सामग्री पर जाएँ

भावप्रकाशिका/प्रथमोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← प्रथमोऽध्यायः, तृतीयः पादः भावप्रकाशिका
चतुर्थः पादः
[[लेखकः :|]]

1.4.1

द्वितीयपादारम्भे कथितायाः पादसङ्गतेस्त्रिपाद्या अन्ययोगव्यच्छादपरत्वस्य वा अत्र पुनः कीर्तनं किमर्थमित्याशङ्कायामाह -प्र्रथमपाद इति । धर्मिस्वरूपपामिति सर्वज्ञत्वादिगुणानां कल्याणत्वपरमित्यर्थः । सर्वभूतान्तरात्मत्वस्य अन्तर्यामि-

1.4.1

वैश्चानराधिकरणसिद्धत्वं कथम्? अन्तर्यामिब्रााहृणे वैश्वानरविद्यायां च सर्वभूतान्तरात्मेत्येवं आकारवाक्याश्रवणादित्या-शङ्कयाह - एष सर्वभूतान्तररात्मेस्यादि । मुण्डकोपनिषद्वायस्य सपक्षत्वेनोपन्यासादिति - द्युभ्वाद्यधिकरण विषयवाक्यैकप्रकरणस्य "पद्भयां पृथिवी ह्रेष सर्वभूतान्तरत्मा' इति मुण्डकोपनिषद्वाक्यस्य "स्मर्यमाणमनुमानं स्यात्' इति वैश्वानराधिकरणगुणसूत्रे सपक्षत्वेनोपन्या-दित्यर्थः । इदानीमितीति ग्रन्थस्यानन्तरं प्रधानपुरुषादिप्रतिपादनमुखेनेति न केवलं लिङ्गप्रतिपादकानि, किन्तु लिङ्गिनामेव प्रधाना-दीनां प्रतिपादनमुखेन प्रधानादिकारणत्वप्रतिपादनच्छायानुसारीणीतिपाठस्तु समीचीनः, कोशस्तु निरीक्ष्यः। प्रत्यगात्मनः परस्य निषेधादिति - "पुरुषान्नपरं किञ्चित् ' इति प्रत्यगात्मव्यतिरिक्तस्य सांख्यमत इव निषेधादिति भावः । बद्धमुक्तोभयावस्थाद्विलक्षणमिति । ह्रुक्तमिति - यद्यपीदं प्रथमपादार्थसूचकमिति व्याख्यातम् , अथायप्यव्यवहिता-धिकरणार्थस्मारकत्वमपि सम्भवतीत्यभिप्रेत्य एवमुक्तमिति द्रष्टव्यम् । रूप्यतेऽनेनेति - रूपवत्तया क्रियते अनेनेत्यर्थः ।

1.4.1

रूपवच्छब्दात्तत्करोतीति णिचि णाविष्ठवद्भावात् "विमतो- र्लुगि'ति मतुपो लुकिटिलोपे च ण्यन्तात् रूपीत्येतस्मात्कर्मणि , रूप्यत इति प्रयोगः । ण्यन्तात् रूपीत्येतस्मात्कर्तरि ण्वलि णिलोपे च रूपवत्करोतीति रूपकमिति हि रूपकशब्दनिष्पत्तिः , एवमेव ह्रालङ्कारिकाणिमुक्तिः , ततश्चात्मा शारीरादीनुपमेयान् स्वेन रूपेण रूपवतः कुर्वन्तो रथिरथादयो रूपकाः , ततश्च रूपकरथात्मना विन्यस्तशरीरस्य गृहीतेरित्यर्थः । प्राधान्येन विवक्षितमिति - विशेषेणविशेष्यभावे कामचारादिति भावः । पूर्वनिपात इत्यभिप्राय इति - नन्वेवं निर्देशे किं प्रयोजनमिति चेदुच्यते ; शरीरे अधिकरणे-रूपकात्मना विन्यस्ताश्शरीर-रूपकविन्यस्ता इन्द्रियादयः तेषां स्वस्ववाचकशब्देन गृहीतत्वात् पारिशेष्यादव्यक्तशब्देन गृह्रत इत्यत्र नियामकतया पारि-शेष्यस्योपन्यसनीयतया तत्प्रदर्शकसमासान्तराश्रयणस्यापि सार्थक्यात् । भाष्ये - तद्विष्णोः परमं पदमित्यन्तेनेति । "इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुमर्नीषिणः । यस्त्वविज्ञानवान् भवत्ययुक्तेव मनसा सह । तस्येन्द्रियाण्यवश्यानि दुष्टाश्च इव सेरथेः । यस्तु विज्ञानवान् भवति युक्तेन मनसा सह । तस्येन्द्रियाणि वश्यानि सदश्चा इव सारथेः । यस्त्वविज्ञानवान् भवत्यमनस्कस्सदाऽशुचिः । न स तत्पदमाप्नोति संस्सारञ्चधिगच्छति । यस्तु विज्ञानवान् भवति समनस्कस्सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते । विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् । इन्द्रियेभ्यः परा ह्रर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः । महतः परमव्यक्तं अव्यक्तात्परुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः । एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते । दृश्यते

1.4.1

त्वग्रयया बुध्द्या सूक्ष्मया सूक्ष्मदर्शिभिः । यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ञान आत्मनि । ज्ञानमात्मनि महति यच्छेत्तद्यच्छेच्छान्त आत्मनि । उत्तिष्ठ त जाग्रत प्राप्य वरान्निबो- धत । क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति । अशब्दमस्पर्श-मरूपमव्ययम् इति हि श्रुतिक्रमः । साध्यत्वलक्षणप्रकषर् इति - शेषित्वलक्षणप्रकर्ष इत्यर्थः । अध्यवसायाभिमानचिन्तावृत्ति-

1.4.1

भेदात् मन एव बुद्धयहङ्कारचित्तशब्देन व्यपदिश्यत - इति । पञ्च-वृत्तिर्मनोवव्द्यपदिश्यत इति सूत्रभाष्यं ह्मदि निषाध बद्धिशब्दस्यान्तःकरणपरत्वेपि नानुपपत्तिरित्यभिप्रयननाह । यद्वा बुद्धिशब्दः अन्तःकरणपर इति कैश्चिदुक्तमिति - मृषावादिभिर्हि महच्छब्देन " मनो महान् मतिब्र्राहृा भूर्बुद्धिः ख्यातिरीश्वरः । प्रज्ञा सं-विच्चितिश्चैव स्मृतिश्च परिगृह्रते ' इति स्मृतिवशात् प्रथमोत्पन्नहिरण्यगर्भबुद्धिरुच्यते , तस्याश्चाव्यक्तप्रभवत्वात् "महतः परमव्यक्तम् ' इत्युक्तिरुपपद्यते । यद्वा जीव एव महच्छब्देनाभिधीयते , आत्मशब्देन विशेषणात् तत्रापि पक्षे जीवभावस्याव्यक्ताधीनत्वेन महतः परत्वमुपपद्यते , पक्षद्वयेपि अन्यक्तशब्दिताविद्यानिष्टत्वं महत्परत्वं तत्कार्ये शरीरे उपचर्यत इत्युक्तमिति भावः । ननु कथं जीवपर्यन्तेत्युच्यते

महतः परमव्यक्तमिति पूर्ववाक्ये अव्यक्तशब्दितशरीरस्यैव जीवादपि परत्वोपन्यासेनाव्यक्तपर्यन्तस्येपि हि निर्देशो युक्त इत्याशङ्कयाह

1.4.1

- नास्मिन् वाक्य इति । यथोक्तस्यात्मपर्यन्तस्येति भाष्यवाक्य इत्यर्थः । पदस्यात्र च अकथनादिति -सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् इति पारत्वेन रूपितस्य विष्णोः परमपदस्य "इन्द्रियेभ्यः परा ह्रर्थाः ' इत्यत्राकथनादित्यर्थः । क्वचिदस्तीति - "अजामाकाम् ' इत्यादौ ताद्दशविचारस्य दर्शयिष्यमाणत्वादिति भावः । अहङ्काराद्वारा बुद्धेरिति -बुद्धिर्महत्तत्त्वम् । तन्त्र-

प्रक्रिया विरोधप्रतीतेरिति - तन्त्रे अहङ्कारस्य महत्तत्त्वजन्यत्वेन मनोजन्यत्वाभावादिति भावः । सूत्रखण्डोपादानामिति

1.4.1

दर्शयति चेत्यादिग्रन्थस्सूत्रखण्डव्याख्यानरूप इत्यर्थः । ततश्च दर्शयति चत्यस्य सूत्रखण्डोपादनत्वे तदेवेतिमाप्यखणडस्य कुत्राप्यनन्वयप्रसङ्गादिति दूषणमलग्नकं वेदितव्यम् । ननु सुपां सुलुगितिसूत्रे सोः प्रथमनिर्दिष्टतया तदतिक्रमे कारणाभावेन द्वितीयायाः स्वादेशे हल्ङ्यादिलोपे च द्वितीयान्तत्वं कुतो न सिध्येदित्याशङ्कय प्रक्रियागौरवान्नायं पन्था इत्याह - ननु वाक्छब्दादित्यादिना - ननु भाष्ये मनसी इति कथं निर्देशः ? सर्वणदीर्घेण हि भाव्यमित्यत्राह - ईदूतौ च समप्तयर्थ इतीति

1.4.1

प्रकृतिभावस्मरणनिबन्धनो मनसी इतीति निर्देश इति -ईदूतौ च सप्तम्यर्थे ' इति सूत्रविहितप्रगृह्र संज्ञानिमित्तकप्रकृतिभाव-निबन्धन इत्यर्थः । प्रकृतिवद्भावस्मरणेति क्वचित्पाठो दृश्यते , स तु लेस्वकस्खलनकृतः । उपसङ्खयानेन निर्वाहासम्भवादिति

ब्राूम इति - "इयाडियाजीकाराणामुपसङ्ख्यान 'मित्यस्यापि छन्दोविषयतया छान्दसत्वानाश्रयणेन निर्वाहस्यासम्भवादित्यर्थः । वाङ्मनसी इत्यस्य द्वितीयाद्विचनान्तत्वशङ्कां प्रतिक्षिपति - नहि वाङ्मनसी इत्यत्रेति -प्रकराणानुगुण्यमेकवचनोपपत्तिञ्च स्पष्टयति

1.4.2

यच्छेदित्युक्तस्येति केचिद्य्वाचक्षत इति - यादवप्रकाशीया इत्यर्थः । स्वग्रन्थमेव प्रदर्शयति - अथ बुद्धिशब्देन अहङ्कारं ब्राूयुरिति अन्तिमसूत्र व्याख्याने तैरेवोक्तमिति - "महद्वच्च ' इति सूत्रव्याख्याने यादवप्रकाशीयैरेवोक्तमित्यर्थः । युक्तयन्तरमप्याह - तन्निमित्त-मिदं विषयसन्निधिपरिवर्जनमित्यादिना योगव्युत्थानकाल इति - योगराहित्यदशायामित्यर्थः । अत्यन्तनिषेधस्त्विति -ततश्च योग-व्युत्थानकालकर्तव्यविषयसन्निधिपरिवर्जनादेरस्मिन्मन्त्रेऽनुक्तिर्न दोषायेति भावः । प्रकृतमुयसंहरति - अतो-योगकाल एवेति - कार्यवाचिशरीरशब्दोपचारःकिं न स्यादिति - यद्यपीयं शङ्का उपक्रमाधिकरणन्यायादित्यादिना पूर्वं परिह्मता ,

तथाप्यर्हत्वादितिसूत्रखण्डाभिप्रेतयुक्तयन्तरोपन्यासायायं पुनरुपक्षेप इति द्रष्टव्यम् । ननु तदर्हत्वादित्यत्र तच्छब्देन विकारापन्ना व्याकृताचिद्वस्तुनः कथं परामर्शः ? सूक्ष्ममितिसौत्रपदेन सूक्ष्ममात्रस्य प्रकृततया विकारापन्नव्याकृतस्य प्रस्तुतत्वादित्याशङ्कय

1.4.3

शरीररूपकेदि पूर्वसूत्रे शरीरस्य श्रुतत्वादÏस्मश्च सूत्रे सूक्ष्ममिति निर्दिष्टत्वाच्च शरीरभावापन्नं सूक्ष्मं बुद्धिस्थम् , विशिष्टस्य प्राक्

प्रस्तुततया तस्य तच्छब्देन परामर्शस्सम्भवतीत्याह - सूक्ष्मत्वं स्वशब्देनोपस्थापितमिति -सूक्ष्ममिति सौत्रपदेनोपस्थापितमित्यर्थः बुद्धिस्थमिति - पूर्वसूत्रे शरीररूपकेति बुद्धिस्थमित्यर्थः । अवस्थाद्वयानुगतवस्तुलक्षणानिमितित्तमाकारमाहेति - अवस्थान्तर-विशिष्टवस्तुलक्षणाबीजभूतमुख्यार्थानूपपत्तिमाहेत्यर्थः । चिद्वस्तुपोप्यस्तीति -ज्ञानसङ्कोचविकासरूपविकारवतो रथवत्पुरुषार्थ- प्रवृत्त्यर्हत्वाभावादचिद्वस्तुन एव विकारापन्नस्य प्रवृत्त्यर्हत्वादिति वक्तव्यमिति भावः । पुरुषार्थसाधनप्रवृत्तिविशेषप्रतिपादनेनेति

1.4.3

पुरुषार्थसाधनं वागादिः, प्रवृत्तिविशेषः नियमनम् , ततश्च पुरुषार्थसाधनानामेव रूपकवाक्ये परत्वावधिवाक्येपि

ग्राह्र-त्वात्सूक्ष्मस्य चातथात्वाच्छरीरस्यैव ग्रहणं युक्तमिति भावः ।। कालान्तराविच्छिन्नाकारविरह इति - कालान्तरव्यावृत्ताकार-विरहः, कालान्तरव्यावृत्तिविरह इत्यर्थः , कालान्तरानुवृत्तिरितियावत् । तदुपयुक्तार्थतादधीन्यस्यापीति -तदव्यक्तम् उपयुक्तं यस्येति तदुपयुक्तार्थः , तत्साध्यार्थो महदादिरुच्यते , यदर्थोपयुक्तस्वरूपप्रवृत्तयो यदधीनास्तत्साध्यार्थस्यापि तदधीनत्वदर्श-नादितिभावः । ननु महिमवादेषु शरीरत्वप्रतिपादनेन तदात्मकत्वसिद्धावपि प्रलयवादेषु कथं तत्सिद्धिः ? पृथिव्यादीनामवा -दिषु लयमात्रप्रतिपादनादित्याशङ्कयाह - प्रलयपरत्वश्रुतेरपीति -भाष्ये उत्पत्तिवाक्यानुपादाने हेतुमाह - अप्ययपूर्वकत्वादिति इतरैरिति - यादवादिभिरित्यर्थः । निरूह्रत इति पाठः । " वहेर्यकि सम्प्रसारणे अङ्गावयहलुत्तरत्वाभावेन तस्य दीर्घाप्रसक्तेः ;

1.4.5

" उ#ूह वितर्के ' इति धात्वाश्रयणेपि उपसर्गाद्रख "उ#ूहते 'रिति हस्वविधानाच्चेति द्रष्टव्यम् । केन यक्तिबलेनेति - अव्यक्तपरत्व-स्येति शेषः । शङ्कते - प्रकरणपारिशेष्याभ्यामिति - रूपकविन्यस्तगृहीतेरित्याद्यसूत्रविवक्षिताभ्यामव्यक्तशब्दस्य शरीरविषय-त्वनिश्चयाच्छरीरस्य चात्मापेक्षया मुख्यस्य परस्यासम्भवेनास्मिन् प्रकरणे सत्र्रत्र परत्वस्य यथाकथञ्चिनिर्वाह्रत्वं श्रुत्यभि-प्रेतमवगम्यते , ततश्च अर्थादीनामपि परत्वं कथञ्चिदुपपद्यत इति सिद्धयतीति चेत् इत्यर्थः । तेनैवेति - युक्तिबलेनेतिशेषः ।।

1.4.6

हेतुसमुच्चये इति - पूर्वसूत्रोक्तहेतुना एतत्सूत्रोक्तहेतुं समुच्चिनोतीत्यर्थः । लोकादिमÏग्न तमुवाच इत्युपक्रम्येति ।अत्रापेक्षितश्रुतिक्रमः

1.4.6

"अत्ता चराचरग्रहणा ' दित्यत्र विलिखितः, व्याख्यातश्च; तत एवावगन्तव्यः । जहातीत्युपदिदेशेति । पूर्वेणान्वय इति शेषः । पुनः पप्रच्छेति पाठ इति । पुनः पुनः पप्रच्छेति पाठस्तु न युक्त इति भावः । भाष्ये -मत्वा धीरो हर्षशोकौ जहातीति निर्दिष्टस्य

1.4.6

ब्राहृोपासनस्येतिपाठः । धीरो न शोचतीतिपाठो लेखकदोषात् , तस्यापकृतत्वादिति द्रष्टव्यम् । ननु कृताकृताद्भूताद्भव्याच्चेत -स्त्रितयस्यापि धर्माधर्मादस्मादितिनिर्दिष्टोपायोपेयोपेतृविशेषणत्वे अन्यत्र भूताद्भव्याच्चेत्यन्यत्रपदं व्यर्थं स्यादित्यस्वरसादाह -यद्वा धर्माधर्माच्चान्यत्रेति । परैस्तु धर्माधर्मशब्दाभ्यां तत्साध्यफलानि विवक्षितानि, कृताकृतादिति कार्यकारणप्रपञ्चो विवक्षितः। भूतादिति भूतकालमात्रपरिच्छिन्नं परामृश्यते, भव्यादिति भविष्यत्कालमात्रपरिच्छिन्नम् , ततश्च तत्सर्वव्यावृत्तमित्यर्थ इति व्याख्यातम् ; तदेतदाशङ्कते - ननु धर्माधर्मसाध्येति । प्रणवेन ब्राहृप्रतिपादनं ह्रुच्यत इति । ततश्च "तत्ते पदं सङ्ग्रहेण ब्रावीमि ' इत्ययमंशः पदशब्दितब्राहृप्रतिपादकतया प्रणवप्रशंसापर इति भावः । भाष्ये सामान्येन ख्यापयन्निति । ओमित्यनेनैव सामान्येन

1.4.6

ख्यापयन्नित्यर्थः । प्रणवैकदेशवाच्यो हीति । तदेकदेशवाच्यस्य तद्वाच्यैकदेशत्वनियमादिति भावः । तच्छ "एतध्द्येवाक्षरं ब्राहृ एत् ब्दस्य प्रणववाच्यपरत्वं किष्टमित्यस्वरसादाह - यदा प्राप्ये इति । एतध्द्येवाक्षरमित्यादि । ध्द्येवाक्षरं परम् । एतध्द्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्राहृलोके महीयते इति वाक्यमभिप्रयन्नित्यर्थः - इदं मन्त्रद्वयमिति । "ति मन जायते मि#्रयते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे । हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ' मन्त्रद्वयमित्यर्थः ।

अर्थान्तरपरत्वस्य चेति - प्रधानपरत्वस्येत्यर्थः । हन्त त इदं प्रवक्ष्यामीति - यद्यपि "न जायते म्रियते वा विपश्चित् ' इति परमा

1.4.6

त्मविषयप्रतिवचनसन्दर्भानन्तरमेवेदं वाक्यम् , तथापि योग्यतावशात् जीवविषयप्रश्नस्येदं प्रतिवचनमिति न प्रश्नक्रमानुरोधि श्रुतौ प्रतिवचनक्रम इति द्रष्टव्यम् । नन्वन्यत्राधर्मादितिप्रश्नः किं येयं प्रेत इति प्रश्नसमानविषयकः , उत तदधिकविषयकः ? नाद्यः, तथासति अग्निजीवयोरेव प्रश्नदर्शनेन त्रयाणां प्रश्नाभावादग्निजीवपरमात्मनां त्रयाणामुपन्यासः प्रश्नश्चेति सूत्रविरोधात् । न द्वितीयः, परत्रयानन्तरभूतस्य प्रश्नानर्हत्वात् , इतरथा प्रधानस्याप्युपन्याससम्भवेन अधिकरणविरोधापत्तेरित्याशङ्कय वस्तुगत्या परमात्मनो जीवाभिन्नतया परत्रयान्तर्भावस्याप्यनुपपत्तेः जीवपरयोः औपाधिकभेदमादाय अग्निजीवपरमात्मनां त्रयाणामिति सूत्रनिर्देशस्याप्युपपत्तेरित्यभिप्रयन्नाह - न च जीवविषयफ्रश्नस्येति । परमात्मविषयतावैघट¬मिति - परमात्म -विषयप्रतिवचनवैघट¬मिति पाठे तु येयं प्रेत इति जीवप्रश्नस्य तं दुर्दर्शमिति परमात्मविषयप्रतिवचनवैघट¬मित्यर्थः ।

अनतिविरोधेपीति - अग्निजीवपराणा #ं त्रित्वोपन्यासेन जीवपरयोर्भेदस्यैव सौत्रत्वप्रतिपादनेन अस्मदनुकूलत्वादिति भावः ।

प्रतिपाद्यत्वाभावस्येति -प्रधानस्य त्रिगुणद्रवव्यस्येत्यर्थः । प्रश्नोपन्याससमुच्चयस्य प्रतिपाद्यत्वे हेतुत्वाभावमुपपनदयति - उपायो

1.4.6

हीति । ह्मदयायतने उपास्यतया स्थितस्येति -ननु पूर्वत्र ह्मदयादित्यवर्तिनोरप्रकृतत्वात्कथमिदमुच्यत इति चेदुच्यते "अरण्यो-र्निहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः । दिवे दिव ईढ¬ो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निभि एतद्वै तत् ।' इति मन्त्रेण ह्मदयायतनस्तस्य च "यतश्चोदेति सूर्योस्तं गच्छति यत्र च । तं देवास्सर्वे अर्पिता तदु नातयेति कश्चन । एतद्वै तत्' इति तदनन्तरमन्त्रेणादित्यमण्डलस्थस्यापि पूर्वप्रकृतत्वात् । तथाहि ; अरणनयोर्निहितोऽग्निरिव गर्भिणीभिस्सुभृतः-अन्नपानादिभिः पोषितो गर्भ इव च, दिवे दिवे अहन्यहनि, जागृवद्भिः जागृद्भिरप्रमत्तैर्हविष्यमद्भिराराधनोपकरणवद्भिर्मनुष्यैरीड¬ः स्तुत्यः ध्येयः, अग्निः-अग्रनयनादियोगात् । एतद्वै तत् - एवम्भूतो ह्मदयायतनस्थः, तदेव अन्यत्राधर्मादित्यादिना त्वया पृष्टमेवेत्यर्थः । अतोऽस्मिन्मन्त्रे ह्मदयायतने उपास्यः प्रस्तुतः । यतश्चोदेति सूर्यः-सूर्योत्पत्तिलयाधारभूतः । तं देवास्सर्वे अर्पिताः-सर्वे देवास्त-दुपासिन इत्यर्थः । अतश्च सूर्यमण्डलाद्युपादानतया तदात्मकं तदन्तर्वर्तिदेवोपास्यं प्रस्तुत्य तस्याप्येतद्वैतदिति ब्राहृाभेदे बोधिते

तदनन्तरं ह्मदयायतेन मनुष्यैरुपास्यस्यादित्यमण्डलान्तर्वर्तिदेवोपास्यस्य चायतनभेदेन भिन्नत्वात्कथमेतद्वैतदिति एकेन ब्राहृण अभेदो बोध्यत इति शङ्का व्यावत्त्र्यते-तदेव हेत्यादिना । "यदमुत्र तदेवेह, मृत्योस्य मृत्युमाप्नोति य इह नानेव पश्यती'त्यादिना

अतो नाप्रसक्तनिषेधत्वशङ्कावकाश इति ध्येयम् । एतदपेक्षया दुबर्लमिति -ऋतं पिबन्ताविति भेदश्रुत्पेक्षया दुर्बलमित्यर्थः । तच्च दर्शितमिति -"अध्यात्मयोगाधिगमेन देवम्' न जायते म्रियते वा विपश्चित् ' इत्यादिकमित्यर्थः । प्रतिवचनाव्यवहिता इति -प्रतिवचनैरव्यवहिताः अनन्तरिता इत्यर्थः । एवं प्रश्नाव्यवहितानित्यत्रापि । नन्वस्मिन् प्रकरणे उपायोपेयोपेतृवतिरिक्ताग्नेरपि

1.4.8

पृष्टतया त्रयाणामेवेत्वधारणं भवन्मतेप्ययुक्तम् , न चाग्निरप्युपायकोटिनिविष्ट इति वाच्यम् ज्ञानैकसाध्यत्त्वान्मुक्तेरित्या-शङ्कयाह - अर्थत्रयस्य चेति ।। कारणं प्रधानमेवेति -स्वतन्त्रप्रधानमेवोच्यत इत्यर्थः । तेजोबन्नपरत्वेन व्याख्यातमिति - ननु वाचस्पतिना किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णेन प्रतिपाद्यताम् ,उत परमेश्वरी मायाशक्तिस्तेजोबन्नव्याक्रियाकारणमुच्यताम् ? इत्येवं सिद्धान्ते मूलप्रकृतिपरत्वमेव प्रदर्शितम् न तु तेजोबन्नात्मकावान्तरप्रकृतिपरत्वमिति चेत् सत्यमुक्तं वाचस्पतिना, तथापि वचनस्य ज्योतिरुपक्रमादिति सूत्रतद्भाष्याभ्यां तेजोवन्नानां जननश्रवणात् कथमजात्वमिति कल्पनोपदेशादिति-

1.4.8

सूत्रावतारिकाभाष्येण च विरुद्धत्वात्तदनादृतम् । यदि हि मूलप्रकृतिर्मन्त्रवर्णप्रतिपाद्यत्वेनाभिमता स्यात् तदा तस्य जन्मरहिततया कथमजात्वमित्याक्षेपस्य वा कल्पनोपदेशादितिछागत्वकल्पनेन परिहारस्य वा असम्भवादिति ध्येयम् । गौण्या वृत्त्या सत्त्वरजस्तमोमयीति - रक्तंकुसुम्भादि, रञ्जयतीति रक्तशब्देन रज उच्यते । एवमावारक मन्धकारं नीलं तमोगुणश्चावारक इति आवारकत्वसाधम्र्यात्तमोपि नीलादिशब्देनोच्यते इति भावः । परिणम्यमानमितिपाठः । "णिचि मितां ह्वस्व' इति ह्यश्व-विधानात्, यद्वा "मितां ह्वस्व' इत्यत्र वेत्यनुवृत्तेर्वा परिणम्यमानमित्यस्य साधुत्वं द्रष्टव्यम् । प्रकृत्यादीनामिति व्याख्येयं पदम् । नन्वत्र प्रकृत्यादीनां स्वरूपमभिहितमिति कथमुचनयते, "षड्#िवंशकमित्याहु'रित्यादाविवाऽत्रापि "एकस्तु पिबते देवः स्वच्छ-न्दोत्र वशानुगाम्' इतीश्वरस्यापि प्रतिपादनादित्याशङ्कयाह - एषु वाक्येषु ईश्वरप्रतिपादनमिति । ततश्च प्रकृत्यादीनां स्वरूपमभि-हितमिति भाष्यस्य ब्राहृात्मकस्वरूपमभिहितमित्यर्थ इति भावः । तदन्तर्यामिभगवत्प्रतिपादकवाक्यमिति - "स्तूयते मन्त्रसंस्कृ-त्यैरथर्वविहितैर्दिभु'रित्युत्तरखण्डे विभुशब्देन व्यापकं नियन्तारं संस्तुत्य तं षड्#िवंशकमित्यादि प्रतिपादनात् षड्#िवंशकस्या-

1.4.8

ऋषित्वकल्पना, इत्यर्थावगतिरिति भावः । भाष्ये साधनत्वमात्रं चमसशब्देन प्रतीयत इति इदमुपलक्षणम् अर्वाग्बिलोद्ध्व- त्मत्वं सिद्धमिति भावः । " प्रकृति पुरुषं चैवे'त्यादि गीतायां त्रयोदशाध्याये "सत्त्वं रजस्तम' इति चतुर्धाध्याये' "सर्वभूतानि

