भावप्रकाशसंहिता/मध्यखण्डः/चतुर्थः भागः/फिरङ्गरोगाधिकारः

विकिस्रोतः तः
← विस्फोटकाधिकारः भावप्रकाशसंहिता/मध्यखण्डः/चतुर्थः भागः
फिरङ्गरोगाधिकारः
श्रीभावमिश्रः
मसूरिकाशीतलाऽधिकारः  →


अथैकोनषष्टितमः फिरङ्गरोगाधिकारः ५९
फिरङ्गसंज्ञके देशे बाहुल्येनैव यद्भवेत्
तस्मात्फिरङ्ग इत्युक्तो व्याधिर्व्याधिविशारदैः १
गन्धरोगः फिरङ्गोऽय जायते देहिनां ध्रुवम्
फिरङ्गिणोऽङ्गसंसर्गात्फिरङ्गिण्याः प्रसङ्गतः २
व्याधिरागन्तुजो ह्येष दोषाणामत्र सङ्क्रमः
भवेत्तं लक्षयेत्तेषां लक्षणैर्भिषजां वरः ३
फिरङ्गस्त्रिविधो ज्ञेयो बाह्य आभ्यन्तरस्तथा
बहिरन्तर्भवश्चापि तेषां लिङ्गानि च ब्रुवे ४
तत्र बाह्यः फिरङ्गः स्याद्विस्फोटसदृशोऽल्परुक्
स्फुटितोव्रणवद्वेद्यः सुखसाध्योऽपि स स्मृतः ५
सन्धिष्वाभ्यन्तरः स स्यादामवात इव व्यथाम्
शोथञ्च जनयेदेष कष्टसाध्यो बुधैः स्मृतः ६
कार्श्यं बलक्षयो नासाभङ्गो बह्नेश्च मन्दता
अस्थिशोषोऽस्थिवक्रत्वं फिरङ्गोपद्र वा अमी ७
बहिर्भवो भवेत्साध्यो नवीनो निरुपद्र वः
आभ्यन्तरस्तु कष्टेन साध्यः स्यादयमामयः
बहिरन्तर्भवो जीर्णः क्षीणस्योपद्र वैर्युतः
व्याप्तो व्याधिरसाध्योऽयमित्याहुर्मुनयः पुरा ९
अथ फिरङ्गरोगस्य चिकित्सा
फिरङ्गसंज्ञकं रोगं रसः कर्पूरसंज्ञकः
अवश्यं नाशयेदेतदूचुः पूर्वाश्चिकित्सकाः १०
लिख्यते रसकर्पूरप्राशने विधिरुत्तमः
अनेन विधिना खादेन्मुखे शोथं न विन्दति ११
गोधूमचूर्णं सन्नीय विदध्यात्सूक्ष्मकूपिकाम्
तन्मध्ये निक्षिपेत्सूतं चतुर्गुञ्जामितं भिषक् १२
ततस्तु गुटिकां कुर्याद्यथा न दृश्यते बहिः
सूक्ष्मचूर्णे लवङ्गस्य तां वटीमवधूलयेत् १३
दन्तस्पर्शो यथा न स्यात्तथा तामम्भसा गिलेत्
ताम्बूलं भक्षयेत्पश्चाच्छाकाम्ललवणांस्त्यजेत्
श्रममातपमध्वानं विशेषात्स्त्रीनिषेवणम् १४
पारदष्टङ्कमानः स्यात्खदिरष्टङ्कसंमितः
आकारकरभश्चापि ग्राह्यष्टङ्कद्वयोन्मितः १५
टङ्कत्रयोन्मितं क्षौद्रं खल्वे सर्वं विनिक्षिपेत्
संमर्द्य तस्य सर्वस्य कुर्यात्सप्तवटीर्भिषक् १६
स रोगी भक्षयेत्प्रातरेकैकामम्बुना वटीम्
वर्जयेदम्ललवणं फिरङ्गस्तस्य नश्यति १७
पारदः कर्षमात्रः स्यात्तावानेव हि गन्धकः
तण्डुलाश्चाक्षमात्राः स्युरेषां कुर्वीत कज्जलीम् १८
तस्याःसप्त वटीः कुर्यात्ताभिर्धूमं प्रयोजयेत्
दिनानि सप्त तेन स्यात्फिरङ्गान्तो न संशयः १९
पीतपुष्पबलापत्ररसैष्टङ्कमितं रसम्
हस्ताभ्यां मर्दयेत्तावद्यावत्सूतो न दृश्यते २०
ततः संस्वेदयेद्धस्तावेवं वासरसप्तकम्
त्यजेल्लवणमम्लञ्च फिरङ्गस्तस्य नश्यति २१
चूर्णयेन्निम्बपत्राणि पथ्या निम्बाष्टमांशिका
धात्री च तावती रात्रिर्निम्बषोडशभागिका २२
शाणमानमिदं चूर्णमश्नीयादम्भसा सह
फिरङ्गं नाशयत्येव बाह्यमाभ्यन्तरं तथा २३
चोपचीनीभवं चूर्णं शाणमानं समाक्षिकम्
फिरङ्गव्याधिनाशाय भक्षयेल्लंवणं त्यजेत् २४
लवणं यदि वा त्यक्तुं न शक्नोति यदा जनः
सैन्धवं स हि भुञ्जीत मधुरं परमं हितम् २५
पारदः कर्षमात्रः स्यात्तावन्मात्रं तु गन्धकम्
तावन्मात्रस्तु खदिरस्तेषां कुर्यात्तु कज्जलीम् २६
रजनी केशरं त्रुट्यौ जीरयुग्मं यवानिका
चन्दनद्वितयं कृष्णा वांशी मांसी च पत्रकम् २७
अर्द्धकर्षमितं सर्वं चूर्णयित्वा च निक्षिपेत्
तत्सर्वं मधुसर्पिर्भ्यां द्विपलाभ्यां पृथक्पृथक् २८
मर्दयेदथ तत्खादेदर्द्धकर्षमितं नरः
व्रणः फिरङ्गरोगोत्थस्तस्यावश्यं विनश्यति २९
अन्योऽपि चिरजातोऽपि प्रशाम्यति महाव्रणः
एतद्भक्षयतः शोथो मुखस्यान्तर्न जायते ३०
वर्जयेदत्र लवणमेकविंशतिवासरान् ३१
इत्येकोनषष्टितमः फिरङ्गरोगाधिकारः समाप्तः ५९