भावप्रकाशसंहिता/मध्यखण्डः/चतुर्थः भागः/सोमरोगाधिकारः

विकिस्रोतः तः
← स्त्रीरोगाणामधिकाराः भावप्रकाशसंहिता/मध्यखण्डः/चतुर्थः भागः
सोमरोगाधिकारः
श्रीभावमिश्रः
योनिरोगाधिकारः  →


अथैकोनसप्ततितमः सोमरोगाधिकारः ६९
स्त्रीणामतिप्रसङ्गेन शोकाच्चापि श्रमादपि
आभिचारिकयोगाद्वा गरयोगात्तथैव च १
आपः सर्वशरीरस्थाः क्षुभ्यन्ति प्रस्रवन्ति च
तस्यास्ताः प्रच्युताः स्थानान्मूत्रमार्ग व्रजन्ति हि २
प्रसन्ना विमलाः शीता निर्गन्धा नीरुजाः सिताः
स्रवन्ति चातिमात्रं ताः सा न शक्नोति दुर्बला ३
वेगं धारयितुं तासां न विन्दति सुखं क्वचित्
शिरः शिथिलता तस्य मुखं तालु च शुष्यति ४
मूर्च्छा जृम्भा प्रलापश्च त्वग्रूक्षा चातिमात्रतः
भक्ष्यैर्भोज्यैश्च पेयैश्च न तृप्तिं लभते सदा ५
सन्धारणाच्छरीरस्य ता आपः सोमसंज्ञिताः
ततः सोमक्षयात्स्त्रीणां सोमरोग इति स्मृताः ६
कदलीनां फलं पक्वं धात्रीफलरसं मधु
शर्करासहितं खादेत् सोमधारणमुत्तमम् ७
माषचूर्णं समधुकं विदारीं मधुशर्कराम्
पयसा पाययेत्प्रातः सोमधारणमुत्तमम् ८
स एव सरुजः सोमः स्रवेन्मूत्रेण चेन्मुहुः
तत्रैलापत्रचूर्णेन पाययेद्वारुणीं सुराम् ९
जलेनामलकी बीजकल्कं समधुशर्करम्
पिबेद्दिनत्रयेणैव श्वेतप्रदरनाशनम् १०
तक्रौदनाहाररता सम्पिबेन्नागकेशरम्
त्र्यहं तक्रेण सम्पिष्टं श्वेतप्रदरशान्तये ११
सोमरोगे चिरं जाते यदा मूत्रमतिस्रवेत्
मूत्रातिसारं तं प्राहुर्बलविध्वंसनं परम् १२
इत्यैकोनसप्ततितमः सोमरोगाधिकारः समाप्तः ६९