भाषावृत्तिः/अष्टमोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः भाषावृत्तिः
तृतीयः पादः
पुरुषोत्तमदेव
चतुर्थः पादः →

-8-3-1- मतुवसो रु सम्बुद्धौ छन्दसि ।।
रुः सम्बुद्धौ इत्यधिक्रियते। शेषश्छान्दसः।
। विभाषा भवद्भवदघवतामोच्चावस्य ।। एषां समबुद्धौ रुर्वा स्याद्, अवशब्दस्य चौकारः। हे भोः, हे भवन् वा। हे भगोः, हे भगवन् वा। हे अघोः, हे अघवन् वा। भोः शब्दोऽप्यव्ययमस्ति। भो विप्र, भो विप्रौ, भो विप्राः। स्त्रियाञ्ञ्च-भो ब्राह्मणि।
-8-3-2- अत्रानुनासिकः पूर्वस्य तु बा ।।
यस्य रुत्वं कृतं तत्पूर्वस्यानुनासिको वा स्यादित्यधिक्रियते।
-8-3-3- आतोऽटि नित्यम् ।।
छन्दसम्।
-8-3-4- अनुनासिकात् परोऽनुस्वारः ।।
अन्यशब्दोऽत्राध्याहार्यः। अनुनासिकादन्यस्य रोः पूर्वस्यानुनासिकाभावे परीऽनुस्वारागमो वेदितव्यः। तद्यथा--
-8-3-5- समः सुटि ।।
समो रुःस्यात् सुटि परे सँस्स्कर्त्ता, संस्स्कर्त्ता वा। सँस्स्करोति, संस्स्करोति वा।
इह समो मलोपः इति भाष्यम्। लोपपक्षेऽप्यनुनासिकानुस्वाराविष्येते। सँस्कर्त्ता, संसकर्त्ता वा।
किञ्ञ्चात्र सम्पुंकानां सो वक्तव्यः इति भाष्यम्। सँस्स्कर्त्ता, संस्स्कर्त्ता वा। पुँस्कामा, पुंस्कामा वा। कांस्कान्, काँस्कान वा।
रुत्वपक्षे वा शरि इति विसर्गः, कुप्वोः ःकः पौ च इति वा स्याताम्। वा शरि इति व्यवस्थितविभाषया न भवतीति वामनवृत्तिः।
अत्र च संस्करोतेः कैयटश्रुतपालयोर्मतभेदात् षोडश रूपाणि ग्रन्थविस्तरभयान्न दर्शितानि।
-8-3-6- पुमः खय्यम्परे ।।
पुमो रुः स्याम्परे खयि परतः। पुँश्चली, वा। पुँश्चली, पुंश्चली वा। पुँस्कोकिलः, पुंस्कोकिलो वा। पुँस्कामा, पुंस्कामा वा। पुँस्त्वम्, पुंस्त्वं वा।
अम्परे किम् ? पुंखीरम्। खयि किम् ? पुंगवः। पुंहासः।
-8-3-7- नश्छव्यप्रशान् ।।
नान्तस्य पदस्य रुः सयाच्छवि। भवांश्चिनोति, भवाँश्चिनोति वा। भवांश्छादयति, भवाँश्छादयति वा। भवांष्टीकते, भवाँष्टकते वा। भवांष्ठकारः, भवाँष्ठकारः वा। भवांस्तरति, भवाँस्तरति वा।
छवि किम् ? भवान् करोति। अप्रशान् किम् ? प्रशाञ्ञ्चिनोति। अम्पर इत्येव--भवान् त्सरुकः। पदस्येव--भवन्तौ। पचन्तौ। संहितायामित्येव--भवान् चिनोति। भवान् छादयति।
कथं त्वन्तरसीति ? अत्र न भवति परसवर्णासिद्धेः।
इह--
-8-3-8- उभयथर्क्षु ।।
-8-3-9- दीर्घादटि समानपादे ।।
छन्दःसूत्रद्वयम्।
-8-3-10- नॄन् पे ।।
नृनित्यस्य रुः स्यात् पवर्णे। नृँः पाहि, नृंः पाहि, वा। नृँः प्रीणीहि, नृः प्रीणीहि वा।
पे किम् ? नृन् भोजयति। संहितायाम् इत्येव--नृन् पाहि।
-8-3-11- स्वतवान् पायौ ।।
इति च्छान्दसः।
-8-3-12- कानाम्रेडिते।
कान्नकारस्याम्रेडिते परे रुः स्यात्। कांस्कान्, काँस्कान् वा भोजयति।

                           ।।उक्तो रुः ।।
-8-3-13- ढो ढे लोपः ।।
ढे परे ढस्य लोपः स्यात्। ऊढम्। निर्व्यूढिः। लीढम्। लीढवान्। लीढ्वा। ष्टुत्वमिहाश्रयणात् सिद्धम्।
-8-3-14- रो रि ।।
