भावप्रकाशसंहिता/मध्यखण्डः/चतुर्थः भागः/नेत्ररोगाधिकारः

विकिस्रोतः तः
← शिरोरोगाधिकारः भावप्रकाशसंहिता/मध्यखण्डः/चतुर्थः भागः
नेत्ररोगाधिकारः
श्रीभावमिश्रः
कर्णरोगाधिकारः  →


अथ त्रिषष्टितमो नेत्ररोगाधिकारः ६३
विद्याद्द्व्यङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम्
द्व्यङ्गुलंसर्वतः सार्द्धं भिषङ् नयनमण्डलम् १
पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु
अनुपूर्वन्तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् २
द्वादश व्याधयो दृष्टौ तत्रैवान्यौ गदावुभौ
कृष्णमार्गे तु चत्वारो दशैकः शुक्लभागजाः ३
वर्त्मन्येको विंशतिश्च पक्ष्मजौ द्वौ प्रकीर्त्तितौ
नव सन्धिषु सर्वस्मिन्नेत्रे सप्तदशोदिताः
एवं नेत्रे समस्ताः स्युरष्टसप्ततिरामयाः ४
वाताद्दश तथा पित्तात्कफाच्चैव त्रयोदश ५
रक्तात्षोडश विज्ञेयाः सर्वजाः पञ्चविशतिः
बाह्यौ पुनर्द्वौ नयने रोगाः षट्सप्ततिः स्मृताः ६
उष्णाभितप्तस्यजलप्रवेशाद् दूरेक्षणात्स्वप्नविपर्ययाच्च
स्वेदाद्र जोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् ७
शुक्तारनालाम्बुकुलत्थमाषाद्विण्मूत्रवातागमनिग्रहाच्च
प्रसक्तसंरोदनशोकतापाच्छिरोऽभिघातादतिशीघ्रयानात् ८
तथा ॠतूनाञ्च विपर्ययेण क्लेशाभितापादतिमैथुनाच्च
बाष्पग्रहात्सूक्ष्मनिरीक्षणाच्च नेत्रे विकारं जनयति दोषाः ९
शिराऽनुसारिभिर्दोषैर्विगुणैरूर्ध्वमाश्रितैः
जायन्ते नेत्रभागेषु रोगाः परमदारुणाः १०
मसूरदलमात्रां तु पञ्चभूतप्रसादजाम्
खद्योतविस्फुलिङ्गाभां सिद्धां तेजोभिरव्ययैः ११
आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम्
शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः १२
तेजोजलाश्रितं बाह्यं तेष्वन्यत्पिशिताश्रितम्
मेदस्तृतीयं पटलमाश्रितं त्वस्थ्नि चापरम्
पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते १३
प्रथमे पटले यस्य दोषो दृष्टेर्व्यवस्थितः
अव्यक्तानि स्वरूपाणि कदाचिदथ पश्यति १४
दृष्टिर्भृशं विह्वलति द्वितीयं पटले गते
मक्षिकामशकान् केशाञ्चालकानीव पश्यति १५
मण्डलानि पताकाश्च मरीचीन्कुण्डलानि च
परिप्लवांश्च विविधान्वर्षमभ्रं तमांसि च १६
दूरस्थानि च रूपाणि मन्यते च समीपतः
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात् १७
यत्नवानपि चात्यर्थं सूचीच्छिद्रं न पश्यति १८
ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते
सुमहान्त्यपि रूपाणि च्छादितानीव चाम्बरैः १९
कर्णनासाऽक्षिरूपाणि विकृतानि च पश्यति
यथादोषञ्च रज्येत दृष्टिर्दोषे बलीयसि २०
अधःस्थे तु समीपस्थं दूरस्थं चोपरिस्थिते
पार्श्वस्थिते पुनर्दोषे पार्श्वस्थानि न पश्यति २१
समन्ततः स्थिते दोषे संकुलानीव पश्यति
दृष्टिमध्यस्थिते दोषे महद्ध्रस्वं च पश्यति २२
दोषे दृष्टिस्थिते तिर्यगेकं वा मन्यते द्विधा
द्विधास्थिते द्विधा पश्येद्बहुधा चानवस्थिते २३
तिमिराख्यः स यो दोषश्चतुर्थं पटलं गतः
रुणद्धि सर्वतो दृष्टिं लिङ्गनाश इति क्वचित् २४
अस्मिन्नपि तमोभूते नातिरूढे महागदे
चन्द्रा दित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः २५
निर्मलानि च तेजांसि भ्राजिष्णूनीव पश्यति
स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः २६
दृष्ट्याश्रयाः षट् च षडेव रोगाः षड् लिङ्गनाशा हि भवन्ति तत्र
वातेन पित्तेन कफेन सर्वे रक्तात्परिम्लाय्यभिधश्च षष्ठः २७
तथा नरः पित्तविदग्धदृष्टिः कफेन वाऽन्यस्त्वथ धूमदर्शी
यो ह्रस्वजात्यो नकुलान्ध्यसंज्ञो गम्भीरसंज्ञश्च तथैव दृष्टिः २८
वातेन खलु रूपाणि भ्रमन्तीव च पश्यति
आविलान्यरुणाभानि व्याविद्धानीव मानवः २९
पित्तेनादित्यखद्योत शक्रचापतडिद्गुणान्
नृत्यतश्चैव शिखिनः सर्वं नीलञ्च पश्यति ३०
