोऽपि स्फुरति तु रसोऽसौ निरुपमः ॥ २४४ ॥
ततो राजा लक्षं दत्तवान् ।
ततः कदाचित्सिंहासनमलङ्कुर्वाणे श्रीभोजे द्वारपाल आगत्य प्राह- 'देव, वाराणसीदेशादागतः कोऽपि भवभूतिर्नामकविर्द्वारि तिष्ठति' इति | राजा प्राह-प्रवेशय' इति । ततः प्रविष्टः सोऽपि सभामगात् । ततः सभ्याः सर्वे तदागमनेन तुष्टा अभवन् । राजा च भवभूतिं प्रेक्ष्य प्रणमति स्म । स च 'स्वस्ति' इत्युक्त्वा तदाज्ञयोपविष्टः । भवभूतिः प्राह-'देव,
नानीयन्ते मधुनि मधुपाः पारिजातप्रसूनै-
-र्नाभ्यर्थ्यन्ते तुहिनरुचिनश्चन्द्रिकायां चकोराः ।
अस्मद्वाङ्मामाधुरिमधुरमापद्यपूर्वावताराः
सोल्लासाः स्युः स्वयमिह बुधाः किं मुधाभ्यर्थनाभिः ॥ २४५ ॥
नास्माकं शिबिका न कापि कटकाद्यालङ्क्रियासक्रिया
नोत्तुङ्गस्तुरगो न कश्चिदनुगो नैवाम्बरं सुन्दरम् ।
किन्तु क्ष्मातलवर्त्यशेषविदुषां साहित्यविद्याजुषां
चेतस्तोषकरी शिरोनतिकरी विद्यानवद्यास्ति नः ॥ २४६ ॥
इत्याकर्ण्य बाणपण्डितपुत्रः प्राह-'आः पाप, धाराधीशसभायामहङ्कारं मा कृथाः।
निश्वासोऽपि न निर्याति बाणे हृदयवर्त्मनि ।
किं पुनः प्रकटाटोपपदबद्धा सरस्वती ॥ २४७ ॥
ततो भवभूतिः पराभवमसहमानः प्राह-
हठादाकृष्टानां कतिपयपदानां रचयिता
जनः स्पर्धालुश्चेदहह कविना वश्यवचसा ।
भवेदद्य श्वो वा किमिह बहुना पापिनि कलौ
घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥ २४८ ॥
पुनराह-
'कालिदासकवेर्वाणी कदाचिन्मद्गिरा सह ।
कलयत्यद्य साम्यं चेद्भीता भीता पदे पदे' ॥ २४९ ॥
ततः कालिदासः प्राह-'सखे भवभूते, महाकविरसि । अत्र किमु वक्तव्यम् ।
एषा धारेन्द्रपरिषन्महापण्डितमण्डिता ।
आवयोरन्तरं वेत्ति राजा वा शिवसन्निभः ॥ २५० ॥
तच्छ्रुत्वा राजा प्राह-'युवाभ्यां रत्यन्तो वर्णनीयः' इति । भवभूतिः-
'मुक्ताभूषणमिन्दुबिम्बमजनि व्याकीर्णतारं नभः
स्मारं चापमपेतचापलमभूदिन्दीवरे मुद्रिते ।
व्यालीनं कलकण्ठमन्दरणितं मन्दानिलैर्मन्दितं
निष्पन्दस्तबका च चम्पकलता साभून्न जाने ततः' ॥ २५१ ॥
ततः कालिदासः प्राह-
'खिन्नं मण्डलमैन्दवं विलुलितं स्रग्भारनद्धं तमः
प्रागेव प्रथमानकैतकशिखालीलायितं सुस्मितम् ।
शान्तं कुण्डलताण्डवं कुवलयद्वन्द्वं तिरोमीलितं
वीतं विद्रुमसीत्कृतं नहि ततो जाने किमासीदिति ॥ २५२ ॥
राजा कालिदासं प्राह-'सुकवे, भवभूतिना सह साम्यं तव न वक्तव्यम् ।' भवभूतिराह-'देव, किमिति वोरयसि ।' राजा-'सर्वप्रकारेण कविरसि ।' ततो बाणः प्राह-'राजन् , भवभूतिः कविश्चेत्का लिदासः किं वक्तव्यः । राजा-'बाणकवे, कालिदासः कविर्न । किन्तु पार्वत्याः कश्चिदवनौ पुरुषावतार एव ।' ततो भवभूतिराह-'देव, किमत्र प्राशस्त्यं भाति ।' राजा प्राह-'भवभूते, किमु वक्तव्यं प्राशस्त्यं कालिदासश्लोके । यतः 'कैतकशिखालीलायितं सुस्मितम्' इति पठितम् ।' ततो भवभूतिराह–'देव, पक्षपातेन वदसि' इति । ततः कालिदासः प्राह-'देव अपख्यातिर्मा भूत् । भुवनेश्वरीदेवतालयं गत्वा तत्सन्निधौ तां पुरस्कृत्य घटे संशोधनीयं त्वया ।' ततो भोजः सर्वकविवृन्दपरिवृतः सन्भुवनेश्वरीदेवालयं प्राप्य तत्र तत्सन्निधौ भवभूतिहस्ते घटं दत्त्वा श्लोकद्वयं च तुल्यपत्रद्वये लिखित्वा तुलायां मुमोच । ततो भवभूतिभागे लघुत्वोद्भूतामीषदुन्नतिं ज्ञात्वा देवी भक्तपराधीना सदसि तत्परिभवो मा भूदिति स्वावतंसकह्नारमकरन्दं वामकरनखाग्रेण गृहीत्वा भवभूतिपत्रे चिक्षेप । ततः कालिदासः प्राह-
'अहो मे सौभाग्यं मम च भवभूतेश्च भणितं
घटायामारोप्य प्रतिफलति तस्यां लघिमनि ।
गिरां देवी सद्यः श्रुतिकलितकह्लारकलिका-
मधूलीमाधुर्यं क्षिपति परिपूत्यै भगवती' ॥ २५३ ॥
ततः कालिदासपादयोः पतति भवभूतिः। राजानं च विशेषज्ञं मनुते स्म । ततो राजा भवभूतिकवये शतं मत्तगजान्ददौ ।
अन्यदा राजा धारानगरे रात्रावेकाकी विचरन्काञ्चनस्वैरिणीं सङ्केतं गच्छतीं दृष्ट्वा पप्रच्छ- -'देवि, का त्वम् । एकाकिनी मध्यरात्रौ क्व गच्छसि' इति । ततश्चतुरा स्वैरिणी सा तं रात्रौ विचरन्तं श्रीभोजं निश्चित्य प्राह
'त्वत्तोऽपि विषमो राजन्विषमेषुः क्षमापते ।
शासनं यस्य रुद्राद्या दासवन्मूर्ध्नि कुर्वते ॥ २५४ ॥
ततस्तुष्टो राजा दोर्दण्डादादायाङ्गदं वलयं च तस्यै दत्तवान् । सा च यथास्थानं प्राप । ततो वर्त्मनि गच्छन्क्वचिद्गृह एकाकिनीं रुदतीं नारी दृष्ट्वा 'किमर्थमर्धरात्रौ रोदिति । किं दुःखमेतस्याः ।' इति विचारयितुमेकमङ्गरक्षकं प्राहिणोत् । ततोऽङ्गरक्षकः पुनरागत्य प्राह-'देव, मया पृष्टा यदाह तच्छृणु-
वृद्धो मत्पतिरेष मञ्चकगतः स्थूणावशेषं गृहं
कालोऽयं जलदागमः कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति पर्याकुला
दृष्ट्वा गर्भभरालसां निजवधूं श्वश्रूश्चिरं रोदिति ॥ २५५ ।।
ततः कृपावारिधिः क्षोणीपालस्तस्यै लक्षं ददौ ।
अन्यदा कोङ्कणदेशवासी विप्रो राज्ञे 'स्वस्ति' इत्युक्त्वा प्राह-
शुक्तिद्वयपुटे भोज यशोऽब्धौ तव रोदसी ।
मन्ये तदुद्भवं मुक्ताफलं शीतांशुमण्डलम् ॥ २५६ ॥
राजा तस्मै लक्षं ददौ ।
अन्यदा काश्मीरदेशात्कोऽपि कौपीनावशेषो राजनिकटस्थकवीन्कनकमाणिक्यपट्टदुकूलालङ्कृतानवलोक्य राजानं प्राह-
नो पाणी वरकङ्कणक्वणयतो नो कर्णयोः कुण्डले
क्षुभ्यत्तीरधिदुग्धमुग्धमहसी नो वाससी भूषणम् ।
दन्तस्तम्भविकासिका न शिबिका नाश्वोऽपि विश्वोन्नतो
राजन्राजसभासुभाषितकलाकौशल्यमेवास्ति नः ॥ २५७ ॥
ततस्तस्मै राजा लक्षं ददौ ।
अन्यदा राजा रात्रौ चन्द्रमण्डलं दृष्ट्वा तदन्तस्थकलङ्कं वर्णयति स्म-