रेफे परे रेफस्य लोपः स्यात्। स्वाराट्। पुनारक्तम्। पुनारमते। इन्दूराजते। हे कर्त्ता राजसे। अहारम्यम्। नीरक्तम्। अग्नीरथः।
कथं मनोरथः ? रो रिलोपस्यासिद्धत्वाद् हशि च इत्युत्वम्।
-8-3-15- खरवसानयोर्विसर्जनीयः।।
 रेफान्तपदस्य विसर्जनीयः स्यात्, खरि अवसाने च। विप्रः कर्त्ता। विप्रः साधुः। अवसाने--वृक्षः। प्रातः।
नृपतेरपत्यं नार्पत्यमिति वृद्ध्यसिद्धत्वात्।
-8-3-16- रोः सुपि ।।
सप्तमीबहुवचने परतो रोरेव विसर्जनीयः स्यात्। पयःसु। सर्पिःषु। रेफस्य--गीर्षु। चतुर्षु। धूर्षु।
-8-3-17- भोभगोअघोअपूर्वस्य योऽशि ।।
एतत्पूर्वस्य रोर्यकारः स्यादशि परे। भो अत्र, भोयत्र। भो आत्मन्, भोयात्मन्। भगो अत्र, भगोयत्र। अघो अत्र, अघोयत्र। भो ददासि।
अवर्णपूर्वस्य--क आस्ते, कयास्ते। कःथ्द्य;ह, कयिह। नरा आसते, नरायासते।
एतत्पूर्वस्य किम् ? वायुरत्र। रोः किम् ? प्रातरत्र। प्रियचत्वारसौ। वार्भ्याम्।
अश्ग्रहणमुत्तरार्थम्।
-8-3-18- व्योर्लघुप्रयत्नतरः शाकटायनस्य ।।
भोःशब्दादिपूर्वयोः पदान्तयोर्व्योरीषत्स्पृष्टतरो वा स्यादशि परे। भोयत्र। भोयिह। भोयिदम्। वृक्षयिह। विप्रयासते। अस्मायुद्धर। करवायानुष्टुभम्। वटवात्थ। द्वावानय। पक्षे--इर्षत्स्पृष्ट एव। लोपश्च वक्ष्यत इति त्रीणि रूपाणि।
ओतो नित्यं लोप इति। तत्र लघुप्रयत्नतरलोपाभ्यां रूपद्वयं सेत्स्यति।
-8-3-19- लोपः शाकल्यस्य ।।
तयोर्व्योः शाकल्यस्य मतेन लोपः स्यात्। क आस्ते। यस्मा उद्धर। कस्मा उद्धर। द्वा आनय। विप्रा आसते। पट आस्ते।
-8-3-20- ओतो गार्ग्यस्य ।।
ओतः परस्य प्रकारस्य लोपः स्यात्। नित्यार्थं वचनम्। भो अत्र। अघो इदम्।
-8-3-21- उञ्ञि च पदे ।।
उञ्ञि निपाते पदान्तयोर्व्योर्लोपः स्यात्। स उ पश्यति। द्वा उ पश्यतः। लघुप्रयत्नतरपक्षे--सयु पश्यति, द्वावु पश्यत इति रूपद्वयम्।
-8-3-22- हलि सर्वेषाम् ।।
भो-भगो-अघो-अवर्णपूर्वयोः पदान्तयोर्व्योर्हलि परे लोपः स्यात् सर्वसम्मतः। भो हससि। भगो ददाति। अघो यासि। विप्रा हसन्ति। वकारस्य--वृक्षं वृश्चतीति वृक्षवृट्, तमाचष्टे णिच्, ततो विच्--वृक्षव्। वृक्ष गच्छति।
अशीत्येव--वृक्षव् करोति।
पदान्तयोः किम् ? शय्या। शङ्कव्यम्।
-8-3-23- मोऽनुस्वारः ।।
हलि मस्यानुस्वारः स्यात्। कुण्डं हन्ति। वनं याति। पंभ्याम्। पुंसु।
पदस्येत्येव--रम्यते। गम्यते।
-8-3-24- नश्चापदान्तस्य झलि ।।
झलि अपदान्तस्य नस्य मस्य चानुस्वारः स्यात्। पयांसि। यशांसि। मस्य--आक्रंस्यते।
झलि किम् ? हन्यते। गम्यते।
-8-3-25- मो राजि समः क्वौ ।।
क्वौ परे समो मकारस्य मकार एव स्याद् राजि परे। सम्राट्।
साम्राज्यम्।
राजि किम् ? संयत्। समः किम् ? स्वयंराट्। क्वौ किम् ? संराजिता।
-8-3-26- हे मपरे वा ।।
मपरे हकारे मस्य मो वा स्यात्। किम् ह्ललयति, किं ह्ललयति वा।
। यवलपरे यवला वा ।। सानुनासिका एते स्युः। कियँ ह्यः, किं ह्यो
वा। किं ह्वलयति, किवँ ह्वलयति वा। किलँ ह्लादयति, किं ह्लादयति वा।
-8-3-27- नपरे नः ।।
नपरे हकारे मस्य नः स्याद्वा। किन् हनुते, किं हनुते वा।
