भेलसंहिता विमानस्थानम्

विकिस्रोतः तः

भेलसंहिता

॥विमानस्थानम्॥

॥तृतीयोऽध्यायः॥

भेस३.३.१
... ... यस्य भुक्तं विपच्यते।
भुञ्जानस्यापि चान्नानि बलं वर्णश्च हीयते॥
भेस३.३.२
अल्पं लघ्वपि यच्चान्नं भुक्तं दुःखेन जीर्यति।
नाप्नोति बलवर्णौ च दुर्बलाग्निः स उच्यते॥
भेस३.३.३
कदाचित्पच्यते भुक्तं कदाचिन्न विपच्यते।
गुरु वा लघु वा यस्य विषमाग्निः स उच्यते॥
भेस३.३.४
मितं पच्येत यस्यान्नमतिभुक्तं न पच्यते।
समाग्निं तं नरं विद्यात्समपित्तकफानिलम्॥
भेस३.३.५
नरो भवति तीक्ष्णाग्निः प्रकृत्या वातपैत्तिकः।
वातिको विषमाग्निश्च, मन्दाग्निश्च कफान्नरः॥
भेस३.३.६
यस्य हीनाधिकस्त्वग्निः क्षिप्रं देहं स मुञ्चति।
समाग्निश्च समात्मा यः स दीर्घायुष्ट्वमृच्छति॥
भेस३.३.७
गव्यमाहिषवाराहैः कुलीरैर्मत्स्यकर्कटैः।
मांसैस्सपललैः स्निग्धैरत्यग्निं प्रतिभोजयेत्॥
भेस३.३.८
गोधानिष्क्वथिते क्षीरे सिद्धं भुञ्जीत पायसम्।
पिबेद्दधि ससर्पिष्कं माषसूपेन मिश्रितम्॥
भेस३.३.९
तथा पललसम्मिश्रं कच्छपाण्डरसं पिबेत्।
गुडं च तैलसम्मिश्रं कुर्यादन्यच्च तद्धितम्॥
भेस३.३.१०
स्निग्धस्य विषमाग्नेस्तु वमनादीनि कारयेत्।
ग्रहणीदूषणीयोक्तं मन्दाग्नेस्तु चिकित्सितम्॥
भेस३.३.११
अन्तरौषधपानानि बहिर्लेपे च या क्रिया।
शस्त्रकर्मविधानं च भेषजं त्रिविधं स्मृतम्॥
भेस३.३.१२
मधुरोऽम्लः कटुश्चैव पक्तिमार्गास्त्रयः स्मृताः।
कटुर्भवति पक्वस्य पच्यमानस्य चेतरौ॥
भेस३.३.१३
इहान्नपानं भोज्यं च मधुराम्लं प्रचक्षते।
वातजेषु विकारेषु यदा वा तैर्न शाम्यति॥
भेस३.३.१४
दद्यादथास्मै स्निग्धाय भिषक् स्नेहविरेचनम्।
वस्तिभिर्वा चिकित्सेत ह्यधोभागे च मारुतः॥
भेस३.३.१५
तथा च तिक्तमधुरं पानमन्नं प्रदापयेत्।
पैत्तिकेषु विकारेषु यदि वातन्न शाम्यति॥
भेस३.३.१६
तस्य स्निग्धस्य वमनं शिरसश्च विरेचनम्।
कुर्याद्यथाबलं श्लेष्मा ह्यूर्ध्वभागप्रकीर्तितः॥
भेस३.३.१७
शकृन्मूत्रानिलाश्चैव रक्तमांसादयश्च षट्।
विद्यान्निबन्धनानीति तानि देहेषु देहिनाम्॥
भेस३.३.१८
बलं वयः शरीरं च प्रत्येकं त्रिविधं स्मृतम्।
उत्तमाधममध्यं तु भेदेनाथ निशामयेत्॥
भेस३.३.१९
आहारश्च विहारश्च सेव्यमानौ क्रमेण तु।
कालेन प्रकृतिं यातस्तदाहुः सात्म्यलक्षणम्॥ इत्याह भगवानात्रेयः।
इति भेले विमाने तृतीयोऽध्यायः॥

