भेलसंहिता शारीरस्थानम्

विकिस्रोतः तः

भेलसंहिता


॥शारीरस्थानम्॥

॥प्रथमोऽध्यायः॥[सम्पाद्यताम्]

अथातो रसविमानं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस३.१.१
शरीरं धारयन्तीह षड्रसाः सममाहृताः।
अतोऽन्यथा विकारांस्तु जनयन्ति शरीरिणाम्॥
भेस३.१.२
रूक्षो लघुः स्थिरश्शीतः कषायस्तिक्त एव च।
तीक्ष्णोष्णावम्ललवणौ कटुर्वापि विकाश्यथ॥
भेस३.१.३
शीतः स्निग्धो गुरुर्बल्यः पिच्छिलो मधुरो रसः।
कषायतिक्तकटुकः शीतो रूक्षोऽनिलः स्मृतः॥
भेस३.१.४
रूक्षोष्णमम्लं पित्तन्तु कटुकं च प्रचक्षते।
श्लेष्मा तु मधुरः स्निग्धः शीतो मन्दः स्थिरो गुरुः॥
भेस३.१.५
इत्येतान् रसदोषाणां सहोत्पन्नान् गुणान्विदुः।
तत्र वायुगुणैस्तुल्यान् कषायकटुतिक्तकान्॥
भेस३.१.६
कट्वम्ललवणैस्तुल्यांस्तथा पित्तगुणान्विदुः।
मधुरं लवणाम्लौ च विद्यात्कफसमान् रसान्॥
भेस३.१.७
तस्मादभ्यस्यमानैस्तैः श्लेष्मा देहे प्रवर्धते।
अत्रैकत्र कृतो राशिर्द्विर्महत्वमिहर्च्छति॥
भेस३.१.८
गुणसाम्याद्विवर्धन्ते यथास्वं धातवो नृणाम्।
रसैस्तद्विपरीतैश्च यान्त्येते क्षयमाहृतैः॥
भेस३.१.९
यथोदकं समासाद्य शान्तिं गच्छति पावकः।
कषायतिक्तकटुकै रूक्षो रूक्षैर्विवर्धते॥
भेस३.१.१०
मारुतः स्निग्धभावैश्च ततोऽन्यैरुपशाम्यति।
कट्वम्ललवणैः पित्तमुष्णमुष्णैर्विवर्धते॥
भेस३.१.११
शीतैश्शाम्यति शेषैस्तु गुणानां हि विशेषतः।
स्निग्धः स्निग्धैः कफश्चापि वर्धते मधुरादिभिः॥
भेस३.१.१२
रसैः शाम्यति रूक्षैश्च कषायकटुतिक्तकैः।
एकैकमेकसामान्याद्वर्धयन्ति त्रयस्त्रयः॥
भेस३.१.१३
घ्नन्ति चान्यगुणत्वेन रसा दोषं शरीरिणाम्।
न वायुस्सह तैलेन स्नेहौष्ण्याद्व्यपलीयते॥
भेस३.१.१४
शीतत्वान्मधुरत्वाच्च न पित्तं सह सर्पिषा।
रौक्ष्यात्कषायभावाच्च स्निग्धो मधुर एव च॥
भेस३.१.१५
न श्लेष्मा मधुना सार्धं देहे पर्यवतिष्ठते।
आनूपमांसजा वापि वसा मज्जान एव च॥
भेस३.१.१६
तैलवन्मारुतं घ्नन्ति स्नेहौष्ण्यगुरुभावतः।
शाकादविष्किराणां च रसा मज्जान एव च॥
भेस३.१.१७
घृतवद् घ्नन्ति ते पित्तं शीतमाधुर्यभावतः।
कषायतिक्तकटुकं यच्च किञ्चिदिहौषधम्॥
भेस३.१.१८
मधुरं तत्कफं हन्ति गुणान्यत्वेन देहिनाम्।
अथ नात्युपयुञ्जीत पिप्पलीं क्षारमेव च॥
भेस३.१.१९
लवणं चैव, बह्वेतद् भुक्तं दोषाय कल्पते।
श्लेष्माणं च्यावयित्वा तु नोत्सहेतापकर्षितुम्॥
भेस३.१.२०
पिप्पली पाकमधुरा तस्मात्तां नातिभक्षयेत्।
अत्याहृता पचेद्देहं तीक्ष्णोष्णकटुभावतः॥
भेस३.१.२१
क्षारं च लवणं चैव भोक्तुं नेहेत केवलम्।
मात्रावदुष्णं स्निग्धं च सात्म्यं स्वादु च भोजनम्॥
भेस३.१.२२
अविदाहि च यत् पाके जीर्णे तदुपयोजयेत्।
बलवर्णकरं स्निग्धमुष्णं श्लेष्मानिलापहम्॥
भेस३.१.२३
विदह्यते न मात्रा च सात्म्यतां च करोत्यथ।
स्वादु पुष्टिकरं जन्तोरविदाहि प्रसादनम्॥
भेस३.१.२४
नृणामायुष्करं चैव जीर्णे भोजनमिष्यते।
न जल्पन्न हसंश्चापि न द्रुतं न विलम्बितम्॥
भेस३.१.२५
भुञ्जीताभ्यादृतः स्निग्धं देहे निर्वर्तते रसः।
यथेह वोद्यतो वह्निः प्रवर्तेत सुदारुणि॥
भेस३.१.२६
पच्यमाने तथा भुक्ते रसादिरुपचीयते।
जीवयन्ति परं वर्षा हेमन्तः पाययत्यपि॥
भेस३.१.२७
ग्रीष्मः पचति चाप्येनं परिणाम इवापरः।
भृशमौष्ण्यात्कटुर्ग्रीष्मः सर्वधातुविशोषणः॥
भेस३.१.२८
धैर्यस्थैर्यकरं शीतं, वर्षामद्यब....।
........॥

इत्याह भगवानात्रेयः।


॥शारीरस्थान॥

द्वितीयोऽध्यायः॥[सम्पाद्यताम्]