कौन्तेये'त्यादि नवसे, भाष्ये सिद्धान्ते च, "चमसवदविशेषा'दितिसूत्रोपादानानन्तरं नात्र तन्त्रसिद्धा प्रकृतिरभिधीयत' इति वाक्यं केषुचित्कोशेषु दृश्यते तददृष्टश्रुतप्रकाशिकैः पण्डितम्मन्यैः प्रक्षिप्तम् । उपक्रमस्थं प्रतिज्ञावाक्यमनुपज्यत इति मत्त्वेति टीकोक्तेरिति द्रष्टव्यम् ; वस्तुतस्तु, नात्र तन्त्रसिद्धा प्रकृतिरभिधीयत इत्येव प्रतिज्ञोचिता, न तु प्रकृतिर्निरस्यत इति प्रतिज्ञाया अयुक्तत्वान्नानुपङ्गोपेक्षितः, अतो यथा भाष्यमेव प्रतीमः, भाष्ये "यथार्वाम्बिलश्चमस ऊद्ध्र्वबुध्न' इति बृहदारण्यके चतुर्थपाठके शिशुब्राहृणे -"तदेण्श्लोको भवति' अर्वाग्विलश्चमस ऊद्ध्र्वबुध्नस्तस्मिन् यशो निहितं यशोरूपम् तस्यासत ॠषयः सप्त तीरे

वागष्टमी ब्राहृणा सविदानेति, अर्वाग्बिलश्चमस ऊध्द्र्वबुध्न इतीदं तच्छिर एव ह्रर्वाग्बिलश्चमस ऊध्द्र्वबध्नः तस्मिन् यशो निहितं विश्वरूपमिति प्राणा वै यशो विश्वरूपं प्राणानेतदाह तस्यासत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणानेतदाह वागष्टमी ब्राहृणा संविदानेति वाग्ध्यष्टमी ब्राहृणा सविता, इति श्रूयते, तत्र चमसमन्त्रपर्यालोचनायां न विशेषप्रतिपत्तिः, वाक्यशेषे तु कण्ठादुपरिभागे शिरसि चमसत्वकल्पना, तद्गतमुखविवरे विलत्वकल्पना, तदूध्र्वभागे मूध्र्नावयवे स्थालमूलभागरूप-बुध्नत्वकल्पना, तस्मिन् विश्रमरतया स्थितेषु प्राणादिवायुषु यशत्वकल्पना, तस्मिन् परितः स्थितेषु श्रोत्रादिषु इन्द्रियेषु

1.4.8

बुध्नशब्दाभ्यां अर्वाग्बिलोद्ध्र्वबुध्नत्वेऽपि प्रतीयत इत्यपि द्रष्टव्यम् । नचार्वाग्बिलोद्ध्र्वबुध्नत्वरूपविशेषणमहिमना विशेषप्रतीतिः, तयोर्गुहादिसाधारण्यात् - साधम्र्यदृष्टान्ततया व्याख्यात इति । तत्र "यथेदं तच्छिर' इत्यारभ्य वैधम्यर्दृष्टान्तमिति भाष्याभिमत-मिति भावः । भाष्ये यौगिकशब्दानामिति चमसेषु समाख्यानादित्यधिकरणे यौगिकस्योक्तेरिति भावः । इदमुपलक्षणम् प्रकृते चमसशब्दस्य प्रयोगनैय्यत्येन पात्रविशेषरूढत्वेऽपि प्रसिद्धस्य चमसस्य ऊध्र्वबिलत्वेन तिय्र्यक् बुध्नत्वेन च तद्विलक्षणत्वे अर्वाग्बिलत्वोद्ध्र्वबुधनत्वे कथिते कोशावीदृशश्चमस इति विशेषजिज्ञासायाः सत्वेन विशेषनिश्चयाभावात् , अत एव "तस्मिन् यथो निहितं विश्वरूपं तस्यासत ऋषयः सप्त तीरे इत्यादौ यश आदिशब्दानां रूढत्वेऽपि तादृग्भूतयशःपदार्थादिजिज्ञासाया दर्शनादिति द्रष्टव्यम् - बलभिदादीति - बलभेदकत्र्तृत्वस्य इन्द्रासाधारणत्वादिति भावः, यथेति नः श्रुतिपदमिति पाठः, स च

1.4.9

श्रुतिभ्रान्तिनिवारणशर्थः, ततश्च यथात्रापीत्यत्र तथाशब्दप्रतिद्वन्द्वी यथा शब्दः । नचास्य यथाशब्दस्य तथात्रापीतिभाष्ये-णान्वय इति पूर्वमेवान्वयो दर्शित इति वाच्यम् ; यथाशब्दद्वयपरामृष्टस्य एकेन तथाशब्देन परामर्शसम्भवेनादोषात् , श्रुतौ यथाशब्दादर्शनाच्चेति द्रष्टव्यम् । स्वातन्त्र्यमेव प्रत्ययवाच्यमिति -कत्रर्थशानच्प्रत्ययेन स्वतन्त्रः कत्र्तेति स्वातन्त्र्यलक्षण-कत्र्तत्वमेव वाच्यमित्यर्थः, मात्रशब्दासभप्रेतनिश्चायकत्वाभावमेवाह - यदि ब्राहृात्मकत्वमिति । तद्गततयेति -प्रकृतिशरीरक-ब्राहृगततयेत्यर्थः ।। 6 ।। सृष्टिप्रकरणत्वादिति - यद्यपि प्रयाजादीनामङ्गत्वे इतिकर्तव्यताकाङ्क्षालक्षणं प्रकरणं प्रमाणम् , इह सृज्यमानप्रायपाठात्मकवन्निधिलक्षणं प्रकरणं प्रमाणम् , तथाऽप्युभयोरपि प्रकरणशब्दव्यवहार्यत्वमस्तीति तथोक्तमिति

1.4.9

द्रष्टव्यम् । पूर्वमेवविच्छेदादिति - "ब्राहृा देवानां पदवीः कवीना'मित्यत्र विच्छेदादिति भावः । न सृष्टिप्रकरणविच्छेद इति - यद्यपि सृजमानामिति प्रकृतिकत्र्तृकसृष्टेः प्रतिपादनेऽपि ईश्वरकत्र्तृकसृष्टिप्रकरणाविच्छेदेनैतत् प्रमाणम् , तथापि यथा कथञ्चित् सृष्टिप्रक-रणमात्रानुवृत्तिप्रदशर्नार्थमिदमुक्तमिति द्रष्टव्यम् । प्रक्रियमाण इति ह्रुक्तमिति - शानचा प्रकरणस्य वत्र्तमानत्वप्रतीतेरिति भावः। एतद्विशेणत्वेनेति - प्रकृतिविशेषणत्वेनेत्यर्थः । तस्मिन् प्रकरणोनन्यविशेषणत्वेन प्रतिपाद्यस्य प्रायपाठादुत्यत्तिरभ्युपगन्तव्य इति भावः शाखान्तरे दर्शितमिति - ननु तैत्तिरीयकेऽपि सृज्यमानप्रकरणपाठमात्रेण कथं परमात्मकारणत्वम् , मुक्तस्यापि तथात्वप्रसङ्गात्; नच मुक्तोऽन्यार्थतया निर्दिष्ट इति वाच्यम् ,प्रथमनिर्दिष्टस्याऽन्यार्थतया निर्दशे प्रमाणाभावात् ; वैपरीत्य-स्याऽपि सुवचत्वाच्च; किञ्च प्रायपाठभञ्जके जननप्रतिषेधकेऽजाशब्दे जाग्रति कथं तस्याः कार्यत्वसिद्धिरिति चेत् , अत्र केचित् उयक्रमशब्दो मुख्यवाची सन् लक्षणया नियन्तृत्वपरः , ततश्च ज्योतिरुपक्रमा ब्राहृात्मिकेत्यर्थः, अत्र च हेतुः श्वेताश्वतरप्रकरण-मेव, तत्र हि "ते ध्यानयोगानुगता अपश्यन्देवात्मशकिं्त स्वगुणैर्निगूढाम् , मायिनं तु महेश्रम् ' अस्मान्मायी सृजते विश्वमेत'दित्यात्मशक्तितया तद्विशेषणतया च प्रतिपाद्यमानत्वात् ; अयञ्च हेतुरुत्सूत्र एव । श्वेताश्वतरे "आत्म शक्ति'मिति-श्रवणाद्ब्राहृात्मकप्रकृतिप्रतिपादनेपि तैत्तिरीयके तथा प्रतिपादनादर्शनात्कथं तत्र ब्राहृात्मकप्रकृतिप्रतिपादनमित्याशङ्कयाऽऽह "तथा ह्रधीयत एक इति ' तत्रापि ब्राहृात्मिकैव प्रकृतिः प्रतिपाद्यत इत्यर्थः । तथाहि "सप्त प्राणाः प्रभवन्ति ' इत्यादिना कृत्स्नस्य जगतो ब्राहृकार्यत्वेऽभिहिते कथं निर्विकारस्य ब्राहृणो विकारोत्पादकत्वमिति शङ्काव्युदासाय प्रवृत्तोऽयमजामन्त्रवर्णः।

1.4.10

यद्यं ब्राहृात्मिकामजान्न प्रतिपादयेत्तदा प्रागुपक्षिप्तब्राहृोपादानत्वनिर्वाहको न स्यात् , अन्यदुपक्रान्तमन्यदापतितमिति न्याय-प्रसङ्गात् , अतः सोऽपि मन्त्रो ब्राहृात्मकप्रकृतिपर एवेति । ननु ज्योतिरुपक्रमाशब्दस्य परमात्मात्मकत्वमात्रप्रतिपादकत्वेऽजा-त्वज्योतिरूपक्रमात्वयोर्विरोधाभावात्तत्परिहारपरोत्तरसूत्रसङ्गतिः स्यादिति चेत् न, प्रकृते ब्राहृात्मकत्वस्य तत्कार्यत्वेनैव निर्वोढव्यतया नित्यायाः प्रकृतेः तत्कार्यत्वाभावात् कथं ब्राहृात्मकत्वमित्याक्षेपे "अस्मान्मायी सृजते विश्वमेत ' दिति निर्विकारस्य परमात्मनः कारणत्वनिर्वाहकतया सृष्टयुपयुक्ततया च प्रतिपाद्यमानायाः प्रकृतेः सर्वदा अपृथक्सिद्धविशेषण-त्वस्यावश्यम्भावेन तदात्मकत्वस्य नानुपपत्तिः, ततश्चाविभक्तनामरूपा च विभक्तनामरूपा च प्रकृतिः सर्वदा परमात्म-शरीरभूतैव यथा विभक्त-नामरूपोऽविभक्तनामरूपश्चादित्यः परमात्मशरीरभूत इति "कल्पनोपदेशा 'दिति सूत्राभिप्राय इति वदन्ति; भाष्ये "देवात्मशकिं्त स्वगुणैर्निगूढा 'मितीत्यस्यानन्तरं पठितेति शेषः । ततश्चारभ्येति क्रत्वाप्रत्ययस्योपपत्तिरिति द्रष्टव्यम् - जगद्योनिभूतां प्रकृतिमित्यर्थ इति । नच योनिशब्दस्य प्रकृतिपरत्वे प्रकृतेरेकत्वात्कथं वीप्सेति वाच्यम् , अन्यत्र योनिशब्दस्य प्रकृतिमहदादिसाधारण्यात् कल्पभेदोपाधिकभेदाश्रयणाद्वा वीप्सोपपत्तिरिति भावः - वैदिकशब्दनिर्देशानु-सारिणाविति । ततश्च स्वायत्ते शब्दप्रयोगे "किमित्यबोधकम्पदं प्रयोक्तव्यमिति' न्यायेन "ब्राहृोपक्रमा तु तथा ह्रधीयत एक ' "सृष्टयुपदेशाच्च मध्वादिवदविरोधः ' इति कुतो न सूत्रितमिति शङ्का पराकृता, सेदिपदस्य प्रकृत्युपस्थापकस्य

1.4.10

ब्राहृपर्यन्तत्वे भाष्यं प्रमाणयति - कारणावस्थं ब्राहृैवेति । एकस्येति व्याख्येयं पदम् , भाष्ये -वस्वादिभोग्यत्वाय मधु -कल्पनमिति, वस्वादिदेवताभोगार्थकर्मनिष्पाद्यरसाश्रयतया मधुव्यपदेशो भोक्त इत्यर्थः । यथाऽऽदित्यस्य कार्यावस्था-यामृग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यरसाश्रयत्वमुदयास्तमयत्वञ्च तथेतिभाष्यस्य पर्यवसितोऽर्थः अजात्वैकत्वसिध्द्यर्थमिति - एकाजात्वसिध्द्यर्थमित्यर्थः । उत्तरत्र एकच्छागत्वसिध्द्यर्थमिति वक्ष्यमाणत्वात् - तेजोबन्नवाचिशब्देनेति । लोहितकृष्णशब्दैः तद्#ूपवन्ति तेजोबन्नानि लक्षयित्वा तद्दवारा तत्कारणभूता मूलप्रकृतिर्लक्ष्यते किमित्यर्थः - समुदायत्रयमेवेत्यर्थ इति - त्रिवृत्कृता पृथिवी, त्रिवृत्कृता आपः, त्रिवृत्कृतं तेजश्चेतित्रयस्समुदाया इति भावः - अद्वारकत्वे लोहितशुक्लकृष्णत्वविरोध इति । इदमुपलक्षणम् , निर्विकारत्वश्रुतिविरोध इत्यपि द्रष्टव्यम् । विकल्पपरिहारयोरिति विकल्पदूषणयोरित्यर्थः । भाष्ये -

1.4.10

तृतीयविकल्पेपीत्यादेरयमर्थः, तेजोबन्नकारणभूता लोहितकृष्णादिशब्दैः लक्षिता अजाशब्देन रूप्यत इति, तृतीय पक्षे लोहितादिशब्दैः तेजोबन्नानि लक्षयित्वा तद्द्वारा लक्षिता कारणावस्था अजाशब्देन गौण्या वृत्त्योपस्थापनीया, न जायत इत्यजेतियोगरूपमुख्यवृत्त्यैव लोहितशुक्लकृष्णाशब्दलक्षिततेजोबन्नकारणस्याऽभिधानसम्भवे छागत्वकल्पनेन गौणवृत्त्या त्प्रतिपादनाभ्युपगमस्यायुक्तत्वादिति; तेजोबन्नानामवाचकस्येति टीकायामप्ययमेवार्थः, तेजोबन्नकारणावाचकस्याऽजा-शब्दस्य गौण्या वृत्त्या तादृशकारणप्रतिपादकत्वं परिकल्प्य तथाभ्युपगमाद्वरं योगवृत्त्याऽजाशब्दस्य मूलकारणपरत्वमिति, नत्वजाशब्दस्य तेजोबन्नलक्षणाद्वारा तत्कारणलक्षणकत्वमस्मिन् वाक्ये प्रतिक्षिप्यत इति मन्तव्यम् । परैः तथानुक्तैः, लोहितादिशब्दलक्षणा, अजाशब्दे गौणीवृत्तिरित्येवोक्तमिति मन्तव्यम् - रूढितोऽवयवशक्तया वेति । ननु एवं "प्रेतुहोतु-श्चमसः प्रोद्गातृणा'मितिमन्त्रे उद्गातृपदरूढ¬र्थबहुत्वानुपपत्तौ सत्यामवयवार्थमादाय न च सुब्राहृण्यानां चतुर्णां ग्रहणम् -

1.4.10

अपि तु रूढिपूर्वकलक्षणयाऽन्तरङ्गप्रत्यासत्त्या सदः प्रवेशवतामुद्रतृप्रस्तोतृप्रतिहत्र्तृणां त्रयाणां ग्रहणमिति सिद्धान्तकोपप्रसङ्ग इति चेन्न, प्रोद्गातृपदयौगिकार्थग्रहणेऽपि "प्रैतुहोतुश्चमस ' इत्यत्र सदसि भक्षयितारः स्थिताः तत्र चमसस्य नयनं भक्षार्थं प्रष्यते ; न च सुब्राहृण्यस्तत्र स्थितः अतस्तयाणामेव भक्षणं योगपक्षेपि सिद्धयतीति योगापलापेन रूढिपूर्वकलक्षणासमर्थनेन प्रयोजनं पश्यामः ; रूढिपूर्वकलक्षणापक्षे अपसुब्राहृण्यानां ग्रहणम् , योगपक्षे चतुर्णामपीत्यस्यार्थस्य सम्प्रतिपन्नत्वात् , तस्मात् तदधिकरणरूढ¬र्थबहुत्वासम्भवे यौगिकोऽर्थस्सवीकर्तव्यः, नतु पाशवदत्यन्तागतिकत्वम् , पाशपदे योगार्था-प्रतीतेरित्येवं परम् , ततश्च प्रकृतेऽजाशब्दे यौगिकार्थस्य स्फुटप्रतीतेर्न रूढिपूर्वकलक्षणाप्रसङ्गोऽवतरति , अत एव कुमुदं पङ्कजमित्युक्ते कङ्कजनिकत्र्तृत्वार्थ एव प्रतीयते, नतु तत्वादृश्यमिति भावः । भाष्ये स्वस्मिन्ननादिकालसम्बन्धानामिति , स्वरूपापेक्षया नपुंसकलिङ्गनिर्देशः, दृढभक्तिः शक्यञ्चानेन क्षुत्प्रतिहन्तुं "द्विगुरेकवचन'मितिवत् स्त्रीलिङ्गविवक्षाया वा , एवमनेन वा अन्येन वा, संयोगयोग्येत्यत्तरभाष्येऽपि लिङ्गनिर्देशो द्रष्टव्यः । भाष्येष्वपरित्यागाहेतुभूतेति , अपवर्गसाधन-

1.4.10

भूतादित्यस्य प्रतिद्वन्द्वि -गौणवृत्त्यनङ्गीकारेऽपि न वैयथ्र्यमिति । ननु अजामन्त्रे स्वरसत एतावानर्थः प्रतीयते, "काञ्चि च्छागीं त्रिवर्णां स्वरूपबहुवर्कराम् प्रजाकरामेकः छागः प्रीयमाणोऽनुवर्तते ' अन्यस्तामुपयुक्तां त्यज्यत इति, अत्र लोके सम्भवन्न-प्ययमर्थो वेदे तत्राप्यध्यात्मप्रकरणे न निर्बन्धमर्हतीति आध्यात्मिक एव पदार्थे योजनं कार्यमिति निश्चिते योग्यतावशात्ते-जोबन्नमूलभूतप्रकृतावेवायं गौण्या वृत्त्या वर्तत इति प्रतीतिर्भवत्येव; यथा "द्वा सुपर्णा सयुजा सस्वायौ समानं वृक्षं परिष-स्वजात ' इतिमन्त्रे वृक्षत्वेन शरीरस्य जीवपरयोः पक्षित्वेन कर्मफलस्य वृक्षफलत्वेन परिकल्पनं तद्वत् , इतरथा तत्राप्यगतेः , तथा "गौरनाद्यन्तवती ' अत्रापि गोशब्दस्य गौणत्वे इयमेव वृत्तिराश्रयणीया, इतरथाऽयं मन्त्रः काञ्चिद्वस्तुतो गोव्यक्ति- मदानिं प्रतिपादयत्वित्युक्तावगतिरिति चेत् , सत्यम् ,#ृअध्यात्मप्रकरणयोग्यस्य यौगिकार्थस्य ग्रहणसम्भवे गौणार्थस्वीका-रस्यायुक्तत्वादिति भावः । रूप्यवाचिपदाश्रवणादिति - "आत्मानं रथिनं विद्धि ' इत्यादाविव रूप्यवाचिपदाश्रवणेऽपीत्यर्थः, रूढिसिद्धाजाव्यावत्र्तकमिति - रूढ¬र्थनिर्णायकमित्यर्थः । अतः प्रयूक्तपदवैय्यथ्र्थेति " आत्मानं रथिनं विद्धि' इत्यत्रप्रयुक्त-रूप्यवाचिपदवैय्यथ्र्यपरिहारोऽस्ति, "गौरनाद्यन्तवती' इत्यत्र गौणार्थग्रहण एव अनाद्यन्तवती इत्यादिपदस्वारस्यमस्ति, सर्वकामदुघेत्युचितविशेषणश्रवणादर्थोचित्यवगम्यते अजामन्त्रे तु न तथा, रूप्यवाचिपदाश्रवणात् , गौणाथर्परिग्रहेऽपि पुंल्लिङ्गाजशब्दयोरपि स्वरसप्रसङ्गात्, अगौनाथर्परिग्रहेऽपि अगाशब्दस्य योगेनाऽर्थप्रतिपादकत्वसम्भवात् , बहुप्रजाजनक-त्वादिविशेषणानाञ्च मुख्याजाव्यावत्तकत्वाभावेन गौणपक्ष एवार्थोचित्यमित्यस्यापि भावाच्चेत्यर्थः,रूढार्थसदृशपरत्वाभावा-च्चेति । यद्यपि चमसशब्दः पात्रविशेषे रूढः, शिरसि तु तत्सादृश्यात्तत्कल्पनया गौण इत्येव परेषां मतम् , तथापि प्रोक्षणी-न्यायेन यागेन वृत्त्युपपत्तौ चमसशब्दस्य रूढिकल्पनायां प्रमाणाभावात् , नच यथा प्रस्तोत्रादिषु अप्रयोगादुद्गातृशब्दस्य रूढिरङ्गीक्रियते, यथा वाधीयन्त इति धाय्या, इति धाय्याशब्दस्य यौगिकत्वे इतरत्रापि प्रयोगप्रसङ्गात् " पृथुवाजिवत्यौ - धाय्ये भवत ' इति तयोरेव प्रयोगात् धाय्याशब्दस्य पाय्यसान्नाय्य निकाय्य धाय्यामानहविर्निवाससामिधेनिष्विति सामधेनिमात्रवचनत्वेन स्मृतत्वेऽपि रूढत्वमित्येवमादिषु रूढिरङ्गीक्रियते, तथा चमसशब्देऽप्यस्तु "चमसस्सामपात्रं स्यात् ' इति निघण्टुपाठादिति वाच्यम् , चमसशब्दस्य पात्रविशेषादन्यत्राप्रयोगे प्रमाणाभावात्, यदि च रूढत्वं तथापि पूर्वोक्तदोषात् परोक्तयोजना न युक्तेति तात्पय्र्यम् । ।। चमसाधिकरणम् समाप्तम् ।। 6 ।।

1.4.11

"तन्देवा ज्योदिषां ज्योतिरायुर्होपासतेऽमृतम् ' "यस्मिन् पञ्च पञ्च जना आकाशश्च प्रतिष्ठितः' "तमेवं मन्य आत्मानं विद्वान् व्रक्षामृतोऽमृतम् ' "प्राणस्य प्राणमुत चक्षुपश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो मनो विदुः ते निश्चिक्युब्र्राहृ पुराणमग्रयम् ' इति श्रुतिः । तान्यपि विषय इति -"स वा एष पुरुष पञ्चधा पञ्चात्मा ' इत्यादिवाक्यमपि विषय इत्यर्थः पञ्चस्वन्यतमत्वाभावेनेति । यद्यपि "रथकारः पञ्चमाश्चत्वारो वर्णाः पञ्चजना' इति कैय्यटोक्तेर्मनुष्यनाम्नः पञ्चजनशब्दस्यापि सप्तर्षीतुल्ययोगक्षेमत्वमेवेति वक्तुं शक्यम्, तथापि मनुष्यादिनाम्नः पञ्चजनशब्दस्य पञ्चभिर्भुतैर्जननमस्येति व्युत्पत्त्यभिप्रायेण तथोक्तमिति द्रष्टव्यम् । न च तथा व्युत्पत्त्याश्रयणेऽपि सङ्खयापूर्वकत्वं सिद्धमिति कथं सङ्खयापूर्वकसमासत्वाक्षेप इति वाच्यम् , समानाधिकरणसङ्खयापूर्व-कसमासासम्भवादिति भावः - सङ्खयापूर्वकसमासत्वं युक्तमितभिप्रेत्येति । "तद्धितार्थोत्तरपदसमाहारे चे'तिसूत्रविहितसङ्खया-पूर्वकसमासत्वं युक्तमित्यभिप्रेत्येत्यर्थः, नतु "दिक्सङ्खये संज्ञाया'मिति विहितसङ्खयापूर्वकसमासत्वमिति मन्तव्यम् , तथा सति "सप्त सप्तर्षयः'इत्यत्रौकोनपञ्चाशतत्वसङ्खयाप्रतीत्यभाववत् "पञ्च पञ्चजना' इत्युक्ते पञ्जविंशतत्वप्रतीत्यभावप्रसङ्गादिति

1.4.11

द्रष्टव्यम् -तदाहीति । पञ्चशब्दस्य समस्तत्व इत्यर्थः -दशत्वमापद्यत इति - यथा "पञ्च सप्त च वर्णानि नववर्षशतक्रतुः' इत्यादौ द्वादशवर्षवृष्ट्य्भावप्रतीतिवदिति भावः -विशेषपय्यन्र्तशब्दोपस्थापितस्येति । ततश्च स्वतन्त्रोपस्थित्यभावेन नैराकाङ्क्षयादिति भावः- नच द्वे शतेति - "द्वे शते ब्राहृाणास्त्रीणि शतानि ब्राहृणा' इत्यत्र ब्रााहृणपदंसामानाधिकरण्यसिध्द्यर्थं शतशब्दस्य शतत्वसङ्खयावद्विशेष्यपर्यन्ततया विशेष्यपर्यन्तशब्दोपस्थापितस्यापि शतसङ्खयारूपविशेषणस्य सङ्खयान्तयान्वयदर्शनवदिहापि पञ्चत्वसङ्खयायाः पञ्चत्वसङ्खयान्वयोऽस्तीत्यर्थः। अवान्तरसङ्खयेति - यथा त्रयश्त्रिशह्वेवा इति महासङ्खयायाम् "अष्टौ वसव एकादश रुद्राः द्वादश आदित्याः प्रजापतिरिन्द्रश्चे 'ति वाक्यप्रतिपन्नाष्टत्वैकादशत्वावान्तरसङ्खयानिवेशनिमित्तवसुत्वा-द्युपाधिवदिह पञ्चत्वसङ्खयारूपावन्तारसङ्खयानिवेशनिमित्तभूतस्यैकस्योपाधेर्दशनादित्यर्थः-एकग्रामस्थित्याद्युपाधिना हीति । यद्यपि एकग्रामवाविषु सहरुोषु पुरुषेषु सहरुासङ्खयावान्तरसङ्खयारूपशतसङ्खयानिवेशनिमित्तभूताः परस्परव्यावृत्ता उपाधयो न दृश्यन्ते, "पञ्च सप्त च वर्णानि पञ्च पञ्चाशतस्त्रिवृत् सम्वत्सरा' इत्यादिषु विनाप्येकैकमवच्छेदकं विवक्षितमहासङ्खयालाभो-पायतामात्रेण यत्किञ्चदवान्तरसङ्खयानिवेशदर्शनात् , नहि द्वादशवार्षिक्यामनावृष्टौ पञ्चसु सप्तसु च वर्षेषु विश्वसृजामयने पञ्चाशनुत्तरद्विशतसङ्खयानां त्रिवृतां सम्वत्सराणां मध्ये पञ्चाशति पञ्चाशति सम्वत्सरेषु चैकैकधर्मोस्ति, तथापि सम्भव-स्थलाभिप्रायेणदं द्रष्टव्यम् । शतसङ्खयापुरुषसमूहैक्यमिति - शतसङ्खयालक्षणधर्मैक्येन समूहैक्यमित्यर्थः । सङ्खयानिवेश-निमित्तोपाधौ सति सङ्खयानिवेशः, सङ्खयानिवेशे सति समू#ूहैक्यमिति द्रष्टव्यम् । न तन्त्रोक्ताथत्र्वनिश्चय इति -"देवाः पितरो गन्धर्वा दैत्या दानवा राक्षसा भूताःप्रेताः पिशाचाः चत्वारो वर्णाः षडनुलोमाः षट् प्रतिलोमाश्चे 'त्येवमादिरूपेण पञ्चविंश-तिजनसम्भवादिति भावः - ऐकपद्यदर्शनादिति -इदमुपलक्षणम्, पञ्चजनशब्दस्य भाषिकाख्यशतपथब्रााहृणस्वरविधायक-ग्रन्थविहितेनान्तोदात्तस्वरेणापि समासो विधीयत इति द्रष्टव्यम्, पञ्चशब्दसमभिव्याहारबलेनेति - पञ्च सप्तर्षयः सप्त सप्तर्षय इत्यादौ सङ्खयावाचिपदसमभिव्याहारेऽपि न सङ्खया परत्वम्, समाहारस्वीकारो वा, तथापि प्रस्यस्तसभतावयवार्थसञ्ज्ञा समासत्वाश्रयणापेक्षया समाहारसमासत्वाश्रयणमेव ज्यायः, किञ्च सञ्ज्ञासमासत्वाभ्युपगमेऽपि न पञ्चजनशब्देन मनुष्याणां

