भेलसंहिता सिद्धिस्थानम्
॥सिद्धिस्थानम्॥
॥प्रथमोऽध्यायः॥
[सम्पाद्यताम्]... ... ... ... ... ... ... ...
भेस८.१.१
रिक्तकोष्ठस्य वमने मारुतः सम्प्रकुप्यति।
प्लीहा प्रचलति स्थानात्तस्माद्दोषान्निहन्त्यसून्॥
भेस८.१.२
पेयां मण्डं पिबेत्तस्मात्सुस्निग्धं लवणान्वितम्।
सौम्ये तिथौ मुहूर्ते च नक्षत्रे करणे शुभे॥
भेस८.१.३
शुक्लवस्त्रः शुचिर्भूत्वा ह्यर्चयित्वा द्विजन्मनः।
ततोऽस्मै वमनं देयं पूजयित्वा भिषग्वरान्॥
भेस८.१.४
प्राङ्मुखेन तु पातव्यं निवाते शरणे शुभे।
न चास्य कुर्यादायासं मण्डं भोज्यं प्रशस्यते॥
भेस८.१.५
विधिरेष भवेत्कार्यो वमने च विरेचने।
निष्क्वाथस्य त्रयः प्रस्थाः मागधास्तु कनीयसि॥
भेस८.१.६
ज्येष्ठे तु पुरुषे ज्येष्ठं वमनं न कनीयसि।
चतुःप्रस्थं तु मध्यं स्याज्ज्येष्ठं प्रस्थास्तु ते नव॥
भेस८.१.७
कनीयो मध्यमं ज्येष्ठं त्रिविधानि पृथक् पृथक्।
अपीतपूर्वं वमनं विरेको वापि येन तु॥
भेस८.१.८
कनीयसा प्रमाणेन परीक्षेत च बुद्धिमान्।
त्रिपलं श्रेष्ठमाख्यातं कनीयस्तु पलं भवेत्॥
भेस८.१.९
मध्यं द्वे पले विद्यादिति मे निश्चिता मतिः।
विषकुष्ठहता ये तु कासश्वासप्रपीडिताः॥
भेस८.१.१०
तरुणा बलवन्तश्च वामयेदुत्तमेन तान्।
मध्यमे प्राणवयसि मध्यमं तत्र कारयेत्॥
भेस८.१.११
कनीयसि कनीय्स्तु तथा प्राणे कनीयसि।
विपरीतं प्रयुञ्जानो न रोगान्विजयिष्यति॥
भेस८.१.१२
उपद्रवान्वा जनयेदातुरं वा विनाशयेत्।
अङ्कोलस्याथ निम्बस्य निष्क्वाथं साधु योजयेत्॥
भेस८.१.१३
सर्पिषा भेषजैश्चेमैः सुखोष्णं शीतमेव वा।
मदनस्य फलं पिष्ट्वा देवदालीफलैस्सह॥
भेस८.१.१४
निम्बपत्राणि सार्द्राणि सैन्धवं मरिचानि च।
सैन्धवेन समायुक्तं तक्रमण्डेन वा पुनः॥
भेस८.१.१५
बन्धुजीवोऽथ पिप्पल्यो मदनं सर्पिरेव च।
तत्कषायेण संयुक्तं प्रधानं वमनौषधम्॥
भेस८.१.१६
मदनं बन्धुजीवश्च शतपुष्पा शुकानना।
सैन्धवेन समायुक्तं प्रधानं वमनौषधम्॥
भेस८.१.१७
मदनस्य च पत्राणि पुष्पाणि सफलानि च।
सैन्धवं बन्धुजीवश्च राजकोशातकानि च॥
भेस८.१.१८
एवं प्रच्छर्दनो योगः प्रधानं वमनौषधम्।
श्रेष्ठश्च विषयुक्तेषु कासश्वासे तु पूजितः॥
भेस८.१.१९
यदा तु वमनं पीतं न छर्दयति मानवम्।
किं तत्र भेषजं कुर्यात् कथं वैद्यः समाचरेत्॥
भेस८.१.२०
दर्शयेत्तस्य तु भिषक् पालितानि पृथक् पृथक्।
मक्षिकाकेशचूर्णानि तच्च मण्डे नियोजयेत्॥
भेस८.१.२१
एतेन तु प्रयोगेण क्षिप्रं छर्दयते नरः।
एषा क्रिया समाख्याता दुर्बलानां विशेषतः॥
भेस८.१.२२
हृदयं पृष्ठदेशं च विगृह्य च वमेन्नरः।
तथास्य चलति स्थानात्पीतं ह्यस्मिन्नुपक्रमे॥
भेस८.१.२३
कफं हि पूर्वं वमति ततः पित्तमनन्तरम्।
पित्तस्थान्ते भवेद्वातः ततो वमति शोणितम्॥
भेस८.१.२४
लक्षणानि तु वक्ष्यामि सम्यग्वान्तस्य देहिनः।
लघुरामाशये शुद्धिर्हृच्छुद्धिश्चाप्यतन्द्रिता॥
भेस८.१.२५
क्षुत्पिपासे यथाकालं स्रोतःशुद्धिर्यथाग्निता।
श्लैष्मिकाणां च सर्वेषां व्याधीनां विनिवर्तनम्॥
भेस८.१.२६
न च वैरस्यमास्यस्य सम्यग्वान्तस्य लक्षणम्।
हृल्लासोऽथ सिराहर्षो मन्या कण्ठश्च दीर्यते॥
भेस८.१.२७
अत्युद्गारस्तमः कासो हिक्का श्वासः स्वरक्षयः।
वातज्वरः शुष्कवमिस्तृष्णा शूलो ह्यनिद्रता॥
भेस८.१.२८
आस्यहृच्छोषणं चैव क्षताच्च रुधिरागमः।
इन्द्रियाण्युपरुध्यन्ते मूर्च्छा चास्योपजायते॥
भेस८.१.२९
हनुस्तम्भश्च कम्पश्च ह्यतिवान्ते प्रवर्तते।
ऊर्ध्वरक्ती प्रमेही च गुल्मी चार्शोभगन्दरी॥
भेस८.१.३०
उदरी पाण्डुरोगी च हृद्रोगी कृमिकोष्ठकः।
अपस्मारी विषार्तश्च शोफस्तम्भश्च वातिकः॥
भेस८.१.३१
विषमज्वरवीसर्पी वातशोणितिकश्च यः।
अर्शोऽतिविषमाग्निश्च कुष्ठश्वयथुपीडितः॥
भेस८.१.३२
उदावर्ती तथोन्मादी पिप्लुव्यङ्गनिपीडितः।
पित्तश्लेष्मसमुत्थाना व्याकुला ये च धातवः॥
भेस८.१.३३
सन्निपातसमुत्थाश्च योनिदुष्टाश्च याः स्त्रियः।
शूलार्ता रक्तगुल्मिन्यो याश्च सौम्येन पीडिताः॥
भेस८.१.३४
अस्निग्धारक्तताङ्गानां लाघवं गात्रमार्दवम्।
हृदयोद्गारमूत्राणां शुद्धिर्वातानुलोमतः॥
भेस८.१.३५
प्रसन्नस्वरवर्णत्वं बुभुक्षा व्याधिनिग्रहः।
श्लेष्मणा च स्वयं स्थानं सुविरिक्तस्य लक्सणम्॥
भेस८.१.३६
उदरं वातसम्पूर्णं कण्डूमण्डलसम्भवः।
पिटकाजन्म गात्रेषु भ्रमणं ज्वरसम्प्लवः॥
भेस८.१.३७
हृदयावेष्टनं वह्नेः सादस्स्यात्कुक्षिगौरवम्।
कृच्छ्रविण्मूत्रवातत्वं दुर्विरिक्तस्य लक्षणम्॥
भेस८.१.३८
पार्श्वशूलं गुदभ्रंशः शाखासंकोचसम्भ्रमः।
वातवृद्धिर्विसंज्ञत्वं गुदशूलस्तृषा क्लमः॥
भेस८.१.३९
शून्यता जर्जरीभावस्ततश्चिमचिमायनम्।
रूपाण्यतिविरिक्तानां शूलः शोफश्च जायते॥
भेस८.१.४०
गौरवे दुर्विरिक्तस्य यदजीर्णं तदुल्लिखेत्।
सात्म्यं तु पेयं भैषज्यं निरूहो गाढवर्चसाम्॥
भेस८.१.४१
रूपाण्यतिविरिक्तस्य हरेत्क्षीरघृतादिभिः।
स्नेहैश्चैवोपनाहैश्च साभ्यङ्गैश्च भिषग्जयेत्॥
... ... ... ... ... ... ... ... ...
॥द्वितीयोऽध्यायः॥
[सम्पाद्यताम्]... ... ... ... ... ... ... ...
