भेलसंहिता इन्द्रियस्थानम्

विकिस्रोतः तः

भेलसंहिता


॥इन्द्रियस्थानः॥

॥प्रथमोऽध्यायः॥[सम्पाद्यताम्]

...................................
...................................

भेस५.१.?।................द्वे वा जात एव विनश्यति।
भेस५.१.१
ह्रस्वैकपक्षो विततो यस्तु गर्भस्तु सुस्वरः।
मासमेकं तु जीवित्वा विनाशायोपपद्यते॥
भेस५.१.२
पिण्डीशिरा दीर्घहनुरनल्पे संहते भ्रुवौ।
द्वितीये मासि संप्राप्ते म्रियते गर्भ ईदृशः॥
भेस५.१.३
जातमात्रस्य गर्भस्य व्यञ्जनं यत्र दृश्यते।
तृतीये मासि संप्राप्ते म्रियते गर्भ ईदृशः॥
भेस५.१.४
त्रिकेकरो घटशिरा यस्तु गर्भस्तु सुस्वरः।
चतुर्थे मासि संप्राप्ते विनाशमुपगच्छति॥
भेस५.१.५
यस्य षोडशवर्शस्य व्यञ्जनं तूपजायते।
शीघ्रं च पञ्चधातुत्वादल्पायुरिह दृश्यते॥
भेस५.१.६
यस्य विंशतिवर्षस्य व्यञ्जनं तूपजायते।
स दीर्घमायुराप्नोति पुरुषो नात्र संशयः॥
भेस५.१.७
शरीरापचयोऽबुद्धिरपथ्यानि बलं तथा।
बालस्य यस्य दृश्यन्ते तं गतायुषमादिशेत्॥
भेस५.१.८
यस्य जातस्य जायेते गुल्मकास्तुनकौ तथा।
अष्टाविंशे गते वर्षे सर्वं तं हन्ति मानवम्॥
भेस५.१.९
पृष्ठे चोरसि चावर्तस्सव्यथो यस्तु दृश्यते।
चत्वारिंशे गते वर्षे मरणायोपकल्पते॥
भेस५.१.१०
आवर्तो यश्च पृष्ठे तु सन्नतस्त्रिषु दृश्यते।
फलमस्य तु विज्ञेयं स्थापनं न प्रसूयते॥
भेस५.१.११
स्थूलास्थूलाङ्गुली पाणी नखा यस्यापि लोहिताः।
कल्याणदेशप्रत्यङ्गः पञ्चाशद्वर्ष एव च॥
भेस५.१.१२
व्यूठोरस्को दीर्घभुजः स्थूलजानुश्च यो भवेत्।
दीर्घाङ्गुलिर्दीर्घनखः षष्टि वर्षाणि जीवति॥
भेस५.१.१३
उत्पीडितस्वरं वापि तुङ्गनासकचोन्मुखम्।
ऊरुकं भद्रसम्पन्नं विद्यात्सप्ततिकं नरः॥
भेस५.१.१४
भद्रं पुरश्च पश्चाच्च ऋजुकं प्रियवादिनम्।
अशीतिकं नरं विद्यात्कृष्णात्रेयवचो यथा॥
भेस५.१.१५
ललाटं नासिका कर्णौ यस्यैतानि पृथक् पृथक्।
षडङ्गुलप्रमाणानि स जीवति शतं समाः॥
भेस५.१.१६
यस्याकुञ्चितमेव स्याज्जानुभ्यां समितं शिरः।
ऊर्ध्वजानुगतौ कर्णौ पौत्रं पश्यत्ययं नरः॥
भेस५.१.१७
महान्तौ विपुलौ कर्णौ भवेतां रोमशौ तथा।
स्निग्धौ बहुलकेशश्च स चेह शतमृच्छति॥
भेस५.१.१८
धर्मेण सत्यवाक्येन गुरुशुश्रूषणेन च।
रसायनोपयोगाच्च स दीर्घमनुजीवति॥

इत्याह भगवानात्रेयः।
इति भेले इन्द्रिये प्रथमोऽध्यायः॥

॥द्वितीयोऽध्यायः॥[सम्पाद्यताम्]


भेस५.२.१
मुखं नेत्रे शरीरं च पाणिपादं तथैव च।
सरक्तं दृश्यते यस्य स वै स्वस्थो भविष्यति॥ ५.भेस२.२.। यस्य गोमयचूर्णाभं नराणां मूर्ध्नि दृश्यते।
शिरसि स्निह्यमाने च कण्डूस्संजायते दृढम्॥
भेस५.२.३
यस्य केशाः प्रमुच्यन्ते शीर्णमूलाः शरीरिणः।
यस्यैतानि तु रूपाणि स वै स्वस्थो भविष्यति॥
भेस५.२.४
नास्य दन्ताः प्रहृष्यन्ति मुखं च न विलुप्यति।
नाबद्धं भाषते चापि स वै स्वस्थो भविष्यति॥
भेस५.२.५
न विक्षिपति गात्राणि स्वरोऽस्य न विवर्तते।
वस्त्रेण गूहते गुह्यं स वै स्वस्थो भविष्यति॥
भेस५.२.६
न भवत्युन्नतो नाभिर्यथावस्थोऽभितिष्ठति।
सुखं श्वसिति रात्रौ च स वै स्वस्थो भविष्यति॥
भेस५.२.७
न नखाः कर्कशाभासा न श्यावा न च निष्प्रभाः।
प्रसन्नास्सुप्रभाश्चैव स वै स्वस्थो भविष्यति॥ भेस५.२.८?। आतपाधिष्ठितो यस्तु न ... प्रकाशचे।
न च लोहितसंयु.......................... ..........................................