गौरचामरगौराणि श्वेताभ्रप्रतिमानिच
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम् ३१
कफेन पश्येद्रू पाणि स्निग्धानि च सितानि च
सलिलप्लावितानीव जालकानीव मानवः ३२
सन्निपातेन चित्राणि विप्लुतानि च पश्यति
बहुधाऽपि द्विधा वाऽपि सर्वाण्येव समन्ततः
हीनाधिकाङ्गान्यथ वा ज्योतींष्यपि च पश्यति ३३
पश्ये द्र क्तेनरक्तानि तमांसि विविधानि च
हरितान्यथ कृष्णानि पीतान्यपि च मानवः ३४
रक्तेन मूर्च्छितं पित्तंपरिम्लायिनमाचरेत् ३५
तेन पीता दिशः पश्येदुद्यन्तमिव भास्करम्
विकीर्यमाणान्खद्योतैर्वृक्षांस्तेजोभिरेव हि ३६
वातादिजनितैर्नेत्रवर्णैरपि च षड्विधः
लिङ्गनाशो निगदितो वर्णो वातादिजो यथा ३७
रागोऽरुणो मारुतजः प्रदिष्टो म्लायी च नीलश्च तथैव पित्तात्
कफात्सितः शोणितजः सरक्तः समस्तदोषप्रभवो विचित्रः ३८
अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा
पित्ततो मण्डलं नीलं कांस्याभं वा सपीतकम् ३९
श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् ४०
चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः
मृद्यमाने तु नयने मण्डलं तद्विसर्पति ४१
मण्डलं तु भवेच्चित्रं लिङ्गनाशे त्रिदोषजे
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ४२
रक्तजं मण्डलं दृष्टौ स्थूलकाचारुणप्रभम्
परिम्लायिनि रोगे स्यान्म्लानं नीलमथापि वा
दोषक्षयात्स्वयं तत्र कदाचित्स्यात्तु दर्शनम् ४३
यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ४४
पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः
पीतानि रूपाणि च तेन पश्येत्स वै नरः पित्तविदग्धदृष्टिः ४५
प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते सः
रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावात्सकलानि पश्येत् ४६
तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु
त्रिषु स्थितोऽल्प पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य
दिवा स सूर्यानुगृहीतदृष्टिः पश्येत्तु रूपाणि कफाल्पभावात् ४७
शोकज्वरायासशिरोऽभितापैरभ्याहता यस्य नरस्य दृष्टिः
धूमांस्तु यःपश्यति सर्वभावात्स धूमदर्शीति नरः प्रदिष्टः ४८
यो वासरे पश्यति कष्टतोऽथ रूपं महच्चापि निरीक्षतेऽल्पम्
रात्रौ पुनर्यः प्रकृतानि पश्येत्स ह्रस्वजात्यो मुनिभिः प्रदिष्टः ४९
विद्योतते यस्य नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत्
चित्राणि रूपाणि दिवा च पश्येत्स वै विकारो नकुलान्ध्यसंज्ञः ५०
दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कोचमभ्यन्तरतः प्रयाति
रुजाऽवगाढा च तमक्षिरोगे गम्भीरिकेति प्रवदन्ति धीराः ५१
बाह्यौ पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च
निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैः सः ५२
सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्करस्य
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसञ्ज्ञः ५३
तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः
विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः ५४
इति दृष्टिगत रोगाः
अथ कृष्णमण्डलजा रोगाः
यत्सव्रणं शुक्लमथाव्रणञ्च पाकात्ययश्चाप्यजका तथैव
चत्वार एते नयनामयास्तु कृष्णप्रदेशे नियता भवन्ति ५५
निमग्नरूपं तु भवेद्धि कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै
स्रावं स्रवेदुष्णमतीव चापि तत्सव्रणं शुक्लमुदाहरन्ति ५६
दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्यत्
अवेदनं यन्न च युग्मशुक्लं तत्सिद्धिमायाति कदाचिदेव ५७
स्यन्दात्मकं कृष्णगतन्तु शुक्लं शङ्खेन्दुकुन्दप्रतिमावभासम्
वैहायसाभ्रप्रतनुप्रकाशमथाव्रणं साध्यतमं वदन्ति ५८