'अङ्क केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे
सारङ्गं कतिचिञ्च सञ्जगदिरे भूच्छायमैच्छन्परे ।'
इति राजा पूर्वार्धं लिखित्वा कालिदासहस्ते ददौ । ततः स तस्मिन्नेव क्षण उत्तराध लिखति कविः-
'इन्दौ यदलितेन्द्रनीलशकलश्यामं दरीदृश्यते
तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥ २५८ ॥
राजा प्रत्यक्षरलक्षमुत्तरार्धस्य दत्तवान् । ततो राजा कालिदासकवितापद्धतिं वीक्ष्य चमत्कृतः पुनराह-'सखे, अकलङ्कं चन्द्रमसं व्यावर्णय इति । ततः कविः पठति-
'लक्ष्मीक्रीडातडागो रतिधवलगृहं दर्पणो दिग्वधूनां
पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् ।
पिण्डीभूतं हरस्य स्मितममरधुनीपुण्डरीकं मृगाङ्को
ज्योत्स्नापीयूषवापी नयति सितवृषस्तारकागोलकस्य ॥ २५९ ॥
राजा पुनः प्रत्यक्षरलक्षं ददौ ।
एकदा कश्चिद्दूरदेशादागतो वीणाकविराह-
'तर्कव्याकरणाध्वनीनधिषणो नाहं न साहित्यवि-
न्नो जानामि विचित्रवाक्यरचनाचातुर्यमत्यद्भुतम् ।
देवी कापि विरञ्चिवल्लभसुता पाणिस्थवीणाकल-
क्वाणाभिन्नरवं तथापि किमपि ब्रूते मुखस्था मम' ॥ २६० ॥
राजा तस्मै लक्षं ददौ । बाणस्तस्य सुललितप्रबन्धं श्रुत्वा प्राह-'देव,
मातङ्गीमिव माधुरीं ध्वनिविदो नैव स्पृशन्त्युत्तमां
व्युत्पत्तिं कुलकन्यकामिव रसोन्मत्ता न पश्यन्त्यमी ।
कस्तूरीघनसारसौरभसुहृद्व्युत्पत्तिमाधुर्ययो-
र्योगः कर्णरसायनं सुकृतिनः कस्यापि सम्पद्यते ॥ २६१ ॥
अन्यदा राजा सीतां प्रातः प्राह-'देवि, प्रभातं व्यावर्णय' इति । सीता प्राह-
'विरलविरलाः स्थूलास्ताराः कलाविव सज्जना
मन इव मुनेः सर्वत्रैव प्रसन्नमभून्नभः ।
अपसरति च ध्वान्तं चित्तात्सतामिव दुर्जनो
व्रजति च निशा क्षिप्रं लक्ष्मीरनुद्यमिनामिव' ॥ २६२ ॥
राजा लक्षं दत्त्वा कालिदासं प्राह-सखे सुकवे, त्वमपि प्रभातं व्यावर्णय' इति । कालिदासः-
'अभूत्प्राची पिङ्गा रसपतिरिवापश्य कनकं
गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि ।
क्षणाक्षीणास्तारा नृपतय इवानुद्यमपरा
न दीपा राजन्ते द्रविणरहितानामिव गुणाः ॥ २६३ ॥
अन्यदा द्वारपाल आगत्य प्राह-'देव, कापि मालाकारपत्नी द्वारि तिष्ठति' इति । राजाह- प्रवेशय' इति । ततः प्रवेशिता सा च नमस्कृत्य पठति-
'समुन्नतघनस्तनस्तबकचुम्बितुम्बीफल-
क्वणन्मधुरवीणया विबुधलोकलोलभ्रुवा ।
त्वदीयमुपगीयते हरकिरीटकोटिस्फुर-
त्तुषारकरकन्दलीकिरणपूरगौरं यशः' ॥ २६४ ॥
राजा 'अहो महती पदपद्धतिः' इति तस्याः प्रत्यक्षरं लक्षं ददौ ।
अन्यदा रात्रौ राजा धारानगरे विचरन्कस्यचिद्गृहे कामपि कामिनीमुलूखलपरायणां ददर्श । राजा तां तरुणीं पूर्णचन्द्राननां सुकुमाराङ्गी विलोक्य तत्करस्थं मुसलं प्राह–'हे मुसल, एतस्याः करपल्लवस्पर्शेनापि त्वयि किसलयं नासीत् । तर्हि सर्वथा काष्ठमेव त्वम्' इति । ततो राजा एकं चरणं पठति स्म-
'मुसल किसलयं ते तत्क्षणाद्यन्न जातम् ।'
ततो राजा प्रातः सभायां समागतं कालिदासं वीक्ष्य 'मुसल किसलयं ते तत्क्षणाद्यन्न जातम्' इति पठित्वा 'सुकवे, त्वं चरणत्रयं पठ' इत्युवाच । ततः कालिदासः प्राह-
'जगति विदितमेतत्काष्ठमेवासि नूनं
तदपि च किल सत्यं कानने वर्धितोऽसि ।
नवकुवलयनेत्रीपाणिसङ्गोत्सवेऽस्मि-
न्मुसल किसलयं ते तत्क्षणाद्यन्न जातम् ॥ २६५ ॥
ततो राजा चरणत्रयस्य प्रत्यक्षरं लक्षं ददौ ।
अन्यदा राजा दीर्घकालं जलकेलिं विधाय परिश्रान्तस्तत्तीरस्थवटविटपिच्छायायां निषण्णः । तत्र कश्चित्कविरागत्य प्राह--
'छन्नं सैन्यरजोभरेण भवतः श्रीभोजदेव क्षमा-
रक्षादक्षिण दक्षिणक्षितिपतिः प्रेक्ष्यान्तरिक्ष क्षणात् ।
निःशङ्को निरपत्रपो निरनुगो निर्बान्धवो निःसुहृन्-
निस्त्रीको निरपत्यको निरनुजो निर्हाटको निर्गतः ॥ २६६ ॥
किञ्च-
अकाण्डधृतमानसव्यवसितोत्सवैः सारसै-
रकाण्डपटुताण्डवैरपि शिखण्डिनां मण्डलैः ।
दिशः समवलोकिताः सरसनिर्भरप्रोल्लस-
द्भवत्पृथुवरूथिनीरजनिभूरजः श्यामलाः ॥ २६७ ॥
ततो राजा लक्षद्वयं ददौ । तदानीमेव तस्य शाखायामेकं काकं रटन्तं प्रेक्ष्य कोकिलं चान्यशाखायां कूजन्तं वीक्ष्य देवजयनामा कविराह-
'नो चारू चरणौ न चापि चतुरा चञ्चूर्न वाच्यं वचो
नो लीलाचतुरा गतिर्न च शुचिः पक्षग्रहोऽयं तव ।
क्रूरक्रेङ्कृतिनिर्भरां गिरमिह स्थाने वृथैवोद्गिर-
न्मूर्ख ध्वाङ्क्ष न लज्जसेऽप्यसदृशं पाण्डित्यमुन्नाटयन् ॥ २६८ ॥
तत एनां देवजयकविना काकमिषेण विरचितां स्वगर्हणां मन्यमानस्तत्स्पर्धालुहरिशर्मा नाम कविः कोपेनेर्ष्यापूर्वं प्राह-
'तुल्यवर्णच्छदः कृष्णः कोकिलैः सह सङ्गतः ।
केन व्याख्यायते काकः स्वयं यदि न भाषते ॥ २६९ ॥
ततो राजा तयोर्हरिशर्मदेवजययोरन्योन्यवैरं ज्ञात्वा मिथ आलिङ्गनादिवस्त्रालङ्कारादिदानेन च मित्रत्वं व्यधात् ।
अन्यदा राजा यानमारुह्य गच्छन्वर्त्मनि कश्चित्तपोनिधिं दृष्ट्वा तं प्राह- 'भवादृशानां दर्शनं भाग्यायत्तम् । भवतां क्व स्थितिः। भोजनार्थं के वा प्रार्थ्यन्ते' इति । ततः स राजवचनमाकर्ण्य तपोनिधिराह-
'फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २७० ॥
राजन् , वयं कमपि नाभ्यर्थयामः, न गृह्णीमश्च' इति । राजा तुष्टो नमति ।
तत उत्तरदेशादागत्य कश्चिद्राजानं 'स्वस्ति' इत्याह । तं च राजा पृच्छति-'विद्वन् , कुत्र ते स्थितिः' इति । विद्वानाह 'यत्राम्बु निन्दत्यमृतमन्त्यजाश्च सुरेश्वरान् ।
चिन्तामणिं च पाषाणास्तत्र नो वसतिः प्रभो' ॥ २७१ ॥