॥तृतीयोऽध्यायः॥[सम्पाद्यताम्]

........................................................... ........................................................... भेस५.३.?। ....धितस्वप्ने तां रात्रिं नातिवर्तते॥
भेस५.३.१
इयं मे शिष्टशिबिका वैडूर्यमणियन्त्रिता।
एवं प्रलापयेच्चार्तो गतायुरिति तं विदुः॥
भेस५.३.२
प्रज्वलत्यपि यो दीपे तम एवाभिपश्यति।
(शब्दान्विप्रतिबुध्येत चापूर्वानिव नास्ति सः)॥
भेस५.३.३
आवाक्शिराः प्रलम्बामि नाम मा परिवर्तय।
मनुजः प्रलपन्नेवं सप्ताहं नातिवर्तते॥
भेस५.३.४
मर्माणि दलितानीव योऽभीक्ष्णं चातिसार्यते।
प्रवाहमाणो दुर्गन्धि कुणपं पूतिकं तथा॥
भेस५.३.५
तच्च लोहितगन्धं वाप्यथवा मत्स्यगन्धिकम्।
कृष्णं नीलं विवर्णं वा मुमूर्षुश्च स होच्यते॥
भेस५.३.६
मधुमेही वसामेही सर्पिर्मेही च यो नरः।
बहुमेही च यो जन्तुः स वै प्रोक्तः परासुकः॥
भेस५.३.७
प्रमेहेत यदा जन्तुर्बिन्दुं बिन्दुं सवेदनम्।
वायुना भिन्नवस्तिः स्याद् दुर्लभं तस्य जीवितम्॥
भेस५.३.८
क्रिमयो बहवो यस्य निस्सरन्ति शरीरिणः।
आतुरस्य शयानस्य नौषधं तस्य सिध्यति॥
भेस५.३.९
इत्येतानि भिषक् दृष्ट्वा लक्षणानि मुमूर्षताम्।
न चिकित्सां प्रयुञ्जीत यथामार्गं चिकीर्षकः॥

इत्याह भगवानात्रेयः।
इति भेले इन्द्रिये तृतीयोऽध्यायः॥

॥चतुर्थोऽध्यायः॥
भेस५.४.१
यदातुरस्य हृदयं वायुः संगृह्य तिष्ठति।
धमनीस्संपरीपीड्य सद्यो जह्यात्स जीवितम्।
भेस५.४.२
आतुरस्य यदा वायुः शरीरमनुपद्यते।
उत्ताने नेत्रनिष्यन्दः सद्यो जह्यात्स जीवितम्॥
भेस५.४.३
यस्य कोष्ठगतो वायुरुपावृत्तश्शरीरिणः।
क्षीणलोहितमांसस्य सद्यो जह्यात्स जीवितम्॥
भेस५.४.४
यस्यातुरस्येह वाताद्वाताष्ठीला विवर्धते।
न संसरति चान्यत्र सद्यः प्राणान् जहाति सः॥
भेस५.४.५
यस्योभे पिण्डिके स्तब्धे नासा जिह्मा च लक्ष्यते।
व्यावृत्ते चाक्षिणी यस्य सद्यः प्राणान् जहाति सः॥
भेस५.४.६
आमाशयसमुत्थाना यस्यैव परिकर्तिका।
तृष्णा च तीव्ररागश्च सद्यः प्राणान् जहाति सः॥
भेस५.४.७
पक्वाशयसमुत्थाना यस्य स्यात्परिकर्तिका।
तृष्णा गलग्रहश्चोग्रः सद्यो जह्यात्स जीवितम्॥
भेस५.४.८
शोणितं रोमकूपेभ्यो यस्य क्षरति देहिनः।
अतीव मुखतो भेदि सद्यो जह्यात्स जीवितम्॥
भेस५.४.९
हृदयस्य तु संघातं परिक्षीणस्य देहिनः।
अत्यर्थं पीडयेच्छूलं सद्यः प्राणान् जहाति सः॥
भेस५.४.१०
यस्य क्षीणशरीरस्य संज्ञां हरति मारुतः।
व्याहन्ति च महास्रोतः सद्यः प्राणान् जहाति सः॥
भेस५.४.११
हृदयस्य तु संघातं परिक्षीणस्य देहिनः।
एतैरेवंविधैर्लिङ्गैरन्यैश्चापि तथाविधैः॥ प्रकृतेर्विकृतिं प्राप्तं परीक्षेतातुरं भिषक्।