भेस४.२.?। ....................
....................... मानोऽवतिष्ठते।
जातस्य दशमे मासे नामगोत्रे नमस्कृते॥ भेस४.२.?। तरुणस्य कुमारस्य वर्धमानेषु धातुषु।
अस्थिमज्जसु पूर्णेषु शुक्रं न प्रतिपद्यते॥
भेस४.२.३
अङ्गाङ्गेषु प्रवृद्धेषु प्रतिमूलेषु धातुषु।
शुक्लं च षोडशे वर्षे सुव्यक्तं प्रतिपद्यते॥
भेस४.२.४
तथा वृद्धस्य जन्तोश्च परिक्षीणेषु धातुषु। विवेका[म] न यथापूर्वं विविच्यन्ते परिक्षयात्॥
भेस४.२.५
ततोऽल्परेता भवति सुजीर्णो दुर्बलोऽथवा।
न पश्यति नरः शुक्लं सर्वधातुपरिक्षयात्॥
भेस४.२.६
रक्तं मांसं वसास्थीनि[च] मज्जा शुक्लं तथानलः।
शकृन्मूत्रे च तैर्मन्दं विद्यान्नवतितः परम्॥
भेस४.२.७
इह नर्छति गर्भं स्त्री वातेनोपहता तथा।
योनिदोषेण[या] चान्नेन न हि वन्ध्यास्ति ना च न॥
भेस४.२.८
वमनं रेचनं चैव वस्तिमास्थापनं[वस्तिरा] तथा।
तस्मात्तत्कारयेत्स्त्रीणां प्रसिद्धाः प्रसुवन्ति[प्रस] वै॥
भेस४.२.९
अथात्र भवति प्रश्नः कस्माच्छब्दं[रसा छर्दिं] न नासया।
गृह्णास्यास्येन[गृहीष्वा] वा गन्धं तुल्यं सर्वत्र खं यदि॥
भेस४.२.१०
त्वग्भागे[त्वद्भा] च समे कस्मान्न गृह्णात्यन्यया रसम्।
इति तद्वचनं श्रुत्वा प्रत्युवाच पुनर्वसुः॥
भेस४.२.११
घ्राणं गन्धं च भौमं हि रूपं[रूक्षं] चक्षुश्च तैजसम्।
संस्पर्शं स्पर्शनं वायोः श्रोत्रं शब्दात्मखं[शब्दात्मकं] तथा॥
भेस४.२.१२
रसनं च रसो ह्य् आप्यं[व्या-] तस्मादेतैरिहेन्द्रियैः।
यथास्वं तुल्ययोगित्वाद्विषयग्रहणं स्मृतम्॥
भेस४.२.१३
स्वं स्वं हि विषयं धातुर्विजानात्यात्मनान्वितः।
आत्मेन्द्रियमनोर्थानां बन्धाच्चेति[बन्धिश्चे] समादिश॥

इत्याह भगवानात्रेयः।
इति भेले द्वितीयोऽध्यायः॥


तृतीयोऽध्यायः॥[सम्पाद्यताम्]

अथातोऽसमानगोत्रीयं शारीरं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस४.३.१
इहासमानगोत्रान् तु[वै] ऋतुस्नातां स्त्रियं व्रजेत्।
मेधा विनमरोगं[दि-] सा पुत्रमेवं प्रसूयते॥
भेस४.३.२
बीजदोषाद्यथा सस्यं न सम्यक् विप्ररोहति[-रोहिणी]।
मातापित्रोस्तु दोषेण तथा गर्भः प्रणश्यति[प्रयच्छ]॥
भेस४.३.३
तस्मात्सम्यग्रसाहारा वृतुकाले[दृ-]ऽथ दम्पती।
रहस्संयोगमेयातां स्मरन्तौ मनसा विभुम्॥
भेस४.३.४
विकृताः स्युरगर्भा वै रसापथ्यनिषेवणे।
सन्धारणाद्वा वेगानां योनिदोषेण वा पुनः॥
भेस४.३.५
योनौ दोषोपसृष्टायां[दोषोपवृ-] न गर्भो ह्यवतिष्ठते।
तथैव बाह्ययोनौ[ब्राह्म] हि निर्वाहिण्यां[निर्वाहिन्यां] च सर्वदा॥
भेस४.३.६
गृह्णाति वायुर्यस्यां च योनौ शुक्रम्[रुश्रं] उपागतम्[उपागतः]।
बिभर्ति गर्भणी गर्भं शुद्धार्तवसमन्विता॥
भेस४.३.७
च्यवते च यदा चासौ तदा गर्भः प्रणश्यति।
वातोदरं स्त्रियास्तद्वै तस्मा दूक्षाणि[दूपा] वर्जयेत्॥
भेस४.३.८
भवत्यभ्यधिके शुक्ले पुरुषः शोणितेऽङ्गना।
नपुंसकं तयोः साम्ये तस्माच्छुक्लं विवर्धयेत्॥
भेस४.३.९
यदा तु कललं वायुस्तद् द्विधा कुरुते बली।
यमौ तदा सम्भवतः कृष्णात्रेयवचो यथा॥
भेस४.३.१०
तत्र शुक्लोत्तरे भागे पुमान् रक्तोत्तरेऽङ्गना।
अनेनैव च कल्पेन यमकेष्वपि निर्दिशेत्॥
भेस४.३.११
वायुस्त्वश्ववराहाणां देहेषु वलवान् पुनः।
स तत्र कललं भित्त्वा करोति बहुपुत्रताम्॥
भेस४.३.१२
नाप्नोति च यदा गर्भो रसं दुष्टैः सिरामुखैः।
असंपूर्णो वसन्नागः तथा वर्षाणि तिष्ठति॥
भेस४.३.१३
सम्पूर्णगात्रो भवति यदा स रसभावितः।
तदा सूतो[प्रसौत्यथाकाशं] यथाकालं गर्भः स्त्रीकुक्षिविच्युतः॥
भेस४.३.१४
ये च ते विंशतिः प्रोक्ता योनिदोषाश् चिकित्सकैः[चिकित्सिते]।एतैश्चान्यैश्च बहुभिर्गर्भो व्यापद्यते स्त्रियाः॥
भेस४.३.१५
तस्मादेतांश्चिकित्सेत्तु दोषान् पुत्रचिकीर्षया।
इभाश्वगर्भसारूप्यं[इभाश्वा] प्रयोगाद्धि भवेच्छुचि॥
भेस४.३.१६
वाय्वाकाशर्तुयुक्तो हि दैवतेष्वितरेषु तु।
अन्तर्जातो जातवेदाः प्रभावायोपकल्पते॥
भेस४.३.१७
ऋतौ यदा स्त्रीपुरुषौ प्रसन्नमनसौ रहः।
उपेयातामथ तदा गर्भो भवति सात्त्विकः॥
भेस४.३.१८
ऋतौ यदा स्त्रीपुरुषौ व्यायस्तमनसौ भृशम्।
र्पेयातामथ तदा गर्भो भवति राजसः॥
भेस४.३.१९
ऋतौ यदा स्त्रीपुरुषौ प्रदीनमनसौ रहः।
उपेयातामथ तदा गर्भो भवति तामसः॥
भेस४.३.२०
लक्षणं च समुत्थानमित्येतत्समुदाहृतम्।
तिसृणां सत्त्वयोनीनां, मिश्रांस्तेनैव[मित्रान्तेनैर] लक्षयेत्॥

इत्याह भगवानात्रेयः।
इति भेले शारीरे तृतीयोऽध्यायः॥

चतुर्थोऽध्यायः॥[सम्पाद्यताम्]