-8-3-28- ङ्णोः कुक्टुक् शरि ।।
पदान्तयोर्ङणोः कुक्टुकौ वा स्यातां शरि। अध्यङक् शस्त्रभृतां रामः, अध्यङ शस्त्रभृतां रामो वा। प्राङ षण्डे, प्राङ क्षण्डे वा। वणतेर्विच्--वण्, वण्शेते, वण्ट्शेते, वण्ट्छेते वा। वण्षण्डे, वण्ट्षण्डे वा।
-8-3-29- डः सि धुट् ।।
डान्तात् सकारे धुड् वा स्यात्। श्वलिट्त्साये, श्वलिट्साये वा।
-8-3-30- नश्च ।।
नान्तात् पदात् सकारस्य धुड् वा स्यात्। भवान्त्साधुः। भवान् साधुर्वा।
-8-3-31- शि तुक् ।।
नान्तस्य शकारे तुग्वा स्यात्। भवाञ्ञ्च्शेते, भवाञ्ञ्च्छेते, भवाञ्ञ्छेते, भवाञ्ञ्शेते वा। महाञ्ञ्छेते, महाञ्ञ्च्शेते, महाञ्ञ्च्छेते, महाञ्ञ्शेते वा।
-8-3-32- ङमो ह्वस्वादचि ङमुण् नित्यम् ।।
ह्रस्वात् परस्य पदान्तस्य ङणनां ङुण्णुण्नुटः स्युरचि। उदङङास्ते।
श्वगण्णिह। यण्णिह। कुर्वन्नत्र।
ह्रस्वात् किम् ? प्राङास्ते। महानवम्। पदान्ताश्रयणान्नेह- भणति। दण्डिना। तिङन्तोणादिसनाद्यन्तादयस्तु निपातनात्।
-8-3-33- मय उञ्ञो वो वा ।।
मयः परस्याचि उञ्ञो वो वा स्यात्। निपात एकाजनाङ् इति प्रगृह्यत्वेन प्रकृतिभावस्य बाधा। किमु अयम्, किम्वयं वा।
-8-3-34- विसर्जनीयस्य सः ।।
स्यात्। पटुश्छात्रः। वृक्षष्षण्डे। विप्रस्साधुः।
मण्डूकप्लुत्या खरीत्येव--वृक्षः।
-8-3-35- शर्परे विसर्जनीयः ।।
शर्परे खरि विसर्जनीय एव स्यान्न विकारः। रम्यः त्सरुकः। विप्रैः प्सातम्। वासः क्षौमम्।
-8-3-36- वा शरि ।।
शरि विसर्गस्य सो वा स्यात्। वृक्षश्शेते, वृक्षः शेते वा। वृक्षष्षण्डे, वृक्षःषण्डे वा। वृक्षस्साधुः, वृक्षः साधुर्वा। विप्रस्साधुः, विप्रः साधर्वा।
। खर्परे शरि वा लोपो विसर्गस्य ।। नरा स्थूलाः। नरा स्थूलाः, नरास् स्थूला वा। स्वस्थः, स्वःस्थः,
स्वस्स्थो वा। निस्स्पृहः, निस्पृहः, निःस्पृहो वा।
-8-3-37- कुप्वोःअकःपौ च ।।
कुप्वोः खरि विसर्गस्यअकःपौ वा स्याताम्। चकारात् विसर्जनीयश्च।
कपावुच्चारणार्थौ। कखयोर्डमरुत्वम्। फयोर्गजकुम्भतवम्।
विप्रः कर्त्ता, विप्रअकर्त्ता वा। रम्यः खड्गः। रम्यअखड्गो वा। विप्रः पचति, विप्रःपचति वा। शूद्रः पिबति, शद्रःपिबति वा। वृक्षःफलति, वृक्षःफलति वा।
कपयोर्बाधामाह--
-8-3-38- सोऽपदादौ ।।
अपदादौ कुप्वोः खरि परतो विसर्गस्य सः स्यात्। पाशकल्पककाम्येषु सम्भवः। रक्षस्पाशांस्तमस्कल्पान्। अयस्कल्पम्।
।अनव्ययस्येति वक्तव्यम् ।। प्रातः कल्पम्। पुनः काम्यति।
। रोरेव काम्ये नान्यस्येति वक्तव्यम् ।। यशस्काम्यति। इह मा भूत्--गीःकाम्यति। धूःकाम्यति। काम्ये नियमादिह स्यादेव-अहस्कल्पमिति।
-8-3-39- इणः षः ।।
कुप्वोरिणः परस्यापदादौ विसर्गस्य षः स्यात्। ज्योतिष्काम्यति। सर्पिष्कल्पम्। धनुष्पाशम्। धानुष्कः। दोर्भ्या तरति दौष्कः।
अपदादौ किम् ? अग्निः करोति। अग्रिः कर्त्ता।
कुप्वोरित्येव, तेन वित्तः--सर्पिश्चणः।
अतः परं विसर्गस्य सः। इसः परस्य तु षः। खरि कुप्वोः इति चानुवर्त्तते।
-8-3-40- नमस्पुरसोर्गत्योः ।।