भेस८.२.१
अवपीडानुवासाश्च धूमाः प्रधमनानि च।
चतुर्विधं नस्यमाहुः पृथक्त्वेन तु मे शृणु॥
८.भेस२.२.। गलग्रहो रोहिणिका शङ्खकोऽर्धावभेदकः।
प्रतिश्यायश्च कासश्च श्वासो हिक्का बिडालिका॥
भेस८.२.३
मुखरोगो ह्यपस्मारो दन्ततालुकविद्रधी।
दन्तपुप्पुटकश्चैव पूतिनासामुखं तथा॥
भेस८.२.४
अभिष्यन्दाश्च चत्वारस्तन्द्रा ये नेत्रसंभवाः।
सार्बुदाश्चाप्यधीमन्थाः नासार्शश्च भगन्दराः॥
भेस८.२.५
उपजिह्वा गलग्रन्थिः कण्ठशालूक एव च।
गलशुण्ठिकालसके कार्यं शीर्षविरेचनम्॥
भेस८.२.६
मरिचानि विलङ्गानि पिप्पल्योऽथ फणिर्जकः।
क्षवको यवनश्चैव शिग्रुबीजं मयूरकः॥
भेस८.२.७
हिङ्गु सौवर्चलं भार्ङ्गी नक्तमालफलानि च।
ज्योतिष्मती शृङ्गिबेरं शैरीषं बीजमेव च॥
भेस८.२.८
एतच्छीर्षविरेकार्थमुक्तव्याधिषु योजयेत्।
अवपीडेऽथ धूमे वा द्वन्द्वशः सर्वशोऽपि वा॥
भेस८.२.९
एतैरेवौषधगणैस्तैलं धीरो विपाचयेत्।
अविमूत्रेण संयुक्तं श्रेष्ठं शीर्षविरेचनम्॥
भेस८.२.१०
धूमं च सर्वगन्धानां नतकुष्ठविवर्जितम्।
धूमवर्तिं पिबेत्तावच्छ्रेष्ठं शीर्षविरेचनम्॥
भेस८.२.११
शिरसस्तु विरेकेण कर्णजिह्वाक्षिनासिकाः।
विशुध्यन्ते यथादोषं मुखनासावहेषु च॥
भेस८.२.१२
विवृतिः खेषु विशदा न च श्लेष्मा प्रसिच्यते।
सम्यक् शिरसि संशुद्धे वेदना चोपशाम्यति॥
भेस८.२.१३
व्याधौ च भङ्गचूर्णत्वं(?) स्रोतसां सुविशुद्धता।
तथैवातिविशुद्धेषु स्रोतस्स्वायस्यते शिरः॥
भेस८.२.१४
दन्तचाले हनुस्तम्भे मन्यास्तम्भे शिरोग्रहे।
वाधिर्ये कर्णशूले च कर्णमूलाच्च भेदने॥
भेस८.२.१५
अपतन्त्रे केशसादेऽप्रबोधे दृष्टिविभ्रमे।
हिक्कानेत्रमुखास्रावे स्वरभेदेऽथ वाग्ग्रहे॥
भेस८.२.१६
गण्डोष्ठमुखचालेषु काचेषु तिमिरेषु च।
दौर्गन्ध्ये मुखनासाभ्यां पालित्ये वाप्यकालजे॥
भेस८.२.१७
ऊर्ध्वजत्रुगता ये च रोगास्सम्परिकीर्तिताः।
नस्यकर्म हितं तेषां तैलं वा सर्पिरेव वा॥
भेस८.२.१८
जीवकर्षभकौ द्राक्षा पिप्पल्यो मधुकं बला।
प्रपौण्डरीकं मेदा च शर्करा नीलमुत्पलम्॥
भेस८.२.१९
निदिग्धिका चांशुमती नीलिका सैन्धवं वचा।
रास्ना श्वदंष्ट्रा मञ्जिष्ठा बृहती सपुनर्नवा॥
भेस८.२.२०
एभिः पलसमैः सिद्धं तैलं वा यदि वा घृतम्।
चतुर्गुणेन पयसा नस्यं तत्परमुच्यते॥
भेस८.२.२१
नस्यतः स्नेहपानेन कृष्णरोमा दृढेन्द्रियः।
अवलीपलितव्यङ्गः चक्षुष्माञ्जायते नरः॥
भेस८.२.२२
कर्णाक्षिनासावक्त्राणां स्नेहेनावृत्य तर्पणम्।
इन्द्रियाणां विमुक्तत्वं प्रसादः स्वरवर्णयोः॥
भेस८.२.२३
स्रोतसां विमलत्वं च ज्ञेयं संस्निग्धलक्षणम्।
अस्निग्धलिङ्गं रूक्षत्वं स्रोतसां रिक्तता तथा॥
भेस८.२.२४
शिरसो गुरुदुःखत्वं स्रोतसां स्नेहपूर्णता।
कर्णतालूपदेहश्च नस्यातिस्निग्धलक्षणम्॥
भेस८.२.२५
नाजीर्णे नार्द्रशिरसि पन्थानं गन्तुमिच्छतः।
न पीतमात्रे पानीये ज्वरितस्य न दापयेत्॥
भेस८.२.२६
न मैथुनं गतवतः मद्यपीतस्य नैव च।
नातिभुक्तस्य नास्निग्धस्विन्नस्यानिर्वृतेस्तथा॥
भेस८.२.२७
सम्यङ् निरूढस्य नरुगुजा सम्यक् प्रशाम्यति।
यतो मूत्रपुरीषाम्यां वातो ह्यस्य निवर्तते॥
भेस८.२.२८
निरूढं तं भिषग्विद्यादनिरूढस्य लक्षणम्।
तथैव व्याधिराध्मानं शूलं विण्मूत्रनिग्रहः॥
भेस८.२.२९
पूर्णकुक्षित्वमानाहो दुर्निरूढस्य लक्षणम्।
निरूढस्य पुनर्यस्य शोणितं सम्प्रदुष्यति॥
भेस८.२.३०
अतीव तु निरूढस्य निष्पुरीषस्य मारुतः।
शूलेनावेष्ट्यमनस्य सर्वगात्राणि पीडयेत्॥
भेस८.२.३१
इति पञ्चविधं चोक्तं व्याख्यातं समुपाचरेत्।
पञ्चकर्मविधानज्ञो राजार्हो भिषगुच्यते॥
इत्याह भगवानात्रेयः।
इति भेले द्वितीयोऽध्यायः॥
॥चतुर्थोऽध्यायः॥
[सम्पाद्यताम्]अथातो दशव्यापदीयां वमनविरेचनसिद्धिं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस८.४.१
अधोभागोर्ध्वभागानि भेषजानि प्रयत्नतः।
कल्पयेन्मतिमान्वैद्यो विषशस्त्रनिभानि तु॥
भेस८.४.२
कटुतिक्तकषायाणि विदाहीनीतराणि च।
सूक्ष्माण्युष्णानि तीक्ष्णानि विष्यन्दीनि गुरूणि च॥
भेस८.४.३
तानि सम्प्राप्य हृदयं धमनीः प्रतिपद्य हि।
तिर्यगूर्ध्वमधश्चैव दोषान्निष्यन्दयन्त्यपि॥
भेस८.४.४
सूक्ष्माञ्छरीरावयवान् सौक्ष्म्यादनुसरिन्ति च।
विस्रावयन्ति धातूंश्च विमार्गौरपि देहिनाम्॥
भेस८.४.५
आनयन्तीव हृदयं दोषांस्तानतिमूर्च्छितान्।
आमाशयं पूरियित्वाह्यूर्ध्वभागभवांस्तथा॥
भेस८.४.६
एवमेव च बिष्यन्दीन्यापूर्यामाशयं पुनः।
अधोभागे प्रवर्तन्ते विकारेष्विह देहिनाम्॥
भेस८.४.७
विष्यन्दयन्ति दोषांश्च यावत्तिष्ठन्ति देहिनाम्।
संशोधयन्त्यतः पश्चादूर्ध्वं वा यदि वाप्यधः॥
भेस८.४.८
तेषां तु दुष्प्रयुक्तानां विभ्रान्तानां विधावताम्।
अयोगाच्चातियोगाच्च जायन्ते व्यापदो दश॥
भेस८.४.९
परिस्रावस्तथाध्मानं विबन्धो गुदनिःस्रवः।
हृद्रोगश्चैव शूलं च तथैव परिकर्तिका॥
भेस८.४.१०
जीवादानं शिरोरोगो दशमी च प्रवाहिका।
तासामेकैकतस्सिद्धिं व्यापदां तु निबोध मे॥
भेस८.४.११
अथैति पीतं वमनं तच्च तीक्ष्णतरं पिबेत्।
अनुपानान्न सिद्धिश्च संशोध्यास्थापयेन्नरम्॥
भेस८.४.१२
असिध्यति विरेकेऽपि भूयस्तमनुवासयेत्।
अस्मिन्नपि जरां याति त्र्यहादूर्ध्वं पिबेद् घृतम्॥
भेस८.४.१३
स्नेहस्वेदोपपन्नश्च लघु च प्रतिभोजितः।
विरेचनं च वमनं नरस्तीक्ष्णतरं पिबेत्॥
भेस८.४.१४
यदा विरेचनं पीतं वमनायोपपद्यते।
प्रयोग एवं वमने विरेकेऽपि च यः स्मृतः॥
भेस८.४.१५
स्नेहस्वेदविमुक्तं च क्रूरकोष्ठं च देहिनम्।