अथातः पुरुषनिचयं शारीरं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस४.४.१
इह खलु भो अयम्[जय]-अन्नात्पुरुषो भवति।
रसजन्मानोऽस्य[रज्ज] व्याधयो भवन्ति।
तद्यथा खल्वयं पुरुषो रसजन्मा रसजीवी रसज्वलनो रससमाधिको रसजीवनश्च भवति।
रसानामसम्यगुपयोगान्मिथ्योपयोगात्तद्विकारानृच्छति।
न कश्चिन्मिथ्योपयोगादजीर्णापथ्यभोजनात्स्वस्थो भवति॥
भेस४.४.२
अथात्र प्रश्नो भवति।
कोऽत्र खल्वस्याहारं पचति वातः पित्तं श्लेष्मानुपानं वेति।
नेत्याह भगवान् पुनर्वसुरात्रेयः।
यद्येते पाकहेतवः स्युस्तर्हि न कश्चिदिह दुर्बलाग्निः स्याद्वातादीनां सन्निहितत्वात्, सानुपानत्वाच्च।
अथास्योष्मा तेजश्च शरीरस्थमाहारं पचतः।
ते कायाग्निर् इति[-अग्ने] विद्यात्॥
भेस४.४.३
तत्र भेल आत्रेयमिदमुवाच---भगवन्।
पञ्चधा ये शारीराः[शारीरा] पठ्यन्ते॑ आलोचकराजकभ्राजकसाधक-पाचकभेदेन[वा]॑ तेषां कथम् इदं[इदां] पञ्चाभिधायिनां पृथक्त्वं भवतीति॥
भेस४.४.४
अत्रोवाच भगवानात्रेयः तत्रालोचको नाम वर्षशीतातपप्रवृद्धः।
स द्विविधः।
चक्षुर्वैशेषिको बुद्धिवैशेषिकश्चेति।
चक्षुर्वैशेषिको नाम य आत्ममनसोस्सन्निकर्षज्ञानमुदीरयित्वा चित्ते चित्तमप्याधाय संस्वेदजाण्डजोद्भिज्जजरायुजानां चतुर्णां भूतग्रामाणां लक्षणसंस्थानरूपवर्णस्वरैरुच्चावचानां पुष्पफलपत्राणां रूपनिर्वृत्य् अर्थमेकैकस्य[अर्थमैकेकं द्वौ वा त्रयो वा] द्वयोस्त्रयाणां सर्वेषां वा युगपत्प्रणिपतितानां चक्षुषा वैशेष्यमुत्पादयतीति[वैषम्य]॥
भेस४.४.५
बुद्धिवैशेषिको नाम यो भ्रुवोर्मध्ये शृङ्गाटकस्थः सुसूक्ष्मानर्थानध्यात्मकृतान् गृह्णाति ज्ञानेन, ज्ञेयं ज्ञानं कृत्स्नज्ञेयकैवल्यार्थेषु दर्शयति।
तस्माद् ज्ञानज्ञेयं ज्ञात्वा ज्ञानं गृह्णाति।
गृहीतं धारयति।
धारितं प्रत्युदाहरति, अतीतं स्मरति, प्रत्युत्पन्नं कृत्वाऽनागतं प्रार्थयति, जातमात्रश्च पुनरनुपदिष्टस्वभावं मातृस्तन्यमभिलषति।
ध्याने प्रत्याहारे योजनाच्च बुद्धिवैशेष्यमुत्पादयतीति॥
भेस४.४.६
तत्र भ्राजको नाम यो ह्यस्य[यस्य] शरीरं लक्षणं चोपगमयति, प्राधान्यं प्रदर्शयति, शिरःपाणिपादपार्श्वपृष्ठोदरजङ्घास्यनखनयनकेशानां च प्रतिभावृद्धिविशेषानुत्पादयति, भ्राजयतीति भ्राजकः॥
भेस४.४.७
प्रभविष्णुत्वेन्द्रियप्राबल्याद् बुध्यवस्थाहंकारेण वा-अभिमतर्थमर्थेभ्य[अभिमते] आत्मकृतमाधते।
चक्षुःश्रोत्रघ्राणरसनस्पर्शनवाक्पाणिपादपायूपस्थेभ्यः सर्वेषां विषयार्थानां स्वभावोपरक्तानां परस्परेभ्यो रागमुत्पादयतीति।
अन्तर्मध्ये च पित्तस्थानमन्तरं प्रविश्य रागं जनयतीति राजकः[राजकम्]॥
भेस४.४.८
साधको नाम यः[या] शब्दस्पर्शगन्धेभ्योऽर्थकामेभ्यश्च देवपितृऋषिभ्यश्च इह चामुत्रकाणां च पादार्थानां विश्रेयसम?धिकृत्य सर्वपदार्था नाप्नोति[नां नूति] स्वयुक्त्या साधयतीति साधकः॥
भेस४.४.९
पाचको नाम अशितपीतलीढखादितमाहारजातं जातनीर्यं पाचयतीति[ - -च] पाचकः।
यः स्वकं काममेवाग्निं प्रपूरयति हर्षयति॥
भेस४.४.१०
भवन्ति चात्र--- योऽयं निर्दहति क्षिप्रमाहारं सर्वदेहिनाम्।
अपानमद्यनिदनः? कायाग्निः परिपठ्यते[परिपर्यते]॥
भेस४.४.११
प्रभावलक्ष्यस्संयुक्तो[-लक्ष्यसति] जीवस्येह सनातनः।
नाभिमध्ये शरीरस्य विज्ञेयं सोममण्डलम्॥
भेस४.४.१२
सोममण्डलमध्यस्थं विद्यात्तत् सूर्यमण्डलम्।
प्रदीपवच्चापि नृणां तस्य मध्ये हुताशनः॥
भेस४.४.१३
देहिना भोजनं भुक्तं नानाव्यञ्जनसंस्कृतम्।
सूर्यो दिवि यथा तिष्ठन् तेजोयुक्तो गभस्तिभिः॥
भेस४.४.१४
विशोषयति सर्वाणि पल्वलानि पयांसि च ।
तद्वच्छरीरिणां व्यक्तं[भुक्तं] जाठरो नाभिसंस्थितः॥
भेस४.४.१५
मयूखैः क्षिप्रमादत्ते सूर्यकान्तो मणिर्यथा।
क्षिप्रं सम्यक् प्रदहति गोमयं काष्ठमेव च॥
भेस४.४.१६
स्थूलकायेषु सत्त्वेषु यवमात्रप्रमाणतः।
ह्रस्वकायेषु सत्त्वेषु त्रुटिमात्रप्रमाणतः॥
भेस४.४.१७
क्रिमिकीटपतङ्गेषु वायुमात्रोऽवतिष्ठति।
यस्तं चिकित्सेत्सीदन्तं[चिकित्सिद्धन्तं] व्याधिना चापि देहिनाम्॥भेस४.४.१८। आयुर्वेदाभियोगेन स वै कायचिकित्सकः।
रसं च शोणितं चैव मेदो मांसमथापि च॥
भेस४.४.१९
महत्यनशने न्य़्णां सर्वाण्येतानि खादति।
अग्नीषोमात्मकं सर्वं जगत्स्थावरजङ्गमम्॥
भेस४.४.२०
अग्नीषोमात्मकाः सर्वे देहिनस्तु चतुर्विधाः।
सूर्यात्मकानि सर्वाणि[चान्द्राणि] तथा सोमात्मकानि च॥
भेस४.४.२१
महत्यनशने न्य़्णां तेनान्त्राणि स[न] खादति।
