भृगुसंहिता/विंशोऽध्यायः

विकिस्रोतः तः
← एकोनविंशोऽध्यायः भृगुसंहिता
विंशोऽध्यायः
[[लेखकः :|]]
एकविंशोऽध्यायः →

अथ विंशोऽध्यायः.


अथ विंशोऽध्यायः.
रक्षादीपविधिः
अतः परं प्रवक्ष्यामि रक्षादीपविधिक्रमं ।
सौवर्णं राजतंवापि ताम्रंवापि स्वशक्तितः ।। २०.१ ।।

द्वात्रिंशदङ्गुलं श्रेष्ठं मध्यमं पादहीनतः ।
अधमं विंशदङ्गुल्यं समवृत्तन्तु कारयेथ् ।। २०.२ ।।

अष्टदिक्षु च मध्येच चतुर्दिक्षु च वा तथा ।
केवलं कर्णिकां वाथ कर्णिकायान्तु विस्तृतं ।। २०.३ ।।

तदर्धमुन्नतं विन्द्याद्गण्डायामं षडङ्गुलं ।
द्व्यङ्गुलं तु परीणाहं तदूर्थ्वे भागविस्तृतं ।। २०.४ ।।

तदर्धं विस्तृतोत्सेधं दीपबात्रं प्रकल्प्य च ।
अलभेशालिपिष्टं वा गोमये वा समाहरेथ् ।। २०.५ ।।

तत्तत्थ्साने तु विन्यस्य पात्रेसंयोजयेत्ततः ।
आढकं वा तदर्धं वा पिण्डार्धं च चरुंपचेथ् ।। २०.६ ।।

हारिद्रचूर्ण संयुक्तं पात्रे प्रक्षिप्य मन्त्रविथ् ।
आज्येन स्राव्य संमृज्य मुष्टिमात्रं दृढीकृतं ।। २०.७ ।।

दशपिण्डां स्तदर्धं वा साक्षते च समाहरेथ् ।
जलेन कुंभमापूर्य सर्वगन्धसमायुतं ।। २०.८ ।।

कुशकूर्चान्विनिक्षिप्यपल्लवैरपि भूषयेथ् ।
अष्टमङ्गलसंयुक्तं पाद्याचमनसंयुतं ।। २०.९ ।।

पुष्पगन्धसमायुक्तं धूपदीपार्घ्य संयुतं ।
पृधक्पात्रे समाहृत्य देवदेवं च पूजयेथ् ।। २०.१० ।।

शङ्खध्वनिसमायुक्तं वंशध्वनिसमायुतं ।
भेरीमृदङ्गसुषिरवाद्यघोषसमायुतं ।। २०.११ ।।

स्तोत्रध्वनिसमायुक्तं स्वक्तिसूक्तसमन्वितं ।
दासीभिश्चाथ वा भक्तैस्स्वहस्तोपरि धारयेथ् ।। २०.१२ ।।

प्रदक्षिणं शनैर्गत्वा देवालयमुपाव्रजेथ् ।
आचार्यं पूजयित्वातु देवदेवं प्रणम्यच ।। २०.१३ ।।

रक्षादीपं समादाय "श्रिये जातऽ इति ब्रुवन् ।
बिंबमूर्ध्नि तु संयोज्यत्रिः प्रदक्षिणमाचरेथ् ।। २०.१४ ।।

दिक्पिण्डं तु विसृज्यैव प्रोक्षयित्वा च मन्त्रविथ् ।
प्रदक्षिणं प्रणामं च कारयेदष्टमङ्गलैः, ।। २०.१५ ।।

पाद्यमाचमनं दत्वागन्धपुष्पादिभिर्यजेथ् ।
मुखवासं च दत्वातु स्तुतिमन्त्रैश्च वैष्णवैः ।। २०.१६ ।।

समालभ्यैव हस्ताभ्यां पुष्पदूर्वाङ्कुराक्षतैः ।
पादेपुष्पाञ्जलिङ्कुर्यात्कुर्याद्देवस्य मन्त्रतः ।। २०.१७ ।।

आलयात्तु बहिर्गत्वा पीठपार्श्वेतु निक्षिपेथ् ।
कौतुके बलिबेरेपि स्नापने प्यौत्सवेऽपि च, ।। २०.१८ ।।