गम्भीरजातं बहलञ्च शुक्लं चिरोत्थितञ्चापि वदन्ति कृच्छ्रम् ५९
विच्छिन्नमध्यं पिशितावृतञ्च चलं शिरासूतमदृष्टिकृच्च
द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितञ्चापि विवर्जनीयम् ६०
उष्णाश्रुपातः पिडका च कृष्णे यस्मिन्भवेन्मुद्गनिभञ्च शुक्लम्
तदप्यसाध्यं प्रवदन्ति केचिदन्ये तु तत्तित्तिरिपक्षतुल्यम् ६१
श्वेतः समाक्रामति सर्वतो हि दोषेण यस्यासितमण्डले तु
तमक्षिपाकात्ययमक्षिकोपं सर्वात्मकं वर्जयितव्यमाहुः ६२
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः
विगृह्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत् ६३
इति कृष्णमण्डलजा रोगाः
अथ नेत्रशुक्लभागजा रोगाः
प्रस्तारिशुक्लक्षतजाधिमांसस्नाय्वर्मसंज्ञाः खलु पञ्च रोगाः
स्याच्छुक्तिका चार्जुनपिष्टकौ च जालं शिराणां पिडकाश्च याः स्युः
रोगा बलासग्रथितेन सार्द्धमेकादशाक्ष्णोः खलु शुक्लभागे ६४
प्रस्तार्यर्म तनु स्तीर्णं श्यावं रक्तनिभं सितम् ६५
सुश्वेतं मृदु शुक्लार्म शुक्ले तद् वर्द्धते चिरात् ६६
पद्माभं मृदु रक्तार्म यन्मांसं चीयते सिते ६७
पृथु मृद्वधिमांसार्म बहलञ्च यकृन्निभम् ६८
स्थिरं प्रसारि मांसाढ्यं शुष्कं स्नाय्वर्म पञ्चमम् ६९
श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये
शुक्लाभाः सितनिचिताः स शुक्तिसञ्ज्ञः ७०
एको यः शशरुधिरप्रभस्तु बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति ७१
श्लेष्ममारुतकोपेन शुक्ले मांसं समुन्नतम्
पिष्टवत्पिष्टकं विद्धि मलाक्तादर्शसन्निभम् ७२
जालाभः कठिनशिरोऽरुणः शिराणां
सन्तानो भवति शिराऽदिजालसञ्ज्ञः ७३
शुक्लस्थाः सितपिडकाःशिरावृता यास्ता विद्यादसितसमीपजाः शिराजाः ७४
कांस्याभोऽमृदुरथ वारिबिन्दुकल्पो विज्ञेयो नयनसिते बलाससञ्ज्ञः ७५
इति शुक्ल भागजा रोगा
अथ वर्त्मजा रोगाः
उत्सङ्गिन्यथ कुम्भीका पोथकी वर्त्मशर्करा
तथाऽशोवर्त्म शुष्कार्शस्तथैवाञ्जनदूषिका ७६
अभ्यन्तरमुखी ताम्रा बाह्यतो वर्त्मसंश्रया
सोत्सङ्गोत्सङ्गपिडका सर्वजा स्थूलकण्डुरा ७७
वर्त्मान्ते पिडकाध्माता भिद्यन्ते च स्रवन्ति च
कुम्भीकाबीजसदृशाः कुम्भीकाः सन्निपातजाः ७८
स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः
रुजावत्यश्च पिडकाः पोथक्य इति कीर्त्तिताः ७९
पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता
पिडका या खरा स्थूला वर्त्मस्था वर्त्मशर्करा ८०
एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः
श्लक्ष्णाः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीत्तर्यते ८१
दीर्घाङ्कुरः खरः स्तब्धो दारुणोऽभ्यन्तरोद्भवः
व्याधिरेषोऽभिविख्यातः शुष्कार्शो नाम नामतः ८२
दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा
मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जनदूषिका ८३
वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः
सवर्णाभिः स्थिराभिश्च विद्याद्वहलवर्त्म तत् ८४
कण्डूरेणाल्पतोदेन वर्त्मशोफेन मानवः
न समं छादयेदक्षि यत्रासौ वर्त्मबन्धकः ८५
मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च
अकस्माच्च भवेद्र क्तं क्लिष्टवर्त्मेति तद्विदुः ८६
क्लिष्टं पुनः पित्तयुतं शोणितं विदहेद्यदा
तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः ८७
यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्
सकण्डूकं परिक्लेदि श्याववर्त्मेति तन्मतम् ८८
अरुजं बाह्यतः शूनं वर्त्म यस्य नरस्य हि
प्रक्लिन्नवर्त्म तद्विद्यात्क्लिन्नमत्यर्थमन्ततः ८९
यस्य धौतान्यधौतानि सम्बध्यन्ते पुनः पुनः
वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् ९०
विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते
एतद्वातहतं विद्यात्सरुजं यदि वारुजम् ९१
वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्
आचक्षीतार्बुदमिति सरक्तमवलम्बि च ९२
निमेषिणीः शिरा वायुः प्रविष्टो वर्त्मसंश्रयाः
सञ्चालयति वर्त्मानि निमेषः स न सिध्यति ९३
वर्त्मस्थो यो विवर्द्धेत लोहितो मृदुरङ्कुरः
तद्र क्तजं शोणितार्शश्छिन्नं वाऽपि विवर्द्धते ९४
अपाकी कठिनः स्थूलो ग्रन्थिवर्त्मभवोऽरुजः
सकण्डूः पिच्छिलः कोलप्रमाणो लगणः स्मृतः ९५
त्रयो दोषा बहिः शोथं कुर्युश्छिद्रा णि वर्त्मनोः
प्रस्रवन्त्यन्तरुदकं बिसवद्बिसवर्त्म तत् ९६
वाताद्या वर्त्मसंकोचं जनयन्ति मला यदा
तदा द्र ष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः ९७
इति वर्त्मजा रोगाः
अथ पक्ष्मरोगाः
पक्ष्मकोपः पक्ष्मशातो रोगौ द्वौ पक्ष्मसंश्रयौ ९८
प्रचालितानि वातेन पक्ष्माण्यक्षि विशन्ति हि
घृष्यन्त्यक्षि मुहुस्तानि संरम्भं जनयन्ति च
असिते सितभागे च मूलकोशात्पतन्त्यपि
पक्ष्मकोपः स विज्ञेयो व्याधिः परमदारुणः ९९
यत्पक्ष्मदेहलद्यं मुक्त्वा वर्त्मनोऽन्त प्रजायते
घर्षेत्पक्ष्मासिते श्वेते पक्ष्मकोपः च उच्यते १००
वर्त्मपक्ष्माशयगतं पित्तं लोमानि शातयेत्
कण्डूं दाहं च कुरुते पक्ष्मशातं तमादिशेत् १०१
इति पक्ष्म रोगौ
अथ सन्धिजा रोगाः
पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्ल गतोऽपरः
शुक्लकृष्ण गतश्चान्यः कृष्ण दृष्टिगतोऽपि च
मतः कनीनक गतः षष्ठश्चापाङ्ग संश्रितः १०२
पूयालसः सोपनाहः स्रावाश्चत्वार एव च
पर्वणिकाऽलजी जन्तुग्रन्थिः सन्धौ नवामयाः १०३
पक्वः शोथः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूति पूयालसाख्यः १०४
ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकी कण्डूप्रायो नीरुजश्चोपनाहः १०५
गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावांल्लक्षणैः स्वैरुपेतान्
तं हि स्रावं नेत्रनाडीति चैके लिङ्गं तस्या कीर्त्तयिष्ये चतुर्द्धा १०६
हारिद्रा भं पीतमुष्णं जलं वा पित्तस्रावः संस्रवेत्सन्धिमध्यात् १०७
श्वेतं सान्द्रं पिच्छिलं यः स्रवेत्तु श्लेष्मस्रावोऽसौ विकारः प्रदिष्टः १०८
शोथः सन्धौ संस्रवेद्यस्तु पक्वः पूयं स्रावः सर्वजः सम्मतः स्यात् १०९
रक्तास्रावः शोणिताद्यो विकारो गच्छेदुष्णं तत्र रक्तं प्रभूतम् ११०
ताम्रा तन्वी दाहपाकोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोका
जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव व्याहृता पूर्वलिङ्गैः १११
जन्तुग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युर्जन्तवः सन्धिजाताः
नानारूपा वर्त्मशुक्लान्तसन्धौ गच्छन्त्यन्तर्लोचनं दूषयन्तः ११२
इति सन्धिजा रोगाः
अथ समस्तनेत्रजा रोगाः
स्यन्दाश्चतुष्का इह सम्प्रदिष्टाश्चत्वार एवेह तथाऽधिमन्थाः
पाकः सशोथः स च शोथहीनो हताधिमन्थोऽनिलपर्ययश्च ११३
शुष्काक्षिपाकस्त्विह कीर्त्तितश्च तथाऽन्यतो वात उदीरितश्च
दृष्टिस्तथाऽम्लाध्युषिता शिराणामुत्पातहर्षौ च समस्तनेत्रे ११४
एवं समस्तनेत्रे स्युरामया दश सप्त च
तेषामिह पृथग्वक्ष्ये यथावल्लक्षणान्यपि ११५
वातात्पित्तात्कफाद्र क्ता दभिष्यन्दश्चतुर्विधः
प्रायेण जायते घोरःसर्वनेत्रामयाकरः ११६
निस्तोदनस्तम्भनरोमहर्षसंघर्षपारुष्यशिरोऽभितापाः
विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ११७
दाहः प्रपाकः शिशिराभिनन्दा धूमायनं वाष्पसमुद्भवश्च
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ११८
उष्णाभिनन्दा गुरुताऽक्षिशोथः कण्डूपदेहावतिशीतता च
स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ११९
ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च
पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति १२०
वृद्धैरेतैरभिष्यन्दैर्नराणाम क्रियावताम्