जाठरो जलसम्भूतः पावकः पवनैस्सह॥
भेस४.४.२२
प्रदीप्यते नृणां कोष्ठे सति वेन्धनपूरितः।
इक्ष्वाकुकोशम्[शोक] आस्थाय यथा दीपः स्थिरेऽम्भसि॥
भेस४.४.२३
तिष्ठते तिमिरे सक्तो न तथा चलितेऽम्भसि।
एवं शरीरिणां कोष्ठे[रूष्ठे] वैकृतेन पुनः पुनः॥
भेस४.४.२४
अग्निर्वैषम्यमाप्नोति पूर्यमाणः पुनः पुनः।
स च यत्नेन वै रक्ष्यो विपन्ने[विपन्नो] दोषदर्शनात्।
छर्द्यते[द्वियर्त] चातिसार्येत विकारं चायमृच्छति॥
भेस४.४.२५
असावसम्प्राप्तकालो[श्वासं] य एवं म्रियते, वर्षशतं हि पुरुषायुस्तच्चानाप्तुं जीर्णलघुपथ्यभोजनानुवर्तिना भवितव्यमिति॥
भेस४.४.२६
तत्राह कस्माद् अलसकविषूचिकावान्[-विषूचिकावसाध्यये वागवि] सद्य एवागदी भवति कश्चिन्म्रियत इति? अत्राह---रूक्षस्याध्यशनेन-उत्पीडिता[उत्पिति] वातपित्तश्लेष्माणः[-श्लेष्माणि] ऊर्ध्वमधो वा नानुलोमा भवन्ति, उद्वृत्तैस्तत्र तैः सद्य एव म्रियते।
स्निग्धस्याध्यशमोत्पीडिता वातादयः ऊर्ध्वमधो वाऽनुलोमाः[अनुलोमांस्वाङ्गसांस्तु] स्वाङ्गदेशांस्तु प्रदद्यन्ते, तत्र तैः सद्य एवागदी भवति॥
भेस४.४.२७
अथ दशान्तर्गुहाः[-अन्तहान्त], दश बहिर्गुणाः?।
तद्यथा---द्विचक्षुषी द्विनासिके द्वे श्रवसी कण्ठनाडीगुदमेढ्रवायुस्रोतांसीति[स्रोतसी कण्ठनाभि-] दश अन्तर्गुहाः।
दश धमन्यो हृदये[हृदयं] निबद्धा भवन्ति।
ताः प्रभवे[प्रभवं] चतुरंगुलमात्रं गत्वा विंशतिर्भवन्ति।एवमेता दश धमन्यः षष्टिर्भवन्ति।
तत्र तु भवन्ति[भवन्तुत्री] त्रीणि शतसहस्राणि षष्टिरियं[षह्तंशालि] जालानि सिराणां।
तद्यथा---वृक्षः[वृक्ष] शाखावृतः[शाखावृत] फलपलाशैरवतरति सर्वत्र।
तद्यथा वा हागो[हन्यो]ऽश्मभिरततः[अश्मभिरतरः] तथायं[ततायं] सिराभिरवततः।
रोमकूपे रोमकूपे[रूपकूपे] ह्यस्य सिरामुखं भवति, यतः स्वेदः[स्वेतः] क्षरतीति[क्षिरतीति]॥
भेस४.४.२८
तत्राह कस्मादयं पुरुषो न सन्ततमपस्मरतीति? अत्रोच्यते---यथा सरितां प्रादुर्भावे वारिजानि सत्त्वानि प्रादुर्भवन्ति हासे वा हसन्ति।
यदा यदा रसवेगं प्राप्नुवन्ति तदा तदा अपस्मारयन्ति।
तस्माद् द्व्यहात्त्र्यहात् पक्षान्मासान्तराच्चापस्मरन्ते॥
भेस४.४.२९
केचिद्रक्षोपहत इत्याहुः, तच्चायुक्तम्।
यदि ह्येवं स्याद् दृश्येरन् पुरुषशरीरे प्रहारादीनि वा।
ततश्च[तस्तच्छ] नैवम्।
वेतालाभिभूत[वेलावभूत] इति चेत्तचाप्यनुपपन्नम्।
पुण्यानि ह्येषां मनांसि[वनांसि] ध्यायन्ति[ध्यायन्त्ये]।
यदि चैवं कदाचिद्भवति। तस्मात्तदेव पाठ्यं रसोपहतमिति चेदेवमेव।
रसप्रविवेककाले तृतीयकचतुर्थकाव पि[व] दृश्येते ज्वरावपि।नेषत्रां ह्यननार्थः?॥
भेस४.४.३०
अत्राह किं खल्वस्य[जल्प] गर्भस्य प्रथमं सम्भवति? हस्तौ[हस्तं] पादाविति बडिशः तत्प्रतिष्ठितत्वात्[प्रतिष्टतात्] शरीरस्य[शईरश्व]।
पश्चाद्गुद इति शौनकः तदाश्रितत्वाद्वायोः।
नाभिरिति खण्डकाप्यः तत्र नाडीनां प्रतिष्ठितत्वात्[प्रतिष्ट]।
हृदयमिति पराशरः विज्ञानमूलकानां तन्मूलत्वात्।
शिर इति भरद्वाजः शरीरस्य तन्मूलत्वात्।
चक्षुरिति काश्यपः।
नेत्याह भगवान्पुनर्वसुरात्रेयः।
तस्मादर्बुदमेवास्य प्रथमं सम्भवति।
तत्र सर्वे शरीरप्रदेशास्सम्भवन्ति अर्बुदस्नेहोत्पन्नाः॥
भेस४.४.३१
अत्राह---किं नु[तु] गर्भो[गर्वो] मातुरुदरस्थोऽश्नाति[मातुरस्थो] न वेति।
अत्रोच्यते नाश्नाति। यदि ह्यश्नीयात् स्याद् अस्य[अस्या पुरुष] पुरीषमतीतकालं, न चेदमस्ति[चेदसि]।
कथं तर्हि? नाभ्यां नाडी प्रतिष्ठिता तस्यामपरा मातुर्हृदयमाश्रिता तया मातुरन्नरसोऽभिवहन् गर्भं प्रीणयत्यभिवर्धयति।
तद्यथा कुल्याः केदारमभिसंश्रयन्त्यो भावयन्ति तद्वत्॥
भेस४.४.३२
तत्राह कथं गर्भो मातुरुदरे तिष्ठतीति।
ऊर्ध्वमिति शौनकः।
अवाक्छिरा इति भरद्वाजः।
नेत्याह भगवान्पुनर्वसुरात्रेयः।
यद्यूर्ध्वं तिष्ठेत् तर्हि मातृघाती स्यात्।
यद्यवाक्छिराः स्वघाती स्यात्।
कथं तर्हि? तिर्यक् सर्वैरयमङ्गप्रत्यङ्गैः प्रतिभुग्नः शेते॥ तस्य तदननतरं तत्प्रथमं प्रतिपद्यते [सन्दर्भेणानेन प्रतिपिपादयिषितोऽर्थः न स्पष्टः]।
तस्मात्तस्य शिरः प्रथमं पुनर्वसुरात्रेयः प्रतिपद्यते।
तदस्य गुरुतरं भवतीति।
अथ खलु वृक्को मेदो गुरुरिति संप्रवृद्धौ परस्परमभिवर्धयन्ति॥
भेस४.४.३३
तत्र श्लोकः, ऊष्मा रसस्थो देहेऽस्मिञ्जीवनं गृह्य तिष्ठति।
रसोद्भवः पुमांस्तस्माद्रसो जीवनमुच्यते॥ इत्याह भगवानात्रेयः।