गतिसंज्ञयोनैमस्पुरसोर्विसर्गस्य सः स्यात्। नमस्कर्त्ता। नमस्कारः। नमस्करोति। पुरस्कर्त्तुम्। षुरस्करोति।
-8-3-41- इदुदुपधस्य चाप्रत्ययस्य ।।
इदुदुपधस्याप्रत्ययस्य विसर्गस्य षः स्यात् कुप्वोः परतः। निर्दुर्बहिःप्रादुराविश्चतुरां सम्भवः। निष्कुलानि। निष्क्रीणाति। निष्क्रियः। दुष्पीतिः। दुष्प्रज्ञः। दुष्पीतम्। दुष्कृतम्। बहिष्कृतम्। बहिष्पचति। बहिष्करोति। प्रादुष्कृतम्। आविष्करोति। चतुष्पानम्। चतुष्कपालम्। चतुष्पार्श्वम्। चतुष्काण्डं क्षिपन् रामः।
इदुदुपधस्य किम् ? दोः करोति। कथं नैष्कुल्यम् ? दौष्कुल्यम् ? वृद्धेर्बहिरङ्गाया असिद्धत्वात्। अप्रत्ययस्य किम् ? अग्निः करोति। वायुःपाति।
कथं मातुः करोति, पितुः करोतीति ? कस्कादिषु षत्वार्थं
भ्रातुष्पुत्रशब्दस्य पाठादेकादेशनिमित्तादिणः परस्य विसर्गस्य षत्वं नास्ति
इति भाष्यम्।
। पुंमुहुसोः प्रतिषेधः ।। पंस्कामा। मुहुः करोति। मुहुःकाम्यति।
-8-3-42- तिरसोऽन्यतरस्याम् ।।
अन्तर्धौ गतिसंज्ञकस्य तिरसो विसर्गस्य सः स्याद्वा। तिरस्कर्त्ता, तिरःकर्त्ता वा।
केचिद् गतिग्रहणमिह नानुवर्त्तयन्ति, अन्तर्धेरन्यत्रापि तिरस्कारः परिभवः इति यथा स्यात्।
-8-3-43- द्विस्रिश्चतुरिति कृत्वोऽर्थे ।।
एषां कृत्वसुजर्थवृत्तीनां षत्वं वा स्यात्। द्विष्करोति। त्रिष्पचति। चतुष्कुर्वन्। पक्षे--द्विः करोति। त्रिः पचति। चतुः कुर्वन्।
कृत्वोऽर्थे किम् ? चतुष्काण्डम्। चतुष्कण्टकम्।
-8-3-44- इसुसोः सार्मथ्ये ।।
इसुसोर्व्यपेक्षायां षत्वं वा स्यात्। ज्योतिष्करोति, ज्योतिः करोति वा। सर्पिष्पिबति, सर्पिः पिबति वा।
यजुष्कुरु, यजुः कुरु वा। सार्मथ्ये किम्--तिष्ठतु सर्पिः पिब त्वमुदकम्।
इह पदाधिकारेऽपि व्यपेक्षालक्षणं सार्मथ्यं न लभ्यत इति सार्मथ्यध्यग्रहणम्, तेन पश्य वृक्षांस्तव नदीमित्यादि सिध्यति।
-8-3-45- नित्यं समासेऽनुत्तरपदस्थस्य ।।
इसुसोः समासे नित्यं षत्वं स्यात्। सर्पिष्कुण्डिका। ज्योतिष्करः। धनुष्कोटी। अरुष्करः।
अनुत्तरपदस्थस्य किम् ? परमसर्पिःकुण्डिका।
-8-3-46- अतः ककृमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ।।
ह्रस्वाकाराद् विसर्गस्य सः स्यात् क्रादिषु परतः। अयस्कारः। अयस्कामः। अयस्कंसः। अयस्कुम्भः। अयस्कुम्भी। अयस्पात्रम्। अयस्पात्रम्। अयस्कुशा। अयस्कर्णी।
अनव्ययस्य किम् ? अन्तःकरणम्। स्वःकामः। पुरःकामः। पुनःकामः।
समास इत्येव--यशः कामयते। अनुत्तरपदस्थस्येत्येव--परमायःकारः।
अतः किम् ? गीः कारः। तपरः किम् ? भाः करणम्।
-8-3-47- अधःशिरसी पदे ।।
अनयोर्विसर्गसय पदे सः स्यात्। अधस्पदं यस्य निरस्तभूपतेः शिरस्पदं तस्य नतेऽङघ्रिपीठकम् इति व्योषः।
-8-3-48- कस्कादिषु च ।।
एषु यथायोगं सषौ स्याताम्। कस्कः शृणोति। कौतस्कुतः। यशस्काण्डम्। अयस्काण्डम्। मेदस्पिण्डः। तमस्काण्डम्। भास्करः। शुनस्कर्णः। सद्यस्कारः। गीष्पतिः। बहिष्कुलम्। भ्रातुष्पुत्र इत्यादि।
कुप्बोः, खरि इति निवृत्तम्।
इह च्छन्दःषट्सूत्री(1)। (1.) सेयं यथा--
-8-3-49- छन्दसि वाऽप्रामेडितयोः ।।