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः १२१
उत्पाट्यत इवात्यर्थं तथा निर्मथ्यतेऽपि च
शिरसोऽद्ध तु तं विद्यादधिमन्थं स्वलक्षणैः १२२
हन्याद् दृष्टिं श्लैष्मिकः सप्तरात्राद्योऽधीमन्थो रक्तजः पञ्चरात्रात्
षड्रात्राद्वा वातिको वै निहन्यान्मिथ्याऽचारात्पैत्तिकः सद्य एव १२३
कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः
संरम्भी पच्यते यस्तु नेत्रपाकः सशोथकः
शोथहीनानि लिङ्गानि नेत्रपाके त्वशोथजे १२४
उपेक्षणादक्षि यदाऽधिमन्थो वाताधिकः शोषयति प्रसह्य
रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः १२५
वारंवारञ्च पर्येति भ्रुवौ नेत्रे च मारुतः
रुजाश्च विविधास्तीव्राः स ज्ञेयो वातपर्ययः १२६
यत्कूणितं दारुणरूक्षवर्त्म सन्दह्यते चाविलदर्शनं यत्
सुदारुणं यत्प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि १२७
यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा
कुर्याद्रुजोऽति भ्रुवि लोचने च तमन्यतोवातमुदाहरन्ति १२८
श्यावं लोहितपर्यन्तं सर्वमक्षि प्रपच्यते
सदाहशोथं सास्रावमम्लाध्युषितमम्लतः १२९
अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः
मुहुर्विरज्यन्ति च याः समन्ताद् व्याधिः शिरोत्पात इति प्रदिष्टः १३०
मोहाच्छिरोत्पात उपेक्षितस्तु जायेत रोगः स शिराप्रहर्षः
ताम्राक्षिता स्रावयति प्रगाढं तथा न शक्नोत्यभिवीक्षितुञ्च १३१
उदीर्णवेदनं नेत्रं रागशोथसमन्वितम्
घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदुः १३२
मन्दवेदनताकण्डू संरम्भाश्रुप्रशान्तताः
प्रसन्नवर्णता चाक्ष्णोर्निरामेक्षणलक्षणम् १३३
इति समस्तनेत्रजा रोगाः
द्वे पादमध्ये पृथुसन्निवेशे शिरोगते ते बहुधा हि नेत्रे
ताः प्रोक्षणोत्सादनलेपनादीन्पादप्रयुक्तान्नयनं नयन्ति १३४
मलोष्मसंघट्टनपीडनाद्यैस्ता दूषयन्ते नयनानि दुष्टाः
भजेत्सदा दृष्टिहितानि तस्मादुपानदभ्यञ्जनधावनानि १३५
चक्षुष्याः शालयो मुद्गा यवा मांसन्तु जाङ्गलम्
पक्षिमांसं विशेषेण वास्तूकं तण्डूलीयकम्
पटोलकर्कोटककारवेल्लफलानि सर्पिः परिपाचितानि
तथैव वार्त्ताकफलं नवीनमक्ष्णोर्हितः स्वादुरथापि तिक्तः
कट्वम्लगुरु तीक्ष्णोष्णमाषनिष्पावमैथुनम्
मद्यवल्लूरपिण्याकमत्स्य शाकविरूढजम्
विदाहीन्यन्नपानानि नहितान्यक्षिरोगिणे
सेक आश्च्योतनं पिण्डी विडालस्तर्पणं तथा
पुटपाकोऽञ्जनं चैभिः कल्कैर्नेत्रमुपाचरेत् १३६
सेकस्तु सूक्ष्मधाराभिः सर्वस्मिन्नयने हितः
मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलः १३७
स चापि स्नेहनो वाते पित्ते रक्ते च रोपणः
लेखनस्तु कफे कार्यस्तस्य मात्राऽभिधीयते १३८
षड्भिर्वाचां शतैः स्नेहे चतुर्भिस्तैस्तु रोपणे
तैस्त्रिभिर्लोचने कार्यः सेको नेत्रप्रसादने १३९
निमेषोन्मेषणं पुंसामङ्गुल्या च्छोटिकाऽथवा
गुर्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः १४०
सेकस्तु दिवसे कार्यो रात्रावत्यन्तिके गदे
एरण्डदलमूलत्वक्छृतमाजं पयो हितम्
सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनम् १४१
पथ्याऽक्षामलखाखसवल्कलकल्केन सूक्ष्मवस्त्रेण
कृत्वा पोटलिकां तामहिफेनोत्थद्र वेण संयुक्ताम् १४२
निदधीत लोचने स्यात्सर्वाभिष्यन्दसंक्षयः शीघ्रम्
योगोऽयमृषिभिरुक्तो जगदुपकाराय कारुणिकैः १४३
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते
अचिरेणैव तद्वारि तिमिराणि व्यपोहति १४४
स्नानं कृष्णतिलैश्चापि चक्षुष्यमनिलापहम्
आमलैः सततं स्नानं परं दृष्टिबलावहम् १४५
त्रिफलायाः कषायस्तु धावनान्नेत्ररोगजित्
कवलान्मुखरोगघ्नः पानतः कामलाऽपहः १४६
क्वाथक्षीरद्र्रवस्नेहबिन्दूनां यत्तु पातनम्
द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्च्योतनं हि तत् १४७