इति भेले शारीरे चतुर्थोऽध्यायः॥

॥पञ्चमोऽध्यायः॥[सम्पाद्यताम्]

अथातः शरीरनिचयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस४.५.१
इह खल्वोजस्तेजः शरीरे नित्ये च[व] भवतः ।
तयोः[तेयो] स्थानानि द्वादश भवन्ति।
तद्यथा---त्वक्शोणित[वशोणीत]-मांसमेदोऽस्थिमज्जाशुक्लस्वेदपित्तश्लेष्ममूत्रपुरीषाणीति।
तान्यव्यापन्नानि सुखमित्युच्यते।
व्यापन्नैस्तु[व्यापन्नेस्तु] वातपित्तश्लेष्माणः प्रदुष्टा रसादिषु विकारानुपजनयन्ति॥
भेस४.५.२
अथ योनयश्चतस्रो भवन्ति।
तद्यथा---जरायुजाण्डजोद्भिज्जस्वेदजाश्चेति।
तत्र जरायुजा जरायुयुक्तास्संभवन्ति[-यु] पशुमृगमनुष्यादयः।
शकुन-मत्स्य[मछ]-कच्छप-सर्प[सर्व]-प्रभृतयोण्डजाः।
यूकामत्-कुण[कुप]-पतङ्गाशिविषमक्षिकादयः स्वेदजाः।
उद्भिज्जास्तु तृणलतावृक्षवनस्पतय इति॥
भेस४.५.३
तत्र पुष्पफलवन्तो वृक्षाः।
अपुष्पफलवन्तो वनस्पतयः।
सपुष्पाः सफलाश्चापुष्पाश्चाफलाश्च बीरुधः।
फलपाका लताश्चौषधयः।
तत्र ये श्वेतक्षीराः सौम्याः, रक्तक्षीराः काद्रा वारुणा वालिग्रहा? इति॥
भेस४.५.४
इह खलु त्रिषु दशरात्रेषु पुमान् रसेन संयुज्यते।
आसां तु खलु चतसृणां योनीनां ऋतुकाले यदा रसाः सम्यक् प्राप्तिं वा गच्छन्ति तदा गर्भः तिष्ठत्य्[तिष्टे] अविकृतः विपर्यये विपर्ययः॥
भेस४.५.५
त्र्यहन्तु[-ह] खलु पुराणरुधिरं परिवर्जयेत्।
किञ्च तत्पुराणम्? यदादितस्त्र्यहं परिस्रवदृतुकाले तत्पुराणम्।
तस्मिन् त्र्यहे गर्भ-उपक्रमणे[उपक्रमेण] न तिष्ठति।
अवस्थितो[अवस्थि वा] वा नायुषि समर्थो भवति।
निर्गते[निर्गवे] तु त्र्यहेण पुराणे रुधिरे चावस्थिते[ण] शुद्धस्नातायाश्चतुर्थषष्ठ-अष्टम[अष्ट]-दशम-द्वादशेषु[द्वादशमु] अहस्सु गर्भोवक्रममाणः पुमान् भवति।
पञ्चमसप्तम-नवमैकादशेषु[-नवैकादशु] स्त्रीत्वायोपकल्पते।स एष आसप्तरात्रात्सर्वसञ्चारोऽभिदधत्यतः परमसञ्चारोवकृतत्वाद्वाल्पात्?॥
भेस४.५.६
स्त्रीणां खलु शोणितं शरीरं शोषयति तस्मान्न ताः रजः पश्यन्ति।
परिपूर्णधातुशरीरास्तु यदा भवन्ति तदा विवेकजललोहितं मासे मासे प्रतिवेदयन्ति।
प्रतिगतप्रवेशं च तत्पुनर्मासेन समागच्छत्यार्तवम्॥
भेस४.५.७
यदा तु तच्छोणितं दुष्टं मार्गं प्रतिपद्यते तदा स्त्रीणां प्रदरो भवति।
तं शरीरं शोषयन्तं[शोषय] लोहितपित्तभेषजेनोपक्रमेत॥
भेस४.५.८
गर्भिण्यास्तु त्रिधा काये रसोऽभिनिर्वर्तते, गर्भत्वाय[गर्भात्पा] स्तन्यत्वाय रसत्वाय चेति॥
भेस४.५.९
इह खलु भोः गर्भात्स्थिरादन्तःस्थादायतमुदरं[-स्थितावस्थातमा] भवति मध्ये नार्यामन्तर्गतायाम्।
स्थूलमूलसंस्थितसंवृत्तमच्छिद्रं पुरुषोऽन्तर्गते।
द्रोणीवोदरं[द्रोणिचोदरं] भवत्युभयोरन्तर्गतयोः।
वामं पार्श्वमायतं मातुरुदरस्था स्त्री, दक्षिणे पुमान्, मध्ये नपुंसकम्।
वाममक्षि ह्रसति नार्यामन्तर्गतायाम्, पुरुषे दक्षिणम्, उभे नपुंसके।
सव्यं पादं पूर्वं प्रक्रामति सव्येन चाक्ष्णा भ्रुवा च पूर्वं प्रति कुरुते, चेष्टते च[न] सव्येन[सर्वेन] पार्श्वेन प्रायः संविशति[शंसते] स्त्रीसंज्ञानेषु च प्रायशो दौहृदं कुरुते नार्यामन्तर्गतायाम्।
विपर्यये तदतः पुरुषं बिभर्तीति विद्यात्॥
भेस४.५.१०
अथ इह[ये] खलु गर्भस्य षड्भ्यः स्थानेभ्यः शरीरमभिनिर्वर्तते।
तद्यथा---जलकायाद्वायुकायात्तेजःकायात् पृथिवीकायादाकाशकायाद्रसकायाच्चेति॥
भेस४.५.११
षड्धातुरेवायं पुरुषो भवति।
धातवः पुनः पञ्च भूतानि ब्रह्म यदव्यक्तम्[पदव्यक्तम्]॥
भेस४.५.१२
तत्र यत् खरकठिनम्, तद्यथा---दन्तकेशरोम-नख[मुख]-पुरीषस्नाय्वस्थि, गन्धज्ञानघ्राणसङ्घातगौरवाणीति।
यद् द्रवं स्निग्धं मृदु वा तदौदकम्॥
भेस४.५.१३
तद्यदा[तद्यमु] सन्निपतितयोर्यत्र पुरुषः पूर्वमर्थं[सर्वमर्ध] नन्दयति जघन्यं स्त्री तत्र पुमानिहाङ्गप्रत्यङ्गैः[पुमानिप्रत्यङ्गैः] सदृशो जायते।
यत्र तु स्त्री प्रथममर्थं साधयति जघन्यं पुरुषः, तत्र स्त्री वाङ्गप्रत्यङ्गैस् सदृशी[सदृशो] जायते॥
भेस४.५.१४
अथ स्त्रीपुरुषावृतुकाले[-नाले] रूक्षाणि वातलान्यन्नानि[वातशान्यन्नानि] सेवेते, वेगांश्च धारयतः, तयोर्गर्भः शोणितादिषु वातसंदूषितेषु निःसृतो[विःसृतो] भवति, गद्गदबाधिर्यमिन्मिणत्वमन्येषां च वातपित्तविकाराणामन्यतमं प्राप्नोति।
एवमेव पित्तश्लेष्मलानृतुकाले मातापित्रोः सेवमानयोः पित्तश्लेष्मविदूषितो गर्भः सम्भवति॥
भेस४.५.१५
अथ खलु गर्भशरीरं चत्रुदशेन्द्रियकायाः समनुप्रविशन्ति।
विधृताश्चानुपलभ्यमानाश्च सप्तदिव्याः सप्तमानुषाः॥
भेस४.५.१६
तत्र दिव्याः ब्रह्मदेव[ब्रह्मदेवतं]-वरुणगन्धर्वपिशाचासुरमहारजकाया भवन्ति।
तान् व्याख्यास्यामः।
तत्र यः सत्यार्जवानृशंसक्षमादम्-अध्यान[अद्वायान]-सम्पन्नोऽध्यात्मतत्त्वदर्शी भवति तं ब्रह्मकायमिति विद्यात्॥
भेस४.५.१७
यस्ताद्यशीलोपादानयद्यत्रैयवान्? मुदितस्तं देव कायमिति विद्यात्॥
भेस४.५.१८
यो यज्ञनन्दितरागदृष्टिः सलिलप्रियश्चिरस्नायी पिङ्गाक्षः कपिलकेशः संभवति तं वरुणकायमिति विद्यात्॥
भेस४.५.१९
यस्तु प्रियनृत्यगीतवादित्रः स्त्रीविहारनित्यः शुचिवस्त्रगन्धमाल्यानुलेपनरतिर्भवति तं गन्धर्वकायामिति विद्यात्॥
भेस४.५.२०
यस्तु प्रियमद्यमांसमत्स्यस्तथा गोमहाशनो बीभत्सो बालानां भीषयिता निद्राबहुलश्च भवति तं पिशाचकायमिति विद्यात्॥
भेस४.५.२१
यस्त्वात्मगुरूणां[-गु] मानयिता पश्चाद् द्वेषी चण्डः क्रोधनो ज्ञातीनां भेदको भवति तमासुरं कायमिति विद्यात्॥
भेस४.५.२२
यस्तु धीरः शूरः महाभोगो महोत्साहो महैश्वर्यश्च भवति तं महाराजकायमिति विद्यात्॥
भेस४.५.२३
अनुरागेण मानुषास्तु प्रत्यात्मदर्शनश्रवणस्पर्शनरसनघ्राणसुखदुःखमिति तत्प्रविद्यासहिताः केवलाश्चावतिष्ठन्ते कार्त्स्न्येन।तैरन्वितो जन्तुर्लिङ्गति निमिषति आकुंचति प्रसारयति वेद्यं वेदयते॥
भेस४.५.२४
स[न] यदा भेदं गच्छति तदायमन्ततः[तथायः अन्तः कायमेव यान्ति] जलं जलकायमेव याति, वायुर्वायुकायं, तेजः तेजःकायं, पृथिवी पृथिवीकायं, आकाशमाकाशकायमिति।
यथाकायम्[दायम्]-इन्द्रियकायं[-कालं] भजते॥
भेस४.५.२५
भवति चात्र--- विद्यमाने शरीरे वै धातुर्धातुं नियच्छति ।
मनो बुद्धिश्च सर्वेषां ब्रह्मणि प्रतितिष्ठति॥ इत्याह भगवानात्रेयः।

