भृगुसंहिता/तृतीयोऽध्यायः
← द्वितीयोऽध्यायः | भृगुसंहिता तृतीयोऽध्यायः [[लेखकः :|]] |
चतुर्थोऽध्यायः → |
अथ तृतीयोऽध्यायः
विमानभेदाः
अथविन्यासरूपाणि प्रवक्षन्तेयथाक्रमं ।
श्रीवत्संप्रथमंप्रोक्तं नन्द्यावर्तन्द्वितीयकं ।। ३.१ ।।
तृतीयंस्वस्तिकंविन्द्याच्चतुर्थंभद्रकंस्मृतं ।
दण्डकंपञ्चमन्त्वाहुर्वेदिकंषष्ठमुच्यते ।। ३.२ ।।
कुंभकंसप्तमंविन्द्या दष्टमंपद्मकन्तथा ।
नवमंस्याद्रथपदं दशमन्तुप्रकीर्णकं ।। ३.३ ।।
एतेषामाकृतिंवक्ष्ये यथावदनुपूर्वशः ।
न्यत्रदण्डकात्सर्वं बहिर्वीधीसमन्वितं ।। ३.४ ।।
तस्यचास्तगन्तैश्चिह्नैश्श्रीवत्साद्यंविधीयते ।
एकप्राचीनवीधीक मुदीचीनान्यवीथिकं ।। ३.५ ।।
श्रीवत्समितिविज्ञेयं सर्वविद्यासमंमतं ।
मध्येकोणं चतुर्द्वारं प्रागीशादिप्रदक्षिणं ।। ३.६ ।।
तन्निगन्तोजवीथीकं नन्द्यावर्तमितिस्मृतं ।
स्वस्तिकन्त्वोजवीथ्यन्तं भद्रंमध्यप्रतोलिकं ।। ३.७ ।।
एकप्राचीनकन्दण्डं चतुरश्रन्तुवेदिकं ।
वृत्तङ्कुंभकमुद्दिष्टं पद्मकंस्याद्द्विवेदिकं ।। ३.८ ।।
ब्रह्मकोशाष्टकद्वारवीथीरथपदाकृतिः ।
प्रागुदक्प्रवणञ्चैव प्रकीर्णकमुदाहृतं ।। ३.९ ।।
द्विद्वारंवाचतुद्वान्रं मनस्तोयुक्तितोभवेथ् ।
अयुक्तद्वारदेवस्य भजनंनाभिधीयते ।। ३.१० ।।
दण्डकस्तेनमानेन योनिग्रहणमुच्यते ।
शरीरमङ्गंप्रत्यङ्गं ज्ञात्वायोनिंप्रकल्पयेथ् ।। ३.११ ।।
ग्रामंशरीरमङ्गंस्स्याद्देवद्विजपरिग्रहं ।
प्रत्यङ्गमङ्गंसंवृत्तं विमानभवनादिकं ।। ३.१२ ।।
दण्डेनपूर्वयोर्वादं हस्तेनान्यत्रधीयते ।
दण्डेविस्तारमायाम मेकैकङ्गुणयेत्त्रिभिः ।। ३.१३ ।।
एकैकंषष्टिभिहिन्त्वा शिष्टंयोनिंसमादिशेथ् ।
हस्तेनद्वयसंसर्गे त्रिगुणंवसुभिहन्रेथ् ।। ३.१४ ।।
शेषंयोनिंविजानियाद्ध्वजधूमादिकङ्क्रमाथ् ।
सर्वत्रकल्पयेद्योनिं तयोर्वर्गफलेनवा ।। ३.१५ ।।
योनेर्महादिशाश्रेष्ठा दिविसप्तत्रिगहिन्ता ।
प्रवीणञ्चतुरश्रंस्याच्चेषाणामायतंविदुः ।। ३.१६ ।।
अष्टषट्चतुरंशास्स्यु रितरेषांयथाक्रमं ।
एवमायामयोगस्तु प्रत्यङ्गस्यैवकल्पयेथ् ।। ३.१७ ।।
अङ्गेद्विगुणमायामं पादन्यूनमधाधिकं ।
अर्धंनवाहयेन्न्यून मधिकन्तुविधीयते ।। ३.१८ ।।
आत्मावास्तुशरीरस्य विस्तारादधिकंविदुः ।
पादायामशिखावापि द्विगुणंवाविशेषतः ।। ३.१९ ।।
समंवासर्वतःकुर्याच्चरीरन्दण्डकादृते ।
वर्धयेदधिकायामं दण्डषोडशकेनवा ।। ३.२० ।।
दण्डे अष्टगुणङ्कुर्या दायामंयुक्तितोऽथवा ।
अङ्गमागमविस्तारो दण्डभेदोऽपियोज्यते ।। ३.२१ ।।
अन्यत्रदण्डनेछिन्द्याच्चरेषुतुविशेषतः ।
पातंविस्तारसूत्रेषु विदुस्सूत्रद्वयेऽपिवा ।। ३.२२ ।।
कण्ठसूत्रद्वयेवापि प्रत्यङ्गेनैव कारयेथ् ।
विधिभेदन्तुकर्तव्यं ब्रह्मभागेविशेषतः ।। ३.२३ ।।
एवङ्क्रमेण शास्त्रज्ञश्शरीरं संप्रकल्पयेथ् ।। ३.२४ ।।
विष्णुस्थापनम्
सहस्रभूसुरादूर्ध्वे ब्रह्मांशेवायुदेशके ।
पञ्चमूर्तिविधानेन स्थापयित्वा जनार्धनं ।। ३.२५ ।।
वैखानसै महाभागैर्वैदिकार्चनतत्परैः ।
वेदान्तवेदिभिर्विप्रैरञ्चयेत्पुरुषोत्तमं ।। ३.२६ ।।
शङ्करादि स्थापनं ईशान ईश्वरञ्चैव सोमेशानावथापिवा ।
पश्चिमेकेशवस्थान मैशान्यांशङ्करालयं ।। ३.२७ ।।
अनुकल्पंविकल्पञ्च कल्पञ्चैवत्रिधाभवेथ् ।
भूपरीक्षादियत्कर्म अनुकल्पमितिस्मृतं ।। ३.२८ ।।
देवादीनांमुनीनाञ्च कल्पयेत्तुविकल्पकं ।
गभेन्मृदालयेयत्र प्रतिष्ठायान्तुकल्पकं ।। ३.२९ ।।
एवन्देशंविनिश्चित्य मूलस्थानञ्चनिर्दिशेथ् ।
निर्मितेऽत्रविमानस्यचो त्सेधार्थंसमन्तुवा ।। ३.३० ।।
जलास्तंवाशिलान्तं वाखानयेदुचितंसुधीः ।
विस्तारायामसीमान्ताद्बाह्येखात्वादृढायच ।। ३.३१ ।।
एकहस्तन्द्विहस्तंवा त्रिहस्तंवाधिकङ्क्रमाथ् ।
वालुकैर्विश्वतःपूर्य दृढीकरणमादिशेथ् ।। ३.३२ ।।
बालालयन्तुशक्तानामशक्तानांविनाभवेथ् ।
ध्रुवार्चायाःप्रतिष्ठाचे द्बालागारंनकल्पयेथ् ।। ३.३३ ।।
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे तृतीयोऽध्यायः