इत्याह भगवानात्रेयः।
इति भेले इन्द्रिये चतुर्थोऽध्यायः॥

॥पञ्चमोऽध्यायः॥[सम्पाद्यताम्]

अथातो यस्यश्यावीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस५.५.१
यस्य श्यावे उमे नेत्रे दृश्येते हरिते तथा।
उत्पन्नश्च शिरोरोगः फलितं तस्य जीवितम्॥
भेस५.५.२
हरिताश्च सिरा यस्य रोमकूपाश्च लोहिताः।
भुङ्क्ते वान्नानि साम्लानि तत्रैव स विनश्यति॥
भेस५.५.३
यस्योर्ध्ववातः कोपेन जन्तोरामाशयं गतः।
हृदयं परिगृह्णाति परेतं तस्य जीवितम्॥
भेस५.५.४
गात्रे च पाणिपादे च यस्य शुष्यति शोणितम्।
मुहुर्मुहुर्नृत्यति च परेतं तस्य जीवितम्॥
भेस५.५.५
वृषणौ पाणिपादौ च यस्य शुष्कं मुखं तथा।
छविश्च शोषमायाति परेतं तस्य जीवितम्॥
भेस५.५.६
हनू हस्तौ च पादौ च वृषणौ लिङ्गमेव च।
दृश्यते देहिनो यस्य परेतं तस्य जीवितम्॥
भेस५.५.७
हृदयं दह्यते यस्य मुमूर्षुं तं समादिशेत्।
आतुरस्तु स यातो वै परेतं तस्य जीवितम्॥
भेस५.५.८
अपस्मारः क्षयः कुष्ठं रक्तपित्तमथोदरम्।
गुल्मश्च मधुमेहश्च दीर्घरोगा भवन्ति ते॥
भेस५.५.९
बलमांसक्षयो यस्य देहिनो दीर्घरोगिणः।
दृश्येत स्वरहानिश्च परेतं तस्य जीवितम्॥
भेस५.५.१०
हृदयं दह्यते यस्य कोष्ठे शूलं स्वरक्षयः।
अभीक्ष्णं दह्यते चापि परेतं तस्य जीवितम्॥
भेस५.५.११
त्रासाभितापा जन्तूनां कोष्ठे शूलाश्चरन्ति च।
हिक्काच्छर्दिपरीतश्च परेतं तस्य जीवितम्॥
भेस५.५.१२
वापितं ज्वलितं मर्त्यः, सलिलं हि हुताशनम्।
भास्करं मन्यते सोमं दुर्लभं तस्य जीवितम्॥
भेस५.५.१३
यश्चापि विमले सूर्ये मेघान् पश्यति सर्वशः।
दुर्दिनं सुदिनं चापि परेतं तस्य जीवितम्॥
भेस५.५.१४
यं रसा नावतिष्ठन्ते भेषजं चेन्द्रियाणि तु।
यस्य वा विपरीतानि न च जीवति तादृशः॥
भेस५.५.१५
वानस्पत्यफलं मूलं रोगस्पृष्टस्य यस्य वै।
भैषज्यार्थं न दृश्येत न च जीवति तादृशः॥
भेस५.५.१६
इत्येतानि भिषग् दृष्ट्वा लक्षणानि मुमूर्षताम्।
न चिकित्सां प्रयुञ्जीत यशोमार्गप्रतीक्षया॥ इत्याह भगवानात्रेयः।
इति भेले इन्द्रिये पञ्चमोऽध्यायः॥

॥षष्ठोऽध्यायः॥[सम्पाद्यताम्]