तदा राजा लक्षं दत्वा प्राह–'काशीदेशे का विशेषवार्ता' इति । स आह–'देव, इदानीं काचिदद्भुतवार्ता तत्र लोकमुखेन श्रुता- देवा दुःखेन दीनाः' इति । राजा-'देवानां कुतो दुःखं विद्वन् ।' स चाह-
'निवासः काद्य नो दत्तो भोजेन कनकाचलः ।
इति व्यग्रधियो देवा भोज वार्तेति नूतना' ॥ २७२ ॥
ततो राजा कुतूहलोक्त्या तुष्टः संस्तस्मै पुनर्लक्षं ददौ ।
ततो द्वारपालः प्राह- देव, श्रीशैलादागतः कश्चिद्विद्वान्ब्रह्मचर्यनिष्ठो द्वारि वर्तते' इति । राजा-'प्रवेशय' इत्याह । तत आगत्य ब्रह्मचारी 'चिरं जीव' इति वदति । राजा तं पृच्छति-'ब्रह्मन् , बाल्य एव कलिकालाननुरूपं किं नामव्रतं ते । अन्वहमुपवासेन कृशोऽसि ।कस्यचिद्ब्राह्मणस्य कन्यां तुभ्यं दापयिष्यामि, त्वं चेद्गृहस्थधर्ममङ्गीकरिष्यसि' इति । ब्रह्मचारी प्राह–'देव, त्वमीश्वरः । त्वया किमसाध्यम् ।
सारङ्गाः सुहृदो गृहं गिरिगुहा शान्तिः प्रिया गहिनी
वृत्तिर्वन्यलताफलैर्निवसनं श्रेष्ठं तरूणां त्वचः ।
तद्ध्यानामृतपूरमग्नमनसां येषामियं निर्वृति-
स्तेषामिन्दुकलावतंसयमिनां मोक्षेऽपि नो न स्पृहा' ॥ २७३ ॥
राजोत्थाय पादयोः पतति । आह च-'ब्रह्मन् , मया किं कर्तव्यम्' इति । स आह–'देव, वयं काशीं जिगमिषवः । तत एवं विधेहि । ये त्वत्सदने पण्डितवरास्तान्सर्वानपि सपत्नीकान्काशीं प्रति प्रेषय । ततोऽहं गोष्ठीतृप्तः काशीं गमिष्यामि' इति । राजा तथा चक्रे | ततः सर्वे पण्डितवरास्तदाज्ञया प्रस्थिताः । कालिदास एको न गच्छति स्म । तदा राजा कालिदासं प्राह-सुकवे, त्वं कुतो न गतोऽसि' इति । ततः कालिदासो राजानं प्राह-'देव, सर्वज्ञोऽसि |
ते यान्ति तीर्थेषु बुधा ये शम्भोर्दूरवर्तिनः ।
यस्य गौरीश्वरश्चित्ते तीर्थं भोज पर हि सः' ॥ २७४ ॥
ततो विद्वत्सु काशीं गतेषु राजा कदाचित्सभायां कालिदासं पृच्छति-'कालिदास, अद्य किमपि श्रुतं किं त्वया' इति । स आह
मेरौ मन्दरकन्दरासु हिमवत्सानौ महेन्द्राचले
कैलासस्य शिलातलेषु मलयप्राग्भारभागेष्वपि ।
सह्याद्रावपि तेषु तेषु बहुशो भोज श्रुतं ते मया
लोकालोकविचारचारणगणैरुद्गीयमानं यशः' ॥ २७५ ॥
ततश्चमत्कृतो राजा प्रत्यक्षरं लक्षं ददौ ।
ततः कदाचिद्राजा विद्वद्वृन्दं निर्गतं कालिदासं चानवरतवेश्यालम्पटं ज्ञात्वा व्यचिन्तयत्-'अहह, बाणमयूरप्रभृतयो मदीयामाज्ञां व्यदधुः । अयं च वेश्यालम्पटतया ममाज्ञां नाद्रियते । किं कुर्मः' इति । ततो राजा सावज्ञं कालिदासमपश्यत् । तत आत्मनि राज्ञोऽवज्ञां ज्ञात्वा कालिदासो बल्लालदेशं गत्वा तद्देशाधिनाथं प्राप्य प्राह-'देव, मालवेन्द्रस्य भोजस्यावज्ञया त्वद्देशं प्राप्तोऽहं कालिदासनामा कविः' इति । ततो राजा तमासन उपवेश्य प्राह-'सुकवे, भोजसभाया इहागतैः पण्डितैः समुदितः शतशस्ते महिमा । सुकवे, त्वां सरस्वती वदन्ति । ततः किमपि पठ' इति । ततः कालिदास आह-
'बल्लालक्षोणिपाल त्वदहितनगरे सञ्चरन्ती किराती
कीर्णान्यादाय रत्नान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी ।
क्षिप्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती
श्वासामोदानुयातैर्मधुकरनिकरैघूमशङ्कां बिभर्ति ॥ २७६ ॥
ततस्तस्मै प्रत्यक्षरं लक्ष ददौ ।
ततः कदाचिद्वल्लालराजा कालिदासं पप्रच्छ-'सुकवे, एकशिलानगरीं व्यावर्णय' इति । ततः कविराह-
'अपाङ्गपातैरपदेशपूर्वैरेणीदृशामेकशिलानगर्याम् ।
वीथीषु वीथीषु विनापराधं पदे पदे शृङ्खलिता युवानः' ॥ २७७ ॥
पुनश्च प्रत्यक्षरलक्षं ददौ । पुनश्च पठति कविः-
'अम्भोजपत्रायतलोचनानामम्भोधिदीर्घान्विह दीर्घिकासु ।
समागतानां कुटिलैरपाङ्गैरनङ्गबाणैः प्रहता युवानः' ॥२७८ ॥
पुनश्च बल्लालनृपः प्रत्यक्षरं लक्षं ददौ । एवं तत्रैव स्थितः कालिदासः ।
अत्रान्तरे धारानगर्यां भोजं प्राप्य द्वारपालः प्राह- -'देव, गुर्जरदेशान्माघनामा पण्डितवर आगत्य नगराद्बहिरास्ते; तेन च स्वपत्नी राजद्वारि प्रेषिता । 'राजा-तां प्रवेशय' इत्याह । ततो माघपत्नी प्रवेशिता । सा राजहस्ते पत्रं प्रायच्छत् । राजा तदादाय वाचयति--
"कुमुदवनमपश्रि श्रीमदम्भोजषण्डं
त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांशुरस्तं
हतविधिनिहतानां ही विचित्रो विपाकः ॥२७९।।
इति । राजा तदद्भुतं प्रभातवर्णनमाकर्ण्य लक्षत्रयं दत्वा माघपत्नीमाह- मातः, इदं भोजनाय दीयते । प्रातरहं माघपण्डितमागत्य नमस्कृत्य पूर्णमनोरथं करिष्यामि इति । ततः सा तदादाय गच्छन्ती याचकानां मुखात्स्वभर्तुः शारदचन्द्रकिरणगौरान्गुणाञ्श्रुत्वा तेभ्य एव धनमखिलं भोजदत्तं दत्तवती । माघपण्डितं स्वभर्तारमासाद्य प्राह-'नाथ, राज्ञा भोजेनाहं बहुमानिता । धनं सर्वं याचकेभ्यस्त्वद्गुणानाकर्ण्य दत्तवती।' माघः प्राह-'देवि, साधु कृतम् । परमेते याचकाः समायान्ति किल । तेभ्यः किं देयम्' इति । ततो माघपण्डितं वस्त्रावशेषं ज्ञात्वा कोऽप्यर्थी प्राह-
'आश्वास्य पर्वतकुलं तपनोष्णतप्त-
मुद्दामदावविधुराणि च काननानि ।
नानानदीनदशतानि च पूरयित्वा
रिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः ॥ २८०॥
इत्येतदाकार्ण्य माघः स्वपत्नीमाह-'देवि,
अर्था न सन्ति न च मुञ्चति मां दुराशा
त्यागे रतिं वहति दुर्ललितं मनो मे ।
याच्या च लाघवकरी स्ववधे च पापं
प्राणाः स्वयं व्रजत किं परिदेवनेन ॥ २८१ ॥
दारिद्र्यानलसन्तापः शान्तः सन्तोषवारिणा ।
याचकाशाविघातान्तर्दाहः केनोपशाम्यति ॥ २८२ ॥
इति । ततस्तदा माघपण्डितस्य तामवस्थां विलोक्य सर्वे याचका यथास्थानं जग्मुः । एवं तेषु याचकेषु यथायथं गच्छत्सु माघः प्राह-
