भावप्रकाशसंहिता/मध्यखण्डः/चतुर्थः भागः/नासारोगाधिकारः

विकिस्रोतः तः
← कर्णरोगाधिकारः भावप्रकाशसंहिता/मध्यखण्डः/चतुर्थः भागः
नासारोगाधिकारः
श्रीभावमिश्रः
मुखरोगाधिकारः  →


अथ पञ्चषष्टितमो नासारोगाधिकारः ६५
आदौ च पीनसः प्रोक्तः पूतिनस्यस्ततः परम्
नासापाकोऽत्र गणितः पूयशोणितमेव च १
क्षवथुर्भ्रंशथुर्दीप्तिः प्रतीनाहः परिस्रवः
नासाशोषः प्रतिश्यायाः पञ्च सप्तार्बुदानि च २
चत्वार्यर्शांसि चत्वारः शोथाश्चत्वारि तानि च
रक्तपित्तानि नासायां चतुस्त्रिंशद्गदाः स्मृताः ३
आनह्यते शुष्यति यस्य नासा प्रक्लेदमायाति तु धूप्यते च
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येदिह पीनसेन ४
तं चानिलश्लेष्मभवं विकारं ब्रूयात्प्रतिश्यायसमानलिङ्गम् ५
दोषैर्विदग्धैर्गलतालुमूले सन्दूषितो यस्य समीरणस्तु
निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रोगम् ६
घ्राणाश्रितं पित्तमरूषि कुर्याद्यस्मिन्विकारे बलवांश्च पाकः
तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावथवाऽपि यत्र ७
दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तैः
नासा स्रवेत्पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ८
घ्राणाश्रिते मर्मणि सम्प्रदुष्टो यस्यानिलो नासिकया निरेति
कफानुयातो बहुशोऽतिशब्दस्तं रोगमाहुः क्षवथुं गदज्ञाः ९
तीक्ष्णोपयोगादतिजिघ्रतो वा भावान्कटूनर्कनिरीक्षणाद्वा
सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घर्षतेऽन्य क्षवथुर्निरेति १०
प्रभ्रश्यते नासिकया तु यस्य सान्द्रो विदग्धो लवणः कफस्तु
प्राक्सञ्चितो मूर्धनि पित्ततप्ते तं भ्रंशथुं व्याधिमुदाहारन्ति ११
घ्राणे भृशं दाहसमन्विते तु विनिःसरेद् धूम इवेह वायुः
नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिन्तु तं दीप्तिमुदाहरन्ति १२
उच्छ्वासमार्गन्तु कफः सवातो रुन्ध्यात्प्रतीनाहमुदाहरेत्तम् १३
घ्राणाद्घनः पीतसितस्तनुर्वा दोषः स्रवेत्स्रावमुदाहरेत्तम् १४
घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च
कृच्छ्राच्छ्वसित्यूर्ध्वमधश्च जन्तुर्यस्मिन्स नासापरिशोष उक्तः १५
सन्धारणाजीर्णरसोऽतिभाष्यक्रोधर्त्तुवैषम्यशिरोऽभितापैः
सञ्जागरातिस्वपनाम्बुशीतावश्यायकैर्मैथुनवाष्पसेकैः
संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु १६
चयं गता मूर्द्धनि मारुतादयः पृथक्समस्ताश्च तथैव शोणितम्
प्रकुप्यमाणा विविधैः प्रकोपणैस्ततः प्रतिश्यायकरा भवन्ति हि १७
क्षवप्रवृत्तिः शिरसोऽभिपूर्णता स्तम्भोऽङ्गमर्दः परिहृष्टरोमता
उपद्र वाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः १८
आनद्धाऽपिहिता नासा तनुस्रावप्रसेकिनी
गलताल्वोष्टशोषश्च निस्तोदः शंङ्खयोस्तथा
क्षवप्रवृत्तिरत्यर्थं वक्त्रवैरस्यमेव च
भवेत्स्वरोपघातश्च प्रतिश्यायेऽनिलात्मके १९
उष्णः सपीतकः स्रावो घ्राणात्स्रवति पैत्तिके
कृशोऽतिपाण्डुः सन्तप्तो भवेदुष्णाभिपीडितः २०
घ्राणात्कफकृते श्वेतः कफः शीतः स्रवेद् बहुः २१
शुक्लावभासः शूनाक्षो भवेद् गुरुशिरा नरः
गलताल्वोष्ठशिरसां कण्डूभिरतिपीडितः २२
भूत्वा भूत्वा प्रतिश्यायो योऽकस्मात्सन्निवर्त्तते
सम्पक्वो वाऽप्यपक्वो वा स च सर्वभवः स्मृतः २३
प्रक्लिद्यते मुहुर्नासा पुनश्च परिशुष्यति
पुनरानह्यते वाऽपि पुनर्विव्रियते तथा २४
निश्वासो वाऽपि दुर्गन्धो नरो गन्धान्न वेत्ति च
एवं दुष्टं प्रतिश्यायं जानीयात्कृच्छ्रसाधनम् २५