इति भेले शारीरे पञ्चमोऽध्यायः॥

॥षष्ठोऽध्यायः॥[सम्पाद्यताम्]

अथातः खड्डिकां गर्भावक्रान्तिं शारीरं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस४.६.१
इह खलु भो मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्च।
अस्ति च सत्त्वम् औपपादकम्[औपवादकम्] इत्यात्रेयवचनम्।
नेति भरद्वाजः ।
अमातृजश्चायं गर्भः अपितृजश्चानात्मजश्च-असात्म्यजश्[अनात्मजश्] चारसजश्च।
नास्ति च सत्त्वम् औपपादकम्[औपवाधिकम्] इति।
यदि हि माता पुत्रं जन्येत् भूयिष्ठं हि स्त्री पुत्रकामा मैथुनवर्गमभिसन्धाय पुत्रं जनयेत् स्त्रीकामा च स्त्रियम्॥
भेस४.६.२
यदा[-वि] जीवेन सह सूक्ष्मावग्निमारुतौ गर्भं विशतः तदा[-व] द्वावेतावङ्गप्रत्यङ्गानि विकुरुतः,तौ चेष्टयतः[चेष्टतः], तौ वर्धयतः, तावेव यदा शरीराद् व्यवक्रामतः तदा तद्भवति निर्वातो निरूष्मा प्रेतो मृत इति।
नेत्याह भरद्वाजः।
मृतोऽपि जन्तुः वायुनाध्माष्यते, अग्निना शोष्यते।
नेत्याह भगवानात्रेयः।
सह वा तस्याग्निमारुतौ जीवयतः, तयोर् अपक्रान्तयोर्[अपक्रान्तयोर्वात्य] बह्याग्निमारुतावाविशत इति॥
भेस४.६.३
यत्पुनराः सति च भूतनानात्वे[भूतर्नात्वे] कथमेकः स्यादिति? अत्रोच्यते।
यत्रैतन्नानात्वमाश्रितं तदेतदव्यक्तमस्ति पञ्चमहाभूतसंग्रह इति॥
भेस४.६.४
यत्पुनराह यद्यव्यक्तं सर्वं स्यादविकारः स्याद् इति[य---स विवस्यादधि], अत्रोच्यते।
वातपित्तश्लेष्मकृता रससमुत्था अस्य व्यक्ताः प्रोच्यन्ते विकाराः, अव्यक्ते ह्युक्ते ते[रुते] व्यक्ताः कथमव्यक्तं स्रक्ष्यन्ति, कथं तर्हि शरीरे तद्विक्रियते, उन्मादः कथमव्यक्तं मनः स्पृशतीत्य्[स्पृशतिथेन] एतच्चानुपपन्नम्।
किं तर्हि यथादित्यस्सम्भूतोऽपि मेघान्तरितो[मेमाम्तरितो] न प्रकाशमुपजनयति तथा[---] मनोऽन्तर्हितेषु विज्ञानस्रोतस्सु तमसा स्मृतिं नोपजनयतीति॥
भेस४.६.५
यत्पुनराः यद्ययं परलोकाद् गर्भोऽवक्रामेन्नास्य[गर्म उक्त] किञ्चित्तत्रादृष्टं स्यादिति, अत्रोच्यते।
इह तावदयं चिरोत्सृष्टानि विज्ञानानि विविधानि चाश्चर्यभूतानि न स्मरति किं पुनर्देहान्तराणि भूतानि भावविशेषा-अन्तराणि[---]॥
भेस४.६.६
तत्र श्लोकः--- तमसा भावितो यो वै संस्मरेन्न स मानवः।
संस्मरेत्पूर्वचरितं सुकृते वेदवद्[वेदविदृज] द्विजः॥

इत्याह भगवानात्रेयः।
इति भेले शारीरे षष्ठोऽध्यायः॥

॥सप्तमोऽध्यायः॥[सम्पाद्यताम्]