अथातः पूर्वरूपीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस५.६.१
अन्तर्लोहितकायस्तु बहिः पाण्डुः प्रकाशते।
पूर्वरूपं तदाचष्टे मानवस्य मुमूर्षतः॥
भेस५.६.२
बहिर्लोहितकायस्तु पाण्डुरन्तः प्रकाशते।
पूर्वरूपमनुप्राप्तः स मृत्योरुच्यते नरः॥
भेस५.६.३
अन्तर्ग्लानो बहिः पीनो बहिराध्मात एव च।
यश्चात्यन्तसमाध्मातः सर्वेऽप्येते परासुकाः॥
भेस५.६.४
अभीक्ष्णं ज्वर्यते यस्तु निवातमभिनन्दति।
अनुषक्तप्रतिश्यायः क्षिप्रं श्वासेन हन्यते॥
भेस५.६.५
निनादी वा प्रलापी वा हसत्यत्यर्थमेव च।
उन्मादेन कृशो जन्तुः पञ्चत्वमुपगच्छति॥
भेस५.६.६
घनं सशूलं यो वेद सदाहं हृदयं नरः।
हृद्रोगेण कृशो जन्तुर्विनाशमुपगच्छति॥
भेस५.६.७
प्रस्विद्यते च कण्डूमान् यो विरुद्धं च सेवते।
अविरेचनशीलश्च कुष्ठेन स विनश्यति॥
भेस५.६.८
सुकुमारश्च यो जन्तुः स्नेहं मांसं च सेवते।
दिवा स्वपिति चाभीक्ष्णं स प्रमेही विनश्यति॥
भेस५.६.९
परिशूनश्च यो जन्तुः स्वेदे च परुषच्छविः।
भिन्नं यश्चोपविशति सोऽतिसारेण हन्यते॥
भेस५.६.१०
यस्याग्निश्च बलं चैव नाल्पं भवति देहिनः।
क्षीणलोहितमांसस्य यथा प्रेतस्तथैव सः॥
भेस५.६.११
सद्यो रक्तं शिरो यस्य पीतकं वा प्रदृश्यते।
कपिलं प्लुष्टकेशं वा यथा प्रेतस्तथैव सः॥
भेस५.६.१२
यस्य नेत्रे ललाटं च मुखं नासां भ्रुवौ तथा।
जिह्मानि कुरुते वायुर्यथा प्रेतस्तथैव सः॥
भेस५.६.१३
श्यावा कण्टकिनी जिह्वा यस्य शुष्का प्रदृश्यते।
श्यावे नेत्रे नखाश्चापि यथा प्रेतस्तथैव सः॥
भेस५.६.१४
यस्य निर्भिद्यते कण्ठः ताम्यत्युच्चैश्शरीरिणः।
बहिरायामभाजस्तं प्रत्याचक्षीत पण्डितः॥
भेस५.६.१५
यस्योर्ध्वकाये बलवान् नवो रोगस्तु दुष्क्रियः।
पूर्वरूपं तथा वाच्यं मानवस्य मरिष्यतः॥
भेस५.६.१६
यस्य चुच्छुन्दरीगन्धः पुरुषस्य भवत्यथ।
सौवर्णानपि वृक्षांश्च यो वेद स विनश्यति॥
भेस५.६.१७
इत्येभिरीदृशैश्चान्यैर्विकारैर्वर्णितं नरः।
नोपक्रमेत मेधावी य इच्छेदात्मनः सुखम्॥ इत्याह भगवानात्रेयः।
इति भेले इन्द्रिये षष्ठोऽध्यायः॥

॥सप्तमोऽध्यायः॥[सम्पाद्यताम्]

अथात इन्द्रियाणीकमिन्द्रियं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस५.७.१
इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषतः।
आयुःप्रमाणं जिज्ञासुर्भिषक् तन्मे निबोधत॥
भेस५.७.२
अन्नपानात्परीक्षेत दर्शनाद्यैश्च तत्त्वतः।
अर्थादिविहितं ज्ञानमिन्द्रियाणामतीन्द्रियम्॥
भेस५.७.३
स्वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसंश्रयम्।
अलक्षितं निमित्तेन लक्षणं मरणे हि तत्॥
भेस५.७.४
इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम्।
तदेव तु पुनर्भूयो विस्तरेण निबोध मे॥
भेस५.७.५
घनीभूतमिवाकाशं पश्यंस्तमिव मेदिनीम्।
विगीतं ह्युभयं ह्येतत्पश्यन्मरणमृच्छति॥
भेस५.७.६
यस्य दर्शनमायाति मारुतोऽम्बरगोचरः।
अग्निर्नायाति वा दीप्तः तस्यापि क्षयमादिशेत्॥
भेस५.७.७
जलेऽपि निर्मले जालमजालं मनुते नरः।
स्थिरे गच्छति वा दृष्ट्वा जीवितात्परिहीयते॥
भेस५.७.८
जाग्रत्पश्यति यः प्रेतान् रक्षांसि विविधानि च।
अन्यद्वाप्यद्भुतं किंचिन्न स जीवति तादृशः॥
भेस५.७.९
योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम्।
कृष्णं वा यदि वा शुक्लं न स जीवति मानवः॥
भेस५.७.१०
मरीचीनसतो मेघे मेघान्वाप्यमलाम्बरे।
विद्युतो वा विना मेघान्न स जीवति मानवः॥
भेस५.७.११
मृण्मयीमिव वा पात्रीं कृष्णां वापि पुरीषिताम्।
आदित्यमर्धचन्द्रं वा क्षिप्रं दृष्ट्वा विनश्यति॥
भेस५.७.१२
नक्तं सूर्यमहश्चन्द्रमवह्नौ धूममुत्थितम्।
अग्निं वा निष्प्रभं दृष्ट्वा रात्रौ, मरणमादिशेत्॥
भेस५.७.१३
प्रभावतः प्रभां हीनां निष्प्रभान्वा प्रभावतः।
नरान् विलिङ्गान् पश्यन्ति भावान् भावजिघांसवः॥
भेस५.७.१४
व्याकृतीनि च वर्णानि विसंख्योपचितानि च।
निमित्तानि च पश्यन्ति रूपाण्यायुःपरिक्षयात्॥
भेस५.७.१५
यस्तु पश्यत्यदृश्यं वा दृश्यं यस्तु न पश्यति।
तावुभौ गच्छतः क्षिप्रं यमक्षयमसंशयम्॥
भेस५.७.१६
अशब्दस्य च यः श्रोता शब्दं यश्च न विन्दति।
द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ विजानता॥
भेस५.७.१७
विपर्ययेण यो विद्याद् गन्धानां चैव नाम तम्।
न वा तत्सर्वतो विद्याद्विद्यात्तं वै गतायुषम्॥
भेस५.७.१८
यो रसं न विजानाति विपक्वं वा च तत्त्वतः।
अपक्वं दृश्यते, पक्वं तमाहुः कुशला नराः॥
भेस५.७.१९
उष्णान् शीतान् खरान् श्लक्ष्णान् मृदूनपि च दारुणान्।
स्पृश्यान् स्पृष्ट्वा ततोऽन्यच्च मुमूर्षुस्तेषु मन्यते॥
भेस५.७.२०
अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम्।
इन्द्रियैरधिकं पश्यन् पञ्चत्वमुपपद्यते॥
भेस५.७.२१
इन्द्रियाणामृते दृष्टेरिन्द्रियार्थान्नदोषजान्।
नरः पश्यति यः कश्चिदिन्द्रियैर्न स जीवति॥
भेस५.७.२२
स्वस्थाः प्रज्ञाविपर्यासैरिन्द्रियार्थेषु वैकृतम्।
पश्यन्ति ये तु बहुशः तेषां मरणमादिशेत्॥
भेस५.७.२३
एतदेव च विज्ञानं यस्सम्यगनुपश्यति।
मरणं जीवितं चैव स भिषग् ज्ञातुमर्हति॥

