भेलसंहिता सूत्रस्थानम्

विकिस्रोतः तः

भेलसंहिता

सूत्रस्थाननम्

॥चतुर्थोऽध्यायः॥[सम्पाद्यताम्]

................................
................................
भेस१.४.१
पिप्पल्यो दीप्यकश्चैव तथा मूषिककर्णिकाः।
बिल्वस्य पल्लवाः श्वेता हरिद्रा मधुकं तथा॥
भेस१.४.२
एते कुष्ठं प्रतिघ्नन्ति युक्ताः पानप्रलेपनैः।
गवां पित्तं शुनः पित्तमलावूं कटुकां तथा॥
भेस१.४.३
निम्बं नतं शर्करां च दद्यात्तद्वत्प्रलेपनम्।
यातुण्डमण्डलीद्वीपात् मूलान्येडगजस्य च(?)॥
भेस१.४.४
सुरादनीं(?) सुगन्धां च दद्यात्तद्वत्प्रलेपनम्।
सुवर्णपुष्पीं कटुकां श्यामां तेजोवतीं तथा॥
भेस१.४.५
त्रिवृत्सञ्जातकं? चैव कुष्ठे संशोधनं विदुः।
आरग्वधं च भार्गीं च साश्वगन्धां गवादनीम्॥
भेस१.४.६
श्वेतां ज्योतिष्मतीं चैव सूक्ष्मचूर्णानि कारयेत्।
गवां पित्तेन तच्चूर्णं सप्तकृत्वः सुभावितम्॥
भेस१.४.७
योज्यं सर्षपतैलेन सैन्धवेन च युक्तितः।
एतद्वै हृतदोषस्य मितदध्यन्नभोजिनः॥
भेस१.४.८
तनुलेपनमुद्दिष्टं कृमिकुष्ठविनाशनम्।
गवेधुकमकुष्ठौ च खदिरक्वाथपाचितौ॥
भेस१.४.९
तावप्युभौ प्रयुञ्जीत कुष्ठिनां कुष्ठशान्तये।
अथ कण्डूघ्नवृक्षाणां रसाः स्युः कुष्ठिनां हिताः॥
भेस१.४.१०
प्रलेपपरिषेकेषु खदिरस्तु प्रशस्यते।
खदिरोदक पायी स्यात्खदिरोदकभोजनः॥
भेस१.४.११
भूयिष्ठमुदकार्थे च कुर्वीत खदिरोदरम्।
सारवन्तौ महावृक्षौ धवरोहित कावुभौ॥
भेस१.४.१२
शिंशुपा चाश्वकर्णश्च खदिरो बिल्वमाश्रितः।
कदलीमुष्ककौ हिंस्रा भद्रोदुम्बरिकाफलम्॥
भेस१.४.१३
एतैरप्युषितं कुष्ठे गोमूत्रं परिषेचनम्।
सालाश्वकर्णनिर्यासो निर्यासः कुलिशस्य च॥
भेस१.४.१४
एते कुष्ठनिमित्तानां व्रणानां स्युः प्रपीडकाः।
पुण्डरीकस्य वक्ष्यामि क्रियां रोगविनाशिनीम्॥
भेस१.४.१५
आवर्तां शाल्मलीमूलं मलयूकां सुधां वरीम्।
भद्रोदुम्बरिकामूलं फलान्यावल्गुजानि च॥
भेस१.४.१६
रात्रौ यन्त्रेण निष्पीड्य दन्तिचित्रकमेव च।
पाठां हरिद्रे च तथा गवां मूत्रेण योजयेत्॥
भेस१.४.१७
अष्टभागावशिष्टं तत्साधितं सुपरिष्कृतम्।
पिबेत्काल्यं समुत्थाय श्वित्री शीतोदकं पिबेत्॥
भेस१.४.१८
सर्वतः परिरक्षेत्तु स्थापयेच्चैनमातपे।
भैषज्यपीडिता दोषास्त्वचमस्यानुसंश्रिताः॥
भेस१.४.१९
मण्डलेषु तपस्फोटं जनयन्त्यर्करश्मिभिः।
स्फोटेष्वथ तु जातेषु छायायामुपवेशयेत्॥
भेस१.४.२०
शीताभिरद्भिः प्रक्षाल्य भोजयेद्रसभोजनम्।
संक्षुभ्यन्तेऽथ वै तोयपरिपूर्णा इवाम्बुदाः॥
भेस१.४.२१
सूच्यग्रेणाथ तीक्ष्णेन व्यथयेत्कण्टकेन वा।
चन्दनस्य च यत्सारं बदरात् खदिरस्य च॥
भेस१.४.२२
एतैः पानीयपिष्टैस्तु सर्पिःक्षौद्रसमन्वितैः।
पत्रेषु पुष्करिण्यास्तु संविष्टस्याथ देहिनः॥
भेस१.४.२३
ततस्त्वालेपयेत्स्फोटान् शीतोदकपरिप्लुतान्।
क्षीरिणां चापि वृक्षाणां त्वचस्संक्षोदयेद् भिषक्॥
भेस१.४.२४
तैः कषायेइश्च कल्कैश्च सिञ्चयेल्लेपयेच्च तम्।
खर्जूरस्य च बीजानि शङ्खनाभिः च दापयेत्॥
भेस१.४.२५
अञ्जनं तगरं पत्रं गैरिकं नीलमुत्पलम्।
एषां सूक्ष्मेण चूर्णेन स्रवन्तमवचूर्णयेत्॥
भेस१.४.२६
शकृद्द्राक्षाक्षौद्रयुक्तो दातव्यः परिपोटने।
आहारोत्सादनाभ्यङ्गं पूर्वेण विधिना भिषक्॥
भेस१.४.२७
कारयेत्कुष्ठिनामेवं ततः सम्पद्यते सुखी।
न च व्याधिमुपेक्षेत शरीरं पतितं बुधः।
त्वरेत शमने तस्य प्रदीप्तस्येव वेश्मनः॥
भेस१.४.२८
यथा ह्येकान्ततो वृक्षो वर्धते सुखतश्शनैः।
तथा शरीरमासाद्य रोगो वर्धत एव तु॥
भेस१.४.२९
तस्माद्रक्षन्महावेगादक्षीणस्यैव देहिनः।
प्रागेवोपचयाद्रोगान्हन्याद्वैद्यो विचक्षणः॥
भेस१.४.३०
त्र्यहात्त्र्यहाच्चावपीडः पक्षान्मासाद्वमेत्तथा।
रेचयेदयने पूर्णे सिरामोक्षो विधीयते॥
भेस१.४.३१
श्यामाकाश्च मकुष्ठानि चणकाः कुष्ठिनां हिताः।
एवं हि वर्तमानानां कुष्ठं प्रशममेति वै॥ इत्याह भगवानात्रेयः।
इति भेले चतुर्थोऽध्यायः॥

॥पञ्चमोऽध्यायः॥[सम्पाद्यताम्]

अथात्याशितीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.५.१
अथाशितेन पीतेन खादितेन च युक्तितः।
बलमाप्यायते जन्तोः सद्यो वह्निरिवेन्धनैः॥
भेस१.५.२
तेनैवात्यादृतेनेह भोजनेन शरीरजाः।
व्याधयस्संप्रवर्धन्ते कायाग्नावपि दूषिते॥
भेस१.५.३
द्विविधं तु भिषग्विद्यादाहारस्यैव लाघवम्।
द्विविधं गौरवं भुक्ते प्रोच्यमानं निबोधत॥
भेस१.५.४
मात्रालघुस्स्यादाहारः कश्चिद्द्रव्यलघुः स्मृतः।
मात्रागुरुस्तथैव स्याद्द्रव्यतश्च तथा गुरुः॥
भेस१.५.५
पुराणशालयो मुद्गाः शशतित्तिरिलावुकाः।
एवंप्रकारं यच्चान्यत् तद्द्रव्यं लघु संस्मृतम्॥
भेस१.५.६
ग्राम्यानूपौदकं मांसं दधि पिष्टं तिलाह्वयम्।
एवंप्रकारं यच्चान्यत्तद्द्रव्यं गुर्विति स्मृतम्॥
भेस१.५.७
तत्र यो मात्रया भुङ्क्ते द्रव्यं गुर्वपि मानवः।
आहारं तस्य पश्यन्ति लघुमेव चिकित्सकाः॥
भेस१.५.८
शाल्यादीन्यपि योऽत्यर्थमश्नाति सुलघून्यपि।
आहारस्स तथारूपो व्यक्तं सम्पद्यते गुरुः॥
भेस१.५.९
द्रव्यस्य लघुनो युक्त्या सौहित्यं योऽधिगच्छति।
एकान्तपथ्यं तं विद्यादाहारं कुशलो लघुम्॥
भेस१.५.१०
यदि युक्त्यापि सौहित्यं द्रव्यस्यालघुनो व्रजेत्।
तथाविधमिहाहारं गुरुमेव ब्रवीम्यहम्॥
भेस१.५.११
तस्मात्त्रिभागससौहित्यमर्धसौहित्यमेव वा।
आहारं लघुमन्विच्छेत् गुरूणां सेवितं सदा॥
भेस१.५.१२
लघु वापि समासाद्य द्रव्यं यो ह्यतिसेवते।
तल्लघ्वप्यतिसंयुक्तं कोष्ठे सम्पद्यते गुरु॥
भेस१.५.१३
गुरुलाघवविद्वैद्यो नराणां वर्धयत्यसून्।
तस्मादेवं विजानीयाद्द्रव्याणां गुरुलाघवम्॥
भेस१.५.१४
एवमेव च भोज्येन पथ्येनाप्यायते नरः।
हीयते चाप्यपथ्येन प्रदुष्टैर्मारुतादिभिः॥
भेस१.५.१५
स्वस्थस्यान्नेन वर्धन्ते धातवः शोणितादयः।
व्याधितस्यापि दोषाय भोज्यं परिणमत्यथ॥
भेस१.५.१६
यथा ह्यकालवृष्ट्या च भूमौ बीजं विपद्यते।
वर्धते कालवृष्ट्या च देहिनोऽपि तथा रसैः॥
भेस१.५.१७
यश्च नित्यमुदारः स्यात्सुखनिश्चलमानसः।
लघुपानरतः सात्म्येऽपि यथागसि दूरगः॥
भेस१.५.१८
स्नातोऽनुलिप्तः स्रग्वी स्याद्धौतदन्तस्स्वलंकृतः।
धर्मस्सत्यमहिंसा च प्रायो ह्यन्नं समाश्रितम्॥
भेस१.५.१९
वमयेच्छलेष्मरोगांश्च पैत्तिकांश्च विरेचयेत्।
निरूहयेद्वातरोगान् रक्तजांश्चावसेचयेत्॥
भेस१.५.२०
रक्तशालीन् समुद्गान् वा षष्टिकानथवा पुनः।
सुस्विन्नान्मात्रयाश्नीयात् घृतसैन्धवसंयुतान्॥
भेस१.५.२१
ईषत्पिप्पलिकं यूषमीषच्च मधुनान्वितम्।
ईषत्सलवणं चापि पयश्चार्धकृतं पिबेत्॥
भेस१.५.२२
विष्किरान्प्रतुदांश्चाजान् जाङ्गलांश्च मृगद्विजान्।
यच्चान्यत्कटुकं पाके भोज्यं तन्नित्यमाचरेत्॥
भेस१.५.२३
पादाभ्यां न चरेत्कृष्टे विषमे कण्टकेषु च।
गहनं परदारांश्च नदीः पूर्णाश्च न व्रजेत्॥
भेस१.५.२४
कलहं चापि कोपं च रात्रिचर्यां विवर्जयेत्।
गजस्य न स्यादासन्नः तोयार्द्रस्य च वाजिनः॥
भेस१.५.२५
जनवादांश्च शौण्डांश्च द्विषतश्चापि मानवान्।
म्लेच्छान्निकृतिबुद्धींश्च न सेवेत कदाचन॥
भेस१.५.२६
सर्वान् सरीसृपांश्चैव क्षुद्रपादांश्च न स्पृशेत्।
महिषान् गवयान् खड्गान् व्याघ्रान् सिंहांश्च वर्जयेत्॥
भेस१.५.२७
नारोहेत्पादपान् वेश्म न धावेद्वर्षदुर्जले।
न गवां प्रतिलोमं च न मध्ये नाग्रतो व्रजेत्॥
भेस१.५.२८
सद्यः प्रवृष्टौ नारोहेद्धिमवन्तं च पर्वतम्।
घृतमुष्णाम्बु च भजेदेतदारोग्यमुत्तमम्॥ इत्याह भगवानात्रेयः।
इति भेले पञ्चमोऽध्यायः॥

॥षष्ठोऽध्यायः॥[सम्पाद्यताम्]