-8-3-50- कःकरत्करतिकृधिकृतेष्वनदितेः ।।
-8-3-51- पञ्ञ्चम्याः परावध्यर्थे ।।
-8-3-52- पातौ च बहुलम् ।।
-8-3-53- षष्ठ्याः पतिपुत्रपृष्ठपारपदपनयस्पोषेषु ।।
-8-3-54- इडाया वा ।
।।पूर्णः पदाधिकारः ।।
-8-3-55- अपदान्तस्य मूर्धन्यः ।।
अधिकारोऽयमा पादपरिसमाप्तेः।
-8-3-56- सहेः साडः सः ।।
सहेः साड्भूतस्य सस्य मूर्धन्यः स्यात्। तुराषाट्। तुराषाड्भ्याम्।
साडः किम् ? तुरासाहौ। तुरासाहं पुरोधाय धाम स्वायम्भवं ययुः। छान्दसोऽयं प्रयोगः, छन्दसि सहः इति ण्वेर्विधानात्।
कथं तर्हि पृतनाषाड् द्विषो धूर्षु इति भटि्टः ? छान्दसैरपि संज्ञाशब्दैः कवीनां प्रचारात्।
-8-3-57- इण्कोः ।।
इणः कवर्गाच्च परस्य सस्य मूर्धन्यः स्यात्।
-8-3-58- नुम्विसर्जनीयर्शव्यवायेऽपि ।।
नुमादिव्यवायेऽपि मूर्धन्यः स्यात्।
-8-3-59- आदेशप्रत्यययोः ।।
आदेशो यः सकारः प्रत्ययावयवश्च तस्य मूर्धन्यः स्यात्। आदेशस्य--सिषेच। सुष्वाप। प्रत्ययस्य--अग्निषु। वायुषु। भूषु। कर्तृषु। केषाम्। गोषु। नौषु। गीर्षु। धूर्षु। कवर्गात्-अपाक्षीत्। धोक्ष्यति। लिङक्षु।
नुमादिव्यवायेऽपि--सर्षीषि। सपिःषु। प्रत्येकब्यवायेऽभ्युपगमान्नेह--निंस्से। नुमा च नुम्स्थानिकानुस्वारोपलक्षणान्नेह-पुंसु। अपदान्तस्येत्येव-अग्निस्तत्र। इण्कोरित्येव-दास्यति। श्रेयांसि। पयःसु।
-8-3-60- शासिवसिघसीनाञ्ञ्च ।।
इण्कोरुत्तरस्य एषां सस्य मूर्धन्यः सयात्। शिष्टः। अन्वशिषत्। उषितः। जक्षतुः। इण्कोरित्येव--शास्ति। वसति। जघास।
-8-3-61- स्तौतिण्योरेव षण्यभ्यासात् ।।
स्तौतेर्ण्यन्तानाञ्ञ्च षत्वभूते सनि परतोऽभ्यासादिणः परस्य मूर्धन्यः स्यात्। तुष्टूषति। ण्यन्तानाम्--सिषञ्ञ्जयिषति। सिषेचयिषति।
नियमः किम् ? सिसिक्षति। सुसूषति। षणीति निर्देशः किंम् ? इह नियमो मा भूत्। सुषुप्सति। तिष्ठासति। अभ्यासात् किम् ? प्रतीषिषति।
-8-3-62- सः स्विदिस्वदिसहीनाञ्ञ्च ।।
एषां ण्यन्तानां मूर्धन्यापवादः सः स्यात्। सिस्वेदयिषति। सिष्वादयिषति। सिसाहयिषति।
-8-3-63- प्राक् सितादड्व्यवायेऽपि ।।
सितशब्दात् (8.3.70) प्रागड्व्यवायेऽपि मूर्धन्यः स्यात्। अभिषुणोति।
अभ्यषुणोत्।
-8-3-64- स्थादिष्वभ्यासेन चाभ्यासस्य ।।
स्थासेनयादिषु (8.3.75) प्राक् सितादभ्यासेनापि व्यवाये मूर्धन्यः यात्। अभ्यासस्य च-अभितष्ठौ। अभिषिषेणयिषति। परिषिषिक्षति।
-8-3-65- उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्ञ्जस्वञ्ञ्जाम् ।।
प्रादिस्थनिमित्तादिणः परेषां सुनोत्यादीनामेकादशानां सस्य मूर्धन्यः स्यात्। अभिषुणोति। अभ्यषुणोत्। अभिषुवति। अभ्यषुवत्। अधिष्ठास्यति। अध्यष्ठात्। परितष्ठौ। अभिषिञ्ञ्चति। व्यतिषजति। परिष्वजते। इण्कोरित्येव--प्रस्तौति। प्रसिञ्ञ्चति। सेधतेः शपा निर्द्देशान्नेह--अभिसिध्यति।
कथं सुस्थः, दुःस्थ इति ? उपसर्गप्रतिरूपकाभ्याम्।
-8-3-66- सदिरप्रतेः ।।
उपसर्गात् सदिः षत्वं भजते। निषीदति। निषादः।
अप्रतेः किम् ? प्रतिसीदति।
-8-3-67- स्तन्भेः ।।