'व्रजत व्रजत प्राणा अर्थिभिर्व्यर्थतां गतैः ।
इति विलपन्माघपण्डितः परलोकमगात् । ततो माघपत्नी स्वामिनि परलोकं गते सति प्राह-
'सेवन्ते स्स गृहं यस्य दासवद्भूभुजः सदा ।
स स्वभार्यासहायोऽयं म्रियते माघपण्डितः ॥ २८४ ॥
ततो राजा माघं विपन्नं ज्ञात्वा निजनगराद्विप्रशतावृतो मौनी रात्रावेव तत्रागात् । ततो माघपत्नी राजानं वीक्ष्य प्राह- राजन् , यतः पण्डितवरस्त्वद्देशं प्रातः परलोकमगात् , ततोऽस्य कृत्यशेषं सम्यगाराधनीयं भवता' इति । ततो राजा माघं विपन्नं नर्मदातीरं नीत्वा यथोक्तेन विधिना संस्कारमकरोत् । तत्र च माघपत्नी वह्नौ प्रविष्टा । तयोश्च पुत्रवत्सर्वं चक्रे भोजः । ततो माघे दिवं गते राजा शोकाकुलो विशेषेण कालिदासवियोगेन च पण्डितानां प्रवासेन कृशोऽभूद्दिने दिने बहुलपक्षशशीव । ततोऽमात्यैर्मिलित्वा चिन्तितम्-'बल्लालदेशे कालिदासो वसति । तस्मिन्नागते राजा सुखीभविष्यति' इति । एवं विचार्यामात्यैः पत्रे किमपि लिखित्वा तत्पत्रं चैकस्यामात्यस्य हस्ते दत्वा प्रेषितम् । स कालक्रमेण कालिदासमासाद्य 'राज्ञोऽमात्यैःप्रेषितोऽस्मि' इति नत्वा तत्पत्रं दत्तवान् । ततस्तत्कालिदासो वाचयति-
न भवति स भवति न चिरं भवति चिरं चेत्फले विसंवादी ।
कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥ २८५ ॥
सहकारे चिरं स्थित्वा सलीलं बालकोकिल ।
तं हित्वाद्यान्यवृक्षेषु विचरन्न विलज्जसे ॥ २८६ ॥
कलकण्ठं यथा शोभा सहकारे भवद्गिरः ।
खदिरे वा पलाशे वा किं तथा स्याद्विचारय ॥ २८७ ॥
इति । ततः कालिदासः प्रभाते तं भूपालमापृच्छ्य मालवदेशमागत्य राज्ञः क्रीडोद्याने तस्थौ । ततो राजा च तत्रागतं ज्ञात्वा स्वयं गत्वा महता परिवारेण तमानीय सम्मानितवान् । ततः क्रमेण विद्वन्मण्डले च समायाते सा भोजपरिषत्प्रागिव रेजे ।
ततः सिंहासनमलङ्कुर्वाणं भोजं द्वारपाल आगत्य प्रणम्याह-'देव, कोऽपि विद्वाञ्जालन्धरदेशादागत्य द्वार्यास्ते' इति । राजा-'प्रवेशय' इत्याह । स च विद्वानागत्य सभायां तथाविधं राजानं जगन्मान्यान्कालिदासादीन्कविपुङ्गवान्वीक्ष्य बद्धजिह्व इवाजायत । सभायां किमपि तस्य मुखान्न निःसरति । तदा राज्ञोक्तम्-'विद्वन् , किमपि पठ' इति स आह-
आरनालगलदाहशङ्कया मन्मुखादपगता सरस्वती ।
तेन वैरिकमलाकचग्रहव्यग्रहस्त न कवित्वमस्ति मे ॥ २८८ ॥
राजा तस्मै महिषीशतं ददौ । अन्यदा राजा कौतुकाकुलः सीतां प्राह–'देवि, सुरतं पठ' इति । सीता प्राह-
सुरताय नमस्तस्मै जगदानन्दहेतवे ।
आनुषङ्गि फलं यस्य भोजराज भवादृशाम् ॥ २८९ ॥
ततस्तुष्टो राजा तस्यै हारं ददौ ।
ततो राजा चामरग्राहिणीं वेश्यामवलोक्य कालिदासं प्राह-'सुकवे, वेश्यामेनां वर्णय' इति । तामवलोक्य कालिदासः प्राह-
'कचभारात्कुचभारः कुचभाराद्भीतिमेति कचभारः ।
कचकुचभाराज्जघनं कोऽयं चन्द्रानने चमत्कारः ॥ २९० ॥
भोजस्तुष्टः सन्स्वयमपि पठति-
'वदनात्पदयुगलीयं वचनादधरश्च दन्तपङ्क्तिश्च ।
कचतः कुचयुतलीयं लोचनयुगलं न मध्यतस्त्रसति' ॥ २९१ ॥
अन्यदा भोजो राजा धारानगर एकाकी विचरन्कस्यचिद्विप्रवरस्य गृहं गत्वा तत्र काञ्चन पतिव्रतां स्वाङ्के शयानं भर्तारमुद्वहन्तीमपश्यत् । ततस्तस्याः शिशुः सुप्तोत्थितो ज्वालायाः समीपमगच्छत् । इयं च पतिधर्मपरायणा स्वपतिं नोत्थापयामास । ततः शिशुं च वह्नौ पतन्तं नागृह्णात् । राजा चाश्चर्यमालोक्यातिष्ठत् । ततः सा पतिधर्मपरायणा वैश्वानरमप्रार्थयत्-'यज्ञेश्वर ! त्वं सर्वकर्मसाक्षी सर्वधर्माञ्जानासि । मां पतिधर्मपराधीनां शिशुमगृह्णन्तीं च जानासि । ततो मदीयशिशुमनुगृह्य त्वं मा दह' इति । ततः शिशुर्यज्ञेश्वरं प्रविश्य तं च हस्तेन गृहीत्वार्धघटिकापर्यन्तं तत्रैवातिष्ठत् । ततो नारोदीत्प्रसन्नमुखश्च शिशुः, सा च ध्यानारूढातिष्ठत् । ततो यदृच्छया समुत्थिते भर्तरि सा झटिति शिशुं जग्राह । तं च परं धर्ममालोक्य विस्मयाविष्टो नृपतिराह-'अहो, मम समं भाग्यं कस्यास्ति, यदीदृश्यः पुण्यस्त्रियोऽपि मन्नगरे वसन्ति' इति । ततः प्रातः सभायामागत्य सिंहासन उपविष्टो राजा कालिदासं प्राह- 'सुकवे, महदाश्चर्यं मया पूर्वेद्यू रात्रौ दृष्टमस्ति' इत्युक्त्वा राजा पठति- 'हुताशनश्चन्दनपङ्कशीतलः' । कालिदासस्ततश्चरणत्रयं झटिति पठति-
'सुतं पतन्तं प्रसमीक्ष्य पावके न बोधयामास पतिं पतिव्रता ।
तदाभवत्तत्पतिभक्तिगौरवाद्धुताशनश्चन्दनपङ्कशीतलः' ॥ २९२ ॥
राजा च स्वाभिप्रायमालोक्य विस्मितस्तमालिङ्गय पादयोः पतति स्म ।
एकदा ग्रीष्मकाले राजान्तःपुरे विचरन्घर्मतापतप्त आलिङ्गनादिकमकुर्वंस्ताभिः सह सरससंलापाद्युपचारमनुभूय तत्रैव सुप्तः । ततः प्रातरुत्थाय राजा सभां प्रविष्टः कुतूहलात्पठति-
'मरुदागमवार्तयापि शून्यं समये जाग्रति सम्प्रवृद्ध एव ।'
भवभूतिराह-
'उरगी शिशवे बुभुक्षवे स्वामदिशत्फूत्कृतिमाननानिलेन ।
मरुदागमवार्तयापि शून्ये समये जाग्रति सम्प्रवृद्ध एव' ॥ २९३ ॥
राजा प्राह-'भवभूते, लोकोक्तिः सम्यगुक्ता' इति । ततोऽपाङ्गेन राजा कालिदासं पश्यति । ततः स आह-
'अबलासु विलासिनोऽन्वभूवन्नयनैरेव नवोपगूहनानि ।
मरुदागमवार्तयापि शून्ये समये जाग्रति सम्प्रवृद्ध एव' ॥ २९४ ॥
तदा राजा स्वाभिप्रायं ज्ञात्वा तुष्टः कालिदासं विशेषेण सम्मानितवान् ।