अथ न वेगान्धारणीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.६.१
न वेगान्धारयेद्धीरः प्राप्तान्मूत्रपुरीषयोः।
न वातस्य न पित्तस्य न शुक्लस्य कफस्य च॥
भेस१.६.२
उद्गारच्छर्दिजृम्भाणां तथा च क्षवथोरपि।
न बाष्पस्य न निद्रादेः प्राप्तं वेगं विधारयेत्॥
भेस१.६.३
रोगसञ्जनका ह्येते हिंस्युरायुर्विधारिताः।
एतानेव प्रकुर्युश्च तथाऽप्राप्तास्समीरिताः॥
भेस१.६.४
वातमूत्रपुरीषाणां धारणादनिलादयः।
कुप्यन्ति रेतसश्चापि शर्करा साश्मरी तथा॥
भेस१.६.५
त्वग्दोषो वा ज्वरो वा स्यात् गात्रे शोफादि वा पुनः।
छर्दिपित्तकफानां तु धारणेन समीरणात्॥
भेस१.६.६
जृम्भादिधारणादान्ध्यं तिमिरं बाष्पधारणात्।
क्षवथूद्गारनिद्रादेः धारणात्स्याच्छिरोरुजा॥
भेस१.६.७
तस्मान्मूत्रपुरीषं वै विसृजेत्काल्यमुत्थितः।
उक्ता ह्यधारणीयास्तु धारणीयान्निबोधत॥
भेस१.६.८
लोभमोहभियां तृष्णाचिन्तयोर्मदमानयोः।
शौर्यस्य च तथा विद्वान् प्राप्तं वेगं विधारयेत्॥
भेस१.६.९
एतद्धारयतो ह्यस्य बलमायुश्च वर्धते।
उदङ्मुखश्शुचौ देशे प्राङ्मुखश्चाऽवकुण्ठितः॥
भेस१.६.१०
आवश्यकमुपासीत कृते चाद्भिरुपस्पृशेत्।
कृतशौचस्ततो जन्तुर्भक्षयेद्दन्तधावनम्॥
भेस१.६.११
धवं पलाशw न्यग्रोधw नक्तमालमथापि वा॥ शिरीषं करवीरं च जातिवृक्षमथार्जुनम्॥
भेस१.६.१२
एतेषां दन्तधवनं श्रेष्ठमाह पुनर्वसुः।
आपाट्य विदलीकृत्य दन्तमांसमबाधयन्॥
भेस१.६.१३
तदस्य शोधयेद्वक्त्रं पित्तस्य च कफस्य च।
शमनं वातरक्तादेः कुरुते दन्तधावनम्॥
भेस१.६.१४
मुस्तकल्कं सत्रिफलं मधु तैलं सुखोदकम्।
प्रत्येकं कबलग्राहं धारयेदनुपूर्वशः॥
भेस१.६.१५
वातपित्तकफा दुष्टाः शाम्यन्ति कबलग्रहात्।
माधूकं चोपदेहघ्नं स्वररक्तप्रसादनम्॥
भेस१.६.१६
तैलं दन्त्यं सुरभिकृत्तदभिष्यन्दनाशनम्।
क्षतं संरोहयेद्वक्त्रं शीर्यमाणं नियच्छति॥
भेस१.६.१७
इन्द्रियाणां मतोऽभ्यङ्गो गुरुदोषविमोक्षणः।
त्वग्दोषशमनो बल्यो वातरक्तप्रसादनः॥
भेस१.६.१८
ग्राम्यधर्मातिगत्या च रथाश्वगजपातनात्।
दण्डमुष्टिहतानां च रुजाश्रमविनाशनः॥
भेस१.६.१९
त्वचः प्रसादनोऽभ्यङ्गः शाम्यत्युत्सादनात्क्लमः।
प्रहर्षं कुरुते स्थैर्यं मलघ्नं चावसेचनम्॥
भेस१.६.२०
विलेपनं ह्लादयति कण्डूं हन्ति प्रसादनम्।
शिशिरं ह्यञ्जनं दृष्टेः तिमिरं च प्रणश्यति॥
भेस१.६.२१
तनूरुहेन्द्रियबलं नस्यतैलादुपागतात्।
स्वररक्तप्रसादश्च नश्यन्ति पलितानि च॥
भेस१.६.२२
स्वक्तः सूत्सादितश्चैव प्रघृष्टश्च यथाबलम्।
यथर्तुवारिणा स्नातस्त्वनुलिप्तस्ततः परम्॥
भेस१.६.२३
प्रसाधितोत्तमाङ्गश्च ततो नस्यं प्रदापयेत्।
ततस्संशुद्धदोषस्य धूममस्य प्रकल्पयेत्॥
भेस१.६.२४
कुटन्नटैलाह्रीबेरं ध्यामकागरुचन्दनम्।
कालानुसार्यां नलदं पृथ्वीकामथ गुग्गुलम्॥
भेस१.६.२५
तालीसं पद्मकं मुस्तं प्रियंगुं सहरेणुकाम्।
हरिद्रां च सुगन्धां च सरलां देवदारु च॥
भेस१.६.२६
श्रीवेष्टकं सर्जरसं चोरकं चेति संहरेत्।
वक्त्रं च सर्पिषाक्तं स्याद्धूममेतं ततः पिबेत्॥
भेस१.६.२७
अष्टांगुलप्रमाणा वाप्यथवा द्वादशांगुला।
षडंगुलप्रमाणा वा धूमवर्तिः प्रशस्यते॥
भेस१.६.२८
सौवर्णं राजतं ताम्रं गजदन्तस्य वा पुनः।
वृक्षसारमयं वापि धूमनेत्रं प्रशस्यते॥
भेस१.६.२९
चतुर्वा पञ्चकृत्वो वा धूमं स्रोतस्यवाचरेत्।
वातानुलोमनं कुर्याच्छ्लेष्माणं चापकर्षति।
बलं ददाति दृष्टेश्च सम्यग्धूमो निषेवितः॥
भेस१.६.३०
अष्टौ धूमस्य कालाः स्युर्येषामन्ते प्रशस्यते।
उत्थितस्यैव शयनाद्दन्तप्रक्षालने कृते॥
भेस१.६.३१
जलक्रीडानिवृत्तस्य तथा भुक्तवतोऽशनम्।
क्षुतोच्चारव्यवायान्ते भुक्तवान्तवतस्तथा॥
भेस१.६.३२
गुणांश्चैकैकशस्तेषां धूमपानकृतान् शृणु।
तत्र शय्योत्थितस्यैव वक्ष्याम्यथ यथाक्रमम्॥
भेस१.६.३३
हन्त्युत्सन्नं कफं जन्तोष्षडिन्द्रियविबोधनः।
प्रतिबुद्धस्य चेद्धूमो मारुतस्यानुलोमनः॥
भेस१.६.३४
दन्तप्रक्षालनादूर्ध्वं रोगान्सम्यग्व्यपोहति।
च्युतश्लेष्मापनयनः सुगन्धिविशदास्यकृत्॥
भेस१.६.३५
दन्तमांसक्षयकृतव्याधयो वदनेषु ये।
दोषाः कासप्रभृतयस्तांश्च धूमो व्यपोहति॥
भेस१.६.३६
शिरोगता याश्च रुजाः सलिलक्रीडनोद्भवाः।
कर्णशूलं प्रतिश्यायं चाशु धूमो व्यपोहति॥
भेस१.६.३७
वातपित्तकफान् धूमः शमयेद्भोजनोद्गतान्।
शिरोविशुद्धिं कुरुते भुक्तं च स्थापयत्यपि॥
भेस१.६.३८
धमनिप्रतिपन्नस्तु वायुः क्षवथुनेरितः।
व्याप्नोति सर्वस्रोतांसि स धूमेनानुलोम्यते॥
भेस१.६.३९
वर्चःकर्मोद्धतो वायुर्गलमूर्धशिरोगतः।
प्राणानाध्मापयति वा स धूमेनानुलोम्यते॥
भेस१.६.४०
शुक्लस्रोतोगतो वायुरूर्ध्वमेव प्रपद्यते।
स घोरान् हि सृजेद्रोगांस्तं धूमेनानुलोमयेत्॥
भेस१.६.४१
रोगाधिपतये छर्द्या स्थानेभ्योऽभिसमीरिताः।
अनारोग्याय कल्पन्ते तेषां धूमः प्रशस्यते॥
भेस१.६.४२
हृतेषु दोषेष्वनिलः शून्यस्थानानि संचरन्।
सम्मूर्च्छति शिरो गत्वा तं धूमेनानुलोमयेत्॥
भेस१.६.४३
पूर्वं पीतोदको भुक्त्वा लभते कृशतां नरः।
मध्ये भक्तस्य पिबतो भोजनं नापकृष्यते॥
भेस१.६.४४
भुक्तवानथ पानीयं पश्चादनुपिबेच्च यः।
तदाप्यानुगतं भुक्तं समत्वायोपपद्यते॥
भेस१.६.४५
अग्नौ प्रतापयेत्पाणी स्यातां यावत्तु निर्जलौ।
ततः पदशतं गच्छेद्भक्तं ह्येवं प्रयात्यधः॥
भेस१.६.४६
न रात्रौ दधि भुञ्जीत नाघृतं नाप्यमाक्षिकम्।
कुष्ठौ पतेपि वांछं किं कण्ठरोगाच्च बुद्धिमान्(?)॥
भेस१.६.४७
तोयक्षिप्तं स्पृशेन्नान्नं न च पर्युषिताशनः।
न चाजीर्णाशनो जन्तुर्जिघांसुर्व्याधिसंभवम्॥
भेस१.६.४८
सोपानत्कस्तथा दण्डी छत्रेण व्यजनेन च।
आबाधान् वर्जयेत्सर्वान्विचरेदापरिश्रमात्॥
भेस१.६.४९
तपस्विनः पितृऋन्देवान्ब्राह्मणांश्च समाहितः।
अर्चयन्विधिवन्नित्यं जीवेद्वर्षशतं नरः॥
भेस१.६.५०
वातो हि शूलं विहतः करोति मूत्रप्रदोषं जनयेच्च मूत्रम्।
कासः प्रतिश्यायमथो क्षयं च श्वासं च कुर्याद्विहते तु वेगे॥
भेस१.६.५१
पुरीषमानाहमतीव कुर्याद् रेतोऽवरोधः कुरुतेऽथ षाण्ड्यम्।
तस्माद्धि वेगं न विधारयेत नरो य इच्छेदिह दीर्घमायुः॥ इत्याह भगवानात्रेयः।
इति भेले षष्ठोऽध्यायः॥

॥सप्तमोऽध्यायः॥[सम्पाद्यताम्]

अथात इन्द्रियोपक्रमणीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.७.१
इन्द्रियाणि हि सर्वाणि परिजीर्यन्ति जीर्यतः।
तस्मात्सर्वत्र वयसि यथाकालं स्त्रियं व्रजेत्॥
भेस१.७.२
न त्वनाप्यायितबलः समागच्छेत्तु योषितः।
नायोनिषु प्रयुञ्जीत तिर्यग्योनीश्च वर्जयेत्॥
भेस१.७.३
न प्राप्तं धारयेद्वेगं गत्वा शीतोदकं स्पृशेत्।
न तु श्रान्तो न वा भुक्तो न क्लिष्टोऽप्याविलो न च॥
भेस१.७.४
कृशो नात्यशितो वापि दीनो वा मैथुनं व्रजेत्।
मितवाक् सततं यः स्यात्स्निग्धान्नाशी युवाऽऽआचरेत्॥
भेस१.७.५
सुबहुस्निग्धरेताश्च यथर्तुशयनाशनः।
जीर्णामासन्नसत्वां च व्याधितां मलिनां कृशाम्॥
भेस१.७.६
व्यङ्गिनीं परकामां च पूतिकोष्ठां च वर्जयेत्।
बलमारोग्यमायुश्च वपुस्तेजश्च देहिनाम्॥
भेस१.७.७
हीयते हीदृशीं गत्वा प्राप्याकालजरामिव।
ऋतावृतौ यथाकालं मैथुनं ना समाचरेत्॥
भेस१.७.८
वर्षासु नवरात्रात्तु दशरात्राच्छरद्यपि।
पञ्चाहाद्धेमसमये सप्ताहाच्छिशिरे तथा॥
भेस१.७.९
पक्षाद्वसन्ते ग्रीष्मे तु मासि मासि समाचरेत्।
निदाघे पश्चिमे मासे मैथुनं चैव वर्जयेत्॥
भेस१.७.१०
अथवा यौवनोत्साहबलस्नेहसमन्वितः।
शिशिराम्बुकृतस्नानो हृद्यस्रगनुलेपनः॥
भेस१.७.११
नातिव्यायामनिरतः क्षीरमांसघृताशनः।
हृद्यमाल्याम्बरधरा हृद्याभरणभूषिताः॥
भेस१.७.१२
हृद्ययौवनसंपन्नाः प्रियाः प्रियकथानुगाः।
हृष्टाः सर्वत्र काले अ शक्त्यर्धेन व्रजेत्स्त्रियः॥
भेस१.७.१३
चतुर्दशीं पञ्चदशीमष्टमीं च विवर्जयेत्।
पिबेत्क्षीरं घृतं नित्यमायुष्यकरणं हितम्॥
भेस१.७.१४
बलवर्णकरं ह्येतदारोग्यकरणं तथा।
संहारयेद्रोमनखं त्रिर्मासस्य च मानवः॥
भेस१.७.१५
ओषधीश्च मणींश्चैव मङ्गल्यान् धारयेत्सदा।
मन्त्रानावर्तयेच्चापि ब्रह्मप्रोक्तं सनातनम्॥
भेस१.७.१६
स मे माद्यापगाद्देहाद्वायुः प्राणाश्च ये सदा।
इन्द्रो मे बलमादद्याद् शिवं चापो दिशन्तु नः॥
भेस१.७.१७
इत्येवं मन्त्रमार्षं वै भुक्त्वा गत्वाथवा स्त्रियः।
संजपन्वै स्पृशन् वारि तथाऽस्यायुर्न हीयते॥ इत्याह भगवानात्रेयः।
इति भेले सप्तमोऽध्यायः॥

॥अष्टमोऽध्यायः॥[सम्पाद्यताम्]

अथातो मात्राशितीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.८.१
मात्राशी स्याद्विपक्वाशी दण्डपाणिर्मिताध्वगः।
यथर्तुभोजनं कृत्वा जन्तुर्धूममिमं पिबेत्॥
भेस१.८.२
कैडर्यश्शतपुष्पा च तालीसागुरुगुग्गुलु।
प्रियङ्गवश्च क्षौमं च सर्पिषा स्नेहितं पिबेत्॥
भेस१.८.३
भोजनेनेरितो वायुः कोष्ठाच्छिरसि तिष्ठति।
प्रसिध्यति स धूमेन कफश्चापैति चक्षुषः॥
भेस१.८.४
तण्डुलान् पृथुकांश्चापि सर्वान् पिष्टमयांस्तिलान्।
न खादेद् भुक्तवान् जन्तुर्मात्रां खादेद्बुभुक्षितः॥
भेस१.८.५
अध्वना न श्रमं गच्छेत्सर्वान्वेगान्न धारयेत्।
हित्वापि सर्वकार्याणि तथास्यायुर्न हीयते॥
भेस१.८.६
वर्जयेद्विषमं दुःखमासनं पादलम्बनम्।
रक्षेच्छरीरं वातेभ्यो नित्यमेव दुरासनात्॥
भेस१.८.७
अत्यासनमतिस्थानमतिचङ्क्रमणानि च।
अतिस्वप्नमशय्यां च तथा चाप्यतिभाषणम्॥
भेस१.८.८
यच्च किंचिद्विचेष्टाभिरत्यर्थं कुरुते नरः।
सर्वमेतदनायुष्यं भिषजः परिचक्षते॥
भेस१.८.९
समस्थानासनगतिस्समशय्याशनस्तथा।
समजल्पविचेष्टश्च चिरं जीवति मानवः॥
भेस१.८.१०
निवातमुपसेवेत सुखवातं कदाचन।
निवातमायुषः पथ्यमारोग्याय च सर्वदा॥
भेस१.८.११
आतपे नाचरेत्कर्म शिरस्त्राणमृते तथा।
निदाघवर्जं च सदा नावश्या ये समाचरेत्॥
भेस१.८.१२
शरद्वसन्तप्रावृट्सु कारयेच्चानुवासनम्।
रोगाश्च वस्तिदाप्याः स्युर्यस्य नित्यं च दापयेत्॥
भेस१.८.१३
स्वप्नान्तसन्ध्ययोश्चापि न खादेन्न च संविशेत्।
न रात्रौ विचरेदेको नागारं शून्यमाविशेत्॥
भेस१.८.१४
चतुष्पथं परिहरेत्पर्वते न चिरं वसेत्।
रात्रौ च वृक्षमूलानि परदारांतथैव च॥
भेस१.८.१५
राजानिष्टं प्रजाभङ्गं दावाग्निं कलहं नृणाम्।
मत्तोन्मत्तांश्च संलक्ष्य दूरादेव विवर्जयेत्॥
भेस१.८.१६
वैरिणो नोपसेवेत बाहुभ्यां न नदीं तरेत्।
हस्त्यश्वगाश्च सर्पं च दूरतः परिवर्जयेत्॥
भेस१.८.१७
मधुमेहश्च शोषश्च तृष्णा वाताद्युपद्रुतिः।
मद्यपानात्तु न भवेत्तस्मात्तद्विधिवत्पिबेत्॥
भेस१.८.१८
आक्वाथितजलं मासांश्चतुरो मात्रया पिबेत्।
श्रावणप्रभृतीनेव शेषानष्ट यथासुखम्॥
भेस१.८.१९
अभुक्त्वामलकं खादेद् भुक्त्वा चापि हरीतकीम्।
परिणामे च भक्तस्य खादेच्चापि विभीतकम्॥
भेस१.८.२०
कषायभावाच्छलेष्माणमम्लभावाच्च मारुतम्।
पित्तं मधुरभावाच्च सम्यगामलकं जयेत्॥
भेस१.८.२१
उष्णभावात्क्षणादेति पित्तं चाशयमूर्च्छितम्।
सम्यङ्नयत्यतः खादेदभयां भुक्तवान्नरः॥
भेस१.८.२२
आहारपरिणामस्तु पित्तश्लेष्मविवर्धकः।
तस्मात्साम्यं तयोरिच्छन्नाददीत विभीतकम्॥
भेस१.८.२३
काल्यं विधिं वै कृत्वा च स्नायादृतुसुखैर्जलैः।
सुस्थश्शुचिसमाचारः सदाचारपदे स्थितः॥
भेस१.८.२४
मूत्रमप्सु न कुर्वीत पुरीषं च कदाचन।
न निष्ठीवेत्तथा प्राज्ञो रक्षञ्जीवितमात्मनः॥
भेस१.८.२५
न हरेद्विषमं ग्रीवां न वापि विषमं क्षुयात्।
ऋज्वासीनो नरः खाद्यमाददीत विचक्षणः॥
भेस१.८.२६
मातरं पितरं भार्यामाचार्यं वानुपालयेत्।
अभिवादनयोगाच्च वर्धयेदायुरात्मनः॥
भेस१.८.२७
राजापथ्यचरा ये वै ये च तद्द्रोहिणो नराः।
विधर्मिणश्चानृताश्च न तैरेकीभवेत्क्वचित्॥
भेस१.८.२८
एतदप्याहुरारोग्यं धन्यं पूज्यं यशस्करम्।
सद्भिराचरितं पूर्वं वृत्तमात्रेयसम्मतम्॥ इत्याह भगवानात्रेयः।
इति भेले अष्टमोऽध्यायः॥