॥चतुर्थोऽध्यायः॥[सम्पाद्यताम्]

अथातो रोगप्रकृतिविनिश्चयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस३.४.१
प्रमृश्य दृष्ट्वा पृष्ट्वा च परीक्षेतातुरं भिषक्।
पूर्वं तु रोगविज्ञानं ततः पश्चाच्चिकित्सितम्॥
भेस३.४.२
रूपं छायामुपचयं प्राग्व्याधेर्व्याधितस्य च।
दृष्ट्वा भिषक् परीक्षेत प्राकृतं वैकृतं तथा॥
भेस३.४.३
ज्वरस्य साम्यं वैषम्यं गात्रं वा श्लक्ष्णकर्कशम्।
दृष्ट्वा स्पृष्ट्वावगच्छेद्धि शैत्यमौष्ण्यं च पाणिना॥
भेस३.४.४
मातापितृसमाचारं सात्म्यं गर्भेण दौहृदम्।
व्याधिकालपरीणामं शकृन्मूत्रविवर्णताम्॥
भेस३.४.५
पूर्वरूपसमुत्थानं शरीराग्निवयोबलम्।
प्रकृतिं जन्मदेशं च भोजनं च यथोचितम्॥
भेस३.४.६
व्यायामनिष्ठासात्म्यं च मात्रामात्रे च भोजने।
प्रश्नोक्तानि विजानीयाद्यदन्यदपि तद्विधम्॥
भेस३.४.७
केचिदिच्छन्ति मुनयो दोषमेकमिहाधिकम्।
विकारस्याविशिष्टत्वादनिष्टं कारणं च तत्॥
भेस३.४.८
रूक्षासहो नरो यस्तु स वातप्रकृतिः स्मृतः।
पेत्तिकोऽम्बुसहश्चापि मधुराम्लासहः कफात्॥
भेस३.४.९
स्वभावप्रभवो ह्येष सहोत्पन्नो गुणागमः।
प्रकृतिं वै विजानीयात्तस्य वक्ष्यामि लक्षणम्॥
भेस३.४.१०
अव्यक्तं च महांश्चैव महाभूतानि पञ्च च।
पराः प्रकृतयस्सप्त स्वभावः काल एव च॥
भेस३.४.११
तेभ्यो भवन्ति भूतानि तान्येव प्रतियान्ति च।
इन्द्रियाणीन्द्रियार्थाश्च बुद्धयः पञ्च तास्तथा॥
भेस३.४.१२
ऋतुकाले यदा नारी रूक्षाण्यन्नानि सेवते।
उदावर्ते तथापीह कर्म चातिनिषेवते॥
भेस३.४.१३
तदैवं वातसन्दुष्टं रक्तं गर्भाशयस्थितम्।
तद्विधेनैव शुक्लेन यदा योगमुपैति वै॥
भेस३.४.१४
तदा वातप्रदुष्टेन शुक्लेन रुधिरेण च।
वातप्रकृतितामेति गर्भः प्रागात्मनः स वै॥
भेस३.४.१५
एवमेवर्तुकाले वै भजन्त्याः कफपैत्तिकम्।
श्लैष्मिकी पैत्तिकी चापि प्रकृतिर्जायते ततः॥
भेस३.४.१६
ह्रस्वः शीघ्रः कृशश्चाणुः प्रलापी परुषप्रियः।
स्तब्धाङ्गो विषमश्लिष्टो गणरूपे गणे धृतिः॥
भेस३.४.१७
सहः क्लेशस्य विस्रम्भी रूक्षत्वगनवस्थितः।
खरमूर्धजरोमाङ्गः क्षिप्रग्राही तथा स्मृतः॥
भेस३.४.१८
स्वप्नेषु चोष्ट्रेणायाति वियत्यपि तु गच्छति।
यस्योपशेते सुस्निग्धं स वातप्रकृतिर्नरः॥
भेस३.४.१९
शिथिलाङ्गोऽगरुगन्धश्चण्डः शीघ्रो महाशनः।
वलीपलितखालित्यशीघ्रपाकी तथाक्षमः॥
भेस३.४.२०
वृत्ताक्षः क्रोधनो यश्च दुर्बलो दुर्बलेन्द्रियः।
नाम्लाशः शीतशीताशी दुष्प्रजाः शीतलप्रियः॥
भेस३.४.२१
अतिवर्णोऽतिमेधावी स्वप्ने पावकदृक् तथा।
शीघ्रमावाति यः स्नातः पैत्तिकप्रकृतिर्नरः॥
भेस३.४.२२
सुस्निग्धः श्लक्ष्णबद्धाङ्गः सुभगः प्रियदर्शनः।
दृढस्मृतिश्चिरग्राही दृढभक्तिपरायणः॥
भेस३.४.२३
प्रियमांसोष्णकटुकः प्रिययोषिद्बहुप्रदः।
क्षमावान् बलवान् धन्यः शीतालुरशनप्रियः॥
भेस३.४.२४
चिराद् दृढव्याधिरथो मितवागल्पभुक् स्मृतः।
दीर्घदर्शी महोत्साहो धीरः क्लेशसहस्तथा॥
भेस३.४.२५
रोमदन्तनखैः केशैर्बहुलैर्यस्सुबन्धनैः।
चिरादावाति च स्नातः स्वप्ने पश्यति चोदकम्॥
भेस३.४.२६
यस्तु रूक्षं तु सहते स श्लेष्मप्रकृतिर्नरः।
संसृष्टप्रकृतिं विद्यात्संसृष्टैश्चापि लक्षणैः॥
भेस३.४.२७
निवृत्ता प्रकृतिर्धन्या द्वन्द्वा भवति मध्यमा।
सन्निपातात्मिका या तु जघन्या सा प्रकीर्तिता॥ इत्याह भगवानात्रेयः।
इति भेले चतुर्थोऽध्यायः॥