1.4.11

ग्रहणं सम्भवति, अध्यात्मप्रकरणे पञ्चमनुष्यत्वकीर्तनस्यायुक्तत्वात् , इतरेषाञ्च पञ्चजनशब्दितानामप्रसिद्धैः समाहारसमा-सत्वाश्रयणमेव युक्तमिति माकः , पञ्चजनपञ्चशब्दस्येति - पञ्चजनशब्दान्तर्गतपञ्चशब्दस्येत्यर्थः - स्त्रीलिङ्गस्मृतेरिति । "अका-रान्तोत्तरपदो द्विगु स्त्रियां भाष्यत ' इति स्त्रीत्वस्य पात्रादिषु प्रतिषेधो वक्तव्य इति त्रिभुवनादि#ेषु अपवादवत् इह तदभावात् छान्दसत्वमिति भावः । एतच्चोपलक्षणम् , "उकालोऽज्खस्वदीर्घप्लुतः' इत्यत्र छान्दसत्वेन "स नपुंसकम्' इति नपुंसकलिङ्गाभा-ववदिहापि छान्दसत्वेन "सनपुंसकम् ' इति नपुंसकलिङ्गाभावोऽपि द्रष्टव्यः । ननु "यस्मिन् पञ्च पञ्चजना' इतिमन्त्रे आत्माका-शव्यतिरेकेणापि पञ्चविंशतिपदार्थप्रतीतेः, ताभ्यां च सह सप्तविंशतिसङ्खयासम्पत्तेः नैतत् साङ्खयदशर्नानुगुणमित्याशङ्खय प्रकृतिद्रव्यस्य द्रव्यत्रयात्मकत्वेन सप्तविंशतिसङ्खयाया अपि न तन्मते विरोध इति परिहरति, यस्मिन्निति निर्दिष्टेन आत्मना चेत्यादिना । आत्मनः स्वस्मिन्नवस्थितत्वादिति -स्वे महिम्नि प्रतिष्ठित इतिवदिति भावः, भाष्ये मूलप्रकृतिरविकृतिरिति, मूलप्रकृतिः न कस्यापि विकृतिः, महदहङ्कारतन्मात्राणि सप्तापि किञ्चिदपेक्षया विकृतयः, किञ्चिदपेक्षया प्रकृतयश्च, पञ्च भूतानि पञ्चज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्चेति षोडसापि तत्वानि विकृतिभूतान्येव, न प्रकृतिभूतानि, पुरुषस्तु न प्रकृतिर्नापि विकृतिश्चेति श्लोकार्थः । भाष्ये - तमिति परामर्शेनेति, "तमात्मानं ब्राहृामृतम् एवमन्यो विद्वानमृतो भवती 'ति तच्छब्द-निर्दिष्टस्य मन्त्रवर्णे ब्राहृत्वाविष्करणादिति भावः, ननु विश्वसृजामयने "पञ्चपञ्चाशतस्त्रिवृत्सम्वत्सराः पञ्चपञ्चाशतः पञ्चदशाः

1.4.11

पञ्चपञ्चाशतः सप्तदशा ' इत्यादौ पञ्चाशति पञ्चाशत्यहस्सु अनुगतोपाध्यभावेऽपि तथा तथा निर्देशवत् इहापि पञ्चसु पञ्चसु अनुगतोपाध्यभावेऽपि लक्षणया पञ्चविंशतिसङ्खयाप्रतीतिः सम्भवतीति अस्वारस्यं ह्मदि निधायाह ,भूतसमूहासिद्धेरित्युप-लक्षणमित्यादिना । तेष्वर्थवत्वमाहेति - समस्तपञ्चजनशब्देनैव पञ्चत्वसङ्खयायाः प्रतीतत्वात्पुनः पञ्चशब्देन विशेषणम् व्यर्थमितिशङ्कां व्युदसितुमर्थवत्वमाहेत्यर्थः, समाससामथ्र्याभावादिति - समासस्य सामथ्र्यं नाम समर्थपदाश्रितत्वम् , पदानां सामथ्र्यं नाम परस्परसंसृष्टार्थत्वम् , ततश्च पञ्चशब्दस्य निरर्थकत्वे परस्परसंसृष्टार्थपदाश्रितत्वलक्षणसामथ्र्यं

1.4.12

अत्रायमभिसन्धिरित्यादेरयमर्थः, साधुत्वान्वाख्यानप्रवृत्ता वैयाकरणाः सन्तमसन्तं वा कञ्चिदर्थं परिकल्प्य व्युत्पादयन्ति, नच तावता तत्पदात्तदर्थप्रतीतिरस्ति, नहि गौरित्युक्ते गच्छतीति प्रतीतिरस्ति, ततश्च पञ्चजनशब्दस्य प्रत्यस्तमितावयवार्थकत्व-त्पञ्चत्वसङ्खयया विशेषक्षमनुपपन्नम् ; किञ्च वासस्वी देवदत्तपदवाच्यः यः पञ्जरस्थः स सिंह इत्यादौ व्युत्पत्तिग्रहकाले वासः प्रभृतीनामुपलक्षणत्वेऽपि नाभिधानकाले प्रतीतिरिति वासस्वी देवदत्त इत्यादौ न पौनरुक्तयादिकम् तथेहापीति पञ्चशब्द-विशेषणोपपत्तिः । किञ्च अभिधानदशायामवयवार्थप्रतिपत्तौ सत्यामपि यदा कदाचित् तदर्थसत्तामात्रं प्रतीयते, नतु प्रयोगकाले तत्सत्ताप्रतीतिरिति गौगच्र्छतीति प्रयोगसाफल्यम् , तद्वदिहापि तादाद्विकपञ्चत्वसङ्खयान्वयप्रतीतिसिध्द्यर्थं पञ्चेति विशेषणं सफलमेव, अत एव "पञ्चजनादुपसङ्खयान'मिति वार्तिके कथमत्रैकवचनमितयाक्षिप्य पूर्वेपुकामशम्यादिवत्समुदायवृत्तस्या-वयवेऽपि वृत्त्यैकवचनम् यथा सप्तर्षिरिति, ततश्च "द्वौ पञ्चजनौ त्रयः पञ्चजनाः पञ्च पञ्च जनाः' इत्यादिसङ्खयासामाना-धिकरण्यं विरुद्धम् । यदा द्वौ सप्तर्षिः त्रयः सप्तर्षयः' इति कैय्यटपदमञ्जर्यादौ अभिधानान्न व्याख्यानपौनरुक्तयादिकमिति -द्रष्टव्यम् - यद्विग्रहवाक्येर्थाभिधानशक्तिरिति । ततश्च विग्रहवाक्याभिधाने स्वरूपयोग्त्वमस्ति, ततः समाससामथ्र्यमप्यस्तीति

भावः। पञ्चविंशतितत्वाप्रतिपत्तिमभिप्रेत्येति - पञ्चविंशतितत्वाप्रतिपत्तिहेतौ समूहपञ्चकासम्भवे विपरिवतेमान ऐवेत्यर्थः । सन्दिग्धे तु वाक्यशेषादिति । ननु पञ्चजनशब्दरूढ¬ा मनुष्याणामेव निश्चयसम्भान्न सन्देहोदय इति चेत् न, अध्यात्मप्रकरणे

1.4.13

पञ्चमनुष्याः प्रतिष्ठिता इत्यर्थपरिग्रहे वाक्यस्य निस्तात्पर्यत्वप्रसङ्गात् पञ्चशब्दस्य वृत्तिसङ्खयापरत्वं विहाय ब्रााहृ-णत्वाद्यवान्तरोपाधीनादाय पञ्चविधा मनुष्या इति वाक्यार्थः समाश्रयणीयः, उत वाक्यशेषगताः प्राणादयो वेति सन्देहे

सति "प्राणस्य प्राणमुत चक्षुपश्चक्षुरत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो मनो ये विदुः ते निश्चिक्युः ब्राहृ पुराणमग्रयम् ' इति प्राणादीनां ब्राहृाधीनप्राणनादिव्यापारसामथ्र्यप्रतिपादकत्वाक्यशेषवशेन निर्णयसम्भवादिति भावः,-पञ्चसङ्खयानिवेश-निमित्तैकोपाध्यभावादिति । यद्यपि प्राणादीनामिन्द्रियत्वरूपैकोपाध्यभावेऽपि ब्राहृाधीनस्वव्यापारतया "प्राणस्य प्राण 'मिति-वाक्यशेषप्रतिपाद्यत्वमेकोपाधिरिति शक्यते वक्तुम् , तथापि सति गत्यन्तरे प्रसिद्धोपाधेरेव स्वीकरणार्हत्वादिति भावः

1.4.13

अन्तरादित्याश्रिकरण इति । शरीरस्य त्रिगुणात्मकत्वप्रकृतिपरिणामित्वशङ्कापरिहारदर्शनाद् यथा पूर्वपक्षेऽपि तच्छङ्काया अभिप्रतत्वावगम इति भावः । ननु परमतवद्द्वितीयान्तज्योतिश्शब्दार्थपरामर्शित्वं किन्न स्यादित्याशङ्कयाह - श्रुतिवाक्य-स्वारस्येति । अस्वारस्यं सोढव्यमिति - तच्चानुपदमेव स्फुटीभविष्यति - परैर्हीति । ननु परैः षष्ठयन्तज्योतिश्शब्दनिर्दिष्टेना-दित्यादिज्योतिषा इव सङ्खयापूर्णमित्येवोक्तम् , असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसङ्खया पूर्येत, तेऽपि हि "यस्मिन् पञ्च पञ्चजना ' इत्यतः पूर्वस्मिन्मन्त्रे ब्राहृस्वरूपनिरूपणायैव ज्योतिरधीयते, "तं देवा ज्योतिषां ज्योतिः ' इतीति भाष्यम् - व्याकुर्वता आनन्दगिरिणाऽस्मिन् मन्त्रे षष्ठयन्तज्योतिषा पञ्चपूर्णान्नत्वात्मज्योतिषा, तस्यैकस्य नाधाराधेयत्वादिति व्याख्यातत्वादिति चेन्न, यदि च द्वितीयान्तज्योतिश्शब्दार्थः तदाधाराधेयत्वाद्यनुपपत्तिरिति विकल्पमभिप्रेत्य दूषणमुक्तमिति

1.4.13

द्रष्टव्यम्, परस्परसाकाङ्क्षेणेति - "पञ्च पञ्चजना 'इति मन्त्रेणलभ्यते ' नापि "तं देवा ' इति पूर्वमन्त्रेण, अतस्तदर्थनिणर्ये परस्-परसाकाङ्क्षेणेत्यर्थः, स्वरशब्देनैव व्याख्यातानीति -चक्षुष इति चक्षुरिन्द्रियमित्येवं चक्षुरादिशब्दैरेव व्याख्यातानीत्यर्थः । अन्न-शब्दं व्याचष्टे -अन्नस्येतीति -द्विः पठ¬ते, न तस्य प्रयोजनं पश्यामः-लक्षणया बोधकत्वं दर्शयितुमिति -यौगिकार्थस्वीकारेऽन्न

1.4.14

शब्दस्य वृत्तिद्वयविरोधप्रसङ्गादिति भावः -एकव्यापारेणेति । अन्नसम्बन्धित्वरूपैकव्यापारेणेत्यर्थः,प्रदर्शितानीत्यर्थ इति -निर्दि -ष्टशब्दस्य प्रदर्शितत्वमर्थः, ततश्च "पञ्च पञ्चजना ' इत्येतत्सर्वेन्द्रियोपलक्षणमिति भावः- प्रयोजनं वदन्निति । सर्वथा साङ्खयमत-प्रत्याशाभावरूपप्रयोजनं वदन्नित्यर्थः पञ्चधा भूतपञ्चतत्वसङ्घातानामिति - ज्ञानेन्द्रियाणि पञ्च, कर्मेन्द्रियाणि पञ्च, तन्मात्राणि पञ्च, भूतानि पञ्च, अवशिष्टानि पञ्च तेषामात्मेत्यर्थः स्यादिति भाघः । अद्वारकञ्चति -आनन्दमयशि अद्वारकम् , अन्यत्र स-द्वारकमित्यर्थः।। सङ्खयासम्भवे तथा वर्णनीयमिति - ब्राहृात्मकत्वेन तथा वर्णनीयमित्यर्थः असम्भवे चेति अवतारसङ्खयानिवेश-निमित्तोपाध्याद्यसम्भवे चेत्यर्थः ।।अवर्जनीयाचिद्बोधेति -तत्राचित्प्रतिपत्तेरवर्जनीयत्वादेव व्याकुलत्वम् ,तादृशकारणवाक्यानि

1.4.14

विषयः, सर्वाण्यपि कारणवाक्यानि विषय इत्यर्थः, एकस्मादित्यस्यैकरूपात्कारणादितिव्याख्यानं दृश्यते न तस्यं सामीचीन्यं पश्यामः, "सत्पूर्विकासृष्टिराम्नायत इति छान्दोग्ये इति शेषः "असत्पूर्विका चेति ' तैत्तिरीयके इति शेषः "अन्यत्रेति ' वृहदार-ण्यके इत्यर्थः, ब्राहृकारणवाद इति निमित्तसप्तमी, ब्राहृकारणवादौप्रयिकी सृष्टिकारणव्यवस्त्रितिः वेदान्तेषु नास्तीत्यर्थः - सृष्टिकारणव्यवस्थितितेरित्यर्थ इति । ततश्च सृष्टिशब्दस्य कारणमात्रासाधारणतयोपादानस्यापि सङ्ग्रहो भवतीति भावः, पूर्वापर -पर्यालोचनाप्रयत्नाविति । "तपोऽतप्यत ' इति पूर्वापरपर्यालोचना, "तप आलोचने इति हि धातुः, असृजतेति प्रयत्नश्चेति भावः चक्षुराद्युत्पादनौन्मुख्याभिप्रायमिति - चक्षुरादिशब्दप्रवृत्तिनिमित्तभूतदर्शनौन्मुख्याभिप्रायमित्यर्थः, ततश्च "पश्यत्यचक्षु 'रित्यस्य वाक्यस्य दर्शनोत्पादनाभिमुखत्वात्कर्मनामभाग्भवतीत्यर्थः, तेन "स प्राणन्नेव प्राणो नाम भवति, वदन्वाक् , पश्यन् चक्षुः, श्रृश्वन् श्रोत्रम्मन्वानो मनस्तानयस्यैतानि कर्मनामान्येवे 'ति श्र,तौ प्राणवाक्चक्षुः श्रोत्रमनश्शब्दा लावकपावकादिशब्दव

1.4.14

त्प्राणनवदनदर्शनश्रवणमननक्रियायोगादात्मन एव क्रियानिमित्तनामानीत्येव प्रतीयते, नतु "चक्षुः पश्यन् ' इति चक्षुः कर्म -दर्शनम् चक्षुरुपादानौन्मुख्यलक्षणं प्रतीयते, परैरपि तथा व्याख्यातञ्चेति शङ्का पराकृता, ननु अव्याकृतशब्देन प्रथमत एवाचे -तनप्रतिपत्तिरित्युक्तम् , अन्याकृतत्वस्य च चेतनैकान्तत्वाभावात् , अत एव तदुपजीवि तदुत्तरसन्दर्भः सर्वोऽपि न युक्त इत्यस्वरसादाह -यद्वा कारणगता इतीति । नन्वीक्षणस्य सर्वथा मुख्यत्वभङ्गापेक्षया अंशे मुख्यत्वभङ्ग एव स्वीकाय्र्य इति वैपरीत्यमेव युक्तमित्याशङ्कय चिदंशकारणत्वस्यानन्यथासिद्धप्रमाणप्रतिपन्नतया सर्वत्र ईक्षक्षादिगौणत्वमेव युक्तमित्याह - तदतिरिक्ते वस्तुनीति । नेतिपदानुषङ्गफलितेति - "न सङ्खयोपसङ्ग्रहादपी 'तिसूत्रस्थनञनुषङ्गफलित इत्यर्थः । ननु "कारण-दवनेने ' इत्यादिसूत्रे यथा व्यपदिष्टस्य सर्वज्ञत्वादिगुणकस्य "असद्वा इदमग्र आसीत् ' इत्यत्रापि जगत्कारणत्वेनोक्तेरिति हि

1.4.14

वक्तव्यम् , तस्यैव पूर्वपक्षप्रत्यनीकत्वात् , नतु "आत्मन आकाशः सम्भूतः' इत्यादिवाक्ये सर्वज्ञस्यैवाकाशादिकारणत्वेनो-क्तेरिति प्रतिपायनं युक्तम् , किञ्च "तत्तोजोऽसृजत ' इति सद्विद्यावाक्योपादानमप्ययुक्तम् , तत्राकाशादिकारणत्वाश्रवणा-दित्याशङ्कयाह - स्वतश्चेतनैकान्तेति । भूयसां बलीयस्त्वमेवेति -आकाशादिपदविहितब्राहृकारणत्वप्रतिपादकबहुवाक्यानुसारेण ब्राहृकारणवादविरोधी क्वादित्कोऽसदव्याकृतादिशब्दो यथा कथञ्चिन्नेतव्य इत्यस्य सूत्रस्यार्थः, पूर्वापरवाक्यपर्यालोचनयाऽपि असदादिशब्दस्य तथैव निर्वाह इति उत्तरसूत्रार्थ इति भावः विपश्चित्वप्रतिपादनादिति - इदमुपलक्षणम् , "सत्यम् ज्ञान 'मिति ज्ञानत्वप्रतिपादनादित्यपि द्रष्टव्यम् , ननु सच्छब्दस्य चेतनपरत्वे जडवाचीदं शब्दसामानाधिकरण्यं कथमित्यत्राह -सच्छब्द-स्येति । समर्थित इत्यभिप्राय इति -तात्पर्यत इतीति शेषः एको ह वै नारायण आसीदित्यारभ्येति - अत्र आरम्भसमानकर्तृक-क्रियावाच्योचितपदाध्याहारेणान्वयो द्रष्टव्यः - उपक्रमस्थबहुश्रुतिविरोधादिति यद्यप्यव्याकृतब्रााहृणोपक्रमवाक्यमिदमेव,

1.4.15

तथापि पूर्वब्रााहृणेषु "आत्मैवेदमग्र आसी 'दित्यादिश्रवणादेवमुक्तमिति द्रष्टव्यम् ।। स इति पुल्लिङ्गशब्देनेति - उत्तरोत्तरवा-क्यगतस्य तच्छब्दस्य स्वस्वपूर्ववाक्यप्रतिपन्नगुणविशिष्टसमाकर्षकत्वात् सोऽकामयत ' इति वाक्यप्रतिपन्नगुणविशिष्टसमा-कर्षक इति भावः, ज्ञानविपश्चिदादिबहुश्रुतिप्राबल्यसिद्धेरिति । ननु ज्ञानविपश्चिदादिशब्दैः ब्राहृणः प्रकृतत्वेऽपि "असद्वा इदमग्र आसी 'दित्यत्रासच्छब्दश्रुतिबलात्प्रकृतब्राहृणोऽन्यदेव, प्रकरणात् श्रुतेर्बलत्वात् , ततश्च परस्परविरोधान्निर्णयासमर्थानां वेदान्तानां कापिलत्मृत्यनुसारेण निर्णयो वक्तव्य इति वदन्तं पूर्वपक्षिण प्रतिज्ञानविपश्चिदादिबहुश्रुतिप्राबल्यकीर्तनस्य व्यर्थ-त्वात् , पूर्वपक्षिणा हि ज्ञानविपश्चिदादिश्रुतिप्राबल्यमभ्युपेत्यैव तदबाधेनैव प्रकरणमात्रबाधस्यैवोपन्यस्तत्वादितिचेत् सत्यम् , श्रुत्या बलीयस्या प्रकरणमात्रबाधश्चेत् , सोऽभ्युपगन्तुं युक्तः , इह तु न तथा; अस्मदादिशब्दश्रुतेर्बलवत्त्वे ज्ञानविपश्चिदादि-शब्दाथस्र्य जगत्कारणत्वप्रतिपादकश्रुतीनां "सोऽकामयत तदप्येष श्लोको भवती 'ति प्रकृताभिधायिसर्वनामश्रुतीनामपि

बाधप्रसङ्ग इति भावः । ननु "असदेव 'मिति बृहदारण्यकश्रुतावपि "तत्सदासी 'दिति तत्सद्रूपदाविधायकोत्तरवाक्ये तत्पदेना

1.4.15

सचछब्दोक्तस्यैव समाकर्षात् अत्यन्तासतश्च सद्रूपतापत्त्ययोगादित्येव परमतवत् "असदेवेदमग्र आसी 'दित्यत्रापि समाकर्षे प्रदर्शयितुं शक्ये, भाष्ये तदनादरः किमर्थ इत्याशङ्कयाह - तत्रासच्छब्दोक्तस्येति । तुच्छव्यावर्तक इति - परमतवत् अस्मन्म-तपूर्वपक्षे तुच्छकारणत्वशङ्काया अप्यनुद्धाटनात् तुच्छव्यावर्तकसच्छब्दसमाकर्षो युक्त इति भावः । ननु तुच्छकारणत्शङ्का-ऽप्यस्मिन् पूर्वपक्षे उद्घाटयतामित्यत्राह - कारणावस्थायामिति । परमात्मस्वरूपे नामरूपव्याकृतत्वतदभावयोरभावात् सद्वारके व्याकृत्वाव्याकृतत्वे इत्यभिप्रेत्य व्याचष्टे, भाष्ये -अव्याकृतम् - अव्याकृतशरीरमिति । तदात्मानं स्वयमकुरुत इत्यनेनैकाथ्र्या -दिति भाव इति - व्याक्रियत इति कर्मकर्तरि लकार इति भावः । ननु "तद्धेदं तह्र्रव्याकृतमासी 'दित्यत्र कर्मणि तिष्ठान्ततया व्याक्रियतेत्यत्रापि तदवैरूप्याय कर्मण्येव लकारो वक्तव्यः, न कर्मकतर्रि नचाव्याकृतमित्यत्रापि कर्तय्यैव कर्मवद्भावात् क्तप्रत्ययोऽस्त्विति वाच्यम् , "लिङ्य्#ाशिप्यङ् ' इत्यत्र द्विलकारकनिर्देशेन लान्तकार्यं प्रत्येव कर्मवद्भावविधानात् कर्म-वद्भावेन कृत्यक्तादीनामससम्भवात् , ततश्च क्तप्रत्ययसारूप्याय लकारोऽपि कर्मण्येव युज्यते , "न कर्मकत्र्तरी ' ति कथं नामरूपव्याकरणस्य स्वयं कर्तृकता सिध्द्येदिति चेत् न, छव्याकृतमित्यत्र कर्मणः कर्तृत्वविवक्षया धातोरकर्मकत्वात् "गत्यर्थाकर्मके 'ति कत्र्तरि क्तप्रत्ययसम्भवान्नानुपपविरिति भावः ।। अत्रेयं विषयशुद्#िथः , कौषीतकीब्रााहृणे अजातशत्रुर्नाम

1.4.16

काशीराजः स्वसमीपमागत्य "जुहृ ते ब्राुवाणी 'त्युक्तवन्तं बालाकिम् "सहरुां दहृः एतस्यां वाचि जनको जनक इति वै जना धावन्ती 'ति प्रशस्य बालाक्रिना "य एव आदित्ये पुरुषस्तमेवाहमुपासे ' इत्यादिभिर्वाक्यैब्र्राहृत्वेन उपदिष्टानादित्य-चन्द्रविद्युत्स्तनयिस्तु - आकाशवाय्वग्न्यादिगतानू पुरुषान् अब्राहृत्वेन तत्तत्पुरुषोक्तयनन्तरमेव प्रत्याख्याय तत्र तूप्णींभूते बालाकौ किमेतावदेव तव परिज्ञानमिति पृष्ट्वा तेनैतावदेवेत्यभिहिते "मृषा किल वै मा सम्बादयिष्ठाः' "ब्राहृ ते ब्राुवाणी ' त्युक्तवा "यो वै बालक ' इत्यादि पठ¬ते । एवं हि श्रुतिक्रमः, "सहोवाच यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्य इति तदुह बालाकः समित्पाणिः प्रतिचक्रमे । उपायानीति तं होवाचाजातशत्रुः प्रतिलोमरूपमेतत् स्यात् । यत् क्षत्रियो ब्रााहृणमुपनयेत् , एहि व्येव त्वाद्य ज्ञापयिष्यामीति तं ह पाणावभिपद्य प्रवब्रााज । तौ ह सुप्तं पुरुषमीयतुः, तं हाजात-शत्रुरामन्त्रयाञ्चके, बृहन् पाण्डरवासस्सोमराजन्निति सह तूष्णीमेव शिश्ये तत उ हैवैनं यष्टया विचिक्षेप, स तत एव समुत्तस्थौ तं होवाचाजातशत्रुः क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागादिति तदुह बालाकिर्न विजज्ञौ तं होवाचा -जातशत्रुः यत्रैष एतद्बालाके पुरुषोऽयिष्ट यत्रैतदभूत यत एतदागात् । हिता नाम ह्मदयस्य नाड¬ो ह्मदयात्पुरीततमभिप्रतिष्ठन्ति यथा सहरुाघा केशस्यापि पातस्तावदण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ते शुक्लस्य नीलस्य पीतस्य लोहितस्येति तासु तदा भवति यदा सुप्तः स्वप्नं न कथञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति तदैवैनं वाक् सर्वैर्नामभिस्सहाप्येति चक्षुः सर्वै रूपैस्स-हाप्येति श्रोत्रं सर्वैश्शब्दैः सहाप्येति मनस्सर्वैध्र्यानैः सहाप्येति स यदा प्रबुध्यते यथाग्नेर्विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादा

बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः' इति । उपक्रमे वक्तव्यतया बालाकिनोपक्षिप्तं ब्राहृाजानते तस्मां एवाजातशत्रुणा "स वै वेदितव्यः' इति ब्राहृोपदिश्यते । "यस्य वैतत्कर्म' इति कर्मसम्ब-न्धात्प्रकृत्यध्यक्षो भोक्ता पुरुषो वेदितव्यतयोपदिष्टं ब्राहृेति निश्चीयते, नार्थान्तरम्, तस्य कर्मसम्बन्धानभ्यु-पगमात् । कर्म च पुण्यापुण्यलक्षणं क्षेत्रज्ञस्यैव सम्भवति । न च वाच्यम्; क्रियत इति कर्मेति व्युत्पत्त्या प्रत्य-क्षादिप्रमाणोपस्थापितं जगदेतत्कर्मेति निर्द्दिश्यते, यस्यैतत्कृत्स्नं जगत्कर्म स वेदितव्य इति क्षेत्रज्ञादर्थान्तरमेव प्रतीयत इति; "यो वै बालाक एतेषां पुरुषाणां कत्र्ता यस्य वैतत्कर्म' इति पृथङ्#िनर्देशवैयथ्र्यात्, कर्मशब्दस्य च लोकवेदयोः पुण्यपापरूप एव कर्मणि प्रसिद्धेः ।तत्तद्भोक्तृकर्मनिमित्तत्वावाज्जगदुत्पत्तेरेतेषां पुरुषाणां कत्र्तेति च भोक्तुरेवोपपद्यते । तदयमर्थः- एतेषामादित्यमण्डलाद्यधिकरणानां क्षेत्रज्ञभोग्यभोगोपकरणभूतानां पुरुषाणां