॥नवमोऽध्यायः॥[सम्पाद्यताम्]

अथातश्चतुष्पादभिषग्जितीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.९.१
भेषजं हि चतुष्पादमातुरं कुरुतेऽगदम्।
युनक्ति यशसा वैद्यमर्थमप्यस्य यच्छति॥
भेस१.९.२
तस्मादौषधयोगस्य वैद्यस्याप्यातुरस्य च।
उपस्थातुश्च वक्ष्यामि सम्पदं सिद्धिकारिकाम्॥
भेस१.९.३
प्रतिवातं यथाक्षिप्तः पांसुमुष्टिर्विनश्यति।
तथा हि नाशमागच्छेदृते कर्म भिषक्कृतात्॥
भेस१.९.४
नद्यां प्रस्यन्दमानायां श्वभ्रस्थाने स्थलेषु च।
प्रणश्यति यथा वृष्टं तथा दुर्योजिताः क्रियाः॥
भेस१.९.५
इष्वासस्तु यथा युक्तो धर्मात्मा खड्गपाणिधृत्।
परेभ्यः क्षोभमाधत्ते पात्यात्मीयांश्च हन्त्यरीन्॥
भेस१.९.६
एवं चिकित्सकः पादैर्भेषजैश्चोपबृंहितः।
रक्षत्यकीर्तेरात्मानं व्याधिं चापि नियच्छति॥
भेस१.९.७
सिध्यति प्रतिकुर्वाण इत्यात्रेयस्य शासनम्।
अपि चाप्रतिकुर्वाण इत्याख्यद्भद्रशौनकः॥
भेस१.९.८
गुणयुक्तातुरद्रव्यभिषक्परिचरान्विता।
दृश्यते विफला यस्मान्नाफला तु विपर्यये॥
भेस१.९.९
तस्मान्नैकान्तिकी सिद्धिश्चतुष्पादे चिकित्सिते।
न त्वेतां बुद्धिमात्रेयश्शौनकस्यानुमन्यते॥
भेस१.९.१०
प्रतिकुर्वति सिद्धिर्हि वर्णोत्साहबलान्विता।
न च स्याद्व्याधिबहुता न त्वेवाप्रतिकुर्वति॥
भेस१.९.११
दुर्वर्णो दुर्बलश्च स्याद् व्याधिभिश्चाप्युपद्रुतः।
विकलो वा भवत्यज्ञैरुपक्रान्त इवातुरः॥
भेस१.९.१२
न सा सिद्धिरसिद्धिः स्याद्यां दृष्ट्वा नाभिपद्यते।
तस्मात् ज्ञानवतां सिद्धिं विन्देत मतिमान् भिषक्॥
भेस१.९.१३
तत्र प्रथमतः पादमौषधं तु निबोध मे।
खं वायुरनलस्तोयं भूमिश्चैवेह पञ्चमी॥
भेस१.९.१४
गुणोत्तराणि सर्वाणि यथासंख्यं विभावयेत्।
तेषान्तु ये भूतगुणाः पृथग्भावनिदर्शकाः॥
भेस१.९.१५
परस्परसमायोगाद्द्रव्येष्वेव भवन्ति ते।
लक्षणं खस्य सौषिर्यं रौक्ष्यं चाप्यनिलात्मकम्॥
भेस१.९.१६
औष्ण्यमग्नेरपां शैत्यं खरत्वं पार्थिवो गुणः।
यस्मिन्यस्मिन् भवेल्लिङ्गमेतद्द्रव्ये विशेषतः॥
भेस१.९.१७
यस्य भूतस्य तद्द्रव्यं तत्तदात्मकमिष्यते।
सौषिर्यं लाघवं यत्र भैषज्यं चापि खात्मकम्॥
भेस१.९.१८
खरत्वं च विवेकश्च रौक्ष्यं चाप्यनिलात्मकम्।
स्नेहः क्लेदश्च शैत्यं च मृदुत्वं चापि वारिजम्॥
भेस१.९.१९
पैच्छिल्यं गौरवं मूर्तिस्थैर्यं गन्धश्च पार्थिवम्।
एतैर्भूतगुणैर्युक्तं यद्द्रव्यं तत्तदात्मकम्॥
भेस१.९.२०
पञ्चभूतात्मकैस्सर्वैर्गुणैस्तत्र समन्वितम्।
(प्रतिवासं रसो गन्धस्तदा प्रदुवनानि च॥
भेस१.९.२१
शितमुष्णोदकं चैव रैद्य चेदिप्रियं रथाः।
सज्जोपकरणत्वं च मूलत्वक्फलसञ्चयः)॥
भेस१.९.२२
मूलादीनां सुगन्धित्वं कल्याणस्पर्शवत्तथा।
अन्यूनानतिरिक्तत्वरूपवच्च प्रशस्यते॥
भेस१.९.२३
स्थलात्मताकनिम्नेषु सैकतेषूपलेषु च।
सुषिरं नातिविष्टं च तिर्यग्यातं च गर्हितम्॥
भेस१.९.२४
येनौषधार्थस्सद्यस्स्यात्तेन चाप्रतिबध्नता।
भेषजं प्रथमः पादः इति ज्ञेयं चिकित्सिते॥
भेस१.९.२५
प्रतिश्रावी द्वितीयः स्यात्तस्य प्रत्येकशो गुणाः।
बलवान् दक्षिणो दक्षः प्रियवागजुगुप्सकः॥
भेस१.९.२६
वीरश्चाप्रतिकूलश्च रक्तश्चित्रकथस्तथा।
प्रज्ञावांश्चाप्युपस्थायी तथा शास्त्रानुसारतः॥
भेस१.९.२७
न चातिप्रतिबध्नीयात्सर्वेष्वौषधकर्मसु।
प्रशस्यते क्लेशसहः प्रतिश्रावी यथागुणः॥
भेस१.९.२८
तृतीयश्चातुरः पादः सत्याशंसी प्रशस्यते।
लक्षणश्चात्मवांश्चैव कृतज्ञस्सुमनाश्च यः॥
भेस१.९.२९
औषधस्य प्रतिग्राही न च रोगान्निगूहयेत्।
दृढभक्तोऽनसूयश्च यश्चापि न विषीदति॥
भेस१.९.३०
सर्वत्राप्रतिकूलश्च न क्रियामतिवर्तते।
एभिर्गुणैस्समायुक्तं जानीयात्साध्यमातुरम्॥
भेस१.९.३१
भिषक् चतुर्थः पादस्तु ससूत्रार्थविशारदः।
अरोगो दृष्टकर्मा च कृतकृत्येषु कोविदः॥
भेस१.९.३२
प्रयोक्ता च प्रगल्भश्च क्षमावान्प्रतिभानवान्।
बुद्धिमांस्तर्ककुशलो वीर्यौदार्यबलान्वितः॥
भेस१.९.३३
अस्तब्धश्चाप्रमत्तश्च सततं संयतेन्द्रियः।
ओजस्वी चौषधज्ञश्च देशकालप्रयोगवित्॥
भेस१.९.३४
भिषक् चतुर्थपादः स्यादेवंगुणसमन्वितः।
भेषजं च प्रतिश्रावी भिषगातुर एव च॥
भेस१.९.३५
अन्योन्यगुणसंयोगादेते स्युस्सिद्धिकारकाः।
एत एव च वौगुण्यात्तस्य व्याधिविवर्धनाः॥
भेस१.९.३६
तस्माच्चतुर्षु पादेषु चिकित्सासिद्धिरिष्यते।
पक्तये कारणं पक्तुर्यथा पात्रेन्धनानलाः॥
भेस१.९.३७
विजेतुर्विजये भूमिश्चमूः प्रहरणानि च।
आतुराद्यास्तथा पादाः सिद्धौ कारणसंज्ञिताः॥
भेस१.९.३८
मृद्दण्डचक्रसूत्राद्याः कुम्भकारादृते यथा।
नावहन्ति गुणान् वैद्यादृते पादत्रयं तथा।
विद्यात्तस्माच्चिकित्सायां प्रधानं कारणं भिषक्॥

इत्याह भगवानात्रेयः

इति भेले नवमोऽध्यायः॥

॥दशमोऽध्यायः॥[सम्पाद्यताम्]

अथात आमप्रदोषीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.१०.१
अथाह तैलात्पिष्टान्नात् कृसरात् पायसादपि।
विरुद्धाध्यशनादामाच्छालूकाच्छुष्कशाकतः॥
भेस१.१०.२
ह्रीशोकक्रोधकामेर्ष्या लोभोद्वेगाद्भयादपि।
अन्यस्मादीदृशाद्वापि रात्रौ जागरणेन वा॥
भेस१.१०.३
जन्तोश्शाम्यति कायाग्निरथवा दुष्टशय्यया।
उद्वेष्ट्यन्तेऽस्य गात्राणि कटिपृष्ठं च दूयते॥
भेस१.१०.४
जङ्घे शूलायतश्चास्य ज्वरश्चास्योपजायते।
शिरो गुरु भवत्यस्य तथा नेत्रे शरीरिणः॥
भेस१.१०.५
सोद्गारं सविदाहं च कफपित्तं प्रसिच्यते।
स्तिमितं चास्य हृदयमाध्मातमिव चोदरम्॥
भेस१.१०.६
दृतिः पूर्णं इवानद्धः क्षुभ्यते दोषसंचयात्।
संछर्दयति चाभीक्ष्णं मूर्छां चापि नियच्छति॥
भेस१.१०.७
अपि तृष्यत्ययं गाढमास्यं ह्यस्योपशुष्यति।
स्वरभेदोऽस्य भवति कण्ठश्शुष्क इवोद्गतः॥
भेस१.१०.८
मन्ये च परिदह्येते श्रद्धा चास्य न जायते।
यदास्य वायुः पित्तं च श्लेष्मा चापि समुद्गतः॥
भेस१.१०.९
आमेन संयुतश्चैव सावशेषः प्रवर्तते।
स उभाभ्यां तथाभीक्ष्णं स्रोतोभ्यामतिरेचितः॥
भेस१.१०.१०
कफपित्ते क्षयं प्राप्ते वाते हि किल मूर्च्छिते।
शुद्धकोष्ठे हृते दोषे शून्यकाये च मारुतः॥
भेस१.१०.११
एकस्थाने त्वनासक्तो विधावति ततस्ततः।
वङ्क्षणं हृदयं नाभिवस्तिमर्माणि चाविशन्॥
भेस१.१०.१२
संज्ञां हृत्वैव कुरुते मुहुर्मुहुरचेतनम्।
इत्येतद्रूपमामस्य यथावदुपलक्षयेत्॥
भेस१.१०.१३
अत ऊर्ध्वं प्रवक्ष्यामि जीर्णस्यान्नस्य लक्षणम्।
मधुरः पूर्वमुद्गारो मध्ये चाम्लो यदा भवेत्॥
भेस१.१०.१४
पश्चात्सकटुकश्चापि निर्विदाहो भवत्यथ।
लाघवं वीक्ष्यते काये विशुद्धं विशदं मुखम्॥
भेस१.१०.१५
प्रगुणं कुरुते वातमूर्ध्वं वा यदि वाप्यधः।
भोक्तुं श्राद्धा भवत्यस्य रुजा चान्योपशाम्यति॥
भेस१.१०.१६
इत्येभिर्लक्षणैर्जीर्णं विद्यादन्नं शरीरिणाम्।
अजीर्णं लङ्घयेदामे पाचनीयस्ततो भवेत्॥
भेस१.१०.१७
यवाग्वादिभिराहारैस्संसृजेद्वा तमुत्तरम्।
शुण्ठीप्रतिविषामुस्ताक्वाथः स्यादामपाचनः॥
भेस१.१०.१८
शुण्ठीनीरकधान्याकैस्तुल्यैः क्वाथो रुचिप्रदः।
मुस्तं हिङ्गु त्रिकटुकं पाठा वत्सा हरीतकी॥
भेस१.१०.१९
चूर्णः प्रतिविषा चेति चित्रकश्चामनाशनः।
पिप्पलीनागरक्षारस्सुखोदकसमायुतः॥
भेस१.१०.२०
स्वेदनं कफवर्तिश्च शूलेषु स्तिमितेषु च।
अगारधूमः पिप्पल्यो मदनं राजसर्षपाः।
गोमूत्रपिष्टास्सगुडाः फलवर्तिः प्रशस्यते॥
इत्याह भगवानात्रेयः
इति भेले दशमोऽध्यायः॥

॥एकादशोऽध्यायः॥[सम्पाद्यताम्]

अथातस्समशयनपरिघनीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.११.१
आहारं प्रघसं न्य़्णामुपयुक्तं चतुर्विधम्।
पच्यमानं द्विधा काये कोष्ठे रसमलाख्यया॥
भेस१.११.२
स्वेदमूत्रशकृद्रूपैर्निष्क्रामति मलः पुनः।
अन्नस्य पाकतस्तेजो रसो निर्वर्त्यते नृणाम्॥
भेस१.११.३
रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च।
अस्थ्नो मज्जा ततः शुक्लं शुक्लाद् गर्भस्य संभवः॥
भेस१.११.४
एवं पूर्वात्परं याति धातुं धातुर्यथाक्रमम्।
मात्रापथ्यं यदा भुक्तं रसरूपं गतं पुनः॥
भेस१.११.५
कुर्यान्न रोगान् दीप्ताग्नेः रसव्यापत्तिसम्भवान्।
शोणिताद्यात्मतां गच्छेत् परिणामवशां तदा॥
भेस१.११.६
यस्मिन् व्यापद्यते धातौ तस्मिन् व्याधीन् करोत्यथ।
विषूचिकां सालसकां पित्तदाहं विलम्बिकाम्॥
भेस१.११.७
अन्येद्युष्कं सततकं तृतीयकचतुर्थकम्।
पित्तं लोहितपित्तं च रक्तार्शांसि प्रलेपकम्॥
भेस१.११.८
विपाटिकांश्च तान् व्याधीन् रसव्यापत्तिजान् विदुः।
कच्छूं चर्मदलं पामां चर्मकीलं विचर्चिकाम्॥
भेस१.११.९
व्यङ्गवीसर्पकुष्ठानि रक्तव्यापत्तिजान्विदुः।
मांसकीलार्बुदं गण्डमजकां जातुलानि(?) च॥
भेस१.११.१०
पूतिमांसालजीश्चैव मांसव्यापत्तिजान् विदुः।
दौर्गन्ध्यं स्वेदनं स्थौल्यं पिपासां बहुनिद्रताम्॥
भेस१.११.११
प्रमेहान् विंशतिं चापि मेदोव्यापत्तिजान्विदुः।
दन्तरोगो नखश्मश्रुकेशरोमाभिपातनम्॥
भेस१.११.१२
अतिवृद्धिस्तथा वास्थ्नामस्थिव्यापत्तिजान् विदुः।
विदाहं च मदं चैव सोन्मादं चापतानकम्॥
भेस१.११.१३
तमोदर्शनमूर्छायौ मज्जाव्यापत्तिजान् विदुः।
रेतः क्षाराग्निमञ्जिष्ठानीलहारिद्रकं पृथक्॥
भेस१.११.१४
मेहने भस्मवर्णं च शुक्लव्यापत्तिजान्विदुः।
नरस्य स्त्रीस्वरत्वं वा स्त्री वापि पुरुषस्वरा॥
भेस१.११.१५
आमगर्भच्युतिर्वापि गर्भव्यापत्तिजान्विदुः।
इत्येते आमजा न्य़्णां विरुद्धाध्यशनात्मकाः।
विरुद्धाशनवर्जी स्यादेतदारोग्यमुत्तमम्॥ इत्याह भगवानात्रेयः। इति भेले एकादशोऽध्यायः॥


