भावप्रकाशसंहिता/मध्यखण्डः/तृतीयःभागः/कार्श्याधिकारः

विकिस्रोतः तः
← स्थौल्याधिकारः भावप्रकाशसंहिता/मध्यखण्डः/तृतीयःभागः
कार्श्याधिकारः
श्रीभावमिश्रः
उदराधिकारः  →



अथ चत्वारिंशत्तमः कार्श्याधिकारः ४०
वातो रुक्षान्नपानानि लङ्घनं प्रमिताशनम्
क्रियाऽतियोगः शोकश्च वेगनिद्रा विनिग्रहः १
नित्यं रोगो रतिर्नित्यं व्यायामो भोजनाल्पता
भीतिर्धनादिचिन्ता च कार्श्यकारणमीरितम् २
शुष्कस्फिगुदरग्रीवा धमनीजालसन्ततिः
त्वगस्थिशोषोऽतिकृशः स्थूलपर्वाननो मतः ३
प्लीहकासक्षयश्वासगुल्मार्शांस्युदराणि च
भृशं कृशं प्रधावन्ति रोगाश्च ग्रहणीमुखाः
कश्चिदन्यः कृशोऽतीव बलवान्दृश्यते तदा ४
आधानसमये यस्य शुक्रभागोऽधिको भवेत्
मेदोभागस्तु हीनः स्यात्स कृशोऽपि महाबलः ५
मेदसस्त्वधिको यस्य शुक्रभागोऽल्पको भवेत्
स स्निग्धोऽपि सुपुष्टोऽपि बलहीनो विलोक्यते ६
रुक्षान्नादिनिमित्ते तु कृशे युञ्जीत भेषजम्
बृंहणं बलकृद् वृष्यं तथा वाजीकरञ्च यत् ७
पीताऽश्वगन्धा पयसाऽद्धमासं घृतेन तैलेन सुखाम्बुना वा
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथाऽम्बुवृष्टिः ८
अश्वगन्धस्य कल्केन क्वाथे तस्मिन्पयस्यपि
सिद्धं तैलं कृशाङ्गानामभ्यङ्गादङ्गपुष्टिदम् ९
पुष्टिकृद्वालरोगोक्तमश्वगन्धाघृतं भजेत्
वाजीकरोदितं तद्वदश्वगन्धाघृतादिकम् १०
स्वभावादतिकार्श्योयः स्वभावादल्पपावकः
स्वभावादबलो यश्च तस्य नास्ति चिकित्सितम् ११
इति चत्वारिंशत्तमः कार्श्याधिकारः समाप्तः ४०