॥पञ्चमोऽध्यायः॥[सम्पाद्यताम्]

अथातो व्याधितरूपीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस३.५.१
गुरुव्याधिर्नरः कश्चिन्मूर्त्या चैव बलेन च।
लघुव्याधिः नरस्त्वन्यः सत्त्वादिभिरनन्वितः॥
भेस३.५.२
गुरुव्याधिरिवाभाति भिषक् तत्र प्रमुह्यति।
तत्राल्पमात्रं भैषज्यं सेवितं गुरुरोगिणाम्॥
भेस३.५.३
न निर्दहत्यतः सर्वान्दोषानल्पेन तेजसा।
मूर्छा छर्दिस्तिमितता जृम्भा च गुरुगात्रता॥
भेस३.५.४
तृष्णा सन्ततभावश्च भवन्त्येतानि तस्य तु।
मुस्ता कुष्ठं हरिद्रे द्वे प्रग्रहातिविषामयाः॥
भेस३.५.५
भल्लातकं वयस्था च चित्रकः सुरदारु च।
एतैरास्थापनं तच्च कुर्याद् गोमूत्रसंयुतैः॥
भेस३.५.६
पूर्णादिष्टानदिष्टांश्च तथा शान्तिं नियच्छति।
आरग्वधं सप्तपर्णं मदनं स्वादुकण्टकम्॥
भेस३.५.७
शार्ङ्गेष्टां कटुकां पाठां नक्तमालं सवत्सकम्।
एतदारग्वधार्थं तु कुर्यादास्थापनं भिषक्॥ ..............................................
...............................................

॥षष्ठोऽध्यायः॥[सम्पाद्यताम्]