॥द्वादशोऽध्यायः॥[सम्पाद्यताम्]

अथातः आत्रेयखण्डकाप्यीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.१२.१
आत्रेयः खण्डकाप्यश्च मैत्रेयोऽन्ये च तद्विधाः।
रससंख्याकथां चक्रुर्वने चैत्ररथे द्विजाः॥
भेस१.१२.२
तत्र कश्चिद्रसैकत्वं रससामान्यतोऽब्रवीत्।
सात्म्यासात्म्यात्तथा द्वित्वं त्रैविध्यं स्थानतोऽपरे॥
भेस१.१२.३
स्वादुरस्वादुरमृदुर्मृदुश्चेति चतुष्टयम्।
महाभूतविभागेन पञ्चेत्याहुस्तथापरे॥
भेस१.१२.४
तदेतदेवं जानीयाद्यथोक्तादेव कारणात्।
षट्त्वं सप्तत्वमथवा ब्रूयुस्तद्रुचिभेदतः॥
भेस१.१२.५
मधुरो लवणाम्लौ च कषायकटुतिक्तकाः।
क्षारश्च तान् रसान् सप्त नातिरेकं समाचरेत्॥
भेस१.१२.६
रसातिसेवनाज्जन्तुस्सद्यो मृत्युमवाप्नुयात्।
भवेयुर्व्याधयश्चास्य रसव्यासङ्गसंभवाः॥
भेस१.१२.७
वृत्तरोहितराजीभिः वृत्ताक्षश्शकली तथा।
मत्स्यश्चिलिचिमो नाम कूले चरति वारिणः॥
भेस१.१२.८
तं मत्स्यं वर्जयेदेकं दुग्धेनान्यांस्तु भक्षयेत्।
पयसा भक्ष्यमाणस्तु नररक्तं प्रदूषयन्॥
भेस१.१२.९
रक्तव्यापत्तिजान्व्याधीन् मृत्युं चापि स यच्छति।
श्वाविद्वराहं चैकत्र पयसा परिवर्जयेत्॥
भेस१.१२.१०
वन्यमूलफलाहारस्तद्विधेन विरुद्ध्यते।
अश्नीयात्पयसा यस्तु सद्यो मृत्युमवाप्नुयात्॥
भेस१.१२.११
भवेयुर्व्याधयश्चास्य शङ्खरोगगलग्रहाः।
मधुना गोरसेनापि लिकुचं न च भक्षयेत्॥
भेस१.१२.१२
बाधिर्यं वाऽप्यथान्ध्यं वा मृत्युं वा भक्षयन् व्रजेत्।
कपोतान् सर्षपैर्भृष्टान् पयसा न तु भक्षयेत्॥
भेस१.१२.१३
मज्जाव्यापत्तिजान् व्याधीन्प्राप्नुयाद्धि तथा परम्।
पयसा सर्पदष्टस्सन् खाद्यैस्सिद्ध्यति तादृशैः॥
भेस१.१२.१४
क्रिमिजा व्याधयश्चास्य दृश्यन्ते यदि जीवति।
इह या स्त्री पुमांश्चैव हितजीर्णमिताशनौ॥
भेस१.१२.१५
अनुदावर्तिनौ चैव स्यातां गर्भस्तयोः खलु।
बलवान् वर्णवांश्चैव चक्षुष्मांश्च भवत्यथ॥
भेस१.१२.१६
विपर्यये वर्तमानौ विपरीतमिहर्च्छतः।
अजीर्णे त्वशनं यस्य जीर्णे चानशनं भवेत्॥
भेस१.१२.१७
स तथोभयथा रोगान् दारुणान् प्राप्यान्नरः।
तस्माज्जीर्णे च पथ्याश्च मात्रावन्तोऽविरोधिनः।
सर्व एव रसा भोज्याः युक्त्या संवृतधातुभिः॥ इत्याह भगवानात्रेयः।
इति भेले द्वादशोऽध्यायः॥


॥त्रयोदशोऽध्यायः॥[सम्पाद्यताम्]

अथातो जनपदविभक्तीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.१३.१
कस्मिन् जनपदे रोगाः के भवन्त्यधिका इति।
गुर्दालुभेकिना पृष्टो व्याचचक्षे पुनर्वसुः॥
भेस१.१३.२
मत्स्यान्नभोजिनो नित्यं प्राच्याः स्युः कफपित्तनः।
श्लीपदं गलगण्डं च प्रायशस्तेषु दृश्यते॥
भेस१.१३.३
नदीतोयगतान् मत्स्यान् भक्षयन्ति समुद्रजान्।
प्रायशः कुष्ठिकास्तेन मनुष्या दक्षिणादिशि॥
भेस१.१३.४
मसूरयवगोधूमतिलकोद्दालसेविनः।
भूयिष्ठमर्शसास्तेन काम्भोजादन्तजाः स्मृताः॥
भेस१.१३.५
मांसकामाः सुराकामाः स्त्रीकामास्साहसप्रियाः।
प्रीच्यास्तेन भूयिष्ठं दृश्यन्ते राजयक्ष्मिणः॥
भेस१.१३.६
तीक्ष्णोष्णानि हि बाह्लीकाः प्रायेणान्नानि भुञ्जते।
अभिष्यन्दीनि मांसानि पानकान्यौदकानि च॥
भेस१.१३.७
प्रकृत्या चाप्यभिष्यण्णाः पार्वतोपत्यकास्सदा।
तेन बाह्लीकदेशेषु प्रायो व्याधिर्बलासकः॥
भेस१.१३.८
मेघेऽवर्षति वर्षासु हेमन्ते यत्र वर्षति।
ऋतुव्यापत्तिसमये जनमारः प्रवर्तते॥
भेस१.१३.९
तत्रोपवासी धृतिमान् रतो विप्राभिवादने।
मन्त्रौषधरतश्चापि जनमारात् प्रमुच्यते॥
भेस१.१३.१०
सूर्योपतापात्सहसा वर्षान्ते पित्तमीर्यते।
शरदि प्रायशस्तेन ज्वरो भवति देहिनाम्॥
भेस१.१३.११
गवां च चारणाख्यश्च चतुष्पाच्छ्वापदेषु च।
इन्द्रजालश्च मत्स्येषु शकुनानां प्रमीलकः॥
भेस१.१३.१२
चित्रकस्सर्वधान्येषु दवो मूलफलेषु च।
हस्तिनां पाकलश्चैव ज्वर इत्यभिधीयते॥
भेस१.१३.१३
उत्कर्णकस्तथाश्वेषु तेजस्सर्वामयेषु च।
सर्वत्र वसति ह्येष एष चान्तक उच्यते॥
भेस१.१३.१४
तं धूमकेतुं प्रत्यक्षं क्षिप्रं प्रशमयेज्ज्वरम्।
असात्म्यं गन्धमादाय वातो यत्रातिवीज्यते॥
भेस१.१३.१५
तत्र मर्त्येषु सामान्यः प्रतिश्यायः प्रवर्तते।
तथा बतालिका नाम पिटका चास्य जायते॥
भेस१.१३.१६
कक्षायामूरुमूले च पाणिपादतलेषु च।
कण्ठे वा श्रोत्रमाश्रित्य वस्तौ वा हृदयेऽपि वा॥
भेस१.१३.१७
त्वरमाणश्चिकित्सेत प्रवृद्धा मारयेन्नरम्।
पित्तश्लेष्मसमुत्थाना वातशोणित्मूर्च्छिता॥
भेस१.१३.१८
बतालिकेति तामाहुर्यत्नवांस्तत्र जीवति।
इत्येतत्सम्यगुद्दिष्टं सर्वं यद्यच्च चोदितम्।
ऋषिभ्यः परिपृच्छद्भ्यः प्रश्नजातं यथाक्रमम्॥ इत्याह भगवानात्रेयः।
इति भेले त्रयोदशोऽध्यायः॥


॥चतुर्दशोऽध्यायः॥[सम्पाद्यताम्]

अथातः चिकित्साप्राभृतीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.१४.१
चिकित्साप्राभृतो विद्वान् विद्यात् संशोधने विधिम्।
न च धामार्गवं दद्यात्स्नेहस्वेदानुपस्कृते॥
भेस१.१४.२
यो हि संशोधनं पीत्वा सकषायाणि सेवते।
तस्य तानि तदा जीवं हरन्त्यनु हुताशनम्॥
भेस१.१४.३
दारु शुष्कमिवास्विन्नं नाम्यमानं यथा भेवेत्।
तथा विरेचनं हन्यात्स्नेहस्वेदानुपस्कृते॥
भेस१.१४.४
स्नेहस्वेदोपपन्नं तु छर्दितं भावितं पुनः।
विरेचनस्य सिद्ध्यर्थं पूर्वमास्थापयेद् भिषक्॥
भेस१.१४.५
अजीर्यदथ रूक्षं हि विरेचनमथोल्लिखेत्।
ओषधीर्हीनवीर्याश्च मात्राहीनाश्च वर्जयेत्॥
भेस१.१४.६
अतिमात्रं हि भैषज्यं जीवं हरति देहिनाम्।
तस्मात्कालं बलं मात्रामृतुं विद्याद्विरेचने॥
भेस१.१४.७
यथा वृक्षस्य पुष्पेषु पलाशेषु फलेषु च।
शीर्णेष्वन्यानि रोहन्ति तथा व्याधिरनिर्हृतः॥
भेस१.१४.८
यथा मूले तरोश्छन्ने म्लायत्यग्रं न संशयः।
एवं विरेचिते व्याधिरुपशाम्यति देहिनाम्॥
भेस१.१४.९
उदकं चोदमन्थं च मत्स्यान्मांसतिलानपि।
गुरु चान्नं न भुञ्जीत स्नेहसन्तर्पणानि च॥
भेस१.१४.१०
विरेचनं तु यः पीत्वा दारुणं रूक्षिते गुदे।
दारुणं भक्तमश्नाति तमामिषरसेन वै॥
भेस१.१४.११
तद्यथा ह्युदकं निम्नं स्थलादध्यवरोहति।
स्नेहितस्य तथा दोषाः कुक्षिमायान्ति सर्वशः॥
भेस१.१४.१२
स्नेहनैर्व्याधितस्थानाद्रसैश्चाभ्यधिकीकृताः।
स्वेदैर्मृदूकृतास्सन्तः स्रोतसा च समागताः॥
भेस१.१४.१३
मृदुसर्वाङ्गकोष्ठस्य भेषजैश्शुचिभिस्तदा।
दोषास्सुनिर्हरा जन्तोर्भवन्तीति विनिश्चयः॥
भेस१.१४.१४
एष हेतुर्विरेकेषु छर्दनेष्वेष एव तु।
एष हेतुर्निरूहेषु शिरसश्च विरेचने॥
भेस१.१४.१५
बहुस्निग्धो विरिक्तश्च यो रसैर्नोपपाद्यते।
भेषजैरप्युपस्तब्धः सोऽतिमात्रं विपद्यते॥
भेस१.१४.१६
वक्ष्यामि च क्रियामन्यामजातव्याधिनाशिनीम्।
मधु सेवेत वर्षासु सर्पिः शरदि चाचरेत्॥
भेस१.१४.१७
सम्मिश्रं गण्डकेनैव वारुणीं शिशिरे पिबेत्।
मार्द्वीकं तु वसन्ते वै निदाघे क्षीरमाचरेत्॥
भेस१.१४.१८
कल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः।
शिरसोऽन्तस्तर्पयन्तः श्लेष्मणश्च विशोषणाः॥
भेस१.१४.१९
उदावर्ताञ्जयन्त्येते स्निग्धत्वाद्गौरवादपि।
रौक्ष्यात्त्रिधा सा जननात् श्लेष्मन्नाकलास्तथा(?)॥
भेस१.१४.२०
एवं तु वर्तमानानामायुर्वृद्धिमवाप्नुयात्।
न्य़्णां समाधिपूर्णानामदीनमनसां तथा॥ इत्याह भ्गवानात्रेयः।
इति भेले चतुर्दशोऽध्यायः॥


॥पञ्चदशोऽध्यायः॥[सम्पाद्यताम्]

अथातस्तिस्रैषणीयमध्यायं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.१५.१
प्राणैषणा स्यात्प्रथमा द्वितीया तु धनैषणा।
धर्मैषणा तृतीया तु पुरुषस्य भवत्यथ॥
भेस१.१५.२
तत्र प्राणैषणां पूर्वं समापद्येत मानवः।
धर्मार्थकामप्राप्तिर्हि सद्भिः प्राणैः प्रपद्यते॥
भेस१.१५.३
धर्मदीनामवाप्तिश्च पुरुषार्थः परः स्मृतः।
तस्माच्छरीरं प्रयतः परिरक्षेद्धि शास्त्रतः॥
भेस१.१५.४
धनैषणां द्वितीयां तु समापद्येत मानवः।
पापीयो नास्त्यतः किञ्चिद्यथा जीवन्नृते धनात्॥
भेस१.१५.५
धर्मकामौ न संपीड्य तस्माद्वित्तमुपार्जयेत्।
ज्वररोगादिका येन निरस्येदापदो बुधः॥
भेस१.१५.६
धर्मैषणां तृतीयां तु समापद्येत मानवः।
अवश्यमाधिगन्तव्या देहभेदे वरा गतिः॥
भेस१.१५.७
प्राणाद्यनुपरोधेन तस्माद्धर्मं चरेद्बुधः।
त्रिवर्गानुपरोधेन तत्प्राप्तिर्हि नरे हिता॥
भेस१.१५.८
इत्येतास्सम्मता लोके व्याख्यातास्तिस्र एषणाः।
यथोक्तास्ताः प्रयुञ्जानः परत्रेह च मोदते॥
भेस१.१५.९
उपस्तम्भास्तु चत्वारो यदाहारश्चतुर्विधः।
शरीरे च बलं चैव मलं तेभ्यः प्रजायते॥
भेस१.१५.१०
शरीरमात्मनो मर्म मलमात्मबलं पुनः।
रोगास्तस्यातिवृद्ध्यां च वातपित्तकफात्मकाः॥
भेस१.१५.११
मलं तु रोगो भवति वैषम्यं धातुभिर्गतैः।
मलाच्चाप्येति वैषम्यं तस्मात्तमभिनिर्हरेत्॥ इत्याह भगवानात्रेयः।
इति भेले पञ्चदशोऽध्यायः॥


॥षोडशोऽध्यायः॥[सम्पाद्यताम्]