रक्तजे तु प्रतिश्याये रक्तस्रावः प्रवर्त्तते
पित्तप्रतिश्यायकृतैर्लिङ्गैश्चापि समन्वितः २६
ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः
दुर्गन्धोच्छ्वासवक्त्रश्च गन्धानपि न वेत्ति सः २७
सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः
दुष्टतां यान्ति कालेन तदाऽसाध्या भवन्ति च २८
मूर्च्छन्ति कृमयश्चात्र श्वेताः स्निग्धास्तथाऽणवः
कृमिजन्यशिरोरोगैस्तुल्यं तेनात्र लक्षणम् २९
बाधिर्यमान्ध्यमघ्रत्वं घोरांश्च नयनामयान्
शोषाग्निमान्द्यकासांश्च वृद्धाः कुर्वन्ति पीनसाः ३०
अर्बुदं सप्तधा शोथाश्चत्वारोऽशश्चतुर्विधम्
चतुर्विधं रक्तपित्तमुक्तं घ्राणेऽपि तद्विदुः ३१
शिरोगुरुत्वमरुचिर्नासास्रावस्तनुः स्वरः
क्षामःष्ठीवति चाभीक्ष्णमामपीनसलक्षणम् ३२
आमालिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जति
स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम् ३३
सर्वेषु सर्वकालं पीनसरोगेषु जातमात्रेषु
मरिचं गुडेन दध्ना भुञ्जीत नरः सुखं लभते ३४
कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी
एषांचूर्णं कषायं वा दद्यादार्द्र कजैः रसैः ३५
पीनसे स्वरभेदे च तमके च हलीमके
सन्निपाते कफे कासे ज्वरे श्वासे च शस्यते ३६
कलिङ्गहिङ्गुमरिचलाक्षासुरसकट्फलैः
कुष्ठोग्राशिग्रुजन्तुघ्नैरवपीडः प्रशस्यते ३७
व्योषचित्रकतालीसतिन्तिडीकाम्लवेतसम्
सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम् ३८
व्योषादिकमिदं चूर्णं पुराणगुडमिश्रितम्
पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ३९
व्याघ्रीदन्तीवचाशिग्रुसुरसाव्योषसिन्धुजैः
सिद्धं तैलं नासि क्षिप्तं पूतिनासागदापहम् ४०
शिग्रुसिंहीनिकुम्भानां बीजैः सव्योषसैन्धवैः
बिल्वपत्ररसैः सिद्धं तैलं स्यात्पूतिनस्यनुत् ४१
घृतगुग्गुलुमिश्रस्य सिक्थकस्य प्रयत्नतः
धूमं क्षवथुरोगघ्नं भ्रंशथुघ्नञ्च निर्दिशेत् ४२
शुण्ठीकुष्ठकणाबिल्वद्रा क्षाकल्ककषायवत्
तैलं पक्वमथाज्यं वा नस्यात्क्षवथुनाशनम् ४३
नस्यं हितं निम्बरसाञ्जनाभ्यां दीप्ते शिरः स्वेदनमल्पशस्तु
नस्ये कृते क्षीरजलावसेकाञ्छ्वसन्ति भुञ्जीत च मुद्गयूषैः ४४
नासास्रावे घ्राणयोश्चूर्णमुक्तं नाड्या देयं येऽवपीडाश्च पथ्याः
तीक्ष्णान्धूमान्देवदार्वग्निकाभ्यां मांसं त्वाजं पथ्यमत्रादिशन्ति ४५
प्रतिश्यायेषु सर्वेषु गृहं वातविवर्जितम्
वस्त्रेण गुरुणा तेन शिरसो वेष्टनं हितम् ४६
विडङ्गं सैन्धवं हिङ्गु गुग्गुलुः समनःशिलः
बचैतच्चूर्णमाघ्रातं प्रतिश्यायं विनाशयेत् ४७
घृततैलसमायुक्तं शक्तुधूमं पिबेन्नरः
सधूमः त्यात्प्रतिश्यायकासहिक्काहरः परः ४८
प्रतिश्याये पिबेद्धूमं सर्वगन्धसमायुतम्
चातुर्जातकचूर्णं वा घ्रेयं वा कृष्णजीरकम् ४९
पुटपक्वं जयापत्रं तैलंसैन्धवसंयुतम्
प्रतिश्यायेषु सर्वेषु शीलितं परमौषधम् ५०
पिप्पल्यः शिग्रुबीजानि विडङ्गमरिचानि च
अवपीडः प्रशस्तोऽय प्रतिश्यायनिवारणे ५१
शिरसोऽभ्यञ्जनैः स्वेदैर्नस्यैर्मन्दोष्णभोजनैः
वमनैर्घृतपानैश्च तान्यथास्वमुपाचरेत् ५२
कृमिघ्ना ये क्रमाः प्रोक्तास्तान्वै कृमिषु योजयेत्
नावनानि कृमिघ्नानि भेषजानि च बुद्धिमान् ५३
रक्तपित्तानि शोथांश्च तथाऽशास्यर्बुदानि च
नासिकायां स्युरेतेषां स्वं स्वं कुर्याच्चिकित्सितम् ५४
गृहधूमकणा दारुक्षारनक्ताह्वसैन्धवैः
सिद्धं शिखरिबीजैश्च तैलं नासाऽशसां हितम् ५५
इति पञ्चषष्टितमो नासारोगाधिकारः समाप्तः ६५