प्रादुर्भावे च सर्वेषामाविर्भावे तथैव च ।
एवमेव तु कृत्वा तु भ्रामयित्वा विचक्षणः, ।। २०.१९ ।।

चक्रवीशामितादीनामिन्द्रादीनां तथैव च ।
दर्शनं भ्रामणं चैवमाचरेच्छास्त्रवित्तमः ।। २०.२० ।।

मोहादज्ञानतः कुर्यात्सर्वहानिर्भविष्यति ।
सायाह्ने चत्रिपूजान्ते चोत्सवान्ते च नित्यशः ।। २०.२१ ।।

एवमेव विधानेन कारयेदुत्तमं विदुः ।
सर्वशान्तिकरं चापि सर्वकंपत्समृद्धिदं ।। २०.२२ ।।

दारिद्षादिविनाशेन सर्वान्कामनवाप्नुयाथ् ।
अतःपरं प्रवक्ष्यामि शिबिकानां तु लक्षणं ।। २०.२३ ।।

मात्राङ्गुलेन वाकुर्याच्छिभिकादीन्विधानतः ।
आवृतं तदर्धविस्तारमुत्तमं तुविधीयते ।। २०.२४ ।।

तत्षडङ्गुलहीनन्तु मध्यमन्तुप्रकीर्तितं ।
विस्ताराध्यर्धपादेन ?अयामद्विगुणं भवेथ् ।। २०.२५ ।।

उत्तमाधममध्यानां शिबिकाविस्तरो भवेथ् ।
त्रिभागैकस्य भागं स्याच्चतुर्भागैकभागिकं ।। २०.२६ ।।

पञ्चभागैकभागं स्याद्विस्तारस्य घनं भवेथ् ।
तच्चतुर्भागमेवं स्यादेकैकं वमनं भवेथ् ।। २०.२७ ।।

शेषभागं तु पद्मोक्तं तलायुक्ति विशेषतः ।
शिबिकाविस्तृतं चैवं भागैकं भागमेव च ।। २०.२८ ।।

तच्चतुर्भागमेवोक्तं भित्त्युत्सेधं विधीयते ।
द्वितलं त्रितलं चैव गुलिकाफलकाभवेथ् ।। २०.२९ ।।

गुलिकापादतलोत्सेधं मध्योर्ध्वतलवत्समं ।
चतुर्भागैकमेवन्तु नवभागैकमेव वा ।। २०.३० ।।

अङ्गुलं चाङ्गुलार्थं च ऊर्थ्वपट्ट्या च संयुतं ।
अतःपरं प्रवक्ष्यामि रथादीनां विधिक्रमं ।। २०.३१ ।।

पञ्चषट्सप्ततालं वा चाष्टतालमथापि वा ।
विस्तारायममेवं स्यादुत्सेधं द्विगुणं भवेथ् ।। २०.३२ ।।

मण्डपद्वारयुक्तं वा कूटाकारमथापि वा ।
अधराधरमायामं रथायामत्रयं भवेथ् ।। २०.३३ ।।

छत्रस्यायामविस्तारादुत्सेदार्धप्रमाणतः ।
एवं तु परिकल्प्यैव शिबिकायाममुच्यते ।। २०.३४ ।।

रथायामसमं वापि पादहीनमथार्थकं ।
विस्तारं तत्त्रिभागै कमायामं चोच्छ्रयं भवेथ् ।। २०.३५ ।।

विस्तारार्धसमुत्सेधं विस्तारार्थाधिकायतं ।
शयनं संप्रकल्प्यैव पूर्वोक्तेनैव दारुणा ।। २०.३६ ।।

सर्वालङ्कारसंयुक्तं सर्वसैन्दर्यसंयुतं ।
शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कालयेद्बुधः ।। २०.३७ ।।

पञ्चगव्यैस्सुसंशोध्य वास्तुहोमश्च हूयतां ।
पर्यग्नि चैव कृत्वातु कलशैस्स्नापयेत्ततः ।। २०.३८ ।।

मण्डपे वा प्रपायां वा स्थण्डिले वात्र विन्यसेथ् ।
नवैर्वस्त्रैस्समावेष्ट्य पुण्याहमपि वाचयेथ् ।। २०.३९ ।।