अथातो वातकलाकलीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.१६.१
कतमोऽभ्यधिको दोषो न्यूनश्चैवेति तत्वतः।
कृष्णात्रेयं पुरस्कृत्य कथाश्चक्रुर्महर्षयः॥
भेस१.१६.२
वातं तत्राधिकं कश्चित्प्राहान्यमुपहन्ति यः।
यावत्तिष्ठति वातो हि देही तावत्तु जीवति॥
भेस१.१६.३
स हि गर्भाशये शुक्लं विस्रंसयति योषितः।
वातः स्त्रिया रजो हन्ति वन्ध्या भवति तेन सा॥
भेस१.१६.४
न स्त्रियः पुरुषा वापि वन्ध्यास्सन्तीह जन्मना।
आशये शीतलो वापि वातश्शुष्केन्द्रियस्तथा॥
भेस१.१६.५
वातः सदिन्द्रियो वापि वातो हीनेन्द्रियस्तथा।
आलोकितं निमिषितं यच्च किंचिद्विचेष्टितम्॥
भेस१.१६.६
अशीतिश्चामया न्य़्णां नावातात्संभवन्ति हि।
वाताद्धि कुब्जाः कुणिनः खंजा गृध्रसिनस्तथा॥
भेस१.१६.७
हीनाङ्गा ह्यधिकाङ्गाश्च भवन्त्यन्ये च तद्विधा।
स्थितिः प्राणभृतां चैव सरितां चैव निःस्वनाः॥
भेस१.१६.८
पृथिव्याश्चलनं चैव वातादेव प्रवर्तते।
वातेन धूमो भवति धूमादभ्रं प्रजायते॥
भेस१.१६.९
अभ्राद्विमुच्य्ते वारि बीजानां सम्भवस्ततः।
उल्कानिपातः स्तनितं विधुतारागणस्य च॥
भेस१.१६.१०
विद्युतां च बलं चैव वातादेव प्रवर्तते।
अग्निर्ज्वलति वातेन पुण्यानां हविषां पतिः॥
भेस१.१६.११
स्रवन्ति चापगास्तेन पृथिवीं प्लावयन्ति च।
वायुस्तत्राधिको देवः प्रभवस्सर्वदेहिनाम्॥
भेस१.१६.१२
योन्यां रेतः प्रसिक्तं च वायुना युज्यते गुणैः।
एष पित्तं कफं चैव हन्यादन्यतरं तयोः॥
भेस१.१६.१३
आदाय कुपितो वायुः देहे विप्रतिपद्यते।
एवं व्यानमुदानं च समानं च प्रचक्षते॥
भेस१.१६.१४
देहे बहुविशेषित्वादपानं प्राणमेव च।
ऊर्ध्वगोऽत्राप्युदानः स्याद् व्यानस्तिर्यग्विवृद्धिकृत्॥
भेस१.१६.१५
प्राणो न्यस्यत्यपानं तु प्रवर्तयति देहिनाम्।
समानो धारणश्चैव संगृह्णाति स देहिनाम्॥
भेस१.१६.१६
इन्द्रियाणि मनश्चैव भूतात्मानं च सम्मतः।
विशेषस्त्वपरो वायुरपान इति संज्ञितः॥
भेस१.१६.१७
शोषणश्चरणश्चैव तथा विचरणः स्मृतः।
वायुः पञ्चसु भूतेषु भूतं परममुच्यते॥
भेस१.१६.१८
तानि वायुनिबद्धानि वायुस्सर्वत्र सर्वदा।
मूत्रेन्द्रियपुरीषाणां वायोरुत्सर्ग एव च॥
भेस१.१६.१९
पाचनाच्चैव भुक्तस्य कर्मापानस्य शिष्यते।
प्राणः प्रीणाति भूतानि प्राणो जीव इति स्मृतः॥
भेस१.१६.२०
व्यानाच्छरीरचेष्टा च निमेषोन्मेषणानि च।
यच्चान्यदूर्ध्वगं जन्तोस्तदुदानस्य चेष्टितम्॥
भेस१.१६.२१
क्षवथुं हिक्कितं कासमुच्छ्वासं भाषणं तथा।
गुदमाध्मापयत्येष देहं यस्स च सर्वशः॥
भेस१.१६.२२
एषु प्रतिष्ठितो वायुरपान इति संज्ञितः।
इत्येभिरीदृशैश्चान्यैर्हेतुभिस्तत्त्वदर्शिभिः।
भूतेभ्योऽभ्यधिकं वातं लक्षयाम शरीरिणाम्॥ इत्याह भगवानात्रेयः।
इति भेले षोडशोऽध्यायः॥


॥सप्तदशोऽध्यायः॥[सम्पाद्यताम्]

अथातो दशप्राणायतनीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.१७.१
चतुर्विधमथो भुक्तं दशधा प्राणमृच्छति।
ऊष्मस्वेदशकृन्मूत्रैस्तथा वातादिभिस्त्रिभिः॥
भेस१.१७.२
स्त्रियाः स्तन्येन शुक्लेन शोणितेन च वाप्यथ।
इत्येभिर्दशभिः प्राणः स्थिरीभवति देहिनाम्॥
भेस१.१७.३
ईहतेऽमृतवद्वृत्तिं वातपित्तकफैस्त्रिभिः।
आहारसाम्ययोगाद्धि वैषम्ये व्याधयः स्मृताः॥
भेस१.१७.४
इह द्वौ भिषजौ विद्यात् ज्ञश्चैवाज्ञश्च देहिनाम्।
तत्र ज्ञः सूत्रवान्यः स्यात्सूत्रार्थेन विचक्षणः॥
भेस१.१७.५
पञ्चाश्रयान्कषायांश्च भोजनं चतुराश्रयम्।
चतुःश्रेष्ठांस्तथा स्नेहानामयांश्चातुराश्रयान्॥
भेस१.१७.६
चूर्णप्रदेहान्विविधान् यवागूश्चाष्टधा स्मृताः।
द्वादशान्नानि पथ्यानि प्रायश्चित्तद्वयं तथा॥
भेस१.१७.७
त्रिंशतं चोपनाहानां स्थानेष्वष्टासु तत्त्वतः।
सूत्रस्थानं चिकित्सा च त्रिंशत्रिंशदिहोच्यते॥
भेस१.१७.८
अष्टौ निदानान्युक्तानि विमानानि तथैव च।
शारीराण्यष्ट गात्राङ्गप्रत्यङ्गं यत्र वर्णितम्॥
भेस१.१७.९
सिद्धयो द्वादश प्रोक्तास्तथा कल्पेन्द्रियाणि च।
एतद्विंशशतं प्रोक्तं मूलिन्यो यत्र षोडश॥
भेस१.१७.१०
एकोनविंशतिर्ज्ञेयाः फलिन्यः क्षीरिणीत्रयम्।
आयुर्ज्ञानमरिष्टिभ्यः साध्यासाध्यचिकित्सिताः॥
भेस१.१७.११
रोगज्ञानं निदानेभ्यो देशकालौ विमानतः।
शारीराद्धातुसंघातं प्रकृतिं धातुसात्म्यताम्॥
भेस१.१७.१२
अन्यदेवंविधं यच्च शास्त्रे किंचिदपि श्रुतम्।
भिषग्यो वै विजानाति सज्ञः अज्ञं तु निबोधत॥
भेस१.१७.१३
योऽन्नकाले यवागूं तु सूपकाले तथा रसम्।
यूषकालेऽथ मांसं तु शोध्येषु स्तम्भनानि च॥
भेस१.१७.१४
विरेचनीये वमनं निरूह्ये चानुवासनम्।
विपर्ययेण योऽन्यद्वा कुरुते सोऽज्ञ उच्यते॥
भेस१.१७.१५
योगेन विद्यामादद्यात्तस्मात्तत्त्वदिदृक्षया।
यथा तमसि दीपः स्यात्तथा शास्त्रं प्रकाशकृत्॥ इत्याह भगवानात्रेयः।
इति भेले सप्तदशोऽध्यायः॥


॥अष्टादशोऽध्यायः॥[सम्पाद्यताम्]

अथातोऽन्नरक्षीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.१८.१
गान्धारभूमौ राजर्षिर्नग्नजित्स्वर्गमार्गदः।
संगृह्य पादौ पप्रच्छ चान्द्रभागं पुनर्वसुम्॥
भेस१.१८.२
न च स्त्रीभ्यो न चास्त्रेभ्यो न भृत्येभ्योऽस्ति मे भयम्।
अन्यत्र विषयोगेभ्यः सोऽत्र मे शरणं भवान्॥
भेस१.१८.३
एवमुक्तस्तथा तस्मै महर्षिः पार्थिवर्षये।
विषयोगेषु विज्ञानं प्रोवाच वदतां वरः॥
भेस१.१८.४
विषेण सह संसृष्टमन्नपानं चतुर्विधम्।
यानि दुष्टानि रूपाणि तानि मे गदतः शृणु॥
भेस१.१८.५
प्रतिकूलमिवाभाति फेनिलं विप्लुताकृति।
शुक्लं भवति यत्क्षिप्रं नैनं श्लिष्यन्ति मक्षिकाः॥
भेस१.१८.६
धूमश्चास्य गतः श्यामो रक्तः कृष्णोऽथ पीतकः।
प्रादुर्भवति तद्विद्याद् दुष्टमन्नं प्रचक्षणः॥
भेस१.१८.७
नीलपीतासिता राज्यो भन्तीन्द्रायुधोपमाः।
मध्ये मद्येषु सर्वेषु ये चान्ये पानसंश्रयाः॥
भेस१.१८.८
अनुलेपनदोषे तु त्वगस्य बहुलीभवेत्।
सर्वव्यापत्तिमाप्नोति क्लिद्यते मांसमेव च॥
भेस१.१८.९
माल्यं तु श्यावपुष्पं स्यान्म्लानं कालं च दृश्यते।
चूर्णयोगावकीर्णं तु रेणुनेवावृतं भवेत्॥
भेस१.१८.१०
रोमाणि परिशीर्यन्ते केशभूमिश्च धूप्यते।
कूर्चस्पर्शश्च दुःखः स्याज्जटिलाचास्य मूर्धजाः॥
भेस१.१८.११
वेदनां चैव कण्डूं च कुरुते दुष्टमञ्जनम्।
अश्रु स्रवति नात्यर्थमन्धकारं च पश्यति॥
भेस१.१८.१२
धूमदोषे विरेकः स्यादत्यर्थं शिरसश्च रुक्।
परिदाहश्च भेदश्च गन्धज्ञानमसाधु च॥
भेस१.१८.१३
न सम्यग्वेत्ति च रसानरणीव च मथ्यते।
इति धूमस्य रूपाणि सर्वाण्येतानि लक्षयेत्॥
भेस१.१८.१४
दुष्टे वाससि लिङ्गानि सूचीभिरिव तुद्यते।
दह्यते मुञ्चति स्वेदं मूर्छत्यप्यवलीयते॥
भेस१.१८.१५
दुष्टे त्वाभरणे दाहः स्वेदः कण्डूश्च जायते।
कुरुते गात्रवैवर्ण्यं स्वयं चाभाति निष्प्रभः॥
भेस१.१८.१६
दुष्टमासनमास्थायी विमूढो विपतेन्नरः।
सीदत्युच्छूनवृषणो न चोत्थातुं सही भवेत्॥
भेस१.१८.१७
ऊरू चास्य प्रवेपेते सदोषासनसेवया।
दुष्टे तु शयने रूपं सुप्तिः कण्डूयते भृशम्॥
भेस१.१८.१८
स्वेदश्च विषमत्येति रोमकूपैः समन्ततः।
तुद्यमानः पुनः शय्यां मन्यते जन्तुभिर्वृताम्॥
भेस१.१८.१९
सुदिने दुर्दिने चापि दुर्दिने सुदिनं तथा।
स्याद् भूश्च दुष्टपर्यन्ता दुष्टच्छत्रनिषेवणात्॥
भेस१.१८.२०
कुरुते रूपवैवर्ण्यं प्रदुष्टश्मश्रुवर्धकः।
शिशिरे मुञ्चति स्वेदं ग्रीष्मे शीतातुरो भवेत्॥
भेस१.१८.२१
प्रवेपते प्रव्यथते गद्गदा च सरस्वती।
स्यन्दनौ च विवर्णौ च परुषौ दशनच्छदौ॥
भेस१.१८.२२
उपानहौ यदा दुष्टौ तदा कण्डूः प्रजायते।
प्रस्विद्यते पादतलं तथा चिमचिमायते॥
भेस१.१८.२३
अथेह विषपीतस्य विषदग्धस्य वा पुनः।
दिग्धविद्धस्य वा राजन् रूपाणीमानि लक्षयेत्॥
भेस१.१८.२४
गात्रोद्वेष्टनमाप्नोति वेपते व्यथते नरः।
कम्पते चापि कण्ठोऽस्य निःस्वनं ष्ठीवते मुहुः॥
भेस१.१८.२५
जिह्वा चास्य जडीभूता शूलैरिव च तुद्यते।
व्याहर्तुं च न शक्नोति शर्म चैव न विन्दति॥
भेस१.१८.२६
केशान्तं शीर्यते चास्य नखाः श्यामीभवन्ति च।
अङ्गुष्ठाङ्गुलयः कृष्णाः हस्तपादतलैः सह॥
भेस१.१८.२७
शरीरं पाण्डुतामेति विषार्तस्यैव देहिनः।
सोऽकृत्यकरतामेति भग्नो रथ इवाहवे॥
भेस१.१८.२८
तस्मात्कुर्यात्क्रियां वैद्यः षोडशागदकोविदः।
ह्रिया युक्तः कुलीनश्च धर्मज्ञो दीर्घदर्शनः॥
भेस१.१८.२९
अर्थाश्चास्य प्रतिष्ठेया विधिवत्संभृता गृहे।
चिकित्सितेषु या प्रोक्ता विषप्रशमने हिता॥ इत्याह भगवानात्रेयः।
इति भेलेऽष्टादशोध्यायः॥

॥एकोनविंशोऽध्यायः॥[सम्पाद्यताम्]

अथातो विधिशोणितीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.१९.१
विधिना शोणितं जातं सेवमानस्य वारुणीम्।
प्रदुष्यति विदाहेन ततो रोगाय कल्पते॥
भेस१.१९.२
सर्वं मद्यमचक्षुष्यमपौरुष्यं तथैव च।
उपहन्ति बलं न्य़्णामनायुष्यं च कीर्त्यते॥
भेस१.१९.३
यस्तु तद्भजते युक्त्या न तं व्याधिः प्रसज्जते।
अतिपीतं च तद्विद्धि तत्राहृद्यं बलाय न॥
भेस१.१९.४
न नक्तं तु, पिबेद्युक्त्या पानं तस्माद्विचक्षणः।
बलवर्णकरं ह्येतदारोग्यकरणं परम्॥
भेस१.१९.५
स्नेहपाने तथा मात्रावस्तिकर्मणि चाप्यथ।
क्षारे च लवणे चैव न सुरा प्रातिषिध्यते॥
भेस१.१९.६
बृंहणं नेदृशं किज्चिद्यथान्नसहिता सुरा।
तां तु रूक्षां विशेषेण नातिमात्रं समाचरेत्॥
भेस१.१९.७
वातेन श्लेष्मणा चैव सम्प्रदुष्टां सुशीतला।
विशोष्य दीपयत्येषा ग्रहणीं वै शरीरिणाम्॥
भेस१.१९.८
यस्य कोष्ठगतो वायुर्दुःखमुत्पादयेद् भृशम्।
उदावर्तं सहृद्रोगं वातगुल्ममथापि च॥
भेस१.१९.९
अथवा सर्वगात्रेषु मारुतः प्रत्यवस्थितः।
युक्तां प्रसन्नां पिबतः स क्षिप्रमुपशाम्यति॥
भेस१.१९.१०
हन्त्यासवः कफं पित्तं पुरीषं च भिनत्त्यथ।
मधु पित्तमरिष्टस्तु वातार्तिं शमयत्यथ॥
भेस१.१९.११
वस्तिः शुद्ध्यति पानेन शर्करा चापि भिद्यते।
तेजो बलं च हर्षश्च युक्त्या पानेन वर्धते॥
भेस१.१९.१२
कामं दीपयते स्वादुर्बृंहणो न विपद्यते।
तस्मात्पानगुणान् बुद्ध्वा यथायोगं समाचरेत्॥ इत्याह भगवानात्रेयः।
इति भेले एकोनविंशोऽध्यायः॥