स्तन्भेः सस्य षत्वं स्यात्। अभिष्टभ्नाति। अभ्यष्टभ्नात्। व्यष्टभ्नात्।
-8-3-68- अवाच्चालम्बनाविदूर्ययोः ।।
अनयोरवात् स्तम्भेः षत्वं स्यात्। आलम्बने--अवष्टभ्य दण्डं स्थितः। आविदूर्ये-अवष्टब्धो वृद्धस्य विनाशः।
आलम्बनाविदूर्ययोः किम् ? अवस्तब्धो वृषलः शीतेन।
-8-3-69- वेश्च स्वनो भोजने ।।
अत्र वेरवाच्च स्वनः षत्वं स्यात्। विष्वणति नरः। क्रोष्टा डिम्बं व्यष्वणत्। विषष्वाण। अवष्वणति।
विष्वणः।
सशब्दभोजनादन्यत्र-विस्वनति ढक्का। अवस्वनति ढक्का।
-8-3-70- परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्ञ्जाम् ।।
परिनिविभ्यः सेवादीनां षत्वं स्यात्। परिषेवते। परिषेवणम्। निषेवणम्। व्यशेवत। परिषिषेविषते।

                         ।।गताः प्राक्सितीयाः ।।
परिषितः। विषयः। परिषीव्यति। परिषहते। परिष्करोति। परिष्कारः। स्तुस्वञ्ञ्जी चोत्तरार्थौ।
-8-3-71- सिवादीनां वाड्व्यवायेऽपि ।।
उक्तानां सिवुसहादीनामड्व्यवायेऽपि सस्य षत्वं वा स्यात्। पर्यषीव्यत्, पर्यसीव्यत् वा। व्यषहत, व्यसहत वा। पर्यषहत, पर्यसहत वा। पर्यष्करोत्, पर्यस्करोत् वा। न्यष्टौत्, न्यस्तौत् वा। व्यष्टोत्, व्यस्तौत् वा। पर्यष्वजत, पर्यस्वजत वा।
-8-3-72- अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ।।
एभ्यः स्यन्दतेः षत्वं वा स्यादप्राणिषु। विष्यन्दते, विष्यस्दते वा तैलम्।
अप्राणिषु किम् ? अनुस्यन्दते मत्स्य उदके।
-8-3-73- वेः स्कन्देरनिष्ठायाम् ।।
वेः स्कन्देः षत्वं वा स्यात्। विष्कन्ता, विस्कन्ता वा।
अनिष्ठायां किम् ? विस्कन्नः। विस्कन्नवान्।
-8-3-74- परेश्च ।।
परेः स्कन्देः षत्वं वा स्यात्। निष्ठार्थोऽयं योगः। परिष्कन्ता, परिस्कन्ता वा। परिष्कण्णः, परिस्कन्नः वा।
-8-3-75- परिस्कन्दः प्राच्यभरतेषु ।।
मूर्धन्याभावो निपात्यते पचाद्यचि।
-8-3-76- स्फुरतिस्फुलत्योर्निर्निविभ्यः ।।
एभ्यः स्फुरतिस्फुलत्योः षत्वं वा स्यात्। निःस्फुरति, निःस्फुरति वा। निष्फुलति, निस्फुलति, वा। विष्फुकः, विस्फुलः वा।
-8-3-77- वेः स्कभ्नातेर्नित्यम् ।।
अस्य नित्यं षत्वं स्यात्। विष्कभ्नाति। विष्कम्भितुम्। निष्कम्भः।
-8-3-78- इणः षीध्वंलुङि्लटां धोऽङ्गात् ।।
इणन्तादङ्गात् षीध्वंलुङलिटां धस्य मूर्धन्यः स्यात्। च्योषीढ्वम्।
कृषीढ्वम्। अच्योढ्वम्। चकृढ्वे। ववृढ्वे।
इण्कोः इत्यनुवृत्ताविण्ग्रहणं कोर्निवृत्त्यर्थम्--यक्षीध्वम्। पक्षीध्वम्। अङ्गात् किम् ? परिवेविषीध्वम्। एषां किम् ? असतुध्वम्।
-8-3-79- विभाषेटः ।।
अनन्तरो विधिरिटः परेषां तेषां वा स्यात्। लविषीध्वम्, लविषीढ्वं वा। चिण्वदिटोऽपि--कारिषीध्वम्, कारिषीड्वं वा। लुङ-अगृहीध्वम्, अगृहीढ्वं वा। [555] अलविध्वम्, अलविढ्वं वा। लिट्-- जगृहिध्वे, जगृहिढ्वे वा।
अङ्गादिति निवृत्तम्। तेनेहापि स्यात्, दीङो युडचि-- उपदिदीयिध्वे। उपदिदीयिढ्वे वा। इण इत्येव-- शोभिषीध्वम्। अशोभिध्वम्। शुशुभिध्वे।
-8-3-80- समासेऽङ्गुलेः सङ्गः ।।