जौपासनाग्निकुण्डं च कारयित्वा विधानतः ।
आघारं पूर्ववत्कृत्वा कुंभपूजां समाचरेथ् ।। २०.४० ।।

वैष्णवं विष्णुसूक्तं च तत्तद्देवांश्च मूर्तिभिः ।
व्याहृत्यन्तं च हुत्वा तु अन्तहोमश्च हूयते ।। २०.४१ ।।

यानादिषु च तन्मध्ये तत्तद्देवां स्तथैव च ।
आवाह्यैव समभ्यर्च्य देवदेवं प्रणम्य च ।। २०.४२ ।।

पाद्याद्यर्घ्यान्तमभ्यर्च्य हविस्सम्यङ्निवेदयेथ् ।
सर्वालङ्कारसंयुक्तं सर्ववाद्यसमन्वितं ।। २०.४३ ।।

यानादिषु समारोप्य "प्रतद्विष्णुऽरिति ब्रुवन् ।
ग्रामं वा प्यालयं वापि प्रदक्षिणमधाचरेथ् ।। २०.४४ ।।

मन्दिरं संप्रविश्यैव स्वेस्वेस्थाने निवेशयेथ् ।
एवं यःकुरुते भक्त्या वैष्णवं पदमाप्नुयाथ् ।। २०.४५ ।।

अतःपरं प्रवक्ष्यामि प्रपामण्डपलक्षणं ।
मण्डपं त्रिविधं ज्ञेये विमानसमविस्तृतं ।। २०.४६ ।।

अर्धं पादं तु पादं वा हीनन्तु त्रिविधं भवेथ् ।
प्रमुखे तस्यसोपानमालयार्धमिति स्मृतं ।। २०.४७ ।।

पूर्वेतु स्नपनार्थाय मण्डपं संप्रकल्पयेथ् ।
षोडशस्तंभयुक्तं वा द्वादशस्तंभसंयुतं ।। २०.४८ ।।

ऐशान्ये वा प्रकुर्वीत स्नपनार्थं प्रकल्पयेथ् ।
प्रथमावरणे वाथ द्वितीयावरणेऽथ वा ।। २०.४९ ।।

एकादशेन हस्तेन समं सम्यक्प्रकल्पयेथ् ।
नवहस्तं सप्तहस्तं पञ्चहस्तमिति त्रिधा ।। २०.५० ।।

प्रथमावरणे बाह्ये मण्डपन्तु विधीयते ।
आस्थानवृत्तगेयादिदर्शनार्थं प्रकल्पयेथ् ।। २०.५१ ।।

पूर्ववत्प्रमुखे कुर्याद्यथाविभवविस्तरं ।
यजमानस्य हस्तेन द्विहस्तन्तु विवर्धयेथ् ।। २०.५२ ।।

पूर्ववत्स्तंभसंयुक्तं यथायोग्यं प्रकल्पयेथ् ।
तत्बूर्वदिशि शालायां नृत्तार्थन्तु विधीयते ।। २०.५३ ।।

विष्कंभं नवहस्तं वा आयामं द्विगुणीकृतं ।
यजमानेच्छया तत्र द्विहस्तन्तुविवर्धयेथ् ।। २०.५४ ।।

अयादिलक्षणं वक्ष्ये यजमानानुकूलतः ।
हस्तं पादं तदर्धं वा विस्तारायादिसंयुतं ।। २०.५५ ।।

तथैव नूनं कृत्वा तु अयादीन्लक्षयेद्बुधः ।
शिलाभिरिष्टकाभिर्वा हस्तोच्छ्रयसमं तलं ।। २०.५६ ।।

द्वितलं वा प्रकुर्वीत तालं सम्यक्प्रकल्पयेथ् ।
शैलजं दारुसारं वा स्तंभमाहृत्य यत्नतः ।। २०.५७ ।।

वृत्तं वा चतुरश्रं वा ऋजुं वक्रविवर्जितं ।
स्तंभानां विंशतिं गृह्य बाह्यस्तंभं प्रगृह्य च ।। २०.५८ ।।

तन्मध्ये द्वादशस्तंभं पूर्ववत्कारयेद्बुधः ।
स्तंभायामं यथायोगं कृत्वा तत्र विचक्षणः ।। २०.५९ ।।

द्वितालघन संयुक्तं स्तंभमानेन स्वस्तिकं ।
स्तलत्योर्ध्वे विभज्यैव समं वन्दत्यप्रकल्पयेथ् ।। २०.६० ।।