अजीर्णे चौषधं पीतमाध्यापयति मानवम्॥
भेस८.४.१६
लङ्घितस्य सुभक्तस्य रूक्षस्यानशनस्य च।
परिकर्तः परिस्रावः प्रलेपोऽस्वेदितस्य च॥
भेस८.४.१७
स्नेहस्वेदविमुक्तस्य मृदुकोष्ठस्य देहिनः।
दोषास्तथावशिष्टास्तु जनयन्ति प्रवाहिकाम्॥
भेस८.४.१८
अतिरौक्ष्यादतिस्वेहादौषधानां च सम्भ्रमात्।
नृणां शूलं प्रभवति गुदस्रंसश्च दारुणः॥
भेस८.४.१९
वमने रेचने वापि पीते वेगविधारिते।
वातपित्तकफाः क्रुद्धाः कुर्वन्ति हृदयग्रहम्॥
भेस८.४.२०
तस्य गात्राणि सीदन्ति क्लमः शूलश्च दारुणः।
शिरोग्रहश्च कोष्ठार्तिर्विसंज्ञश्च भवत्यपि॥
भेस८.४.२१
स्विन्नस्य मृदुकोष्ठस्य स्नेहितस्य विरेचनम्।
अतिमात्रौषधं पीतं जीवादानाय कल्पते॥
भेस८.४.२२
सृजेच्छुक्लं स शकृता कृष्णं वा रक्तमेव वा।
लोध्रपुष्पसवर्णं वा भण्डिपुष्पनिभं तथा॥
भेस८.४.२३
प्रविरिक्तो यदा शीतां क्रियां समुपसेवते।
शरणानि च शीतानि वारि शीतं च सेवते॥
भेस८.४.२४
स्रोतांसि कुपितो वायुस्तस्य चावृत्य तिष्ठति।
खरीभवति तेनास्य दोषाः स्कन्दन्ति देहिनः॥
भेस८.४.२५
वातमूत्रपुरीषाणामप्रवृत्तिस्तृषा ज्वरः।
विबन्ध एष व्याख्यातो भिषजां बुद्धिविभ्रमात्॥
भेस८.४.२६
अस्निग्धं तु यदा रूक्षमौषधं पाययेद् भिषक्।
गृह्णाति कुपितस्तस्य सर्वगात्राणि मारुतः॥
भेस८.४.२७
कटिपृष्ठशिरोग्रीवाहृदयं च यदानिलः।
प्रपद्यते तदा मोहं चित्तनाशं च गच्छति॥
भेस८.४.२८
दशैता व्यापदः प्रोक्ता रूपैर्नानाविधैः पृथक्।
चिकित्सां तासु कुर्वीत यथात्रेयस्य शासनम्॥
भेस८.४.२९
तत्रायोगिनमभ्यज्य तैलेन लवणेन च।
सङ्करप्रस्तरस्वेदैर्नाडीस्वेदैरथपि वा॥
भेस८.४.३०
सम्यङ् निरूढं विश्रान्तं परिषिच्य सुखाम्बुना।
जाङ्गलेन रसेनैव भोजयेन्मृदुमोदनम्॥
भेस८.४.३१
फलतैलेन कोष्णेन ततस्तमनुवासयेत्।
आध्मानं परिकर्तश्च परिस्रावश्च शाम्यति॥
भेस८.४.३२
सालो रुबूकस्त्रिफला दन्ती चित्रक एव च।
सर्पिरेभिर्विपक्वं च पाययेच्च यथाबलम्॥
भेस८.४.३३
तत्स्नेहपीतं सुस्निग्धं स्वेदकर्मोपपादितम्।
वमनं रेचनं वापि पाययेत्तीक्ष्णमौषधम्॥
भेस८.४.३४
हृद्रोगो गात्रहर्षश्च शीर्षस्कन्धग्रहस्तथा।
विबन्धः परिकर्तश्च शूलश्चानेन शाम्यति॥
भेस८.४.३५
परिकर्तः परिस्रावो यथातत्त्वेन शाम्यति।
कषायवस्तिं प्रणयेत्पिच्छावस्तिमथापि वा॥
भेस८.४.३६
शृतं मधु घृतं वापि क्षीरवस्तिं प्रदापयेत्।
जीवनीयोपसिद्धेन सर्पिषा चानुवासयेत्॥
भेस८.४.३७
एरण्डमूलं त्रिफला द्राक्षा काश्मर्यमेव च।
एभिः शृतं पयो दद्याद्विविधैरपि मिश्रयेत्॥
भेस८.४.३८
यावशूको भवेत्क्षारः सैन्धवं साम्लवेतसम्।
हिङ्गु दाडिमसारश्च पिप्पल्यो विश्वभेषजम्॥
भेस८.४.३९
सर्पिषा पयसा वापि मद्येनोष्णोदकेन वा।
पीतं निवर्तयेच्छूलं तीव्रं च परिकर्तिकाम्॥
भेस८.४.४०
देवदारु सबिल्वं च रास्ना कर्कटकाह्वया।
एरण्डोऽप्यथ पूतिश्च तैलमेभिर्विपाचयेत्॥
भेस८.४.४१
तेनानुवासयेच्चैनं तदा सम्पद्यते सुखम्।
गात्रस्तम्भश्च शूलश्च परिकर्तश्च शाम्यति॥
भेस८.४.४२
उपद्रवाणामेतेषां शान्तिर्यदि न विद्यते।
तेषां चिकित्सितं कुर्याद्यथास्वं स्वं चिकित्सितम्॥
भेस८.४.४३
एवं चिकित्सितं प्रोक्तमयोगे विस्तरेण मे।
अतियोगे तु वक्ष्यामि व्यापदां यच्चिकित्सितम्॥
भेस८.४.४४
अतिप्रवृत्तौ वमने विरेचनमुपाचरेत्।
विरेचने चातियुक्ते वमनं पाययेद् भिषक्॥
भेस८.४.४५
वमने चातियुक्ते तु कार्यमास्थापनं भवेत्।
उभयोरतियोगे तु स्तम्भनं हितमुच्यते॥
भेस८.४.४६
उल्लिखेत्क्षौद्रयुक्तेन स नरस्तण्डुलाम्बुना।
पादौ च सेचयेद्धस्तौ तथा वाप्यवगाहयेत्॥
भेस८.४.४७
लामज्जकमृणालैश्च चन्दनैश्च सपद्मकैः।
सन्दिह्यात्सर्वगात्राणि कषायैश्चावसेचयेत्॥
भेस८.४.४८
धातकी मधुकं लोध्रं पद्मं मोचरसस्तथा।
नीलोत्पलं समङ्गा च कट्फलं पद्मकेसरम्॥
भेस८.४.४९
एतैर्लोहितशालीनां सिद्धां पेयां सुशीतलाम्।
पिबेन्माक्षिकसंयुक्तं तदस्य स्थापनं परम्॥
भेस८.४.५०
लाक्षा लोध्रस्समङ्गा च माक्षिकं कमलोत्पलम्।
आजेन पयसा पीतं रक्तस्तम्भनमुच्यते॥
भेस८.४.५१
रसं कपित्थपत्रस्य पाययेन्मधुसंयुतम्।
पयसा बादरं द्राक्षां मधुना च पिबेन्नरः॥
भेस८.४.५२
रसाश्च जाङ्गला देया व्यक्ता दाडिमसारकैः।
घृतदाडिमसंयुक्ता देयाः स्युः क्षीरवस्तयः॥
भेस८.४.५३
अतिप्रवृत्ते रक्ते तु रक्तमेवानुवासयेत्।
शाशं मार्गमथौरभ्रं छागं माहिषमेव वा॥
भेस८.४.५४
ओदनं पयसाऽऽआमृद्य परिपूतं समाक्षिकम्।
पिबेदिक्षुरसैर्वापि परिमर्द्यौदनं पुनः॥
भेस८.४.५५
न्यग्रोधोदुम्बरप्लक्षवेतसाश्वत्थजैस्तथा।
शृङ्गैरथैषां क्षीरेण यवागूः स्थापनं परम्॥
भेस८.४.५६
पद्मं शाल्मलिनिर्यासः समङ्गा धातकी तथा।
जम्ब्वाम्रसारो मधुकः लाजा लाक्षा प्रियङ्गवः॥
भेस८.४.५७
एतैः शृतं पयः पेयं यवागूं चापि पाययेत्।
तण्डुलोदकयुक्तानि पिबेद्वा मधुना सह॥
भेस८.४.५८
ओदनः कोरदूषाणां मधुना सस्यसंभृतः।
पलङ्कषासमायुक्तश्चातिसारं निवर्तयेत्॥
भेस८.४.५९
संयुक्तं तिलतैलेन सप्तरात्रस्थितं दधि।
कोरदूषौदनोपेतमतिसारप्रणाशनम्॥
भेस८.४.६०
सप्तरात्रं स्थिते तक्रे मूलकं साधयेद्भिषक्।
कोरदूषौदनो योज्यः तेनातीसारनाशनः॥
भेस८.४.६१
वटाङ्कुरो मोचरसो लोध्रमाम्रास्थिकन्दकः।
तरुणानि च बिल्वानि धातकीकुसुमानि च॥
भेस८.४.६२
पञ्चरात्रस्थिते तक्रे यूषमेभिस्तु कारयेत्।
कोरदूषौदनो योज्यः तथातीसारनाशनः॥
भेस८.४.६३
नीलोत्पलं नीलतिलाः समङ्गा लोध्रमेव च।
क्षीरं विपाचयेदेभिरतीसारविनाशनम्॥