1.4.16

त्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवाः देवेभ्यो लोकाः तद्यथा क्षुरः क्षुरधानेव हितस्स्यात् विश्वम्भरो वा विश्वम्भ-रकुला ये एवमेवैष प्राज्ञ आत्मेदं शरीरमात्मानमनुप्रविष्ट आलोमभ्य आनखेभ्यस्तमेतमात्मानमेत आत्मनोऽन्ववस्यन्ति यथा श्रेष्ठिनं स्वाः तद्यथा श्रेष्ठी स्वैर्भुङ्कते, यथा वा इन्द्र एतमात्मानं न विजज्ञौ तावदेनमसुरा अभिबभूवः, स यदा विजज्ञौ अथ हत्वासुरान् विजित्य सर्वेषां देवानां श्रैष्ठयं स्वाराज्यमाधिपत्यं परियाय यो ह वैनं विद्वान् सर्वान् पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठयं स्वाराज्यमधिपत्यं पय्र्येति य एवं वेद य एवं वेद । स वै वेदितव्य इत्यनतं विषयवाक्यमिति । "स वै वेदितव्य इत्यधीयत' इति पूर्वेणान्वय इति भावः । जीवस्य कर्मसम्बन्धपरत्वशङ्को निरस्तेति - "यो वै बालाके ' इति वाक्ये जीवस्य कमर्सम्बन्धे बोधितेऽपि तदतिरिक्तस्य ब्राहृणःप्रत्याख्यानाभावात् , नानेन सिद्धान्तिनः किञ्चिदनिष्टमापतितमिति शङ्का निरस्ता, ब्राहृण एव कर्मसम्बन्धप्रतिपादनेन जीवातिरिक्तब्राहृप्रत्याख्यानादिति भावः । इह निर्दिष्टानामिति । अस्मिन् प्रकरणे निर्दिष्टाना-मादिनांपुरुषाणामित्यर्थः । सुषुप्तिस्थानं नाड¬ इति - पूर्वपक्षिणोऽयमभिप्रायः,क्वैष एतद्बालाके पुरुषोऽशथिष्टेति प्रश्न उत्थापि-

1.4.16

तस्य जीवस्य सुषुप्तिस्थानविषयः, क्व वा एतदभूदिति प्रश्नस्तदुत्थापनात्पूर्वमुपरतव्यापारस्य तदनन्तरं व्याप्रियमाणतया-नुभूयमानस्य एतच्छब्दनिर्दिष्टस्य करणग्रामस्य सुषुप्तिकालिकस्थितिविषयः, "कुत एतदागा'दिति प्रश्नस्तस्यैव करणग्रा-मस्योद्गमनापादानविषयः, एवञ्च तासु तदा भवति यदा सुप्त स्वप्नं न कथञ्चन पश्यतीति प्रथमप्रश्नस्य प्रतिवचनम् , अथा- स्मिन् प्राण एवेकधा भवतीति द्वितीयप्रश्नस्य प्रतिवचनम् , "तदेनं वाक्' इत्यादि तु तस्यैव विवरणम् , यदा प्रतिबुध्यत' इत्यारभ्य "देवेभ्यो लोका' इत्येतदन्तं तृतीयप्रश्नस्य प्रतिवचमिति । सिद्धान्तिनस्तु प्रथमप्रश्नो जीवस्य स्वप्नस्थानविषयः, द्वितीयस्तु जीवस्य सुषुप्तिस्थानविषयः, तृतीयस्तु गीवस्य प्रबोधकालोद्गनापादानविषयः, तासु तदा भवतीति प्रथमप्रश्न-प्रतिवचननम् , "यदा सुप्त ' इत्यारभ्य द्वितीयप्रश्नप्रतिवचनम् , "यदा बुध्यत' इत्यारभ्य तृतीयप्रश्नस्य प्रतिवचनमित्य- भिप्रायः - तदानीं तदाशब्द इति - नाडीनां सुषुप्तिस्थानत्वाभ्युपगमपक्ष इत्यर्थः । उक्तवानित्यन्वय इति -करणग्रामैकधा-भावस्यैव सुषुप्तिरूपतया "प्राण एवैकधा भवति ' इत्यनेन सुषुप्त्याधारतया उक्तवान्नित्यन्वय इत्यर्थः । भाष्ये स्वप्नसुषुप्ति-

जागरितावस्यास्विति । यद्यपि पूर्वपक्षे प्रश्नप्रतिवचनयोः स्वप्नसम्बन्धाभावात्स्वप्नावस्थायामनुवर्तमानत्वं न प्रतीयते, तथापि स्वप्नजागरणसुषुप्तीनां सामानाधिकरण्यमर्थसिद्धमिति भावः । यद्वा "यदा सुप्तः स्वप्नं न कथञ्चन पश्यति ' इति वाकयादिति

1.4.16

द्रष्टव्यम् । प्राधान्यं विवमिति चेदिति - यद्यपि "सङ्खयाया विधार्थे धा ' इति सङ्खयायां विधीग्रमानो धाप्रत्ययः प्राधा-न्यवाचिन एकशब्दान्न सम्भवति, तथापि छारदतत्वात् तथा शङ्कितमिति द्रष्टव्यम् । भाष्ये -अस्मिन्नात्मनि वर्तमाने प्राण एवैकधा भवति वागादिकरणग्राम इतति#ि । ननु मुख्यप्राणस्यैकीभूतकरणग्रामाश्रयत्वे सुषुप्त्याश्रयत्वप्रसङ्गेन मुख्यप्राण - स्येश्वरस्य च सुषुप्तिप्रबोधयोरसम्भवादिति पूर्वभाष्यविरोध इति चेत् न एकीभूतकरणग्रामाश्रयप्राणाश्रयत्वस्यैव सुषुप्तित्व

1.4.16

विवक्षया एतत्पक्षोत्थितिसम्भवादिति द्रष्टव्यम् । प्राणनामभिरामन्त्रणाश्रवणादिनेति -इदमुत्तरत्र स्पष्टम् । पूर्वपक्षे कत्र्रादिशब्दा-नामिति - पूर्वपक्षिणः साङ्खयस्य मते कर्तृत्वादेरध्यस्तत्वेनास्वारस्यावशनयम्भावादिति भावः । स्वाक्यस्थपदान्तरान्वययोग्यत्वं विवक्षितमिति - यद्यपि "चमसवदविशेषा 'दिति सूत्रे अर्थप्रकरणादिभिर्विनेति भाष्यव्याख्यानावसरेऽर्थो वस्तुसामथ्र्यमि-त्युक्तम् । आलङ्कारिकैश्च अर्थः प्रयोजनं यथा "स्थाणुं भज भवभञ्जनाय' इति भञ्जनरूपप्रयोजनवशात् हरदारुसाधारणस्था-णुशब्स्य हरे पय्र्यवसानम् । प्रकरणम् प्रस्तावः, यथा चक्रवत्तिसन्निधौ सर्वं जानानि देव इतिप्रत्युक्तस्य देव इतिपदस्येन्द्रा-द्यनेकार्थसाधारणस्य युष्मदर्थे पय्र्यवसानं प्रकरणात् , लिङ्गं-वस्तु सामथ्र्यम् । यथा कुपितो मकरध्वज इत्यत्र समुद्रमन्मथ-साधारणस्य मकरध्वजशब्दस्य कोपरूपलिङ्गवशान्मन्मथे पय्र्यवसानमित्युक्तम् , तथाप्यनतिविरोधादेवमुक्तमिति द्रष्टव्यम् । ननु एतच्छब्देन कर्मशब्दसमभिव्याह्मतेन एतेषां पुरुषाणां कत्र्तेति पूर्वनिर्दिष्टपरामर्शित्वं किन्न स्यादित्यत आह -लिङ्गवचन-विरोधादिति । नन्वेतेषां पुरुषाणां कत्र्तेत्यनेनोपस्थापितस्य पुरुषकर्मनिर्माणस्यैतच्छब्देन परामर्शोऽस्त्वित्यत आह - पुरुष-निर्माणरूपव्यापारमिति । प्रकरणतो वा प्रकृतार्थान्तरसम्बन्धित्वेन वेति - साक्षात् परम्परया वा शब्दोपस्तथापितत्वेनेत्यर्थः। प्रसिद्धो वेति -प्रत्यक्षादिमानान्तरतो वेत्यर्थः । प्रकरणादिना सङ्कोचानुपपत्ते रिति -नपुंसकैकवचनान्तनिर्देशार्हस्य प्रकृतस्या

1.4.16

भावेनैतच्छब्दस्य सङ्कुचितवृत्तित्वकल्पकाभावादित्यर्थः । प्रकृतार्थान्तरसम्बन्धित्वेनापि केषाञ्चिद्बुद्धिस्थत्वं दर्शयति -चिद-चिन्मिश्रेतीति । हेत्वन्तरमाहेति - ननु पूर्वं बलीयस्त्वहेतोः कस्यापि अनुपन्यासात् कथं हेत्वन्तरोक्ति' रिति चेत् न, अत्रा-न्तरशब्दो विशेषवचनः "अन्यदेवेदं परिभाषान्तर'मिति भाष्यं व्याचक्षाणेन कैय्यटेनान्तरशब्दो विशेषवचन इति व्याख्-यातत्वात् । केचित्तु- कर्मशब्दस्यादृष्टवच्चलनेपि रूढतया रूढ¬ोः परस्परकलहायमानत्वेन रूढ¬न्मेषाभावरूपहेतोः न च पुण्यापुण्यालक्षणं कर्मेति पूर्वभाष्येऽभिप्रेतत्वात् ब्राहृ ते ब्राुवाणीत्युपक्रम्येत्यादेर्हेत्वन्तरत्वमुपपद्यत इति वदन्ति । युक्तयन्त-तरमाह - आदित्यमण्डलाद्यधिकरणानां पुरुषाणां कत्र्तेतिवाक्यस्येति । आदित्याद्यधिकरणानां पुरुषाणां कर्तेतिवाक्यस्येत्यर्थः। आत्मशब्दोपि प्रयुक्त इति - यदि हि "आत्मा वा अरे द्रष्टव्यः' इतिवत् "य आत्मा स वेदितव्यः' इति निर्देशः स्यात् तदा

1.4.17

साधारणस्यात्मशब्दस्य विवक्षितविशेषपर्यवसानं स्यात् ; न चात्र तथा निर्देशोऽस्तीति भावः । एतच्छब्दस्येति -केचित्तु कर्म-सम्बन्धित्वस्यैवेतिभाष्यं यस्य वैतत्कर्मेतीत्युत्तरभाष्यैकवाक्यं मन्वाना एतच्छब्दस्योक्तर्थपरत्वाभावेऽनिष्टमाह, कर्मसम्बन्धि-त्वमात्रस्यैवेतीति पाठमाद्रियन्ते । ननु यस्य वैतत्कर्मेत्यनेनैव हिरण्यगर्भादिदेवताविशेषसमन्वितकृत्स्नजगत्कारणत्वं सिध्द्य-तीत्येतेषां कर्तेत्यस्य वैयथ्र्यमाशङ्कयाह - जगत्कतृत्वस्येति । ततश्च परस्परसाहित्यादसङ्कोचसिद्धिरिति भावः । विनियोगादृष्टवत इति -भोजनादृष्टवत इत्यर्थः । कर्मवाचिपदलक्षणेति - कर्मसम्बन्धिवाचिपदलक्षणेत्यर्थः।। ननु नहि देवदत्तयज्ञदत्तपुत्र इत्युक्ते देवदत्तं प्रति पुत्रत्वेन यज्ञदत्तं प्रति जामातृत्वेन सम्बन्धः प्रतीयत इत्यस्वरसादाह - यद्वा लिङ्गं ज्ञापकमिति । सूत्रे मुख्यप्राणलिङ्ग-

1.4.17

मुपात्तमिति । ननु प्राणलिङ्गस्यापि जीवलिङ्गितया विवक्षितत्वे जीवलिङ्गादित्येव सूत्रणीयम् , नतु जीवमुख्यप्राणलिङ्गादिति चेन्न;गोबलीवर्दन्यायेन जीवलिङ्गत्वाविशेषेपि प्राणसङ्कीत्तर्नस्य जीवलिङ्गान्तरापेक्षया प्राधान्यं दर्शयितुं पृथगुक्तयुपपत्तेः । अयं वह्निमान् धूमज्ञापकादित्युक्ते धर्मज्ञापकस्यापि धूमद्वारा वह्निज्ञापकत्वेपि प्रापान्यविवक्षया पृथङ्#िनर्देशदर्शनादिति भावः । ननु न प्राणसङ्कीत्र्तनमात्रं जीवलिङ्गम् , अपि तु प्राणोपकरणित्वेन सम्बन्धः । न चात्र प्रकरणे स श्रुतः । "अथास्मिन् प्राण एवैकधा भवति' इति प्राणस्य करणग्रामैकधाभावाश्रयत्वस्यैव प्रतीत्या प्राणस्य जीवोपकरणत्वस्याप्रतीतेरिति चेन्न, अथास्मिन् प्राण इति व्यधिकरणे सप्तम्याविति पक्षे अस्मिन्निति सप्तम्या इदंशब्द निर्दिष्टस्य प्राणाश्रयत्वप्रतिपादनात् प्राणभृत्त्वेन जीवस्यैव प्रसिद्धत्वात्प्राणाधारत्वकीर्तनं लिङ्गं भवतीति नानुपपत्तिः, अत एव द्युभ्वाद्यधिकरणे प्राणाधारत्वं जीवलिङ्गतयोपवर्णितम् ननु "यथा श्रेष्ठी स्वैर्भुङ्क्त्#े' इति प्रतिपादितभोक्तृत्वादिरूपजीवलिङ्गापेक्षया "अथास्मिन् प्राण' इति प्रतिपाद्यस्य प्राणाधारत्व-कीर्तनस्य किं प्राधान्यम् ? प्रत्युत द्युभ्याद्यधिकरणोक्तरीत्या अन्यथासिद्धं चेति चेत् , सत्यम्; स्थितस्य गतेर्वक्तव्यतया केनचिदाकारेण विशेषस्य समर्थनीयत्वात् जीवप्राणयोस्सम्बन्धस्यातिप्रसिद्धत्वाच्च । न तूपासनार्थत्वमप्यतिदेष्टव्यमिति भाव

1.4.18

इति । तल्लिङ्गानन्यथासिद्धावेव तद्विशिष्टोपासनार्थत्वसम्भवादिति भावः । ननु प्राणशरीरब्राहृोपासनार्थं प्राणसङ्कीर्तनं लिङ्गं युज्यत इति भाष्यमयुक्तम् अनन्यथासिद्धप्राणलिङ्गोपन्यासे हि एतादृशमुत्तरं वक्तुं युक्तम् प्राणलिङ्गासद्भावस्य प्रदर्शितत्वा-दित्याशङ्क्याह - प्राणलिङ्गस्य ब्राहृपरत्वमुक्तमित्यर्थ इति । अनन्यथासिद्धब्राहृलिङ्गानुरोधात्प्राणशब्दो ब्राहृपरतया व्याख्या- तव्य इति भाष्यार्थः । इतरत्वविवक्षितत्वमिति भावः । जीवलिङ्गनिर्वहणाकाङ्क्षामिति - प्राणशब्दरूपलिङ्गस्य पूर्वसूत्रनिव्यू-ढत्वात्तदतिरिक्तजीवलिङ्गनिर्वहणाकाङ्क्षमित्यर्थः । जीवलिङ्गानां पुनः कथं ब्राहृपरत्वमितिभाष्यस्याप्येवमेवार्थः । ननु तदुक्तमितिसूत्रखण्डेनैव प्राणसङ्कीर्तनरूपलिङ्गस्यैव लिङ्गान्तरस्यापि निर्वाहसम्भवाल्लिङ्गान्तरनिर्वाहाय सूत्रान्तरं किमर्थम् ? न च प्रकारान्तरेण निर्वाहार्थमन्यार्थमिति सूत्रम् , अत एव प्रकारान्तरेण निर्वाहप्रतिपादकमितिटीकाग्रन्थोयुक्त इति वाच्यम् , जीवप्राणलिङ्गयोद्र्वयोरपि निर्वाहमुक्तवेत्याद्युत्तरग्रन्थविरोधादिति चेन्मैवम् , उत्तरत्रानेन निर्वाहवैषम्यप्रदर्शनेने-त्यादिग्रन्थेनान्यार्थमिति सूत्रस्यातिदेशसूत्रानिवत्त्र्याधिकाशङ्कापरिहारार्थत्वमस्य वक्ष्यमाणत्वेनादोषात् । प्राणस्य स्वाप-प्रबोधयोरसम्भवादाह - अनुपरतव्यापारप्राणवत इत्यर्थ इति । प्राणानामभिरामन्त्रणाश्रवणं न प्राणस्य भोक्तृत्वाभावकृतम् , अपितु प्राणव्यापारोपरतिकृतमिति शङ्कां व्युदसितुं प्राणव्यापारानुपरमकीर्तनमिति द्रष्टव्यम् । किञ्च सुषुप्तिदशायां शरीरेन्द्रि-येभ्योन्यत्वं सुज्ञानमिति तदानीमप्यनुपरतव्यापारात्प्राणादन्यत्वं दुज्र्ञानमिति तस्य ज्ञापनीयतां दर्शयितुं प्राणस्य व्यापारानुपर

1.4.18

मोक्तिः । इति हि श्रुतिरिति -ततश्च "तौ ह सुप्तं पुरुषमाजग्मतु ' इति क्वचिद्भाष्यकोशे पाठो दृश्यते, स तु लेखकानवधानकृत इति भावः । प्राणा जीवा इति -न च "स यदा प्रतिबुध्द्यते' इत्येकवचनान्तनिर्दिष्टस्य जविस्य तस्मिन्नेव वाक्ये "एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते' इति बहुवचनान्तप्राणशब्देन कथं निर्देश इति वाच्यम् ; "अथ यदु चैवास्मिन् शव्यं कुर्वन्ति यदुच नार्चिषमेवाभिसम्भवन्ति' इत्यथास्मिन्नित्येकवचनान्तेन निर्दिष्टस्य अर्चिषमभिसम्भवन्तीति बहुवचनान्तेन निर्देशवत् "ते धूममभिसम्भवन्ति' इतिबहुवचनान्तनिर्दिष्टस्य "एष सोमराजा' इत्येकवचनान्तं निर्देशवच्चेदृशवचनवैरूप्यस्य सोढव्य-त्वादिति भावः। श्रुत्यन्तरेण तदुपपादयतीति - यद्यपि निष्क्रमणशपादानत्वे श्रुत्यन्तरं नोदाह्मतम् । तथापि तदप्यभिप्रेतमिति

1.4.18

भावः। उपक्रमोपसंहारमध्येष्विति - यद्यपि ब्राहृ ते ब्राुवाणीत्युपक्रमस्य ब्राहृपरत्वं सिद्धम् । यस्य वैतत्कर्मेत्यस्य च ब्राहृपरत्वं "जगद्वाचित्वा'दिति सूत्र एव साधितम् । सर्वान् पाप्मनोऽपहत्येति उपसंहारस्यापि ब्राहृपरत्वं सिद्धमेव; अतश्चोपक्रमोपसं-हारैकरूप्यं ब्राहृपरत्व एव । न जीवपरत्वे । तथापि "एहि व्येव त्वा ज्ञापयिष्यामि तं पाणावभिपद्य प्रवव्राज तौ ह सुप्तं पुरुष-मीयतु'रित्युपक्रमस्य यष्टिघातोत्थापनप्रतिपादकमध्यमस्य "इदं शरीरमात्मानमनुप्रविष्ट आलोमभ्य आनखेभ्यः "तद्यथा श्रेष्ठी स्वैर्भुङ्क्त्#े' इत्याद्युपसंहारस्य च जीवविषयत्वावगमात्प्रतर्दनविद्यायामिवोपसंहारे भूयसां लिङ्गानामश्रवणात्सर्वान् पाप्मानोऽपहत्येति उपसंहारस्य च स यदा विजज्ञौ अथ हत्वाऽसुरान्विजित्य सर्वेषां देवानां श्रैष्ठयं स्वाराज्यं परीयाय' इति पूर्ववाक्यश्रुता सुरजयस्वाराज्यादिवदापेक्षिकसर्वपापहतिस्वाराज्यपरतयाप्युपपत्तेः स्वत्त्रेण जीवःप्रतिपाद्यत इत्यभ्यधिकोत्था-नसमभवादिति भावः। वस्तुतस्तु वैयधिकरण्य निर्देशात्तन्नयायो नावतरतीति शङ्काभिप्रायः। अस्त्यवकाश इति -यद्यपि जीव-प्रतिबोधनस्यान्यार्थत्वे प्रतर्दनविद्यान्यायोऽनपेक्षित एव, जीवलिङ्गस्य त्वाष्ट्रहनादिवज्जीवशरीरकपरमात्मनिष्ठतया योजनी-यत्वात्, तथापि यथाकथचित् जीवलिङ्गान्यथासिद्धिरेव प्रतर्दनविद्यान्याय इत्यभिप्रेत्य तथोक्तमिति द्रष्टव्यम् । अवस्थान्त-रत्वावगमादिति -अथ यदा सुप्तः स्वप्नं न कथञ्चन पश्यतीत्यन्वयः। ततश्चाथशब्दोपक्रमं वाक्यमथशब्दश्च पूर्वप्रकृतादर्थान्तरवाची सन् अर्थान्तरद्योतकस्तदाशब्दश्चाध्याहाय्यर् इति भावः। स्वप्नाभावावच्छिन्नकालादिति -सुषुप्त्यवच्छिन्नकालादित्यर्थः। अपृष्टः

1.4.18

करणग्रामाप्ययः कथभच्यत इति -"तदैनं वाक् सर्वैर्नामभिस्सहाप्येति' इत्यादिनेतिशेषः। क्व सुप्त इत्यर्थ इति - यत्र यदा जीव एष सुप्तस्तदा क्व सुप्त इति श्रुत्यर्थ इति भावः। उपरतव्यापारं मन इथ्यर्थ इति -मनस आदानं नाम मनोव्यापारोपरमसम्पादनम् , अर्थान्तरस्यासम्भवादिति भावः। अनेनेति - आदानस्य व्यापारोपरमसम्पादनरूपतया इन्द्रियजन्यज्ञानानामप्यादानं तद्य्वापा-

1.4.18

रोपरक्तिरूपमित्यर्थः। तेषां मनस्सापेक्षत्वादिति -मनस आदाने मनोव्यापारोपरतिरूपे पर्यवसिते सति तत्साहित्येन निर्दिश्य-मानानां वागिन्द्रियादिजन्यज्ञानानामप्यादानस्य तादृग्रूपस्यैव वक्तव्यत्वात् । इतरथा एकक्रियायां साहित्यभङ्गप्रसङ्गात् ततश्च मनोविषये यादृश आदानशब्दार्थस्तादृश एव प्राणविज्ञानेपीति भावः। यद्वा प्राणानां विज्ञानेनेति श्रुतेरयमर्थः। प्राणादीनां वागादिना यद्विज्ञानं स्वस्वविषयग्रहणसामथ्र्यापादनं मनोव्यापाररूपं सामथ्र्यम् । तेन सह मन आदाय निव्र्यापारं मनः कृत्वेत्यर्थः। एतत्परतया प्राणशब्दवाच्येत्यादिग्रन्थोपि योजनीयः । ज्ञानेन सह मन आदायेति वक्तव्ये मनसा सहत्युक्तिः फलितात्र्रकतनपरा, अतश्च श्रुत्या कण्ठोक्तेन्द्रियव्यापारोपरमे फलितत्वोक्तेर्न विरोध इति द्रष्टव्यम् । समानप्रकरणस्थप्राणा-त्मशब्देति -अथास्मिन्प्राण एवैकधा भवति एतस्मादात्मनः' इति

1.4.18

कौषीतकीवाक्यस्थप्राणात्मशब्देत्यर्थः। वैयधिकरण्यनि-र्देशाच्चेति - तं मामायुरमृतमुपास्व' इतिवत्सामानाधिकरण्यनिर्देशाभावादित्यर्थः। ननु "तदभावो नाडीषु तच्छØतेः' इत्यत्र "तद्यत्रैतत्समस्तस्संप्रसन्नः स्वप्नं न विजानाति आसु तदा नाडीषु सुप्तो भवति' इति वाक्यवशान्नाडीनां सुषुप्तिस्थानत्व-वर्णनात् "अथ या एता ह्मदयस्य नाड¬स्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्य' इत्यस्येहापि प्रत्यभिज्ञानान्नाडीनामपि सुषुप्त्याधारत्वमेव । ततश्च "क्वैष एतद्बालाके पुरुषोऽशयिष्टेति सुषुप्तिस्थानप्रश्नः "य एषोऽन्तह्र्मदय आकाशस्तस्मिञ्छेते' इति वाजसनेयके सुषुप्तौ शयनशब्दप्रयोगात् क्व वा एतदभूदिति एकधाभावप्रश्नः, तत्र प्रथमप्रश्नस्यासु तदा भवति यदा सुप्तः स्वप्नं न कथञ्चन पश्यति' इति यदातदाशब्दयोरन्वयस्य युक्तत्वात् द्वितीयप्रश्नस्य प्राण एवैकधा भव-तीत्युत्तरमिति किं न स्यादिति चेत्; सत्यम् ; नाडीनां सुषुप्तिस्थानत्वं समर्थितम् , अथापि अत्र "हिता नाम नाड¬ः' इति श्रूयमाणा नाड¬स्ता इत्यत्र प्रमाणाभावात् , प्रत्युतास्मिन् प्रकरणे "अथ यदा सुषुप्तो भवति यदा न कस्य न वेद हिता नाम नाड¬ो द्वासप्ततिस्सहरुााणि ह्मदयात्पुरीततमभिप्रतिष्ठन्ते । आभिः प्रत्यवसृप्य पूरीतती शेते ' इति सुषुप्तिकाले पुरीततिशयनं तत्पूर्वकाल #े हितनामकनाडीसञ्चरणमिति स्पष्टं प्रतिपादनात् हितनामकनाडीप्राप्तेस्सुषुप्तिसमये असम्भवात् स्वप्नप्रश्नोत्तरमेव नाडीप्वित्यस्येतिसिद्धम् । नन्वस्मिन्नधिकरणे पुरुषस्य वेदितव्यतयोपन्यासेन प्रधानपूवेपक्षस्यै वानुत्थानात्कथमुपसंहारे न तन्त्रसिद्धस्य पुरुषस्य तदधिष्ठितस्य वा प्रधानस्येति भाष्यमित्याशङ्गयमाह -प्रधानोपादानमिति । इति जगद्वाचित्वाधिकरणम् ।।