॥विंशोऽध्यायः॥[सम्पाद्यताम्]

अथातोऽर्थेदशमूलीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.२०.१
अर्थ इत्याह हृदयं तस्मिन् धमनयो दश।
ऊर्ध्वं चतस्रो द्वे तिर्यक् चतस्रश्चाप्यधः क्रमात्॥
भेस१.२०.२
ताभ्यो मूलसिरास्तिर्यग्भिद्यन्ते नैकधा सिराः।
तस्मात्तदर्थविज्ञानं स्मृतियोगं च मानसम्॥
भेस१.२०.३
हृदो रसो निःसरति तस्मादेति च सर्वशः।
सिराभिर्हृदयं वैति तस्मात्तत्प्रभवाः सिराः॥
भेस१.२०.४
हृदि प्राणाश्च चक्रस्थाः विमाने कर्णिका यथा।
मर्माभिघातं तेनात्र सहते हृदये न तु॥
भेस१.२०.५
पुण्डरीकस्य संस्थानं कुम्भिकायाः फलस्य च।
एतयोरेव वर्णं च विभर्ति हृदयं नृणाम्॥
भेस१.२०.६
यथा हि संवृतं पद्मं रात्रावहनि पुष्यति।
हृत्तथा संवृतं स्वप्ने विवृतं जाग्रतः स्मृतम्॥
भेस१.२०.७
आपो महारसा विद्यादन्नं चैव महौषधम्।
महाप्रलेपनं तत्र तेजश्चैव महत्परम्॥
भेस१.२०.८
रसानामुदकं योनिरन्नं वृत्तिः परा स्मृता।
विक्लिन्नमुपसन्धत्ते पुनः कायं शरीरिणाम्॥
भेस१.२०.९
सूर्यांशं धूममित्याहुर्यतोऽभ्रप्रभवः स्मृतः।
अभ्राद्वर्षं ततोऽन्नानि, तस्मात्तेजो महत्परम्॥
भेस१.२०.१०
स्वेदश्चास्रं च मूत्रं च फेनं चाम्यन्तरं मलम्।
अवश्यायहिमाम्बूनि बाह्मानि परिचक्षते॥ हृदयो ... ... ... ... ... ... ... ... ।
... ... ... ... ... ... ... ... ... ...

इति भेले विंशोऽध्यायः॥


॥एकविंशोऽध्यायः॥[सम्पाद्यताम्]

... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... विरेच्यांश्चैव मानवान्।
आस्थाप्याननुवास्यांश्च वातव्याधींश्च सर्वशः॥
भेस१.२१.१
विरूक्षयेदतिस्निग्धं कृमिकोष्ठिनमेव च।
रूक्षस्तम्भ्यान् प्रमेहांश्च कफरोगांश्च सर्वशः॥
भेस१.२१.२
वामयेच्छलेष्मकासे च प्रतिश्याये च मानवान्।
हृद्रोगे चैव कुष्ठे च सर्वश्लेष्मामयेषु च॥
भेस१.२१.३
वोरेचयेद्धि कुष्ठानि ज्वरान्विस्फोटकानि च।
दाहं विचर्चिकां चैव वातव्याधींश्च सर्वशः॥
भेस१.२१.४
अन्वासयेत्कटीपृष्ठपार्श्वरोगान् विचक्षणः।
उद्वेष्टनं च गुल्मं च वातव्याधींश्च सर्वशः॥
भेस१.२१.५
आस्थापयेद्धि गुल्मांश्च मूत्राघातोदराणि च।
अपस्मारांश्च कुष्ठं च वातव्याधींश्च सर्वशः॥
भेस१.२१.६
स्वेदयेत हनुस्तम्भमायाममपि चार्दितम्।
पार्श्वरोगं च गुल्मं च वातव्याधींश्च सर्वशः॥
भेस१.२१.७
स्तम्भयेद्रक्तपित्तं च विसर्पं च विचक्षणः।
दाहं विस्फोटकांश्चैव पित्तव्याधींश्च सर्वशः॥
भेस१.२१.८
इति पित्तकफोत्थान्वै विद्यादामाशयात्मकान्।
पक्वाशयसमुत्थांश्च वातरोगान्विनिर्दिशेत्॥
भेस१.२१.९
वामयेद्वमनीयांस्तु समीक्ष्यामाशयान्नरान्।
विरेचयेद्विरेच्यांस्तु तथा पक्वाशयाश्रयान्॥ इत्याह भगवानात्रेयः।
इति भेले एकविंशोऽध्यायः॥


॥द्वाविंशोऽध्यायः॥[सम्पाद्यताम्]

अथातः स्वेदाध्यायं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.२२.१
संकरं प्रस्तरं सेकं नाडीं द्रोणिं जलानि च।
उदकोष्ठं कुटिं चैव स्वेदमष्टविधं विदुः॥
भेस१.२२.२
पाषाणभस्मसिकतातुषपांसुबुसानि च।
अजाविगोपुरीषाणि प्रावाराणि प्रवातिकाः॥
भेस१.२२.३
पयांस्यम्लानि धान्यानि गिरिसाधारणानिच।
सर्वाणि मद्यमांसानि लवणानि तथैव च॥
भेस१.२२.४
विधिवद्योजयेत्स्वेदे कालेयागरुरूषितान्।
भिषग् बलाबलं दृष्ट्वा बलिनो दुर्बलानपि॥
भेस१.२२.५
कुथकम्बलकौशेयैः प्रवेण्यजिनकादिभिः।
किटिजैराविजैर्वस्त्रैः प्रच्छाद्य स्वेदयेन्नरान्॥
भेस१.२२.६
स्पर्शसौख्यमवैवर्ण्यं स्वेदोऽङ्गेषु च मार्दवम्।
शीताभिनिर्गमश्चैव सम्यक् स्विन्नस्य लक्षणम्॥
भेस१.२२.७
पित्तप्रकोपो दाहश्च तृष्णा मूर्छा विलायनम्।
स्वेदद्वेषोऽङ्गरागश्चेत्यतिस्विन्नस्य लक्षणम्॥
भेस१.२२.८
उद्वेष्टनं दारुणता गुरुत्वं स्तब्धगात्रता।
मरुतश्चाप्रसिद्धिश्च न तत्स्विन्नस्य लक्षणम्॥
भेस१.२२.९
अस्विन्ने स्नेहनं कृत्वा ततः स्वेदैरुपाचरेत्।
स्नेहपूर्वप्रयुक्तो हि स्वेदो जयति मारुतम्॥
भेस१.२२.१०
शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः।
नमयन्ति यथान्यायं किं पुनर्जीवतो नरान्॥
भेस१.२२.११
अतिस्विन्ने विशेषेण कारयेच्छीतलां क्रियाम्।
अथवा शीतलैर्वाथ क्षीरैः सिंचेद् घृतेन वा॥
भेस१.२२.१२
पिपासुं वा न शक्तं च गर्भिणीं कुक्षिरोगिणीम्।
सर्वांश्च पित्तजान् व्याधीन् कः स्वेदैः समुपाचरेत्॥
भेस१.२२.१३
ये स्वेदाः पूर्वमुद्दिष्टास्तानप्येकैकशः शृणु।
बिल्वाग्निमन्थश्योनाकं काश्मरीं पाटलां तथा॥
भेस१.२२.१४
यवान् कुलुत्थान् कोलानि स्थाल्यामासिच्य साधयेत्।
यवपाकानि विज्ञाय सुखोष्माण्यवतारयेत्॥
भेस१.२२.१५
ततोऽभ्यक्तस्य विधिवत्स्वेदनीयस्य देहिनः।
गात्रं गात्रैकदेशं वा सुखोष्णैश्छादयेच्छनैः॥
भेस१.२२.१६
ततः प्रच्छादयेद् भूयः कौशेयाजिनकाम्बलैः।
सङ्करस्त्वेष विज्ञेयः स्वेदानामग्र्य उच्यते॥
भेस१.२२.१७
एतान्यन्यानि च भिषक् स्वेदद्रव्याणि संहरेत्॥
भेस१.२२.१८
प्रकीर्य तानि शयने कल्बलेनावगुण्ठितम्।
स्वभ्यक्तं शाययेज्जन्तुं स्वेदं प्रस्तरमादिशेत्॥
भेस१.२२.१९
वसातैलघृतक्षीरमूत्रमस्त्वम्लकाञ्जिकैः।
सुखौष्णैः सेचयेत्स्वेद्यं सेकः स परिकीर्तितः॥
भेस१.२२.२०
नाडीं गजकराकारां त्रिहस्तां तादृशीं तथा।
धान्याम्लद्रवपूर्णायां धान्यां सन्धाय लेपयेत्॥
भेस१.२२.२१
तां त्रिहस्तां समाहृत्य स्वभ्यक्ताङ्गस्य देहिनः।
प्रच्छन्नगात्रस्य तु तां नाडीमुद्घाटयेद् भिषक्॥
भेस१.२२.२२
नाडीस्वेदः समाख्यातः यावत्प्रस्वेदनादिति।
कण्ठावगाहामच्छिद्रां तावदेवायतां समाम्॥
भेस१.२२.२३
द्रोणिं पायसनिष्क्वाथकृसरक्षीरपूरिताम्।
कृत्वा तस्यां सुखोष्णायां स्वभ्यक्तं वातरोगिणम्॥
भेस१.२२.२४
ज्ञात्वावगाहयेत्तावद्यावत्स्वेदोद्गमो भवेत्।
तप्तैः पात्रयुतैर्वापि शुद्धैर्वा सलिलैर्भिषक्॥
भेस१.२२.२५
स्वम्यक्तगात्रस्य ततः सलिलस्वेदमाचरेत्।
ईदृशैरेव सलिलैः कटाहे चार्धपूरिते॥
भेस१.२२.२६
प्रवेश्य स्वेदयेत्स्वेद्यमुदकोष्ठः प्रकीर्तितः।
सुलिप्तां संवृतद्वारां यन्त्रितां कारयेत्कुटिम्॥
भेस१.२२.२७
ह्रस्वागारमितां हृद्यां शिलास्तीर्णतलां दृढाम्।
तास्याश्चुल्ल्यौ च कर्तव्ये अधस्तात्पार्श्वसंवृते॥
भेस१.२२.२८
तत्र स्थाल्यौ प्रतिष्ठाप्य सर्वतः परिबृंहयेत्।
स्थाल्यौ तप्ते कुटिश्चापि यदा तेनोष्मणा तदा॥
भेस१.२२.२९
सर्वाङ्गरोगिपुरुषः प्रविशेत्स कुटिं ततः।
स्वभ्यक्तगात्रः सुस्विन्नः क्षौमप्रावृतलोचनः॥
भेस१.२२.३०
ततः प्रवेशयेत्तत्र शीताम्बुमणिकां शुभाम्।
क्लान्तः शीताम्वुना तत्र स्पर्शसौख्यमवाप्नुयात्॥
भेस१.२२.३१
कुटिस्वेद इति ज्ञेयः सद्यो रोगनिवर्तकः।
स्वेदोऽग्निहीनः क्षुत्तृष्णाभयं क्रोधस्तथाहवः॥
भेस१.२२.३२
निवातमध्वसन्तापौ गुरुप्रावरणं तथा।
स्वेद्यास्तु वातकफजा वातजाः कफजास्तथा॥
भेस१.२२.३३
रोगास्तत्रोष्णलवणस्निग्धाम्लैरेव वातजाः।
करीषबुसपाषाणबाष्पाङ्गारैः कफात्मकाः।
स्वेद्यास्तु स्निग्धरूक्षाभ्यां ज्ञात्वा व्याधिबलाबलम्॥ इत्याह भगवानात्रेयः।
इति भेले द्वाविंशोऽध्यायः॥


॥त्रयोविंशोऽध्यायः॥[सम्पाद्यताम्]

अथातो गाढपुरीषीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.२३.१
गाढं पुरीषं ग्रथितं शुस्कं वातसमीरितम्।
तेनास्यापिहितं स्रोतः श्वयथुं कुरुते गुदे॥
भेस१.२३.२
तस्यैव कुपितो वायुरूर्ध्वं जन्तोः प्रपद्यते।
पार्श्वे श्रोण्यां च पृष्ठे च हृदये चावतिष्ठते॥
भेस१.२३.३
शिरश्चाप्यवसंगृह्य विकारान् कुरुते बहून्।
बाधिर्यं तिमिरं चापि प्रतिश्यायमथापि च॥
भेस१.२३.४
अथ पित्तं कफं वा स्वात्स्थानाच्च्यावयतेऽनिलः।
ततोऽस्य धावतो दोषैर्दुष्यन्ति च रसादयः॥
भेस१.२३.५
ततो ज्वरोऽस्य बलवान् पाण्डुत्वं चापि जायते।
श्वयथुश्च भवेदस्य ग्रहणी च प्रदुष्यति॥
भेस१.२३.६
तस्माद्दारुणकोष्ठस्तु गाढवर्चाश्च यो भवेत्।
रूक्षमन्नं परिहरेन्न चैनमवस्रंसयेत्॥
भेस१.२३.७
स्निग्धान्यन्नानि हृद्यानि मांसानि विविधानि च।
कुलुत्थरसयुक्तानि प्रदद्याद्देहिने सदा॥
भेस१.२३.८
आस्थापनं वातहरं तैलं चाप्यनुवासनम्।
न भवन्ति विकारा हि नरस्य प्रतिकारिणः॥
भेस१.२३.९
अथ यः कलिलश्च स्यात्प्रजाकामश्च मानवः।
उत्कृष्टतारदारिश्च कर्महिनस्तथैव च॥
भेस१.२३.१०
अथ स्थूलकृशश्चैव वैद्यमानि च यो भवेत्।
तथैकलोकोयतिकां मोत्रियान्न च तद्विजान्॥
भेस१.२३.११
सभंगान् सुकुमारांश्च गर्भिणीं तरुणि तदा।
दुर्दिलांश्च यदु प्राप्तान् कासिनः साति नारिणः॥
भेस१.२३.१२
पाण्डुराजैव कर्णं च सततं यश्च कासति।
पाययेच्च भिषक्तापैर्वमनं सविरेचनम्॥ इत्याह भगवानात्रेयः।
इति भेले त्रयोविंशोऽध्यायः॥


॥पञ्चविंशोऽध्यायः॥[सम्पाद्यताम्]