इत्याह भगवानात्रेयः।
इति भेले इन्द्रिये सप्तमोऽध्यायः॥


॥अष्टमोऽध्यायः॥[सम्पाद्यताम्]

अथातो दूताध्यायं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस५.८.१
तृणान्नखान्वा छिन्दन् वै भिषजं परिपृच्छति।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः॥
भेस५.८.२
विप्लुतं भाषमाणश्च भिषजं परिपृच्छति।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः॥
भेस५.८.३
भिनत्ति काष्ठं काष्ठेन लोष्टं लोष्ठेन वाप्यधः।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः॥
भेस५.८.४
स्पृशन्नङ्गानि बालांश्च भिषजं परिपृच्छति।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः॥
भेस५.८.५
पिधाय पाणिना नाभिं भिषजं परिपृच्छति।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः॥
भेस५.८.६
कपालिकां शर्करां वा भिनत्त्यङ्गारिकामपि।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः॥
भेस५.८.७
आस्ते भूमौ परिश्रान्तो गृह्णात्यङ्गमथ भ्रमन्।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः॥
भेस५.८.८
नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः।
इत्यातुरस्य हि यदा वदेद्दूतो न सोऽस्ति वै॥
भेस५.८.९
करं करेण गृह्णाति पाणिना ताडयेत्करम्।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः॥
भेस५.८.१०
खादेदोष्ठौ च जिह्वां च नखान् दन्तैश्च कल्पयेत्।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः॥
भेस५.८.११
आतुरस्य यदा गेहे वैद्ये वै पर्युपस्थिते।
छिद्यते भिद्यते चैव प्रत्याख्येयस्तथाविधः॥
भेस५.८.१२
परावर्त्य घटं पूर्णं ब्राह्मणं परिपृच्छति।
आतुरस्य यदा दूतः प्रत्याख्येयस्तथाविधः॥
भेस५.८.१३
गृध्रः सृगालः काकश्चाप्युलूको वायसस्तथा।
नदेयुर्दक्षिणे पार्श्वे रोगिणो यस्य नास्ति सः॥
भेस५.८.१४
कषायवस्त्रो मुण्डो वा जटिलो वाथ नग्नकः।
चर्मभिर्वा परिवृतो, महानस्येव शाटिकः॥
भेस५.८.१५
तैलाभ्यक्तश्छिन्ननासो वाग्मी चोन्मत्त एव वा।
भग्नौष्ठः खरवाटो वा न दूतः सम्प्रशस्यते॥
भेस५.८.१६
इति दूतसमाचारो व्याधितानां प्रकीर्तितः।
य एवं वेद निपुणं सिद्धिकामः स वै भिषक्॥

इत्याह भगवानात्रेयः।
इति भेले इन्द्रिये अष्टमोऽध्यायः॥

॥नवमोऽध्यायः॥[सम्पाद्यताम्]

