भावप्रकाशसंहिता/मध्यखण्डः/चतुर्थः भागः/विसर्पाधिकारः

विकिस्रोतः तः
← शीतपित्तोदर्दकोठोत्कोठाधिकारः भावप्रकाशसंहिता/मध्यखण्डः/चतुर्थः भागः
विसर्पाधिकारः
श्रीभावमिश्रः
विस्फोटकाधिकारः  →


अथ षट्पञ्चाशत्तमो विसर्पाधिकारः ५६
लवणाम्ल कटूष्णादिसेवनाद्दोषकोपतः
विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् १
विसर्पस्य सप्तधात्वं विवृणोति
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः
चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः २
आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः
यस्तु कर्दमको घोरः स पित्तकफसम्भवः ३
रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः
विसर्पाणां समुत्पत्तौ हेतवः सप्त धातवः ४
तत्र वातात्परीसर्पो वातज्वरसमव्यथः
शोफस्फुरणनिस्तोदभेदायामार्त्तिहर्षवान् ५
पित्ताद् द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ६
कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक् ७
सन्निपातसमुत्थश्च सर्वरूपसमन्वितः ८
वातपित्ताज्ज्वरच्छर्दिमूर्च्छाऽतीसारतृड्भ्रमैः
अस्थिभेदाग्निसदनतमकारोचकैर्युतः
करोति सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत्
यं यं देशं विसर्पश्च विसर्पति भवेत्स सः ९
शीताङ्गारासितो नीलो रक्तो वाऽशूपचीयते
अग्निदग्ध इव स्फोटः शीघ्रगत्वाद् द्रुतञ्च सः १०
मर्मानुसारी वीसर्पःस्याद्वातोऽतिबलस्ततः
व्यथेताङ्गं हरेत्संज्ञां निद्रा ञ्च श्वासमीरयेत् ११
हिध्माञ्च स गतोऽवस्थामीदृशीं लभते न ना
क्वचिच्छर्मारतिग्रस्तो भूमिशय्याऽसनादिषु १२
चेष्टमानस्ततः क्लिष्टो मनोदेहसमुद्भवाम्
दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते १३
कफेन रुद्धः पवनो भित्वा तं बहुधा कफम्
रक्तं वा वृद्धरक्तस्य त्वक्शिरास्नायुमांसगम् १४
दूषयित्वा तु दीर्घाणां वृत्तस्थूलखरात्मनाम्
ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम् १५
श्वासकासातिसारास्य शोषहिक्कावमिभ्रमैः
मोहवैवर्ण्यमूर्च्छाऽङ्ग भङ्गाग्निसदनैर्युतः
इत्ययं ग्रन्थिवीसर्पो वातश्लेष्मप्रकोपजः १६
कफपित्ताज्ज्वरस्तम्भनिद्रा तन्द्रा शिरोरुजाः
अङ्गावसादविक्षेपप्रलेपारोचकभ्रमाः १७
मूर्च्छाऽग्निहानिर्भेदोऽस्थ्ना पिपासेन्द्रि यगौरवम्
सामोपवेसनं लेपः स्रोतसां स च सर्पति १८
प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक्
पिडकैरवकीर्णोऽतिपीतलोहितपाण्डुरः १९
स्निग्धोऽसितो मेचकाभो मलिनः शोफवान्गुरुः
गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते २०
पङ्कत्वक्शीर्णमांसश्च स्पष्टस्नायुशिरागणः
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् २१
सन्निपातसमुत्थस्तु सर्वरूपसमन्वितः २२
बाह्यहेतोः क्षतात्क्रुद्धः सरक्तं पित्तमीरयन्
विसर्पं मारुतः कुर्यात्कुलत्थसदृशैश्चितम्
स्फोटः शोथज्वररुजादाहाढ्यं श्यावशोणितम् २३
ज्वरातिसारौ वमथुस्त्वङ्मांसदरणक्लमाः
अरोचकाविपाकौ च विसर्पाणामुपद्र वाः २४
सिद्ध्य्न्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति
पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव २५
विरेकवमनालेप सेचनास्रविमोक्षणैः
उपाचरेद्यथादोषं विसर्पानविदाहिभिः २६
रास्ना नीलोत्पलं दारु चन्दनं मधुकं बला
घृतक्षीरयुतो लेपो वातवीसर्पनाशनः २७
कशेरुशृङ्गाटकपद्मगुन्द्रः सशैवलैः सोत्पलकर्दमैश्च
वस्त्रान्तरैः पित्तकृते विसर्पे लेपो विधेयः सघृतः सुशीतः २८
त्रिफलापद्मकोशीर समङ्गाकरवीरकम्
नलमूलमनन्ता च लेपः श्लेष्मविसर्पके २९
वातपित्तप्रशमनमग्निवीसर्पणे हितम्
वातश्लेष्महरं कर्म ग्रन्थिविसर्पणे हितम् ३०
पित्तश्लेष्मप्रशमनं हितं कर्दमसंज्ञके
त्रिदोषजे क्रियां कुर्याद्विसर्पे त्रितयापहाम् ३१
शिरीषयष्टीनतचन्दनैलामांसीहरिद्रा द्वयकुष्ठबालैः
लेपो दशाङ्गः सघृतः प्रयोज्यो विसर्पकुष्ठज्वरशोथहारी ३२
परिषेकाः प्रलेपाश्च शस्यन्ते पञ्चवल्कलैः
पद्मकोशीरमधुकैश्चन्दनैर्वा विसर्पणे ३३
भूनिम्बवासाकटुकापटोलीफलत्रयीचन्दननिम्बसिद्धः
विसर्पदाहज्वरशोथकण्डूविस्फोटतृष्णावमिहृत्कषायः ३४
कुष्ठेषु यानि सर्पींषि व्रणेषु विविधेषु च
विसर्पे तानि योज्यानि सेकालेपनभोजनैः ३५
करञ्जसप्तच्छदलाङ्गली कस्नुह्यर्कदुग्धानलभृङ्गराजैः
तैलं निशामूत्रविषैर्विपक्वं विसर्पविस्फोटविचर्चिकाघ्नम् ३६
कुष्ठामयस्फोटमसूरिकोक्तचिकित्सयाऽप्याशु हरेद्विसर्पान्
सर्वान्विपक्वान्परिशोध्य धीमान्व्रणक्रमेणोपचरेद्यथोक्तम् ३७
इति षट्पञ्चाशत्तमो विसर्पाधिकारः समाप्तः ५६