1.4.19

बृहदारण्यके षष्ठे - "अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः । मैत्रेयी कात्यायनी चेति । तयोर्ह मैत्रेयी ब्राहृवादिनी बभूव, स्त्रीप्रज्ञैव तर्हि कात्यायनी, अथ ह याज्ञवल्क्योऽन्न्यद्वृत्तमुपाकरिष्यन्मैत्रीयीति होवाच याज्ञवल्क्यः प्रव्रजिप्यन्वा अरे अह-मस्मात्स्थानादस्मि हन्त ते अनया कात्यायन्या अन्तं करवाणीति स होवाच मैत्रेयी यन्नु म इयं भगोस्सर्वा पृथिवी वित्तेन पूर्णा स्यात् । कथं तेनामृता स्यामिति स्यान्न्वहं तेनामृता आहो नेति होवाच याज्ञवल्क्यः। यथैवोपकरणवता जीवितं तथैव जीवितं स्यात् । अमृतत्वस्य तु नाशास्ति वित्तेनेति सा होवाच मैत्रेयी । येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव भगवन्वेत्थ तदेव मे ब्राूहीति स होवाच याज्ञसल्क्यः प्रिया खलु नो भवती सती प्रियमाववर्धतर्हि भवति ते व्याख्यास्यामि व्याचक्षाणस्यं मे निदध्यास्वेति । स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवति न वा अरे जायायाः कामाय जाया प्रिया भवति आत्मनस्तु कामाय जाया प्रिया भवति न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति नवा अरे वित्तस्य अ नवा अरे पशुनां अ नवा अरे भूतानां अ नवा अरे सर्वस्य अआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मन्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं ब्राहृ तं परादात् योऽन्यत्रात्मनो ब्राहृ वेद क्षत्रं तं परादाद्योन्यत्रात्मनो क्षत्रं वेद लोकास्तंअदेवास्तंअभूतानि तंअसर्वं तं परादात् योन्यत्रात्मनस्सर्वं वेद इदं ब्राहृ इदं क्षत्रं इमा लोका इमे देवा इमे वेदाः इमानि भूतानि इदं सर्वं यदयमात्मा स यथा दुन्दुभेर्हन्यमानस्य न बाहृान् शक्नुयात् ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः । स यथा शङ्ख्ध्यमानस्य वा शब्दो गृहीतः । स यथा वीणायै वाद्यमानायै न बाहृान् शब्दान् शक्नुयाद्ग्रहणाय वीणायास्तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः । स यथाद्र्रेधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्ति एवं वा अरे अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदस्सामवेदो अथर्वाङ्गिरस इतिहासपुरुणं विद्या उपनिषदः श्लोकाः सूत्राणि च भूतानि अस्यैवैतानि सर्वाणि निश्वसितानि स यथा सर्वासामपां समुद्रमेकायनमेवं सर्वेषां स्पर्शानां जिह्वैकायनमेवं सर्वेषां गन्धानां घ्राणमेकायनमेवं सर्वेषां कर्माणां हस्तावेकायनमेवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायतनं स यथा सैन्धवघनोऽनन्तरो बाह्रः कृत्स्नो रसघन एव, एवं वा अरेऽमात्मानन्तरोबाह्रः कृत्स्नः प्रज्ञानघन एव तेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीति अरे ब्रावीमीति होवाच याज्ञवल्क्यस्य होवाच मैत्रेयी अत्रैव मा भगवान् मोहान्तरमापिवत् न वा अहं विजानामीति स होवाच न वा अरे मोहं

1.4.19

ब्रावीमि अविनाशी वा अरेऽयमात्मानुच्छित्तधर्मा यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतरं रसयते तदितर इतरमभिवदति तदितर इतरं श्रृणोति तदितर इतरं मनुते तदितर इतरं स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयात्स एष नेति नेत्यात्मा अगृह्रो नहि गृह्रते अशीर्यो न हि शीर्यते असङ्गो हि सज्जते अव्यथतो न व्यथते न रिष्यति विज्ञातारमरे केन विज्ञानीया-दित्युक्तानुशासनासि मैत्रेयि एतावदेव स्वल्वरे अमृतत्वमिति होक्तवा याज्ञवल्क्यो विजहार' इति श्रूयते । एवं चतुर्थपाठके किञ्चिद्भेदेनायं स्दर्भः पठितः। स्त्रीप्रजा -इतरासां स्त्रीणां यादृशी तादृशी अस्याः प्रज्ञा, ब्राहृवादिनी न भवतीत्यर्थः। अन्तं करवाणि युवयोद्र्रव्यविभागं करवाणीत्यर्थः। शिष्टमाकरे स्पष्टम् । कर्मफलभूतभोक्तृत्वश्रवणादिति -पतिजायापुत्रादिसम्बन्धेन भोक्तृत्स्याप्रतीयमानत्वादिति भावः। भाष्ये- मध्येपि विज्ञानघन एवेति । नचैतदुत्पत्तिविनाशकवाक्यं प्रकृतद्रष्टव्यार्थविषयं न भवति, किन्तु तत्सृज्यात्मविषय इति वाच्यम् , षष्ठे मैत्रेयीब्राहृणे "यथा सैन्धवघनोनन्तरो बाह्रः कृत्स्नः प्रज्ञानघन एव

1.4.19

एतेभ्यो भूतेभ्यस्समुत्थाय' इत्यादिना प्रकृतस्य द्रष्टव्यात्मन एवायमात्मेति परामृष्टस्योत्पत्तिविनाशवर्णनात् , एवं वा अरे इदं महद्भूतमनन्तमपारं विज्ञानघन एवैभ्यो भूतेभ्यः' इति चतुर्थे मैत्रेयीब्रााहृणेपि प्रकृतपरामर्शीदशब्दस्य सत्त्वेनोत्पत्तिविनाश-प्रतिपादनं द्रष्टव्यात्मविषयमेवेति भावः। ननु कथमुपसंहारगतस्य विज्ञातारमरे इत्यस्य जीवप्रत्यायकत्वं तस्य जीवपरसाधा-रणत्वादित्यत आह - जीवहेत्वनुगृहीत इति । केचित्तु - "विज्ञानं यज्ञं तनुते ' "विज्ञानमयः' इत्यादौ जीवस्यैव मनोवृत्तिवि-शेषत्वरूपविज्ञानमयत्वप्रसिध्द्या विज्ञानघनशब्दस्य जीवल्किवाचितया जीववाचित्ववत् विज्ञातृशब्दस्यापि तथोत्वोपपत्तौ दोषाभावादिति वदन्ति । तस्य तदन्यत्वमुक्तमिति - उत्तरग्रन्थार्थोपयुक्ततयेति भावः । अन्यत्वदर्शनं नामेति -अन्यत्व निषेध इति भाष्यस्य "योन्यत्रात्मनस्सर्वं वेदे 'ति श्रुत्यनुसारादन्यत्वदशर्ननिषेध इत्यर्थ सिद्धवत्कृत्यैत्तदुक्तमितिद्रष्टव्यम् । निष्कृ-ष्टस्वरूपेति - अन्यत्त्वदर्शनं नामात्मस्वरूपे स्वान्यभूतदेवतादित्वदर्शनं निषिध्यत इत्यर्थः । ततश्च श्रुतेः पूर्वपक्षेऽयमर्थः, अन्यत्र द्वितीयार्थे त्रल्प्रत्ययः । आत्मनोऽन्यद्ब्राहृक्षत्रादि सर्वं य आत्मत्वेन वेद तं सव्रमपि ब्राहृक्षत्रादिलक्षणं पराकुर्यादिति ।

1.4.19

प्रबुद्धस्य - उत्पन्नतत्त्वज्ञानस्येत्यर्थः । परैरुच्यत इति - साङ्खयैः पूर्वपक्षिभिरुच्यत इत्यर्थः । अल्पशक्तित्वं मात्राचाऽभिप्रेतमिति - मात्रपदस्येतरव्यच्छेदार्थस्य महाशक्तिव्यवच्छेदकत्वमिति भावः । निव्र्यापारस्येत्येतन्मुक्तस्यैतद्विशेषणतया व्याख्यायेदानीं पुरुषमात्रस्येत्येतत्परतया व्याचष्टे - यद्वा कर्मपरवशस्येत्यादिना । स्ववाक्यत्वज्ञापनायेति - स्ववाक्यत्वात्प्रयुक्त इत्यर्थः ।

1.4.19

स्वतन्त्रस्यापर्यनुयोज्यत्वादिति भावः। ततश्च स्ववाक्यत्वज्ञापनस्य किं प्रयोजनमिति न चोदनीयम् । नतु देवादिदृष्टिनिषेध इति- आत्मस्वरूप इति शेषः । प्रागुक्तहेतुनिबन्धनत्वादिति - ब्राहृात्मकत्वस्य प्रागुक्तत्वाद्भेदनिषेधः, अब्राहृात्मकभेदनिषेध इत्यर्थः। यत्र हि देहात्मविवेकं प्रकृत्य ज्ञानैकाकारत्वेनात्मनामैक्यं प्रतिपाद्यते तत्र श्रूयमाणस्य भेदनिषेधस्यैव देवादिभेदनिषेधत्वमिति भावः। मैत्रेयीब्रााहृणानामनेकत्वादिति - चतुर्थे षष्ठे च मैत्रेयीब्रााहृणस्य दर्शनादिति भावः। मैत्रेयीब्रााहृणानामिति बहुत्वमवि-वक्षितम् । काण्वमाध्यन्दिनपाठभेदेन वा द्रष्टव्यम् । भाष्ये - प्रतिनियतदेशकालस्वरूपपरिमाणमिति । लोके हि किञ्चिद्वस्तु

1.4.19

कÏस्मश्चिद्देशे कÏस्मचित्काले कञ्चित्पुरुषविशेषं प्रति तारतम्येन प्रियतमतामनुभवतीत्यर्थः। परतन्त्रो भोक्ता भुङ्क्त इति -स्वेष्ट-निवृत्त्यर्थं प्रीतिं कुर्वन् स्वातन्त्र्यं लभते, परेष्टनिवृत्त्यर्थे प्रीतिमतः पारतन्त्र्यमवश्यम्भावीति भावः। भोक्ता भक्त इति प्रिय-शब्दस्य भोत्यत्वार्थकत्वाद्भोक्तृत्वमपि सिद्धमेव, पत्युःकामाय पतिर्भोग्य इत्युक्ते पत्युः कामाय पतिर्भुङ्क्त इत्यस्य लाभादिति भावः। आत्मशब्दवैपरीत्याभावादिति -आत्मशब्दवैरूप्याभावादित्यर्थः। तस्माज्जीववाचिशब्दस्यापीति -"प्रतिज्ञासिद्धेः'रित्या-दिसूत्रत्रयानुरोधेन जीववाचिशब्दमपि परमात्मपर्यन्तं प्रापयितुं समर्थपरमात्मानुगुणबहुवाक्यस्वारस्यं भङ्क्तवा अन्यतरात्म-शब्दस्य वा आत्मशब्दद्वयस्य वा जीववाचित्वाश्रयणापेक्षया आत्मशब्दद्वयस्यापि परमात्मपरत्वसमर्थनस्वरसस्य तत्परत्वा

1.4.19

श्रयणमेव युक्तमिति भावः। अर्थैकरूप्यवर्णनं युक्तमिति -ननु परमात्मसङ्कल्पनिर्वृत्तये पत्यादयः प्रिया भास्तीति पतिजायादिषु प्रियत्वापादकत्वेनानन्दरूपत्वसमर्थनपरत्वमात्मनः कामायेतिवाक्यस्य न युज्यते, पतिजायादिषु कदाचित्प्रियत्वापादनेना-नन्दरूपत्ववत् कदाचित्प्रियत्वापानेनानन्दरूपत्वस्यापि प्रसङ्गात् । किञ्च "न वा अरे पत्युः कामाये 'तिवाक्यानां परमात्म-विषयत्वे प्रसिद्धिद्योतको वैशब्दोपि न सङ्गच्छते, नहि परमात्मेच्छाधीनां पतिजायादीनां प्रियत्वमिति लोकसिद्धम् , न च श्रुतिप्रसिद्धं तदिति वाच्यम्; अनधीतिनीम् -अविज्ञातश्रुत्यर्थाम् मैत्रेयीं प्रति लोकप्रसिद्धेरेव द्योतनीयत्वात् , ततश्चात्मनः-कामायेत्यात्मशब्दस्य जीवपरत्वमेवोचितम् । तथाहि सर्वेषामपि स्वात्माःप्रियः पतिजायादयोपि प्रिया इति अनुभवसाक्षिक-मेतत् , तत्र पतिजायादीनां स्वात्मवतिरिक्तानां सर्वेषां प्रियत्वं पतित्वादिप्रयुक्तं न भवति । अपितु स्वात्मप्रयुक्तमेव, तेषां स्वेष्टसम्पादकत्वदशायामिव स्वानिष्टसम्पादकत्वदशायां पि#्रयत्वादर्शनात् , स्वात्मनस्तु पतिजायादीन् प्रति इष्टसम्पादकत्व-दशायामनिष्टसम्पादकत्वदशायां चाविशेषेण स्वप्रियत्वदर्शनात् पतिजायाद्ययपेक्षया आत्मनोऽतिशयितपुरुषाथत्र्वात् जीवा-त्मैव द्रष्टव्य इत्ययमेवार्थो युज्यत इति । अत्र केचित् -अस्त्वेवमात्मनस्तु कामायेतिवाक्ये आत्मशब्दस्य जीवपरत्वम् , अमृ-तत्वप्राप्त्युपायत्वादिभिः प्रकरणस्य परमात्मपरत्वादढर्¬ावगमात् द्रष्टव्यत्वं परमात्मन एवेति एतावदिह नस्सिषाधयिषितम् । आत्मनः कामायेति सन्दर्भस्य जीवपरत्वे का नः क्षतिः, नच पूर्ववाक्यस्य जीवपरत्वेऽनन्वयः शङ्कनीयः। यस्मात्स्वयमेव स्वस्य परमप्रेमास्पदं तस्मात्स्वस्य महापुरुषार्थसिध्द्यौ परमात्मा द्रष्टव्य इत्यर्थसम्भवाददोषात् , नचात्मशब्दवैरूप्यं दोषः। "स्याच्चैकस्य ब्राहृशब्दव'दितिन्यायेन वैरूप्यस्य सोढव्यत्वात् । सूत्रस्यैकप्रकरणविषयत्वात्प्रकरणस्य महावाक्यरूपत्वादिति -सूत्रस्य प्रकृतम-हावाक्यविषयत्वादिति निष्कृष्टार्थः । सूत्रेणाविवक्षितस्स्यादिति - नन्वेवं विज्ञानघन एवेत्यादिमध्यवाक्यान्वयोपि तुल्यन्याय-तया कथमविवक्षितस्स्यादिति चेत् सत्यम् ; उपक्रमस्य प्रधानत्वात् तद्विवक्षणमावश्यकम् , अत प्रवोक्तम् "उपक्रमश्च महावा-क्यावयवेषु प्रधानभूत ' इति । जीवशब्देन परमात्माभिधाननिर्वाहपरमिति - ननु जन्मविनाशवत्त्वरूपजीवलिङ्गस्य परमात्म-परत्वनिर्वाहपरत्वमित्येव वक्तव्यम् जीववाचिशब्दस्य तत्राभावात् , विज्ञानघनशब्दस्य जविवाचित्वे प्रमाणाभावादिति चेत् , विज्ञानघनशब्दस्य जीववाचित्वाभावेपि मनोवृत्तिविशेषरूपविज्ञानघनत्वस्य जीवलिङ्गतया जीवलिङ्गवाचिनां विज्ञानघनोत्था-नविनाशादिशब्दानां जीववाचिशब्देन ग्रहणोपपत्तिरिति भावः। यादवप्रकाशोक्तयोजनाव्यावृत्तिरिति -प्रतिज्ञासिद्धेरित्यादिसूत्र-त्रयार्थोपि सूत्रकाराभिमत इति यादवप्रकाशयोजनाव्यावृत्तिरित्यर्थः। जीववाचिशब्देन परमात्माभिधानस्य जीवपरमात्मैक्य-

1.4.21

सूचकतया तल्लिङ्गत्वेपि एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादकत्वाभावादाह- एकविज्ञानेन सर्वविज्ञानप्रतिज्ञापपादकेति । ननु जीवात्मशब्देन परमात्माभिधानस्य प्रागप्रस्तुतया तल्लाभः कथमित्याशङ्कयाह - हेतुवशादिति । योग्यतावशादित्यर्थः। ततश्च एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादककार्यकारणभावकृत्यैक्यदृढीकरणाय जीववाचिशब्देन परमात्माभिधानमिति सूत्रार्थः। अयं यादवप्रकाशपक्ष इति - आश्मरथ्यमतस्य सूत्रकारानभिमत्वादेतत्पक्षस्याप्यनभिमतत्वमिति भावः। कार्यात्मनेति -कार्या-त्मना कारणात्मना च वर्तमानयोर्जीवब्राहृणोः कार्यत्वकारणत्वात्मना भेदस्सत्त्वादिना अभेद इत्यर्थः।। "आमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च । मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः' इति पाञ्चरात्रकमतमस्मिन्सूत्रे उपन्यसत इति । यद्वा

1.4.22

वाचस्पतिनोक्तं न तन्त्रमूलं पश्यामः। ननु यादवाभिमतस्य स्वाभाविकपक्षस्य पूर्वमेव भाषिततया शङ्करभास्करमतयोरेव दूषयिषितत्वात् , तनमते स्वाभाविकभेदानङ्गीकारात्स्वाभाविकौपाधिकविकल्पाऽस्मिन्सूत्रे इत्याशङ्कयाह - सम्भावितयो

पक्षयोः पराभिमतमिति । अत उपाधेः पारमाथ्र्यापारमाथ्यर्पक्षद्वयप्रीति - भास्करशङ्कापक्षद्वयेपीत्यर्थः। ब्राहृण्यच्छेद्य इति - ब्राहृ

1.4.22

स्वरूपोच्छित्वासम्बन्धाभावात् स्वरूपमात्रसम्बन्धित्वादुपाधेर्हेयोपाध्द्याश्रयैक्यप्रतिसन्धानस्य जीवपरयोरविशिष्टत्वात् जीवे-श्वरविभागाभावप्रसङ्गादित्यर्थः। तर्हि कथयभिनिष्पत्तिश्रुतिरिति - अभिनिष्पत्तिशब्दस्यापूर्वरूपप्रादुर्भावे प्रसिद्धत्वादिति भावः। न क्वचिदप्यस्तीति - उत्कटतया नास्तीत्यर्थः। अचिदन्तः प्रवेशस्य स्पष्टत्वादिति - "हन्तहमिमास्तिरुाो देवताः अनेन जीवेनात्मना-नुप्रविश्य' इत्यचिदनुप्रवेशस्य स्पष्टं प्रतीतेस्स्पष्टतया तज्ज्ञापनार्थमित्यर्थः। स्पुटतरार्थश्रुत्यन्तरेति -"य आत्मनि तिष्ठन्' इत्यादिः


1.4.22

स्पुटतरार्थश्रुतिः। अभेदश्रुत्याभिप्रायेणेति -जगत्सृष्टिप्रलयाभिधायिश्रुतीनामप्युपादानोपादेयभावप्रतिपादनमुखेनाभेदप्रतिपा-दनपरत्वाभावादिति भावः। एतन्निर्वाहस्वीकारहेतुरिति -काशकृत्स्नीयनिर्वाहस्वीकारहेतुरित्यर्थः। याज्ञवल्क्यजनकसंवाद इति । ततश्च मैत्रेयीब्रााहृणस्यापि याज्ञवल्क्यकतृकत्वात् "अन्यश्च राजन् स परः' इत्यादियाज्ञवल्क्यकत्र्तृकश्लोकसमानार्थत्वं वक्तव्यमितिभावः। अन्यश्च राजन् स पर इति - ननु पूर्वत्र "अन्यश्च शश्वदव्यक्तं तथाऽन्यः पञ्चविंशकः। तत्स्थं समनुपश्यन्ति तमेक इव साधवः' इति लोके अव्यक्तिशब्दितदेहस्थमात्मानं लोकानुभवप्रवणबुद्धयो देहाभेदेन पश्यन्तीत्युक्तत्वात् अस्मिन्नपि श्लोके तदेकाथ्र्यप्रत्यभिज्ञानात् "अन्यञ्च राजन् स परः' इति श्लोकोपि देहात्मविवेकपर एव किं न स्यात् ? नच परशब्दः परमा-त्मन्येव प्रयोगार्हो न देह इतिवाच्यम्;"महतः परमव्यक्त'मित्यादौ शरीरेपि परशब्दप्रयोगादिति चेन्न; एकप्रकरणगतयोः श्लोकयोरेकार्थत्वे अन्तरवैयथ्र्यप्रसङ्गात् । "अन्यञ्च शश्वदव्यक्त'मितिश्लोको देहात्मविवेकपरः, "अन्यश्च राजन्स पर' इति श्लोकस्तु "जुष्टं यदा पश्यत्यन्यमीशम्' "पृथगात्मानं प्रेरितारं च मत्वा' इत्यादिश्रुत्यनुसारात् जीवविलक्षणासंसारिपरमात्म-

1.4.22

त्मप्रतिपादनपर इत्येव युक्त इति भावः। नन्ववस्थितिमात्रेण तदात्मकत्वे आकाशस्यापि तदात्मकत्वप्रसङ्ग इत्यत आह-अव-स्थानं च शरीरप्रतिसम्बन्धितयेति । ननु शरीरतया अवस्थानं हि आत्मतयाऽवस्थानम् । ततश्चात्मतयावस्थितिहेतुकं सर्वात्म-कत्वं किं सर्वशरीरत्वम् ? उत सर्वस्वरूपत्वम् ?। नाद्यः, हेतुहेतुमतोरभेदात् । न द्वितीयः, सर्वस्यापि तत्स्वरूपत्वाभावादिति चेन्न; सर्वात्मकत्वं नाम सर्वसामानाधिकरण्यनिर्देशार्हत्वम् तञ्च सर्वात्मभावनिबन्धनमित्यदोषः। सर्वेन्द्रियेति -"सर्वेन्द्रियान्तः करणं पुरुषाख्यं हि यज्जगत् । स एव' इति सामानाधिकरण्यं कृत्वा तत्र हेतुमाह -सर्वभूतात्मा विश्वरूपो यतोऽव्यय इति । चारु-रूपा सालभञ्जिकेति -तत्र रूपशब्दस्य स्वरूपपरत्वदर्शनादिति भावः। ततश्च त्वमित्यस्य ततस्त्वमुत्पन्न इति भ्राÏन्त व्युदस्यति ततश्च त्वमितीति । ननु सर्वगत्वादित्यनेन व्याप्तिमात्रं सिध्येत् कथं शरीरत्वमित्यत आह-शरीरं हीति । नृपनभोभृत्येति-नृपन-प्रतिद्वन्द्वी, भृत्यः, नभःप्रतिद्वन्द्वी कुम्भ इति द्रष्टव्यम् । तच्छब्दवाच्यत्वस्य शरीरशरीरिभावनिबन्धनत्वे "तदनु प्रविश्य सञ्च त्यञ्चा-भवत् ' "सर्वं स्वल्विदं ब्राहृ' इति श्रुत्योः प्रमाणतामाह-अत एव तदनुप्रविश्येति । ननु नास्मिन्वाक्ये तच्छब्दवाच्यत्वं शरीरशरीरिभावनिबन्धनमिति प्रतीयते, अपि तु अनुप्रवेशनिबन्धनमिति प्रतीयत इत्याशङ्कयाह-अन्तःप्रवेशनेनेति । ननु सर्वं स्वल्विदं ब्राहृेति वाक्ये ब्राहृधीनोत्पत्तिस्थितिलयत्वाद्ब्राहृ सर्वशब्दवाच्यमित्येव प्रतीयते, न तु शरीरशरीरिभावनिबन्धनमि-

1.4.22

त्याशङ्कयाह-अननशब्दवाच्या स्थितिरिति । सदायतनशब्देन स्थितिहेतुत्वाभिधानादिति- "सन्मूलाः सत्प्रतिष्ठाः' इत्याभ्यां

वाक्याभ्यामुत्पत्तिलययोस्सदधीनत्वमुक्तवा स्थितेस्सदधीनत्वं वक्तुं प्रवृत्तं सदायतना इतिवाक्यं धारकत्वं दर्शयति, अतोऽ-वसीयते सदायतनशब्दनिर्दिष्टं धारणं स्थित्यर्थमिति भावः। हेतुत्वोपन्यासादिति -"सर्वं स्वल्विद'मितिवाक्य इति शेषः। शरीरशरीरिभाव एवेति -हेतुत्वाक्षिप्तशरीरशरीरिभाव एवेत्यर्थः। न केवलं सर्वश्रुत्यविरोधमुख्यत्वोपपत्तेरिति -हेतुत्वं सिद्धमि-त्युत्तरत्रान्वयः। "आत्मनो वा अरे दर्शनेनेति आत्मनि स्वल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदित'मिति षष्ठपाठो भाष्ये उदाह्मतः, आत्मनो वा अरे दर्शनेनेति तचुर्थाध्यायपाठष्टीकायामुदाह्मत इति द्रष्टव्यम् । लक्षणाभिधानमिति -जगत्कारणत्व-लक्षणाभिधानमित्यर्थः। अन्यत्रात्मन इत्यस्यात्मानं विनेत्यस्यार्थस्य क्लिष्टत्वादाह-यद्वान्यत्रेति । परैरेवमर्थ उक्त इति । दुन्दु-भेर्हन्यमानस्येत्यनेन हन्यमानदुन्दुभिप्रभवशब्दसामान्यं लक्ष्यते, दुन्दुभेस्त्वित्यनेनापि तदेव लक्ष्यते, दुन्दुभ्याघातस्सङ्ग्रा-मभूयिष्ठवीररसाद्यनुकूलो दुन्दुभिध्वनिविशेषः। ततश्चायमर्थः- यथा दुन्दुभिशब्दसामान्यस्य विशेषभूतान् शब्दान् दुन्दुभि-शब्दसामान्याद्बाह्रत्वेन ततो निष्कृष्य न कश्चिदपि गृहीतुं शक्नुयात् , किन्तु दुन्दुभिशब्दसामान्यग्रहणेनैव तद्विशेषशब्दो गृहीतो भवति । दुन्दुभिशब्द इत्येव हि दुन्दुभिशब्दविशेषा गृह्रन्ते, ततश्च दुन्दुभिशब्दसामान्यात् दुन्दुभ्याघातशब्दसामान्याच्च यथा तद्विशेषा न भिद्यन्ते, एवं चिद्रूपात्मस्फुरणं विना स्फुरणशून्यं जगच्चिदात्मनो न व्यतिरिच्यत इत्याशयः। शङ्खवीणा-दिदृष्टान्ता अप्येवमेव योजनीया इत्युक्तमित्यर्थः। दुन्दुभिशब्देऽध्यस्ता इति पाठो दृश्यते, तस्यायमर्थः, दुन्दुभिशब्दादव्यति-रिक्ता इति । विशेषस्य सामान्येऽध्यासाभावादिति द्रष्टव्यम् । उपरितनयोरिति -ननु दुन्दुभिघातशब्दस्य दुन्दुभ्याघातप्रभवशब्दे-लक्षणा, नतु दुन्दुभिशब्दमात्रस्य, ततश्चोपरितनयोर्दुन्दुभिशब्दयोरित्युक्तम् । दुन्दुभिशब्ददुन्दुभ्याघातशब्दयोरित्येव वक्तव्य-मनञ्च

1.4.22

मिति चेन्न; अस्यापि वाक्यस्य तत्रैव तात्पर्यात् पूर्ववाक्यवैयथ्र्यं चेति -यद्यपि दुन्दुभेर्हन्यमानस्येति वाक्यस्य दुन्दुभिशब्दसा-मान्यान्निष्कृष्य विशेषशब्दान् गृहीतुं शकोतीत्यर्थप्रतिपादकतया साफल्यमस्ति, तथापि नात्यन्तप्रयोजनम् । दुन्दुभेस्तु ग्रहणेनेत्यादिना दुन्दुभिशब्दसामान्यग्रहणेनैव विशेषशब्दो गृह्रत इत्यर्थप्रतिपादनात्तेनैव तद्ग्रहणमन्तरेण विशेषशब्दो न गृह्रत इत्यर्थस्यापि सिद्धत्वादित्यत्र तात्पर्यात्, विवक्षितार्थलाभे पदान्तरेण सिद्धे तदधिकपदान्तरवैयथ्र्ये दृष्टान्तमाह-नहि गङ्गायामिति।

आघातशब्दस्येति -दुन्दुभ्याघातशब्दस्येत्यर्थः। न च दुन्दुभिशब्दावान्तरविशेषो दुन्दुभ्याघातसंज्ञितश्शब्दविशेषोऽस्तीत्युक्तमिति वाच्यम्; तत्र प्रमाणाभावात् । सत्यपि तस्मिन् दुन्दुभेस्तु ग्रहणेन विशेषा गृहीता भवन्तीत्यनेनैव चारिताथ्र्यादिति भावः। परेणोपादीयमानेत्यादि - दुन्दुभितदाहन्तृपुरुषान्यतरापसरणेनेत्यर्थः। वाक्यत्रये द्रष्टव्य इति -समानार्थकमितिशेषः। तृतीयान्तयो-