अथातो गोमयचूर्णं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस५.९.१
चूर्णं शिरसि यस्यैव शुष्कगोमयसन्निभम्।
स्नेहिनो दृश्यते जन्तोर्मासाद्देहं जहाति सः॥
भेस५.९.२
कृशस्य कफरोगेण यस्य श्लेष्मपरिक्षयः।
कर्णौ रक्तौ मुखं चैव द्वौ मासौ नातिवर्तते॥
भेस५.९.३
यस्य लोहितकाभासमम्बु तालुनि दृश्यते।
क्षीणलोहितमांसस्य स मासं नातिवर्तते॥
भेस५.९.४
अरुन्धतीं न पश्येत्तु स्थितां सप्तर्षिसंसदि।
स मासादष्टमान्मर्त्यः क्षिप्रं प्राणैर्विमुच्यते॥
भेस५.९.५
अणुकाभिश्च कृष्णाभिरास्यं जिह्वा च तालुके।
सर्वतस्समनुच्छिन्नं न स जीवति तादृशः॥
भेस५.९.६
शीर्षाभितापिनो यस्य श्लेष्मरोगवतस्तथा।
हिक्का विनिष्यन्दते वै नायमस्तीति निर्दिशेत्॥
भेस५.९.७
यस्य लोमानि केशाश्च प्लुष्यन्तीव शरीरिणः।
संहृष्टानीव वा देही न स जीवति तादृशः॥
भेस५.९.८
यस्य कालान्तरे दन्ता दृश्यन्ते रक्तसन्निभाः।
निष्प्रभाश्चानुलिप्ता वा न स जीवति तादृशः॥
भेस५.९.९
क्षारेण विधृतं गात्रं दृश्यते यस्य देहिनः।
सममुष्णे च शीते च न स जीवति तादृशः॥
भेस५.९.१०
गात्रेषु खरवर्णेषु यस्य वारिलवप्लवः।
अनभ्यक्तेषु गात्रेषु न स जीवति तादृशः॥
भेस५.९.११
शूलमङ्गे भवेद्यस्य स्फुटितं रक्तमास्रवेत्।
अधो गोलकसंकाशं परेतं तस्य जीवितम्॥
भेस५.९.१२
आपाण्डु मधुमेहे तु यश्च मेहति मानवः।
अभ्यन्तरेण पञ्चाहात्स पञ्चत्वं हि गच्छति॥
भेस५.९.१३
अरतिश्चाविपाकश्च कार्श्यदौर्बल्यमेव च।
यस्य संदृश्यते जन्तोर्न स जीवति तादृशः॥
भेस५.९.१४
यस्तु दीनमनाथो वा बलेन परिहीयते।
भिद्यामारोगमाप्नोति यथा प्रेतस्तथैव सः॥
भेस५.९.१५
अनुवृत्तौ यथा जन्तुः पित्तेन परिमूर्च्छितः।
संमूढवाक्यो भवति यथा प्रेतस्तथैव सः॥
भेस५.९.१६
यस्त्वासनेऽथ शयने रतिं न लभते नरः।
स शीघ्रं कुरुते कालं यश्च साश्रूणि खादति॥
भेस५.९.१७
आरुह्य वानरं यस्तु संकल्पं नावबुध्यते।
तमाहुः परलोकाय स्वप्ने तु कुशला नराः॥
भेस५.९.१८
परिसंवत्सराद्यस्य ज्वरो नापैति देहिनः।
उष्णो वा यदि वा शीतो यथा प्रेतस्तथैव सः॥
भेस५.९.१९
यस्य जातप्रमेहस्य पिटका पाण्डुरा भवेत्।
सोपद्रवा शतपदा यथा प्रेतस्तथैव सः॥
भेस५.९.२०
यस्योर्ध्वं क्रमते वायुः श्रोत्रं वाधः प्रवर्तते।
सर्वाणि च प्रभिद्यन्ते यथा प्रेतस्तथैव सः॥
भेस५.९.२१
इत्येतैर्लक्षणैर्युक्तं भिषक् दृष्ट्वैव मानवम्।
नोपक्रमेत्तथा वीर रक्षन्नात्मयशः स्फुटम्॥

इत्याह भगवानात्रेयः।
इति भेले इन्द्रिये नवमोऽध्यायः॥

॥दशमोऽध्यायः॥[सम्पाद्यताम्]