अथातः शरीरसंख्याशारीरं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस४.७.१
इह खलु शरीरे षट् त्वचो भवन्ति।
उदकधरा प्रथमाऽसृग्धरा द्वितीया, सिध्मकिलाससंभव[मं] अधिष्ठाना तृतीया, दद्रुकुष्ठसम्भवाधिष्ठाना चतुर्थी, अलजीविद्रिधिसम्भवाधिष्ठाना पञ्चमी, षष्ठी तु यस्यां छिन्नायामुत्ताम्यति तिमिरमिवानुप्रविशति दुष्टारुष्काणि चास्य यामाश्रित्य जायन्ते इति॥
भेस४.७.२
अस्थिगणना---त्रीणि सषष्टीनि[सषष्ठिणि शवा] शतान्यस्थ्नां तद्यथा---द्वात्रिंशद्दन्ताः, द्वात्रिंशद्दन्तोलूखलानि, विंशतिर्नखाः[पणिपादशलानान्यङ्गुल्यस्थीनि], षष्टिः पाणिपादाङ्गुल्यस्थीनि, विंशतिः पाणिपादशलाकाः, चत्वारि पाणीपादशलाकाधिष्ठानानि, द्वे पार्ष्ण्योरस्थिनी[पार्षोरस्थीनि], चत्वारः पादयोः गुल्फाः, द्वौ मणिकौ, माणिके द्वे हस्तयोः, चत्वार्यरत्न्योरस्थीनि[चत्वार्यशयो], द्वे जङ्घयोः, द्वे जानुनी, द्वे जानुकपालिके, द्वावूरुनलकौ[दावूरुद्वावूरुनशक्तौ], द्वावंसौ, द्वे अंसफलके, द्वावक्षकौ, एकं जत्रु, द्वे तालुनी, द्वे चिबुके, द्वे श्रोणिफलके, एकं भगास्थि, पञ्चचत्वारिंशत् पृष्ठगतान्यस्थीनि[पृष्ठगतौ धृस्थिनि], पञ्चदश ग्रीवायाम्, चतुर्दशोरसि, चतुर्विंशतिः पर्शुकाः पार्श्वयोः, तावन्ति[यावन्ति] चैव स्थालकानि, तावन्ति चैव स्थालकार्बुदकानि, एकं हन्वस्थि, द्वे हनुबन्धने, एकं नासास्थि-हनु[तथा हनु]-कूटललाटम्, चत्वारि शीर्षकपालानि॥
भेस४.७.३
हृदयमेकं चेतनायतनम्।
दश प्राणायतनानि तद्यथा---मूर्धा कण्ठो हृदयं गुदो नाभिर्वस्तिरोजः शौक्लं शोणितं मांसमिति॥
भेस४.७.४
पञ्चदश कोष्ठाङ्गानि[कोष्ठानि]।
तद्यथा---नाभिश्च हृदयं च क्लोम च यकृच्च प्लीहा च वृक्कौ च वस्तिश्च पुरीषाधानं चामाशयश्चोत्तरगुदश्चाधरगुदश्च क्षुद्रान्त्रं च स्थूलान्त्रं च वपावहनं चेति॥
भेस४.७.५
षट्पञ्चाशत्प्रत्यङ्गानि तद्यथा---द्वौ गुल्फौ, द्वे नितम्बे, द्वे जङ्घे, द्वे पिण्डिके, द्वे ऊरुपिण्डिके, द्वौ स्फिचौ, द्वौ वृषणौ, एकं शेफः, द्वौ शङ्खौ, द्वौ बङ्क्ष्णौ, द्वौ कुकुन्दरौ, एको वस्तिः, शीर्षमेकमुदरमेकम्, द्वौ स्तनौ, द्वौ बाहू, द्वांवसकौ, एकं चुबुकं, द्वावोष्ठौ, द्वे दन्तवेष्टे, द्वे सृक्वणी[सृक्वणीति], एकं तालु, गलशुण्डिका एका, द्वौ कर्णौ, द्वे कर्णशष्कुलिके, द्वौ गण्डौ, द्वे अक्षिकूटे, चत्वार्यक्षिवर्त्मानि, द्वे अक्षिणी[अक्षिणीति] इति॥
भेस४.७.६
शरीरद्रव्याणी---दशोदकस्याञ्जलयः शरीरे प्रच्यवमानं पुरीषमनुबध्वात्यतियोगे, नवाञ्जलयः पूर्वस्याहारपरिणामधातोर्यन्तं रस इत्य् आचक्षते[आचक्षति] कुशलाः, अष्टौ शोणितस्य, सप्त पुरीषस्य, चत्वारो मूत्रस्य, द्वौ मेदसः, एको मज्ज्ञः, मस्तिष्कस्याञ्जलिः शुक्लस्य चेति॥
भेस४.७.७
अथात्र प्रश्नो भवति--- कतमयं जीवो[देवो] देहाद्देहान्तरमुपक्रमत इति? अत्रोवाच भगवानात्रेयः।
जलूकाया इवास्य केचिद्गतिं ब्रुवते।
तन्न युक्तम्।
इह व्यक्त्यन्तामूर्तं युगपत्स्यादेवापरेऽप्येवमिच्छन्ति।
सर्वथापि मुमुक्षोरस्यायमन्तरात्मा परमुपक्रमत इति सर्वथाप्यस्मिन् परित्यक्ते परिचये तावदसंप्राप्तं तरा स्यात्।
अवस्थानत्वाच्चेत्तदिष्टं कर्मणोप्येवं भवति वैय्यर्थ्यमपि तु खलु प्रतिश्रुत्यापहितः परत्र गमनं तस्य विद्यात्।
अथवा यथादित्यस्य हृदये भूमौ रश्मयः प्रतितिष्ठन्ते।
विलम्बितावेवमतस्य तत्र गमनमनुपश्चेदिति॥
भेस४.७.८
अथ खलु पुरुषे[पुरुषा] षोडशाध्यात्मदेवता भवन्ति।
तद्यथा---अग्निश्च पृथिवी चापश्चाकाशश्च वायुश्च विद्युच्च पर्जन्यश्च इन्द्रश्च[-ग] गन्धर्वश्च मृत्युश्चादित्यश्च चन्द्रमाश्च त्वष्टा[तृष्णा] च विष्णुश्च प्रजापतिश्च ब्रह्मा चेति।
ताः कर्मभिर्विद्यादुत्पत्तितश्च परिमाणतश्च विद्यात्।
ऊष्मा ह्य् अत्राअग्नेश्[-ग्निश्] च कर्म देहे।
घ्राणं च पृथिव्याः, स्नेहो रसो ज्ञानं चोदकस्य, स्पर्शनं वायोः, श्रोत्रं चाकाशस्य, रूपादानं पर्जन्यस्य संवेगादानानि विद्युतः, बलमिन्द्रस्य, कामो गन्धर्वाणां, कोपो मृत्योः, चक्षुरादित्यस्य, प्रसादश्चन्द्रमसः, रूपं त्वष्टुः, चेष्टा विष्णोः, व्यवायः प्रजापतेः, बुद्धिर्ब्रह्मण इति॥
भेस४.७.९
तत्र श्लोकः--- विशुद्धनेत्रास्तपसो मुनयः शान्तकल्मषाः।
जगतश्चोपपन्नांश्च सर्वान्[स्वर्भा] पश्यन्ति मानवान्॥ इत्याह भगवानात्रेयः।

इति भेले शारीरे सप्तमोऽध्यायः॥

॥अष्टमोऽध्यायः॥[सम्पाद्यताम्]