अन्यदा मृगयापरवशो राजात्यन्तमार्तः कस्यचित्सरोवरस्य तीरे निबिडच्छायस्य जम्बूवृक्षस्य मूलमुपाविशत् । तत्र शयाने राज्ञि जम्बोरुपरि बहुभिः कपिभिर्जम्बूफलानि सर्वाण्यपि चालितानि । तानि सशब्दं पतितानि पश्यन्घटिकामात्रं स्थित्वा श्रमं परिहत्य उत्थाय तुरङ्गमवरमारुह्य गतः । ततः सभायां राजा पूर्वानुभूतकपिचलितफलपतनरवमनुकुर्वन्समस्यामाह-'गुलुगुग्गुलुगुग्गुलु' । तत आह कालिदासः-
'जम्बूफलानि पक्कानि पतन्ति विमले जले ।
कपिकम्पितशाखाभ्यो गुलुगुग्गुलुगुग्गुलु' ॥ २९५ ॥
एकदा धारानगरे प्रच्छन्नवेषो विचरन्कस्यचिद्वृद्धब्राह्मणस्य गृहं राजा मध्याह्नसमये गच्छंस्तत्र तिष्ठति स्म । तदा वृद्धविप्रो वैश्वदेवं कृत्वा काकबलिं गृह्णन्गृहान्निर्गत्य भूमौ जलशुद्धायां निक्षिप्य काकमाह्वयति स्म । तत्र हस्तविस्फालनेन हाहेतिशब्देन च काकाः समायाताः । तत्र कश्चित्काकस्तारं रारटीति स्म । तच्छ्रुत्वा तत्पत्नी तरुणी भीतेव हस्तं निजोरसि निधाय 'अये मातः' इति चक्रन्द । ततो ब्राह्मणः प्राह-'प्रिये साधुशीले, किमर्थं बिभेषि' इति । सा प्राह-'नाथ ! मादृशीनां पतिव्रतास्त्रीणां क्रूरध्वनिश्रवणं न सह्यम् ।' 'साधुशीले, तथा भवेदेव' इति विप्र आह । ततो राजा तच्चरितं सर्वं दृष्ट्वा व्यचिन्तयत्–'अहो, इयं तरुणी दुःशीला नूनम् । यतो निर्व्याजं बिभेति । स्वपातिव्रत्यं स्वयमेव कीर्तयति च । नूनमियं निर्भीका सती अत्यन्तं दारुणं कर्म रात्रौ करोत्येव । एवं निश्चित्य राजा तत्रैव रात्रावन्तर्हित एवातिष्ठत् । अथ निशीथे भर्तरि सुप्ते सा मांसपेटिकां वेश्याकरेण वाहयित्वा नर्मदातीरमगच्छत्। राजाप्यात्मानं गोपयित्वानुगच्छति स्म । ततः सा नर्मदां प्राप्य तत्र समागतानां ग्राहाणां मांसं दत्त्वा नदीं तीर्वा परतीरस्थेन शूलाग्रारोपितेन स्वमनोरमेण सह रमते स्म । तच्चरित्रं दृष्ट्वा राजा गृहं समागत्य प्रातः सभायां कालिदासमालोक्य प्राह-'सुकवे, शृणु-
'दिवा काकरवाद्भीता'
ततः कालिदास आह-
'रात्रौ तरति नर्मदाम् ।
ततस्तुष्टो राजा पुनः प्राह-
'तत्र सन्ति जले ग्राहाः
ततः कविराह-
'मर्मज्ञा सैव सुन्दरी' ॥ २९६ ॥
ततो राजा कालिदासस्य पादयोः पतति ।
एकदा धारानगरे विचरन्वेश्यावीथ्यां राजा कन्दुकलीलातत्परां तद्भ्रमणवेगेन पादयोः पतितावतंसां काञ्चन सुन्दरीं दृष्ट्वा सभायामाह'कन्दुकं वर्णयन्तु कवयः' इति । तदा भवभूतिराह-
"विदितं ननु कन्दुक ते हृदयं प्रमदाधरसङ्गमलुब्ध इव |
वनिताकरतामरसाभिहतः पतितः पतितः पुनरुत्पतसि ॥ २९७ ॥
ततो वररुचिः प्राह-
"एकोऽपि त्रय इव भाति कन्दुकोऽयं
कान्तायाः करतलरागरक्तरक्तः ।
भूमौ तच्चरणनखांशुगौरगौरः
स्वस्थः सन्नयनमरीचिनीलनीलः' ॥ २९८ ॥
ततः कालिदास आह-
'पयोधराकारधरो हि कन्दुकः करेण रोषादभिहन्यते मुहुः ।
इतीव नेत्राकृतिभीतमुत्पलं स्त्रियः प्रसादाय पपात पादयोः ॥ २९९ ॥
तदा राजा तुष्टस्त्रयाणामक्षरलक्षं ददौ । विशेषेण च कालिदासमदृष्टावतंसकुसुमपतनबोद्धारं सम्मानितवान् ।
ततः कदाचिच्चित्रकर्मावलोकनतत्परो राजा चित्रलिखितं महाशेषं दृष्ट्वा 'सम्यग्लिखितम्' इत्यवदत् । तदा कश्चिच्छिवशर्मा नाम कविः शेषमिषेण राजानं स्तौति-
अनेके फणिनः सन्ति भेकभक्षणतत्पराः ।
एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ ३०० ॥
तदानीं राजा तदभिप्रायं ज्ञात्वा तस्मै लक्षं ददौ । कदाचिद्धेमन्तकाले समागते ज्वलन्तीं हसन्तीं संसेवयन्राजा कालिदासं प्राह–'सुकवे, हसन्तीं वर्णय' इति । ततः सुकविराह-
'कविमतिरिव बहुलोहा सुघटितचक्रा प्रभातवेलेव ।
हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता' ॥ ३०१ ॥
राजाक्षरलक्षं ददौ ।
एकदा भोजराजोऽन्तर्गृहे भोगार्हांस्तुल्यगुणाश्चतस्रो निजाङ्गना अपश्यत् । तासु च कुन्तलेश्वरपुत्र्यां पद्मावत्यामृतुस्नानम्, अङ्गराजस्य पुत्र्यां चन्द्रमुख्यां क्रमप्राप्तिम्, कमलानाम्न्यां च द्यूतपणजयलब्धप्राप्तिम् , अग्रमहिष्यां च लीलादेव्यां दूतीप्रेषणमुखेनाह्वानं च, एवं चतुरो गुणान्दृष्ट्वा तेषु गुणेषु न्यूनाधिकभावं राजाप्यचिन्तयत् । तत्र सर्वत्र दाक्षिण्यनिधी राजराजः श्रीभोजस्तुल्यभावेन द्वित्रिघटिकापर्यन्तं विचिन्त्य विशेषानवधारणेन निद्रां गतः । प्रातश्चोत्थाय कृताह्निकः सभामगात् । तत्र च सिंहासनमलङ्कुर्वाणः श्रीभोजः सकलविद्वत्कविमण्डलमण्डनं कालिदासमालोक्य 'सुकवे, इमां त्र्यक्षरोनतुरीयचरणां समस्यां शृणु ।' इत्युक्त्वा पठति- 'अप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः।' इति पठित्वा राजा कालिदासमाह-सुकवे, एतत्समस्यापूरणं कुरु' इति । ततः कालिदासस्तस्य हृदयं करतलामलकवत्प्रपश्यंस्त्र्यक्षराधिकचरणत्रयविशिष्टां तां समस्यां पठति-देव,
स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसु-
द्यूते रात्रिरियं जिता कमलया देवी प्रसाद्याधुना |
इत्यन्तःपुरसुन्दरीजनगुणे न्यायाधिकं ध्यायता
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः ॥ ३०२ ॥
तदा राजा स्वहृदयमेव ज्ञातवतः कालिदासस्य पादयोः पतति स्म । कविमण्डलं च चमत्कृतमजायत ।
एकदा राजा धारानगरे विचरन्क्वचित्पूर्णकुम्भं धृत्वा समायान्ती पूर्णचन्द्राननां काञ्चिदृष्ट्वा तत्कुम्भजले शब्दं च कञ्चन श्रुत्वा 'नूनमेव तस्याः कण्ठग्रहेऽयं घटो रतिकूजितमिव कूजित' इति मन्यमानः सभायां कालिदासं प्राह-'कूजितं रतिकूजितम्' इति । कविराह-
'विदग्धे सुमुखे रक्ते नितम्बोपरि संस्थिते ।
कामिन्याश्लिष्टसुगले कूजितं रतिकूजितम् ॥ ३०३ ॥
तदा तुष्टो राजा प्रत्यक्षरलक्षं ददौ, ननाम च ।