अथातश्छायाध्यायं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस५.१०.१
अनुच्छायाथवा जन्तोर्दृढच्छायाथवा पुनः।
विच्छिन्ना यस्य वा छाया न स जीवति तादृशः॥
भेस५.१०.२
यो विद्युतमिवाकाशे व्यभ्रे पश्यति मानवः।
धूमायते शिरश्छाया यस्य नास्तीति तं विदुः॥
भेस५.१०.३
लाक्षारक्तं यथा वस्त्रमेवं पश्यति यो महीम्।
अथवा रक्तमाकाशं रक्तपित्तेन हन्यते॥
भेस५.१०.४
यो हृष्टरोमा पुरुषः कासेन श्लेष्मणाचितः।
कण्ठश्च शूकानुगतो यस्य नास्तीति तं विदुः॥
भेस५.१०.५
यस्य शङ्खाच्च्युतं मांसं श्यावे नेत्रे तथैव च।
चूर्णकश्च मुखे जातः परेतं तस्य जीवितम्॥
भेस५.१०.६
यस्य हस्ताच्च्युतं मांसं जन्तोर्दृश्येत कुष्ठिनः।
अथाविप्रयुक्तस्य न स जीवति मानवः॥
भेस५.१०.७
अविपक्वं विपक्वं वा भुक्तं भुक्तं यथा भवेत्।
काशश्वासज्वरैः स्पृष्टो नास्ति तस्य चिकित्सितम्॥
भेस५.१०.८
हृदयं पूर्वमावाति यस्य स्नातस्य देहिनः।
अर्धमासात्परं तस्य जीवितं नातिवर्तते॥
भेस५.१०.९
ऊर्ध्वश्वासहतो यस्तु रक्तं प्रच्छर्दयेन्नरः।
शूलं वा भिन्नकोष्ठस्य न स जीवति मानवः॥
भेस५.१०.१०
अन्तर्दाहोऽधिको यस्य शीतार्तिश्चापि बाह्यतः।
आकाशं परिपूर्णं वा वेत्ति यो न स जीवति॥
भेस५.१०.११
यस्य पक्वावुभावोष्ठौ नीलौ जम्बूफलोपमौ।
उच्छूनं यस्य च शिरः परेतं तस्य जीवितम्॥
भेस५.१०.१२
यस्योच्छूनं भवेन्मध्यमुभावंसौ कृशौ तथा।
विरिक्तः पुनराध्माति यथा प्रेतस्तथैव सः॥
भेस५.१०.१३
एतदिन्द्रियविज्ञानं यस्सम्यगनुपश्यति।
स जीवितं च मृत्युं च नृणां विद्याद्भिषग्वरः॥ इत्याह भगवानात्रेयः।
इति भेले इन्द्रिये दशमोऽध्यायः॥

॥एकदशोऽध्यायः॥[सम्पाद्यताम्]

अथातः पुष्पीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस५.११.१
शिरस्यङ्गे रक्तवर्णं योऽनिलं वापि पश्यति।
घटिकामेकवर्णं वा स पुष्पित इहोच्यते॥
भेस५.११.२
अष्टापदं वा सुकृतं जगतीं यः प्रपश्यति।
स दृष्टिपरिहीनत्वात्पुष्पितः प्रोच्यते नरः॥
भेस५.११.३
सुप्तश्च संवृते गेहे पश्यत्याकाशमेव यः।
रोमन्थयति दन्तैश्च स पुष्पित इहोच्यते॥
भेस५.११.४
दीप्यमानमिवाकाशं पृथिवीं च वनानि च।
यो वेत्ति रोमसंहृष्टः पुष्पितः स इहोच्यते॥
भेस५.११.५
अनुल्लिप्तो यथा देही वाति चेत्कुणपं यथा।
सेवन्ते मक्षिकाश्चैव पुष्पितः स इहोच्यते॥
भेस५.११.६
अविज्ञाता नरं नारी स्वप्न एव निवासिनी।
दक्षिणां दिशमेहीति यं ब्रूयान्न स जीवति॥
भेस५.११.७
प्रकीर्णकेशो विकरः स्वप्ने यो दक्षिणां दिशम्।
प्रतिपद्येत तत्रैव न स जीवति तादृशः॥
भेस५.११.८
कुशैरिव निरूढाङ्गमात्मानं स्वप्न ईक्षते।
खं वा सधूमं यो वेत्ति न स जीवति तादृशः॥
भेस५.११.९
यः स्वप्ने वृक्षमारुह्य न रोगी त्रायते गृहे।
प्रकीर्णकेशो विकचः योऽग्निमारुह्य रोदिति॥
भेस५.११.१०
प्रासादमेकस्थूणं तु स्वप्ने यश्चाधिरोहति।
नरो नृत्यति पङ्के वा स पुमान्न च जीवति॥
भेस५.११.११
स्वप्ने प्रासादमारुह्य महान्तं काञ्चनं तथा।
यो नृत्तगीतपानान्नी न स जीवति मानवः॥
भेस५.११.१२
गजेनोष्ट्रेण वा गच्छन् यः पश्येद्दक्षिणां दिशम्।
जीवेत्तु रोगी सप्ताहं, नीरोगः शरदां शतम्॥
भेस५.११.१३
याति यो दुर्दिने वापि स्वप्ने वा दक्षिणां दिशम्।
प्रतिबुध्येत तत्रैव न स जीवति तादृशः॥
भेस५.११.१४
भासैर्बर्हिवराहैश्च श्वभिर्महिषवाजिभिः।
समं यो तद्दिवा योने स्वप्ने योगफलं भवेत्॥
भेस५.११.१५
यदा गण्डं च खड्गं च स्वप्ने चाश्नंश्च पश्यति।
प्रकीर्णकेशमपि च न स जीवति तादृशः॥
भेस५.११.१६
यः स्वप्ने पुरुषः कालं पीतं वा वस्त्रमृच्छति।
गायन्नचेष्टयन्वापि न स जीवति तादृशः॥
भेस५.११.१७
यः स्वप्ने वीतकामोऽपि पीतां पिबति वारुणीम्।
चित्रकण्ठगुणो वापि न स जीवति तादृशः॥
भेस५.११.१८
आकुलापां नदीं स्वप्ने योवगाहेत मानवः।
जीवेत्सरोगस्सप्ताहं, नीरोगस्शरदां शतम्॥
भेस५.११.१९
स्वप्ने स्नातानुलिप्तस्य भ्रंशेद्यस्य तु वर्णकः।
गात्रस्य पुरुषस्येह स शस्त्रेण विनश्यति॥
भेस५.११.२०
एतदिन्द्रियविज्ञानं यस्सम्यगनुपश्यति।
जीवितं चैव मृत्युं च नृणां विद्याद्विचक्षणः॥ इत्याह भगवानात्रेयः।
इति भेले इन्द्रिये एकादशोऽध्यायः॥

