भावप्रकाशसंहिता/मध्यखण्डः/द्वितीयः भागः/तृष्णाऽधिकारः

विकिस्रोतः तः
← छर्द्यधिकारः भावप्रकाशसंहिता/मध्यखण्डः/द्वितीयः भागः
तृष्णाऽधिकारः
श्रीभावमिश्रः
मूर्च्छाभ्रमनिद्रातन्द्रासंन्यासाधिकारः →


अष्टादशस्तृष्णाऽधिकारः १८
भयश्रमाभ्यां बलसङ्क्षयाद्वाऽप्यूर्ध्वं चितं पित्तविवर्द्धनैश्च
पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत्पिपासाम् १
स्रोतःस्वपां वाहिषु दूषितेषु दोषैश्च तृट् सम्भवतीह जन्तोः
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽमसमुद्भवा च
भक्तोद्भवा सप्तमिकेति तासां निबोध लिङ्गान्यनुपूर्वशस्तु २
ताल्वोष्ठकण्ठास्यविशोषदाहाः सन्तापमोहभ्रमविप्रलापाः
सर्वाणि रूपाणि भवन्ति तस्यामुत्पत्तिकाले तु विशेषतो हि ३
क्षामास्यता मारुतसम्भवायां तोदस्तथा शङ्खशिरःसु चापि
स्रोतोनिरोधो विरसञ्च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ४
मूर्च्छाऽन्नविद्वेषविलापदाहा रक्तेक्षणत्वं प्रततश्च शोषः
शीताभिनन्दा मुखतिक्तता च पित्तात्मिकायां परिधूपनञ्च ५
वाष्पावरोधात् कफसंवृतेऽग्नौ तृष्णा बलासेन भवेन्नरस्य
निद्रा गुरुत्वं मधुरास्यता च तयाऽदितः शुष्यति चातिमात्रम् ६
क्षतस्य रुक्छोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु ७
रसक्षयाद्या क्षयसम्भवा सा तयाऽभिभूतस्तु निशादिनेषु
पेपीयतेऽम्भ स सुखं न याति तां सन्निपातादिति केचिदाहुः
रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत् ८
त्रिदोषलिङ्गाऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री ९
स्निग्धं तथाऽम्ल लवणञ्च भुक्तं गुर्वन्नमेवाशु तृषां करोति १०
दीनस्वरः प्रताम्यन्दीनाननहृदयशुष्कगलतालुः
भवति खलु सोपसर्गा तृष्णा सा शोषिणी कष्टा ११
ज्वरमोहक्षयकासश्वासाद्युप सृष्टदेहानाम्
सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम्
घोरोपद्र वयुक्तास्तृष्णा मरणाय विज्ञेयाः १२
वातघ्नमन्नपानं मृदु लघु शीतञ्च वाततृष्णायाम् १३
तृष्णायां पवनोत्थायां सगुडं दधि शस्यते
स्वादु तिक्तं द्र वं शीतं पित्ततृष्णाऽपहं परम् १४
मुस्तपर्पटकोदीच्यच्छत्राख्यो शीरचन्दनैः
शृतं शीतं जलं दद्यात्तृड्दाहज्वरशान्तये १५
लाजोदकं मधुयुतं शीतं गुडविमर्दितम्
काश्मरीशर्करायुक्तं पिबेत्तृष्णाऽदितो नरः १६
आस्तरणमार्द्र वासः प्रावरणं चार्द्र वासः स्यात्
तेन पिपासा शाम्यति दाहश्चोग्रोऽपि देहिनां नियतम् १७
गोस्तनीक्षुरसक्षीरयष्टी मधुमधूत्पलैः
नियतं नासिकापीते तृष्णा शाम्यति दारुणा १८
वैशद्यं जनयत्यास्ये सन्दधाति मुखे जलम्
तृष्णादाहप्रशमनं मधुगण्डूषधारणम् १९
जिह्वातालुगलक्लोमशोषे मूर्ध्नि निधापयेत्
केशरं मातुलुङ्गस्य घृतसैन्धवसंयुतम् २०
दाडिमं बदरं लोध्रं कपित्थं बीजपूरकम्
पिष्ट्व्वा मूर्द्धनि लेपस्तु पिपासादाहनाशनः २१
वारि शीतं मधुयुतमाकण्ठाद्वा पिपासितम्
पाययेद्वामयेच्चाथ तेन तृष्णा प्रशाम्यति २२
प्रातः शर्करयोपेतः क्वाथो धान्याकसम्भवः
जयेत्तृष्णां तथा दाहं भवेत्स्रोतोविशोधनम् २३
आमलं कमलं कुष्ठं लाजाश्च वटरोहकम्
एतच्चूर्णस्य मधुना गुटिकां धारयेन्मुखे
तृष्णां प्रवृद्धां हन्त्येषा मुखशोषञ्च दारुणम् २४
क्षतोद्भवां रुग्विनिवारणेन जयेद्र सानामसृजश्च पानैः
क्षयोत्थितां क्षीरजलं निहन्यान्मांसोदकं वा मधुरोदकं वा २५
आमोद्भवां बिल्ववचायुतानां जयेत्कषायैरथ दीपनानाम्
गुर्वान्नजामुल्लिखनैर्जयेच्च क्षयं विना सर्वकृताञ्च तृष्णाम् २६
स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत्
अतिरोगदुर्बलानां तृष्णां शमयेन्नृणामिहाशु पयः २७
मूर्च्छाच्छर्दितृषानाह स्त्रीमद्यभृशकर्षिताः
पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये २८
सात्म्यान्नपानभेषज्यैस्तृष्णां तस्य जयेत्पुनः
तस्यां जितायामन्योऽपि व्याधिःशक्यश्चिकित्सितुम् २९
तृष्यन् पूर्वामयक्षीणो न लभेत जलं यदि
मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं नरः ३०
तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति
तस्मात्सर्वास्ववस्थासु न क्वचिद्वारि वारयेत् ३१
अन्नेनापि विना जन्तुः प्राणान्धारयते चिरम्
तोयाभावात्पिपासार्त्तः क्षणात्प्राणैर्विमुच्यते ३२
इत्यष्टादशस्तृष्णाऽधिकारः समाप्तः १८