एकदा नर्मदायां महाह्रदे जालकैरेकः शिलाखण्ड ईषद्भ्रंशिताक्षरः कश्चिद्दृष्टः । तैश्च परिचिन्तितम्-'इदमत्र लिखितमिव किञ्चिद्भाति । नूनमिदं राजनिकटं नेयम्' इति बुद्धया भोजसदसि समानीतम् । तदाकर्ण्य भोजः प्राह-'पूर्वं भगवता हनूमता श्रीमद्रामायणं कृतम् । तदत्र ह्रदे प्रक्षेपितमिति श्रुतमस्ति । ततः किमिदं लिखितमित्यवश्यं विचार्यमिति लिपिज्ञानं कार्यम् ।' जतुपरीक्षयाक्षराणि परिज्ञाय पठति । तत्र चरणद्वयमानुपूर्व्याल्लब्धम्-
'अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।
क्व नु कुलमकलङ्कमायताक्ष्याः
क्व नु रजनीचरसङ्गमापवादः ।
अयि खलु विषमः पुराकृतानां
भवति हि जन्तुषु कर्मणां विपाकः' ॥ ३०४ ॥
ततो भोजस्तत्र ध्वनिदोषं मन्वानस्तदेव पूर्वार्धमन्यथा पठति स्म-
'क्व जनकतनया क्व रामजाया क्व च दशकन्धरमन्दिरे निवासः ।
अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ॥
ततो भोजः कालिदासं प्राह- सुकवे, त्वमपि कविहृदयं पठ' इति । स आह-
'शिवशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादे ।
अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः' ॥ ३०६ ॥
ततस्तस्य शिलाखण्डस्य पूर्वपुटे जतुशोधनेन कालिदासपठितं तमेव दृष्ट्वा राजा भृशं तुतोष ।
कदाचिद्भोजेन विलासार्थं नूतनगृहान्तरं निर्मितम् । तत्र गृहान्तरे गृहप्रवेशात्पूर्वमेकः कश्चिद्ब्रह्मराक्षसः प्रविष्टः । स च रात्रौ तत्र ये वसन्ति तान्भक्षयति। ततो मान्त्रिकान्समाहूय तदुच्चाटनाय राजा यतते स्म । स चाऽगच्छन्नेव मान्त्रिकानेव भक्षयति। किं च स्वयं कवित्वादिकं पूर्वाभ्यस्तमेव पठंस्तिष्ठति । एवं स्थिते तत्रैव रक्षसि राजा 'कथमस्य निवृत्तिः'
इति व्यचिन्तयत् । तदा कालिदासः प्राह- -'देव, नूनमयं राक्षसः सकलशास्त्रप्रवीणः सुकविश्व भाति । अतस्तमेव तोषयित्वा कार्यं साधयामि । मान्त्रिकास्तिष्ठन्तु | मम मन्त्रं पश्य' इत्युक्त्वा स्वयं तत्र रात्रौ गत्वा शेते स्म । प्रथमयामे ब्रह्मराक्षसः समागतः स चापूर्वं पुरुषं दृष्ट्वा प्रतियाममेकैकां समस्यां पाणिनिसूत्रमेव पठति । येनोत्तरं तद्धृदयगतं नोक्तम् , 'अयं न ब्राह्मणः, अतो हन्तव्यः' इति निश्चित्य हन्ति । तदानीमपि पूर्ववदयमपूर्वः पुरुषः । अतो मया समस्या पठनीया । न चेद्वक्ति सदृशमुत्तरं तस्यास्तदा हन्तव्य इति । बुद्ध्या पठति'सर्वस्य द्वे
इति । तदा कालिदासः प्राह-
'सुमतिकुमती सम्पदापत्तिहेतू'
इति । ततः स गतः । पुनरपि द्वितीययामे समागत्य पठति-
'वृद्धो यूना'
इति । तदा कविराह-
'सह परिचयात्त्यज्यते कामिनीभिः ।
इति । तृतीययामे स राक्षसः पुनः समागत्य पठति-
"एको गोत्रे
इति । ततः कविराह-
'प्रभवति पुमान्यः कुटुम्बं बिभर्ति'
इति । ततश्चतुर्थयाम आगत्य स राक्षसः पठति-
'स्त्री पुंवच्च'
इति । ततः कविराह-
'प्रभवति यदा तद्धि गेहं विनष्टम्' ॥ ३०७ ॥
इति । ततः स राक्षसो यामचतुष्टयेऽपि स्वाभिप्रायमेव ज्ञात्वा तुष्टः प्रभातसमये समागत्य तमाश्लिष्य प्राह- सुमते, तुष्टोऽस्मि । किं तवाभीष्टम्' इति । कालिदासः प्राह-'भगवन्, एतद्गृहं विहायान्यत्र गन्तव्यम्' इति । सोऽपि 'तथा' इति गतः । अनन्तरं तुष्टो भोजः कविं बहु मानितवान् ।
एकदा सिंहासनमलङ्कुर्वाणे श्रीभोजे सकलभूपालशिरोमणौ द्वारपाल आगत्य प्राह–'देव, दक्षिणदेशात्कोऽपि मल्लिनाथनामा कविः कौपीनावशेषो द्वारि वर्तते । राजा-'प्रवेशय' इत्याह । ततः कविरागत्य 'स्वस्ति' इत्युक्त्वा तदाज्ञया चोपविष्टः पठति-
'नागो भाति मदेन खं जलधरैः पूर्णेन्दुना शर्वरी
शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् ।
वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः
सत्पुत्रेण कुलं त्वया वसुमती लोकत्रयं भानुना' ॥ ३०८ ॥
'अम्बा कुप्यति न मया न स्नुषया सापि नाम्बया न मया ।
अहमपि न तया न तया वद राजन्कस्य दोषोऽयम् ॥ ३०९ ॥
इति । राजा च दारिद्र्यदोषं ज्ञात्वा कविं पूर्णमनोरथं चक्रे ।
एकदा द्वारपाल आगत्य राजानं प्राह-'देव, कविशेखरो नाम महाकविर्द्वारि वर्तते । राजा-प्रवेशय' इत्याह । ततः कविरागत्य 'स्वास्ति' इत्युक्त्वा पठति-
'राजन्दौवारिकादेव प्राप्तवानस्मि वारणम् ।
मदवारणमिच्छामि त्वत्तोऽहं जगतीपते ॥ ३१० ॥
तदा प्राङ्मुखस्तिष्ठन्राजातिसन्तुष्टस्तं प्राग्देशं सर्वं कवये दत्तं मत्वा दक्षिणाभिमुखोऽभूत् । ततः कविश्चिन्तयति- किमिदम् | राजा मुखं परावृत्य मां न पश्यति' इति । ततो दक्षिणदेशे समागत्याभिमुखः कविः पठति-
'अपूर्वेयं धनुर्विद्या भवता शिक्षिता कथम् ।
मार्गणौघः समायाति गुणो याति दिगन्तरम् ॥ ३११ ॥
ततो राजा दक्षिणदेशमपि मनसा कवये दत्त्वा स्वयं प्रत्यङमुखोऽभूत् । कविस्तत्रागत्य प्राह-
'सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा ।
पदमेकं न जानीषे वक्तुं नास्तीति याचके' ॥ ३१२ ॥
ततो राजा तमपि देशं कवेर्दत्तं मत्वोदङमुखोऽभूत् । कविस्तत्राप्यागत्य प्राह-
'सर्वदा सर्वदोऽसीति मिथ्या त्वं कथ्यसे बुधैः ।
नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ ३१३ ॥
ततो राजा स्वां भूमिं कविदत्तां मत्वोत्तिष्ठति स्म । कविश्च तदभिप्रायमज्ञात्वा पुनराह-
'राजन्कनकधाराभिस्त्वयि सर्वत्र वर्षति ।
अभाग्यच्छत्रसंछन्ने मयि नायान्ति बिन्दवः ॥ ३१४ ॥