अथात ऋतुविमानं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस३.६.१
आदित्यगतिवैशेष्यादृतूनां परिवर्तनात्।
क्षयं वृद्धिं च गच्छन्ति यथास्वं धातवो नृणाम्॥
भेस३.६.२
भूमिबाष्पात्पुरोवाताद् घनच्छायाप्रसङ्गतः।
महीकलुषसन्दुष्टात्पीयमानान्नवोदकात्॥
भेस३.६.३
ग्रैष्मिकात्कृशभावाच्च प्राणे दुर्बलतां गते।
वर्षासु देहिनामग्निर्मृदुत्वमुपगच्छति॥
भेस३.६.४
ततो विष्टम्भजो वायुर्यस्माद्धीतः प्रकुप्यति।
तन्न सेवेत वर्षासु कट्वम्ललवणान् रसान्॥
भेस३.६.५
मुद्गयूषेण वाश्नीयात्पुराणान् शालिषष्टिकान्।
अथवा यवगोधूमं सृष्टवाते हितं स्मृतम्॥
भेस३.६.६
पटोलानि च तक्रं च जाङ्गलांश्च रसान् लघून्।
कौपं दिव्यं जलं सिद्धं भजेदास्थापनानि च॥
भेस३.६.७
असंस्थितत्वाद्वर्षासु जलमम्लं विपच्यते।
तस्माद्विवर्धते पित्तं यथाम्लैश्च तथाशनैः॥
भेस३.६.८
सूर्योपतापात्सहसा गत्वा चैवौषधीकृतम्।
वर्षासु निचयं पित्तं कोपं शरदि गच्छति॥
भेस३.६.९
स्नानानुलेपनं तस्माच्छीतं शरदि कारयेत्।
वीजयेत्तालवृन्तैश्च विगाहेत सरस्सु च॥
भेस३.६.१०
लाजसक्तुं पिबेच्चापि शर्करामधुवारिभिः।
मुद्गयूषेण चाश्नीयात्पुराणान् शालिषाष्टिकान्॥
भेस३.६.११
रसान् मधुरकांश्चापि जाङ्गलान् सर्पिषा कृतान्।
विदारीक्षुरसं द्राक्षां सेवेतान्यच्च तद्विधम्॥
भेस३.६.१२
गतपित्तप्रवेगश्च शरत्काले घृतं पिबेत्।
तथास्याप्याय्यते देहः शेषा दोषाश्च यान्त्यधः॥
भेस३.६.१३
पश्चाद्वातस्य रूक्षत्वाच्छीतलत्वादृतोस्तथा।
हेमन्तेन निगच्छन्ति खरत्वं धातवो नृणाम्॥
भेस३.६.१४
तस्मात्स्नेहं बहुविधं स्नानं चोष्णेन वारिणा।
भजेत्खरत्वपारुष्ये तथाभ्यङ्गात्प्रशाम्यति॥
भेस३.६.१५
शकुनानौदकान्मत्स्यान् स्नेहाम्ललवणान्वितान्।
आनूपानि च मांसानि सेवेतान्यच्च तद्विधम्॥
भेस३.६.१६
कटुर्हि पश्चिमो वायुः शैत्यं तीव्रं च वारिणः।
अत्यर्थं रूक्षयेद्वायुः शरीरं रूक्षभोजात्॥
भेस३.६.१७
गुरुप्रावरणश्च स्यादातपाग्नी च संश्रयेत्।
रूक्षे हि तेजसा जन्तोः शरीराद्ध्रियते बलम्॥
भेस३.६.१८
आपो हि शीतमधुरा हेमन्ते तु भवन्त्यथ।
तस्मात्कफस्तथा ताभिः स्निग्धैरन्नैश्च चीयते॥
भेस३.६.१९
शीतलत्वादृतोश्चापि न तावत्परिभिद्यते।
तस्मात्तैलगुडोपेतां वारुणीं शिशिरे पिबेत्॥
भेस३.६.२०
विविधानि च मांसानि भक्षयेच्च प्रकारतः।
एवं तु निचितः श्लेष्मा शीतत्वादिह देहिनाम्॥
भेस३.६.२१
द्रवतामेति संस्पृष्टो वसन्ते सूर्यतेजसा।
रविर्हि मध्यमां काष्ठां वसन्ते प्रतिपद्यते॥
भेस३.६.२२
दह्यतामिव शैलानां नृणामङ्गे प्रकुप्यति।
ततः श्लेष्मा द्रवीभूतो हृदयं व्यपलिम्पति॥
भेस३.६.२३
तस्माच्छर्द्यविपाकौ च दृश्येते शिशिरात्यये।
तस्माद्वसन्ते श्लेष्मघ्नं मधुमार्द्वीकमीरितम्॥ .................................................
.................................................
इति भेले षष्ठोऽध्यायः॥

इति भेलसंहितायां विमानस्थानं समाप्तम्॥