1.4.22

रित्यादिशब्दरोरिति-स यथाद्र्रैघाग्नेरित्यादिना जगदेककारणत्वमेकायनमित्यादिना करणग्रामनियमनं चेत्यन्वय इति भावः। वृत्तिविशेषा बहवो दर्शिता भवन्तीति -स्पर्शानामिति बहुवचनेनैव शीतोष्णवैविध्ये सिद्धे सर्वग्रहणं शीतोष्णाद्यवान्तरवैविध्य-प्रदर्शनार्थमित्येव वक्तव्ये वृत्तिविशेषा बहवो दर्शिताभवन्तीति । कथमुच्यते ? नहि स्पर्शादिशब्दा वृत्तिविशेषपराः, तथाहि सति अनुवृत्तमयनत्वं नाम तदुपादातृत्वमिति क्लेशो नाश्रयणीयस्यादिति चेत् सत्यम्; वृत्तिविशेषा बहवो दर्शिता भवन्तीत्येतस्य फलितार्थकथनरूपतया अदोषात् । सैन्घवस्विल्य इतिवाक्यस्यापीति - चतुर्थगतस्यापीत्यर्थः। तस्यैवेति -तादृशप्रेमास्पदस्येत्यर्थः। उद्बुद्धस्येति - असङ्कुचितज्ञानस्येत्यर्थः। श्रुत्यन्तरार्थप्रत्यभिज्ञानादिति - "न संज्ञास्ति' न स्मरन् इत्यनयोरैकाथ्र्यादिति भावः।

1.4.22

स्वाभाविकत्वं फलितमिति -उपाध्यनुक्तेरिति भावः-समित्येकीकार इति । संज्ञास्तीत्यत्रेत्यर्थः। ज्ञाननित्यत्ववचनाच्चेति - न विद्यते उचिछत्तिर्विनाशो यस्य तदनुच्छिति, ज्ञानमनुच्छित्तिधर्मो यस्य सोऽयमनुच्छित्तिधर्मा इति बहुव्रीहिगर्भबहुव्रीहिणेत्यर्थः।

स्वनिष्ठभ्रमानुवाद इति-आत्मानं स्वनिष्ठं मन्वानः स्वनिष्ठत्वेनाभिमन्यमानेन करणेन स्वनिष्ठाभिमानविषयं विषयं पश्यती-त्यर्थः। कर्तृकरणकर्मसु स्वनिष्ठत्वभ्रमोऽनुवर्तत इत्यर्थः। स्वनिष्ठार्थान्तरदर्शनं स्यादिति । ब्राहृस्वरूपानवभासे ब्राहृात्मकत्व-दर्शनासम्भवादब्राहृात्मकार्थान्तरदर्शनं स्यादित्यर्थः। अत्र येवेदं विजानातीतिवाक्यस्य "ग्राह्रकादि जगत्सर्वं येन कूटस्थ-साक्षिणा । लोकस्सर्वो विजानाति जानीयात्केन तं वद' इति सुरेश्वरवार्त्तिकोक्तप्रकारेण येन वाक्षिरूपेण लोकस्सर्वो विजा-नाति तं केन विजानीयात् स केनापि दृश्यो न भवतीत्यर्थ इति परैव्र्याख्यातम् । तत्रानुपपत्तिमाह-अन्यथा आत्मा वा अरे द्रष्टव्य इत्यादि । अन्यथा केवलदुरवबोधत्वे कथित इत्यर्थः। प्रकारो व्युदस्यत इति - ब्राहृणीतिशेषः। ग्रहणानर्ह इति । ततश्च न गृह्रत

1.4.22

इत्यनेन न पौनरुक्तयमिति भावः। नन्वचित्सङ्गे विद्यमाने कथमचित्सङ्गनिषेध इत्यत आह - न ह्रचित्सङ्गोऽस्येति । पूर्ववाक्येन पुनरुक्तीति -येनेदं विजानाति तं केन विजानीयात् विज्ञातारमरे केन विजानीयात्' इत्यनयो पौनरुक्तयमिति भावः। उपयान्त-रनिषेधपरमिदमिति -अत्र विजानीयादित्यनेन न मुक्तिकालीनब्राहृानुभव उच्यते । ततश्चोपासनमन्तरा केनोपायेन विजानीया-न्मुक्तिमनुभवेदित्यर्थः। एतावदित्यस्यार्थमाह- विजानीयादित्यनेनेति । विजानीयादित्यनेन ब्राहृानुभवलक्षणप्राप्तेरुक्तत्वादेता-

वदित्यनेन तत्परामर्शो युक्त इति भावः। अनुपयोगाद्विरुद्धत्वाच्चेति - जीवोत्पत्तिप्रलयचिन्तनं प्रकृतस्यानुपयुक्तं, नह्रेक एव भ्रान्तः पुरुषः स्वाभिमतविरुद्धमर्थं कदाचिदङ्गीकरोतीति चोत्तरत्र स्पष्टम् । द्वेधा व्याख्यातमिति - पतिजायापुत्रवित्तादिप्रिय-संसूचितेन भोक्त्र्रत्मनोपक्रमरूपपूर्वपक्षबीजस्य परिहारपरतया त्रिसूत्र्या एका योजना, विज्ञानघन एवेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति' इति द्रष्टव्यत्वेन प्रकृतस्य विज्ञानात्मभावेन समुत्थानविनाशरूपमध्यमवाक्यगतजीवलिङ्गस्यान्यथा-सिद्धिपरा द्वितीययोजनेतिव्याख्यातमित्यर्थः। इदं सर्वं यदयमात्मेति अभेदव्यपदेशस्येति -आत्मनः कामाय सर्वं प्रियं भवति आत्मा वा अरे द्रष्टव्यः' इत्युपक्रमे अभेदव्यपदेशस्याभेदव्यपदेशपर्यवसितस्य भोक्त्र्#ात्मनोपक्रमस्येत्यर्थः। "आत्मनि विज्ञातो

1.4.22

सर्वमिदं विज्ञातं भवति' "इदं सर्वं यदयमात्मा' इति प्रज्ञाता भेदोपपादककार्यकारणाभावायत्तैक्यसूचकत्वं प्रथमसूत्रार्थ इति-वर्णितमित्यर्थः। एवमेव पाठश्चेत्समीचीनः, इतरथा यथायमर्थस्सिध्यति तथाध्याह्मत्य योजनीयम् । उत्क्रमिष्यतोब्र्राहृभावा-पत्तीति - अत्रापि भोक्त्रात्मनोपक्रमस्येति शेषः पूरणीयः । एवं ब्राहृण एवाविकृतस्येत्यत्रापि द्रष्टव्यम् । एवं वदतोऽभिप्राय-श्शोधनीय इति -यद्यपि शङ्करभाष्ये काशकृत्स्नस्याचार्यस्याविकृतः पर एवेश्वरो जीव इति मतम् , आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादन्वयत्वमभिप्रेतम् , तथापि कार्यकारणलक्षणभेदः कियानित्यभिप्रेत इति गम्यते, औडुलोमिपक्षे पुनः स्प-ष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते । तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते, प्रतिपिपादायिषितार्थानुसारात्तत्व-मस्यादिश्रुतिभ्य इति ग्रन्थे तदाशयः स्पष्ट एव प्रतीयते, तथा भामत्यामपि वह्निस्फुलिङ्गयोरिव जीवपरयोरप्युपादानोपादेय-भावकृतौ भेदाभेदावित्याश्मरथ्यमतम् । भविष्यन्तमभेदमादाय भेदकालेप्यभेदेन व्यपदेश इत्यौडुलोमिमतमिति प्रतिपादितम् । तथापि सम्भावनामात्रादेवमुक्तमिति द्रष्टव्यम् । पुनश्चैवं योजितमिति - इत्थं हि शाङ्करभाष्यम् "यदप्युक्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यस्समुत्थानं विज्ञानात्मभावेन दर्शयन् विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति । तत्रापीयमेव त्रिसूत्री योज-यितव्या । प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः । इदमत्र प्रतिज्ञातम् आत्मनि विदिते सर्वं विदितं भवति इदं सर्वं यदायमात्मेति चोपपा-दितञ्च सर्वस्य नामरूपकर्मप्रपञ्चस्यैकक्रसवत्वादेकप्रलयत्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात् , तस्या एव प्रतिज्ञायास्सिदिं्ध सूचयत्येतल्लिङ्गम् । "यन्महतो भूतस्य भूतेभ्यस्समुत्थानं विज्ञानात्मभावेन कथितमित्याश्मरथ्य आचार्यो मन्यते । अभेदे हि सति एक सिज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पत इति । उत्क्रमिष्यत एवम्भावादितित्यौडुलोमिः । उत्क्र-मिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामथ्र्यात्सम्प्रसन्नस्य परेणात्मना ए#ैक्यसम्भवादिदमभेदोपादानमित्यौडुलोमिराचार्यो मन्यते । अवस्थितेरिति काशकृत्स्नः । अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यते । नन्वात्मोच्छेदाभिधानमेतत् , "एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति' इति कथमेतत्परस्परभेदाभिधानम् ? नैष दोषः। विशेषविज्ञानविनाशाभिप्रायमेतद्विनाशाभिधानम् नात्मोच्छेदाभिप्रायमिति ।

1.4.22

ततश्च पुरोवादिशाङ्करभाष्यार्थोऽस्मद्वाक्याद्यथा सिध्यति तथाऽध्याहारव्युत्क्रमादिकमाश्रित्य योजनीयम् । प्रकरणस्य परमात्म-परत्वं न निवारयतीति -नन्वेवं वा "अरेयमात्मानन्तरोऽबाह्रः कृत्स्नः प्रज्ञानघन एवैतेभ्दस्समुत्थाये'त्यादिना प्रकृतस्य द्रष्टव्या-त्मन एवायमिति परामृष्टस्य विज्ञानाभावेनोत्पत्तिविनाशवर्णनात्कथमुत्पत्तिविनाशाश्रवणं प्रकरणस्य परमात्मपरतां न निवा-रयेत् । द्रष्टव्यस्यात्मनो जीववाचिशब्दनिर्देशकृताया अपरमात्मत्वशङ्काया निरकारणीयत्वाच्चेति स्वयमेव वक्ष्यमाणत्वाच्चेति चेत् , सत्यम् ; अविकृतस्य ब्राहृणो जीवभावेनावस्थानं न सम्भवतीत्यादिदूषणान्तरे तात्पर्यात् । अभेदव्यपदेशनिर्वाहस्त्वत्य-न्तापेक्षित इति -एतेनेतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिरित्यधिकरणे एवं विलक्षणत्वे सिद्धे सामानाधिकरण्यनिर्वाहार्थम् "अवस्थितेरिति काशकृत्स्नः' इति सूत्रमत्रैव सङ्गतम् । एवं सूत्रत्रयमेतदधिकरणशेष इत्यर्थमिति वक्ष्यमाणत्वात्कथमत्र सङ्गति-

1.4.22

रितिशङ्का परास्ता । यादवप्रकाशैस्त्विति -प्रतिज्ञासिद्धेरिति सूत्रत्रयमपि सूत्रकाराभिमतनिर्वाहपरमेव व्याचक्षते, नतु पूर्वसूत्र-द्वयार्थस्य दूष्यत्वं तृतीयसूत्रार्थस्य - सूत्रकाराभिमतनिर्वाहपरत्वमिति । विकल्पयोग्यत्वादिति -विकल्पेन दूषयितुमयुक्तत्वा-दित्यर्थः। इहाप्युपन्यस्तं स्यादिति -औडुलोमिमतप्रत्यभिज्ञानादिति भावः। पूर्णत्ववदिति -अंशान्तरसापेक्षत्ववदित्यर्थः। तत्त-च्छब्दवाच्यत्वाभावादिति - तृणादिशब्दवात्यत्वाभावादिति भावः।। इति वाक्यान्वयाधिकरणम् ।।

1.4.23

पेटिकासङ्गतिमिति - पेटिकाभ्यामस्याधिकरणस्य सङ्गतिमित्यर्थः। विकल्पेनेति -आनुमानिकमपीत्याद्यधिकरणत्रये ब्राहृका-रणत्वाप्रातक्षेपेणैव ब्राहृणः कारणत्वमभ्युपगम्य क्वचित्प्रधानमपि कारणं भवत्वित्युत्थितो विकल्पोऽन्ययोगव्यवच्छेदेन निरस्तः कारणत्वेन चेत्याद्यधिकरणत्रये तु प्रधानमेव जगत्कारणमित्युत्थित नियमेन कारणत्वमयोगव्यवच्छेदाय निरस्तमिति भावः। नतु#ु द्वितीयाधिकरणत्रयस्य कथं प्रासङ्गिकत्वम् ? छायानुसारिवाक्यस्य विषयतया त्रिपाद्यासाक्षात्सङ्गतत्वादित्याशङ्कयोभय-थापि साक्षात्सङ्गतिरस्तीत्याह - तत्र छायानुसारीति । ननु सिद्धान्तेपि प्रधानश्वरयोरुभयोरपि कारणत्वस्येष्टत्वात्समुच्चयनिरासो

न युक्त इत्याशङ्कय समप्रयानतया समुच्चयस्य निरसनीयत्वं विवक्षितमित्याह - स्वनिष्ठवस्तुद्वयस्येति । परस्परशरीरशरीरिभावा

1.4.23

नापन्नवस्तुद्वयस्येत्यर्थः। सर्वशक्तित्वादितीति - सर्वं शक्तियस्र्य तत्सर्वशक्ति, तत्त्वादित्यर्थः। "यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य सम्भूतौ तत्सर्वं वै हरेस्तनुः' इति सर्वस्यापि शक्तिस्थानीयत्वात्प्रकृतेर्विशेषणत्वमिति भावः। वेदान्तैरे-वेति - व्याख्येयं पदम् । तद्विशेषणतयेति - "तेनैवाधिष्ठिता जग'दितिवाक्ये अर्थतः प्रधानस्यापीश्वरस्य तृतीयया प्रथमान्तविशे-षणत्वप्रतिपादनविरुद्धमिति द्रष्टव्यम् । मायां प्रतिप्रेरकत्वमिति - ईशनं हि नियमनम् , तञ्च प्रेरणम् तत्र प्रेर्याकाङ्क्षायां सन्निधा-नान्मायाया एव प्रेर्यत्वं लभ्यत इति भावः । इदमुपलक्षणम् । "मायां तु प्रकृतिं विद्या'दित्यत्र प्रकृतिशब्द उपादानपरः । जनिकर्तुः प्रकृतिः' प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्यादिवत्, ततश्च मायाया उपादानत्वस्य मायाविनमीश्वरत्वस्य च प्रतिपानान्निमि-त्तोपादानभेदः श्रुतिप्रतिपाद्य इति पूर्वपक्षिणो ह्मदयमित्यपि द्रष्टव्यम् । उपादानत्वं समर्थयतीति क्वचित्कोशे पाठो दृश्यते, तत्र परिवृढमाचष्टे, परिवृढयतीतिवत्समर्थशब्दात्तत्करोतीति णिचि परस्मैपदं निर्वोढव्यम् । समर्थयत इति पाठस्तु सुगम एव ।

1.4.23

एवमेव हीत्यादिभाष्यं श्रुत्यनभ्युपगमपक्षप्रतिपादक वाक्यव्यवहितमपि हिशब्दस्वारस्यानुरोधेन व्यवहितश्रुत्यनुग्राहकपरतया व्याचष्टे - कारणत्वश्रुतेरिति । ननु परिणामादिति सूत्रप्रयोजनस्य " न तु दृष्टान्ताभावात् , भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्'

1.4.27

लोकवत्तु लीलाकैवल्यम्' इत्यादिभिः कृतकरस्वाद्वैयथ्र्यमाशङ्कयाह - द्वितीयाध्याये बह्वधिकरणेष्विति । इह प्रतिपन्नाच्छब्दादि-वदिति - "शब्दादेव प्रमितः' इत्यादावितिशेषः । प्रधानकारणत्ववादिनीनामिति । यद्यपि प्रधानकारणत्ववादिनीनां "गौरनाद्य-न्तवती' इत्यादीनां परमात्मपर्यन्तत्वं नात्र भाष्ये कथ्यते ; तथापि तमःप्रभृतेरीश्वरत्वकथनात् शरीरवाचिशब्दानां शरीरिपर्य -

1.4.27

न्तत्वात्परमात्मपर्यन्तत्वं तेषामपि शब्दानामभिहितमेवेतिभावः । तत्र साहित्यमात्रं विवक्षितमिति - आकाशमिन्द्रियैः संयुज्यत इत्यर्थः । आकाशलयदशायां स्पर्शरूपरसगन्धतन्मात्राणां नष्टत्वादाह - बहुवचनेन तात्पर्यमिति । लयशब्देन जीवब्राहृणास्स्वरूपै-क्येत्यादि । अत्र विभागापत्तिदशायामपि चिद्वस्तु अतिसुक्ष्मं सकर्मसंस्कारं तिष्ठतीति पाठमाश्रित्य प्रथमतृतीयव्याख्याने,

1.4.27

चिदचिद्वस्तु अतिसूक्ष्ममितिपाठमाश्रित्य द्वितीयव्याख्यानमिति द्रष्टव्यम् । श्रुत्यन्तरैकाथ्र्यादिति "न जायते म्रियते वा विपश्चित्' इत्यादिश्रुत्यन्तरैकाथ्र्यादित्यर्थः । परमात्मना एकीभूतात्यन्तसूक्ष्मचिदचिद्वस्तुशरीरादेकस्मादेवाद्वितीयादिति भाष्ये अत्यन्त-सूक्ष्मचिदचिद्वस्तुशरीरादित्यस्य एकस्मादेवाद्वितीयादित्येतद्य्वाख्यानरूपत्वमित्यभिधाय सूक्ष्मचिदचिच्छरीरकत्वाभ्युपगमे एकस्मादेवाद्वितीयादित्येतद्दृष्टान्ततया व्याचष्टे - यद्वा आनन्दवल्लयामिति । उदाह्मतवाक्येप्विति - स तपोऽतप्यतेत्यादिप्वित्यर्थः ।

1.4.27

तप आलोचन इत्यस्माद्भातोरिति । यद्यपि तप आलोचन इति धातुर्गणे न पठितः, तत्र तप सन्ताप इति शब्विकरणे पठ¬ते, तप ऐश्वर्ये वेति दिवादौ, तप दाहे इति चुरादौ, तथापि धातूनामनेकार्थत्वादालोचनमप्यर्थ इति भावः । घटकस्य वाक्यविशेषस्येति-भेदाभेदश्रुतिघटकस्य तदेवानुप्राविशदित्यादेरित्यर्थः । ननु सृष्ट्वानुप्राविशदिति सृष्टयनन्तरमेवानुप्रवेशश्रवणाद्विक्रियमाण-द्रव्यस्यापीति विक्रियमाणत्वावस्थायामेवात्मतयाऽवस्थानं कथमुच्यत इत्याशङ्कयाह - तत्सृष्ट्वा तदेवानुप्राविशदित्यादि । त्वाप्रत्ययास्वारस्यप्रसङ्गमभिप्रयन्नाह - यद्वा सृष्टिपूर्वकेति । अस्मिन् पक्षे विक्रियमाणद्रव्यस्यापीत्यस्य निर्वाहमाह - तदानी-मिहोक्तमिति । ततश्च तत्सृष्ट्वेति वाक्ये स्थित्यर्थानुप्रवेशः कथ्यते, तदनुप्रविश्येत्यनुप्रवेशस्य सामानाधिकरण्यहेतुत्वप्रति

1.4.27

पादकवाक्ये सृष्टिसमयानुप्रवेश एवोच्यते, नतु पूर्ववाक्योक्तानुप्रवेशव्यक्तिरिति भावः । निमित्तमात्रत्वे परोक्ताया इति - निमि-त्तकारणत्वमात्रे प्रमाणत्वेन परोक्ताया इत्यर्थः । भाष्ये-तदात्मानं स्वयमकुरुतेत्यादिभिरैकाथ्र्यादिति । सकलश्रुतिभिरैकाथ्र्या-दित्यर्थः । अन्यैरिति - शङ्करयादवादिभिरित्यर्थः । "योनिष्ट इन्द्र सदने अकारि' इतिमन्त्रस्यायमर्थः । हे इन्द्र ! ते सदने तव उपवेशाय योनिः स्थानमकारीत्यर्थः । योनिशब्दस्योपादानवाचित्वाभावे दृष्टान्तः, अत्र चोदयन्ति, यदुक्तमेकविज्ञानेन सर्व-

1.4.28

विज्ञानप्रतिज्ञाया दृष्टान्तस्य चानुपरोधार्थं ब्राहृण उपादानत्वं वक्तव्यमिति , तन्न; प्राधान्येन सादृश्येन वा तदुपपत्तेः । लोके हि अस्य ग्रामस्य प्रधानभूते चैत्रे दृष्टे सर्वे दृष्टा इति व्यपदेशो दृश्यते, प्रधानदर्शनस्य तदितरदर्शनकार्यधूर्वहत्वात् , एवमिहापि ब्राहृदर्शनस्य तदितरदर्शनकार्यनिष्पादनसमर्थतया तथा व्यपदेशोपपत्तेः, तथा सादृश्यनिमित्तोपि व्यपदेशो दृश्यते, यथा एतेन गवादयोपि क्रतवो व्याख्याता इति ज्योतिव्र्याख्यानेनेतरेषां गवादीनां तत्सादृश्येन व्याख्यातत्वम् ; एवमिहापि ब्राहृणि ज्ञाते सत्त्वादिना सादृश्यात् तदितरेषां ज्ञातत्वसम्भवात्; अत एव दृष्टान्तानुपरोधोप्यसङ्गतः, नहृेकस्मिन्मृत्पिण्डे ज्ञाते सर्वं मृण्मयं विज्ञातं भवति, सर्वस्य मृत्कार्यस्य एकमृत्पिण्डारब्धत्वाभावादेकस्य नस्वनिकृन्तनस्य लोहमणेर्वा सर्वलोहमयकाष्र्णायसोपा-दानत्वाभावात् । न च सर्वं मृण्मयमितियत्र सर्वशब्द एकमृत्पिण्डारब्धकार्यपर इति वाच्यम् ; तथा कल्पनायां प्रमाणाभावात् , अत एवाभिध्योपदेशाच्चेति सूत्रोक्तो वहुभवनसङ्कल्पोपि न प्रमाणम् , अन्तर्यामिरूपेणैव बहुभावस्य सङ्गल्पविषयत्वसम्भवे तेजोबन्नादिरूपेणैव बहुभवनस्य सङ्कल्पविषयत्वे प्रमाणाभावात्, उक्तञ्चाभियुक्तैः बहुस्यामिति सङ्कल्पस्य तेजःप्रभृतिसर्जनम् । गुरुस्यामिति सङ्गल्पस्य शिष्यसम्पादनं यथा' इति । अत एव "तदात्मानं स्वयमकुरुत' इत्यपि व्याख्यातम् । अन्तर्याम्यादि-रूपेण स्वकार्यत्वस्योपपत्तेः । एतेन "साक्षाच्च उभयाम्नानात् "योनिश्च हि गीयते' इति युक्तयन्तरमपि व्याख्यातमिति । अत्रोच्यते, यद्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञायां सादृश्यप्राधान्याभ्यां गौणमेव सर्वविज्ञानमभिहितं स्यात् तर्हि "कथं नु भगवस्य आदेशो भवति' इतिप्रश्नस्य "यथा सोम्यैकेने'ति प्रतिवचनस्य चासङ्गतत्वापत्तेः, ब्राहृविज्ञानेन प्रपञ्चज्ञातत्वस्य मुख्यतायां कृत्स्नश्रुतिसन्दर्भस्य सामञ्जस्यात् । एवं ह्रुपाख्यायते - उद्दालको ह्रारुणिः स्वपुत्रं श्वेतकेतुं स्वनियोगाद्द्वादशवर्षाणि गुरुकुले स्थित्वा सर्वान् वेनानधीत्य प्रतिनिवृत्तं "उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्' इति पृष्ट्वा "कथन्तु भगवस्य आदेश' इति एकविज्ञानेन सर्वविज्ञानं कथन्नूपपद्यत इत्याशयवता पुनः पृष्टो मृत्पिण्डादिदृष्टान्तैस्तदुपपाद -

1.4.28

यामासेति । यद्यत्र सर्वविज्ञानं प्राधान्याद्यभिप्रायं गौणं स्यात् तदा प्रधानज्ञानेन सर्वमन्यदप्रधानमविदितमपि फलतो विदितप्रायं भवतीत्यस्यार्थस्य लोकसिद्धत्वेनैकविज्ञानेन सर्वविज्ञानस्यानुपपतिं्त पश्यतः "कथं नु भगवस्य आदेश' इतिप्रश्नो न स्यात्, तदभिप्रायानभिज्ञेन कृतेपि प्रश्ने प्राधान्यात्सादृश्याद्वा सर्वं स्यादित्येव प्रत्यवक्ष्यत, नैतदुभयं युज्यते "वाचारब्भणं विकारो नाधेयम्' इति दृष्टान्तेपि तदुपपादनमत्यन्तमनवलम्बनमेव स्यात्, तथा "बहु स्यां प्रजायेये'त्यभिध्योपदेशोपि उपादानत्वो-पपादक एव, तत्तेजोऽसृजतेत्यादिनानन्तरवक्ष्यमाणतेजः प्रभृत्यात्मना बहुभवनस्यैव सङ्कल्पविषयतया वक्तव्यत्वात्, एकमेवाद्वितीयमित्यादिना सृष्टेः प्रागेकत्वेनाद्वितीयत्वेनावधारितस्योपादानत्वनिमित्तत्वयोरवश्यम्भावाच्च, तस्मादुपादानत्व-प्रत्याख्यानं वेदान्तद्वेषनिमित्तमिति युक्तमित्युत्पश्यामः । उपासनफलपरमिति - "यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्राहृयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' इति फलपरवाक्यस्थत्वादिति भावः । लक्षणायोगादिति उपादानलक्षणयोगादित्यर्थः - पीतशङ्खस्य शङ्खान्तरेणेति - शङ्खशब्दः शङ्खान्तरपरः । ततश्च शुक्लशङ्खे पीतशङ्खोऽध्यस्यत इति भावः। देहेऽधिष्ठानेऽध्यस्तत्वादिति - ततश्चाध्यस्तं यत्सामानाधिकरण्येन प्रतीयते तदुपादानमिति लक्षणायोगादिति भावः । आत्मनि देहाध्यास इति चेदिति । ततश्च देहं प्रति आत्मन एवोपादानत्वम्, नत्वात्मानं प्रति देहस्येति भावः । अध्यासो मिथ्येति भवितुं युक्तमिति - अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येति च विषये युष्मदर्थ इति पाठो दृश्यते, तत्र भवितुं युक्तमित्यरयान्तरमाक्षिप्य तथा पीतिशेषः पूरणीयः । अध्यासो मिथ्येति भवितुं युक्तमित्यन्तग्रन्थस्याध्यासो नास्तीति ह्रर्थः।

1.4.28

तदन्तस्य शाङ्करभाष्यस्याध्यासाक्षेपरूपत्वात् , तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामित्यादिग्रन्थस्यैवाध्याससमर्थनपरत्वाच्चे-तिद्रष्टव्यम् । भास्करमतमाह - यश्चापीति । यादवप्रकाशीये त्विति । अव्यवहितसाध्येनेति - ब्राहृण उपादानत्वमव्यवहितसाध्यं तन्निर्वाहकम् , प्रकृत्यैक्यं तु व्यवहितं साध्यमित्यर्थः । वक्तव्यमिति - प्रकृतिश्चेतिपदेन साध्यतया वक्तव्यमित्यर्थः ।

1.4.28

उपादात्वं हि प्रधानसाध्यमिति - अध्यवहितं चेतिविशेषः । विक्रियामितीति -दर्शयतीतिपूर्वेणान्वयः । नहि प्रलयात्पूर्वमेकत्वाप-त्तिरिति -"एकमेवाद्वितीयम्' "तदैक्षत बहु स्यां प्रजायेयेति' श्रुतिवशादेकत्वावस्थाया बहुभवनसङ्कल्पात्पूर्वभावावश्यम्भावादिति भावः । अलुप्तविभक्तिकत्वेनेति- यद्यपि समासाभेवेपि "स्वमोर्नपुंसका'दिति अमो लुगस्त्येव, तथापि दधि पश्येत्यादिवत्स्मृताया विभक्तेरेवार्थप्रत्यायकत्वोपपत्तौ समासे लक्षणाश्रयणस्यायुक्तत्वादिति भावः। मिथः प्रकारप्रकारिभावानभ्युपगमाच्चेति - अभ्युपगमे-ऽस्मदिष्टसिद्धिरितिभावः । प्रकृतेरेव महदाद्युपादानत्वं स्यादिति -ततश्चाभिन्ननिमित्तोपादानब्राहृवादो न स्यात्, नियन्त्रंशस्य निमि-त्तत्वादितिभावः । इदमुपलक्षणम्; ब्राहृबहुत्वं च स्यादित्यपि द्रष्टव्यम् । तÏत्क वृक्षसमुदाय इति - यद्यपि भोक्तृभोग्यनियन्तारः किं