तदा राजा चान्तःपुरं गत्वा लीलादेवीं प्राह-'देवि, सर्व राज्यं कवये दत्तम् । ततस्तपोवनं मया सहागच्छ' इति । अस्मिन्नवसरे विद्वान्द्वारि निर्गतः । बुद्धिसागरेण वृद्धामात्येन पृष्टः-'विद्वन् , राज्ञा किं दत्तम् इति । स आह-'न किमपि' इति । तदामात्यः प्राह-तत्रोक्तं श्लोकं पठ ।' ततः कविः श्लोकचतुष्टयं पठति । अमात्यस्ततः प्राह-'सुकवे, तव कोटिद्रव्यं दीयते; परं राज्ञा यदत्र तव दत्तं भवति तत्पुनर्विक्रीयताम्' इति, कविस्तथा करोति । ततः कोटिद्रव्यं दत्त्वा कविं प्रेषयित्वामात्यो राजनिकटमागत्य तिष्ठति स्म । तदा राजा च तमाह-'बुद्धिसागर, राज्यमिदं सर्वं दत्तं कवये । पत्नीभिः सह तपोवनं गच्छामि । तत्र तपोवने तवापेक्षा यदि मया सहागच्छ' इति । ततोऽमात्यः प्राह-'देव, तेन कविना कोटिद्रव्यमूल्येन राज्यमिदं विक्रीतम् । कोटिद्रव्यं च विदुषे दत्तम् , अतो राज्यं भवदीयमेव । भुङ्क्ष्व' इति । तदा राजा च बुद्धिसागरं विशेषेण संमानितवान् ।
अन्यदा राजा मृगयारसेनाटवीमटँल्ललाटन्तपे तपने द्यूनदेहः पिपासापर्याकुलस्तुरगमारुह्योदकार्थी निकटतटभुवमटंस्तदलब्ध्वा परिश्रान्तः कस्यचिन्महातरोरधस्तादुपविष्टः । तत्र काचिद्गोपकन्या सुकुमारमनोज्ञसर्वाङ्गा यदृच्छया धारानगरं प्रति तक्रं विक्रीतुकामा तक्रभाण्डं चोद्वहन्ती समागच्छति । तामागच्छन्तीं दृष्ट्वा राजा पिपासावशादेतद्भाण्डस्थं पेयं चेत्पिबामीति बुद्ध्यापृच्छत्-'तरुणि, किंमावहसि' इति । सा च तन्मुखश्रिया भोजं मत्वा तत्पिपासां च ज्ञात्वा तन्मुखावलोकनवशाच्छन्दोरूपेणाह-
'हिमकुन्दशशिप्रभशङ्खनिभं परिपक्वकपित्थसुगन्धरसम् ।
युवतीकरपल्लवनिर्मथितं पिब हे नृपराज रुजापहरम्' ॥ ३१५ ॥
इति । राजा तच्च तक्रं पीत्वा तुष्टस्तां प्राह-'सुभ्रूः, किं तवाभीष्टम्' इति । सा च किंचिदाविष्कृतयौवना मदपरवशमोहाकुलनयना प्राह–'देव, मां कन्यामेवावेहि ।' सा पुनराह-
'इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभ
मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पव्रजम् ।
माकन्दं पिकसुन्दरीव रमणीवात्मेश्वरं प्रोषित
श्चेतोवृत्तिरियं सदा नृपवर त्वां द्रष्टुमुत्कण्ठते' ॥ ३१६ ॥
राजा चमत्कृतः प्राह- 'सुकुमारि,त्वां लीलादेव्या अनुमत्या स्वीकुर्मः । इति धारानगरं नीत्वा तां तथैव स्वीकृतवान् ।
कदाचिद्राजाभिषेके मदनशरपीडिताया मदिराक्ष्याः करतलगलितोहेमकलशः सोपानपत्तिषु रटन्नेव पपात । ततो राजा सभायामागत्य कालिदासं प्राह-सुकवे, एनां समस्यां पूरय-'टटंटटंटंटटटंटटंटम् ।' ततः कालिदासः प्राह-
'राजाभिषेके मदविह्वलाया हस्ताच्च्युतो हेमघटो युवत्याः ।
सोपानमार्गे प्रकरोति शब्द टटंटटंटंटटटंटटंटम् ॥ ३१७ ॥
तदा राजा स्वाभिप्रायं ज्ञात्वाक्षरलक्षं ददौ ।
अन्यदा सिंहासनमलंकुर्वाणे श्रीभोजे कश्चिच्चोर आरक्षकै राजनिकटं नीतः। राजा तं दृष्ट्वा 'कोऽयम्' इत्यपृच्छत् । तदा रक्षकः प्राह-'देव, अनेन कुम्भिल्लकेन कस्मिंश्चिद्वेश्यागृहे घातपातमार्गेण द्रव्याण्यपहृतानि' इति । तदा राजा प्राह-'अयं दण्डनीयः' इति । ततो भुक्कुण्डो नाम चोरः प्राह-
'भट्टिनष्टो भारवीयोऽपि नष्टो भिक्षुर्नष्टो भीमसेनोऽपि नष्टः ।
भुक्कुण्डोऽहं भूपतिस्त्वं हि राजन्भब्भापङ्क्तावन्तकः संनिविष्टः ॥३१८
तदा राजा प्राह-'भो भुक्कुण्ड, गच्छ गच्छ यथेच्छं विहर ।'
कदाचिद्भोजो मृगयापर्याकुलो वने विचरन्विश्रमाविष्टहृदयः कश्चित्तटाकमासाद्य स्थितवान्श्रमात्प्रसुप्तः । ततोऽपरपयोनिधिकुहरं गते भास्करे-
तत्रैवारोचत निशा तस्य राज्ञः सुखप्रदा ।
चञ्चच्चन्द्रकरानन्दसंदोहपरिकन्दला ॥ ३१६ ॥
ततःप्रत्यूषसमये नगरीं प्रति प्रस्थितो राजा चरमगिरिनितम्बलम्बमानशशाङ्कबिम्बमवलोक्य सकुतूहलः सभामागत्य तदा समीपस्थान्कवीन्द्रान्निरीक्ष्य समस्यामेकामवदत्-'चरमगिरिनितम्बे चन्द्रबिम्बं ललम्बे । तदा प्राह भवभूतिः-
अरुणकिरणजालैरन्तरिक्षे गतर्क्षे'
ततो दण्डी प्राह-
'चलति शिशिरवाते मन्दमन्दं प्रभाते ।'
"युवतिजनकदम्बे नाथमुक्तौष्ठबिम्बे चरमगिरिनितम्बे चन्द्रबिम्बं ललम्बे'॥
ततो राजा सर्वानपि संमानितवान्। तत्र कालिदासं विशेषतः पूजितवान् ।
अथ कदाचिद्भोजो नगराद्बहिर्निर्गतो नूतनेन तटाकाम्भसा बाल्यसाधितकपालशोधनादि चकार । तन्मूलेन कश्चन शफरशावः कपालं प्रविष्टो विकटकरोटिकानिकटवटितो विनिर्गतः । ततो राजा स्वपुरीमवाप । तदारभ्य राज्ञः कपाले वेदना जाता । ततस्तत्रत्यभिषग्वरैः सम्यक्चिकित्सितापिन शान्ता । एवमहर्निशं नितरामस्वस्थे राज्ञ्यमानुषविदितेन महारोगेण ।
क्षामं क्षाममभूद्वपुर्गतसुखं हेमन्तकालेऽब्जव-
द्वक्त्रं निर्गतकान्ति राहुवदनाक्रान्ताब्जबिम्बोपमम् ।
चेतः कार्यपदेषु तस्य विमुखं क्लीबस्य नारीष्विव
व्याधिः पूर्णतरो बभूव विपिने शुष्के शिखावानिव ॥ ३२१ ॥
एवमतीते संवत्सरेऽपि काले न केनापि निवारितस्तद्गदः। ततः श्रीभोजो नानाविधसमानौषधग्रसनरोगदुःखितमनाः समीपस्थं शोकसागरनिमग्नं बुद्धिसागरं कथमपि संयुताक्षरामुवाच वाचम्-'बुद्धिसागर, इतः परमस्मद्विषये न कोऽपि भिषग्वरो वसतिमातनोतु । वाग्भटादिभेषजकोशान्निखिलान्स्रोतसि निरस्यागच्छ । मम देवसमागमसमयः समागतः, इति । तच्छ्रुत्वा सर्वेऽपि पौरजनाः कवयश्चावरोधसमाजश्च विगलदस्रासारनयना बभूवुः ।