भेस८.४.६४
तिलतैलं तथा लोध्रमाजं क्षीरं विपाचयेत्।
प्रवाहिका गुदभ्रंशः सर्वमेतेन शाम्यति॥
भेस८.४.६५
बला चातिबला बिल्वमेरण्डश्चोरकस्तथा।
एभिर्विपाचयेत्क्षीरं कफपित्तप्रणाशनम्॥
भेस८.४.६६
हनुस्तम्भे च पातव्यमर्शःशूले च दारुणे।
अनेनैव च कल्केन कुर्यादाच्छादितं शिरः॥
भेस८.४.६७
तेन मूर्च्छा भ्रमश्चैव प्रशाम्यति शरीरिणाम्।
उपद्रवाश्च येऽप्यन्ये तेषां तत्तच्चिकित्सितम्॥
भेस८.४.६८
शर्करापद्मकोशीरन्यग्रोधोदुम्बरास्तथा।
एभिर्विपाचयेत्क्षीरं तृष्णादाहप्रणाशनम्॥
भेस८.४.६९
क्षीरवस्तिं विदद्याच्च पिच्छावस्तिमथापि वा।
अतियोगे प्रशस्यन्ते शीताश्च घृतवस्तयः॥
भेस८.४.७०
जीवादानचिकित्सायां यत्पूर्वं परिकीर्तितम्।
तत्कर्तव्यं गुदभ्रंशे तथा सम्पद्यते सुखम्॥
भेस८.४.७१
वातशूले तु सञ्जाते सङ्करप्रस्तरादिकान्।
स्वेदांश्चैवोपदेहांश्च स्वभ्यक्तानां प्रयोजयेत्॥
भेस८.४.७२
वचां श्वदंष्ट्रां पूतीकां पञ्चमूलीं च साधिताम्।
यदि वाऽऽआस्थापनं दद्यात्सुखोष्णं चानुवासनम्॥
भेस८.४.७३
क्षारैः क्षारघृतैश्चापि शूलघ्नैस्समुपाचरेत्।
दाधिकं षट्पलं वापि पाययेन्मात्रया घृतम्॥
भेस८.४.७४
एवमेव विबन्धेऽपि विधिं कुर्याच्चिकित्सकः।
याश्च व्यापत्तयः पश्चाद्वमने च विरेचने॥
भेस८.४.७५
ताश्चिकित्सेत मतिमान् यथा स्वे स्वे चिकित्सिते।
ग्राम्यान् पौदकं मांसं स्नेहितो योऽपि सेवते॥
भेस८.४.७६
कफे प्रवृद्धे तस्याशु विरेको वमनं भवेत्।
अजीर्णे चौषधं पीतमल्पं वा यदि वा बहु॥
भेस८.४.७७
उत्क्लेशे चोर्ध्ववाते च दुर्युक्ते वापि भेषजे।
एवं विरेचनं पीतं वमनायोपपद्यते॥
भेस८.४.७८
कर्शिते रूक्षिते वापि सुकुमारे सुदारुणे।
असंजातकफस्यैव न च स्निग्धस्य देहिनः॥
भेस८.४.७९
छर्दनं वा स्थितं क्षुब्धं विरेकायोपपादयेत्।
तत्रानुपानमेवाहुः केचित्केचित्त्वसाम्प्रतम्॥
भेस८.४.८०
भेषजं ह्यतिमात्रं तु जीवादानाय कल्पते।
ऊर्ध्वं दशाहात्परतः स्नेहस्वेदोपपादितम्॥
भेस८.४.८१
पाययेत्तीक्ष्णमेवैतं भेषजं कल्पकल्पितम्।
सिद्धिर्विरेचनस्यैषा वमनस्य च कीर्तिता।
व्यापदश्च चिकित्सा या यथावदनुपूर्वशः॥
इत्याह भगवानात्रेयः।
इति भेले सिद्धिस्थाने चतुर्थोऽध्यायः॥
॥पञ्चमोऽध्यायः॥
[सम्पाद्यताम्]अथातो वस्तिमात्रीयां सिद्धिं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस८.५.१
संसृष्टभक्ते शंसन्ति वस्तिकर्म चिकित्सकाः।
विरिक्तेष्वपरे वैद्या निरूढे त्वपरे जनाः॥
भेस८.५.२
त्रीण्येतान्यवराण्याहुः न शंसन्ति विशारदाः।
मतं तेषामहं सम्यग् व्याहनिष्यामि हेतुभिः॥
भेस८.५.३
सततन्तु विरिक्तस्य शीतीभवति पावकः।
हृदाश्रयाणि स्रोतांसि गुदकोष्ठाश्रयाणि च॥
भेस८.५.४
प्रवृद्धो मारुतस्तस्य पक्वाधानं प्रधवति।
शीतीकरोति कायाग्निं बलं चास्यापकर्षति॥
भेस८.५.५
स्रोतस्सु शुद्धाशुद्धेषु यदि वस्तिः प्रदीयते।
स गम्भीरो गतः काये सर्वशो न निवर्तते॥
भेस८.५.६
छर्दिं पिपासां हृद्रोगं पाण्डुत्वं श्वयथुं तथा।
जनयेदिह तस्माद्धि विरिक्तं नानुवासयेत्॥
भेस८.५.७
संसृष्टभक्तस्य पुनः जातदोषस्य देहिनः।
स्रोतस्सु मललिप्तेषु भवेत्स्नेहो निरर्थकः॥
भेस८.५.८
तीक्ष्णेतरनिरूहेण निरूढस्य शरीरिणः।
समुत्क्लिष्टेषु दोषेषु स्नेहवस्तिर्न शस्यते॥
भेस८.५.९
केचिच्चापि शरीरस्य रात्रिपर्युषितस्य च।
प्रशान्ता दोषसंज्ञानः(?) प्रशंसन्त्यनुवासनम्॥
भेस८.५.१०
वस्तिकर्मविधानं तु शृणु मे निरुपद्रवम्।
स्नेहितस्य यथान्यायं विरिक्तस्य च कल्पशः॥
भेस८.५.११
संसृष्टभक्तस्य तथा पुनश्च स्नेहितस्य च।
पञ्चरात्रात्परं तस्य कारयेदनुवासनम्॥
भेस८.५.१२
नोपर्यस्निग्धकोष्ठस्य कर्तव्यमनुवासनम्।
वातो ह्यूरीकृतस्तस्य हृदये परितिष्ठति॥
भेस८.५.१३
उचिताद्भक्तमानादप्यर्धमात्रं तु भोजयेत्।
तनुना मुद्गयूषेण जाङ्गलेन रसेन वा॥
भेस८.५.१४
भुक्त्वा कृतसमाश्वासः शकृन्मूत्रे विसृज्य च।
सव्येन पार्श्वेन नरः संविशेच्छयने समे॥
भेस८.५.१५
संकोचयेद्दक्षिणं च सक्थि वामं प्रसारयेत्।
वामोपधानं कुर्वीत शिरस्युपहितं नरः॥
भेस८.५.१६
अथास्य प्रणयेद्वस्तिं पृष्ठवंशानुगं सुखम्।
यथाकर्मबलं चैव न द्रुतं न विलम्बितम्॥
भेस८.५.१७
निर्व्यलीको मृदुर्वस्तिर्व्यपनीतानिलस्तथा।
गाढानिलानुबन्धोऽस्याप्रशस्तो वस्तिकर्मणि॥
भेस८.५.१८
नेत्रं वस्तिमुखे धृत्वा सम्यगेकेन पाणिना।
प्रपीडयेच्चापरेण हस्तौ चापि न कम्पयेत्॥
भेस८.५.१९
पूर्वं च गुदमभ्यज्य यन्त्रं हस्तौ च मानवः।
प्रवर्तयेदथोत्तानं पादौ वास्य प्रसारयेत्॥
भेस८.५.२०
मुहूर्तान्न निगृह्णीयाद्दत्ते वस्तौ यथासुखम्।
ततः परमतो वेगानागतान्न विधारयेत्॥
भेस८.५.२१
अविबन्धस्सवातश्च सपुरीषस्स सिध्यति।
दत्तमात्रे पुनर्यस्य तैलवस्तिर्निवर्तते॥
भेस८.५.२२
न स कर्यकरः प्रोक्तस्तस्यान्यं प्रणिधापयेत्।
तृषितस्स तथा रात्रिं काल्यमुष्णोदकं पिबेत्॥
भेस८.५.२३
एकान्तरे च दातव्यो बस्तिर्न सततं नृणाम्।
अभ्यङ्गोन्मर्दनं चैव कोष्णतोयावसेचनम्॥
भेस८.५.२४
उष्णोदकानुपानं च वस्तिकर्मणि शस्यते।
चतुर्षु त्रिषु वा वैद्यो यावद्वा स्निग्धता पुनः॥
भेस८.५.२५
स्नेहवस्तिषु दत्तेषु कुर्यादास्थापनं ततः।
आर्द्रीकृतेषु स्रोतस्सु स्नेहेन विहितेन च॥
भेस८.५.२६
शुद्धये स्रोतसां दद्यान्निरूहान्युक्तितः सुखम्।
अशुद्धे मलिने कोष्ठे स्नेहवस्तिः प्रयोजितः॥
भेस८.५.२७
प्रदर्शयति वैशिष्यं शुक्ले पर्वव्ययीकृतम्।(?)