1.4.28

प्रत्येकं ब्राहृेति पूर्वविकल्पादस्य विकल्पस्य न विशेषः । ततश्च त्रयाणां मिथो भिन्नत्वेपीत्येतत्पर्यन्तो ग्रन्थो नातीव सप्रयोजन इति भाति । तथापि दूषणान्तरं वक्तुं पुनर्विकल्प इति द्रष्टव्यम् । शङ्कते त्रयाणां मिथो भिन्नत्वेपीति । ब्राहृात्मनैकत्वं वर्णनीयमिति - ननु पत्रस्कन्धादीनां भेदाप्रहाणेन एकवृक्षानन्यत्ववदिष्टकानामिष्टकात्वरूपभेदाप्रहाणेन एकब्राहृानन्यत्वं सिद्धान्तिनोप्यभिमतमिव प्रतीयते, नचैतत्सिद्धान्तिनोऽभिमतं भवति । त्रयाणामेकब्राहृात्मकत्वाभावादितिचेन्न; चिदचिद्विशिष्ट ईश्वरो हि ब्राहृ, नतु विशेष्य-मात्रम्, ततश्च विशिष्टान्तर्गतत्वं त्रयाणामपि साधारणमित्येतदभिप्रायेण ब्राहृात्मना एकत्वं वर्णनीयमित्युक्तमिति द्रष्टव्यम् । छिन्ना-यामङ्गुलाविति -छेदेन स्वदेहात्पृथक्कृतत्वादित्यर्थः । कस्यचित्स्वरूपमिति - विशिष्टस्येत्यर्थः । यावद्विशेष्यभाविनामिति - इद-मुपलक्षणम् । दण्डविशिष्टस्वरूपे दण्डस्यान्तर्भावेपि न दोष इत्यपि द्रष्टव्यम् । अग्नेरुष्णत्वं स्फोटजनन इति - ननूष्णस्पर्शस्य कथ-मग्निस्वरूपत्वम् ? गुणगुणिनोर्भेदात् स्वं हि रूपं स्वरूपमित्युच्यते, न तु स्वापृथक्सिद्धं सर्वं स्वरूपम् यदि कारणतावच्छेदककोट¬-नुप्रविष्टं सर्वं स्वरूपमित्युच्यते तह्र्रालोकगतोद्भूतरूपत्वस्य चाक्षुषप्रत्यक्षे उद्भूतरूपगतकारणतायामवच्छेदकत्वादालोकस्याप्युद्भूत-रूपस्वरूपत्वप्रसङ्गः, तथाद्र्रेन्धनप्रभववह्नित्वस्य धूमजनकतावच्छेदकत्वादाद्र्रेन्धनादेरपि वह्निस्वरूपानुप्रवेशप्रसङ्गात्, अतस्तेषु स्वरूपत्ववादः स्वीयरूपत्वाभिप्रायः, न तु स्वाभिन्नरूपत्वाभिप्रायः, एवञ्च प्रकृत्यादीनामपि परमात्मापृथक्सिद्धविशेषणतया तन्वं-शशक्तिरूपशब्दाद्यभिधेयत्वमस्तु नाम, नैतावता तद्गतावस्थाया एतन्निष्ठत्वमस्ति, तथा हि सति तद्गतशक्तित्वशरीरत्वांशत्वजडत्वा-

1.4.28

दीनामपि परमात्मगतत्वप्रसङ्गात्, ततश्च प्रकृतेर्महदादिरूपेण परिणममानत्वेन प्रकृदेरेवोपादानत्वं स्यात्, न तु ब्राहृण इत्याशङ्कामुप-संहारव्याजेन निराकरोति - महदाद्यवस्थाविदचिद्विशिष्टब्राहृस्वरूपगता इति । न हेत्वसिद्धिरिति - अयं भावः, चिदचिद्विशिष्टमेव ब्राहृ, न विशेष्यमात्रम् चिदचिद्विशिष्टे च महदाद्यवस्थायोगित्वमस्त्येवेति । नहि नाभिमात्रं रथचक्रमिति - यथा परस्परमाधाराधेय-भावमापन्ना नाभिरथनेमयः रथचक्रशब्दवाच्यस्वरूपान्तर्गताः, यथा वा बाह्रदलविशिष्टेषीकास्वरूपं मुञ्चादिशब्दवाच्यम्, यथा वा त्वक्पत्रादियुक्तकाण्डस्वरूपमेव कलीशब्दवाच्यम्; एवमाधाराधेयभावापन्नभोक्तृभोग्यनियन्तृस्वरूपं ब्राहृशब्दवाच्यमित्यर्थः । ननु काष्ठगतज्वालायाःकाष्ठगतकरणत्वोपपादकत्वे प्रकृतिगतावस्थायाः प्रकृतिगतोपादानत्वनिर्वाहकत्वमेव स्यात्, नतु ब्राहृोपादानत्व-निर्वाहकत्वमित्यत आह - करणकारकस्य तु स्वनिष्ठत्वादिति । प्रकृतेस्तु स्वनिष्ठत्वाभान्नोपादनत्वमिति भावः । ननु मृत्पिण्डाश्र-यस्य चक्रस्य मृत्पिण्डगतघटत्वाद्याश्रयत्वं किं न स्यादित्याशङ्कयाह - आश्रयिनिष्ठामिति । स्वतन्त्रं मृत्पिण्डादिवस्तु स्वाधारे चक्रे स्वगतावस्थायोगितां न निर्वाहयतीत्यर्थः । व्यवहितपत्रवेध इति - पत्रवेधान्तरेण व्यवहितपत्रवेध इत्यर्थः । कुलालस्येति - हेतुत्वेन सजातीयव्यापारव्यवहितत्वादितिभावः । शराव्यवहितस्येति - धनुश्शरयोद्र्वयोरपि हेत्ववान्तररूपप्रहरणत्वाक्रान्तत्वादिति भावः । निष्पादककायर्निष्पादनरूपकिञ्चित्कारसद्भावादिति - तन्निष्पादकव्यापारनिष्पादनरूपकिञ्चित्कारसद्भावादित्यर्थः । अतिप्रसङ्गः

एतेन सर्वे व्याख्याताव्याख्याताः ।। 29 ।।

1.4.29

परिह्मत इति - अन्वयव्यतिरेकाभ्यामतिप्रसङ्गस्य निवार्यत्वादित्यनेनेत्यर्थः । अग्न्यादेरिति - अव्यवहितस्यापीति शेषः । संयोगमात्रेण व्यवधायकत्वमिति - आस्तरणादिकं शयानस्य पर्यङ्कसंयोगं परं निरुणद्धि, नत्वानयाश्रयिभावमपीति भावः । स्वधारणसमर्थवस्तु-निष्ठव्यवधायकत्वादिति - नन्वेवं दर्भाणां स्वाश्रितदर्भत्वाद्यवस्थासु भूतलाश्रितत्वव्यवधायकत्वं न स्यात्, तथा यूकादीनां यूकात्वा-द्यवस्थासु मनुष्याश्रितत्वव्यवधायकत्वं न स्यात् । स्वधारणसमर्थवस्तुनिष्ठव्यवधायकत्वादिति चेन्न, स्वधारणसमर्थेत्यस्य स्वाश्रितधा-रणसमर्थेत्यर्थः । मूतलमनुष्यादीनां दर्भत्वयूकत्वादिधारणसामथ्र्यं नास्ति, तेषां तदाश्रितत्वे प्रमाणाभावात् । नन्वेवं यत्र यदाश्रितत्व-ग्राहकप्रमाणमस्ति, तत्रान्तरालिकपदार्थानां तदव्यवधायकत्वम्, अत एव प्रासादे शेते पर्यङ्के शेते वेद्यां हवीष्यासादयति बर्हिषि हवीं-ष्यासादयती'त्यादौ आन्तरालिकानां पर्यङ्कबर्हिरादीनामव्यवधायकत्वमिति पर्यवसन्नमिति चेत्, इष्टापत्तेः, व्यवहितस्याप्याश्रयताग्रा-हकप्रमाणसत्त्वे आश्रयत्वम्, प्रकृते च महदादिव्यवहितब्राहृणोपि तत्तदवस्थं प्रत्याधारत्वग्राहकं प्रमाणमस्ति, सञ्च त्यच्चाभवदित्यादि। अतोऽवस्थाश्रयत्वान्मुख्यमुपादानत्वमुपपन्नमिति भावः । ननु महदाद्यवस्थाश्रयत्वस्य परमात्मनि मुख्यत्वे तुल्यन्यायतया देवत्वाद्यव-स्थाश्रयत्वस्यात्मन्येव मुख्यत्वात्तत्र कथं न देवो न नर इति निषेधः? नचाद्वारकाश्रयत्वाभावान्निषेध उपपन्न इति वाच्यम्; संयोगेन भूतलाधारे घटे सम्बन्धान्तरेण घटाधारत्वं नेत्येतावता भूतलं न घटाधार इति वचनं समञ्जसं स्यात् । किञ्च तथा निषेधप्रतिपादकशा-स्त्रस्य भ्रमजनकतया अनुपादेयत्वमेव स्यादिति चेन्न; पर्वापरवाक्यानुरोधेन वाक्यतात्पर्यस्य वर्णनीयतया देवत्वादिनिषेधकशास्त्राणां "चत्वारः पञ्चदश रात्रा देवत्वं गच्छन्ति' इत्यादिशास्त्रविरोधेनाद्वारकनिषेधपरत्वस्यावश्याश्रयणीयत्वान्नानुपपत्तिरिति भावः ।

त्रय एव यज्वान इति - एवकारः कोशेषु दृश्यते, तस्य नतीव प्रयोजनं पश्यामः । सद्ब्राहृाक्षरशब्दैरिति - अन्विता इत्यादिशेषः पूर-णीयः । द्वातिं्रशदधिकरणन्यायनिर्णीतत्वादिति - अतीतेषु चतुÏस्त्रशत्यधिकरणेषु सामान्यतो ब्राहृविचारकर्तव्यतापरस्याद्याधिक

1.4.29

रणस्यापशूद्रधिकरणस्य च देवताविशेषनिर्णयानुपयोगमभिप्रेत्य द्वातिं्रशत्त्वोक्तिः, अत एव जन्माद्यस्य यत इत्यादीनामधिकरणाना-मिति पृथक्कृत्य वक्ष्यति; अपशूद्राधिकरणं च नोदाहरिष्यति । नचैवं भगवच्छब्दतुल्यत्वं प्रथमसूत्रे उपपादितमिति वक्ष्यमाणग्रन्थ-विरोध इति वाच्यम्; तत्रापि भगवत्परत्वसम्भवाभिप्रायेण तथोक्तमिति द्रष्टव्यम् । यद्वा तृतीयं तु सामान्येनोपयुक्तमितिवक्ष्यमाणत्वात् तृतीयाधिकरणबहिर्भावेन द्वातिं्रशत्त्वं द्रष्टव्यम् । नारायणातिरिक्तेति - पाशुपतमते "उपादानं तु भगवान्निमित्तं तु महेश्वरः' इति नारायणातिरिक्तनिमित्तप्रतिपादनात्तन्मतनिरास इति भावः । हिरण्यमयत्वविशेषणेन चेति - आदित्यवर्णमित्यस्य प्रत्यभिज्ञाना-दिति भावः । परमपुरुषविषयतया समर्थनपरत्वमिति - आकाशाधिकरणे आकाशस्य भूतेभ्यो ज्यायानिति ज्यायस्त्वकीर्तनेन "ततो ज्याया'नित्युक्तपुरुषसूक्तोक्तार्थस्य प्राणाधिकरणे तस्योक्तार्थन्यायातिदेशरूपतया आकाशशब्दोक्ताथर्परत्वस्य ज्योतिरधिकरणे ज्योतिश्शब्दस्य "पादोऽस्य विश्वाभूतानि' इत्यनेन पुरुषसूक्तार्थपरत्वस्य प्राणाधिकरणे इन्र्दप्राणयोः "मामेव विजानीहि मामुपाख' इति हिततमोपासनकर्मत्वप्रतीतेः "तमेवं विद्वानमृत इह भवति नान्यः पन्था' इतिपुरुषसूक्तार्थपरत्वस्य च स्वरसतः प्रतीयमानत्वा-त्तत्परत्वसमर्थनं स्फुटमिति भावः । अत्रेन्द्रशब्दो मामितिशब्दपरो द्रष्टव्यः । इदञ्च पूर्वमेव प्रदर्शितम्, "ह्मदा मनीषा मनासाभिक्लृप्तः' इति, अस्य वाक्यस्य तैत्तिरीयगतस्य पुरुषविषयत्वादिति भावः । अमृतत्वस्य परमपुरुषत्वसाधकतामुपपादयति -तस्मिन्नयमि-तिवाक्यप्रत्यभिज्ञानादिति । मुण्डोपनिषदः कार्त्स्न्#ेनेति - येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्राहृविद्याम् "दिव्यो ह्रमूर्तः पुरुषः कर्तारमीशं पुरुषम्'इति पुरुषशब्दाभ्यासदर्शनादिति भावः । तत्र श्रुतरूपविशेषान्वयादेवेति - मुण्डकोपनिषच्छØतेत्यर्थः । इदञ्च स्मर्यमाणमनुमानं स्यादित्यत्र स्पष्टम् । अन्तर्यामिविद्#ानन्तरवाक्यप्रतिपाद्यत्वाच्चेति - यद्यप्यनतर्यामिब्रााहृणमुद्दालककर्तृकस्यान्त-र्यामिप्रश्नस्योत्तरम्, गार्गिब्रााहृणं तु गार्गिकर्तृकाकाशाधारप्रश्नस्योत्तरमिति नानयोरेकविषयत्वनियमः । अथापि कियदपि नियामकं सम्भवन्न परित्याज्यमित्यभ्युच्चययुक्तितयोपन्यस्तमिति द्रष्टव्यम् । आकाशो ह वै नामेतिवाक्यमिति - सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा' इति पुरुषसूक्ते श्रवणात्तत्प्रत्यभिज्ञापकमिति भावः । यस्मात्परमितिवाक्यस्याधीतत्वादिति - तत्र "तेनेदं पूर्णं पुरुषेण सर्वमिति पुरुषशब्दश्रवणादिति भावः । बृहदारण्यक इति -"ब्राहृ वा इदमग्र आसीत्तदेकं सन्न व्यभवत्तच्छ्रेयोरूपमत्यसृजत क्षत्रम् । यान्येतानि देवक्षत्राणि इन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः इति तस्मात्क्षत्रात्परं नास्ति तस्माद्ब्रााहृणः क्षत्रिय-मधस्तादुपास्ते राजसूये क्षत्र षव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्राहृ तस्माद्यदपि राजा परमतां गच्छति ब्राहृैवान्तत उपनिश्रयति-

1.4.29

स्वां योनिं य एनं हिनस्ति स्वां योनिमृच्छति स पापीयान्भवति यथाश्रेयांसं हित्वा स नैव व्वभवत्स विश्वमसृजत यान्येतानि देवजा-तानि गणश आख्यायन्ते वसवोरुद्रा आदित्या विश्वेदेवा मरुत सति स नैवं व्यभवत्स शौद्रं वर्णमसृजत पूषणं इश्वं वै पूषा इयं हीदं सर्वं पुष्यति यदिदं किञ्च स नैव व्यभवत्तच्छ्रेयोरूपमत्यसृजत धर्मं तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात्परं नास्त्यतो बलीयान्बलीयांसमा-शंराते यथा धर्मेण राज्ञा यं यो वै स धर्मस्सत्यं वैतत्तस्मात्सत्यं वदन्तमाहुर्धर्मं वदन्तीति । धर्मं वा वदन्तं सत्यं वदतीत्येव तद्धैव तदुभयं भवति तदेतद्ब्राहृ क्षत्रं विट्छूद्रस्तदग्निनैव देवेषु ब्राहृाभवद्ब्रााहृणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यश्शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्तो ब्रााहृणो मनुष्येषु एताभ्यां हि रूपाभ्यां ब्राहृाभवत्' न व्यभवत्-न विभूतवत्कर्मणे नालमासीदित्यर्थः । श्रेयो-रूपम् प्रशस्तरूपम् अत्यसृजत-अतिशयेनासृजत् देवताक्षत्राणि देवेषु क्षत्राणि, राजसूयेऽभिषिक्तमासाद्यस्थितम् राजानमधस्ता-त्स्थितमृत्विक् हे राजन् । त्वं राजन् ब्राहृासीदिति ब्राूयादिति उपासनं विहितं तद्यश आत्मीयं यशो दधाति, परमतां राजसूयाभिषेके-णोत्कृष्टतां गच्छति, अन्ततः कर्मसमाप्तौ परोहितमेवाश्रयतीत्यर्थः । यस्तु क्षत्रियः स्वकारणभूतां ब्राहृयोनिं हिनस्ति, स स्वां योनिं नाशयति, इयं पृथिवी क्षत्रस्य क्षत्रं क्षत्रियस्यापि नियन्त्रीत्यर्थः । अभलीयान् दुर्बलः, बलीयांसमात्मनो बलवत्तरमपि धर्मेण बलेन जेतुमाशंसते, यथा राज्ञा लोके बलवत्तरेणापि कश्चिद्दरिद्रो धर्मेण विजिगीषते, तस्मात्सिद्धं धर्मस्य बलवत्वम् । तदधिष्ठितब्रााहृण-जातिपर इति - अग्निदेवताधिष्ठितब्रााहृणजातिपर इत्यर्थः । प्रथमपक्षे ब्रााहृणजातिपरत्वसत्त्वेपि अग्निदेवताधिष्ठितब्रााहृणजातिपर-त्वाभावात्तत्पक्षादस्य पक्षस्य विशेष इति द्रष्टव्यम् । क्षत्रियसृष्टिश्रवणादिति - यदि परं ब्राहृैव प्रकान्तं स्यात् तदा सर्ववर्णसृष्टिरपि कथ्येत, न क्षत्रप्रमुखसृष्टिरिति भावः । ब्राहृशब्दो ब्रााहृणपर इत्यन्तेन ब्रााहृणपरत्वं प्रसाध्य इतरपक्षद्वयमुपक्षिपति - तदभिमान्य-ग्निपर इत्यादिना । उपक्रमस्थब्राहृशब्देति - चातुर्वण्र्यनिगमनस्थब्राहृशब्दस्य ब्रााहृणवर्णपरत्वस्य सम्प्रतिपन्नत्वादिति भावः । अग्निसृष्टत्वायोगश्चेति - इदमुपलक्षणम् । ब्रााहृणजातिसृष्टत्वयोगश्चेत्यपि द्रष्टव्यम् । इन्द्रादिरुाष्टृत्व कल्पभेदनाग्नेस्स्यादित्यत्राह- अस्याः श्रुतेरिति । अग्निब्रााहृणान्यत्वञ्च प्रतीयत इति - ननु तच्छब्दपरामृष्टब्राहृणः अग्निनेति व्यधिकरणनिर्दिष्टाग्नेरन्यत्वं प्रतीयतां नाम, ब्रााहृणानन्यत्वं कथं प्रतीयतामिति चेन्न, मृत्पिण्डो घटो भवतीतिवत् तद्ब्रााहृणो भवतीत्युक्ते तच्छब्दितस्य ब्रााहृण्यात्पूर्वभावि-त्वप्रतीतेरनुभवसिद्धत्वादिति भावः । देवमनुष्यविभागेनेति - देवरूपो मनुष्यरूपश्च ब्रााहृणोऽस्तीत्यर्थः । परमात्मसृष्टतया प्रागुक्त इति - "नैवेह किञ्चनाग्र आसी'दित्यस्मिन्ब्रााहृण इत्यर्थः । क्षत्रादिविभागवत्तदभिमानीति - क्षत्रादिभेदभिन्नतत्तज्जात्यभिमानी-न्द्रादिसृष्टिरित्यर्थः । ब्रााहृणाभिमान्यग्निसृष्टेरिति - तस्य श्रान्तस्य तप्तस्य तेजो निरवत्र्तते पूर्वब्रााहृण इति भावः । ब्रााहृणत्वादि-विभाग उक्तस्यादिति । ततश्च ब्रााहृणवाचिनो ब्राहृशब्दस्य लक्षणा न समाश्रयणीयेति भावः ।तत्परं ब्राहृ मनुष्येष्विति - तदग्निनैव देवेष्वित्यतःपरं ब्राहृपदतच्छब्दोऽनुकृष्यते, अग्निनैव देवेषु ब्राहृाभवदित्यतो ब्राहृाभवदित्यप्यनुकृष्यत इति भावः । नन्वग्निनैव देवेषु ब्राहृाभवद्ब्रााहृणो मनुष्येष्वित्यत्र देवेषु देवानां मध्ये ब्राहृाग्निनैवागमत् विकारान्तरमप्राप्यैवाग्निस्वरूपयुक्तमेवाभवत्, मनुष्याणां मध्ये-

1.4.29

च विकारमप्प्राप्यैव ब्राहृस्वरूपमेव ब्राहृ स्थितम् अग्नौ ब्रााहृणजातौ च ब्राहृाविकृतमित्यर्थः । क्षत्रियादिषु तु क्षत्रियादिविकारनिमित्तकं क्षत्रियत्वं ब्राहृणः, तस्माद्यत अग्निब्रााहृणवविकृतब्राहृस्वरूपौ तस्माल्लोकमिच्छन्तो अग्नौ ब्रााहृणे च कुर्वन्तीत्येवं परोक्तरीतिः कुतो नाश्रीयत इत्याशङ्कयाह - श्रुतपदानुषङ्गेणेति । तत्प्रशंसाया विवक्षितत्वादिति - ननु प्रकरणस्य चातुर्वण्र्यतदभिमतानिसृष्टिसाधा-

1.4.29

रण्येऽग्निब्रााहृणयोः प्रशंसायां किं बीजम्? नह्रस्मिन्प्रकरणेऽग्निब्रााहृणयोरिन्द्रक्षत्रादिव्यावृत्ततया असाधारण्येनोद्देश्य विधेयकोट¬ो-रनुप्रवेशोस्ति, येन विशिष्य तयोः प्रशंसा विवक्षिता स्यात्, अग्निब्रााहृणप्रशंसामुखेन चातुर्वण्यर्तदभिमानिप्रशंसाया विवक्षितत्वमि-त्यत्र तात्पर्यात् । मुख्यार्थासम्भव इति - अग्निनैव देवेषु ब्राहृाभवदित्यत्र मुख्यार्थसम्भवात् ब्रााहृणजातिरूपमुख्यार्थस्वीकारेपि ब्राहृण इदमग्र आसीदित्यत्र मुख्यार्तसम्भवस्थलेपि ब्रााहृणजातिरूपामुख्यार्थस्वीकारस्यायुक्तत्वादिति भावः । आत्मैवेति - "आत्मैवा-सीत्पुरुषविदस्सोन्वीक्ष्य नान्यदात्मनोऽपश्यत्सोहमस्मीत्यग्रे व्याहरत्ततोऽहन्नामाभवत्तस्मादप्येतह्र्रामन्त्रितोऽहमयमित्येवाग्र उक्तवा अथान्यन्नाम प्रब्राते यदस्य भवति स यत्पुर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन ओषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद सोबिभेत्तस्मादेकाकी बिभेति सहायमीक्षाञ्चक्रे यन्मदन्न्यास्ति कस्मान्नु बिभेमीति तत एवास्य भयं विहाय कस्माध्द्यभेष्यत् द्वितीयादौ भयं भवति स वै नैव रे मे तस्मादेकाकी न रमेत स द्वितीयमैच्छत्' इत्यादि । एतह्र्रामन्त्रित इति-अस्मिन्नपि काले आहूत इत्यर्थः । स यत्पूर्व इति-यत् यस्मात्काणादस्मात्सर्वस्मात्पूर्वस्सन् सर्वान्पाप्मनोऽटहत्तस्मात्पुरुष इत्यर्थः । ओषति ह वै स तमित्यादि- य एवं वेद सः स्वस्मात्पूर्वं प्रजापतित्वप्रेप्सुं दहतीत्यर्थः । लोके हि उत्कृष्टसाधनशाली तादृशसाधनशून्यं दहन्निव दृश्यते । नैवेह किञ्चतेत्यादि-"आसीन्मृत्युनेवेदमामृतमासीदशनाया अशनायया हि मृत्युस्सतं मनोऽकुरुत आत्मन्वी स्यामिति सोऽर्चन्नचरत्तस्यर्चत आपो जायन्त अर्चते वैमेकमभूदिति तदेवार्कस्यार्कत्वं कं ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद आपो वा अर्कः यद्यदपां रस आसीत्तत्समहन्यत सा पृथिव्यभवत्तस्यामश्राम्यत्तस्य आन्तस्य तेजो रसो निरवर्तताग्निः' इति हि श्रुतिः । आत्मन्वी स्यामिति-मनस्वीस्यामिति सङ्कल्प्य मनोऽकरोदित्यर्थः । अर्चते वैमे अशनाया विशिष्टत्वाञ्चेति । यद्यपि मृत्युनानशनाययेतिसामानाधिकरण्यमेव प्रतीयते, नत्वशनायाविशिष्टत्वम्, तथापि मृत्योरिहाशनायात्वासम्भवात् अशनायाशब्देन अशनायावान् लक्ष्य इति भावः । अर्च-नादिकर्मकर्तृत्वमिति - अचर्नादिक्रियाकर्तृत्वमित्यर्थः । सुबालोपनिषदीति - सुबालोपनिषदुपक्रमे "तदाहुः किं तदासीत्तस्मै स होवाच न सन्नासन्नसदसदिति तस्मात्तमस्सञ्जायते तमसो भूतादिर्भूतादेराकाशमाकाशाद्वायुर्वायोरग्निरग्नेरापोऽब्भ्यः पृथिवी तदण्डं समभवत्तत्सं वत्सरमात्रमुषित्वा द्विधा करोत् । अधस्ताद्भूमिमुपरिष्टादाकाशं मध्ये पुरुषो दिव्यः सहरुाशीर्षा पुरुषस्सहरुााक्षस्सहरुा-पात्सहरुाबाहुरिति सोग्ने भूतानां मृत्युमसृजत्त्र्यक्षं त्रिशिरस्कं त्रिपादं खण्डपरशुं तस्य ब्राहृा बिभीते' इत्यादि श्रुतिः । मृत्यो परे देव एकीभावः श्रूयत इति - मृत्योरिति पञ्चमी परे देवे मुक्तस्य एकीभावः श्रूयत इत्यर्थः । कोशं भिनत्तीत्यादि - प्रकरणस्य मुच्यमान-विषयत्वात्, अत्र मृत्योः परत्वं नाम मृत्युं प्रति कारणत्वं तस्य च देवशब्दितत्वं श्रूयत इति भावः । युक्तयन्तरमाह- विभागापादा-नस्यैवेति । अस्यामेवोपनिषदि अक्षरं तमसि लीयते तम एकी भवति परस्मिन्निति परस्य तमोविभागस्थानत्वप्रतिपादनादविभाग-स्थानस्यैव तमस्सञ्जायत इति विभागपादानत्वं युक्तमिति भावः । मुक्तप्राप्यत्वादीति - अक्षरं भिनत्तीत्यादेर्मुक्तगतिप्रकरणत्वान्मु-क्तप्राप्यत्वस्य च सोध्वनः पारमाप्नोति तद्विष्णोः परं पदम्' इत्यादिषु नारायणस्यैवेति स्थितत्वादिति भावः । केवलाच्चेतनादित्यादि न सन्नासच्छबनदाभ्यां केवलचेतनाचेतनवैलक्षण्यं विवक्षितम् न सदसदितिशब्देन मिश्रवैलक्षण्यं विवक्षितम् । व्यष्टिभ्य इत्येतन्मिश्रा-दित्येतस्य व्याख्यानमिति द्रष्टव्यम् । तदुक्तमृषिणेति - ऋषिणा-वेदेनेत्यर्थः । जगतस्तस्थुषश्चेति - जङ्गमस्य स्थावरस्य चेत्यर्थः । परमकारणव्याप्तत्वादिति - इदमुपलक्षणम् । स्थावरजङ्गमान्तर्यामित्वस्यापि कारणत्वव्याप्तत्वादिति द्रष्टव्यम् । आदित्यमभिजायत इति - अनेनादित्यलोकप्राप्तिप्रतिपादनेनार्चिरादिगतिः प्रत्यभिज्ञायत इति भावः । प्रत्यगात्मा विशोध्यत इति - मोक्षसाधनीभूत-परमात्मोपासनाङ्गभूतप्रत्यगर्थानुसन्धानार्थमितरव्यावृत्त्र्यर्थं प्रत्यगात्मस्वरूपं प्रतिपाद्यत इत्यर्थः । नन्वस्यामेव ऋचि "स दधार पृथिवीं द्यामुतेमाम्' इति पृथिव्यादिधारकत्वं व्यावर्तकमस्त्वित्याशङ्कयाह - पृथिव्यादिधारकत्वं त्विति । श्रुतौ दधारेति-दधारेत्यर्थः। धृजा-दीनां "दीर्धोभ्यासस्ये'ति अभ्यासस्य छान्दसो दीर्घः । नन्वस्मिन्नेवाष्टर्चे "यस्य छायामृतं मृत्यु'रिति अमृतमृत्युशब्दितयोर्बन्धमोक्षयो-र्नियाम्यत्वश्रवणात् परमात्मपरत्वमित्याशङ्कयाह - अमृतमृत्युशब्दौ चेति । यमन्तस्समुद्र इति - अन्तस्समुद्रे कवयो वयन्ति-अव-गच्छतीत्यर्थः। तपश्शब्देनेति "ऋतञ्च सत्यं चाभीद्धात्तपसो जायते'ति तपश्शब्देनेत्यर्थः । तपश्शब्दश्च "ये चेमेरण्ये श्रद्धां तपइत्युपा-