॥द्वादशोऽध्यायः॥[सम्पाद्यताम्]

अथातोऽवाक्चितीयं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस५.१२.१
अवाक्चिता वा जिह्मा वा यस्य छायाल्पिका भावेत्।
नेत्रे च विषमे स्यातां परेतं तस्य जीवितम्॥ ५.१भेस२.२.। यदि दीनानि पक्ष्माणि न निमीलन्ति देहिनः।
दह्येते नयने वापि परेतं तस्य जीवितम्॥
भेस५.१२.३
नमन्त्यौ यस्य दृश्येते भ्रुवौ मूर्धनि बा स्थिते।
जीवेत्तु स त्र्यहं रोगी षण्मासान् व्याधिवर्जितः॥
भेस५.१२.४
लुञ्च्यमानेषु केशेषु वेदयन्नाति वेदनाम्।
निवृत्तसुखदुःखः स्यात्परेतं तस्य जीवितम्॥
भेस५.१२.५
यस्यातुरस्य पिटका व्यङ्गो वा दृश्यते मुखे।
अदृष्टपूर्वं प्रथमं परेतं तस्य जीवितम्॥
भेस५.१२.६
शुष्यते नासिकावंशः पृथुत्वं यस्य गच्छति।
अंसोऽनिलात् कासवतः परेतं तस्य जीवितम्॥
भेस५.१२.७
अत्युष्णं वातिशीतं वा स्तब्धं वा मृदु वाप्यथ।
मन्यते पाणिपादं च परेतं तस्य जीबितम्॥
भेस५.१२.८
योऽवतीर्य नदीं पूर्णां तोये पश्यति जालकम्।
गात्रं लिप्तमथाद्भिश्च यस्य नास्तीति तं विदुः॥
भेस५.१२.९
विवर्तयति यः शीर्षमत्यर्थं च नसा नरः।
न स्विद्यते ललाटं च नास्ति तस्य चिकित्सितम्॥
भेस५.१२.१०
ज्वर्यते कासते वापि तथोच्छवसिति वै दृढम्।
आक्रम्यते ताम्यते च यथा प्रेतस्तथैव सः॥
भेस५.१२.११
यस्योदरं समाध्मातं तद्वर्त्म च विभाव्यते।
भिन्नं पुरीषं तृष्णा च यथा प्रेतस्तथैव सः॥
भेस५.१२.१२
अनारतं गृहे यस्य कांस्यं भिद्येत देहिनः।
चन्द्रस्तीक्ष्णो मृदुश्चार्को यस्य स्यात्तं विवर्जयेत्॥
भेस५.१२.१३
अप्रधातुः प्रधातुर्वा स्वस्थो वा यदि वाऽऽआतुरः।
यश्चन्दनमिवावाति न स जीवति तादृशः॥
भेस५.१२.१४
यूथिकोत्पन्नगण्डश्च, वाति यश्चापि वर्त्मवत्।
अभक्तः तसिमं बाल्ये यो वाति न स जीवति॥
भेस५.१२.१५
द्विषद्भिः कुरुते सख्यं यः प्रियैर्याति विप्रियम्।
अकस्मात्कुप्यते यस्तु परेतं तस्य जीवितम्॥
भेस५.१२.१६
एभिरेवंविधैर्लिङ्गैरन्यैश्चापि यथायथम्।
नोपक्रमेत मेधावी भिषगन्वितमातुरम्॥
भेस५.१२.१७
एतद्भिषगरिष्टानां यो ज्ञानमनुबुध्यते।
यथोक्तं वेद वेदायुः स भिषक् शास्त्रकोविदः॥

इत्याह भगवानात्रेयः।
इति भेले इन्द्रिये द्वादशोऽध्यायः॥

इति भेलसंहितायाम् इन्द्रियस्थानं समाप्तम्॥