अथातो जातिसूत्रीयं शारीरं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस४.८.१
इह खलु भोः याः स्त्रियः पथ्यलघुभोजिन्योऽनुदावर्तनशीला अप्रदुष्टा यथागर्भाशयाः सुविशुद्धस्रोतसो भवन्ति, ता आचक्षते अवन्ध्याः इति कुशलाः।
ता इष्टरूपं मेधावि चापत्यं जनयन्ति, विपर्यये विपर्ययः॥
भेस४.८.२
ऋतौ च गर्भोऽवतिष्ठते।
तद्यथा---सुकृष्टक्षेत्रे बीजं प्रक्षिप्तं तत्र व्रीहिः व्रीहित्वाय कल्पते, यवो यवत्वाय एवमेव[प्रिय] इन्द्रियमृतुकाले विसृष्टमदुष्टायां[-मामट्ट] योनौ गर्भाशयमुपगच्छति।
तद्यथा[तद्यथाय]---आवर्तगृहीताः प्रतीपं प्रतिधावन्ति तद्वत् शुक्लशोणितं गर्भाशये[गर्भाशय अस्तिकं] आसिक्तं क्षीरमिव।
तच्चानेककनकमिव[तं चानेकनकमिवो]-उदुम्बरेण निषिक्तमेकत्वमापन्नमृद्धिं लभते॥
भेस४.८.३
सा चेद् एवमाकाङ्क्षेतौद्वाहिके[एवया कांक्षा-] शिवावदातपुत्रं जनयेयम्[जनयन्ति] इति, यवानां मन्थं[मन्दं] सर्पिस्सम्युक्तं सप्तरात्रमनुपहतं भुञ्जीत।
ततो दौहृदिनी[दौहृत्द्वि] श्वेताया गोः सरूपवत्सायाः पयसि पायसं पाचयित्वा तदेवाश्नीयात्[-अत्मीयात्]।
शुक्ले च वाससी परिदध्यात्[परिरभ्यात्]।
सर्वश्वेतं चास्याः संस्कृतं विमानं कारयेत्।
वृषभमश्वं[वृषभगग] वास्या दर्शयेत्।
एवमवदातं पुत्रं जनयेत्।
नेत्याह शौनकः।
पैङ्गल्यं वा ततोऽप्यत्रेति।
आत्रेय उवाच किं स्यादावाधकम्, पिङ्गलावयवया आयुष्मन्तो नीरोगाश्च भवन्तीति॥
भेस४.८.४
सा चेदेवम्[इति हा] आशासीत[आसित] श्यामं लोहिताक्षं पुत्रं जनयेयम्[जन येत्रे यावत् द्वितीये मासपुष्पं पश्येत् यमिति] इति एषामेव[एषाम] यवानां मन्थं[मन्दं] कारयेत् लोहितकुक्कुटरक्तेन सप्तरात्रं रक्तशालीनामोदनमनुपहतं भुञ्जीत।
दौहृदे सा ताम्रेण च वाससा परिदध्यात्।
ताम्रे चास्याः शयनासने दद्याद् रक्तवृषमश्वं[-वृषमदं] वास्या दर्शयेत्।
एवं श्यामं लोहिताक्षं पुत्रं जनयति॥
भेस४.८.५
या[यावद्] वि द्वितीयमासि पुष्पं पश्येन्न वास्या[व] गर्भस्तिष्ठतीति विद्यादजात सारा[ना] हि तदा गर्भवत्यो भवन्ति।
यस्यास्तु[तस्यास्तु] खलु योनिः[योनि] जातसारे पुष्पम् आस्रवति[आश्रय] तस्याः पतति वाप्यतिकालं[वापित्य-] वाऽवतिष्ठते गभः परिशुष्कगात्र इति॥
भेस४.८.६
चतुर्थे खलु मासे प्रतिविहिते क्षीरे नवनीतं प्राश्नीयात्।
पञ्चमे क्षीरयवागूः, षष्ठे क्षीरसर्पिः, सप्तमे दध्युदश्वित्, अष्टमे क्षीरसर्पिः, नवमे तु खलु मासे प्रतिविहिते मधुरौषधसिद्धेन[कदम्बमाष्टेराघतैतानुवास] तैलेनानुवासः॥
भेस४.८.७
एवं ह्यस्याः प्रतिमासं[प्रतिसंवर्तमानाया यच्छतन्मतं] वर्तमानायाः कुक्षीकटीपार्श्वपृष्ठं मृदूभवति जीर्णपुरीषं चाधः त्रवेत्सुखं च प्रजायते॥
भेस४.८.८
सप्तमे तु खलु मासे गर्भप्रपीडिता वातपित्तश्लेष्माण[-श्लेष्माणो] उरः प्राप्य सविदाहं[विदह्यमानाः] कण्डूं जनयन्ति।तेन किक्किसानि जायन्ते स्त्रीणाम्।
त्रिफलाचूर्णं शशरुधिरेण पिष्ट्वा तेनास्याः तान्यालेपयेत्॥भेस४.८.९। अष्टमे तु खलु मासे प्रतिविहिते सति सूकिकागारं सम्यक् प्राग्द्वारमुदक्द्वारं वा कारयेत् तिन्दुक-पलाश[फलाश]-अश्वत्थैः॥भेस४.८.१०। अथात्र पूर्वसंकल्पिताः स्युः द्वौ खलु बिल्वमयौ पर्यङ्कौ शूर्पौ च द्वौ तण्डुलमुसलौ गण्डोपधानं यवागूः[मयौ] सर्पिश्च तैलं च सर्षपाश्चेति॥
भेस४.८.११
अथैनां प्रजनयिष्यतीति यवागूं पाययेत्।
अनागतगर्भवेदनां चैनामवहननं च कारयेत्।
सा यदि जानीयादवभ्रष्टो मे कुक्षिः प्रविमुक्तो मे हृद्गर्भः प्रस्रुता मे योनिरिति, अथैनामुपकारिकल्पितनखाश्चतस्र उपजीविकाः[उपजीवा] प्रतिदिनमुपतिष्ठेयुः।
शनैः पूर्वं प्रवाहेतपश्चाद्[प्रवाहेतत्पश्चाद्] बलवत्तरमिति।न चाप्यनागतवेगा वा बालिशतया[बाबाहूह्लि(?)ततयाद्या], अनागतवेगा हि दुःखायात्मानं[तना दुःखा] प्रयच्छति सह पुत्रेण॥
भेस४.८.१२
तस्याश्चेत् प्रजाताया[प्रजातायापरानप्र] अपरा न प्रपद्यते, तदैनां रक्तशालीनामक्षमात्रं कल्कमम्लेन[कल्प्य] मूत्रेण[मूत्रेण(?)] वा पाययेत्।
एतेनैव कल्पेन दन्तीद्रवन्तीवृश्चिकालीवुनर्नवावनशीर्षाकं कारयेत्।
तथा[तलौ]-उमाकाल-सर्प[सर्व]-पुराणमालानामन्यतमेन धूपयेत्।
सा चेदनेन विधिना न प्रवर्तते अथैनां तीक्ष्णफल-तैलेन[तैरे]-अनुवासयेत्॥[अयमध्यायः मातुकायामर्धे विच्छिन्नो दृश्यते।]

... ... ... ... ... ... ... ... ... ... ...
... ... ... ... ... ... ... ... ... ... ...

इति भेले शारीरेऽष्टमेऽध्यायः॥

इति भेलसंहितायां, शारीरस्थानं समाप्तम्॥