ततः कदाचिद्देवसभायां पुरन्दरः सकलमुनिवृन्दमध्यस्थं वीणामुनिमाह-'मुने, इदानीं भूलोके का नाम वार्ता' इति । ततो नारदः प्राह- सुरनाथ, न किमप्याश्चर्यम् । किंतु धारानगरवासी श्रीभोजभूपालो रोगपीडितो नितरामस्वस्थो वर्तते । स तस्य रोगः केनापि न निवारितः। तदनेन भोजनृपालेन भिषग्वरा अपि स्वदेशानिष्कासिताः । वैद्यशास्त्रमप्यनृतमिति निरस्तम्' इति । एतदाकर्ण्य पुरुहूतः समीपस्थौ नासत्याविदमाह--'भोः स्वर्वैद्यौ, कथमनृतं धन्वन्तरीयं शास्त्रम् । तदा तावाहतुः-'अमरेश देव, न व्यलीकमिदं शास्त्रम् । किंत्वमरविदितेन न रोगेण बाध्यतेऽसौ भोजः' इति । इन्द्रः कोऽसाववार्यरोगः किं भवतोर्विदितः । ततस्तावूचतुः-'देव, कपालशोधनं कृतं भोजेन, तदा प्रविष्टः पाठीनः । तन्मूलोऽयं रोगः' इति । तदेन्द्रः स्मयमानमुखः प्राह-'तदिदानीमेव युवाभ्यां गन्तव्यम् । न चेदितःपरं भूलोके भिषक्शास्त्रस्यासिद्धिर्भवेत् । स खलु सरस्वतीविलासस्य निकेतनं शास्त्राणामुद्धर्ता च' इति । ततः सुरेन्द्रादेशेन तावुभावपि धृतद्विजन्मवेषौ धारानगरं प्राप्य द्वारस्थं प्राहतुः-'द्वारस्थ, आवां भिषजौ काशीदेशादागतौ । श्रीभोजाय विज्ञापय । तेनानृतमित्यङ्गीकृतं वैद्यशास्त्रमिति श्रुत्वा तत्प्रतिष्ठापनाय तद्रोगनिवारणाय च' इति । ततो द्वारस्थः प्राह-'भो विप्रौ, न कोऽपि भिषक्प्रवरः प्रवेष्टव्य इति राज्ञोक्तम् । राजा तु केवलमस्वस्थः । नायमवसरो विज्ञापनस्य' इति। तस्मिन्क्षणे कार्यवशाद्बहिनिर्गतो बुद्धिसागरस्तौ दृष्ट्वा कौ भवन्तौ' इत्यपृच्छत् । ततस्तौ यथागतमूचतुः । ततो बुद्धिसागरेण तौ राज्ञः समीपं नीतौ । ततो राजा ताववलोक्य मुखश्रियाऽमानुषाविति बुद्ध्वा 'आभ्यां शक्यतेऽयं रोगो निवारयितुम्' इति निश्चित्य तौ बहु मानितवान् । ततस्तावूचतुः-राजन् , न भेतव्यम् । रोगो निर्गतः । किं तु कुत्रचिदेकान्ते त्वया भवितव्यम्' इति । ततो राज्ञापि तथा कृतम् । ततस्तावपि राजानं मोहचूर्णेन मोहयित्वा शिरः- कपालमादाय तत्करोटिकापुटे स्थितं शफरकुलं गृहीत्वा कस्मिंश्चिद्भाजने निक्षिप्य संधानकरण्या कपालं यथावदारचय्य संजीविन्या च तं जीवयित्वा तस्मै तद्दर्शयताम् । तदा तद्दृष्ट्वा राजा विस्मितः 'किमेतत्' इति तौ पृष्टवान् । तदा तावूचतुः- राजन् त्वया बाल्यादारभ्य परिचितकपालशोधनतः संप्राप्तमिदम्' इति । ततो राजा तावश्विनौ मत्वा तच्छोधनार्थमपृच्छत्-'किमस्माकं पथ्यम्' इति । ततस्तावूचतुः-
"अशीतेनाम्भसा स्नानं पयःपानं वराः स्त्रियः ।
एतद्वो मानुषाः पथ्यम्-
इति । तत्रान्तरे राजामध्ये 'मानुषाः' इति संबोधनं श्रुत्वा 'वयं चेन्मानुषाः, कौ युवाम्' इति तयोर्हस्तौ झटिति स्वहस्ताभ्यामग्रहीत् । ततस्तत्क्षण एव तावन्तर्धत्तां ब्रुवन्तावेव 'कालिदासेन पूरणीयं तुरीयचरणम्' इति । ततो राजा विस्मितः सर्वानाहूय तद्वृत्तमब्रवीत् । तच्छ्रत्वा सर्वेऽपि चमत्कृता विस्मिताश्च बभूवुः । ततः कालिदासेन तुरीयचरणं पूरितम्
'स्निग्धमुष्णं च भोजनम् ॥ ३२२ ॥
इति । ततो भोजोऽपि कालिदासं लीलामानुषं मत्वा परं संमानितवान् ।
अथ भोजनृपालः प्रतिदिनं संजातबलकान्तिर्ववृधे धाराधीशः कृष्णेतरपक्षे चन्द्र इव । ततः कदाचित्सिंहासनमलंकुर्वाणे श्रीभोजे कालिदास-भवभूति-दण्डि-बाण-मयूर-वररुचि-प्रभृतिकवितिलककुलालंकृतायां सभायां द्वारपाल एत्याह-'देव, कश्चित्कविर्द्वारि तिष्ठति । तेनेयं प्रेषिता गाथासनाथा चीठिका देवसभायां निक्षिप्यताम्' इति तां दर्शयति । राजा गृहीत्वा तां वाचयति-
'काचिद्बाला रमणवसतिं प्रेषयन्ती करण्डं
दासीहस्तात्समयमलिखद्व्यालमस्योपरिस्थम् ।
गौरीकान्तं पवनतनयं चम्पकं चात्र भावं
पृच्छत्यार्यो निपुणतिलको मल्लिनाथः कवीन्द्रः ॥ ३२३ ॥
तच्छ्रुत्वा सर्वापि विद्वत्परिषच्चमत्कृता । ततः कालिदासः प्राह-'राजन्, मल्लिनाथः शीघ्रमाकारयितव्यः' इति । ततो राजादेशाद्द्वारपालेन स प्रवेशितः कवी राजानं 'स्वस्ति' इत्युक्त्वा तदाज्ञयोपविष्टः । ततो राजा प्राह तं कवीन्द्रम्-'विद्वन्मल्लिनाथकवे, साधु रचिता गाथा ।' तदा कालिदासः प्राह-'किमुच्यते साध्विति । देशान्तरगतकान्तायाश्चारित्र्यवर्णनेन श्लाघनीयोऽसि विशिष्य तत्तद्भावप्रतिभटवर्णनेन ।' तदा भवभूतिः प्राह-विशिष्यत इयं गाथा पङ्क्तिकण्ठोद्यानवैरिणो वातात्मजस्य वर्णनात्' इति । ततः प्रीतेन राज्ञा तस्मै दत्तं सुवर्णानां लक्षं पञ्च गजाश्च दश तुरगाश्च दत्ताः । ततः प्रीतो विद्वान्स्तौति राजानम्-
'देव भोज तव दानजलौघैः सेयमद्य रजनीति विशङ्के ।
अन्यथा तदुदितेषु शिलागोभूरुहेषु कथमीदृशदानम् ॥ ३२४ .
ततो लोकोत्तरं श्लोकं श्रुत्वा राजा पुनरपि तस्मै लक्षत्रयं ददौ । ततो लिखति स्म भाण्डारिको धर्मपत्रे-
'प्रीतः श्रीभोजभूपः सदसि विरहिणो गूढनर्मोक्तिपद्यं
श्रुत्वा हेम्नां च लक्षं दश वरतुरगान्पञ्च नागानयच्छत् ।
पश्चात्तत्रैव सोऽयं वितरणगुणसद्वर्णनात्प्रीतचेता
लक्ष लक्षं च लक्षं पुनरपि च ददौ मल्लिनाथाय तस्मै ॥ ३२५ ॥
'अद्य धारा निराधारा निरालम्बा सरस्वती ।
पण्डिताः खण्डिताः सर्वे भोजराजे दिवं गते' ॥ ३२६ ॥
एवं यदा कविनाचरमश्लोक उक्तस्तदैव स योगी भूतले विसंज्ञः पपात । ततः कालिदासस्तथाविधं तमवलोक्य 'अयं भोज एव' इति निश्चित्य "अहह महाराज, तत्रभवताहं वञ्चितोऽस्मि'। इत्यभिधाय झटिति तं लोकं प्रकारान्तरेण पपाठ-
'अद्य धारा सदाधारा सदालम्बा सरस्वती ।
पण्डिता मण्डिताः सर्वे भोजराजे भुवं गते' ॥ ३२७ ॥
ततो भोजस्तमालिङ्गय प्रणम्य धारानगरं प्रति ययौ ।
शैले शैलविनिश्चलं च हृदयं मुञ्जस्य तस्मिन्क्षणे
भोजे जीवति हर्षसंचयसुधाधाराम्बुधौ मज्जति ।
स्त्रीभिः शीलवतीभिरेव सहसा कर्तुं तपस्तत्परे
मुञ्जे मुञ्चति राज्यभारमभजत्त्यागैश्च भोगैर्नृपः ॥ ३२८ ॥
श्रीमन्महाराजाधिराजस्य धारानगराधीशस्य भोजराजस्य
प्रबन्धः समाप्तिमफाणीत् ।