अथातः ऋतुविभागीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.२५.१
सुश्रोता नाम मेधावी चान्द्रभागमुवाच ह।
न पातव्यमरोगेण सुखकामेन रेचनम्॥
भेस१.२५.२
अनीरितानां दोषाणां हरणं न प्रशस्यते।
अवस्थितानां च्यवनं प्राणापायाय मे मतम्॥
भेस१.२५.३
यथा व्यालाग्निशस्त्राणां स्पर्शः स्वस्थे तथौषधम्।
तस्मान्न पाययेत्स्वस्थं प्रकृत्यर्थं हि धीयते॥
भेस१.२५.४
अचाक्षुषत्वात्कोष्ठस्य पीतं स्वस्थेन चौषधम्।
याति नैकान्ततः सिद्धिं तस्मात्स्वस्थं न पययेत्॥
भेस१.२५.५
इत्येतद्वचनं श्रुत्वा प्रत्युवाच पुनर्वसुः।
इह दोषविशेषेण नरो भैषज्यमाचरेत्॥
भेस१.२५.६
वाते तु बृंहणं कुर्यात्पित्ते तु परिशोधनम्।
कफे प्रर्च्छदनं साधु सन्निपाते विरेचनम्॥
भेस१.२५.७
वातातपविशुष्काश्च ये च कर्मपरा नराः।
अध्वयानविशुष्काश्च तान्न संशोधयेद्भिषक्॥
भेस१.२५.८
तैलमाषांस्तिलघृतं फाणितं पिष्टमोदकान्।
आजं गव्यमथौरम्रं मत्स्यान्मांासवं दधि॥
भेस१.२५.९
अत्यश्ननोऽतिपिबतः सदा च स्वपतो दिवा।
दोषा घोराः प्रकुप्यन्ति तेषां साधु विरेचनम्॥
भेस१.२५.१०
किञ्चान्यद्विधिवत्काले स्निग्धस्विन्नेन भेषजम्।
मात्रावल्लघु पीतं हि न कदाचिद्विपद्यते॥
भेस१.२५.११
नाचरेदतिमात्रं हि बहुशोऽपि पिबेन्मृदु।
कषायेण तु दातव्यं कषायैः साधु सिध्यति॥
भेस१.२५.१२
यथा ह्यन्नमकाले स्याद्विषं कालेऽमृतं भवेत्।
तथौषधमकाले स्यात् विषं कालेऽमृतं भवेत्॥
भेस१.२५.१३
तस्माद्यदा वै वसुधा तृप्ता पुष्पवती भवेत्।
तदा प्रावृषि संप्राप्तवमनादीनि कारयेत्॥
भेस१.२५.१४
मध्यचारी यदा सूर्यो धातूनुत्क्लेशयेन्मृणाम्।
तदा वसन्ते संप्राप्ते वमनादीनि कारयेत्॥
भेस१.२५.१५
तदा वर्षासु दातव्यं यदा ह्येष ऋतुः सुखः।
ऋतवो युक्तशीतोष्णाः प्रशस्यन्ते हि कर्मसु॥
भेस१.२५.१६
हैमन्तेप्यन्यथा कार्यो ग्रीष्मे भवति चान्यथा।
वर्षासु चाप्यन्यथा च दुर्दिने चाप्यतोऽन्यथा॥
भेस१.२५.१७
तस्मिंस्तस्मिंश्च काले वै भवेत्कार्योऽन्यथान्यथा।
सात्म्यासात्म्यं मनुष्याणामन्यथा परिवर्तते॥
भेस१.२५.१८
त्र्यहं तु दापयेत् स्नेहं देये स्नेहविरेचने।
नातिशीते न चात्युष्णे पेयं स्नेहविरेचनम्॥
भेस१.२५.१९
तृष्णाबाधा भवत्युष्णे शीते तु व्यपलीयते।
अथ ग्रीष्मे तु सन्तप्तैर्धातुभिर्देहिनो भवेत्॥
भेस१.२५.२०
अतियोगः पिपासा च तदा तस्मान्न दापयेत्।
हेमन्ते चापि तद्वीर्याद्दोषा दारुणतां गताः॥
भेस१.२५.२१
भवन्त्यकाले स्नेहस्य तदाप्यथ न दापयेत्।
इह भैषज्यमुष्णं हि विक्रियामेति कालतः॥
भेस१.२५.२२
मन्दी भवति वैतत्तु ग्रीष्मे तैक्ष्ण्यं नियच्छति।
यन्मैथुनाच्छुक्लवाहा वस्तिसक्थित्रिकादि च॥
भेस१.२५.२३
हृदयं दुर्बलं चास्य समुदीर्णश्च मारुतः।
ब्रह्मचारी भवेत्तस्मात् पैत्तिकान् भजतेऽन्यथा॥
भेस१.२५.२४
मुखपाकं मदं मूर्छां प्रलापं पाकविभ्रमौ।
दाहं पिपासां सन्तापं वक्त्रस्याक्ष्णोश्च पीतताम्॥
भेस१.२५.२५
धूमाभिदूषिते पित्तविकारा ये प्रकीर्तिताः।
भ्रमः क्लमः प्रमोहश्च मदो मूर्च्छा विकम्पनम्॥
भेस१.२५.२६
सन्तापोऽभ्यन्तरे चैव रसस्थानगते स्मृताः।
अरुषां विवृतानां वा स्फोटानां वा प्रपाचनम्॥
भेस१.२५.२७
रक्तस्थानगते विद्यात्पित्ते वैवर्ण्यमेव च।
मांसस्थानगते स्वेदः सदनं चोपजायते॥
भेस१.२५.२८
मेदोधातुगते विद्यात् प्लावनं पीतमूत्रता।
अस्थिमज्जगते शोषो नखदन्तविवर्णते॥
भेस१.२५.२९
मेढ्रेमुष्कपरीतापः क्लैब्यं वाप्यथ शुक्लगे।
बलवद्विग्रहाद् भारात् पीडनाल्लङ्घनादपि॥
भेस१.२५.३०
मैथुनस्यातियोगाच्च जायते मनसः क्लमः।
त्रासोद्वेगात्प्रतीघाताद्रूक्षपानान्नसेवनात्॥
भेस१.२५.३१
इत्येभिरीदृशैश्चान्यैर्हेतुभिः कुपितोऽनिलः।
विकाराञ्जनयेच्छवासकासविष्टम्भसंज्ञकान्॥
भेस१.२५.३२
शूलवेपनमाध्मानं निस्तोदं सुप्ततां तथा।
स्फोटनं चालनं रौक्ष्यं वेष्टनोत्क्षेपणानि च॥
भेस१.२५.३३
शोषणं कार्ष्ण्यविष्यन्दौ विश्लेषस्तु परः स्मृतः।
द्विविधा व्याधयः प्रोक्ताः शरीरे वातसंभवाः॥
भेस१.२५.३४
कोष्ठानुसारिणस्तत्र ज्ञेयाः सर्वाङ्गरोगिणः।
पक्षाङ्गरोगिणश्चैव ज्ञेयाः सर्वाङ्गसारिणः॥
भेस१.२५.३५
शूलवेपनसंकोचगात्रस्तम्भैश्च पीडिताः।
अस्थिग्रहगृहीताश्च सर्वे सर्वाङ्गरोगिणः॥
भेस१.२५.३६
तत्र पादतलाङ्गुष्ठजङ्घाजानूरुवंक्षणैः।
गुदमेढ्रकटीपृष्ठयोनिगर्भाशयैरपि॥
भेस१.२५.३७
यकृत्प्लीहांसहृदयपार्श्ववक्षोभुजान्तरैः।
ग्रीवागण्डहरूशङ्खनासाक्षिदशनच्छदैः॥
भेस१.२५.३८
ललाटकर्णसीमन्तैः प्रत्येकमनिलार्दितैः।
दूयद्भिर्विकलैश्चापि ज्ञेयास्त्वेकाङ्गरोगिणः॥
भेस१.२५.३९
इत्येतन्मूलमुद्दिष्टं रोगाणां च यथाविधि।
भूयस्त्विदमधिष्ठानं प्रतिरोगं प्रतीक्षत॥ इत्याह भगवानात्रेयः।
इति भेले पञ्चविंशोऽध्यायः॥


॥षड्विंशोऽध्यायः॥[सम्पाद्यताम्]

अथातः अष्टोदरीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.२६.१
अथाष्टावुदराणीह मूत्राघातांश्च निर्दिशेत्।
षट् काचांल्लिङ्गनाशांश्च जानीयात्तिमिराणि च॥
भेस१.२६.२
हिक्काश्वासांश्च कासांश्च खालित्यं पलितानि च।
शिरोरोगार्बुदान् गुल्मान् छर्दीनथ भगन्दरान्॥
भेस१.२६.३
उन्मादान्मुखरोगांश्च स्थानान्यनशनस्य च।
ग्रन्थींश्च पञ्च पञ्चैव कुष्ठान्यष्टौ विनिर्दिशेत्॥
भेस१.२६.४
हृद्रोगान् पाण्डुरोगांश्च सास्रावान् श्वयथूंस्तथा।
अभिष्यन्दानधीमन्थान्क्लीबस्थानानि चाप्यथ॥
भेस१.२६.५
अक्षिरोगानपस्मारान् रक्तरोहिणिकां तथा।
पिपासाश्चोपदंशांश्च चतुष्काणि विनिर्दिशेत्॥
भेस१.२६.६
पृष्ठरोगज्वरार्शांसि रक्तपित्तव्रणौ तथा।
द्वौ द्वौ तिस्रस्तु विद्रध्यस्त्वलज्यः शोणितानि च॥
भेस१.२६.७
रेतसां श्लीपदं चार्म सप्त सप्त विनिर्दिशेत्।
प्रमेहान् कृमिजातीश्च योनिदोषांश्च विंशतिम्॥
भेस१.२६.८
तत्रोदराण्यथाष्टौ तु व्याख्यातानि चिकित्सिते।
निदानेनैव रोगास्तु ये नोक्तास्तान्निबोध मे॥
भेस१.२६.९
अरुणा नीलपीताश्च हरितश्वेतलोहिताः।
काचं च लिङ्गनाशं च तिमिराणि च निर्दिशेत्॥
भेस१.२६.१०
वातः पित्तं कफो वापि यस्य शीर्षं विधावति।
विदहन्नेष मूलानि स्रोतांसि समभिद्रुतः॥
भेस१.२६.११
अध्वना वातिभाराद्वा देहिनां वार्धकेन वा।
खालित्यं पलितं वापि पञ्चधैव भवत्यथ॥
भेस१.२६.१२
वातजं पित्तजं चैव श्लेष्मजं मांसजं तथा।
अर्बुदं मेदसा चैव पञ्चमं निर्दिशेत्पृथक्॥
भेस१.२६.१३
वातजं पित्तजं चैव श्लेष्मजं सन्निपातजम्।
आगन्तुकं पञ्चमं च मुखरोगं प्रचक्षते॥
भेस१.२६.१४
उष्ट्रग्रीवं परिस्रावि शम्बूकावर्तमेव च।
उन्मार्गं शतयोनिं च तद्वद्विद्याद्भगन्दरम्॥
भेस१.२६.१५
छर्दयत्यथ वातेन पित्तेन च कफेन च।
आहारादमनोज्ञाच्च सन्निपाताच्च पञ्चमम्॥
भेस१.२६.१६
प्रतिच्छन्ने तु हृदये वातपित्तकफैर्नरः।
अरसादमनोज्ञाच्च भोज्यमन्नं न सेवते॥
भेस१.२६.१७
वातजं पित्तजं चैव श्लेष्मजं सन्निपातजम्।
सिराग्रन्थिं विजानीयात्पञ्चमं स्नायुतो भिषक्॥
भेस१.२६.१८
वातजं पित्तजं चैव् कफजं सन्निपातजम्।
अभिष्यन्दं विजानीयादधिमन्थं च बुद्धिमान्॥
भेस१.२६.१९
शुक्लोपरोधाद्दौर्बल्याद् ध्वजभङ्गात्तथैव च।
शुक्रक्षयाच्च चत्वारि क्लैब्यस्थानानि निर्दिशेत्॥
भेस१.२६.२०
वातजं पित्त्जं चैव श्लेष्मजं सन्निपातजम्।
अक्षिरोगं विजानीयान्मानवानां चतुर्विधम्॥
भेस१.२६.२१
पूयान्मूत्राच्च शुक्लाच्च सन्धानाच्चापि देहिनाम्।
उपदंशं विजानीयाद्भिषगेवं चतुर्विधम्॥
भेस१.२६.२२
रक्तास्रावं कफस्रावं पूयास्रावं तथैव च।
तोयास्रावं च जानीयाद्भिषगेवं चतुर्विधम्॥
भेस१.२६.२३
वातजां पित्तजां चैव श्लेष्मजां सन्निपातजाम्।
पिपासामपि जानीयाद्भिषगेवं चतुर्विधाम्॥
भेस१.२६.२४
वातजां पित्तजां चैव श्लेष्मजां सन्न्पातजाम्।
विद्याद्रोहिणिकां चैव भिषगेवं चतुर्विधाम्॥
भेस१.२६.२५
मांसार्म त्वथ मेदोऽर्म प्रस्तार्यर्म तथैव च।
स्नायवर्म प्रविजानीयाद् भिषगेवं चतुर्विधम्॥
भेस१.२६.२६
द्वौ ज्वरौ दाहशीतौ तु शारीरागन्तुजव्रणौ।
शुष्कार्शः शोणितार्शश्च तथा द्वे चार्शसी विदुः॥
भेस१.२६.२७
पृष्ठरोगावुपक्षारिक्षारिणौ च विनिर्दिशेत्।
बाह्यायामान्तरायामौ विद्यादाक्षेपकौ तथा॥
भेस१.२६.२८
मेदसः स्नायुतो मांसादलज्यस्तिस्र एव च।
वातात्पित्तात्कफाच्चैव तिस्रो विद्रधयः स्मृताः॥
भेस१.२६.२९
वराहाकारणं चैव रक्तं कांस्यवकं तथा(?)।
वातात्पित्तात्कफान्मांसान्मेदसः स्नायुतोऽपि च॥
भेस१.२६.३०
सिराजमर्म जानीयात्सप्तमं देहिनां भिषक्।
सप्त सात्म्यानि जानीयात्तत्र षट् स्युर्यथा रसैः॥
भेस१.२६.३१
सर्वसात्म्यं यदेव स्याद्वरं सात्म्यं तदुच्यते।
मृज्जा जरायुजा लेवा रूपका बहुरूपकाः॥
भेस१.२६.३२
परिसर्पा विसर्पाश्च गात्रजा नेत्रजास्तथा।
रोमदा रोहिताश्चैव कष्टा दारुणकास्तथा॥
भेस१.२६.३३
शिरोजा दन्तजाश्चैव श्लेष्मजाः शकृदाश्रयाः।
लोहिताः कालकाश्चैव तथैव शतमातृकाः॥
भेस१.२६.३४
विद्याद्विंशतिरित्येताः कृमिजातीश्च देहिनाम्।
यथा पतत्रिः शीघ्रोऽपि स्वां छायां नातिवर्तते।
वातादेर्नातिवर्तन्ते बहवोऽपि तथाऽऽआमयाः॥ इत्याह भगवानात्रेयः।
इति भेले षड्विंशोऽध्यायः॥


॥सप्तविंशोऽध्यायः॥[सम्पाद्यताम्]