विरेचनोपचारश्च कर्तव्यो वस्तिकर्मणि॥
भेस८.५.२८
यवागूप्रतिपानं च बस्तिकर्मणि वर्जयेत्।
चतुर्विंशतिसङ्ख्याताः निरूहास्सानुवासनाः॥
भेस८.५.२९
एतत्कर्मेति निर्दिष्टमूर्ध्ववाते प्रदापयेत्।
मृदुमध्यमतीक्ष्णेषु रोगेषु कुशलो भिषक्॥
भेस८.५.३०
मृदुमध्यमतीक्ष्णं च वस्तिकर्म च कारयेत्।
ग्राम्यानूपौदकं मांसं पिष्टान्नं पललं दधि॥
भेस८.५.३१
अम्लशाकविकारांश्च भक्ष्याणि विविधानि च।
शीतोदकस्य पानं च तथा शीतावगाहनम्॥
भेस८.५.३२
गुरूणि चान्नपानानि वस्तिकर्मणि वर्जयेत्।
शालिषष्टिकमुद्गांश्च भोजनार्थं प्रदापयेत्॥
भेस८.५.३३
व्यञ्जनार्थं प्रदेयाः स्युः शशतित्तिरिलावुकाः।
ज्ञानवान्सुमिताहारो वैद्यशुश्रूषुरेव च।
यश्च वस्तिमुपासीत स जीवेच्छरदां शतम्॥
इत्याह भगवानात्रेयः।
इति भेले सिद्धिस्थाने पञ्चमोऽध्यायः॥
॥षष्टोऽध्यायः॥
[सम्पाद्यताम्]अथात उपकल्पसिद्धिं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस८.६.१
उपकल्पमतो वस्तेर्नेत्रं स्नेहं च सर्वशः।
तेषां प्रयोगयुक्तिं च क्रियां कर्म च मे शृणु॥
भेस८.६.२
बालानामथ वृद्धानां युवमध्यमयोस्तथा।
स्वस्थानामातुराणां च वस्तिकर्म प्रशस्यते॥
भेस८.६.३
सौवर्णं राजतं ताम्रं कांस्यं त्रपुजमायसम्।
शृङ्गवंशास्थिवंशाग्राण्याहुर्नेत्राणि पण्डिताः॥
भेस८.६.४
यथाक्रममथैतानि प्रधानानीतराणि च।
उत्तमाधममध्येषु मनुष्येषु प्रयोजयेत्॥
भेस८.६.५
गुलिकास्यं तु नेत्रं स्यादनूनद्वादशाङ्गुलम्।
अङ्गुले कर्णिकावासः तां च न क्रमयेद्गुदे॥
भेस८.६.६
तत्र गोपुच्छसंस्थानं सुश्लक्ष्णं सुखकर्णिकम्।
प्रदेशिनीपरीणाहं दानं तेन प्रशस्यते॥
भेस८.६.७
तत्र मात्राशतं स्थित्वा स्वेनैव विनिवर्तते।
यद्यकाले नवस्नेहो मद्यमांसप्रकल्पितः॥
भेस८.६.८
न्यूनकालनिवृत्तश्च शीघ्रत्वान्न निरूहति।
ततस्तु मध्यमः किञ्चिन्निवर्तेत शतैस्त्रिभिः॥
भेस८.६.९
एवं कालगतिक्रान्तो यो वस्तिर्न निवर्तते।
तीक्ष्णेनास्थापनेनैवं क्षिप्रं प्रतिनिवर्तते॥
भेस८.६.१०
तस्मात्तीक्ष्णतरं वस्तिं पूर्वमेवोपकल्पयेत्।
प्राणसंधारणे ह्युच्चैर्विबन्धो न प्रशस्यते॥
भेस८.६.११
तस्मात्कालं च यो व्याधिं निरूहाणां बलाबलम्।
पूर्णरूपं च यो वेत्ति स मोहं न निगच्छति॥
भेस८.६.१२.
न तथा ह्यन्यतो हन्यान्नाशनिर्न हुताशनः।
दुष्प्रयुक्तो यथा वस्तिः प्राणैस्सद्यो वियोजयेत्॥
भेस८.६.१३
शस्तः प्राणिहितो वस्तिस्सद्यो रोगहरस्तथा।
सम्यङ् निवृत्तो, रोगौघैर्ह्यनिवृत्तस्तु प्राणहा॥
भेस८.६.१४
स निवृत्तस्तु वेगेन दोषान् गम्भीरमास्थितान्।
उन्मार्गस्थान्नयेन्मार्गं मार्गस्थांश्चानुलोमयेत्॥
भेस८.६.१५
वस्तिवेगोऽनिलं हन्ति पर्जन्यं च यथानिलः।
कफपित्तविकाराहि सर्वे वातवशानुगाः॥
भेस८.६.१६
अशीतिर्वातिका रोगाश्चत्वारिंशत्तु पित्तजाः।
विंशतिः श्लैष्मिकाश्चापि संसृष्टानामसंग्रहात्॥
भेस८.६.१७
सर्वेषामेव चैतेषां रोगाणां संग्रहैस्सदा।
अर्दितानां हि भूतानां वस्तिरग्र्यं परायणम्॥
भेस८.६.१८
अनिलप्रभवा ह्येते सर्वे वस्तिवशानुगाः।
तस्मादर्धं चिकित्सायाः सर्वं वा वस्तिरुच्यते॥
भेस८.६.१९
यस्तु वस्तिं निषेवेत चातुर्मास्यं सदा नरः।
रोगास्संवर्जयेयुस्तं सिंहावासं यथा गजाः॥
भेस८.६.२०
एते गुणविशेषाश्च व्याख्याता वस्तिकर्मणि।
निरूहस्यास्य सामर्थ्यमुपचारं च मे शृणु॥
भेस८.६.२१
स्विन्ने पर्युषिते जीर्णे त्वत्यन्तं च निरूहयेत्।
सोऽस्य मूत्रं पुरीषं च श्लेष्माणं चापकर्षति॥
भेस८.६.२२
वातानुलोम्यं कुरुते बलं सञ्जनयत्यपि।
विषस्थिरं दोषबलं यच्च नाडीषु संस्थितम्॥
भेस८.६.२३
विशोधयति तत्सर्वं निरूहः स प्रयोजितः।
रोगानीकस्य सर्वस्य परो नास्ति हि तत्समः॥
भेस८.६.२४
व्याकुलानां च केशानां सीमन्तकरणं यथा।
तथा भृशं व्याकुलानां दोषाणां स्यान्निरूहतः॥
भेस८.६.२५
निरूहो हि समायुक्तस्सम्यग्वीर्यस्समैर्गुणैः।
व्याधीनथोद्धरेत्क्षिप्रं पुण्यं युक्तं नरं यथा॥
भेस८.६.२६
कृच्छ्रमूत्रपुरीषाणां शूलिनां वातगुल्मिनाम्।
विरेचनाद्युदावर्ते हृद्रोगे पार्श्वशूलिनि॥
भेस८.६.२७
उदरेषु प्रमेहेषु कुष्ठेषु कृमिकोष्ठिषु।
श्लेष्मणा सह संसृष्टे शोणितेन च दूषिते॥
भेस८.६.२८
संसृष्टेषु च सर्वेषु सन्निपातोद्भवेषु च।
गम्भीरा धातुगा ये च तेषां श्रेष्ठं निरूहणम्॥
भेस८.६.२९
यदा कफं विरिच्येत शङ्खस्फटिकसन्निभम्।
ऋते मूत्रपुरीषाभ्यां तन्निरूहस्य लक्षणम्॥
भेस८.६.३०
सुशोधितं निरूहेण नातिपर्युषितं तथा।
सुखोषितं समाश्वस्तं भोजितं चानुवासयेत्॥
भेस८.६.३१
एकतो वस्तिकर्माणि ह्येकतोऽन्यच्चिकित्सितम्।
अमृतार्थं वस्तिकर्म कुरुते सुप्रयोजितम्॥
भेस८.६.३२
शुक्लं बह्ववरोधस्य न क्षयं याति देहिनः।
स्त्रीषु प्रधर्षणं कुर्यान्नराणां क्षीणरेतसाम्॥
भेस८.६.३३
वस्तिप्रयोगात् षण्डोऽपि पुमान् भवति सर्वशः।
कृशानामपि मर्त्यानां मांससंजननं स्मृतम्॥
इत्याह भगवानात्रेयः।
इति भेले सिद्धिस्थाने षष्ठोऽध्यायः॥
॥सप्तमोऽध्यायः॥
[सम्पाद्यताम्]अथातः फलमात्रासिद्धिं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस८.७.१
फलमात्रं निरूहेषु श्रेष्ठमाहुर्मनीषिणः।
तेषां तु मदनं श्रेष्ठं प्रवदन्ति चिकित्सकाः॥
भेस८.७.२
जीमूतकं प्रशंसन्ति केचिद्धामार्गवं तथा।
कृतवेधनमित्येके कुटजं प्राहुरप्यथ॥