1.4.29

सते' इत्यादाविव परमात्मपर इति भावः । उपक्रमस्थधातृशब्दैकरूप्यस्येति - "सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्' इतिपूर्ववा-क्यश्रुतधातृशब्दैकरूप्यस्यैव धातुः प्रसादिति धातृशब्देप्याश्रयणीयत्वादित्यर्थः । उत्तरे चानुवाक इति - "स ब्राहृा स शिव' इतिना-रायणानुवाके प्रतिपादनादिति भावः । ब्राहृकार्यवर्गप्रतिपादनप्रकरण इति - "सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषस्समिधस्सप्त-

1.4.29

जिह्वाः। सप्तमे लोका येपु चरन्ति प्राणाः गुहाशयां निहितास्सप्त सप्त । अतस्समुद्रा गिरयश्च सर्वे तस्मात्यन्दन्ते सिन्धवस्सर्वरूपाः । अतश्च विश्वा ओषधयो रसाश्च येनैषभूतस्तिष्ठत्यन्तरात्मा । ब्राहृा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृद्ध्णां स्वधितिर्वनानां सोमः पवित्रमत्येति रेफन्' इति हि प्रकरणम् । तस्मात्तुल्यबलेति - ननु तुद्रमहेश्वरश्रुत्योरुपक्रमस्थेन धातृपदेन तुल्य-बलत्वं पूर्वतन्त्रे हि "विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सवर्मवत्वम्' इत्यधिकरणे कÏस्मश्चित् काम्येष्टिविशेषे ऐन्द्राग्न एकादश-कपालः प्राजापत्यं दधि मधु घृतमाप इति पञ्चानां हविषामाद्ययोरैन्द्राग्नसान्नायविकारत्वेनामावास्याविध्यन्तप्राप्तौ उपांशुयाजविका-राणां मधूदकधृतानां चरमश्रुतत्वेपि भूयस्त्वात्तदनुग्रहाय पौर्णमासविध्यन्त इति निर्णीतम् । ततश्चोपसंहारस्थानेकप्रमाणापेक्षयोपक्र-मस्थमेकं दुर्बलम् । अन्तर उपपत्तेरित्यधिकरणे तथा निर्णीतं चेति चेन्न; विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्धर्मत्वमिति पूर्वपक्षं कृत्वा मुख्यं वा पूर्वचोदनाल्लोकवदिति सिद्धान्त्यते, अतश्च द्वयोरपि सूत्रयोरैकाधिकरण्यमिति एकदेशिमतानुसारेणेदमिति द्रष्टव्यम् । किञ्चात्रापि "धाता यथापूर्वमकल्पयत् धातुः प्रसादा'दिति धातृशब्दाभ्याससत्त्वाच्च भूयोऽल्पत्वरूपवैषम्यं नास्तीति द्रष्टव्यम् । अनु-वादस्यान्यसापेक्षत्वादिति । ननु यो वेदानामित्येतस्य कथमनुवादत्वशङ्का? नहि विश्वाधिकस्य महर्षेः रुद्रस्य हिरण्यगर्भजनकत्व-रूपः प्रतीयमानोऽर्थो मानान्तरप्राप्तेः, येनेदं वाक्यमनुवादि स्यात्, असत्यां च मानान्तरप्राप्तौ यदुपबन्धसहरुोणापि अनुवादकत्वस्य कल्पयितुमशक्यत्वात् । न च यदुपबन्धबलाद्रुपदस्य नारायणो लक्षणमाश्रित्य नारायणाद्ब्राहृा जायत इतिवाक्यस्य पुरोवादित्वमङ्गी-कृत्यास्य वाक्यस्यानुवादित्वं परिकल्प्यत इति वाच्यम्; तथासति यदाग्नेय इत्यादिवाक्येष्वपि यदुपबन्धबलेन सौर्यचरुपरत्वाश्रयणेना-नुवादित्वप्रसङ्गादिति चेन्न; द्वयोर्हिरण्यगर्भकारणत्वासम्भवात् श्रुतिविशेषश्रुतयोरुद्रनारायणपदयोरन्यतरलक्षणावश्यम्भावात् यदुप-बन्धानुग्रहाय रुद्रपदस्यैव लक्षणाश्रियते सम्भवान्नियामकस्य त्यागायोगादिति भावः । ननु "अकारेणोच्यते विष्णुः' इत्याकारवाच्यस्य विष्णुत्वप्रतिपादकवाक्यमेकम् "यः परस्य महेन्वरः' इत्याकारवाच्यस्य रुद्रत्वप्रतिपादकमपरम्, कोऽनयोविर्शेषः? चैत्रो मित्रायाः प्रतिरित्येकं वाक्यम्, यो मित्रायाः पतिस्स मैत्र इत्यपरम्, नह्रनयोरुपजीव्योपजीवकभावोऽनुवाद्यनुदकभावो वा बलाबलप्रयोजकः, कश्चिन्मृग्यमाणोपि वीक्ष्यत इत्यस्वरसादाह - नारायणस्याकारवाच्यतासिद्धेश्चेति । नारायणस्याकारवाच्यत्वस्य "अकारेणाखि-लाधारः परमात्माभिधीयते । समस्तशब्दमूलत्वादकारस्य स्वभावतः । समस्तवाच्यमूलत्वाद्ब्राहृणोपि स्वभावतः । वाच्यवाचकसम्ब-न्धस्तयोरर्थात्प्रतीयते । "अ निषेधे पुमान्विष्णौ अकारो विष्णुवाचकः अकारोणोच्यते विष्णुः अ इति ब्राहृ' अ इति भगवतो नारा-यणस्य प्रथमाभिधानमभिदधता' इत्यादिबहुप्रमाणसम्प्रतिपन्नतया तदनुरोधेनैवैतद्वाक्यार्थस्य वर्णनीयतया यः पर इत्यनेन नाराय-णमेवानूद्य महेश्वरशब्दे रूढिं परित्यज्य योगार्थभूतं महत्त्वविशिष्टमीशितृत्वं विधीयत इति भावः । अनुवादरूपतयेति- "यो देवानां प्रभवश्चोद्भवश्च विन्वाधिको रुद्रो महर्षिःहिरण्यगर्भं जनयामास पूर्वं स नो देवश्शुभया संयुनक्त' इति यच्छब्दयुक्ततया श्रवणादनुवा-दरूपत्वमिति भावः । अविरोधश्च वस्त्वैक्येनेति - पिण्डरूपमृज्जन्यस्य घटस्य कपालत्वावस्थापन्नमृज्जनकत्वदर्शनाद्वस्त्वैक्यमवि-रोधसम्पादकमिति भावः । अवस्थाद्वयपौर्वापर्येति - मृज्जन्यघटस्य तज्जनकत्वदर्शनेपि यदवस्थापन्नमृज्जन्यत्वं घटस्य तदवस्थापन्न-भृज्जनकत्वं न दृष्टमिति भावः । आकाशप्राणादिष्वपीति - "सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते' सर्वाणि ह वा इमानि भूतानि प्राणमवाभिसंविशन्ति' इत्यादिवाक्यानामपि कल्पविशेषप्रवृत्तवृत्तान्तविषयतया अविरोधसम्भवात्तद्वाक्यानां परमा-त्मपरत्वं न कल्पयेत इति भावः । ननु "त्रयस्ते कारणात्मानो जातास्साक्षान्महेश्वरात् । ब्राहृा सर्गे हरिस्त्राणे रुद्रस्संहरणे पुनः । तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयार्थिनः । तपसा तोषयित्वा तं पितरं परमेश्वरम् । ब्राहृनारायणौ पूर्वं रुद्रः कल्पान्तरेऽसृजत् । कल्पान्तरे पुनब्र्राहृा रुद्रविष्णू जगन्मयः । विष्णुश्च भगवांस्तद्वद्ब्राहृाणमसृजत्पुनः । नारायणं पुनब्र्राहृा ब्राहृाणं च पुनर्भवः । एवं कल्पेषु

1.4.29

कल्पेषु ब्राहृविष्णुमहेश्वराः । परस्परस्माज्जायन्ते परस्परजयैषिणः । तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः । प्रभावः कथ्यते तेषां परस्परसमुद्भवात् । क्वचिद्ब्राहृा क्वचिद्रुद्रः क्वचिद्विषकणुः प्रशस्यते । नानेन तेषामाधिक्यं न्यूनत्वं वा कथञ्चन । तत्तत्कल्पान्तवृत्तान्त-मधिकृत्य महर्षिभिः । तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्रति । अयं परस्त्वयं नेति संरम्भाभिनिवेशिनः । यातुधाना भवन्त्येव पिशाचाश्च न संशयः । यो ब्राहृविष्णुरुद्राणां भेदमुक्तमभावतः । साधयेदुदरव्याधियुक्तो भवति मानवः । निर्दिष्टः परमेशाना महेशो नीललोहितः । पुत्रो भूत्वानुगृह्वाति ब्राहृाणं ब्राहृणोऽनुजः । अहं च भवतो वक्त्रान्कल्पान्ते घोररूपधृक् । शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रक । अंशभूतो महादेवः सर्वदेवनमस्कृतः । अर्धनारीश्वरो भूत्वा प्रादुरासीत्कृपानिधिः । तस्य ह्मत्कमलस्थस्य नियो-गादंशजो विभोः । ललाटं तस्य निर्भिद्य प्रादुरासीत्प्रभोर्मुखात्' इति कौर्मसूतसंहितालैङ्गैः स्मृतिवचनैः कल्पभेदस्यावताररूपत्वस्य च प्रतिपादनात् "न चास्य कश्चिज्जनिता न चाधिपः' इतिश्वेताश्वेतरे रुद्रस्य जनयितृभावप्रतिपादनाच्च तथाभ्युगन्तव्यमित्यस्वरसादाह -

1.4.29

वस्त्वैक्यकल्पभेदावतारेति । न चैवमुदाह्मतवचनानुसारात्रिमूर्तिसाम्यैक्यमेक्षोन्मज्जनप्रसङ्ग इति वाच्यम्; तामसपुराणेषु अपचरदव-स्थतया प्रक्षेपशङ्कास्पदेषु एवं श्रवणेप्यतादृशेषु तथा श्रवणाभावात् श्वेताश्वतरस्य शिवपरत्वस्यासम्प्रतिपन्नत्वाच्चेति द्रष्टव्यम् । रुद्र-शब्दस्यैव प्रसिध्द्यानादर इति - रुद्रहिरण्यगर्भशब्दयोर्मध्ये रुद्रशब्दस्य मुख्यत्वादसञ्जातविरोधित्वान्न तत्र मुख्यार्थत्यागो युक्तः । किन्तु जघन्यविरण्यगर्भशब्दस्यैव स्कन्दपरत्वमितिवाच्यम्; रुद्रशब्दस्य "रुद्रो बहुशिरा बभ्रुः' इत्यादिषु भगवत्परतया प्रयोगद्धि-रण्यगर्भशब्दस्य स्कन्दे क्वापि प्रयोगादर्शनात् ततोपि मुख्यानां विश्वाधिकादिशब्दानां बहूनां सत्त्वाच्च तदनुग्रहाय रुद्रशब्दस्यैव भगवत्परत्वं युक्तमिति भावः । उदगादितिब्रााहृणानुरोधेनेति - शैलालिब्रााहृण इति । शैलालिब्रााहृणं समन्वयसूत्रे उदाह्मतम् । "अस्य देवस्य मीदुष' इति । अस्य विष्णोः, देवस्य दीप्तस्य एषस्य एषणीयस्य सर्वैः स्वामित्वेनापेक्षणीयस्य, मीदुषः-सेतुं वा वशाखेति निरुक्तभाष्यम्, शाखा यथा तथा विष्णोस्तरुस्थानीयस्य शाखास्थानीयो रुद्रः, प्रभुते- यज्ञे रुद्रकर्तृके, हविर्भिः रुद्रियं महित्वं विदधे लब्धवानित्यर्थः । महापुरुषं वार्चयेदितीति - यद्यपि "वेदाहमेतं पुरुषं महान्त'मित्यत्र महापुरुषशब्दो न प्रयुक्तः, तथापि महच्छब्दसमानाधिकरणपुरुषशब्दोसाधारण इति भावः । ननु यथा "नारायणाद्ब्राहृाऽजायत' इति श्रुत्या ब्राहृजनकत्वस्य नारायण-चतह्नत्वनिश्चयः तद्वदिहापि रुद्रो महषिÐर्हरण्यगर्भं जनयामास' इति श्रुत्या हिरण्यगर्भजनकत्वस्य रुद्रदिह्नत्वनिश्चयोऽस्त्वित्याशङ्कय प्रतिबन्धकसदसद्भावाभ्यां वैषम्यमाह - नचानयैव श्रुत्येति । ननु नारायणाद्ब्राहृाजायत इत्यत्रापि ईदृशोन्योन्याश्रयस्सृवचः, नच प्रतिबन्धकसदसद्भावाभ्यां विशेष इत्युक्त इतिवाच्यम्; तर्हि स एव दोषः, न त्वन्योन्याश्रयः । न ह्रस्य वाक्यस्य रुद्रपरत्वनिश्चयोः हिरण्यगर्भजनकत्वस्य रुद्रलिङ्गत्वनिश्चयाधीनः, रुद्राभिधानश्रुत्यैव तत्परत्वस्य निश्चेतुं शक्यत्वात्, इतरथा नारायणाद्ब्राहृाजायत इत्यत्राप्यगतेरित्यस्वरसादाह - अनुवादरूपत्वाच्चेति । देवात्मप्रेरित्रीशब्राहृशब्दैरिति - उत्तरत्र प्रेरितृशब्दप्रत्यभिज्ञाप्यश्रुतिर्न दृश्यते, तथाप्यन्तरोमययत इत्यादिसौबालादिवाक्यं द्रष्टव्यम् । तृतीयेचेति - खण्ड इति शेषः । ईशानपदं त्विति - "सर्वस्य प्रभु-मीशानं सर्वस्य शरणं सुह्मत्' इत्यत्र श्रुमीशानपदमित्यर्थः । मायाप्रेरकत्वपर इति - यौगिकार्थपर इत्यर्थः । मायाप्रेरके प्रयुज्यमानो महेश्वरशब्दो यौगिक एव नारायणस्यैव सुबालोपनिषत्प्रतिपाद्यतमोधिष्ठातृत्वेन श्रवणादिति भावः । ईशानशब्देनोच्यत इति -

1.4.29

"येनेदं सञ्चविचैति सर्वं तमीशानं वरदं देवमीड¬म्' इति हि श्रुतिः । तमीशानमित्यत्रेशानप्रतिसम्बन्ध्याकाङ्क्षायां यस्मिन्निदमिति पूर्व-वाक्यनिर्दिष्टस्यैव सर्वस्य प्रतिसम्बन्धितया ग्रहणमिति भावः । तत्रेशानो भूतभव्यस्येति - यद्यपि श्वेताश्वेतरे "अङ्गुष्ठमात्रः पुरुषोन्त-रात्मा सदा जनानां ह्मदये सन्निविष्टः । ह्मदा मनीषा मनसाधिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति' इत्येव पाठः, न तत्रेशानशब्दोस्ति तथा कठवल्लयामेतद्वाक्यप्रत्यभिज्ञाप्याङ्गुष्ठमात्रवाक्ये प्रतिसम्बन्ध्युपादानेन ईशानपदस्य योगार्थपरत्वमिति भावः । इह सर्यशब्देनेति - येनेदं सञ्चाविचेति सर्वमितिवाक्य इति भावः । कालस्यापि परिच्छेदक इति - ततश्च "यः कालकालः' इत्यन्तकरिपुर्नोच्यत इति भावः। योनियोनाविति - प्रतीयोनीत्यर्थः । विभक्तिविपरिणामेनानुषङ्ग इति - कारणानां कारणं धाता रुाष्टा ध्याता आदिसर्ग-

1.4.29

सङ्कल्पकर्ता न प्रसूयत इति योजनेति भावः । न ब्राहृादिवदुत्पत्तिरित्यर्थ इति - ननु ब्राहृविष्णुरुद्रास्ते सर्वे सम्प्रसूयन्ते कारणं कारणानां धाता ध्यातेतिवाक्ये ब्राहृविष्णुरुद्रेन्द्राणामुत्पत्तिसत्त्वाध्द्येयत्वं प्रतिपाद्यत इति वाक्यतात्पर्यं वक्तव्यम्; नैतत्सिद्धान्तिन उपपद्यते, ब्राहृरुद्रमध्यपठितस्य विष्णोः ध्येयत्वप्रतिक्षेपकस्य सिद्धान्त्यनभिमतत्वादिति चेन्न; त्रिमूर्तिमध्यस्थितस्य विष्ण्ववतारस्य

1.4.29

मुमुक्षुध्येयत्वं प्रतिक्षिप्य परवासुदेवमूर्तेः समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् । समस्तशक्ति-रूपाणि तत्करोति जनेश्वर । देवतिर्यड्मनुष्याख्याचेष्टावन्ति स्वलीलया' इत्यादिप्रमाणप्रतिपन्नाया एव ध्येयतया विधिपरत्वादस्याः श्रुतेरिति द्रष्टव्यम् । नतु परमपुरुषासाधारणधर्मासम्भवादिति - प्रतर्दनविद्यायां हि चिदचिद्य्वावत्र्तकधर्मानन्वयेन तच्छरीरकपर-मात्मपरत्वमुक्तम्, इह तु सार्वात्म्यस्य परमपुरुषासाधारणधर्मत्वप्रतिपादनमुखेन तद्धर्मानन्वयेन सिद्धान्तः क्रियते, नह्रयं न्यायस्त-त्रोपन्यस्तः, येन गतार्थता स्यादिति भावः । नतु रुद्रवाक्यमिति - ततश्च "सोन्तरादन्तरं प्राविशत् इतिश्रुतिवाक्ये तच्छब्देन रुद्र एव परामृश्यते, ततश्च तस्यैवान्तर्यामित्वमुच्यत इति भावः । अहमेकमासमिति कारणत्वमुक्तमिति । ननु "को भवा'नित्यभिमुखस्य

1.4.29

रुद्रस्य स्वरूपे देवैः पृष्टे "अहमेकः प्रथममास'मित्यादिना मदन्तर्यामी परमात्मेति प्रतिवचनम् "आम्रं पृष्टः कोविदारा'नितिन्यायः कथं नानुसरेत्? नच मदन्तर्यामी सर्वात्मेत्मुक्तेस्सर्वात्मभूतभगवच्छरीरभूतोहमित्यर्थे पर्यवसन्नतया को भगवानिति प्रश्नंप्रति उत्तरत्वस-म्भादितिवाच्यम्; तथा सति किं त्वं सकलकारणसर्वान्तरर्यामिशेषभूतः, उत स्वतन्त्र? इतिप्रश्नाभिप्रायः पर्यवसन्नस्यात् ततश्च तादृ-शप्रश्नस्यानुगुणे अहं न स्वतन्त्रः, अपि तु सर्वकारणसर्वान्तर्यामिशेषभूत इत्युत्तरे वक्तव्ये विरुद्धमतिकृतेदृशप्रतिवचनस्यासम्भवादिति चेन्न, श्रुतीनां परोक्षप्रियत्वेन गूढाभिप्रायतया समीचीनमीमांसावसेयतात्पर्यकत्वस्यादोषत्वादिति द्रष्टव्यम् । बुध्द्या प्राविशदिति - मनसि कृतवानित्यर्थः । तेन तेन हि तं नरम् अनुप्रविश्येति - तत्तद्भावयुक्ततया तं ज्ञात्वेत्यर्थः । रुद्रवाक्यानुवादेनेति - "अहमेकः प्रथममासम्' इत्यादिरुद्रवाक्यार्थीभूतनारायणसर्वान्तर्यामित्वानुवादेन स्तुतिपरत्वादित्यर्थः । तद्धितद्वयकल्पकाभावादिति - पशुप-तिना प्रोक्तं पाशुपतं शास्त्रं तत्प्रतिपाद्यं पाशुपतमिति तद्धितद्वयकल्पकाभावादितिभावः । इदमुपलक्षणम् । पाशुपतशब्दस्य वृद्धत्वा-

1.4.29

च्छप्रत्ययप्रसङ्गेन पाशुपतमिति रूपासिद्धिप्रसङ्गादित्यपि द्रष्टव्यम् । समन्त्रकभसितस्पर्शनं त्विति - अग्निरित्यादिना भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशेद्व्रतमेतत्पाशुपतं पशुपाशविमोक्षायेतिश्रुतमित्यर्थः । ननु "भस्माद्धूलनस्य मद्यंपीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा प्रहृहत्यां च कृत्वा भस्मच्छन्नो भस्मशय्याशयानो रुद्रध्यायी मुच्यते सवपाशैः' इति शातातपस्मृतौ सर्वपापक्षयहेतुत्वस्मरणात् पापक्ष-यस्य सर्वब्राहृविद्यापेक्षितत्वादपेक्षालक्षणवस्तुसामथ्र्यलिङ्गेन पाशुपतप्रकरणं बाधित्वा सर्वविद्यार्थत्वमेवाभ्युपगन्तव्यम् । अत एव "तमेतं वेदानुवचनेन' इत्यत्र दहरविद्यायाः प्रकृतत्वेपि "धर्मेण पापमनुदति' इतिश्रुतिप्रतिपन्नस्य कर्मजन्यस्य पापक्षयरूपद्वारस्य सर्वविद्यापेक्षितत्वाद्यज्ञादिकर्मणां सवर्विद्यासाधारण्यम्; तथा "तस्मादेवंविच्छान्तो दान्त' इत्यादिश्रुतौ प्रकृतविद्यापरामर्शकैवविच्-छब्दे सत्यपि शमदमादिसाध्यचित्तैकाग्रयादेस्सर्वविद्यापेक्षित्वादेव सर्वविद्यासाधारण्यमभ्युपेयत इति चेन्न; यदि प्रकरणपठिताना-मप्यपेक्षामात्रेण सर्वसाधारण्यम्, तर्हि दर्शपूर्णमासप्रकरणपठितानां व्रीहिप्रोक्षणावघातादीनां सन्निपत्याङ्गानां "वर्म वा एतद्यज्ञस्य क्रियते' इत्याद्यर्थवादप्रतिपन्नयागापेक्षितोपकारजनकानां प्रयाजद्यङ्गानामपि उपदेशत एव सर्वयागसाधारण्यप्रसङ्गः "यज्ञेन दानेन' इत्यादिस्थलेतु "कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते' इत्यादिसर्वविद्यासाधारण्यप्रतिपादकशास्त्रान्तरवशेन सर्वविद्यासाधारण्य-

1.4.29

सिद्धावप्यन्यत्र तथात्वे प्रमाणाभावाच्छमदमादिस्थलेपि शमाद्येकसाध्यचित्तैकाग्रयैकसाध्यत्वाद्ब्राहृोपासनस्य शमादेस्सवर्विद्यासा-धारण्यम्, ब्राहृविद्यापेक्षितपापक्षयस्य भस्मोद्मूलनैकसाध्यत्वे प्रमाणाभावात् भस्मोद्धूलनस्य न सर्वब्राहृविद्याङ्गत्वमित्यलमतिचर्चया । ज्ञातव्यार्थस्य समाप्तिसूचक इति - "तस्मादेवंविदमेव ब्राहृाणं कुर्वीत नानेवंविदम्, "य यतमेवं विद्वानादित्यं ब्राहृेत्युपास्ते अभ्योशो ह यदेनं साधवो घोषा आगच्छेयुरुपनिम्रेडरन् निम्रेडरन्' इत्यादौ अब्राहृप्रतिपादकोपनिषद्भागेपि अभ्यासदर्शनात् गौतमधमर्शास्त्रे प्रतिखण्डिकमभ्यासदर्शनाच्च प्रायिकमेतदिति मन्तव्यम् । पादषट्कात्मकत्वेनेति - शरभादावष्टचरणत्ववद्भ्रमरादौ षट्चरणत्वस्यापि दर्शनाच्छरभाध्यायवद्भ्रूमराध्यायतयापि निबन्धनप्रसङ्गादिति भावः । ननु इतिहासपुराणाद्यनुग्राहका न्याया अभ्यासेन सङ्ग्राह्रास्सूच्या इत्याशङ्कयाह - इतिहासपुराणादीनामिति । अर्थसमाप्तिर्हीति - सर्वे व्याख्याता इत्येतावतैवार्थसमाप्ताववगतायामध्यायसमाप्तिरप्य-वगंस्यत इति किं समाप्तिद्योतकेनाभ्यासेनेति भावः । शास्त्रावसाने त्विति - इदमुपलक्षणम् । अध्यायान्तरेष्वपीति द्रष्टव्यम् । ननु महतः परमव्यक्तमिति महत्तत्त्वस्याव्यक्तभेदप्रतिपादनात् प्रकृते ब्राहृत्वसमर्थनमात्रादेव महदादीनां ब्राहृत्वासिद्धेस्सफलमिदमधिकरण-मित्याशङ्कयाह - महतः परमव्यक्तमित्यादिवाक्यानाञ्चेति । चतुर्थाद्यविरुद्धमिति - महच्छब्दस्यात्मविशेषणत्वेन महत्तत्त्वपरत्वा-भावस्य समर्थितत्वादित्यर्थः । पूर्वमकृतत्वाच्चेति - प्रधानकारणवादनिरासस्य पूर्वमकृतत्वेन तस्या एतच्छब्देन परामर्शायोगादिति

1.4.29

भावः । अनुदाह्मतवाक्यानामतत्परत्वमिति - अनुदाह्मतवाक्यानां परमाण्वादिपरत्वाभाव इत्यर्थः । इन्द्रियाणामपि तच्छरीरत्व-मुक्तमिति - स्थानादिव्यपदेशाच्चेति सूत्र इति भावः ।। इति सर्वव्याख्यानाधिकरणम् ।।

इति दशोपनिषद्भाष्यकारैः श्रीरङ्गरामानुजमुनिभिर्विरचितायां श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकायाम् प्रथमस्याध्यायस्य- चतुर्थः पादः ।।