अथातोऽन्नपानविधीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.२७.१
अथोदकं क्लेदयति लवणं स्यन्दयत्यपि।
अथ पाचयति क्षारः क्षीरं वै जीवयत्यपि॥
भेस१.२७.२
स्नेहयत्यथ सर्पिश्च पिशितं बृंहयत्यपि।
माषा बहुमलाश्चापि श्लीपदं जनयेद्दधि॥
भेस१.२७.३
त्वचं प्रसादयेत्तैलं स्नेहनाय च कल्पते।
पिण्याकः कुरुते ग्लानिं तक्रं च क्षपयत्यपि॥
भेस१.२७.४
मधु चाप्यथ सन्धत्ते जर्जरीकुरुते सुरा।
हरेणुभिर्मसूरैश्च भृशं वायुः प्रकुप्यति॥
भेस१.२७.५
कफकृन्मूलकं विद्यात्सर्षपं वातकोपनम्।
लशुनं वातशमनं पित्तश्लेष्मकरं च तत्॥
भेस१.२७.६
नातिश्लेष्मकरं हिङ्गु षण्ड्यं क्षारः करोति च।
सर्वं तिक्तमवृष्यं तु विद्यादन्यत्र कूलकात्॥
भेस१.२७.७
अवृष्यं पैष्टिकं सर्वं यवगोधूमवर्जितम्।
दाडिमामलकादन्यत्सर्वमम्लं तु पित्तलम्॥
भेस१.२७.८
यवकान् दारुणान्विद्यात्पृथुकान्शालिषष्टिकान्।
निर्दिशेन्मृगतुल्यांस्तु तथानूपान्मृगद्विजान्॥
भेस१.२७.९
तथैकान्तहितांश्चापि जांगलान्मृगपक्षिणः।
इत्येतत्संग्रहेणोक्तं भोज्यं विस्तरतः शृणु॥
भेस१.२७.१०
पिप्पली शृङ्गिबेरं च पलाण्डुलशुनानि च।
मूलकं कृश्णगन्धा च पर्णासं कालमानकम्॥
भेस१.२७.११
सुरसं सुमुखं चैव चटकं च फणिज्जकम्।
रसेन कटुकं विद्यात् विपाके मधुरं तथा॥
भेस१.२७.१२
किराततिक्तो निम्बश्च केतुकाशकठिल्लकाः।
कूलकं च सवेत्राग्रं तिक्तं मधुविपाकि च॥
भेस१.२७.१३
प्लक्षकाश्मर्यमधुकं स्वादु पाके परूषकम्।
खर्जूरं नालिकेरं च प्रियालं तद्विधानि च॥
भेस१.२७.१४
मधुकं च बिसं चैव जीवनीयानि यानि च।
रसे पाके च मधुरं तद्विद्याद् विविधं च यत्॥
भेस१.२७.१५
बसानि कटुका बिम्बी सर्वं चैवेक्षुवैकृतम्।
रसे पाके च मधुरं तद्विद्यात्त्रिविधं च यत्॥
भेस१.२७.१६
न्यङ्कुं चरसमुद्रांश्च सृमरान्खड्गसूकरान्।
अन्यांश्चानूपजान् विद्यान्मधुरान् रसपाकतः॥
भेस१.२७.१७
कादम्बान्सैन्धवान्हंसान्सारसाञ्श्चेतवारणम्।
काचाक्षान्मल्लिकाक्षांश्च तथा पुष्करसायकान्॥
भेस१.२७.१८
दिपवेप्नि(?) शरारींश्च विक्रमान् सुमनामुखान्।
नन्दिमौद्गल्यकांश्चापि कालकान् कृष्णपुच्छकान्॥
भेस१.२७.१९
आज्ञातान् डुण्डुभांश्चैव मण्डूकान् छुटुमल्लिकान्।
हर्ष्यात्तु सप्तवारादि तथा गर्भभतासकान्(?)॥
भेस१.२७.२०
सर्वांश्च वारिजान्विद्यान्मधुरान् रसपाकतः।
प्रियङ्गुश्च प्लाङ्गश्च बलाकाश्च खगास्तथा॥
भेस१.२७.२१
ये चान्येऽप्यौदका भौम्याः खेचराश्च खगाः स्मृताः।
नक्रांश्च शिशुमारांश्च वल्लकीमत्स्यकच्छपान्॥
भेस१.२७.२२
अन्यांश्च वारिजान्विद्यान्मधुरान्रसपाकतः।
प्रियङ्गुश्च विनक्ताश्च नीलिकाशालिषष्टिकाः॥
भेस१.२७.२३
परूषकाश्च नीवाराः कोद्रवा ब्रह्मभूतिकाः।
इत्येतद्धान्यजातं वै यच्चान्यदपि तद्विधम्॥
भेस१.२७.२४
रसेन मधुरं तद्वै विपाके कटुकं विदुः।
मुद्गान् मसूरांश्चणकान् कुलुत्थांश्च कलायकान्॥
भेस१.२७.२५
रसेन मधुरांस्तान्वै विपाके कटुकान्विदुः।
रोहीं श्वदंष्ट्रानुष्ट्रांश्च शरभान्मृगमातृकान्॥
भेस१.२७.२६
अथान्यान्मधुरास्वादान्विपाके कटुकान्विदुः।
खराश्चाश्चतरामेषा ये चान्ये तादृशा मृगाः॥
भेस१.२७.२७
रसेन मधुरांस्तान्वै विपाके कटुकान्विदुः।
हरीतान् स्तोककांश्चैव कपोतान् शुकशारिकाः॥
भेस१.२७.२८
चटकान् भृङ्गराजांश्च तथा पिप्पलकानपि।
गोधापुत्रांस्तैलपाकान्ये चान्ये प्रतुदाः खगाः॥
भेस१.२७.२९
ये चान्ये मधुरास्तान्वै विपाके कटुकान्विदुः।
अनुपानानि वक्ष्यामि येषु यानि हितानि वै॥
भेस१.२७.३०
आजे कषायशीतस्तु हायने चोदकं तथा।
अनुपानं विधातव्यं वाराहे खदिरोदरम्॥
भेस१.२७.३१
दधि चुक्रं च धान्यानामनुपानं प्रदापयेत्।
शीरोदकं बिसग्रन्थिसेवनानां तथासवान्॥
भेस१.२७.३२
तद्वारिजानां सत्वानामनुपानं प्रदापयेत्।
त्रिफलां शीधुमार्द्वीकं कदम्बपनसोदकम्॥
भेस१.२७.३३
सुरद्रुजम्बूप्लक्षाणां फलस्कन्धासवान्पृथक्।
मुद्गादिसूपधान्यानामनुपानं प्रदापयेत्॥
भेस१.२७.३४
बिल्वपिण्डककल्कानां कपित्थस्याथवासवान्।
गुहाशयानां सत्वानामनुपानं प्रदापयेत्॥
भेस१.२७.३५
न्यग्रोधादिगणस्याथ स्कन्धशाखाफलासवान्।
विष्किराणां विहङ्गानामनुपानं प्रदापयेत्॥
भेस१.२७.३६
ककुभस्यानुपानं तु स्निग्धानां चापि वारुणीम्।
चतुर्विधस्य स्नेहस्य तोयमुष्णं प्रदापयेत्॥
भेस१.२७.३७
द्राक्षाकाश्मर्यखर्जूरयववाट्यांस्तथासवान्।
अश्वगन्धकषायं तु वारुणीमण्डमेव च॥
भेस१.२७.३८
सुखेन पाचयत्यन्नं रोचयत्यपकर्षति।
अनुपानं मनुष्याणां सात्म्यतां च प्रयच्छति॥ इत्याह भगवानात्रेयः।
इति भेले सप्तविंशोऽध्यायः॥


॥अष्टाविंशोऽध्यायः॥[सम्पाद्यताम्]

अथातो भोजनविधीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस१.२८.१
यद् भक्षयति भुङ्क्ते वा विधिवच्चापि मानवः।
अन्यच्च किञ्चित्पिबति तत्सर्वं षड्रसान्वितम्॥
भेस१.२८.२
पथ्यापथ्यमबोधार्यं, तस्माद्भोज्यं शरीरिणाम्।
रसतो वीर्यतश्चैव प्रवक्ष्याम्यत उत्तरम्॥
भेस१.२८.३
शालयो मधुराः सर्वे विपाके कटुकाः स्मृताः।
रक्तशालिर्वरस्तेषामरौक्ष्याल्लेखनो न च॥
भेस१.२८.४
दीर्घशूको महा शालिः सुगन्धिः शालिकामुखः।
कृष्णव्रीहिः काञ्चनकः लोपार्क्षः शीतभीरुकः॥
भेस१.२८.५
हायनो लोध्रशालिश्च रक्तशालिगुणान्वितः।
पूर्वपूर्वो लघुतरः पथ्यः किंच भवत्यतः॥
भेस१.२८.६
सुगन्धका गन्धवन्तो गन्धेन मदयन्त्यथ।
रौक्ष्याच्च कलमं विद्यादधिकं वै विशेषतः॥
भेस१.२८.७
कषायस्त्वधिकः किंचित् षष्टिकाः शालिभिः समाः।
महादोषाः सुगुरवः पाटलाव्रीहयस्तथा॥
भेस१.२८.८
यवका नित्यमहिताः कृष्णव्रीहिप्रमोदकाः।
वीर्योष्णा मधुरास्ते वै सकषायाश्च कीर्तिताः॥
भेस१.२८.९
बहूरूक्षाः कषायाश्च कोरदूषाः सवारुणाः।
प्रसाधिकाः कं गवश्च श्यामाकाश्च समा रसैः॥
भेस१.२८.१०
उद्दालकास्तु संख्या ताः कषाया मधुरा रसे।
ग्रीष्मे तु सेवितास्ते वै कोपयन्त्याशु मारुतान्॥
भेस१.२८.११
यवास्त्वतियवाश्चैव गोधूमाश्च समा रसे।
मधुराः सकषायाश्च श्लेष्मला लोहिता नृणाम्॥
भेस१.२८.१२
अथ वेणुयवा नातिकषाया मधुरा रसे।
कफं पित्तं च मेदश्च कोपयन्त्यतिसेविताः॥
भेस१.२८.१३
कृष्णा मुद्गा महामुद्गाः हरिताश्चिरजीविनः।
मकुष्ठकाश्च तेऽप्युक्ताः कषाया मधुरा रसे॥
भेस१.२८.१४
हरेणवो मसूराश्च सतीनाश्च तथाढकी।
कुलुत्थाश्च विसेषेण कषायमधुरा रसे॥
भेस१.२८.१५
सर्वे तु लवणक्षारा दीपनीयाः प्रकीर्तिताः।
अवृष्याश्च विशेषेण दुर्बलानां हिता न च॥
भेस१.२८.१६
श्वदंष्ट्रा यावनालश्च द्वौ क्षारौ शीतलौ(?) स्मृतौ।
शुक्लं विनिहतस्तौ तु दृष्टिं चापि शरीरिणाम्॥
भेस१.२८.१७
नवनीतं तथाम्लं तु घृतं वै मधुरं स्मृतम्।
सर्वं दुग्धमभिष्यन्दि गव्यं तेभ्यो विशिष्यते॥
भेस१.२८.१८
वाजी भवति दुग्धेन बलं चात्युपजायते।
सञ्जीवनं सम्भवति सर्वं क्षीरमुदाहृतम्॥
भेस१.२८.१९
रसे पाके च मधुरं तैलं सर्वं प्रकीर्तीतम्।
यस्मिन्यस्मिन्विशेषस्तु यो यस्तस्मिन्निबोध तम्॥
भेस१.२८.२०
तैलमेरण्डबिल्वानामुष्णं वातहरं स्मृतम्।
इत्युक्तान्युष्णवीर्याणि य दन्यच्छीतमेव तत्॥
भेस१.२८.२१
विभीतकानां तैलं तु कषायमधुरं रसे।
कफपित्तहरं प्रोक्तं केश्यं चैव शरीरिणाम्॥
भेस१.२८.२२
अतः करञ्जबीजानां विज्ञेयानि तथैव च।
तैलानि रसतो विद्यात्तिक्तानि मधुराणि च॥
भेस१.२८.२३
पित्तश्लेष्मकरं तिक्तमिङ्गुदीतैलमुच्यते।
सकषायं मधूकानां कफपित्तानिलापहम्॥
भेस१.२८.२४
कौलकं मधुरस्पर्शं रसतोऽथ विपाकतः।
यस्मिन्यस्मिन्विशेषस्तु यो यस्तं मे निबोधत॥
भेस१.२८.२५
पलालजातं छ्वाकमतीव गुरु सम्मतम्।
महादोषमभिष्यन्दि सुखं बाह्योपघातकम्(?)॥
भेस१.२८.२६
छत्राकं गोमयोद्भूतं कषायमधुरं रसे।
कषायं वेणुच्छत्राकं मारुतं कोपयेन्नृणाम्॥
भेस१.२८.२७
सर्वं तु शाकं मधुरं रसतोऽथ विपाकतः।
यस्मिन्यस्मिन्विशेषस्तु यो यस्तस्मिन्निबोध तम्॥
भेस१.२८.२८
मारुतं कोपयेन्नृऋणां विष्टम्भित्वादलावुकम्।
श्लेष्माणं वर्धयेच्चापि विपाकेन बलीयसा॥
भेस१.२८.२९
कूष्माण्डं श्लेष्मलं विद्यान्नवं शरदि भक्षितम्।
तदल्पदोषं भवति परिसंवत्सरोषितम्॥
भेस१.२८.३०
कषायमधुरं विद्यात्खादिरं चातिसारि च।
तिक्तं दीपनसंसृष्टं निर्दोषं तच्छरीरिणाम्॥
भेस१.२८.३१
कोशातकी करीराणां शतावर्याश्च तिक्तकम्।
कषायं नालिकायाश्च तिक्तः पुष्करवर्तकः॥
भेस१.२८.३२
वेत्राग्रं तिक्तकं निम्बं तिलशाकं च शीतिका।
कुरूटिका कुनटिका तथा गन्धर्वहस्तकः॥
भेस१.२८.३३
तथा नाडीकलायश्च पञ्चाङ्गुल्यस्तथैव च।
एतानि विद्याच्छाकानि तिक्तानि रसपाकतः॥
भेस१.२८.३४
स तीनशाकं मधुरमीषतिक्तोपसंहितम्।
कोविदारस्य शाकं तु पूर्वेणैव समं मतम्॥
भेस१.२८.३५
वार्ताकीनां फलं तिक्तं कटुकेनोपसंहितम्।
ग्रहणीं दीपयत्येतच्छलेष्माणं विनिहन्ति च॥
भेस१.२८.३६
कठिल्लबकुलौ चैव मधुरौ शुक्रशो धनौ।
हतस्तन्द्रां च वातं च नित्यमेव विषूचिकाम्॥
भेस१.२८.३७
अलम्बुसः सकटुकस्तिक्तको वातकोपनः।
भिनत्ति कफसङ्घातं विष्टभ्याथ विपच्यते॥
भेस१.२८.३८
लाङ्गशाकं तु मधुरं लवणेनोपसंहितम्।
कटुकं बहुदोषं च तथा पक्षनिकाचनम्(?)॥
भेस१.२८.३९
कटुको दीपनीयश्च विषहा स्वस्तिको रसे।
कषायमधुरा चिल्ली चुञ्चुर्मधुरशीतलः॥
भेस१.२८.४०
भार्ङ्गी माषश्च मधुरौ रसतः परिकीर्तितौ।
मुद्गशाकं सतिक्तं तु सक्षारश्चैव वास्तुकः॥
भेस१.२८.४१
निष्पावशाकं मधुरं माषशाकं तथा स्मृतम्।
चन्द्राकशाकमम्लं तु कषायस्तु गवेधुकः॥
भेस१.२८.४२
तुन्नकं प्रपुनाटश्च जीवन्ती सुनिषण्णकम्।
मधुराण्यल्पदोषाणि तथैव तु कुटिञ्जकः॥
भेस१.२८.४३
पिण्डालुशाकं च नवं तुण्डिकेरफलानि च।
मधुराण्यल्पदोषाणि संसृष्टकटुकानि च॥
भेस१.२८.४४
उपोदका तु मधुरा लवणेनोपसंहिता।
इत्येतन्निर्दिशेच्छाकं यदन्यदपि तद्विधम्॥
भेस१.२८.४५
आजं गव्यमथौरभ्रं वाराहं चैव यत्स्मृतम्।
हस्तिमांसं च मधुरमुष्ट्रं गुरु च निर्दिशेत्॥
भेस१.२८.४६
विद्यादेवंगुणं चैव सकषायं च माहिषम्।
खड्गमांसमभिष्यन्दि सस्वादुलवणं रसे॥
भेस१.२८.४७
कुतमायुर्मयूरश्च गोकर्णो गवयो गुरुः।
सृमरश्चमरो न्यङ्कुर्मधुरा गुरवश्च ते॥
भेस१.२८.४८
ऋश्यश्च मृगमाता च तुङ्गश्च हरिणी मृगः।
पारावत...............................॥

इति भेले अष्टाविंशोऽध्यायः॥

इति भेलसंहितायां सूत्रस्थानं समाप्तम्॥