भेस८.७.३
गर्हितास्सर्व एवैते वादाः प्रत्येकशः स्मृताः।
भेषजानां च सङ्घातो निरूहेषु प्रशस्यते॥
भेस८.७.४
वातपित्तकफग्नांस्तु निरूहांश्चानुपूर्वशः।
व्याख्यास्यामो यथान्यायं सन्निपातहिताश्च ये॥
भेस८.७.५
द्वै पञ्चमूल्यौ कोलानि नलदश्शुष्कमूलकम्।
द्विपलीनानि सर्वाणि जलद्रोणे विपाचयेत्॥
भेस८.७.६
अष्टभागावशेषं तु कषायमवतारयेत्।
कल्कपेष्याणि चेमानि भेषजानि समावपेत्॥
भेस८.७.७
निकुञ्चिकां खरपुष्पां पिप्पलीं सैन्धवं वचाम्।
त्रपुसोर्वारुबीजानि शतपुष्पां यवानिकाम्॥
भेस८.७.८
कुष्ठं च तगरं चैव यष्टीमधुकमेव च।
सक्षीरस्सकषायश्च सगोमूत्रश्च कीर्तितः॥
भेस८.७.९
सतैलश्च निरूहः स्याद्वातरोगविनाशनः।
पटोलपत्रमूलं च पिचुमन्दं शतावरीम्॥
भेस८.७.१०
त्रायमाणां बलां रास्नां बृहतीं कण्टकारिकाम्।
गुडूचीं त्रिफलां श्यामां सारिबां वंशकत्वचम्॥
भेस८.७.११
द्विपलीनान् पृथग्भागान् पूर्वकल्पेन साधयेत्।
मधुकं वंशकफलं शतपुष्पां दुरालभाम्॥
भेस८.७.१२
महासहामंशुमतीं कल्कं कुर्यात्पृथक् पृथक्।
क्षीरेणाथ कषायेण घृतेन मधुना तथा॥
भेस८.७.१३
कल्पमिश्रः सुमथितो निरूहः पित्तनाशनः।
दशमूली करञ्जौ द्वौ दन्ती चित्रकमेव च॥
भेस८.७.१४
एकाष्ठीला तुरङ्गी च त्रिफला देवदारु च।
पूतिकं रौहिषं श्यामा मूर्वा राजतृणानि च॥
भेस८.७.१५
पृथक् पञ्चपलानेतान् साधयेत्सर्वकल्पवित्।
अधोभागोर्ध्वभाग्द्रव्यैस्साधयेत्साधु योजितैः॥
भेस८.७.१६
मूत्रतैलयुतः श्रेष्ठः निरूहः श्लेष्मनाशनः।
अश्वगन्धां बलां रास्नां श्वदंष्ट्रां सपुनर्नवाम्॥
भेस८.७.१७
पटोलपञ्चमूल्यौ च भार्ङ्गीं श्यामां शतावरीम्।
गुडूचीं त्रिफलां शिग्रुं कर्णिकायाः फलानि च॥
भेस८.७.१८
उशीरं रजनीपत्रं पूतिकं कत्तृणानि च।
पृथक् पञ्चपलानेतान् खण्डशश्छेदयेद् भिषक्॥
भेस८.७.१९
जलद्रोणे विपक्तव्यमष्टभागावशेषितम्।
मधुकं शतपुष्पां च सैन्धवं सर्षपान् गुडम्॥
भेस८.७.२०
हपुषामजमोदां च मदनस्य फलानि च।
वचामशोकबीजानि पिप्पलीकुष्ठमेव च॥
भेस८.७.२१
एतानि कल्कपेष्याणि भेषजानि पृथक् पृथक्।
क्षीरतैलसमायुक्तो घृतमूत्रसमन्वितः॥
भेस८.७.२२
खजेन मथितः पूतः स निरूहः प्रशस्यते।
एकेन यदि वा द्वाभ्यां त्रिभिर्वातिप्रमाणतः॥
भेस८.७.२३
किंचिन्न्यूनातिरिक्तं वा ज्ञात्वा व्याधिबलाबलम्।
कुर्यात्, विंशतिवर्षाणां तत्र प्रस्थप्रमाणतः॥
भेस८.७.२४
अथ द्वादशवर्षाणामर्धप्रस्थं प्रयोजयेत्।
कषायकुडवं चात्र षड्वर्षाणां प्रयोजयेत्॥
भेस८.७.२५
युक्तं लवणतैलभ्यां क्षीरेण मधुना तथा।
कषायवस्तिं कुर्वीत स्वेहाद् द्विप्रसृतं भिषक्॥
भेस८.७.२६
प्रसृतं मध्यमे कुर्यात्प्रसृतार्धं कनीयसि।
नातिशीतं न वात्युष्णं कषायमुपकल्पयेत्॥
भेस८.७.२७
वायुः कुप्यति शीतत्वादत्युष्णं तु गुदं दहेत्।
अतिसान्द्रातिग्रथितो दोषेण स हि मूर्छति॥
भेस८.७.२८
मदप्रवेगो भवति व्यापच्चास्योपजायते।
अथवापि तनुर्यस्य कषायो योजितो भवेत्॥
भेस८.७.२९
सोऽल्पं हरति दोषं च न च संशोधयेद् गुदम्।
परिकर्तं च शूलं च जनयेच्च प्रवाहिकाम्॥
भेस८.७.३०
अत्यर्थमधुरो दत्तो विदग्धः स्तम्भवेदनाम्।
ग्रहणीं रक्तमर्शांसि पाण्डुरोगं भगन्दरम्॥
भेस८.७.३१
अतितीक्ष्णस्तु दुर्युक्तः क्षिप्रं प्रतिनिवर्तते।
न निर्हरति दोषांश्च ज्वरं मूर्छां करोति च॥
भेस८.७.३२
ज्वरितं दह्यमानं च मूर्छमानं च मानवम्।
शीतैर्मधुरसंयुक्तैर्योजयेत्क्षीरवस्तिभिः॥
भेस८.७.३३
यस्याथ लवणः कोष्ठे निरूहः पैत्तिकीं रुजाम्।
जनयेत्तत्र पेष्यं स्यान्मधुरेण निरूहणम्॥
भेस८.७.३४
निरूहो मधुरो यस्य श्लेष्माणं परिकोपयेत्।
कटुकैश्च कषायैस्तं निरूहेद्यस्य मारुतः॥
भेस८.७.३५
प्रकुप्येदधिकं तत्र मारुतघ्नं निरूहणम्।
तस्माल्लवणयुक्तानि द्रव्याणि मधुराणि च॥
भेस८.७.३६
भिषग्दद्यान्न शीतानि तथोष्णानि विवेचयेत्।
पित्ते शीतो निरूहः स्यादुष्णस्तु कफवातयोः॥
भेस८.७.३७
प्रश्लेष्मणि प्रवाते वा प्युष्णमास्थापनं भवेत्।
मदनस्य फलं पिष्ट्वा तैलेनाच्छेन साधयेत्॥
भेस८.७.३८
तन्निरूहे प्रणंसन्ति फलतैलं चिकित्सकाः।
गोमूत्रयुक्तमेतत्तु फलतैलनिरूहणम्॥
भेस८.७.३९
निरूहं लवणं कुर्याच्छ्रेष्ठमानाहभेदनम्।
बिल्वैरण्डफलं वापि पचेद् द्विप्रस्थसम्मितम्॥
भेस८.७.४०
अम्लं सलवणं साध्यमष्टभागावशेषितम्।
कषाये तत्र पीलूनि कल्कपेष्याणि योजयेत्॥
भेस८.७.४१
फलतैलयुतो वस्तिर्देय आनाहभेदनः।
एष सर्वानुदावर्तान् शोफगुल्मान् भिनत्त्यपि॥
भेस८.७.४२
अथैव वस्तिराध्मानमुदावर्तं विनाशयेत्।
ओष्ठजिह्वं पृष्ठच्चूर्णं(?) बृहतीं कण्टकारिकाम्॥
भेस८.७.४३
चन्दनं पद्मकं चैव वृन्तं पुष्पं च शाल्मलेः।
खण्डितानां यवानान्तु कुडवं तत्र योजयेत्॥
भेस८.७.४४
तदैकध्यं पचेत्सर्वं जले चाष्टगुणे भिषक्।
घृतेन मधुना चैव पिच्छां संयोज्य शक्तितः॥
भेस८.७.४५
निर्वाहिकायां शंसन्ति पिच्छावस्तिमिमं बुधाः।
अतस्तु षोडशी चैव पले द्वे च पुनर्नवे॥
भेस८.७.४६
कटाहके पञ्चमूलीं यवैः सह विपाचयेत्।
उपोदकायाः क्षुण्णायाः स्वरसं च सुपीडितम्॥
भेस८.७.४७
युक्तं तेन कषायेण घृतेन सह योजयेत्।
माक्षिकेण च संयुक्तो वस्तिस्तु यवमूर्च्छितः॥
भेस८.७.४८
पिच्छावस्तिरिति ख्यातः शूले निर्वाहिकासु च।
तरुणं शिंशुपापत्रं कर्बुदारस्य पल्लवम्॥