तस्यामेव तु स्तंभार्थं पादं संस्थाप्य स्वस्तिकं ।
दृढं कृत्वा तदूर्ध्वेत स्तंभं संस्थाप्य वै बुधः ।। २०.६१ ।।

द्व्यङ्गुलं च भवैर्वाथ वेदिकां कारयेद्बुधः ।
नानालङ्कारसंयुक्तं नानाचित्रसमन्वितं ।। २०.६२ ।।

उत्तरं तत्समं कृत्वा बोधिकेतु सुयोजयेथ् ।
स्तंभादूर्ध्वन्तु संस्थाप्य तदूर्ध्वे प्रस्तरं न्यसेथ् ।। २०.६३ ।।

अभ्लन्तरोत्तरादूर्ध्वेऽबिष्टकाधानपादयोः ।
बालोत्तरं यथायोग्यं स्थापयेत्सुदृढं क्रमाथ् ।। २०.६४ ।।

तद्बिल्वको यथामार्गं योग्यं तत्पद्ममुच्छ्रयं ।
एवं लक्षणसंयुक्तं दर्शनीयं च कारयेथ् ।। २०.६५ ।।

यजमानेच्छयातत्तन्मण्डपेन सहैव तु ।
षोडशस्तंभसंयुक्तं द्वादशस्तंभमेववा ।। २०.६६ ।।

भक्तियुक्तं प्रकल्प्यैव प्रपां युक्त्यैव कारयेथ् ।
अपरे द्वारसंयुक्तं पूर्ववत्स्तंभमेव वा ।। २०.६७ ।।

कवाटं तत्र वा कुर्याच्छेषं यक्त्यैव कारयेथ् ।
शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कारयेद्बुधः ।। २०.६८ ।।

मण्डपस्य समाप्तौतु अङ्कुरानर्पयेत्क्रमाथ् ।
शुद्ध्यर्थं वास्तुहोमं च पुण्याहं चैव कारयेथ् ।। २०.६९ ।।

ब्राह्मणान्भोजयेत्पश्चात्तद्देशमुपलक्षयेथ् ।
चरोदये च नक्षत्रे स्थिरराशिं प्रगृह्य च ।। २०.७० ।।

मण्डपस्य तु मध्ये वै धान्यपीठानि कल्पयेथ् ।
प्रतिष्ठोक्तक्रमेणैव कुंभन्यासाति कारयेथ् ।। २०.७१ ।।

पश्चिमे गार्हपत्याग्नावाघारं जुहुयात्क्रमाथ् ।
होता हौत्रक्रमेणैव हौत्रं तत्र प्रशंसयेथ् ।। २०.७२ ।।

तत्तद्देवस्य चावाह्य जुष्टाकारं हुतं चरेथ् ।
श्रीसूक्तं वैष्णपं चैव वैष्णवं चैकविंशतिः ।। २०.७३ ।।

इन्द्रादिलोकपालानां प्रत्येकं जुहुयात्क्रमाथ् ।
तत्तत्स्थानेतु कूर्चे वा स्थण्डिले वा समर्चयेथ् ।। २०.७४ ।।

प्रभूतं तु निवेद्यैव द्रोणन्द्रोणार्छमेव वा ।
आचार्यस्यार्चकादीनां दक्षिणां च ददेत्क्रमाथ् ।। २०.७५ ।।

सौवर्णैरुत्पलैः पुष्पैरलङ्कुर्यात्प्रपां ततः ।
पद्मैर्वाकुमुदैर्वाथ पुष्पैरन्यैस्स्वशक्तितः ।। २०.७६ ।।

देवदेवमलङ्कृत्य वस्त्रमाल्यादिभिः पुनः ।
प्रपां संयोज्य देवेशं ध्यानेनैव तु सन्नयेथ् ।। २०.७७ ।।

देवेशं स्थापयेत्तत्र पाद्याद्यैरर्चयेत्क्रमाथ् ।
महाहविः प्रभूतं वा यथाशक्ति निवेदयेथ् ।। २०.७८ ।।

एवं यः कुरुते भक्त्या विष्णुलोके महीयते

इति श्रीवैखानसे भगवच्छास्त्रे
भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे
विंशोऽध्यायः.