अङगुलेः सङ्गो मूर्धन्यं भजते। अङ्गुलिषङ्गा यवागूः। वाक्ये तु - अङ्गुलेः सङ्गं पश्य।
समासे विधिरितः सप्तसूत्र्याम्--
-8-3-81- भीरोः स्थानम् ।।
भीरोः परस्य स्थानस्य षत्वं स्यात् भीरुष्ठानम्।
-8-3-82- अग्नेः स्तुत्स्तोमसोमाः ।।
अग्नेः परेषां स्तुदादीनां षत्वं स्यात्। अग्नष्टुत्। अग्निष्टोमः।
अग्नीषोमच्छायया त्वं परीतस्तापाह्लादौ शत्रुमित्रेषु कुर्वन्। दीर्घादेवेष्यते, इह तु न भवति -- अग्निसोमौ माणवकौ।
-8-3-83- ज्योतिरायुषः स्तोमः ।।
ज्योतिरायुर्भ्यां स्तोमस्य षत्वं स्यात्। ज्योतिष्टोमः। आयुष्टोमः।
-8-3-84- मातृपितृभ्यां स्वसा ।।
आभ्यां स्वसुः षत्वं स्यात्। मातृष्वसा। पितृष्वसा।
-8-3-85- मातुःपितुर्भ्यामन्यतरस्याम् ।।
आभ्यां स्वसुः षत्वं वा स्यात्। मातुःष्वसा, मातुःस्वसा वा। पितुःष्वसा, पितुःस्वसा वा।
अलुक्समासोऽयम्। वाक्ये तु - मातुः स्वसेत्येव।
-8-3-86- अभिनिसस्तनः शब्दसंज्ञायाम् ।।
अभिनिसः स्तनतेः षत्वं स्यात्। अभिनिष्टानः। विसर्जनीयस्य संज्ञा।
अन्यत्र--अभिनिस्त नति मृदङ्गः।

                ।।समासे इति निवृत्तम् ।।
-8-3-87- उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ।।
आभ्यां परस्यास्तिसकारस्य षत्व स्यात् यकारपरस्याच्परस्य च। [556] अभिष्यात्। प्रादुःष्यात् अभिषन्ति। प्रादःषन्ति।
यच्परस्य किम् ? अभिस्तः।
-8-3-88- सुविनिर्दुर्भ्यः सुपिसूतिसमाः ।।
एभ्यः सुप्यादीनां सस्य षत्वं स्यात्। सुषुप्तः। दुःषुप्तः। सुषूतिः।विषूतिः। दुःषूतिः। तस्य क्षत्रियदुषूतेः। सुषमम्। निःषमम्। विषमम्।
एभ्यः किम् ? अभिसुप्तः। सुपीति निर्देशः किम् ? सुस्वपिति।
-8-3-89- निनदीभ्यां स्नातेः कौशले।
आभ्यां स्रातेः कौशलगतौ षत्वं स्यात्। निष्णातः शास्त्रे। नदीष्णः। नदीज्ञः इत्यर्थः।
कौशले किम् ? नदीस्नातः।
-8-3-90- सूत्रं प्रतिष्णातम् ।।
प्रतिस्नातमन्यत्र।
-8-3-91- कपिष्ठलो गोत्रे ।।
कपिस्थलमन्यत्। गोत्रमिह आदिपुरुषः।
-8-3-92- प्रष्ठोऽग्रगामिनि ।।
प्रस्थोऽन्यत्र।
-8-3-93- वृक्षासनयोर्विष्टरः ।।
विस्तरोऽन्यत्र।
-8-3-94- छन्दोनाम्नि च ।।
वृत्तनाम्रि विस्तृणातेः षत्वं स्यात्। घञ्ञ्। विष्टारपङक्तिर्नाम च्छन्दः।
-8-3-95- गवियुधिभ्यां स्थिरः ।।
आभ्यां स्थिरस्य षत्वं स्यात्। गविष्ठिरः। युधिष्ठिरः। अत एव निपातनात् सप्तम्यलुक्।
-8-3-96- विकुशमिपरिभ्यः स्थलम् ।।
एभ्यः स्थलस्य षत्वं स्यात्। विष्ठलम्। कुष्ठलम्। शयानां कुष्ठले। [557] शमिष्ठलम्। शमीति ङयापोः संज्ञाच्छन्दसोर्बहुलम् इति ह्रस्वः। परिष्ठलम्।
-8-3-97- अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्ञ्जिपुञ्ञ्जिपरमेवर्हिर्दिव्यग्निभ्य
स्थः ।।
एभ्यः परस्य स्थस्य षत्वं स्यात्। अम्बष्ठः। आम्बष्ठः। गोष्ठः। भूमिष्ठः। सव्यष्ठः। अपष्ठः। द्विष्ठः। त्रिष्ठः। कुष्ठः। शेकुष्ठः। शङकुष्ठुः। अङगुष्ठः। मञ्ञ्जिष्ठः। पुञ्ञ्जिष्ठः। परमेष्ठः। बर्हिष्ठः। दिविष्ठः। अग्रिष्ठः।
स्थः इति स्वरूपग्रहणान्नेह--गोस्थानम्।