भेस८.७.४९
क्षुण्णैस्सह यवैस्सिद्धैः संपिष्टो घृतसंयुतः।
माक्षिकक्षीरसंयुक्तः स वस्तिर्यवमूर्च्छितः॥
भेस८.७.५०
निर्वाहिकां वातशूलं क्षतक्षीणस्य नाशयेत्।
एते निरूहा व्याख्याताः सर्वरोगविनाशनाः।
व्याकुलेषु विकारैस्तु तान् भिषक् संप्रयोजयेत्॥
इत्याह भगवानात्रेयः।
इति भेले सप्तमोऽध्यायः॥
॥अष्टमोऽध्यायः॥
[सम्पाद्यताम्]अथातो दशव्यापदामास्थापनानुवासनसिद्धिं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस८.८.१
स्नेहवस्तिर्निरूहश्च द्विविधं याति विभ्रमम्।
न युज्यते वा दुर्युक्तो युक्तो वाप्यतिपूर्यते॥
भेस८.८.२
तेषां विप्रतिपन्नानां वस्तीनां व्यापदो दश।
तासां रूपं चिकित्सां च प्रवक्ष्याम्यनुपूर्वशः॥
भेस८.८.३
न माति वा गुदे युक्तो वातादिगदपीडिते।
पुरीषेणावृते वापि स न गाढं प्रपीडितः॥
भेस८.८.४
अर्शसा प्रतिसंरुद्धः श्लेष्मणा पिहिते गुदे।
गुरुयन्त्रयुतो वापि नेत्रे वा जीर्णसर्पिते॥
भेस८.८.५
न गच्छति गुदे वस्तिर्विभ्रान्तेषु च धातुषु।
तमयोगमिति ब्रूयादतियोगं निबोध मे॥
भेस८.८.६
वाताभिभूतपित्ते वा श्लेष्मणा वाऽहितशिनः।
पुरीषेणाभिभूतश्च दूरं चातिप्रपीडितः॥
भेस८.८.७
न प्रत्यायात्यधो वस्तिर्भीतस्योन्मथितस्य वा।
गुदवल्यां तृतीयायामर्शोभिर्वा निवारितः॥
भेस८.८.८
विरेचितस्य वान्तस्य मद्यशोकाकुलस्य च।
न प्रत्यायात्यधो वस्तिरूर्ध्वं वातिप्रवर्तते॥
भेस८.८.९
तेषामुपद्रवा घोरा जायन्ते वस्तिविभ्रमात्।
जीवादानं तृषाच्छर्दिः हृद्रोगः श्वयथुस्तथा॥
भेस८.८.१०
शूलमर्शांसि पाण्डुत्वं श्वासोऽथ परिकर्तिका।
एषां प्रत्येकशो रूपं चिकित्सां च निबोध मे॥
भेस८.८.११
गुरुकोष्ठस्य रूक्षस्य बहुदोषस्य देहिनः।
अस्निग्धस्य गुरुव्याधेर्यदि वस्तिः प्रदीयते॥
भेस८.८.१२
अत्यल्पो वाथ रूक्षो वा शीतवीर्यौषधस्तथा।
लवणस्नेहरिक्तो वा तनुस्सान्द्रोऽथ वा भृशम्॥
भेस८.८.१३
सम्बद्धबहुदोषस्य दोषानुत्क्लेशयत्यपि।
तत्रस्था यत्र सर्पन्ति दोषास्ते पीडिता भृशम्॥
भेस८.८.१४
कटावस्थ्यूरुजङ्घे च पादपृष्ठोदरे तथा।
प्रस्यन्दन्ते भवेच्चास्य सशूलमुदकोदरम्॥
भेस८.८.१५
वस्तिशूलमुदावर्तो गुदशोषो ज्वरस्तथा।
निष्ठीवकासहृल्लासा भक्तद्वेषो विवर्णता॥
भेस८.८.१६
स्निग्धस्य तस्य स्विन्नस्य संकरप्रस्तरादिभिः।
निरूहं कारयेत्तीक्ष्णममोघाप्रतिवारणम्॥
भेस८.८.१७
बिल्वाग्निमन्थस्योनाककाश्मर्याश्च सपाटलाः।
रास्ना बलागोक्षुरकयवकोलकुलुत्थकाः॥
भेस८.८.१८
एतत्सर्वं समाहृत्य जलद्रोणे विपाचयेत्।
चतुर्भागावशिष्टं तं कषायमवतारयेत्॥
भेस८.८.१९
कल्केन सर्षपाणां च पीलूनां मदनस्य च।
सयवासकषायं तु तत्तैललवणेन च॥
भेस८.८.२०
मूत्राणि च यथालाभमथ सम्यङ् निरूपयेत्।
यथा तृतिबला ... ... ... ... ॥
भेस८.८.२१
तत्र वादित्रशब्दांश्च श्रेयसश्च स्वनानपि।
शान्तिं पुण्याहघोषांश्च कुर्याच्चापि प्रदक्षिणम्॥
भेस८.८.२२
तं निधाय शुभे कुम्भे वस्तिं दद्यात्प्रमाणतः।
देवप्रसादतो वस्तिरर्दितानां महागुणः॥
भेस८.८.२३
सर्वरोगहरो वृष्यः क्षतक्षीणरुजापहः।
वातपित्तसमुत्थाना रोगा ये परिकीर्तिताः॥
भेस८.८.२४
कासदाहज्वराद्यांस्तान्नाशयेदविशङ्कितः।
त्रिभागमाक्षिको ह्येष वलीपलितनाशनः॥
भेस८.८.२५
रूपवर्णकरः पुंसां बलमांसविवर्धनः।
शतावरीं सहचरं रास्नां गोक्षुरकं बलाम्॥
भेस८.८.२६
शतं शतं कल्पयित्वा तोयद्रोणशते पचेत्।
द्रोणावशेषितं तच्च परिपूतं निधापयेत्॥
भेस८.८.२७
बर्हिकुक्कुटहंसानां मांसान्यपि पृथक् पृथक्।
वसा माहिषवाराहमेषाणां प्रस्थसम्मितम्॥
भेस८.८.२८
विदार्यामलकेक्षूणां रसप्रस्थाः पृथक् पृथक्।
तत्र तैलघृतप्रस्थौ क्षीरमष्टगुणं भवेत्॥
भेस८.८.२९
तद्गोमयाग्निना युक्त्या कल्केनानेन साधयेत्।
तुगाक्षीर्यामलक्यौ च द्राक्षामधुकचन्दनैः॥
भेस८.८.३०
मधूलिकापटोलाभ्यां पत्रं नीलोत्पलस्य च।
विशालां च मृणालं च कपिकच्छुफलानि च॥
भेस८.८.३१
खर्जूरौदनपाक्यौ च शीतपाकीं निदिग्धिकाम्।
सलामज्जत्वचं पत्रं ह्वीबेरं समहासहम्॥
भेस८.८.३२
जीवकर्षभकौ मेदां पिप्पलीश्चापि संहरेत्।
तत्सिद्धं शीतलीकृत्य क्षौद्रप्रस्थे नियोजयेत्॥
भेस८.८.३३
तत्र वादित्रशब्दांश्च कुर्यात्स्वस्त्ययनानि च।
गजस्कन्धं समारोप्य श्वेतच्छत्रानुपालितम्॥
भेस८.८.३४
चेलावृतं च कुर्वीत साधुशब्दांश्च सर्वशः।
ततोऽस्मिन् दापयेद्वस्तिं पुण्येऽहनि रसायनम्॥
भेस८.८.३५
वस्तिनानेन दत्तेन गच्छेन्नारीशतं नरः।
न वात्र यन्त्रणा काचिदुक्ता नारीविहारगा॥
भेस८.८.३६
वृष्यो बलकरो वस्तिराप्त आयुर्विवर्धनः।
वलीपलितखालित्यं सेवमानो नियच्छति॥
भेस८.८.३७
षण्डांश्च पुरुषान् कुर्याल्लक्षणाढ्यान् गुणान्वितान्।
क्षीणान् क्षतान्नष्टशुक्लान् विषमज्वरपीडितान्॥
भेस८.८.३८
योनीनां व्यापदो वन्ध्यां वस्तिरेष नियच्छति।
गुडूचीस्वरसप्रस्थं ग्राहयेद्यन्त्रपीडितम्॥
भेस८.८.३९
शतावरीरसप्रस्थं तद्वत्सहचरस्य च।
विदार्यामलकेक्षूणां द्राक्षाखर्जूरयोरपि॥
भेस८.८.४०
पृथक् कुर्याद्रसप्रस्थं प्रस्थौ द्वौ तैलसर्पिषोः।
आजमाहिषगव्यानि क्षीराणि द्विगुणानि च॥
भेस८.८.४१
क्षुण्णपिष्टानि चेमानि पेषयित्वा विपाचयेत्।
वधूटिकामुच्चटां च मधुकं पिप्पलीमपि॥
भेस८.८.४२
शृङ्गाटकं पुष्करिकां काण्डं नीलोत्पलस्य च।
जीवकर्षभकौ मेदां बलां नीलोत्पलानि च॥