विन्दवोऽष्टौ लेखनेषु रोपणे दश विन्दवः
स्नेहने द्वादश प्रोक्तास्ते शीते कोष्णरूपिणः १४८
उष्णे तु शीतरूपाः स्यु सर्वत्रैवैष निश्चयः
वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलम् १४९
कफे तिक्तोष्णरूक्षं स्यात्क्रमादाश्च्योतनं हितम्
आश्च्योतनानां सर्वेषां मात्रा स्याद्वाक्छतोन्मिता १५०
बिल्वादिपञ्चमूलेन बृहत्येरण्डशिग्रुभिः
क्वाथ आश्च्योतने कोष्णो वाताभिष्यन्दनाशनः १५१
त्रिफलाऽश्च्योतनं नेत्रे सर्वाभिष्यन्दनाशनम् १५२
उक्तभेषजकल्कस्य पिण्डी च कोलमात्रया
वस्त्रखण्डेन सम्बद्धाऽभिष्यन्दव्रणनाशिनी १५३
स्निग्धोष्णा पिण्डिका वाते पित्ते सा शीतला मता
रूक्षोष्णा श्लेष्मणि प्रोक्ता विधिरुक्तो बुधैरयम् १५४
एरण्डपत्रमूलत्वङ्निर्मिता वातनाशिनी
धात्रीविरचिता पित्ते शिग्रुपत्रकृता कफे १५५
निम्बपत्रकृतापिण्डी पित्तश्लेष्महरी भवेत्
शुण्ठीनिम्बदलैः पिण्डी सुखोष्णा स्वल्पसैन्धवा १५६
धार्या नेत्रेऽनिलकफे शोथकण्डूव्यथाहरी
त्रिफलापिण्डिका नेत्रे वातपित्तकफापहा १५७
पथ्याऽक्षामलखाखसवल्कलकल्कोऽहिफेनजलयुक्तः
तेन विरचिता पिण्डी शमयति सकलानभिष्यन्दान् १५८
विडालको बहिर्लेपो नेत्रे पक्ष्मविवर्जिते
तस्य मात्रा परिज्ञेया मुखालेपविधानवत् १५९
अङ्गुलस्य चतुर्थांशो मुखलेपः कनिष्ठकः
मध्यमस्तु त्रिभागः स्यादुत्तमोऽद्धाङ्गुलो भवेत् १६०
स्थितिकालेऽपि तस्योक्तो यावत्कल्को न शुष्यति
शुष्कस्तु गुणहीनः स्यात्तथा दूषयति त्वचम् १६१
यष्टिगैरिकसिन्धूत्थदार्वीतार्क्ष्यैः समांशकैः
जलपिष्टैर्बहिर्लेपः सर्वनेत्रामयापहः १६२
रसाञ्जनेन वा लेपः पथ्याबिल्वदलैरपि
वचाहरिद्रा विश्वैर्वा तथा नागरगैरिकैः १६३
वातातपरजोहीने वेश्मन्युत्तानशायिनः
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ १६४
समौ दृढावसन्धानौ कर्त्तव्यौ नेत्रकोशयोः
पूरयेद् घृतमण्डेन विलीनेन सुखोदकैः १६५
सर्पिषा शतधौतेन क्षीरजेन घृतेन वा
निमग्नान्यक्षिपक्ष्माणि यावत्स्युस्तावदेव हि १६६
पूरयेन्मीलिते नेत्रे तत उन्मीलयेच्छनैः
भिषग्भिरेष कथितः पुराणैस्तर्पणो विधिः १६७
यद्रू क्षं परिशुष्कञ्च नेत्रं कुटिलमाविलम्
शीर्णपक्ष्मशिरोत्पातकृच्छ्रोन्मीलनसंयुतम् १६८
तिमिरार्जुन शुक्राद्यैरभिष्यन्दाधिमन्थकैः
शुष्काक्षिपाकशोथाभ्यां युक्तं पवनपर्ययैः
तन्नेत्रं तर्पयेत्सम्यङ् नेत्ररोगविशारदः १६९
तर्पणं धारयेद्वर्त्मरोगे वाचां शतं बुधः १७०
स्वस्थे कफे सन्धिरोगे वाचां पञ्चशतानि च
षट्शतानि कफे कृष्णरोगे सप्तशतानि हि १७१
दृष्टिगे च शतान्यष्टावधिमन्थे सहस्रकम्
सहस्रं वातरोगेषु धार्यमेवं हि तर्पणम् १७२
ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षिशोधयेत्
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः १७३
यथास्वं धूमपानेन कफमस्य विरेचयेत्
एकाहं वा त्र्यहं वाऽपि पञ्चाहं वाऽपि तर्पयेत् १७४
तर्पणे तृप्तिलिङ्गानि नेत्रस्यैतानि लक्षयेत् १७५
सुखसुप्तावबोधत्वं वैशद्यं दृष्टिपाटवम्
निर्वृतिर्व्याधिशान्तिश्च क्रियालाघवमेव च १७६
गुर्वाविलमतिस्निग्धमश्रु कण्डूपदेहवत्
घर्षतोदयुतं नेत्रमतितर्पितमादिशेत् १७७
आस्रावशोफरोगाढ्यमसहं रूपदर्शने
आविलं परुषं रूक्षं नेत्रं स्याद्धीनतर्पितम् १७८
अनयोर्दोषबाहुल्यात् प्रयत्नेन चिकित्सिते
रुक्षस्निग्धोपचाराभ्यामनयोःस्यात्प्रतिक्रिया १७९
दुर्दिनात्युष्णशीतेषु चिन्तायां सम्भ्रमेषु च
अशान्तोपद्र वे वाऽक्ष्णि तर्पणं न प्रशस्यते १८०
द्वे बिल्वे स्निग्धमांसस्य परं द्र व्यपलं मतम्
द्र व्यस्य कुडवोन्मानं सर्वमेकत्र पेषयेत् १८१
तदेकत्र समालोड्य पत्रैः सुपरिवेष्टितम्
पुटपाकविधानेन तत्पक्त्वा तद्र सं बुधः १८२
तर्पणोक्तेन विधिना यथावद्विनियोजयेत्