कथं सव्येष्ठा, सव्येष्ठारौ, परमेष्ठीति ? औणादिका एते सुषामादिषु विज्ञेयाः।
-8-3-98- सुषामादिषु च ।।
एषु षत्वं स्यात्। सुषामा। सुषाम्नी सर्वतेजःसु। निःषामा। सुषेधः। निषेधः। सुषन्धिः। अपष्ठु। सुष्ठु। दुष्ठु। उपष्टम्भ इत्येके।
-8-3-99- एति संज्ञायामगात् ।।
हरिषेणः।
एकारे किम् ? हरिसिंहः। संज्ञायां किम् ? पृथुसेनो राजा। अगः किम् ? विष्वक्सेनः। इण्कोरित्येव -- सर्वसेनः।
-8-3-100- नक्षत्राद्वा ।।
संज्ञायां नक्षत्रात् परस्य सस्य षत्वं वा स्यात्। रोहिणिषेणः, रोहिणिसेनो वा। एवं यथादर्शनं सुषामादयः।
-8-3-101- ह्स्वात् तादौ तद्धिते ।।
ह्रस्वात् परस्य सस्य षत्वं स्यात् तादौ तद्धिते। सर्पिष्टरम्। सर्पिष्टमम्। यजुष्टमम्। वपुष्टमम्। दीर्घायुष्ट्वम्। चतुष्टयम्। सर्पिष्टा।
तादौ किम् ? सर्पिस्सात् भवति। ह्रस्वात् किम ? गीस्तराम्।
। तिङन्तस्य प्रतिषेधो वक्तव्यः ।। भिन्द्युस्तराम्।
-8-3-102- निसस्तपतावनासेवने ।।
तपतौ निसः षत्वं स्यात् सकृत् करणे। निष्टपति। निष्टापः। निष्टपनम्।
सकृत् करेण किम् ? निस्तपति सुवर्णं सुवर्णकारः पुनः पुनरग्रिं स्पर्शयतीत्यर्थः।
इहाष्टौ सूत्राणि च्छान्दसानि(1)। (1.) तानि यथा--
-8-3-103- युष्मत्तततक्षुःष्वन्तःपादम् ।।
-8-3-104- यजुष्येकेषाम् ।।
-8-3-105- स्तुतस्तोमयोश्दन्दसि ।।
-8-3-106- पूर्वपदात् ।।
-8-3-107- सुञ्ञः ।।
-8-3-108- सनोतेरनः ।।
-8-3-109- सहेः पृतनर्त्ताभ्यां च ।।
-8-3-110- न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ।।
-8-3-111- सात्पदाद्योः ।।
नेत्येव। अनयोः षत्वं नास्ति। अग्निसात्। मधुसात्। साधुसात्। पदादेः--दधि सिञ्ञ्चति। मधु सिञ्ञ्चति। व्यतिसे। विस्फोटः।
-8-3-112- सिचो यङि ।।
यङि सिचः षत्वं नास्ति। सेसिच्यते। उपसर्गात् सुनोतिः इत्याद्यपि यङि बाध्यते। कुर्वाणां
परिसेसिचाम्।
यङि किम् ? अभिषिषिक्षति।
-8-3-113- सेधतेर्गतौ ।।
अस्यात्र षत्वं नास्ति। अभिसेधति।
गतौ किम् ? प्रतिषेधति।
-8-3-114- प्रतिस्तब्धनिस्तब्धौ च ।।
इमौ निपात्येते। प्रतिस्तब्धो विक्रान्तः। निस्तब्धः।
निर्पूर्वस्य तु--निष्टब्धश्छात्रः।
-8-3-115- सोढः ।।
सोढरूपस्य परिनिविभ्यः षत्वं नास्ति। परिसोढुम्। परिसोढः। परिसोढा। निसोढ्यः, निसोढः, निसोढा।
सोढ इति निर्देशः किम् ? विषहते।
-8-3-116- स्तम्भुसिवुसहाञ्ञ्चङि ।।
एषाञ्ञ्चङि षत्वं नास्ति। पर्यतस्तम्भत्। पर्यसीषिवत्। पर्यसीषहत्। व्यसीषहत्।
कथं परस्य षत्वम् ? उपसर्गादिति वक्तव्यम्, तेन उपसर्गादिति प्राप्तिर्निषिध्यते; नाभ्यासात्।
-8-3-117- सुनोतेः स्यसनोः ।।
सुनोतेः स्ये सनि च षत्वं नास्ति। परिसोष्यते। सन्नन्तात् क्यिप्--अभिसुसूः।
स्यसनोः किम् ? अभिसुषाव। परिसुषाव।
-8-3-118- सदिस्वञ्ञ्जोः परस्य लिटि ।।
अनयोर्लिटि परस्य सकारस्य षत्वं नास्ति। विषसाद। परिषस्वञ्ञ्जे।
संयोगादपि लिटो विभाषा कित्त्वमिच्छन्ति इति वामनवृत्तिः। तेन पक्षेऽनुषङ्गलोपात परिषस्वज इति सिद्धम्।
-8-3-119- निव्यभिभ्योऽड्व्यवाये वा छन्दसि ।।
छान्दसम्।