भेस८.८.४३
तुगाक्षीरीं महामेदां पुण्डरीकस्य केसरम्।
वृषमेषचकोराणां हंसकुक्कुटयोरिह॥
भेस८.८.४४
जीवञ्जीवकमत्ताक्षकुररीक्रौञ्चबर्हिणाम्।
वसा मज्जा च सत्त्वानां मेषमांसरसैस्सह॥
भेस८.८.४५
त्रिभागं माक्षिकं चैव युञ्ज्यात्सम्यग्विपाचिते।
शङ्खभेरीनिनादैश्च पटहैर्वा मुरीस्वनैः॥
भेस८.८.४६
आरोपयेद्गजस्कन्धे श्वेतच्छत्रध्वजायुतम्।
सिद्धानां परमं देवं महर्षिगणसेवितम्॥
भेस८.८.४७
शरणं सर्वभूतानामर्चयेद् वृषभध्वजम्।
आशीर्भिर्मङ्गलाशंसिस्तुतिभिर्देवतार्चनैः॥
भेस८.८.४८
रसायनानि सिध्यन्ति विपरीतानि चान्यथा।
तं स्नेहं गमयेद्वस्तिं रासायनिकमुत्तमम्॥
भेस८.८.४९
अथाहारविहारेषु न चैनं यन्त्रयेद्भिषक्।
व्यापन्नयोनयो वन्ध्या रक्तगुल्मिन्य एव च॥
भेस८.८.५०
या वाऽपत्यं मृतं सूते याश्च नष्टार्तवास्तथा।
नष्टशुक्लक्षतक्षीणा विषमज्वरपीडिताः॥
भेस८.८.५१
प्रक्षीणमांसरुधिरा वलीपलितपीडिताः।
आशु प्रशमयेद्रोगान् तानायुर्मांसवर्धनम्॥
भेस८.८.५२
रसायनमिदं श्रेष्ठं नराणाममृतोपमम्।
रसायनविधानानि प्रोक्तान्येतानि यानि च॥
भेस८.८.५३
सहस्रशतपाकानि कार्याणि विभवे सति।
मधुकं सैन्धवं कुष्ठं शतपुष्पा हरेणवः॥
भेस८.८.५४
मदनानि च रास्ना च भार्ङ्गी, नीपरकज्वलम्(?)।
मरि ... ... ... ... ... ... ... ... ... ... ॥
भेस८.८.५५
मायूरं कौक्कुटं वापि वेशवारं सुकुट्टितम्।
सहितं दशमूल्या तु जलद्रोणे विपाचयेत्॥
भेस८.८.५६
रसस्य तस्य पूतस्य प्रस्थार्धं च प्रदापयेत्।
वसातैलघृतानां तु मधुनः प्रसृतद्वयम्॥
भेस८.८.५७
हपुषाशतपुष्पाणां मुस्तानां चापि कार्षिकम्।
कल्कपेष्यं पुनर्दद्याद्वस्तिं सलवणं सुखम्॥
भेस८.८.५८
पादगुल्फोरुजङ्घासु त्रिकवङ्क्षणबस्तिषु।
शिश्ने वृषणयोश्चैव वातरोगं नियच्छति॥
भेस८.८.५९
मृगाणां तित्तिराणां च तथैव बिलवासिनाम्।
आनूपानां खगानां च कल्पमेवं प्रयोजयेत्॥
भेस८.८.६०
तुल्यं मधु च तैलं च तस्मादुष्णोदकं समम्।
द्वौ कर्षौ शतपुष्पाणां कर्षश्च लवणोत्तमः॥
भेस८.८.६१
एष रासायनो वस्तिर्दीपनीयोऽथ बृंहणः।
बलवर्णकरो वृष्यो यापनो निरुपद्रवः॥
भेस८.८.६२
गुल्मोदवर्तिताध्मानप्रमेहकृमिकोष्ठिनाम्।
नित्यं गाढपुरीषाणां वस्तिरेष हितः स्मृतः॥
भेस८.८.६३
घृतं मधु च तैलं च तेषां मानं समं भवेत्।
पूर्वकल्केन देयानि स वस्तिर्बलवर्णकृत्॥
भेस८.८.६४
वस्तौ मेढ्रगते दोषे वस्त्यसात्म्यचिकित्सिते।
पैत्तिके मूत्रकृच्छ्रे च पित्तव्याधिषु चोत्तमः॥
भेस८.८.६५
तुल्यं घृतमथ क्षौद्रं तयोर्मांसरसस्समः।
अक्षमात्रं च मुस्तानां स वस्तिः पूर्वकल्पवत्॥
भेस८.८.६६
गुल्फोरुजानुपृष्ठेषु सर्वतः स्तम्भितेषु च।
बलासपादहर्षेषु वस्तिः प्रशमनः स्मृतः॥
भेस८.८.६७
वस्तौ वृषणमेढ्रेषु शूलमाशु नियच्छति।
त्रिकजानूरुपृष्ठादिवेदनां चापकर्षति॥
भेस८.८.६८
मृदुत्वान्न निवतन्ते क्षुभ्यन्ते वस्तयश्च वा।
तीक्ष्णैरास्थापनं कार्यं क्षिप्रं प्रतिनिवर्तयेत्॥
भेस८.८.६९
मृदुत्वाद्यापनानां तु केचिद्विभ्रमभीरवः।
दीपनानां कषायेण योजयन्ति चिकित्सकाः॥
भेस८.८.७०
एवमन्येषु विभ्रान्तौ सनिरूहेषु वा पुनः।
वस्तयः कल्पदृष्टा हि यथा काले सुखावहाः॥
भेस८.८.७१
क्षीणातिरिक्ता दूष्यन्ते तस्माद्योगं समाहरेत्।
नित्यं नारीविहाराणां क्षीणानामल्परेतसाम्॥
भेस८.८.७२
एवमेव विधानं च रेतोबलविवर्धनम्।
स्वेच्छाविहारान् वक्ष्यामि वस्तीन् शुक्लविवर्धनान्॥
भेस८.८.७३
रसः कर्कटकानां तु शर्करामस्तुसंयुतः।
घृतसौबर्चलयुतो वस्तिर्वृष्यतमः स्मृतः॥
भेस८.८.७४
हंससारसलावानां तित्तिरिक्रौञ्चबर्हिणाम्।
कल्पेनानेन कर्तव्या वाजीकरणवस्तयः॥
भेस८.८.७५
पयः कुक्कुटमांसेन विपक्वं मधुसंयुतम्।
चटकाण्डरसश्चैव कुक्कुटाण्डरसस्तथा॥
भेस८.८.७६
घृतमाक्षिकसंयुक्तः शर्करासैन्धवैर्युतः।
एष वस्तिः स्मृतो वृष्यः मांसशुक्लविवर्धनः॥
भेस८.८.७७
यतश्शतं वा षष्टिं वा नारीर्गच्छति मानवः।
एष वर्णबलोत्साहः स्थविरेऽपि प्रदृश्यते॥
भेस८.८.७८
तिमिङ्गिले वा मकरे पाठीने नक्रमीनयोः।
दुग्धं कूर्मेऽथकुम्भीरे कल्पयेच्छिशुमारवत्॥
भेस८.८.७९
वाराहबस्तवृषणौ वृषणौ गोवृषस्य च।
चटकर्कटकांश्चैव क्षीरेण सह साधयेत्॥
भेस८.८.८०
तन्निरूहं तु शुक्रेण बस्तानामथ मिश्रयेत्।
उच्चटेक्षुरकं चात्र कल्कपेष्यं समावपेत्॥
भेस८.८.८१
घृतमाक्षिकसंयुक्तं प्रणीतः शर्करायुतः।
किंचिल्लवणितो वस्तिर्गमयेत्स्त्रीशतान्यपि॥
भेस८.८.८२
एष नारीविहाराणां बह्वन्तःपुरवासिनाम्।
रेतोबलकरः श्रेष्ठः क्रीडावस्तिरनुत्तमः॥
भेस८.८.८३
आत्मगुप्ताफलैः क्षीरमुच्चटेक्षुरकैः शृतम्।
भोजने वानुपाने वा वृष्यार्थं सम्प्रयोजयेत्॥
भेस८.८.८४
रसायना वस्तयस्तु ये मया पूर्वदर्शिताः।
तानेतैर्मांसनिर्यूहैर्योजयेत्कल्पकल्पितान्॥
भेस८.८.८५
बभ्रुसूकरखड्गाश्च छागगोमहिषास्तथा।
क्रौञ्चकारण्डवाः क्रौञ्चचक्रवाकबकास्तथा॥
भेस८.८.८६
निरूहमेषां संहृत्य लाभतस्साधु योजयेत्।
क्षीरं पनसबीजानि कपिकच्छूफलानि च॥
भेस८.८.८७
उच्चटेक्षुरबीजानि मधुकं तालमस्तकम्।
पिप्पल्यश्शारिबा द्राक्षा खर्जूरो मदनान्यपि॥
भेस८.८.८८
जीवकर्षभकौ मेदा बीजं नीलोत्पलस्य च।
गर्भेणानेन संसिद्धं चटकाण्डरसायुतम्॥
भेस८.८.?।
शर्करामधुसंयुक्तं ... ... ... ... ... ॥
(शेष अप्राप्यम् अस्ति)