दृष्टिमध्ये निषेक्तव्यो नित्यमुत्तानशायिनः १८३
तेजांस्यनिलमाकाशमातपं भास्करस्य च
नेक्षेत तर्पिते नेत्रे यश्च वा पुटपाकवान् १८४
अथ सम्पक्वदोषस्य प्राप्तमञ्जनमाचरेत्
अञ्जनं क्रियते येन तद् द्र व्यं चाञ्जनं मतम् १८५
वटिकारसचूर्णानि त्रिविधान्यञ्जनानि हि
कुर्याच्छलाकयाऽङगुल्या हीनानि स्युर्यथोत्तरम् १८६
स्नेहनं रोपणं चापि लेखनं तत्त्रिधा पृथक्
मधुरं स्नेहसम्पन्नमञ्जनं स्नेहनं मतम् १८७
कषायतिक्तरसयुक्सस्नेहं रोपणं स्मृतम्
अञ्जनं क्षारतिक्ताम्लरसैर्लेखनमुच्यते १८८
हरेणुमात्रां कुर्वीत वटीं तीक्ष्णाञ्जने भिषक्
प्रमाणं मध्यमे सार्द्धद्विगुणं तु मृदौ भवेत् १८९
रसक्रिया तूत्तमा स्यात् त्रिविडङ्गमिता मता
मध्यमा द्विविडङ्गा सा हीना त्वेकविडङ्गिका १९०
शलाकाः स्नेहने चूर्णे चतस्रः प्राहुरञ्जने
रोपणे तासु तिस्रः स्युस्ते उभे लेखने स्मृते १९१
मुखयोः कुञ्चिता श्लक्ष्णां शलाकाऽष्टाङ्गुलोन्मिता
अश्मजा धातुजा वा स्यात्कलायपरिमण्डला १९२
सुवर्णरजतोद्भूता शलाका स्नेहने स्मृता
तीव्रलोहाश्मसञ्जाता शलाका लेखने मता
अङ्गुली तु मृदुत्वेन रोपणे कथिता बुधैः १९३
त्रिफालाभृङ्गशुण्ठीनां रसैः शुद्धश्च सर्पिषा १९४
गोमूत्रमध्वजाक्षीरैः सिक्तो नागः प्रतापितः
तच्छलाका हरत्येव सकलान्नेत्रजान्गदान् १९५
कृष्णभागादधः कुर्याद्यावन्नयनमञ्जनम्
हेमन्ते शिशिरे चापि मध्याह्नेऽञ्जनमिष्यते १९६
पूर्वाह्णे वाऽपराह्णे वा ग्रीष्मे शरदि चेष्यते
वर्षास्वदभ्रे नात्युष्णे वसन्ते तु सदैव हि १९७
प्रातः सायन्तु तत्कुर्यान्न च कुर्यात्सदैव हि १९८
श्रान्ते प्ररुदिते भीते पीतमद्ये नवज्वरे
अजीर्णे वेगघाते च नाञ्जनं सम्प्रशस्यते १९९
पथ्याऽक्षधात्रीबीजानि एकद्वित्रिगुणानि च
पिष्ट्वाऽम्बुना वटीं कुर्यादञ्जनं द्विहरेणुकम्
नेत्रस्रावं हरत्याशु वातरक्तरुजं तथा २००
रसाञ्जनं हरिद्रे द्वे मालतीनिम्बपल्लवाः
गोशकृद्र ससंयुक्ता वटी नक्तान्ध्यनाशिनी
एतस्याश्चाञ्जने मात्रा प्रोक्ता सार्द्धं हरेणुका २०१
शङ्खनाभिर्बिभीतस्य मज्जा पथ्या मनः शिला
पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् २०२
छागीक्षीरेण संपिष्य वटीं कुर्याद्यवोन्मिताम्
हरेणुमात्रं संघृष्य जलेनाञ्जनमाचरेत् २०३
तिमिरं मांसवृद्धिञ्च काचं पटलमर्बुदम्
रात्र्यन्ध्यं वार्षिकं पुष्पं वटी चन्द्रो दया जयेत् २०४
पलाशपुष्पस्वरसैर्बहुशः परिभावितम्
करञ्जबीजं तद्वर्त्तिर्दृष्टेः पुष्पं विनाशयेत् २०५
कतकस्य फलं पिष्ट्वा मधुना नेत्रमञ्जयेत्
ईषत्कर्पूरसहितं तत्स्यान्नेत्रप्रसादनम् २०६
रसाञ्जनं सर्जरसो जातीपुष्पं मनःशिला
समुद्र फेनं लवणं गैरिकं मरिचं तथा २०७
एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मनि
अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणाञ्च प्ररोहणम् २०८
दुग्धेन कण्डूं क्षौद्रे ण नेत्रस्रावञ्च सर्पिषा
पुष्प तैलेन तिमिरं काञ्जिकेन निशाऽन्धताम् २०९
पुनर्नवा हरत्याशु भास्करस्तिमिरं यथा २१०
बब्बूलदलनिक्वाथो लेहीभूतस्तदञ्जनात्
नेत्रस्रावो व्रजेच्छोषं मधुयुक्तान्न संशयः २११
वटक्षीरेण संयुक्तं मुख्यकर्पूरजं रजः
क्षिप्रमञ्जनतो हन्ति कुसुमं तु द्विमासिकम् २१२
क्षौद्रा श्वलालासंघृष्टैर्मरिचैर्नेत्रमञ्जयेत्
अतिनिद्रा शमं याति तमः सूर्योदयादिव २१३
अग्नितप्तं हि सौवीरं निषिञ्चेत्त्रिफलारसैः
सप्तवेलं तथा स्तन्यैः स्त्रीणां सिक्तं विचूर्णितम् २१४
अञ्जयेत्तेन नयने प्रत्यहं चक्षुषो हितम्
सर्वानक्षिविकारांस्तु हन्यादेतन्न संशयः २१५
शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा
गृह्णीयात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम् २१६
शुष्कञ्च तज्जलं सर्व पर्पटीसन्निभं भवेत्
विचूर्ण्य भावयेत्सम्यक्त्रिवेलं त्रिफलारसैः २१७
कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत्
अञ्जयन्नेयने तेन नेत्राखिलगदच्छिदा २१८
दक्षाण्डत्वक्छिलाकाचशङ्खचन्दनसैन्धवैः
चूर्णितैरञ्जनं प्रोक्तं पुष्पादीनां निकृन्तनम् २१९
मुक्ताकर्पूरकाचागुरुमरिचकणासैन्धवं सैलवालं
शुण्ठीकक्लोलकांस्यत्रपुरजनिशिलाशङ्खनाभ्यभ्रतुत्थम्
दक्षाण्डत्वक्च साक्षं क्षतजमथ शिवा क्लीतकं राजवर्त्त
जातीपुष्पं तुलस्याः कुसुममभिनवं बीजकं स्यात्तथैव २२०
पूतीकनिम्बार्जुनभद्र मुस्तं सताम्रसारं रसगर्भयुक्तम्
प्रत्येकमेषां खलु माषकैकं यत्नेन पिष्येन्मधुनाऽतिसूक्ष्मम् २२१
भवन्ति रोगा नयनाश्रिता ये नितान्तमात्रोपचिताश्च तेषाम्
विधीयते शान्तिरवश्यमेव मुक्ताऽदिनाऽनेन महाञ्जनेन २२२
कणा सलवणोषणा सहरसाञ्जना साञ्जना
सरित्पतिकफः सिता सितपुनर्नवासम्भवा
रजन्यरुणचन्दनं मधुकतुत्थपथ्याशिला
ह्यरिष्टदलशावरस्फटिकशङ्खनाभीन्दवः २२३
इमानि तु विचूर्णयेन्निबिडवाससा शोधयेत्
तथाऽयसि विमर्दयेत्समधु ताम्रखण्डेन तत्
इदं मुनिभिरीरितं नयनशोणनामाञ्जनं
करोति तिमिरक्षयं पटलपुष्पनाशं बलात् २२४
हरीतकी वचा कुष्ठं पिप्पली मरिचानि च
बिभीतकस्य मज्जा च शङ्खनाभिर्मनः शिला २२५
सर्वमेतत्समं कृत्वा गव्यक्षीरेण पेषयेत्
नाशयेत्तिमिरं कण्डूपटलान्यर्बुदानि च २२६
अपि त्रिवार्षिकं शुक्लं मासेनैकेन नाशयेत्
अधिकानि च मांसानि रात्रावन्धत्वमेव च २२७
रजनी निम्बपत्राणि पिप्पली मरिचानि च
विडङ्गं भद्र मुस्तं च सप्तमीत्वभया स्मृता २२८
अजामूत्रेण सम्पिष्य च्छायायां शोषयेद्वटीम्
वारिणा तिमिरं हन्ति गोमूत्रेण तु पिष्टकम् २२९
मधुना पटलं हन्ति नारीक्षीरेण पुष्पकम्
एषा चन्द्र प्रभा वर्त्तिः स्वयं रुद्रे ण निर्मिता २३०
कणा च्छागयकृन्मध्ये पक्त्वा तद्र सपेषिता
अचिराद्धन्ति नक्तान्ध्यं तद्वत्सक्षौद्र मूषणम् २३१
त्रिफलाया रसं प्रस्थं प्रस्थं भृङ्गरजस्य च
वृषस्य च रसं प्रस्थं शतावर्याश्च तत्समम् २३२
गुडूच्या आमलक्याश्च रसं छागीपयस्तथा
प्रस्थं प्रस्थं समाहृत्य सर्वैरेभिर्घृतं पचेत् २३३
कल्कः कणा सिता द्रा क्षा त्रिफला नीलमुत्पलम्
मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका २३४
तत्साधु सिद्धं विज्ञाय शुभे भाण्डे निधापयेत्
ऊर्द्ध्वं पानमधःपानं मध्ये पानं च शस्यते २३५
यावन्तो नेत्ररोगाः स्युस्तान्पानादपकर्षति
सरक्ते रक्तदुष्टे च रक्ते वा विस्रुते तथा २३६
नक्तान्ध्ये तिमिरे काचे नीलिकापटलार्बुदे
अभिष्यन्देऽधिमन्थे च पक्ष्मकोषे सुदारुणे २३७
नेत्ररोगेषु सर्वेषु दोषत्रयकृतेष्वपि
परं हितमिदं प्रोक्तं त्रिफलाऽद्य महाघृतम् २३८
शतमेकं हरीतक्या द्विगुणञ्च बिभीतकम्
चतुर्गुणं त्वामलकं वृषमार्कवयोः समम् २३९
चतुर्गुणोदकं दत्वा शनैर्मृद्वग्निना पचेत्
भागं चतुर्थं संरक्ष्य क्वाथं तमवतारयेत् २४०
शर्करा मधुकं द्रा क्षा मधुयष्टी निदिग्धिका
काकोली क्षीरकाकोली त्रिफला नागकेशरम् २४१
पिप्पली नन्दनं मुस्तं त्रायमाणा तथोत्पलम्
घृतप्रस्थं समं क्षीरं कल्कैरेतैः शनैः पचेत् २४२
हन्यात्सतिमिरं काचं नक्तान्ध्यं शुल्कमेव च
तथा स्रावं च कण्डूञ्च श्वयथुं च कषायताम् २४३
कलुषत्वं च नेत्रस्य बिन्द्वर्मपटलानि च
बहुनाऽत्र किमुक्तेन सर्वान्नेत्रामयान्हरेत् २४४
यस्य चोपहता दृष्टिः सूर्याग्निभ्यां प्रपश्यतः
तस्यैतद् भेषजं प्रोक्तं मुनिभिः परमं हितम् २४५
मार्जितं दर्पणं यद्वत्परां निर्मलतां व्रजेत्
तद्वदेतेन पीतेन नेत्रं निर्मलतामियात्
वारिद्रो णद्वयं चात्र बृषमार्कवयोस्तुले २४६
वासविश्वाऽमृतादार्वीरक्तचन्दनचित्रकैः
भूनिम्बनिम्बकटुकापटोलत्रिफलाऽम्बुदैः २४७
निशाकलिङ्गकुटजः क्वाथः सर्वाक्षिरोगहा
वैस्वर्यं पीनसं श्वासं कासं नाशयति ध्रुवम् २४७
इति त्रिषष्टितमो नेत्ररोगाधिकारः समाप्तः ६३